वैशेषिकदर्शनम्

प्रथमोऽध्यायः प्रथम आह्निकः
अथातो धर्मं व्याख्यास्यामः १
यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः २
तद्वचनादाम्नायस्य प्रामाण्यम् ३
धर्मविशेषप्रसूताद्द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् ४
पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि ५
रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः ६
उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि ७
सदनित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः ८
द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् ९
द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् १०
कर्म कर्मसाध्यं न विद्यते ११
न द्रव्यं कार्यं कारणं च बधति १२
उभयथा गुणाः १३
कार्यविरोधि कर्म १४
क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम् १५
द्रव्याश्रय्यगुणवान्संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् १६
एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्म लक्षणम् १७
द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् १८
तथा गुणः १९
संयोगविभागवेगानां कर्म समानम् २०
न द्रव्याणां कर्म २१
व्यतिरेकात् २२
द्रव्याणां द्रव्यं कार्यं सामान्यम् २३
गुणवैधर्म्यान्न कर्मणां कर्म २४
द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च २५
असमवायात्सामान्यकार्यं कर्म न विद्यते २६
संयोगानां द्रव्यम् २७
रूपाणां रूपम् २८
गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् २९
संयोगविभागाश्च कर्मणाम् ३०
कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् ३१
इति प्रथम आह्निकः

प्रथमोऽध्यायः द्वितीय आह्निकः
कारणाभावात्कार्याभावः १
न तु कार्याभावात्कारणाभावः २
सामान्य विशेष इति बुद्ध्यपेक्षम् ३
भावोऽनुवृत्तेरेव हेतुत्वात्सामान्यमेव ४
द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च ५
अन्यत्रान्त्येभ्यो विशेषेभ्यः ६
सदिति यतो द्रव्यगुणकर्मसु सा सत्ता ७
द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ८
गुणकर्मसु च भावान्न कर्म न गुणः ९
सामान्यविशेषाभावेन च १०
अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् ११
सामान्यविशेषाभावेन च १२
तथा गुणेषु भावाद्गुणत्वमुक्तम् १३
सामान्यविशेषाभावेन च १४
कर्मसु भावात्कर्मत्वमुक्तम् १५
सामान्यविशेषाभावेन च १६
सदिति लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैको भावः १७
इति द्वितीय आह्निकः इति प्रथमोऽध्यायः

द्वितीयोऽध्यायः प्रथम आह्निकः
रूपरसगन्धस्पर्शवती पृथिवी १
रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः २
तेजो रूपस्पर्शवत् ३
स्पर्शवान्वायुः ४
त आकाशे न विद्यन्ते ५
सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् ६
त्रपुसीसलोहरजतसुवर्णानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् ७
विषाणी ककुद्मान्प्रान्तेबालधिः सास्नावानिति गोत्वे दृष्टं लिङ्गम् ८
स्पर्शश्च वायोः ९
न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः १०
अद्रव्यवत्त्वेन द्रव्यम् ११
क्रियावत्त्वाद्गुणवत्त्वाच्च १२
अद्रव्यवत्त्वेन नित्यत्वमुक्तम् १३
वायोर्वायुसम्मूर्च्छनं नानात्वलिङ्गम् १४
वायुसंनिकर्षे प्रत्यक्षाभावाद्दृष्टं लिङ्गं न विद्यते १५
सामान्यतो दृष्टाच्चाविशेषः १६
तस्मादागमिकम् १७
संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् १८
प्रत्यक्षप्रवृत्तत्वात्संज्ञाकर्मणः १९
निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् २०
तदलिङ्गमेकद्रव्यत्वात्कर्मणः २१
कारणान्तरानुकॢप्तिवैधर्म्याच्च २२
संयोगादभावः कर्मणः २३
कारणगुणपूर्वकः कार्यगुणो दृष्टः २४
कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः २५
परत्र समवायात्प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः २६
परिशेषाल्लिङ्गमाकाशस्य २७
द्रव्यत्वनित्यत्वे वायुना व्याख्याते २८
तत्त्वं भावेन २९
शब्दलिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च ३०
तदनुविधानादेकपृथक्त्वं चेति ३१
इति प्रथम आह्निकः

