उत्तरस्थान

श्रीमद्वाग्भटविरचिते
अष्टाङ्गहृदये उत्तरस्थानम्
प्रथमोऽध्यायः
अथातो बालोपचरणीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
जातमात्रं विशोध्योल्बाद्बालं सैन्धवसर्पिषा
प्रसूतिक्लेशितं चानु बलातैलेन सेचयेत् १
अश्मनोर्वादनं चास्य कर्णमूले समाचरेत्
अथास्य दक्षिणे कर्णे मन्त्रमुच्चारयेदिमम् २
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे
आत्मा वै पुत्रनामासि सञ्जीव शरदां शतम् ३
शतायुः शतवर्षोऽसि दीर्घमायुरवाप्नुहि
नक्षत्राणि दिशो रात्रिरहश्च त्वाऽभिरक्षतु ४
स्वस्थीभूतस्य नाभिं च सूत्रेण चतुरङ्गुलात्
बद्ध्वोर्ध्वं वर्धयित्वा च ग्रीवायामवसञ्जयेत् ५
नाभिं च कुष्टतैलेन सेचयेत्स्नापयेदनु
क्षीरिवृक्षकषायेण सर्वगन्धोदकेन वा ६
कोष्णेन तप्तरजततपनीयनिमज्जनैः
ततो दक्षिणतर्जन्या तालून्नम्यावगुण्ठयेत् ७
शिरसि स्नेहपिचुना प्राश्यं चास्य प्रयोजयेत्
हरेणुमात्रं मेधायुर्बलार्थमभिमन्त्रितम् ८
एन्द्री ब्राह्मीवचाशङ्खपुष्पीकल्कं घृतं मधु
चामीकरवचाब्राह्मीताप्यपथ्या रजीकृताः ९
लिह्यान्मधुघृतोपेता हेमधात्रीरजोऽथवा
गर्भाम्भः सैन्धववता सर्पिषा वामयेत्ततः १०
पाजापत्येन विधिना जातकर्माणि कारयेत्
सिराणां हृदयस्थानां विवृतत्वात् प्रसूतितः ११
तृतीयेऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते
प्रथमे दिवसे तस्मात्त्रिकालं मधुसर्पिषी १२
अनन्तामिश्रिते मन्त्रपाविते प्राशयेच्छिशुम्
द्वितीये लक्ष्मणासिद्धं तृतीये च घृतं ततः १३
प्राङ्निषिद्धस्तनस्यास्य तत्पाणितलसम्मितम्
स्तन्यानुपानं द्वौ कालौ नवनीतं प्रयोजयेत् १४
मातुरेव पिबेत्स्तन्यं तद्ध्य्लं देहवृद्धये
स्तन्यधात्र्यावुभे कार्ये तदसम्पदि वत्सले १५
अव्यङ्गे ब्रह्मचारिण्यौ वर्णप्रकृतितः समे
नीरुजे मध्यवयसौ जीवद्वत्से न लोलुपे १६
हिताहारविहारेण यत्नादुपचरेच्च ते
शुक्क्रोधलङ्घनायासाः स्तन्यनाशस्य हेतवः १७
स्तन्यस्य सीधुवर्ज्यानि मद्यान्यानूपजा रसाः
क्षीरं क्षीरिण्य ओषध्यः शोकादेश्च विपर्ययः १८
विरुद्धाहारभुक्तायाः क्षुधिताया विचेतसः
प्रदुष्टधातोर्गर्भिण्याः स्तन्यं रोगकरं शिशोः १९
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत्
ह्रस्वेन पञ्चमूलेन स्थिराभ्यां वा सितायुतम् २०
षष्ठीं निशां विशेषेण कृतरक्षाबलिक्रियाः
जागृयुर्बान्धवास्तस्य दधतः परमां मुदम् २१
दशमे दिवसे पूर्णे विधिभिः स्वकुलोचितैः
कारयेत्सूतिकोत्थानं नाम बालस्य चार्चितम् २२
विभ्रतोऽङ्गैर्मनोह्वालरोचना गुरुचन्दनम्
नक्षत्रदेवतायुक्तं बान्धवं वा समाक्षरम् २३
ततः प्रकृतिभेदोक्तरूपैरायुःपरीक्षणम्
प्रागुदक्शिरसः कुर्यात् बालस्य ज्ञानवान् भिषक् २४
शुचिधौतोपधानानि निर्वलीनि मृदूनि च
शय्यास्तरणवासांसि रक्षोघ्नैर्धूपितानि च २५
काको विशस्तः शस्तश्च धूपने त्रिवृतान्वितः
जीवत्खङ्गादिशृङ्गोत्थान् सदा बालः शुभान् मणीन् २६
धारयेदौषधीः श्रेष्ठा ब्राह्म्यैन्द्री जीवकादिकाः
हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात्सततं वचाम् २७
आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोभिरक्षिणीम्
षट्सप्ताष्टममासेषु नीरुजस्य शुभेऽहनि २८
कर्णौ हिमागमे विध्येद्धात्र्यङ्कस्थस्य सान्त्वयन्
प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः २९
दक्षिणेन दधत्सूचीं पालिमन्येन पाणिना
मध्यतः कर्णपीठस्य किञ्चिद्गण्डाश्रयं प्रति ३०
जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते
घृतस्य निश्चलं सम्यगलक्तकरसाङ्किते ३१
विध्येद्दैवकृते छिद्रे सकृदेवर्जु लाघवात्
नोर्ध्वं न पार्श्वतो नाधः शिरास्तत्र हि संश्रिताः ३२
कालिकामर्मरीरक्ता स्तद्व्यधाद्रा गरुग्ज्वराः
सशोफदाहसंरम्भमन्या स्तम्भापतानकाः ३३
तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम्
स्थाने व्यधान्न रुधिरं न रुग्रागादिसम्भवः ३४
स्नेहाक्तं सूच्यनुस्यूतं सूत्रं चानु निधापयेत्
आमतैलेन सिञ्चेच्च बहलां तद्वदारया ३५
विध्येत्पालद्यं हितभुजः सञ्चार्याऽथ स्थवीयसी
वर्तिस्त्र्यहात्ततो रुढं वर्धयेत शनैः शनैः ३६
अथैनं जातदशनं क्रमेणापनयेत्स्तनात्
पूर्वोक्तं योजयेत्क्षीरमन्नं च लघु बृंहणम् ३७
प्रियालमज्जमधुक मधुलाजसितोपलैः
अपस्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः ३८
दीपनो बालबिल्वैलाशर्करालाजसक्तुभिः
सङ्ग्राही धातुकीपुष्पशर्करालाजतर्पणैः ३९
रोगांश्चास्य जयेत्सौम्यैर्भेषजैरविषादकैः
अन्यत्रात्ययिकाद्व्याधेर्विरेकं सुतरां त्यजेत् ४०
त्रासयेन्नाविधेयं तं त्रस्तं गृह्णन्तिहि ग्रहाः
वस्त्रवातात् परस्पर्शात् पालयेल्लङ्घनाच्च तम् ४१
ब्राह्मीसिद्धार्थकवचासारिवा कुष्ठसैन्धवैः
सकणैः साधितं पीतं वाङ्मेधास्मृतिकृद् घृतम् ४२
आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम्
वचेन्दुलेखामण्डूकी शङ्खपुष्पीशतावरीः ४३
ब्रह्मसोमामृताब्राह्मीः कल्कीकृत्य पलांशिकाः
अष्टाङ्गं विपचेत्सर्पिः प्रस्थं क्षीरचतुर्गुणम् ४४
तत्पीतं धन्यमायुष्यं वाङ्मेधास्मृतिबुद्धिकृत्
अजाक्षीराभयाव्योषपाठोग्राशिग्रुसैन्धवैः ४५
सिद्धं सारस्वतं सर्पिर्वाङ्मेधास्मृतिवह्निकृत्
वचामृताशठीपथ्याशङ्खिनीवेल्लनागरैः ४६
अपामार्गेण च घृतं साधितं पूर्ववद्गुणैः
हेम श्वेतवचा कुष्ठमर्कपुष्पी सकाञ्चना ४७
हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा
चत्वार एते पादोक्ताः प्राशा मधुघृतप्लुताः ४८
वर्षं लीढा वपुर्मेधाबलवर्णकराः शुभाः
वचायष्ट्याह्वसिन्धूत्थपथ्यानागरदीप्यकैः ४९
शुद्ध्य्ते वाग्घविर्लीढैः सकुष्ठकणजीरकैः ४९॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने बालोपचरणीयो नाम प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातो बालामयप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
त्रिविधः कथितो बालः क्षीरान्नोभयवर्तनः
स्वास्थ्यं ताभ्यामदुष्टाभ्यां दुष्टाभ्यां रोगसम्भवः १
यदद्भिरेकतां याति न च दोषैरधिष्ठितम्
तद्विशुद्धं पयो वाताद्दुष्टं तु प्लवतेऽम्भसि २
कषायं फेनिलं रूक्षं वर्चोमूत्रविबन्धकृत्
पित्तादुष्णाम्लकटुकं पीतराज्यप्सु दाहकृत् ३
कफात्सलवणं सान्द्रं जले मज्जति पिच्छिलम्
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् ४
यथास्वलिङ्गांस्तद्व्याधीन् जनयत्युपयोजितम्
शिशोस्तीक्ष्णमभीक्ष्णं च रोदनाल्लक्षयेद्रुजम् ५
स यं स्पृशेद्भृशं देशं यत्र च स्पर्शनाक्षमः
तत्र विद्याद्रुजं मूर्ध्नि रुजं चाक्षिनिमीलनात् ६
हृदि जिह्वौष्ठदशनश्वासमुष्टिनिपीडनैः
कोष्ठे विबन्धवमथुस्तनदंशान्त्रकूजनैः ७
आध्मानपृष्ठनमन जठरोन्नमनैरपि
बस्तौ गुह्ये च विण्मूत्रसङ्गोत्त्रासदिगीक्षणैः ८
अथ धात्र्याः क्रियां कुर्याद्यथादोषं यथामयम्
तत्र वातात्मके स्तन्ये दशमूलं त्र्यहं पिबेत् ९
अथवाऽग्निवचापाठाकटुका कुष्ठदीप्यकम्
सभार्गीदारुसरलवृश्चि कालीकणोषणम् १०
ततः पिबेदन्यतमं वातव्याधिहरं घृतम्
अनु चाच्छसुरामेवं स्निग्धां मृदु विरेचयेत् ११
बस्तिकर्म ततः कुर्यात्स्वेदादींश्चानिलापहान्
रास्नाजमोदासरल देवदारुरजोन्वितम् १२
बालो लिह्याद् घृतं तैर्वा विपक्वं ससितोपलम्
पित्तदुष्टेऽमृताभीरुपटोली निम्बचन्दनम् १३
धात्री कुमारश्च पिबेत् क्वाथयित्वा ससारिवम्
अथवा त्रिफलामुस्तभूनिम्बकटुरोहिणीः १४
सारिवादिं पटोलादिं पद्मकादि तथा गणम्
घृतान्येभिश्च सिद्धानि पित्तघ्नं च विरेचनम् १५
शीतांश्चाभ्यङ्गलेपादीन् युञ्ज्याच्छ्लेष्मात्मके पुनः
यष्ट्याह्वसैन्धवयुतं कुमारं पाययेद् घृतम् १६
सिन्धूत्थपिप्पलीमद्वा पिष्टैः क्षौद्र युतैरथ
राठपुष्पैः स्तनौ लिम्पेच्छिशोश्च दशनच्छदौ १७
सुखमेवं वमेद्बालस्तीक्ष्णैर्धात्रीं तु वामयेत्
अथाचरितसंसर्गी मुस्तादिं क्वथितं पिबेत् १८
तद्वत्तगरपृथ्वीका सुरदारुकलिङ्गकान्
अथवाऽतिविषामुस्तषड्ग्रन्थापञ्चकोलकम् १९
स्तन्ये त्रिदोषमलिने दुर्गन्ध्यामं जलोपमम्
विबद्धमच्छं विच्छिन्नं फेनिलं चोपवेश्यते २०
शकृन्नानाव्यथावर्णं मूत्रं पीतं सितं घनम्
ज्वरारोचकतृट्छर्दिशुष्कोद्गारविजृम्भिकाः २१
अङ्गभङ्गोऽङ्गविक्षेपः कूजनं वेपथुर्भ्रमः
घ्राणाक्षिमुखपाकाद्या जायन्तेऽन्येऽपि तं गदम् २२
क्षीरालसकमित्याहुरत्ययं चातिदारुणम्
तत्राशु धात्रीं बालं च वमनेनोपपादयेत् २३
विहितायां च संसर्ग्यां वचादिं योजयेद्गणम्
निशादिं वाऽथवा माद्री पाठातिक्ताघनामयान् २४
पाठाशुण्ठ्यमृतातिक्ततिक्ता देवाह्वसारिवाः
समुस्तमूर्वेन्द्र यवाः स्तन्यदोषहराः परम् २५
अनुबन्धे यथाव्याधि प्रतिकुर्वीत कालवित्
दन्तोद्भेदश्च रोगाणां सर्वेषामपि कारणम् २६
विशेषाज्ज्वरविड्भेद कासच्छर्दिशिरोरुजाम्
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते २७
पृष्ठभङ्गे विडालानां बर्हिणां च शिखोद्गमे
दन्तोद्भेदे च बालानां न हि किञ्चिन्न दूयते २८
यथादोषं यथारोगं यथोद्रे कं यथाभयम्
विभज्य देशकालादींस्तत्र योज्यं भिषग्जितम् २९
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च यत्
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी ३०
सौकुमार्याल्पकायत्वात् सर्वान्नानुपसेवनात्
स्निग्धा एव सदा बाला घृतक्षीरनिषेवणात् ३१
सद्यस्तान् वमनं तस्मात् पाययेन्मतिमान् मृदु
स्तन्यस्य तृप्तं वमयेत् क्षीरक्षीरान्नसेविनम् ३२
पीतवन्तं तनुं पेयामन्नादं घृतसंयुताम्
बस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम् ३३
युञ्ज्याद्विरेचनादींस्तु धात्र्या एव यथोदितान्
मूर्वाव्योषवराकोलजम्बूत्वक्दारुसर्षपाः ३४
सपाठा मधुना लीढाः स्तन्यदोषहराः परम्
दन्तपालद्यं समधुना चूर्णेन प्रतिसारयेत् ३५
पिप्पल्या धातकीपुष्पधात्रीफलकृतेन वा
लावतित्तिरिवल्लूररजः पुष्परसद्रुतम् ३६
द्रुतं करोति बालानां दन्तकेसरवन्मुखम्
वचाद्विबृहतीपाठाकटुकातिविषाघनैः ३७
मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि
रजनीदारुसरलश्रेयसी बृहतीद्वयम् ३८
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा
ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम् ३९
अतीसारज्वरश्वासकामला पाण्डुकासनुत्
बालस्य सर्वरोगेषु पूजितं बलवर्णदम् ४०
समङ्गाधातकीरोध्रकुटन्नट बलाद्बयैः
महासहाक्षुद्र सहामुद्ग बिल्वशलाटुभिः ४१
सकार्पासीफलैस्तोये साधितैः साधितं घृतम्
क्षीरमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान् ४२
विविधानामयानेतद्वृद्ध काश्यपनिर्मितम्
दन्तोद्भवेषु रोगेषु न बालमतियन्त्रयेत् ४३
स्वयमप्युपशाम्यन्ति जातदन्तस्य यद्गदाः
अत्यहःस्वप्नशीताम्बुश्लैष्मिकस्तन्यसेविनः ४४
शिशोः कफेन रुद्धेषु स्रोतःसु रसवाहिषु
अरोचकः प्रतिश्यायो ज्वरः कासश्च जायते ४५
कुमारः शुष्यति ततः स्निग्धशुक्लमुखेक्षणः
सैन्धवव्योषशार्ङ्गेष्टापाठागिरिकदम्बकान् ४६
शुष्यतो मधुसर्पिर्भ्यामरुच्यादिषु योजयेत्
अशोकरोहिणीयुक्तं पञ्चकोलं च चूर्णितम् ४७
बदरीधातकीधात्रीचूर्णं वा सर्पिषा द्रुतम्
स्थिरावचाद्विबृहतीकाकोलीपिप्पलीनतैः ४८
निचुलोत्पलवर्षाभूभार्गीमुस्तैश्च कार्षिकैः
सिद्धं प्रस्थार्धमाज्यस्य स्रोतसां शोधनं परम् ४९
सिंह्यश्वगन्धासुरसाकणागर्भं च तद्गुणम्
यष्ट्याह्वपिप्पलीरोध्रपद्म कोत्पलचन्दनैः ५०
तालीससारिवाभ्यां च साधितं शोषजिद्घृतम्
शृङ्गीमधूलिकाभार्गीपिप्पली देवदारुभिः ५१
अश्वगन्धाद्विकाकोलीरास्नर्षभ कजीवकैः
शूर्पपर्णीविडङ्गैश्च कल्कितैः साधितं घृतम् ५२
शशोत्तमाङ्गनिर्यूहे शुष्यतः पुष्टिकृत्परम्
वचावयःस्थातगरकायस्थाचोरकैः शृतम् ५३
बस्तमूत्रसुराभ्यां च तैलमभ्यञ्जने हितम्
लाक्षारससमं तैलप्रस्थं मस्तु चतुर्गुणम् ५४
अश्वगन्धानिशादारुकौन्ती कुष्ठाब्दचन्दनैः
समूर्वारोहिणीरास्नाशताह्वामधुकैः समैः ५५
सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिदम्
बल्यं ज्वरक्षयोन्मादश्वासापस्मारवातनुत् ५६
यक्षराक्षसभूतघ्नं गर्भिणीनां च शस्यते
मधुनाऽतिविषाशृङ्गीपिप्पलीर्लेहयेच्छिशुम् ५७
एकां वाऽतिविषां कासज्वरच्छर्दिरुपद्रुतम्
पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा ५८
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत्
पिप्पलीपञ्चलवणं कृमिजित्पारिभद्र कम् ५९
तद्वल्लिह्यात्तथा व्योषं मषीं वा रोमचर्मणाम्
लाभतः शल्यकश्वाविद्गोधर्क्षशिखिजन्मनाम् ६०
खदिरार्जुनतालीस कुष्ठचन्दनजे रसे
सक्षीरं साधितं सर्पिर्वमथुं विनियच्छति ६१
हनुमूलगतो वायुर्दन्तदेशास्थिगोचरः
यदा शिशोः प्रकुपितो नोत्तिष्ठन्ति तदा द्विजाः १
रूक्षाशिनो वातिकस्य चालयत्यनिलः शिराः
हन्वाश्रयाः प्रसुप्तस्य दन्तैः शब्दं करोत्यतः २
सदन्तो जायते यस्तु दन्ताः प्राग्यस्य चोत्तराः
कुर्वीत तस्मिन्नुत्पाते शान्तिं तं च द्विजातये ६२
दद्यात्सदक्षिणं बालं नैगमेषं च पूजयेत्
तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम् ६३
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते
तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्र वम् ६४
तृडास्यकण्ड्वक्षिरुजा ग्रीवादुर्धरता वमिः
तत्रोत्क्षिप्य यवक्षारक्षौद्रा भ्यां प्रतिसारयेत् ६५
तालु तद्वत्कणाशुण्ठीगोशकृद्र ससैन्धवैः
शृङ्गबेरनिशाभृङ्गं कल्कितं वटपल्लवैः ६६
बध्वा गोशकृता लिप्तं कुकूले स्वेदयेत्ततः
रसेन लिम्पेत्ताल्वास्यं नेत्रे च परिषेचयेत् ६७
हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम्
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् ६८
मलोपलेपात्स्वेदाद्वा गुदे रक्तकफोद्भवः
ताम्रो व्रणोऽन्त कण्डूमान् जायते भूर्युपद्र वः ६९
केचित्तं मातृकादोषं वदन्त्यन्येऽहिपूतनम्
पृष्टारुर्गुदकुट्टं च केचिच्च तमनामिकम् ७०
तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः
शृतशीतं च शीताम्बुयुक्तमन्तरपानकम् ७१
सक्षौद्र तार्क्ष्यशैलेन व्रणं तेन च लेपयेत्
त्रिफलाबदरीप्लक्षत्वक्क्वाथपरिषेचितम् ७२
कासीसरोचनातुत्थमनोह्वालरसाञ्जनैः
लेपयेदम्लपिष्टैर्वा चूर्णितैर्वाऽवचूर्णयेत् ७३
सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः
सारिवाशङ्खनाभिभ्यामसनस्य त्वचाऽथवा ७४
रागकण्डूत्कटे कुर्याद्र क्तस्रावं जलौकसा
सर्वं च पित्तव्रणजिच्छस्यते गुदकुट्टके ७५
पाठावेल्लद्विरजनीमुस्तभार्गी पुनर्नवैः
सबिल्वत्र्यूषणैः सर्पिर्वृश्चिकालीयुतैः शृतम् ७६
लिहानो मात्रया रोगैर्मुच्यते मृत्तिकोद्भवैः
व्याधेर्यद्यस्य भैषज्यं स्तनस्तेन प्रलेपितः
स्थितो मुहूर्तं धौतोऽनु पीतस्तं तं जयेद्गदम् ७७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायांषष्ठे उत्तरस्थाने बालामयप्रतिषेधो नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथातो बालग्रहप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
पुरा गुहस्य रक्षार्थं निर्मिताः शूलपाणिना
मनुष्यविग्रहाः पञ्च सप्त स्त्रीविग्रहा ग्रहाः १
स्कन्दो विशाखो मेषाख्यः श्वग्रहः पितृसंज्ञितः
शकुनिः पूतना शीतपूतनाऽदृष्टिपूतना २
मुखमण्डितिका तद्वद्रे वती शुष्करेवती
तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः ३
सामान्यं रूपमुत्त्रासजृम्भाभ्रूक्षेपदीनताः
फेनस्रावोर्ध्वदृष्ट्योष्ठ दन्तदंशप्रजागराः ४
रोदनं कूजनं स्तन्यविद्वेषः स्वरवैकृतम्
नखैरकस्मात्परितः स्वधात्र्यङ्गविलेखनम् ५
तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः
हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः ६
दन्तखादी स्तनद्वेषी त्रस्यन् रोदिति विस्वरम्
वक्रवक्त्रो वमन् लालां भृशमूर्ध्वं निरीक्षते ७
वसासृग्गन्धिरुद्विग्नो बद्धमुष्टिशकृच्छिशुः
चलितैकाक्षिगण्डभ्रूः संरक्तोभयलोचनः ८
स्कन्दार्तस्तेन वैकल्यं मरणं वा भवेद् ध्रुवम्
संज्ञानाशो मुहुः केशलुञ्चनं कन्धरानतिः ९
विनम्य जृम्भमाणस्य शकृन्मूत्रप्रवर्तनम्
फेनोद्वमनमूर्ध्वेक्षा हस्तभ्रूपादनर्तनम् १०
स्तनस्वजिह्वासन्दंश संरम्भज्वरजागराः
पूयशोणितगन्धश्च स्कन्दापस्मारलक्षणम् ११
आध्मानं पाणिपादस्य स्पन्दनं फेननिर्वमः
तृण्मुष्टिबन्धातीसारस्वरदैन्यविवर्णताः १२
कूजनं स्तननं छर्दिः कासहिध्माप्रजागराः
ओष्ठदंशाङ्गसङ्कोचस्तम्भबस्ताभगन्धताः १३
ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः
मूर्च्छैकनेत्रशोफश्च नैगमेषग्रहाकृतिः १४
कम्पो हृषितरोमत्वं स्वेदश्चक्षुर्निमीलनम्
बहिरायामनं जिह्वादंशोऽन्तकण्ठकूजनम् १५
धावनं विट्सगन्धत्वं क्रोशनं च श्ववच्छुनि
रोमहर्षो मुहुस्त्रासः सहसा रोदनं ज्वरः १६
कासातिसारवमथुजृम्भा तृट्शवगन्धताः
अङ्गेष्वाक्षेपविक्षेपशोष स्तम्भविवर्णताः १७
मुष्टिबन्धः स्रुतिश्चाक्ष्णोर्बालस्य स्युः पितृग्रहे
स्रस्ताङ्गत्वमतीसारो जिह्वातालुगले व्रणाः १८
स्फोटाः सदाहरुक्पाकाः सन्धिषु स्युः पुनः पुनः
निश्यह्नि प्रविलीयन्ते पाको वक्त्रे गुदेऽपि वा १९
भयं शकुनिगन्धत्वं ज्वरश्च शकुनिग्रहे
पूतनायां वमिः कम्पस्तन्द्रा रात्रौ प्रजागरः २०
हिध्माऽध्मानं शकृद्भेदः पिपासा मूत्रनिग्रहः
स्रस्तहृष्टाङ्गरोमत्वं काकवत्पूतिगन्धिता २१
शीतपूतनया कम्पो रोदनं तिर्यगीक्षणम्
तृष्णाऽन्त्रकूजोऽतीसारो वसावद्विस्रगन्धता २२
पार्श्वस्यैकस्य शीतत्वमुष्णत्वमपरस्य च
अन्धपूतनया छर्दिर्ज्वरः कासोऽल्पनिद्र ता २३
वर्चसो भेदवैवर्ण्यदौर्गन्ध्यान्यङ्गशोषणम्
दृष्टेः सादातिरुक्कण्डूपोथकीजन्मशूनताः २४
हिध्मोद्वेगस्तनद्वेषवैवर्ण्य स्वरतीक्ष्णताः
वेपथुर्मत्स्यगन्धत्वमथवा साम्लगन्धता २५
मुखमण्डितया पाणिपादास्यरमणीयता
सिराभिरसिताभाभिराचितोदरता ज्वरः २६
अरोचकोऽङगग्लपनं गोमूत्रसमगन्धता
रेवत्यां श्यावनीलत्वं कर्णनासाक्षिमर्दनम् २७
कासहिध्माक्षिविक्षेपवक्र वक्त्रत्वरक्तताः
बस्तगन्धो ज्वरः शोषः पुरीषं हरितं द्र वम् २८
जायते शुष्करेवत्यां क्रमात्सर्वाङ्गसङ्क्षयः
केशशातोऽन्नविद्वेषः स्वरदैन्यं विवर्णता २९
रोदनं गृध्रगन्धत्वं दीर्घकालानुवर्तनम्
उदरे ग्रन्थयो वृत्ता यस्य नानाविधं शकृत् ३०
जिह्वाया निम्नता मध्ये श्यावं तालु च तं त्यजेत्
भुञ्जानोऽन्न बहुविधं यो बालः परिहीयते ३१
तृष्णागृहीतः क्षामाक्षो हन्ति तं शुष्करेवती
हिंसारत्यर्चनाकाङ्क्षा ग्रहग्रहणकारणम् ३२
तत्र हिंसात्मके बालो महान् वा स्रुतनासिकः
क्षतजिह्वः क्वणेद्बाढमसुखी साश्रुलोचनः ३३
दुर्वर्णो हीनवचनः पूतिगन्धिश्च जायते
क्षामो मूत्रपुरीषं स्वं मृद्गाति न जुगुप्सते ३४
हस्तौ चोद्यम्य संरब्धो हन्त्यात्मानं तथा परम्
तद्वच्च शस्त्रकाष्ठाद्यैरग्निं वा दीप्तमाविशेत् ३५
अप्सु मज्जेत्पतेत्कूपे कुर्यादन्यच्च तद्विधम्
तृड्दाहमोहान् पूयस्य छर्दनं च प्रवर्तयेत् ३६
रक्तं च सर्वमार्गेभ्यो रिष्टोत्पत्तिं च तं त्यजेत्
रहःस्त्रीरतिसंलाप गन्धस्रग्भूषणप्रियः ३७
हृष्टः शान्तश्च दुःसाध्यो रतिकामेन पीडितः
दीनः परिमृशन् वक्त्रं शुष्कौष्ठगलतालुकः ३८
शङ्कितं वीक्षते रौति ध्यायत्यायाति दीनताम्
अन्नमन्नाभिलाषेऽपि दत्तं नाति बुभुक्षते ३९
गृहीतं बलिकामेन तं विद्यात्सुखसाधनम्
हन्तुकामं जयेद्धोमैः सिद्धमन्त्रप्रवर्तितः ४०
इतरौ तु यथाकामं रतिबल्यादिदानतः
अथ साध्यग्रहं बालं विविक्ते शरणे स्थितम् ४१
त्रिरह्नः सिक्तसंमृष्टे सदा सन्निहितानले
विकीर्णभूतिकुसुमपत्र बीजान्नसर्षपे ४२
रक्षोघ्नतैलज्वलित प्रदीपहतपाप्मनि
व्यवायमद्यपिशित निवृत्तपरिचारके ४३
पुराणसर्पिषाऽभ्यक्तं परिषिक्तं सुखाम्बुना
साधितेन बलानिम्बवैजयन्तीनृपद्रुमैः ४४
पारिभद्र ककट्वङ्गजम्बू वरुणकट्तृणैः
कपोतवङ्कापामार्गपाटला मधुशिग्रुभिः ४५
काकजङ्घामहाश्वेताकपित्थ क्षीरिपादपैः
सकदम्बकरञ्जैश्च धूपं स्नातस्य चाचरेत् ४६
द्वीपिव्याघ्राहिसिंहर्क्षचर्म भिर्घृतमिश्रितैः
पूतीदशाङ्गसिद्धार्थवचाभल्लात दीप्यकैः ४७
सकुष्ठैः सघृतैर्धूपः सर्वग्रहविमोक्षणः
सर्षपा निम्बपत्राणि मूलमश्वखुरा वचा ४८
भूर्जपत्रं घृतं धूपः सर्वग्रहनिवारणः
अनन्ताम्रास्थितगरं मरिचं मधुरो गणः ४९
शृगालविन्ना मुस्ता च कल्कितैस्तैर्घृतं पचेत्
दशमूलरसक्षीरयुक्तं तद् ग्रहजित्परम् ५०
रास्नाद्व्यंशुमतीवृद्धपञ्च मूलबलाघनात्
क्वाथे सर्पिः पचेत्पिष्टैः सारिवाव्योषचित्रकैः ५१
पाठाविडङ्गमधुक पयस्याहिङ्गुदारुभिः
सग्रन्थिकैः सेन्द्र यवैः शिशोस्तत्सततं हितम् ५२
सर्वरोगग्रहहरं दीपनं बलवर्णदम्
सारिवासुरभिब्राह्मीशङ्खिनी कुष्ठसर्षपैः ५३
वचाश्वगन्धासुरसयुक्तैः सर्पिर्विपाचयेत्
तन्नाशयेद्ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च ५४
गोशृङ्गचर्मवालाहिनिर्मोकं वृषदंशविट्
निम्बपत्राज्यकटुकामदनं बृहतीद्वयम् ५५
कार्पासास्थियवच्छाग रोमदेवाह्वसर्षपम्
मयूरपत्रश्रीवासं तुषकेशं सरामठम् ५६
मृद्भाण्डे बस्तमूत्रेण भावितं श्लक्ष्णचूर्णितम्
धूपनं च हितं सर्वभूतेषु विषमज्वरे ५७
घृतानि भूतविद्यायां वक्ष्यन्ते यानि तानि च
युञ्ज्यात्तथा बलि होमं स्नपनं मन्त्रतन्त्रवित् ५८
पूतीकरञ्जत्वक्पत्रं क्षीरिभ्यो बर्बरादपि
तुम्बीविशालारलुकशमीबिल्वकपित्थतः ५९
उत्क्वाथ्य तोयं तद्रा त्रौ बालानां स्नपनं शिवम्
अनुबन्धान् यथाकृच्छ्रं ग्रहापायेऽप्युपद्र वान् ६०
बालामयनिषेधोक्तभेषजैः समुपाचरेत् ६०॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने बालग्रहप्रतिषेधो नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातो भूतविज्ञानीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
लक्षयेज्ज्ञानविज्ञानवाक्चेष्टा बलपौरुषम्
पुरुषेऽपौरुषं यत्र तत्र भूतग्रहं वदेत् १
भूतस्य रूपप्रकृतिभाषागत्यादिचेष्टितैः
यस्यानुकारं कुरुते तेनाविष्टं तमादिशेत् २
सोऽष्टादशविधो देवदानवादिविभेदतः
हेतुस्तदनुषक्तौ तु सद्यः पूर्वकृतोऽथवा ३
प्रज्ञापराधः सुतरां तेन कामादिजन्मना
लुप्तधर्मव्रताचारः पूज्यानप्यतिवर्तते ४
तं तथा भिन्नमर्यादं पापमात्मोपघातिनम्
देवादयोऽप्यनुघ्नन्ति ग्रहाश्छिद्र प्रहारिणः ५
छिद्रं पापक्रियारम्भः पाकोऽनिष्टस्य कर्मणः
एकस्य शून्येऽवस्थानं श्मशानादिषु वा निशि ६
दिग्वासस्त्वं गुरोर्निन्दा रतेरविधिसेवनम्
अशुचेर्देवतार्चादि परसूतकसङ्करः ७
होममन्त्रबलीज्यानां विगुणं परिकर्म च
समासाद्दिनचर्यादिप्रोक्ता चारव्यतिक्रमः ८
गृह्णन्ति शुक्लप्रतिपत्त्रयोदश्योः सुरा नरम्
शुक्लत्रयोदशीकृष्णद्वादश्योर्दानवा ग्रहाः ९
गन्धर्वास्तु चतुर्दश्यां द्वादश्यां चोरगाः पुनः
पञ्चम्यां शुक्लसप्तम्येकादश्योस्तु धनेश्वराः १०
शुक्लाष्टपञ्चमीपौर्णमासीषु ब्रह्मराक्षसाः
कृष्णे रक्षःपिशाचाद्या नवद्वादशपर्वसु ११
दशामावास्ययोरष्टनवम्योः पितरोऽपरे
गुरुवृद्धादयः प्रायः कालं सन्ध्यासु लक्षयेत् १२
फुल्लपद्मोपममुखं सौम्यदृष्टिमकोपनम्
अल्पवाक्स्वेदविण्मूत्रं भोजनानभिलाषिणम् १३
देवद्विजातिपरमं शुचिं संस्कृतवादिनम्
मीलयन्तं चिरान्नेत्रे सुरभिं वरदायिनम् १४
शुक्लमाल्याम्बरसरिच्छलोच्च भवनप्रियम्
अनिद्र मप्रधृष्यं च विद्याद्देववशीकृतम् १५
जिह्मदृष्टिं दुरात्मानं गुरुदेवद्विजद्विषम्
निर्भयं मानिनं शूरं क्रोधनं व्यवसायिनम् १६
रुद्रः स्कन्दो विशाखोऽहमिन्द्रो ऽहमिति वादिनम्
सुरामांसरुचिं विद्यात् दैत्यग्रहगृहीतकम् १७
स्वाचारं सुरभिं हृष्टं गीतनर्तनकारिणम्
स्नानोद्यानरुचिं रक्तवस्त्रमाल्यानुलेपनम् १८
शृङ्गारलीलाभिरतं गन्धर्वाध्युषितं वदेत्