द्वितीयोऽध्यायः द्वितीय आह्निकः
पुष्पवस्त्रयोः सति संनिकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् १
व्यवस्थितः पृथिव्यां गन्धः २
एतेनोष्णता व्याख्याता ३
तेजस उष्णता ४
अप्सु शीतता ५
अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति काललिङ्गानि ६
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ७
तत्त्वं भावेन ८
नित्येष्वभावादनित्येषु भावात्कारणे कालाख्येति ९
इत इदमिति यतस्तद्दिश्यं लिङ्गम् १०
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ११
तत्त्वं भावेन १२
कार्यविशेषेण नानात्वम् १३
आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची १४
तथा दक्षिणा प्रतीची उदीची च १५
एतेन दिगन्तरालानि व्याख्यातानि १६
सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः १७
दृष्टं च दृष्टवत् १८
यथादृष्टमयथादृष्टत्वाच्च १९
विद्याविद्यातश्च संशयः २०
श्रोत्रग्रहणो योऽर्थः स शब्दः २१
तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् २२
एकद्रव्यत्वान्न द्रव्यम् २३
नापि कर्माचाक्षुषत्वात् २४
गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् २५
सतो लिङ्गाभावात् २६
नित्यवैधर्म्यात् २७
अनित्यश्चायं कारणतः २८
न चासिद्धं विकारात् २९
अभिव्यक्तौ दोषात् ३०
संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः ३१
लिङ्गाच्चानित्यः शब्दः ३२
द्वयोस्तु प्रवृत्त्योरभावात् ३३
प्रथमाशब्दात् ३४
सम्प्रतिपत्तिभावाच्च ३५
संदिग्धाः सति बहुत्वे ३६
संख्याभावः सामान्यतः ३७
इति द्वितीय आह्निकः इति द्वितीयोऽध्यायः

तृतीयोऽध्यायः प्रथम आह्निकः
प्रसिद्धा इन्द्रियार्थाः १
इन्द्रियार्थाप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः २
सोऽनपदेशः ३
कारणाज्ञानात् ४
कार्येषु ज्ञानात् ५
अज्ञानाच्च ६
अन्यदेव हेतुरित्यनपदेशः ७
अर्थान्तरं ह्यर्थान्तरस्यानपदेशः ८
संयोगि समवाय्येकार्थसमवायि विरोधि च ९
कार्यं कार्यान्तरस्य १०
विरोध्यभूतं भूतस्य ११
भूतमभूतस्य १२
भूतो भूतस्य १३
प्रसिद्धिपूर्वकत्वादपदेशस्य १४
अप्रसिद्धोऽनपदेशोऽसन्संदिग्धश्चानपदेशः १५
यस्माद्विषाणी तस्मादश्वः १६
यस्माद्विषाणी तस्माद्गौरिति चानैकान्तिकस्योदाहरणम् १७
आत्मेन्द्रियार्थसंनिकर्षाद्यन्निष्पद्यते तदन्यत् १८
प्रवृत्तिनिवृत्तिश्च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् १९
इति प्रथम आह्निकः


तृतीयोऽध्यायः द्वितीय आह्निकः
आत्मेन्द्रियार्थसंनिकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् १
तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते २
प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् ३
प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि ४
तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ५
यज्ञदत्त इति संनिकर्षे प्रत्यक्षाभावाद्दृष्टं लिङ्गं न विद्यते ६
सामान्यतो दृष्टाच्चाविशेषः ७
तस्मादागमिकः ८
अहमिति शब्दस्य व्यतिरेकान्नागमिकम् ९
यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति १०
दृष्ट आत्मनि लिङ्गे एक एव दृढत्वात्प्रत्यक्षवत्प्रत्ययः ११
देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः १२
संदिग्धस्तूपचारः १३
अहमिति प्रत्यगात्मनि भावात्परत्राभावादर्थान्तरप्रत्यक्षः १४
देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कारः १५
संदिग्धस्तूपचारः १६
न तु शरीरविशेषाद्यज्ञदत्तविष्णुमित्रयोर्ज्ञानं विषयः १७
अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद्विशेषसिद्धेर्नागमिकः १८
सुखदुःखज्ञाननिष्पत्त्यविशेषादैकात्म्यम् १९
व्यवस्थातो नाना २०
शास्त्रसामर्थ्याच्च २१
इति द्वितीय आह्निकः इति तृतीयोऽध्यायः