रक्ताक्षं क्रोधनं स्तब्धदृष्टिं वक्रगतिं चलम् १९
श्वसन्तमनिशं जिह्वालोलिनं सृक्किणीलिहम्
प्रियदुग्धगुडस्नान मधोवदनशायिनम् २०
उरगाधिष्ठितं विद्यात्त्रस्यन्तं चातपत्रतः
विप्लुतत्रस्तरक्ताक्षं शुभगन्धं सुतेजसम् २१
प्रियनृत्यकथागीतस्नान माल्यानुलेपनम्
मत्स्यमांसरुचिं हृष्टं तुष्टं बलिनमव्यथम् २२
चलिताग्रकरं कस्मै किं ददामीति वादिनम्
रहस्यभाषिणं वैद्यद्विजातिपरिभाविनम् २३
अल्परोषं द्रुतगतिं विद्याद्यक्षगृहीतकम्
हास्यनृत्यप्रियं रौद्र चेष्टं छिद्र प्रहारिणम् २४
आक्रोशिनं शीघ्रगतिं देवद्विजभिषग्द्विषम्
आत्मानं काष्ठशस्त्राद्यैर्घ्नन्तं भोःशब्दवादिनम् २५
शास्त्रवेदपठं विद्याद् गृहीतं ब्रह्मराक्षसैः
सक्रोधदृष्टिं भृकुटिमुद्वहन्तं ससंभ्रमम् २६
प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम्
अन्नाद्विनाऽपि बलिनं नष्टनिद्रं निशाचरम् २७
निर्लज्जमशुचिं शूरं क्रूरं परुषभाषिणम्
रोषणं रक्तमाल्यस्त्रीरक्तमद्यामिषप्रियम् २८
दृष्ट्वा च रक्तं मांसं वाऽलिहानं दशनच्छदौ
हसन्तमन्नकाले च राक्षसाधिष्ठितं वदेत् २९
अस्वस्थचित्तं नैकत्र तिष्ठन्तं परिधाविनम्
उच्छिष्टनृत्यगान्धर्वहासमद्यामिषप्रियम् ३०
निर्भर्त्सनाद्दीनमुखं रुदन्तमनिमित्ततः
नखैर्लिखन्तमात्मानं रूक्षध्वस्तवपुःस्वरम् ३१
आवेदयन्तं दुःखानि सम्बद्धाबद्धभाषिणम्
नष्टस्मृतिं शून्यरतिं लोलं नग्नं मलीमसम् ३२
रथ्याचैलपरीधानं तृणमालाविभूषणम्
आरोहन्तं च काष्ठाश्वं तथा सङ्करकूटकम् ३३
बह्वाशिनं पिशाचेन विजानीयादधिष्ठितम्
प्रेताकृतिक्रियागन्धं भीतमाहारविद्विषम् ३४
तृणच्छिदं च प्रेतेन गृहीतं नरमादिशेत्
बहुप्रलापं कृष्णास्यं प्रविलम्बितयायिनम् ३५
शूनप्रलम्बवृषणं कूष्माण्डाधिष्ठितं वदेत्
गृहीत्वा काष्ठलोष्टादि भ्रमन्तं चीरवाससम् ३६
नग्नं धावन्तमुत्त्रस्तदृष्टिं तृणविभूषणम्
श्मशानशून्यायतनरथ्यैकद्रुमसेविनम् ३७
तिलान्नमद्यमांसेषु सततं सक्तलोचनम्
निषादाधिष्ठितं विद्याद् वदन्तं परुषाणि च ३८
याचन्तमुदकं चान्नं त्रस्तलोहितलोचनम्
उग्रवाक्यं च जानीयान्नरमौकिरणार्दितम् ३९
गन्धमाल्यरतिं सत्यवादिनं परिवेपिनम्
बहुनिद्रं च जानीयाद्वेतालेन वशीकृतम् ४०
अप्रसन्नदृशं दीनवदनं शुष्कतालुकम्
चलन्नयनपक्ष्माणं निद्रा लुं मन्दपावकम् ४१
अपसव्यपरीधानं तिलमांसगुडप्रियम्
स्खलद्वाचं च जानीयात् पितृग्रहवशीकृतम् ४२
गुरुवृद्धर्षिसिद्धाभि शापचिन्तानुरूपतः
व्याहाराहारचेष्टाभिर्यथास्वं तद्ग्रहं वदेत् ४३
कुमारवृदानुगतं नग्नमुद्धतमूर्धजम्
अस्वस्थमनसं दैर्घ्यकालिकं सग्रहं त्यजेत् ४४
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने भूतविज्ञानीयो नाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातो भूतप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
भूतं जयेदहिंसेच्छं जपहोमबलिव्रतैः
तपःशीलसमाधान दानज्ञानदयादिभिः १
हिङ्गुव्योषालनेपाली लशुनार्कजटाजटाः
अजलोमी सगोलोमी भूतकेशी वचा लता २
कुक्कुटी सर्पगन्धाख्या तिलाः काणविकाणिके
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्यपि ३
स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम्
खराश्वश्वाविदुष्ट्रर्क्षगोधानकुलशल्यकात् ४
द्वीपिमार्जारगोसिंहव्याघ्र सामुद्र सत्त्वतः
चर्मपित्तद्विजनखा वर्गेऽस्मिन् साधयेद्घृतम् ५
पुराणमथवा तैलं नवं तत्पाननस्ययोः
अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने ६
एभिश्च गुटिकां युञ्ज्यादञ्जने सावपीडने
प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने ७
प्रयोगोऽय ग्रहोन्मादान् सापस्माराञ्शमं नयेत्
गजाह्वापिप्पलीमूलव्योषा मलकसर्षपान् ८
गोधानकुलमार्जारझष पित्तप्रपेषितान्
नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान् ९
सिद्धार्थकवचाहिङ्गुप्रियङ्गु रजनीद्वयम्
मञ्जिष्ठा श्वेतकटभी वरा श्वेताऽद्रि कर्णिका १०
निम्बस्य पत्रं बीजं तु नक्तमालशिरीषयोः
सुराह्वं त्र्यूषणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे ११
सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम्
ग्रहान् सर्वान्निहन्त्याशु विशेषादासुरान् ग्रहान् १२
कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्म च
एभिरेवौषधैर्बस्तवारिणा कल्पितोऽगदः १३
पाननस्याञ्जनालेपस्नानोद् घर्षणयोजितः
गुणैः पूर्ववदुद्दिष्टो राजद्वारे च सिद्धिकृत् १४
सिद्धार्थकव्योष वचाश्वगन्धा
निशाद्वयं हिङ्गुपलाण्डुकन्दः
बीजं करञ्जात् कुसुमं शिरीषात्
फलं च वल्कं च कपित्थवृक्षात् १५
समाणिमन्थं सनतं सकुष्ठं
स्योनाकमूलं किणिही सिता च
बस्तस्य मूत्रेण सुभावितं तत्
पित्तेन गव्येन गुडान् विदध्यात् १६
दुष्टव्रणोन्माद तमोनिशान्धा
नुद्बन्धकान्वारि निमग्नदेहान्
दिग्धाहतान् दर्पितसर्पदष्टां
स्तेसामधयन्त्यञ्जन नस्यलेपैः १७
कार्पासास्थिमयूरपत्रबृहती निर्माल्यपिण्डीतक त्वङ्मांसीवृषदंशविट्तुषवचाकेशाहिनिर्मोककैः
नागेन्द्र द्विजशृङ्गहिङ्गुमरिचैस्तुल्यैः कृतं धूपनं
स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नंपरम् १८
त्रिकटुकदलकुङ्कुम ग्रन्थिकक्षारसिंही
निशादारुसिद्धार्थ युग्माम्बुशक्राह्वयैः
सितलशुनफलत्रयो शीरतिक्तावचा
तुत्थयष्टीबलालोहि तैलाशिलापद्मकैः
दधितगरमधूकसार प्रियाह्वाविषाख्या
विषातार्क्ष्यशैलैः सचव्यामयैः
कल्कितैर्घृत मनवमशेषमूत्रांशसिद्धं मतं
भूतरावाह्वयं पानतस्तद् ग्रहघ्नं परम् १९
नतमधुकरञ्जलाक्षापटोली समङ्गावचा
पाटलीहिङ्गुसिद्धार्थ सिंहीनिशायुग्लतारोहिणी
बदरकटुफलत्रिका काण्डदारुकृमिघ्नाजगन्धा
मराङ्कोल्लकोशातकीशिग्रुनिम्बाम्बुदेन्द्रा ह्वयैः
गदशुकतरुपुष्पबीजोग्रयष्ट्यद्रि कर्णीनिकुम्भा
ग्निबिल्वैः समैः कल्कितैर्मूत्रवर्गेण सिद्धं घृतं
विधिविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति
सर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावंस्मृतम् २०
ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः
दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः २१
स्नानवस्त्रवसा मांसमद्यक्षीरगुडादि च
रोचते यद्यदा येभ्यस्तत्तेषामाहरेत्तदा २२
रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम् २३
सुरर्षिगुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये
दिश्युक्तरस्यां तत्रापि देवायोपहरेद्बलिम् २४
पश्चिमायां यथाकालं दैत्यभूताय चत्वरे
गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम् २५
पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे
यक्षाय यक्षायतने सरितोर्वा समागमे २६
चतुष्पथे राक्षसाय भीमेषु गहनेषु च
रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम् २७
शून्यालये पिशाचाय पश्चिमां दिशमास्थिते
शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयमोदनम् २८
दधि छत्रं च धवलं देवानां बलिरिष्यते
हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः २९
चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत्
तत्पाननावनाभ्यङ्गैर्देव ग्रहविमोक्षणम् ३०
नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा
दैत्ये बलिर्बहुफलः सोशीरकमलोत्पलः ३१
नागानां सुमनोलाजगुडापूपगुडौदनैः
परमान्नमधुक्षीर कृष्णमृन्नागकेसरैः ३२
वचापद्मपुरोशीररक्तोत्पल दलैर्बलि
श्वेतपत्रं च रोध्रं च तगरं नागसर्षपाः ३३
शीतेन वारिणा पिष्टं नावनाञ्जनयोर्हितम्
यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलु ३४
देवदारूत्पलं पद्ममुशीरं वस्त्रकाञ्चनम्
हिरण्यं च बलिर्योज्यो मूत्राज्यक्षीरमेकतः ३५
सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम्
हरितकी हरिद्रे द्वे लशुनो मरिचं वचा ३६
निम्बपत्रं च बस्ताम्बुकल्कितं नावनाञ्जनम्
ब्रह्मरक्षोबलि सिद्धं यवानां पूर्णमाढकम् ३७
तोयस्य कुम्भः पललं छत्रं वस्त्रं विलेपनम्
गायत्रीविंशतिपलक्वाथेऽधपलिकैः पचेत् ३८
त्र्यूषणत्रिफलाहिङ्गुषड् ग्रन्थामिशिसर्षपैः
सनिम्बपत्रलशुनैः कुडवान् सप्त सर्पिषः ३९
गोमूत्रे त्रिगुणेपाननस्याभ्यङ्गेषु तद्धितम्
रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम् ४०
बलि पक्वाममांसानि निष्पावा रुधिरोक्षिताः
नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च ४१
तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम्
हिंग्विन्द्र यवसिद्धार्थलशुनामलकीफलम् ४२
नावनाञ्जनयोर्योज्यो बस्तमूत्रयुतोऽगदः
एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे ४३
रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः
पिशाचानां बलि सीधुः पिण्याकः पललं दधि ४४
मूलकं लवणं सर्पिः सभूतौदनयावकम्
हरिद्रा द्वयमञ्जिष्ठामिशि सैन्धवनागरम् ४५
हिङ्गुप्रियङ्गु त्रिकटुरसोनात्रिफला वचा
पाटलीश्वेतकटभीशिरीष कुसुमैर्घृतम् ४६
गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर्हितम्
बस्ताम्बुपिष्टैस्तैरेव योज्यमञ्जननावनम् ४७
देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत्
सर्पिष्पानादि मृद्वस्मिन् भैषज्यमवचारयेत् ४८
ऋते पिशाचात्सर्वेषु प्रतिकूलं च नाचरेत्
सवैद्यमातुरं घ्नन्ति क्रुद्धास्ते हि महौजसः ४९
ईश्वरं द्वादशभुजं नाथमार्यावलोकितम्
सर्वव्याधिचिकित्सां च जपन् सर्वग्रहान् जयेत् ५०
तथोन्मादानपस्मारानन्यं वा चित्तविप्लवम्
महाविद्यां च मायूरीं शुचिं तं श्रावयेत्सदा ५१
भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश्च तद्गणान्
जपन् सिद्धांश्च तन्मन्त्रान् ग्रहान् सर्वानपोहति ५२
यच्चानन्तरयोः किञ्चिद्वक्ष्यतेऽध्याययोर्हितम्
यच्चोक्तमिह तत्सर्वं प्रयुञ्जीत परस्परम् ५३
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थानेभूतप्रतिषेधो नाम पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथात उन्मादप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
उन्मादाः षट् पृथग्दोषनिचयाधिविषोद्भवाः
उन्मादो नाम मनसो दोषैरुन्मार्गगैर्मदः १
शारीरमानसैर्दुष्टैर हितादन्नपानतः
विकृतासात्म्यसमला द्विषमादुपयोगतः २
विषण्णस्याल्पसत्त्वस्य व्याधिवेगसमुद्गमात्
क्षीणस्य चेष्टावैषम्यात् पूज्यपूजाव्यतिक्रमात् ३
आधिभिश्चित्तविभ्रंशाद् विषेणोपविषेण च
एभिर्हि हीनसत्त्वस्य हृदि दोषाः प्रदूषिताः ४
धियो विधाय कालुष्यं हत्वा मार्गान् मनोवहान्
उन्मादं कुर्वते तेन धीविज्ञानस्मृतिभ्रमात् ५
देहो दुःखसुखभ्रष्टो भ्रष्टसारथिवद्र थः
भ्रमत्यचिन्तितारम्भः तत्र वातात्कृशाङ्गता ६
अस्थाने रोदनाक्रोशहसितस्मितनर्तनम्
गीतवादित्रवागङ्गविक्षेपास्फोटनानि च ७
असाम्ना वेणुवीणादिशब्दानुकरणं मुहुः
आस्यात्फेनागमोऽजस्रमटनं बहुभाषिता ८
अलङ्कारोऽन लङ्कारैरयानैर्गमनोद्यमः
गृद्धिरभ्यवहार्येषु तल्लाभे चावमानता ९
उत्पिण्डितारुणाक्षित्वं जीर्णे चान्ने गदोद्भवः
पित्तात्सन्तर्जनं क्रोधो मुष्टिलोष्टाद्यभिद्र वः १०
शीतच्छायोदकाकाङ्क्षा नग्नत्वं पीतवर्णता
असत्यज्वलनज्वालातारकादीपदर्शनम् ११
कफादरोचकश्छर्दि रल्पेहाहारवाक्यता
स्त्रीकामता रहःप्रीतिर्लालासिङ्घाणकस्रुतिः १२
बैभत्स्यं शौचविद्वेषो निद्रा श्वयथुरानने
उन्मादो बलवान् रात्रौ भुक्तमात्रे च जायते १३
सर्वायतनसंस्थानसन्निपाते तदात्मकम्
उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत् १४
धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान्
पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते १५
रोदित्यकस्मान्म्रियते तद्गुणान् बहु मन्यते
शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते १६
विषेण श्याववदनो नष्टच्छायाबलेन्द्रि यः
वेगान्तरेऽपि सम्भ्रान्तो रक्ताक्षस्तं विवर्जयेत् १७
अथानिलज उन्मादे स्नेहपानं प्रयोजयेत्
पूर्वमावृतमार्गे तु सस्नेहं मृदु शोधनम् १८
कफपित्तभवेऽप्यादौ वमनं सविरेचनम्
स्निग्धस्विन्नस्य बस्तिं च शिरसः सविरेचनम् १९
तथाऽस्य शुद्धदेहस्य प्रसादं लभते मनः
इत्थमप्यनुवृत्तौ तु तीक्ष्णं नावनमञ्जनम् २०
हर्षणाश्वासनोत्त्रास भयताडनतर्जनम्
अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः २१
युञ्ज्यात्तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः
हिङ्गुसौवर्चलव्य्षैर्द्विपलांशैर्घृताढकम् २२
सिद्धं समूत्रमुन्मादभूतापस्मारनुत्परम्
द्वौ प्रस्थौ स्वरसाद् ब्राह्म्या घृतप्रस्थं च साधितम् २३
व्योषश्यामात्रिवृद्दन्ती शङ्खपुष्पीनृपद्रुमैः
ससप्तलाकृमिहरैः कल्कितैरक्षसम्मितैः २४
पलवृद्ध्या प्रयुञ्जीत परं मात्रा चतुष्पलम्
उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम् २५
वाक्स्वरस्मृतिमेधाकृद् धन्यं ब्राह्मीघृतं स्मृतम्
वराविशालाभद्रै ला देवदार्वेलवालुकैः २६
द्विसारिवाद्विरजनी द्विस्थिराफलिनीनतैः
बृहतीकुष्ठमञ्जिष्ठा नागकेसरदाडिमैः २७
वेल्लतालीसपत्रैलामालती मुकुलोत्पलैः
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत् २८
प्रस्थं भूतग्रहोन्मादकासापस्मारपाप्मसु
पाण्डुकण्डूविषे शोषे मोहे मेहे गरे ज्वरे २९
अरेतस्यप्रजसि वा दैवोपहतचेतसि
अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके ३०
बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम्
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च ३१
एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम्
रसे तस्मिन् पचेत्सर्पिर्गृष्टिक्षीरचतुर्गुणम् ३२
वीराद्विमेदाकाकोली कपिकच्छूविषाणिभिः
शूर्पपर्णीयुतैरेतन्महाकल्याणकं परम् ३३
बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः
जटिला पूतना केशी चारटी मर्कटी वचा ३४
त्रायमाणा जया वीरा चोरकः कटुरोहिणी
वयःस्था शूकरी छत्रा सातिच्छत्रा पलङ्कषा ३५
महापुरुषदन्ता च कायस्था नाकुलीद्वयम्
कटम्भरा वृश्चिकाली शालिपर्णी च तैर्घृतम् ३६
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम्
महापैशाचकं नाम घृतमेतद्यथाऽमृतम् ३७
बुद्धिमेधास्मृतिकरं बालानां चाङ्गवर्धनम्
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गुजटां मुराम् ३८
रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम्
ज्योतिष्मतीं नागविन्नामनन्तां सहरीतकीम् ३९
काङ्क्षीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता
वर्तिर्नस्याञ्जनालेप धूपैरुन्मादसूदनी ४०
अवपीडाश्च विविधाः सर्षपाः स्नेहसंयुताः
कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्र जः ४१
सहिङ्गुस्तीक्ष्णधूमश्च सूत्रस्थानोदितो हितः
शृगालशल्यकोलूकजलौकावृषबस्तजैः ४२
मूत्रपित्तशकृल्लोम नखचर्मभिराचरेत्
धूपधूमाञ्जनाभ्यङ्गप्रदेह परिषेचनम् ४३
धूपयेत्सततं चैनं श्वगोमत्स्यैः सुपूतिभिः
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ४४
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः
शीतानि चान्नपानानि मधुराणि लघूनि च ४५
विध्येच्छिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा
निवाते शाययेदेवं मुच्यते मतिविभ्रमात् ४६
प्रक्षिप्यासलिले कूपे शोषयेद्वा बुभुक्षया
आश्वासयेत्सुहृत्तं वा वाक्यैर्धमार्थसंहितैः ४७
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा
बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे ४८
कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलैः स्पृशेत्
कशाभिस्ताडयित्वा वा बद्धं श्वभ्रे विनिःक्षिपेत् ४९
अथवा वीतशस्त्राश्मजने संतमसे गृहे
सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम् ५०
त्रासयेच्छस्त्रहस्तैर्वा किरातारातितस्करैः
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्
भापयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया ५१
देहदुःखभयेभ्यो हि परं प्राणभयं मतम्
तेन याति शमं तस्य सर्वतो विप्लुतं मनः ५२
सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया
इष्टद्र व्यविनाशात्तु मनो यस्योपहन्यते ५३
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत्
कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान् ५४
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्
भूतानुबन्धमीक्षेत प्रोक्तलिङ्गाधिकाकृतिम् ५५
यद्युन्मादे ततः कुर्याद्भूतनिर्दिष्टमौषधम्
बलि च दद्यात्पललं यावकं सक्तुपिण्डिकाम् ५६
स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान्
पक्वामकानि मांसानि सुरां मैरेयमासवम् ५७
अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च
चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु च ५८
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः
निजागन्तुभिरुन्मादैः सत्ववान्न स युज्यते ५९
प्रसाद इन्द्रि यार्थानां बुद्ध्य्त्मामनसां तथा
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम् ६०
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने उन्मादप्रतिषेधो नाम षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातोऽपस्मारप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
स्मृत्यपायो ह्यपस्मारः स धीसत्त्वाभिसंप्लवात्
जायतेऽभिहते चित्ते चिन्ताशोकभयादिभिः १
उन्मादवत्प्रकुपितैश्चित्त देहगतैर्मलैः
हते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च २
तमो विशन् मूढमतिर्बीभत्साः कुरुते क्रियाः
दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन् ३
पश्यन्नसन्ति रूपाणि प्रस्खलन् पतति क्षितौ
विजिह्माक्षिभ्रुवो दोषवेगेऽतीते विबुध्यते ४
कालान्तरेण स पुनश्चैवमेव विचेष्टते
अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च ५
रूपमुत्पत्स्यमानेऽस्मिन् हृत्कम्पः शून्यता भ्रमः
तमसो दर्शनं ध्यानं भ्रूव्युदासोऽक्षिवैकृतम् ६
अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः
अविपाकोऽरुचिर्मूर्च्छा कुक्ष्याटोपो बलक्षयः ७
निद्रा नाशोऽङ्गमर्दस्तृट् स्वप्ने गानं सनर्तनम्
पानं तैलस्य मद्यस्य तयोरेव च मेहनम् ८
तत्र वातात्स्फुरत्सक्थिः प्रपतंश्च मुहुर्मुहुः
अपस्मरति संज्ञां च लभते विस्वरं रुदन् ९
उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते
आविध्यति शिरोदन्तान् दशत्याध्मातकन्धरः १०
परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलि
रूक्षश्यावारुणाक्षित्वङ्नखास्यः कृष्णमीक्षते ११
चपलं परुषं रूपं विरूपं विकृताननम्
अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति १२
पीतफेनाक्षिवक्त्रत्वगास्फालयति मेदिनीम्
भैरवादीप्तरुषितरूपदर्शी तृषान्वितः १३
कफाच्चिरेण ग्रहणं चिरेणैव विबोधनम्
चेष्टाऽल्पा भूयसी लाला शुक्लनेत्रनखास्यता १४
शुक्लाभरूपदर्शित्वं सर्वलिङ्गं तु वर्जयेत्
अथाऽवृतानां धीचित्तहृत्खानां प्राक्प्रबोधनम् १५
तीक्ष्णैः कुर्यादपस्मारे कर्मभिर्वमनादिभिः
वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः १६
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्
सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च १७
अपस्मारविमोक्षार्थं योगान् संशमनान् शृणु
गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः १८
अपस्मारज्वरोन्मादकामलान्तकरं पिबेत्
द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः १९
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्
शम्याकपुष्करजटाफल्गुमूलदुरालभाः २०
द्विपलाः सलिलद्रो णे पक्त्वा पादावशेषिते
भार्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः २१
मूर्वाभूतीकभू निम्बश्रेयसीसारिवाद्वयैः
मदयन्त्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत् २२
प्रस्थं तद्वद् द्र वैः पूर्वैः पञ्चगव्यमिदं महत्
ज्वरापस्मारजठरभगन्दरहरं परम् २३
शोफार्शःकामलापाण्डुगुल्मकासग्रहापहम्
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम् २४
पुराणं मेध्यमुन्मादालक्ष्म्यपस्मारपाप्मजित्
तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः २५
क्षीरद्रो णे पचेत्सिद्धमपस्मारविमोक्षणम्
कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे २६
कार्षिकैर्जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत्
वातपित्तोद्भवं क्षिप्रमपस्मारं निहन्ति तत् २७
तद्वत् काशविदारीक्षुकुशक्वाथशृतं पयः
कूष्माण्डस्वरसे सर्पिरष्टादशगुणे शृतम् २८
यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदम्
कपिलानां गवां पित्तं नावने परमं हितम् २९
श्वशृगालबिडालानां सिंहादीनां च पूजितम्
गोधानकुलनागानां पृषतर्क्षगवामपि ३०
पित्तेषु साधितं तैलं नस्येऽभ्यङ्गे च शस्यते
त्रिफलाव्योषपीतद्रुयवक्षारफणिज्जकैः ३१
श्याह्वापामार्गकारञ्जबीजैस्तैलं विपाचितम्
बस्तमूत्रे हितं नस्यं चूर्णं वा ध्मापयेद्भिषक् ३२
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः
तुण्डैः पक्षैः पुरीषैश्च धूपमस्य प्रयोजयेत् ३३
शीलयेत्तैललशुनं पयसा वा शतावरीम्
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम् ३४
समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः
यज्जायते यतश्चैष महामर्मसमाश्रयः ३५
तस्माद्र सायनैरेनं दुश्चिकित्स्यमुपाचरेन्
तदार्तं चाग्नितोयादेर्विषमात्पालयेत्सदा ३६
मुक्तं मनो विकारेण त्वमित्थं कृतवानिति
न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतोऽस्य बृंहयेत् ३७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थानेऽपस्मारप्रतिषेधो नाम सप्तमोऽध्यायः ७
इत्यष्टाङ्गहृदये भूततंत्रं तृतीयं समाप्तम्

अष्टमोऽध्यायः
अथातो वर्त्मरोगविज्ञानीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
सर्वरोगनिदानोक्तैरहितैः कुपिता मलाः
अचक्षुष्यैर्विशेषेण प्रायः पित्तानुसारिणः १
शिराभिरूर्ध्वं प्रसृता नेत्रावयवमाश्रिताः
वर्त्म सन्धि सितं कृष्णं दृष्टिं वा सर्वमक्षि वा २
रोगान् कुर्युः चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः
सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम् ३
पांशुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च
विमर्दनात् स्याच्च शमः कृच्छ्रोन्मीलं वदन्ति तत् ४
चालयन् वर्त्मनी वायुर्निमेषोन्मेषणं मुहुः
करोत्यरुङ् निमेषोऽसौ वर्त्म यत्तु निमील्यते ५
विमुक्तसन्धि निश्चेष्टं हीनं वातहतं हि तत्
कृष्णाः पित्तेन बह्व्योऽन्तर्वर्त्म कुम्भीकबीजवत् ६
आध्मायन्ते पुनर्भिन्नाः पिटिकाः कुम्भिसंज्ञिताः
सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमम् ७
पित्तेन जायते वर्त्म पित्तोत्क्लिष्टमुशन्ति तत्
करोति कण्डूं दाहं च पित्तं पक्ष्मान्तमास्थितम् ८
पक्ष्मणां शातनं चानु पक्ष्मशातं वदन्ति तम्
पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात् ९
शोफोपदेहरुक्कण्डूपिच्छिलाश्रु समन्विताः
कफोत्क्लिष्टं भवेद्वर्त्म स्तम्भक्लेदोपदेहवत् १०
ग्रन्थिः पाण्डुररुक्पाकः कण्डूमान् कठिनः कफात्
कोलमात्रः स लगणः किञ्चिदल्पस्ततोऽथ वा ११
रक्ता रक्तेन पिटिका तत्तुल्यपिटिकाचिता
उत्सङ्गाख्या तथोत्क्लिष्टं राजिमत्स्पर्शनाक्षमम् १२
अर्शोऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक्
रक्तं रक्तेन तत्स्रावि छिन्नं छिन्नं च वर्धते १३
मध्ये वा वर्त्मनोऽन्ते वा कण्डूषारुग्वती स्थिरा
मुद्गमात्राऽसृजा ताम्रा पिटिकाऽञ्जननामिका १४
दोषैर्वर्त्म बहिः शूनं यदन्तः सूक्ष्मखाचितम्
सस्रावमन्तरुदकं बिसाभं बिसवर्त्म तत् १५
यद्वर्त्मोत्क्लिष्टमुत्क्लिष्टमकस्मान्म्लानतामियात्
रक्तदोषत्रयोत्क्लेशाद्भवत्युत्क्लिष्टवर्त्म तत् १६
श्याववर्त्म मलैः सास्रैः श्यावं रुक्क्लेदशोफवत्
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डूश्वयथुरागिणी १७
वर्त्मनोऽन्त खरा रूक्षाः पिटिकाः सिकतोपमाः
सिकतावर्त्म कृष्णं तु कर्दमं कर्दमोपमम् १८
बहलं बहलैर्मांसैः सवर्णैश्चीयते समैः
कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः १९
स्यात्तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः
सवर्त्मशूलपैच्छिल्यः कर्णनासाक्षिमर्दनः २०
पक्ष्मोपरोधे सङ्कोचो वर्त्मनां जायते तथा
खरताऽन्तर्मुखत्वं च रोम्णामन्यानि वा पुनः २१
कण्टकैरिव तीक्ष्णाग्रैर्घृष्टं तैरक्षि शूयते
उष्यते चानिलादिद्विडल्पाहः शान्तिरुद्धृतैः २२
कनीनके बहिर्वर्त्म कठिनो ग्रन्थिरुन्नतः
ताम्रः पक्वोऽस्रपूयस्रुदलज्याध्मायते मुहुः २३
वर्त्मान्तर्मांसपिण्डाभः श्वयथुर्ग्रथितोऽरुजः
सास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्चलः २४
चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः
आद्योऽत्र भेषजैः साध्यो द्वौ ततोऽशश्च वर्जयेत् २५
पक्ष्मोपरोधो याप्यः स्याच्छेषाञ्छस्त्रेण साधयेत्
कुट्टयेत्पक्ष्मसदनं छिन्द्यात्तेष्वपि चार्बुदम् २६
भिन्द्याल्लगणकुम्भीका बिसोत्सङ्गाञ्जनालजीः
पोथकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयम् २७
सकर्दमं सबहलं विलिखेत्सकुकूणकम् २७ १२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने वर्त्मरोगविज्ञानीयो नाम अष्टमोऽध्यायः ८

नवमोऽध्यायः
अथातो वर्त्मरोगप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
कृच्छ्रोन्मीले पुराणाज्यं द्रा क्षाकल्काम्बुसाधितम्
ससितं योजयेत्स्निग्धं नस्यधूमाञ्जनादि च १
कुम्भीकावर्त्म लिखितं सैन्धवप्रतिसारतम्
यष्टीधात्रीपटोलीनां क्वाथेन परिषेचयेत् २
निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः
बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा ३
निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीधृतम्
न स्रंसते चलति वा वर्त्मैवं सर्वतस्ततः ४
मण्डलाग्रेण तत्तिर्यक् कृत्वा शस्त्रपदाङ्कितम्
लिखेत्तेनैव पत्रैर्वा शाकशेफालिकादिजैः ५
फेनेन तोयराशेर्वा पिचुना प्रमृजन्नसृक्
स्थिते रक्ते सुलिखितं सक्षौद्रेः प्रतिसारयेत् ६
यथास्वमुक्तैरनु च प्रक्षाल्योष्णेन वारिणा
घृतेन सिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा ७
ऊर्ध्वाधः कर्णयोर्दत्त्वा पिण्डीं च यवसक्तुभिः
द्वितीयेऽहनि मुक्तस्य परिषेकं यथायथम् ८
कुर्याच्चतुर्थे नस्यादीन् मुञ्चेदेवाह्नि पञ्चमे
समं नखनिभं शोफकण्डूघर्षाद्यपीडितम् ९
विद्यात्सुलिखितं वर्त्म लिखेद् भूयो विपर्यये
रुक्पक्ष्मवर्त्मसदनस्रंसनान्यतिलेखनात् १०
स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः
अभ्यज्य नवनीतेन श्वेतरोध्रं प्रलेपयेत् ११
एरण्डमूलकल्केन पुटपाके पचेत्ततः
स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटलीकृतम् १२
स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनम्
शालितन्दुलकल्केन लिप्तं तद्वत् परिष्कृतम् १३
कुर्यान्नेत्रेऽतिलिखिते मृदितं दधिमस्तुना
केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः १४
पिटिका व्रीहिवक्त्रेण भित्त्वा तु कठिनोन्नताः
निष्पीडयेदनु विधिः परिशेषस्तु पूर्ववत् १५
लेखने भेदने चायं क्रमः सर्वत्र वर्त्मनि
पित्तास्रोत्क्लिष्टयोः स्वादुस्कन्धसिद्धेन सर्पिषा १६
सिराविमोक्षः स्निग्धस्य त्रिवृच्छ्रेष्ठं विरेचनम्
लिखिते स्रुतरक्ते च वर्त्मनि क्षालनं हितम् १७
यष्टीकषायः सेकस्तु क्षीरं चन्दनसाधितम्
पक्ष्मणां सदने सूच्या रोमकूपान् विकुट्टयेत् १८
ग्राहयेद्वा जलौकोभिः पयसेक्षुरसेन वा
वमनं नावनं सर्पिः शृतं मधुरशीतलैः १९
सञ्चूर्ण्य पुष्पकासीसं भावयेत्सुरसारसैः
ताम्रे दशाहं परमं पक्ष्मशाते तदञ्जनम् २०
पोथकीर्लिखिताः शुण्ठीसैन्धवप्रतिसारिताः
उष्णाम्बुक्षालिताः सिञ्चेत् खदिराढकिशिग्रुभिः २१
अप्सिद्धैर्द्विनिशाश्रेष्ठामधुकैर्वा समाक्षिकैः
कफोत्क्लिष्टे विलिखिते सक्षौद्रैः प्रतिसारणम् २२
सूक्ष्मैः सैन्धवकासीसमनोह्वाकणतार्क्ष्यजैः
वमनाञ्जननस्यादि सर्वं च कफजिद्धितम् २३
कर्तव्यं लगणेऽप्येतदशान्तावग्निना दहेत्
स्विन्नां भित्त्वा विनिष्पीड्य भिषगञ्जननामि काम् शिलैलासैन्धवनतैः सक्षौद्रैः प्रतिसारयेत् १
कुकूणे खदिरश्रेष्ठानिम्बपत्रशृतं घृतम् २४
पीत्वा धात्री वमेत्कृष्णायष्टीसर्षपसैन्धवैः
अभयापिप्पलीद्रा क्षाक्वाथेनैनां विरेचयेत् २५
मुस्ताद्विरजनीकृष्णा कल्केनालेपयेत्स्तनौ
धूपयेत्सर्षपैः साज्यैः शुद्धां क्वाथं च पाययेत् २६
पटोलमुस्तमृद्वीकागुडूची त्रिफलोद्भवम्
शिशोस्तु लिखितं वर्त्म स्रुतासृग्वाऽम्बुजन्मभिः २७
धात्र्यश्मन्तकजम्बूत्थपत्रक्वाथेन सेचयेत्
प्रायः क्षीरघृताशित्वाद्बालानां श्लेष्मजा गदाः २८
तस्माद्वमनमेवाग्रे सर्वव्याधिषु पूजितम्
सिन्धूत्थकृष्णापामार्गबीजाज्यस्तन्यमाक्षिकम् २९
चूर्णो वचायाः सक्षौद्रो मदनं मधुकान्वितम्
क्षीरं क्षीरान्नमन्नं च भजतः क्रमतः शिशोः ३०
वमनं सर्वरोगेषु विशेषेण कुकूणके
सप्तलारससिद्धाज्यं योज्यं चोभयशोधनम् ३१
द्विनिशारोध्रयष्ट्याह्वरोहिणी निम्बपल्लवैः
कुकूणके हिता वर्तिः पिष्टैस्ताम्ररजोन्वितैः ३२
क्षीरक्षौद्र घृतोपेतं दग्धं वा लोहजं रजः
एलारसोनकतक शङ्खोषणफणिज्जकैः ३३
वर्तिः कुकूणपोथक्योः सुरापिष्टैः सकट्फलैः
पक्ष्मरोधे प्रवृद्धेषु शुद्धदेहस्य रोमसु ३४
उत्सृज्य द्वौ भ्रुवोऽधस्ताद्भागौ भागं च पक्ष्मतः
यवमात्रं यवाकारं तिर्यक् छित्वाऽद्र वाससा ३५
अपनेयमसृक् तस्मिन्नल्पीभवति शोणिते
सीव्येत्कुटिलया सूच्या मुद्गमात्रान्तरैः पदैः ३६
बध्वा ललाटे पट्टं च तत्र सीवनसूत्रकम्
नातिगाढश्लथं सूच्या निक्षिपेदथ योजयेत् ३७
मधुसर्पिःकवलिकां न चास्मिन् बन्धमाचरेत्
न्यग्रोधादिकषायैश्च सक्षीरैः सेचयेद्रुजि ३८
पञ्चमे दिवसे सूत्रमपनीयावचूर्णयेत्
गैरिकेण व्रणं युञ्ज्यात्तीक्ष्णं नस्याञ्जनादि च ३९
दहेदशान्तौ निर्भुज्य वर्त्मदोषाश्रयां वलीम्
संदंशेनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत् ४०
सूच्यग्रेणाग्निवर्णेन दाहो बाह्यालजेः पुनः
भिन्नस्य क्षारवह्निभ्यां सुच्छिन्नस्यार्बुदस्य च ४१
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने वर्त्मरोगप्रतिषेधो नाम नवमोऽध्यायः ९

दशमोऽध्यायः
अथातः सन्धिसितासितरोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वायुः क्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः
अश्रु स्रावयते वर्त्मशुक्लसन्धे कनीनकात् १
तेन नेत्रं सरुग्रागशोफं स्यात्स जलास्रवः
कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत् २
कफेन शोफस्तीक्ष्णाग्रः क्षारबुद्बुदकोपमः
पृथुमूलबलः स्निग्धः सवर्णो मृदुपिच्छिलः ३
महानपाकः कण्डूमानुपनाहः स नीरुजः
रक्ताद् रक्तास्रवे ताम्रं बहूष्णं चाश्रु संस्रवेत् ४
वर्त्मसन्ध्याश्रया शुक्ले पिटिका दाहशूलिनी
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी ५
पूयास्रवे मलाः सास्रा वर्त्मसन्धे कनीनकात्
स्रावयन्ति मुहुः पूयं सास्रं त्वङ्मांसपाकतः ६
पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः
कनीनसन्धावाध्मायी पूयास्रावी सवेदनः ७
कनीनस्यान्तरलजी शोफो रुक्तोददाहवान्
अपाङ्गे वा कनीने वा कण्डूषापक्ष्मपोटवान् ८
पूयास्रावी कृमिग्रन्थिर्ग्रन्थिः कृमियुतोऽतिमान्
उपनाहकृमिग्रन्थिपूयालसकपर्वणीः ९
शस्त्रेण साधयेत्पञ्च सालजीनास्रवांस्त्यजेत्
पित्तं कुर्यात्सिते बिन्दूनसितश्यावपीतकान् १०
मलाक्तादर्शतुल्यं वा सर्वं शुक्लं सदाहरुक्
रोगोऽय शुक्तिकासंज्ञः सशकृद्भेदतृड्ज्वरः ११
कफाच्छुक्ले समं श्वेतं चिरवृद्ध्य्धिमांसकम्
शुक्लार्म शोफस्त्वरुजः सवर्णो बहलोऽमृदुः १२
गुरुः स्निग्धोऽम्बुबिन्द्वाभो बलासग्रथितं स्मृतम्
बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत् १३
रक्तराजीततं शुक्लमुष्यते यत्सवेदनम्
अशोफाश्रूपदेहं च सिरोत्पातः स शोणितात् १४
उपेक्षितः सिरोत्पातो राजीस्ता एव वर्धयन्
कुर्यात्सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम् १५
सिराजाले सिराजालं बृहद्र क्तं घनोन्नतम्
शोणितार्म समं श्लक्ष्णं पद्माभमधिमांसकम् १६
नीरुक् श्लक्ष्णोऽजुनं बिन्दुः शशलोहितलोहितः
मृद्वाशुवृद्ध्य्रुङ्मांसं प्रस्तारि श्यावलोहितम् १७
प्रस्तार्यर्म मलैः सास्रैः स्नावार्म स्नावसन्निभम्
शुष्कासृक्पिण्डवच्छ्यावं यन्मांसं बहलं पृथु १८
अधिमांसार्म तद् दाहघर्षवत्यः सिरावृताः
कृष्णासन्नाः सिरासंज्ञाः पिटिकाः सर्षपोपमाः १९
शुक्तिहर्षसिरोत्पातपिष्टक ग्रथितार्जुनम्
साधयेदौषधैः षट्कं शेषं शस्त्रेण सप्तकम् २०
नवोत्थं तदपि द्र व्यैः अर्मोक्तं यच्च पञ्चधा
तच्छेद्यमसितप्राप्तं मांसस्नावसिरावृतम् २१
चर्मोद्दालवदुच्छ्रायि दृष्टिप्राप्तं च वर्जयेत्
पित्तं कृष्णेऽथवा दृष्टौ शुक्रं तोदाश्रुरागवत् २२
छित्त्वा त्वचं जनयति तेन स्यात्कृष्णमण्डलम्
पक्वजम्बूनिभं किञ्चिन्निम्नं च क्षतशुक्रकम् २३
तत्कृच्छ्रसाध्यं याप्यं तु द्वितीयपटलव्यधात्
तत्र तोदादिबाहुल्यं सूचीविद्धाभकृष्णता २४
तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः
शङ्खशुक्लं कफात्साध्यं नातिरुक् शुद्धशुक्रकम् २५
आताम्रपिच्छिलास्रस्रुदाताम्र पिटिकाऽतिरुक्
अजाविट्सदृशोच्छ्रायकार्ष्ण्या वर्ज्याऽसृजाऽजका २६
सिराशुक्रं मलैः सास्रैस्तज्जुष्टं कृष्णमण्डलम्
सतोददाहताम्राभिः सिराभिरवतन्यते २७
अनिमित्तोष्णशीताच्छघनास्रस्रुच्च तत्त्यजेत्
दोषैः सास्रैः सकृत्कृष्णं नीयते शुक्लरूपताम् २८
धवलाभ्रोपलिप्ताभं निष्पावार्धदलाकृति
अतितीव्ररुजा रागदाहश्वयथुपीडितम् २९
पाकात्ययेन तच्छुक्रं वर्जयेत्तीव्रवेदनम्
यस्य वा लिङ्गनाशोऽन्त श्यावं यद्वा सलोहितम् ३०
अत्युत्सेधावगाढं वा साश्रु नाडीव्रणावृतम्
पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्रकम् ३१
पञ्चेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः ३१-२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सन्धिसितासितरोगविज्ञानीयो नाम दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातःसन्धिसितासितरोगप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
उपनाहं भिषक् स्विन्नं भिन्नं व्रीहिमुखेन च
लेखयेन्मण्डलाग्रेण ततश्च प्रतिसारयेत् १
पिप्पलीक्षौद्र सिन्धूत्थै र्बध्नीयात्पूर्ववत्ततः
पटोलपत्रामलकक्वाथेनाच्योतयेच्च तम् २
पर्वणी बडिशेनात्ता बाह्यसन्धित्रिभागतः
वृद्धिपत्रेण वर्ध्याऽधे स्यादश्रुगतिरन्यथा ३
चिकित्सा चार्मवत्क्षौद्र सैन्धवप्रतिसारिता
पूयालसे सिरां विध्येत्ततस्तमुपनाहयेत् ४
कुर्वीत चाक्षिपाकोक्तं सर्वं कर्म यथाविधि
सैन्धवार्द्र ककासीसलोहताम्रैः सुचूर्णितैः ५
चूर्णाञ्जनं प्रयुञ्जीत सक्षौद्रै र्वा रसक्रियाम्
कृमिग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च ६
त्रिफलाक्षौद्र कासीससैन्धवैः प्रतिसारयेत्