चतुर्थोऽध्यायः प्रथम आह्निकः
सदकारणवन्नित्यम् १
तस्य कार्यं लिङ्गम् २
कारणभावात्कार्यभावः ३
अनित्य इति विशेषतः प्रतिषेधभावः ४
अविद्या ५
महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः ६
सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः ७
अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः ८
तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् ९
तस्याभावादव्यभिचारः १०
संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि ११
अरूपिष्वचाक्षुषाणि १२
एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् १३
इति प्रथम आह्निकः

चतुर्थोऽध्यायः द्वितीय आह्निकः
तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् १
प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात्पञ्चात्मकं न विद्यते २
गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम् ३
अणुसंयोगस्त्वप्रतिषिद्धः ४
तत्र शरीरं द्विविधं योनिजमयोनिजं च ५
अनियतदिग्देशपूर्वकत्वात् ६
धर्मविशेषाच्च ७
समाख्याभावाच्च ८
संज्ञाया अनादित्वात् ९
सन्त्ययोनिजाः १०
वेदलिङ्गाच्च ११
इति द्वितीय आह्निकः इति चतुर्थोऽध्यायः

पञ्चमोऽध्यायः प्रथम आह्निकः
आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म १
तथा हस्तसंयोगाच्च मुसले कर्म २
अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः ३
तथात्मसंयोगो हस्तकर्मणि ४
अभिघातान्मुसलसंयोगाद्धस्ते कर्म ५
आत्मकर्म हस्तसंयोगाच्च ६
संयोगाभावे गुरुत्वात्पतनम् ७
नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम् ८
प्रयत्नविशेषान्नोदनविशेषः ९
नोदनविशेषादुदसनविशेषः १०
हस्तकर्मणा दारककर्म व्याख्यातम् ११
तथा दग्धस्य विस्फोटने १२
प्रयत्नाभावे प्रसुप्तस्य चलनम् १३
तृणे कर्म वायुसंयोगात् १४
मणिगमनं सूच्यभिसर्पणमदृष्टकारणम् १५
इषावयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः १६
नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च १७
संस्काराभावे गुरुत्वात्पतनम् १८
इति प्रथम आह्निकः

पञ्चमोऽध्यायः द्वितीय आह्निकः
नोदनापीडनात्संयुक्तसंयोगाच्च पृथिव्यां कर्म १
तद्विशेषेणादृष्टकारितम् २
अपां संयोगाभावे गुरुत्वात्पतनम् ३
द्रवत्वात्स्यन्दनम् ४
नाड्यो वायुसंयोगादारोहणम् ५
नोदनापीडनात्संयुक्तसंयोगाच्च ६
वृक्षाभिसर्पणमित्यदृष्टकारितम् ७
अपां संघातो विलयनं च तेजःसंयोगात् ८
तत्र विस्फूर्जथुर्लिङ्गम् ९
वैदिकं च १०
अपां संयोगाद्विभागाच्च स्तनयित्नोः ११
पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् १२
अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसंश्चाद्यकर्मादृष्टकारितम् १३
हस्तकर्मणा मनसः कर्म व्याख्यातम् १४
आत्मेन्द्रियमनोऽर्थसंनिकर्षात्सुखदुःखम् १५
तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखाभावः संयोगः १६
अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि १७
तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः १८
द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः १९
तेजसो द्रव्यान्तरेणावरणाच्च २०
दिक्कालावाकाशं च क्रियावद्वैधर्म्यान्निष्क्रियाणि २१
एतेन कर्माणि गुणाश्च व्याख्याताः २२
निष्क्रियाणां समवायः कर्मभ्यो निषिद्धः २३
कारणं त्वसमवायिनो गुणाः २४
गुणैर्दिग्व्याख्याता २५
कारणेन कालः २६
इति द्वितीय आह्निकः इति पञ्चमोऽध्यायः