पित्ताभिष्यन्दवच्छुक्तिं बलासाह्वयपिष्टके ७
कफाभिष्यन्दवन्मुक्त्वा सिराव्यधमुपाचरेत्
बीजपूररसाक्तं च व्योषकट्फलमञ्जनम् ८
जातीमुकुलसिन्धूत्थदेव दारुमहौषधैः
पिष्टैः प्रसन्नया वर्तिः शोफकण्डूघ्नमञ्जनम् ९
रक्तस्यन्दवदुत्पातहर्ष जालार्जुनक्रिया
सिरोत्पाते विशेषेण घृतमाक्षिकमञ्जनम् १०
सिराहर्षे तु मधुना श्लक्ष्णघृष्टं रसाञ्जनम्
अर्जुने शर्करामस्तुक्षौद्रै राश्च्योतनं हितम् ११
स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाऽञ्जनम्
मधुना चाञ्जनं शङ्खः फेनो वा सितया सह १२
अर्मोक्तं पञ्चधा तत्र तनु धूमाविलं च यत्
रक्तं दधिनिभं यच्च शुक्रवत्तस्य भेषजम् १३
उत्तानस्येतरत् स्विन्नं ससिन्धूत्थेन चाञ्जितम्
रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत् १४
इत्थं संरोषिताक्षस्य प्रचलेऽमाधिमांसके
धृतस्य निश्चलं मूर्ध्नि वर्त्मनोश्च विशेषतः १५
अपाङ्गमीक्षमाणस्य वृद्धेऽमणि कनीनकात्
वली स्याद्यत्र तत्रार्म बडिशेनावलम्बितम् १६
नात्यायतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः
समन्तान्मण्डलाग्रेण मोचयेदथ मोक्षितम् १७
कनीनकमुपानीय चतुर्भागावशेषितम्
छिन्द्यात्कनीनकं रक्षेद्वाहिनीश्चाश्रुवाहिनीः १८
कनीनकब्यधादश्रु नाडी चाक्ष्णि प्रवर्तते
वृद्धेऽमणि तथाऽपाङ्गात्पश्यतोऽस्य कनीनकम् १९
सम्यक् छिन्नं मधुव्योषसैन्धवप्रतिसारितम्
उष्णेन सर्पिषा सिक्तमभ्यक्तं मधुसर्पिषा २०
बध्नीयात्सेचयेन्मुक्त्वा तृतीयादिदिनेषु च
करञ्जबीजसिद्धेन क्षीरेण क्वथितैस्तथा २१
सक्षौद्रै र्द्विनिशारोध्र पटोलीयष्टिकिंशुकैः
कुरण्टमुकुलोपेतैर्मुञ्चेदेवाह्नि सप्तमे २२
सम्यक् छिन्ने भवेत्स्वास्थ्यं हीनातिच्छेदजान् गदान्
सेकाञ्जनप्रभृति भिर्जयेल्लेखनबृंहणैः २३
सितामनः शिलैलेयलवणोत्तमनागरम्
अर्धकर्षोन्मितं तार्क्ष्यं पलार्धं च मधुद्रुतम् २४
अञ्जनं श्लेष्मतिमिरपिल्लशुक्रार्मशेषजित्
त्रिफलैकतमद्र व्यत्वचं पानीयकल्किताम् २५
शरावपिहितां दग्ध्वा कपाले चूर्णयेत्ततः
पृथक्शेषौषधरसैः पृथगेव च भाविता २६
सा मषी शोषिता पेष्या भूयो द्विलवणान्विता
त्रीण्येतान्यञ्जनान्याह लेखनानि परं निमिः २७
सिराजाले सिरा यास्तु कठिना लेखनौषधैः
न सिद्ध्य्न्त्यर्मवत्तासां पिटिकानां च साधनम् २८
दोषानुरोधाच्छुक्रेषु स्निग्धरूक्षा वरा घृतम्
तिक्तमूर्ध्वमसृक्स्रावो रेकसेकादि चेष्यते २९
त्रिस्त्रिवृद्वारिणा पक्वं क्षतशुक्रे घृतं पिबेत्
सिरयाऽनु हरेद्र क्तं जलौकोभिश्च लोचनात् ३०
सिद्धेनोत्पलकाकोलीद्रा क्षा यष्टिविदारिभिः
ससितेनाजपयसा सेचनं सलिलेन वा ३१
रागाश्रुवेदनाशान्तौ परं लेखनमञ्जनम्
वर्तयो जातिमुकुललाक्षागैरिकचन्दनैः ३२
प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षतशुक्रकम्
दन्तैर्दन्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः ३३
सशङ्खमौक्तिकाम्भोधिफेनैर्मरिच पादिकैः
क्षतशुक्रमपि व्यापि दन्तवर्तिर्निवर्तयेत् ३४
तमालपत्रं गोदन्तशङ्खफेनोऽस्थि गार्दभम्
ताम्रं च वर्तिर्मूत्रेण सर्वशुक्रकनाशिनी ३५
रत्नानि दन्ताः शृङ्गाणि धातवस्त्र्यूषणं त्रुटिः
करञ्जबीजं लशुनो व्रणसादि च भेषजम् ३६
सव्रणाव्रणगम्भीरत्वक्स्थ शुक्रघ्नमञ्जनम्
निम्नमुन्नमयेत्स्नेह पाननस्यरसाञ्जनैः ३७
सरुजं नीरुजं तृप्तिपुटपाकेन शुक्रकम्
शुद्धशुक्रे निशायष्टीसारिवाशाबराम्भसा ३८
सेचनं रोध्रपोटल्या कोष्णाम्भोमग्नयाऽथवा
बृहतीमूलयष्ट्याह्वताम्र सैन्धवनागरैः ३९
धात्रीफलाम्बुना पिष्टैर्लेपितं ताम्रभाजनम्
यवाज्यामलकीपत्रैर्बहुशो धूपयेत्ततः ४०
तत्र कुर्वीत गुटिकास्ता जलक्षौद्र पेषिताः
महानीला इति ख्याताः शुद्धशुक्रहराः परम् ४१
स्थिरे श्रुके घने चास्य बहुशोऽपहरेदसृक्
शिरःकायविरेकांश्च पुटपाकांश्च भूरिशः ४२
कुर्यान्मरिचवैदेहीशिरीष फलसैन्धवैः
हर्षणं त्रिफलाक्वाथपीतेन लवणेन वा ४३
कुर्यादञ्जनयोगौ वा श्लोकार्धगदिताविमौ
शङ्खकोलास्थिकतकद्रा क्षामधुकमाक्षिकैः ४४
सुरादन्तार्णवमलैः शिरीषकुसुमान्वितैः
धात्रीफणिज्जकरसे क्षारो लाङ्गलिकोद्भवः ४५
उषितः शोषितश्चूर्णः शुक्रहर्षणमञ्जनम्
मुद्गा वा निस्तुषाः पिष्टाः शङ्खक्षौद्र समायुताः ४६
सारो मधूकान्मधुमान् मज्जा वाऽक्षात्समाक्षिका
गोखराश्वोष्ट्रदशनाः शङ्खः फेनः समुद्र जः ४७
वर्तिरर्जुनतोयेन हृष्टशुक्रकनाशिनी
उत्सन्नं वा सशल्यं वा शुक्रं वालादिभिर्लिखेत् ४८
सिराशुक्रे त्वदृष्टिघ्ने चिकित्सा व्रणशुक्रवत्
पुण्ड्रयष्ट्याह्वकाकोलीसिंहीलोहनिशाञ्जनम् ४९
कल्कितं छागदुग्धेन सघृतैर्धूपितं यवैः
धात्रीपत्रैश्च पर्यायाद्वर्तिरत्राञ्जनं परम् ५०
अशान्तावर्मवच्छस्त्रमजकाख्ये च योजयेत्
अजकायामसाध्यायां शुक्रेऽन्यत्र च तद्विधे ५१
वेदनोपशमं स्नेहपानासृकस्रावणादिभिः
कुर्याद्बीभत्सतां जेतुं शुक्रस्योत्सेधसाधनम् ५२
नालिकेरास्थिभल्लातताल वंशकरीरजम्
भस्माद्भिः स्रावयेत्ताभिर्भावयेत्करभास्थिजम् ५३
चूर्णं शुक्रेष्वसाध्येषु तद्वैवर्ण्यघ्नमञ्जनम्
साध्येषु साधनायालमिदमेव च शीलितम् ५४
अजकां पार्श्वतो विध्वा सूच्या विस्राव्य चोदकम्
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत् ५५
व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च
सप्तरात्राद् व्रणे रूढे कृष्णभागे समे स्थिरे ५६
स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा
तथाऽपि पुनराध्माने भेदच्छेदादिकां क्रियाम् ५७
युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम् ५७॥१२
नित्यं च शुक्रेषु शृतं यथास्वं
पाने च मर्शे च घृतं विदध्यात्
न हीयते लब्धबला तथाऽन्त
स्तीक्ष्णाञ्जनैर्दृक् सततं प्रयुक्तैः ५८-२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृददयसंहितायां षष्ठे उत्तरस्थाने सन्धिसितासितरोगप्रतिषेधो नामैकादशोऽध्यायः ११

द्वादशोऽध्यायः
अथातो दृष्टिरोगविज्ञानीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
सिरानुसारिणि मले प्रथमं पटलं श्रिते
अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः १
प्राप्ते द्वितीयं पटलमभूतमपि पश्यति
भूतं तु यत्नादासन्नं दूरे सूक्ष्मं च नेक्षते २
दूरान्तिकस्थं रूपं च विपर्यासेन मन्यते
दोषे मण्डलसंस्थाने मण्डलानीव पश्यति ३
द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधास्थिते
दृष्टेरभ्यन्तरगते ह्रस्ववृद्धविपर्ययम् ४
नान्तिकस्थमधःसंस्थे दूरगं नोपरि स्थिते
पार्श्वे पश्येन्नपार्श्वस्थे तिमिराख्योऽयमामयः ५
प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते
तेनोर्ध्वमीक्षते नाधस्तनुचैलावृतोपमम् ६
यथा वर्णं च रज्येत दृष्टिहीर्येत च क्रमात्
तथाऽप्युपेक्षमाणस्य चतुर्थं पटलं गतः ७
लिङ्गनाशं मलः कुर्वन् छादयेद्दृष्टिमण्डलम्
तत्र वातेन तिमिरे व्याविद्धमिव पश्यति ८
चलाविलारुणाभासं प्रसन्नं चेक्षते मुहुः
जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च ९
काचीभूते दृगरुणा पश्यत्यास्यमनासिकम्
चन्द्र दीपाद्यनेकत्वं वक्रमृज्वपि मन्यते १०
वृद्धः काचो दृशं कुर्याद्र जोधूमावृतामिव
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ११
स लिङ्गनाशो वाते तु सङ्कोचयति दृक्सिराः
दृग्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता १२
पित्तजे तिमिरे विद्युत्खद्योतद्योतदीपितम्
शिखितित्तिरिपत्राभं प्रायो नीलं च पश्यति १३
काचे दृक् काचनीलाभा तादृगेव च पश्यति
अर्केन्दुपरिवेषाग्निमरीचीन्द्र धनूंषि च १४
भृङ्गनीला निरालोका दृक् स्निग्धा लिङ्गनाशतः
दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शिनी १५
भवेत्पित्तविदग्धाख्या पीता पीताभदर्शना
कफेन तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति १६
शङ्खेदुकुन्दकुसुमैः कुमुदैरिव चाचितम्
काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम् १७
सिताभा सा च दृष्टिः स्याल्लिङ्गनाशे तु लक्ष्यते
मूर्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः १८
बिन्दुर्जलस्येव चलः पद्मिनीपुटसंस्थितः
उष्णे सङ्कोचमायाति छायायां परिसर्पति १९
शङ्खकुन्देन्दुकुमुदस्फटि कोपमशुक्लिमा
रक्तेन तिमिरे रक्तं तमोभूतं च पश्यति २०
काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति
लिङ्गनाशेऽपि तादृग् दृङ् निष्प्रभा हतदर्शना २१
संसर्गसन्निपातेषु विद्यात्सङ्कीर्णलक्षणान्
तिमिरादीनकस्माच्च तैः स्याद्व्यक्ताकुलेक्षणः २२
तिमिरे शेषयोर्दृष्टौ चित्रो रागः प्रजायते
द्योत्यते नकुलस्येव यस्य दृङ् निचिता मलैः २३
नकुलान्धः स तत्राह्नि चित्रं पश्यति नो निशि
अर्केऽस्तमस्तकन्यस्तगभस्तौ स्तम्भमागताः २४
स्थगयन्ति दृशं दोषा दोषान्धः स गदोऽपरः
दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः २५
विलीनलीना यच्छन्ति व्यक्तमत्राह्नि दर्शनम्
उष्णतप्तस्य सहसा शीतवारिनिमज्जनात् २६
त्रिदोषरक्तसंपृक्तो यात्युष्मोर्ध्वं ततोऽक्षिणि
दाहोषे मलिनं शुक्लमहन्याविलदर्शनम् २७
रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता
भृशमम्लाशनाद्दोषैः सास्रैर्या दृष्टिराचिता २८
सक्लेदकण्डूकलुषा विदग्धाऽम्लेन सा स्मृता
शोकज्वरशिरोरोगसन्तप्तस्यानिलादयः २९
धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः
सहसैवाल्पसत्त्वस्य पश्यतो रूपमद्भुतम् ३०
भास्वरं भास्करादिं वा वाताद्या नयनाश्रिताः
कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम् ३१
वैडूर्यवर्णां स्तिमितां प्रकृतिस्थामिवाव्यथाम्
औपसर्गिक इत्येष लिङ्गनाशो ऽत्र वर्जयेत् ३२
विना कफाल्लिङ्गनाशान् गम्भीरां ह्रस्वजामपि
षट् काचा नकुलान्धश्च याप्याः शेषांस्तु साधयेत्
द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः ३३॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने दृष्टिरोगविज्ञानीयो नाम द्वादशोऽध्यायः १२

त्रयोदशोऽध्यायः
अथातस्तिमिरप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
तिमिरं काचतां याति काचोऽप्यान्ध्यमुपेक्षया
नेत्ररोगेष्वतो घोरं तिमिरं साधयेद् द्रुतम् १
तुलां पचेत जीवन्त्या द्रो णेऽपा पादशेषिते
तत्क्वाथे द्विगुणक्षीरं घृतप्रस्थं विपाचयेत् २
प्रपौण्डरीककाकोली पिप्पलीरोध्रसैन्धवैः
शताह्वामधुकद्रा क्षासिता दारुफलत्रयैः ३
काषिकैर्निशि तत्पीतं तिमिरापहरं परम्
द्रा क्षाचन्दनमञ्जिष्ठाकाकोलीद्वयजीवकैः ४
सिताशतावरीमेदापुण्ड्राह्व मधुकोत्पलैः
पचेज्जीर्णघृतप्रस्थं समक्षीरं पिचून्मितैः ५
हन्ति तत्काचतिमिररक्तराजीशिरोरुजः
पटोलनिम्बकटुकादार्वीसेव्यवरावृषम् ६
सधन्वयासत्रायन्तीपर्पटं पालिकं पृथक्
प्रस्थमामलकानां च क्वाथयेन्नल्वणेऽम्भसि ७
तदाढकेऽधपलिकैः पिष्टैः प्रस्थं घृतात्पचेत्
मुस्तभूनिम्बयष्ट्याह्व कुटजोदीच्यचन्दनैः ८
सपिप्पलीकैस्तत्सर्पिर्घ्राण कर्णास्यरोगजित्
विद्र धिज्वरदुष्टारुर्विसर्पा पचिकुष्ठनुत् ९
विशेषाच्छुक्रतिमिरनक्तान्ध्योष्णाम्लदाहहृत्
त्रिफलाष्टपलं क्वाथ्यं पादशेषं जलाढके १०
तेन तुल्यपयस्केन त्रिफलापलकल्कवान्
अर्धप्रस्थो घृतात्सिद्धः सितया माक्षिकेण वा ११
युक्तं पिबेत्तत्तिमिरी तद्युक्तं वा वरारसम्
यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः १२
पालिकैः ससिताद्रा क्षैर्घृतप्रस्थं पचेत्समैः
अजाक्षीरवरावासामार्कवस्वरसैः पृथक् १३
महात्रैफलमित्येतत्परं दृष्टिविकारजित्
त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि १४
यष्टीमधुकसंयुक्तां मधुना च परिप्लुताम्
मासमेकं हिताहारः पिबन्नामलकोदकम् १५
सौपर्णं लभते चक्षुरित्याह भगवान्निमिः
ताप्यायोहेमयष्ट्याह्वसिताजीर्णाज्यमाक्षिकैः १६
संयोजिता यथाकामं तिमिरघ्नी वरा वरा
सघृतं वा वराक्वाथं शीलयेत्तिमिरामयी १७
अपूपसूपसक्तून् वा त्रिफलाचूर्णसंयुतान्
पायसं वा वरायुक्तं शीतं समधुशर्करम् १८
प्रातर्भक्तस्य वा पूर्वमद्यात्पथ्यां पृथक् पृथक्
मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः १९
स्रोतोजांशांश्चतुःषष्टिं ताम्रायोरूप्यकाञ्चनैः
युक्तान् प्रत्येकमेकांशैरन्धमूषोदरस्थितान् २०
ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत्
रसस्कन्धकषायेषु सप्तकृत्वः पृथक् पृथक् २१
वैडूर्यमुक्ताशङ्खानां त्रिभिर्भागैर्युतं ततः
चूर्णाञ्जनं प्रयुञ्जीत तत्सर्वतिमिरापहम् २२
मांसीत्रिजातकायःकुङ्कुमनीलोत्पलाभयातुत्थैः
सितकाचशङ्खफेनकमरिचाञ्जनपिप्पलीमधुकैः २३
चन्द्रे ऽश्विनीसनाथे सुचूर्णितैरञ्जयेद्युगुलमक्ष्णोः
तिमिरार्मरक्तराजीकण्डूकाचादिशममिच्छन् २४
मरिचवरलवणभागौ भागौ द्वौ कणसमुद्र फेनाभ्याम्
सौवीरभागनवकं चित्रायां चूर्णितं कफामयजित् २५
मिनोह्वातुत्थकस्तुरी मांसीमलयरोचनाः
दशकर्पूरसंयुक्त मशीतिगुणमञ्जनम् १
पिष्टं चित्राश्विनीपुष्ये षडिवधे तिमिरे हितम्
प्रसादनं च दृष्टेः स्याच्चक्षुषेणावभाषितम् २
द्रा क्षामृणालीस्वरसे क्षीरमद्यवसासु च
पृथक् दिव्याप्सु स्रोतोजं सप्तकृत्वो निषेचयेत् २६
तच्चूर्णितं स्थितं शङ्खे दृक्प्रसादनमञ्जनम्
शस्तं सर्वाक्षिरोगेषु विदेहपतिनिर्मितम् २७
निर्दग्धं बादराङ्गारैस्तुत्थं चेत्थं निषेचितम्
क्रमादजापयः सर्पिःक्षौद्रे तस्मात् पलद्वयम् २८
कार्षिकैस्ताप्यमरिचस्नोतोज कटुकानतैः
पटुरोध्रशिलापथ्याकणै लाञ्जनफेनकैः २९
युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम्
हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलितः ३०
चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा
त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् ३१
शुल्बतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्त्रयम्
अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम् ३२
तिमिरान्तकरं लोके द्वितीयइव भास्करः
गोमूत्रे छगणरसेऽम्लकाञ्जिके च
स्त्रीस्तन्ये हविषि विषे च माक्षिके च
यत्तुत्थं ज्वलितमनेकशो निषिक्तं
तत्कुर्याद्गरुडसमं नरस्य चक्षुः ३३
श्रेष्ठाजलं भृङ्गरसं सविषाज्यमजापयः
यष्टीरसं च यत्सीसं सप्तकृत्वः पृथक् पृथक् ३४
तप्तं तप्तं पायितं तच्छलाका
नेत्रे युक्ता साञ्जनाऽनञ्जना वा
तैमिर्यार्मस्राव पैच्छिल्यपैल्लं
कण्डूं जाड्यं रक्तराजीं च हन्ति ३५
रसेन्द्र भुजगौ तुल्यौ तयोस्तुल्यमथाञ्जनम्
ईषत्कर्पूरसंयुक्तमञ्जनं तिमिरापहम् ३६
यो गृध्रस्तरुणरविप्रकाशगल्ल
स्तस्यास्यं समयमृतस्य गोशकृद्भिः
निर्दग्धं समधृतमञ्जनं च पेष्यं
योगोऽय नयनबलं करोति गार्ध्रम् ३७
कृष्णसर्पवदने सहविष्कं दग्धमञ्जननिःसृतधूमम्
चूर्णितं नलदपत्रविमिश्रं भिन्नतारमपि रक्षति चक्षुः ३८
कृष्णसर्पं मृतं न्यस्य चतुरश्चापि वृश्चिकान्
क्षीरकुम्भे त्रिसप्ताहं क्लेदयित्वा प्रमन्थयेत् ३९
तत्र यन्नवनीतं स्यात्पुष्णीयात्तेन कुक्कुटम्
अन्धस्तस्य पुरीषेण प्रेक्षते ध्रुवमञ्जनात् ४०
कृष्णसर्पवसा शङ्खः कतकात् फलमञ्जनम्
रसक्रियेयमचिरादन्धानां दर्शनप्रदा ४१
मरिचानि दशार्धपिचुस्ताप्यात्तुत्थात्पलं पिचुर्यष्ट्याः
क्षीरार्द्र दग्धमञ्जनमप्रतिसाराख्यमुत्तमं तिमिरे ४२
अक्षबीज मरिचामलकत्वक्तुत्थयष्टिमधु कैर्जलपिष्टैः
छाययैव गुटिकाः परिशुष्कानाशयन्ति तिमिराण्यचिरेण ४३
मरिचामलकजलोद्भव तुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः
षण्माक्षिक इति योगस्तिमिरार्मक्लेदकाचकण्डूर्हन्ता ४४
रत्नानि रूप्यं स्फटिकं सुवर्णंस्रोतोञ्जनं ताम्रमयः सशङ्खम्
कुचन्दनं लोहितगैरिकं च चूर्णाञ्जनं सर्वदृगामयघ्नम् ४५
तिलतैलमक्षतैलं भृङ्गस्वरसोऽसनाच्च निर्यूहः
आयसपात्रविपक्वं करोति दृष्टेर्बलं नस्यम् ४६
दोषानुरोधेन च नैकशस्तं स्नेहास्रविस्रावणरेकनस्यैः
उपाचरेदञ्जनमूर्धबस्ति बस्तिक्रियातर्पणलेपसेकैः ४७
सामान्यं साधनमिदम् प्रतिदोषमतः शृणु ४८
वातजे तिमिरे तत्र दशमूलाम्भसा घृतम्
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः ४९
त्रिफलापञ्चमूलानां कषायं क्षीरसंयुतम्
एरण्डतैलसंयुक्तं योजयेच्च विरेचनम् ५०
समूलजालजीवन्तीतुलां द्रो णेऽम्भसः पचेत्
अष्टभागस्थिते तस्मिंस्तैलप्रस्थं पयःसमे ५१
बलात्रितयजीवन्तीवरीमूलैः पलोन्मितैः
यष्टीपलैश्चतुर्भिश्च लोहपात्रे विपाचयेत् ५२
लोह एव स्थितं मासं नावनादूर्ध्वजत्रुजान्
वातपित्तामयान् हन्ति तद्विशेषाद्दृगाश्रयान् ५३
केशास्यकन्धरास्कन्धपुष्टिलावण्य कान्तिदम्
सितैरण्डजटासिंहीफल दारुवचानतैः ५४
घोषया बिल्वमूलैश्च तैलं पक्वं पयोन्वितम्
नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिजित् ५५
वसाऽञ्जने च वैयाघ्री वाराही वा प्रशस्यते
गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक् ५६
प्रत्यञ्जने च स्रोतोजं रसक्षीरघृते क्रमात्
निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमनुत्तमम् ५७
न चेदेवं शमं याति ततस्तर्पणमाचरेत्
शताह्वाकुष्ठ नलदकाकोलीद्वययष्टिभिः ५८
प्रपौण्डरीकसरल पिप्पलीदेवदारुभिः
सर्पिरष्टगुणक्षीरं पक्वं तर्पणमुत्तमम् ५९
मेदसस्तद्वदैणेयाद्दुग्धसिद्धात् खजाहतात्
उद्धृतं साधितं तेजो मधुकोशीरचन्दनैः ६०
श्वाविच्छल्यकगोधानां दक्षतित्तिरिबर्हिणाम्
पृथक्पृथगनेनैव विधिना कल्पयेद्वसाम् ६१
प्रसादनं स्नेहनं च पुटपाकं प्रयोजयेत्
वातपीनसवच्चात्र निरूहं सानुवासनम् ६२
पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत्सिराम् ६३
शर्करैलात्रिवृच्चूर्णैर्मधुयुक्तै र्विरेचयेत्
सुशीतान् सेकलेपादीन् युञ्ज्यान्नेत्रास्यमूर्धसु ६४
सारिवापद्मकोशीरमुक्ता शाबरचन्दनैः
वर्तिः शस्ताऽञ्जने चूर्णस्तथा पत्रोत्पलाञ्जनैः ६५
सनागपुष्पकर्पूरयष्ट्याह्व स्वर्णगैरिकैः
सौवीराञ्जनतुत्थकशृङ्गीधात्रीफलस्फटिककर्पूरम् ६६
पञ्चांशं पञ्चांशं त्र्यंशमथैकांशमञ्जनं तिमिरघ्नम्
नस्यं चाज्यं शृतं क्षीरजीवनीयसितोत्पलैः ६७
श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम्
विध्येत्सिरां पीतवतो दद्याच्चानु विरेचनम् ६८
क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम्
ह्रीबेरदारुद्विनिशाकृष्णाकल्कैः पयोन्वितैः ६९
द्विपञ्चमूलनिर्यूहे तैलं पक्वं च नावनम्
शङ्खप्रियङ्गुने पालीकटुत्रिकफलत्रिकैः ७०
दृग्वैमल्याय विमला वर्तिः स्यात् कोकिला पुनः
कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः ७१
शशगोखरसिंहोष्ट्रद्विजा लालाटमस्थि च
श्वेतगोवालमरिचशङ्खचन्दनफेनकम् ७२
पिष्टं स्तन्याजदुग्धाभ्यां वर्तिस्तिमिरशुक्रजित्
रक्तजे पित्तवत्सिद्धिः शीतैश्चास्रं प्रसादयेत् ७३
द्रा क्षया नलदरोध्रयष्टिभिः शङ्खताम्रहिमपद्मपद्मकैः
सोत्पलैश्छगलदुग्धवर्तितैरस्रजंतिमिरमाशुनश्यति ७४
संसर्गसन्निपातोत्थे यथादोषोदयं क्रिया
सिद्धं मधूककृमिजिन्मरिचामरदारुभिः ७५
सक्षीरं नावनं तैलं पिष्टैर्लेपो मुखस्य च
नतनीलोत्पलानन्तायष्ट्याह्वसुनिषण्णकैः ७६
साधितं नावने तैलं शिरोबस्तौ च शस्यते
दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम् ७७
तत्स्रुतं सघृतं भूयः पचेत्क्षौद्रं घने क्षिपेत्
शीते चास्मिन् हितमिदं सर्वजे तिमिरेऽञ्जनम् ७८
अस्थीनि मज्जपूर्णानि सत्त्वानां रात्रिचारिणाम्
स्रोतोजाञ्जनयुक्तानि वहत्यम्भसि वासयेत् ७९
मासं विंशतिरात्रं वा ततश्चोद्धृत्य शोषयेत्
समेषशृङ्गीपुष्पाणि सयष्ट्याह्वानि तान्यनु ८०
चूर्णितान्यञ्जनं श्रेष्ठं तिमिरे सान्निपातिके
काचेऽप्येषा क्रिया मुक्त्वा सिरां यन्त्रनिपीडिताः ८१
आन्ध्याय स्युर्मला दद्यात्स्राव्ये त्वस्रे जलौकसः
गुडः फेनोऽञ्जनं कृष्णा मरिचं कुङ्कुमाद्र जः ८२
रसक्रियेयं सक्षौद्रा काचयापनमञ्जनम्
नकुलान्धे त्रिदोषोत्थे तैमिर्यविहितो विधिः ८३
रसक्रिया घृतक्षौद्र गोमयस्वरसद्रुतैः
तार्क्ष्यगैरिकतालीसैर्निशान्धे हितमञ्जनम् ८४
दध्ना विघृष्टं मरिचं रात्र्यन्धेऽञ्जनमुत्तमम्
करञ्जिकोत्पलस्वर्णगैरिकाम्भोजकेसरैः ८५
पिष्टैर्गोमयतोयेन वर्तिर्दोषान्धनाशिनी
अजामूत्रेण वा कौन्तीकृष्णास्रोतोजसैन्धवैः ८६
कालानुसारीत्रिकटुत्रिफलालमनः शिलाः
सफेनाश्छागदुग्धेन रात्र्यन्धे वर्तयो हिताः ८७
सन्निवेश्य यकृन्मध्ये पिप्पलीरदहन्पचेत्
ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठमञ्जनम् ८८
खादेच्च प्लीहयकृती माहिषे तैलसर्पिषा
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत् ८९
तथाऽतिमुक्तकैरण्डशेफाल्यभीरुजानि च
भृष्टं घृतं कुम्भयोनेः पत्रैः पाने च पूजितम् ९०
धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा
स्निग्धं विरेचयेच्छीतैः शीतैर्दिह्याच्च सर्वतः ९१
गोशकृद्र सदुग्धाज्यैर्विपक्वं शस्यतेऽञ्जनम्
स्वर्णगैरिकतालीसचूर्णावापा रसक्रिया ९२
मेदाशाबरकानन्ता मञ्जिष्ठादार्वियष्टिभिः
क्षीराष्टांशं घृतं पक्वं सतैलं नावनं हितम् ९३
तर्पणं क्षीरसर्पिः स्यादशाम्यति सिराव्यधः
चिन्ताभिघातभीशोकरौक्ष्यात् सोत्कटकासनात् ९४
विरेकनस्यवमन पुटपाकादिविभ्रमात्
विदग्धाहारवमनात् क्षुत्तृष्णादिविधारणात् ९५
अक्षिरोगावसानाच्च पश्येत्तिमिररोगिवत्
यथास्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम् ९६
सूर्योपरागानलविद्युदादि विलोकनेनोपहतेक्षणस्य
सन्तर्पणं स्निग्धहिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम् ९७
चक्षूरक्षायां सर्वकालं मनुष्यैर्यत्नः
कर्तव्यो जीविते यावदिच्छा
व्यर्थो लोकोऽय तुल्यरात्रिंदिवानां
पुंसामन्धानां विद्यमानेऽपि वित्ते ९८
त्रिफला रुधिरस्रुतिर्विशुद्धिर्मनसो निर्वृतिरञ्जनं सनस्यम्
शकुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा ९९
अहितादशनात्सदा निवृत्ति र्भृशभास्वच्चलसूक्ष्मवीक्षणाच्च
मुनिना निमि नोपदिष्टमेतत् परमं रक्षणमीक्षणस्य पुंसाम् १००
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने तिमिरप्रतिषेधो नाम त्रयोदशोऽध्यायः १३

चतुर्दशोऽध्यायः
अथातो लिङ्गनाशप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
विध्येत्सुजातं निःप्रेक्ष्यं लिङ्गनाशं कफोद्भवम्
आवर्तक्यादिभिः षड्भिर्विवर्जितमुपद्र वैः १
सोऽसञ्जातो हि विषमो दधिमस्तुनिभस्तनुः
शलाकयाऽवकृष्टोऽपि पुनरूर्ध्वं प्रपद्यते २
करोति वेदनां तीव्रां दृष्टिं च स्थगयेत्पुनः
श्लेष्मलैः पुर्यते चाशु सोऽन्यै सोपद्र वश्चिरात् ३
श्लैष्मिको लिङ्गनाशो हि सितत्वाच्छ्लेष्मणः सितः
तस्यान्यदोषाभिभवाद्भवत्यानीलता गदः ४
तत्रावर्तचला दृष्टिरावर्तक्यरुणाऽसिता
शर्कराऽकपयोलेशनिचितेव घनाति च ५
राजीमती दृङ्निचिता शालिशूकाभराजिभिः
विषमच्छिन्नदग्धाभा सरुक् छिन्नांशुका स्मृता ६
दृष्टिः कांस्यसमच्छाया चन्द्र की चन्द्र काकृतिः
छत्राभा नेकवर्णा च छत्रकी नाम नीलिका ७
न विध्येदसिरार्हाणां न तृट्पीनसकासिनाम्
नाजीर्णिभीरुवमितशिरः कर्णाक्षिशूलिनाम् ८
अथ साधारणे काले शुद्धसम्भोजितात्मनः
देशे प्रकाशे पूर्वाह्णे भिषग्जानूच्चपीठगः ९
यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः
अङ्गुष्ठमृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम् १०
स्वां नासां प्रेक्षमाणस्य निष्कम्पं मूर्ध्नि धारिते
कृष्णादर्धाङ्गुलं मुक्त्वा तथाऽधार्धमपाङ्गतः ११
तर्जनीमध्यमाङ्गुष्ठैः शलाकां निश्चलं धृताम्
दैवच्छिद्रं नयेत्पार्श्वादूर्ध्वमामन्थयन्निव १२
सव्यं दक्षिणहस्तेन नेत्रं सव्येन चेतरत्
विध्येत् सुविद्धे शब्दःस्यादरुक् चाम्बुलवस्रुतिः १३