षष्ठोऽध्यायः प्रथम आह्निकः
बुद्धिपूर्वा वाक्यकृतिर्वेदे १
ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् २
बुद्धिपूर्वो ददातिः ३
तथा प्रतिग्रहः ४
आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात् ५
तद्दुष्टभोजने न विद्यते ६
दुष्टं हिंसायाम् ७
तस्य समभिव्याहारतो दोषः ८
तददुष्टे न विद्यते ९
पुनर्विशिष्टे प्रवृत्तिः १०
समे हीने वा प्रवृत्तिः ११
एतेन हीनसमविशिष्टधार्मिकेभ्यः परस्वादानं व्याख्यातम् १२
तथा विरुद्धानां त्यागः १३
हीने परे त्यागः १४
समे आत्मत्यागः परत्यागो वा १५
विशिष्टे आत्मत्याग इति १६
इति प्रथम आह्निकः

षष्ठोऽध्यायः द्वितीय आह्निकः
दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय १
अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदान-
प्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय २
चातुराश्रम्यमुपधा अनुपधाश्च ३
भावदोष उपधादोषोऽनुपधा ४
यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि ५
अशुचीति शुचि प्रतिषेधः ६
अर्थान्तरं च ७
अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद्विद्यते वार्थान्तरत्वाद्यमस्य ८
असति चाभावात् ९
सुखाद्रागः १०
तन्मयत्वाच्च ११
अदृष्टाच्च १२
जातिविशेषाच्च १३
इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः १४
तत्संयोगो विभागः १५
आत्मगुणकर्मसु मोक्षो व्याख्यातः १६
इति द्वितीय आह्निकः इति षष्ठोऽध्यायः

सप्तमोऽध्यायः प्रथम आह्निकः
उक्ता गुणाः १
पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च २
एतेन नित्येषु नित्यत्वमुक्तम् ३
अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् ४
अनित्येष्वनित्या द्रव्यानित्यत्वात् ५
कारणगुणपूर्वकाः पृथिव्यां पाकजाः ६
एकद्रव्यत्वात् ७
अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते ८
कारणबहुत्वाच्च ९
अतो विपरीतमणु १०
अणु महदिति तस्मिन्विशेषभावाद्विशेषाभावाच्च ११
एककालत्वात् १२
दृष्टान्ताच्च १३
अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः १४
कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः १५
अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः १६
एतेन दीर्घत्वह्रस्वत्वे व्याख्याते १७
अनित्येऽनित्यम् १८
नित्ये नित्यम् १९
नित्यं परिमण्डलम् २०
अविद्या च विद्यालिङ्गम् २१
विभवान्महानाकाशस्तथा चात्मा २२
तदभावादणु मनः २३
गुणैर्दिग्व्याख्याता २४
कारणे कालः २५
इति प्रथम आह्निकः

सप्तमोऽध्यायः द्वितीय आह्निकः
रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् १
तथा पृथक्त्वम् २
एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ३
निःसंख्यत्वात्कर्मगुणानां सर्वैकत्वं न विद्यते ४
भ्रान्तं तत् ५
एकत्वाभावाद्भक्तिस्तु न विद्यते ६
कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते ७
एतदनित्ययोर्व्याख्यातम् ८
अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः ९
एतेन विभागो व्याख्यातः १०
संयोगविभागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः ११
कर्मभिः कर्माणि गुणैर्गुणा अणुत्वमहत्त्वाभ्यामिति १२
युतसिद्ध्यभावात्कार्यकारणयोः संयोगविभागौ न विद्येते १३
गुणत्वात् १४
गुणोऽपि विभाव्यते १५
निष्क्रियत्वात् १६
असति नास्तीति च प्रयोगात् १७
शब्दार्थावसम्बन्धौ १८
संयोगिनो दण्डात्समवायिनो विशेषाच्च १९
सामयिकः शब्दादर्थप्रत्ययः २०
एकदिक्काभ्यामेककालाभ्यां संनिकृष्टविप्रकृष्टाभ्यां परमपरं च २१
कारणपरत्वात्कारणापरत्वाच्च २२
परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः २३
कर्मभिः कर्माणि २४
गुणैर्गुणाः २५
इहेदमिति यतः कार्यकारणयोः स समवायः २६
द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः २७
तत्त्वं भावेन २८
इति द्वितीय आह्निकः इति सप्तमोऽध्यायः

अष्टमोऽध्यायः प्रथम आह्निकः
द्रव्येषु ज्ञानं व्याख्यातम् १
तत्रात्मा मनश्चाप्रत्यक्षे २
ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः ३
गुणकर्मसु संनिकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणम् ४
सामान्यविशेषेषु सामान्यविशेषाभावात्तदेव ज्ञानम् ५
सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ६
द्रव्ये द्रव्यगुणकर्मापेक्षम् ७
गुणकर्मसु गुणकर्माभावाद्गुणकर्मापेक्षं न विद्यते ८
समवायिनः श्वैत्याच्छ्वैत्यबुद्धेश्च श्वेते बुद्धिस्ते एते कार्यकारणभूते ९
द्रव्येष्वनितरेतरकारणाः १०
कारणायौगपद्यात्कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात् ११
इति प्रथम आह्निकः

अष्टमोऽध्यायः द्वितीय आह्निकः
अयमेष त्वया कृतं भोजयैनमिति बुद्ध्यपेक्षम् १
दृष्टेषु भावाददृष्टेष्वभावात् २
अर्थ इति द्रव्यगुणकर्मसु ३
द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् ४
भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः ५
तथापस्तेजो वायुश्च रसरूपस्पर्शाविशेषात् ६
इति द्वितीय आह्निकः इत्यष्टमोऽध्यायः

नवमोऽध्यायः प्रथम आह्निकः
क्रियागुणव्यपदेशाभावात्प्रागसत् १
सदसत् २
असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् ३
सच्चासत् ४
यच्चान्यदसदतस्तदसत् ५
असदिति भूतप्रत्यक्षाभावाद्भूतस्मृतेर्विरोधिप्रत्यक्षवत् ६
तथाभावे भावप्रत्यक्षत्वाच्च ७
एतेनाघटोऽगौरधर्मश्च व्याख्यातः ८
अभूतं नास्तीत्यनर्थान्तरम् ९
नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः १०
आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् ११
तथा द्रव्यान्तरेषु प्रत्यक्षम् १२
असमाहितान्तःकरणा उपसंहृतसमाधयस्तेषाञ्च १३
तत्समवायात्कर्मगुणेषु १४
आत्मसमवायादात्मगुणेषु १५
इति प्रथम आह्निकः

नवमोऽध्यायः द्वितीय आह्निकः
अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम् १
अस्येदं कार्यकारणसम्बन्धश्चावयवाद्भवति २
एतेन शाब्दं व्याख्यातम् ३
हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् ४
अस्येदं बुद्ध्यपेक्षितत्वात् ५
आत्ममनसोः संयोगविशेषात्संस्काराच्च स्मृतिः ६
तथा स्वप्नः ७
स्वप्नान्तिकम् ८
धर्माच्च ९
इन्द्रियदोषात्संस्कारदोषाच्चाविद्या १०
तद्दुष्टज्ञानम् ११
अदुष्टं विद्या १२
आर्षं सिद्धदर्शनं च धर्मेभ्यः १३
इति द्वितीय आह्निकः इति नवमोऽध्यायः

दशमोऽध्यायः प्रथम आह्निकः
इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः १
संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः २
तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् ३
अभूदित्यपि ४
सति च कार्यादर्शनात् ५
एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् ६
एकदेशे इत्येकस्मिञ्शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्यः ७
इति प्रथम आह्निकः

दशमोऽध्यायः द्वितीय आह्निकः
कारणमिति द्रव्ये कार्यसमवायात् १
संयोगाद्वा २
कारणे समवायात्कर्माणि ३
तथा रूपे कारणैकार्थसमवायाच्च ४
कारणसमवायात्संयोगः पटस्य ५
कारणकारणसमवायाच्च ६
संयुक्तसमवायादग्नेर्वैशेषिकम् ७
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय ८
तद्वचनादाम्नायस्य प्रामाण्यमिति ९

इति द्वितीय आह्निकः
इति दशमोऽध्यायः


इति वैशेषिकदर्शनम्