सान्त्वयन्नातुरं चानु नेत्रं स्तन्येन सेचयेत्
शलाकायास्ततोऽग्रेण निर्लिखेन्नेत्रमण्डलम् १४
अबाधमानः शनकैर्नासां प्रति नुदंस्ततः
उच्छिङ्घनाच्चापहरेद्दृष्टिमण्डलगं कफम् १५
स्थिरे दोषे चले वाऽति स्वेदयेदक्षि बाह्यतः
अथ दृष्टेषु रूपेषु शलाकामाहरेच्छनैः १६
घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत्ततः
विद्धादन्येन पार्श्वेन तमुत्तानं द्वयोर्व्यधे १७
निवाते शयनेऽभ्यक्तशिरःपादं हिते रतम्
क्षवथुं कासमुद्गारं ष्ठीवनं पानमम्भसः १८
अधोमुखस्थितिं स्नानं दन्तधावनभक्षणम्
सप्ताहं नाचारेत्स्नेहपीतवच्चात्र यन्त्रणा १९
शक्तितो लङ्घयेत्सेको रुजि कोष्णेन सर्पिषा
सव्योषामलकं वाट्यमश्नीयात्सघृतं द्र वम् २०
विलेपीं वा त्र्यहाच्चास्य क्वाथैर्मुक्त्वाऽक्षि सेचयेत्
वातघ्नैः सप्तमे त्वह्नि सर्वथैवाक्षि मोचयेत् २१
यन्त्रणामनुरुध्येत दृष्टेरास्थैर्यलाभतः
रूपाणि सूक्ष्मदीप्तानि सहसा नावलोकयेत् २२
शोफरागरुजादीनामधिमन्थस्य चोद्भवः
अहितैर्वेधदोषाच्च यथास्वं तानुपाचरेत् २३
कल्किताः सघृताः दूर्वायवगैरिकसारिवाः
मुखालेपे प्रयोक्तव्या रुजारागोपशान्तये २४
ससर्षपास्तिलास्तद्वन्मातुलुङ्ग रसाप्लुताः
पयस्यासारिवापत्रमञ्जिष्ठा मधुयष्टिभिः २५
अजाक्षीरयुतैर्लेपः सुखोष्णः शर्मकृत्परम्
रोध्रसैन्धवमृद्वीकामधुकैश्छागलं पयः २६
शृतमाश्च्योतनं योज्यं रुजारागविनाशनम्
मधुकोत्पलकुष्ठैर्वा द्रा क्षालाक्षासितान्वितैः २७
वातघ्नसिद्धे पयसि शृतं सर्पिश्चतुर्गुणे
पद्मकादिप्रतीवापं सर्वकर्मसु शस्यते २८
सिरां तथाऽनुपशमे स्निग्धस्विन्नस्य मोक्षयेत्
मन्थोक्तां च क्रियां कुर्याद्वेधे रूढेऽञ्जनं मृदु २९
आढकीमूलमरिचहरि तालरसाञ्जनैः
विद्धेऽक्ष्णि सगुडा वर्तिर्योज्या दिव्याम्बुपेषिता ३०
जातीशिरीषधव मेष विषाणिपुष्प
वैडूर्यमौक्तिकफलं पयसा सुपिष्टम्
आजेन ताम्रममुना प्रतनु प्रदिग्धं
सप्ताहतः पुनरिदं पयसैव पिष्टम् ३१
पिण्डाञ्जनं हितमनातपशुष्कमक्ष्णि
विद्धे प्रसादजननं बलकृच्च दृष्टेः
स्रोतोजविद्रुमशिलाम्बु धिफेनतीक्ष्णै
रस्यैव तुल्यमुदितं गुणकल्पनाभिः ३२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने लिङ्गनाशप्रतिषेधोनाम चतुर्दशोऽध्यायः १४

पञ्चदशोऽध्यायः
अथातः सर्वाक्षिरोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वातेन नेत्रेऽभिष्यण्णे नासानाहोऽल्पशोफता
शङ्खाक्षिभ्रूललाटस्य तोदस्फुरणभेदनम् १
शुष्काल्पा दूषिका शीतमच्छं चाश्रु चला रुजः
निमेषोन्मेषणं कृच्छ्राज्जन्तूनामिव सर्पणम् २
अक्ष्याध्मातमिवाभाति सूक्ष्मैः शल्यैरिवाचितम्
स्निग्धोष्णैश्चोपशमनं सोऽभिष्यन्दः उपेक्षितः ३
अधिमन्थो भवेत्तत्र कर्णयोर्नदनं भ्रमः
अरण्येव च मथ्यन्ते ललाटाक्षिभ्रुवादयः ४
हताधिमन्थः सोऽपि स्यात् प्रमादात्तेन वेदनाः
अनेकरूपा जायन्ते व्रणो दृष्टौ च दृष्टिहा ५
मन्याक्षिशङ्खतो वायुरन्यतो वा प्रवर्तयन्
व्यथां तीव्रामपैच्छिल्यरागशोफं विलोचनम् ६
सङ्कोचयति पर्यश्रु सोऽन्यतोवातसंज्ञितः
तद्वज्जिह्मं भवेन्नेत्रमूनं वा वातपर्यये ७
दाहो धूमायनं शोफः श्यावता वर्त्मनो बहिः
अन्तःक्लेदोऽश्रु पीतोष्णं रागः पीताभदर्शनम् ८
क्षारोक्षितक्षताक्षित्वं पित्ताभिष्यन्दलक्षणम्
ज्वलदङ्गारकीर्णाभं यकृत्पिण्डसमप्रभम् ९
अधिमन्थे भवेन्नेत्रं स्यन्दे तु कफसम्भवे
जाड्यं शोफो महान् कण्डूर्निद्रा ऽन्नानभिनन्दनम् १०
सान्द्र स्निग्धबहुश्वेतपिच्छावद्दूषिकाश्रुता
अधिमन्थे नतं कृष्णमुन्नतं शुक्लमण्डलम् ११
प्रसेको नासिकाध्मानं पांशुपूर्णमिवेक्षणम्
रक्ताश्रुराजीदूषीकारक्त मण्डलदर्शनम् १२
रक्तस्यन्देन नयनं सपित्तस्यन्दलक्षणम्
मन्थेऽक्षि ताम्रपर्यन्तमुत्पाटनसमानरुक् १३
रागेण बन्धूकनिभं ताम्यति स्पर्शनाक्षमम्
असृङ्निमग्नारिष्टाभं कृष्णमग्न्याभदर्शनम् १४
अधिमन्था यथास्वं च सर्वे स्यन्दाधिकव्यथाः
शङ्खदन्तकपोलेषु कपाले चातिरुक्कराः १५
वातपित्तातुरं घर्षतोदभेदोपदेहवत्
रूक्षदारुणवर्त्माक्षि कृच्छ्रोन्मीलनिमीलनम् १६
विकूणनविशुष्कत्वशीतेच्छा शूलपाकवत्
उक्तः शुष्काक्षिपाकोऽय सशोफः स्यात्त्रिभिर्मलैः १७
सरक्तैस्तत्र शोफोऽतिरुग्दाहष्ठीवनादिमान्
पक्वोदुम्बरसङ्काशं जायते शुक्लमण्डलम् १८
अश्रूष्णशीतविशदपिच्छिलाच्छघनं मुहुः
अल्पशोफेऽल्पशोफस्तु पाकोऽन्यैर्लक्षणैस्तथा १९
अक्षिपाकात्यये शोफः संरम्भः कलुषाश्रुता
कफोपदिग्धमसितं सितं प्रक्लेदरागवत् २०
दाहो दर्शनसंरोधो वेदनाश्चानवस्थिताः
अन्नसारोऽम्लतां नीतः पित्तरक्तोल्बणैर्मलैः २१
शिराभिर्नेत्रमारूढः करोति श्यावलोहितम्
सशोफदाहपाकाश्रु भृशं चाविलदर्शनम् २२
अम्लोषितोऽयमित्युक्ता गदाः षोडश सर्वगाः
हताधिमन्थमेतेषु साक्षिपाकात्ययं त्यजेत् २३
वातोद्भूतः पञ्चरात्रेण दृष्टिं
सप्ताहेन श्लेष्मजातोऽधिमन्थः
रक्तोत्पन्नो हन्ति तद्वत्त्रिरात्रात्
मिथ्याचारात् पैत्तिकः सद्य एव २४
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सर्वाक्षिरोगविज्ञानीयो नाम पञ्चदशोऽध्यायः १५

षोडशोऽध्यायः
अथातः सर्वाक्षिरोगप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
प्राग्रूप एव स्यन्देषु तीक्ष्णं गण्डूषनावनम्
कारयेदुपवासं च कोपादन्यत्र वातजात् १
दाहोपदेहरागाश्रुशोफशान्त्यै बिडालकम्
कुर्यात्सर्वत्र पत्रैलामरिचस्वर्णगैरिकैः २
सरसाञ्जनयष्ट्याह्वनत चन्दनसैन्धवैः
सैन्धवं नागरं तार्क्ष्यं भृष्टं मण्डेन सर्पिषः ३
वातजे घृतभृष्टं वा योज्यं शबरदेशजम्
मांसीपद्मककालीययष्ट्याह्वैः पित्तरक्तयोः ४
मनोह्वाफलिनीक्षौद्रैः कफे सर्वैस्तु सर्वजे
सितमरिचभागमेकं चतुर्मनोह्वं द्विरष्टशाबरकम्
सञ्चूर्ण्य वस्त्रबद्धं प्रकुपितमात्रेऽवगुण्ठनं नेत्रे ५
आरण्याश्छगणरसे पटावबद्धाः
सुस्विन्नानखवितुषी कृताः कुलत्थः
तच्चूर्णं सकृदव चूर्णनान्निशीथेनेत्राणां
विधमति सद्य एव कोपम् ६
घोषाभयातुत्थ कयष्टिरोध्रै
र्मूती सुसूक्ष्मैः श्लथवस्त्रबद्धैः
ताम्रस्थधान्याम्ल निमग्नमूर्ति
रर्तिं जयत्यक्षिणि नैकरूपाम् ७
षोडशभिः सलिलपलैःपलं तथैकं कटङ्कटेर्याः सिद्धम्
सेकोऽष्टभागशिष्टःक्षौद्र युतः सर्वदोषकुपिते नेत्रे ८
वातपित्तकफसन्निपातजां नेत्रयोर्बहुविधामपि व्यथाम्
शीघ्रमेव जयति प्रयोजितः शिग्रुपल्लवरसः समाक्षिकः ९
तरुणमुरुबूकपत्रं मूलं च विभिद्य सिद्धमाजे क्षीरे
वाताभिष्यन्दरुजं सद्यो विनिहन्ति सक्तुपिण्डिका चोष्णा १०
आश्च्योतनं मारुतजे क्वाथो विल्वादिभिर्हितः
कोष्णः सहैरण्डजटाबृहतीमधुशिग्रुभिः ११
ह्रीबेरवक्रशार्ङ्गेष्टोदुम्बरत्वक्षु साधितम्
साम्भसा पयसाऽजेन शूलाश्च्योतनमुत्तमम् १२
मञ्जिष्ठारजनीलाक्षाद्रा क्षर्द्धि मधुकोत्पलैः
क्वाथः सशर्करः शीतः सेचनं रक्तपित्तजित् १३
कसेरुयष्ट्याह्वरजस्तान्तवे शिथिलं स्थितम्
अप्सु दिव्यासु निहितं हितं स्यन्देऽस्रपित्तजे १४
पुण्ड्रयष्टीनिशामूती प्लुता स्तन्ये सशर्करे
छागदुग्धेऽथवा दाहरुग्रागाश्रुनिवर्तनी १५
श्वेतरोध्रं समधुकं घृतभृष्टं सुचूर्णितम्
वस्त्रस्थं स्तन्यमृदितं पित्तरक्ताभिघातजित् १६
नागरत्रिफलानिम्बवासारोध्ररसः कफे
कोष्णमाश्च्योतनं मिश्रैर्भेषजैः सान्निपातिके १७
सर्पिः पुराणं पवने पित्ते शर्करयाऽन्वितम्
व्योषसिद्धं कफे पीत्वा यवक्षारावचूर्णितम् १८
स्रावयेद्रुधिरं भूयस्ततः स्निग्धं विरेचयेत्
आनूपवेसवारेण शिरोवदनलेपनम् १९
उष्णेन शूले दाहे तु पयःसर्पिर्युतैर्हिमैः
तिमिरप्रतिषेधं च वीक्ष्य युञ्ज्याद्यथायथम् २०
अयमेव विधिः सर्वो मन्थादिष्वपि शस्यते
अशान्तौ सर्वथा मन्थे भ्रुवोरुपरि दाहयेत् २१
रूप्यं रूक्षेण गोदध्ना लिम्पेन्नीलत्वमागते
शुष्के तु मस्तुना वर्तिर्वाताक्ष्यामयनाशिनी २२
सुमनःकोरकाः शङ्खस्त्रिफला मधुकं बला
पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा २३
सैन्धवं त्रिफला व्योषं शङ्खनाभिः समुद्र जः
फेन एलेयकं सर्जो वर्तिः श्लेष्माक्षिरोगनुत् २४
प्रपौण्डरीकं यष्ट्याह्वं दार्वी चाष्टपलं पचेत्
जलद्रो णे रसे पूते पुनः पक्वे घने क्षिपेत् २५
पुष्पाञ्जनाद्दशपलं कर्षं च मरिचात्ततः
कृतश्चूर्णोऽथवा वर्तिः सर्वाभिष्यन्दसम्भवान् २६
हन्ति रागरुजाघर्षान् सद्यो दृष्टिं प्रसादयेत्
अयं पाशुपतो योगो रहस्यं भिषजां परम् २७
शुष्काक्षिपाके हविषः पानमक्ष्णोश्च तर्पणम्
घृतेन जीवनीयेन नस्यं तैलेन वाऽणुना २८
परिषेको हितश्चात्र पयः कोष्णं ससैन्धवम्
सर्पिर्युक्तं स्तन्यपिष्टमञ्जनं च महौषधम् २९
वसा वाऽनूपसत्त्वोत्था किञ्चित्सैन्धवनागरा
घृताक्तान् दर्पणे घृष्टान् केशान् मल्लकसम्पुटे ३०
दग्ध्वाऽज्यपिष्टा लोहस्था सा मषी श्रेष्ठमञ्जनम्
सशोफे वाऽल्पशोफे च स्निग्धस्य व्यधयेत्सिराम् ३१
रेकः स्निग्धे पुनर्द्राक्षापथ्याक्वाथत्रिवृद्घृतैः
श्वेतरोध्रं घृते भृष्टं चूर्णितं तान्तवस्थितम् ३२
उष्णाम्बुना विमृदितं सेकः शूलहरः परम्
दार्वीप्रपौण्डरीकस्य क्वाथो वाऽश्च्योतने हितः ३३
सन्धावांश्च प्रयुञ्जीत घर्षरागाश्रुरुग्घरान् ३३॥१२
ताम्रं लोहे मूत्रघृष्टं प्रयुक्तं
नेत्रे सर्पिर्धूपितं वेदनाघ्नम्
ताम्रे घृष्टो गव्यदध्नः सरो वा
युक्तः कृष्णासैन्धवाभ्यां वरिष्ठः ३४-२
शङ्खं ताम्रे स्तन्यघृष्टं घृताक्तैः
शम्याः पत्रैर्धूपितं तद्यवैश्च
नेत्रे युक्तं हन्ति सन्धावसंज्ञं
क्षिप्रं घर्षं वेदनां चातितीव्राम् ३५-२
उदुम्बरफलं लोहे घृष्टं स्तन्येन धूपितम् ३६
साज्यैः समीच्छदैर्दाहशूलरागाश्रुहर्षजित्
शिग्रुपल्लवनिर्यासः सुघृष्टस्ताम्रसम्पुटे ३७
घृतेन धूपितो हन्ति शोफघर्षाश्रुवेदनाः
तिलाम्भसा मृत्कपालं कांस्ये घृष्टं सुधूपितम् ३८
निम्बपत्रैर्घृताभ्यक्तैर्घर्ष शूलाश्रुरागजित्
सन्धावेनाञ्जिते नेत्रे विगतौषधवेदने ३९
स्तन्येनाश्च्योतनं कार्यं त्रिः परं नाञ्जयेच्च तैः
तालीसपत्र चपला नतलोहरजोञ्जनैः ४०
जातीमुकुलकासीससैन्धवै र्मूत्रपेषितैः
ताम्रमालिप्य सप्ताहं धारयेत्पेषयेत्ततः ४१
मूत्रेणैवानु गुटिकाः कार्याश्छायाविशोषिताः
ताः स्तन्यघृष्टा घर्षाश्रुशोफकण्डूविनाशनाः ४२
व्याघ्रीत्वङ्मधुकं ताम्ररजोऽजाक्षीरकल्कितम्
शम्यामलकपत्राज्यधूपितं शोफरुक्प्रणुत् ४३
अम्लोषिते प्रयुञ्जीत पित्ताभिष्यन्दसाधनम्
उत्क्लिष्टाः कफपित्तास्रनिचयोत्थाः कुकूणकः ४४
पक्ष्मोपरोधः शुष्काक्षिपाकः पूयालसो विसः
पोथक्यम्लोषितोऽल्पाख्यःस्यन्दमन्था विनाऽनिलात् ४५
एतेऽष्टादश पिल्लाख्या दीर्घकालानुबन्धिनः
चिकित्सा पृथगेतेषां स्वंस्वमुक्ताऽथ वक्ष्यते ४६
पिल्लीभूतेषु सामान्यादथ पिल्लाख्यरोगिणः
स्निग्धस्य छर्दितवतः सिराव्यधहृतासृजः ४७
विरिक्तस्य च वर्त्मानु निर्लिखेदाविशुद्धितः
तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः ४८
त्रिंशता काञ्जिकपलैः पिष्ट्वा ताम्रे निधापयेत्
पिल्लानपिल्लान् कुरुते बहुवर्षोत्थितानपि ४९
तत्सेकेनोपदेहाश्रुकण्डूशोफांश्च नाशयेत्
करञ्जबीजं सुरसं सुमनःकोरकाणि च ५०
संक्षुद्य साधयेत्क्वाथे पूते तत्र रसक्रिया
अञ्जनं पिल्लभैषज्यं पक्ष्मणां च प्ररोहणम् ५१
रसाञ्जनं सर्जरसो रीतिपुष्पं मनःशिला
समुद्र फेनो लवणं गैरिकं मरिचानि च ५२
अञ्जनं मधुना पिष्टं क्लेदकण्डूघ्नमुत्तमम्
अभयारसपिष्टं वा तगरं पिल्लनाशनम् ५३
भावितं बस्तमूत्रेण सस्नेहं देवदारु च
सैन्धवत्रिफलाकृष्णाकटुकाशङ्खनाभयः ५४
सताम्ररजसो वर्तिः पिल्लशुक्रकनाशिनी
पुष्पकासीसचूर्णो वा सुरसारसभावितः ५५
ताम्रे दशाहं तत् पैल्ल्यपक्ष्मशातजिदञ्जनम् ५५-२
अलं च सौवीरक मञ्जनं च
ताभ्यां समं ताम्ररजः सुसूक्ष्मम्
पिल्लेषु रोमाणि निषेवितोऽसौ
चूर्णः करोत्येकशलाकयाऽपि ५६-२
लाक्षानिर्गुण्डी भृङ्गदार्वीरसेन
श्रेष्ठं कार्पासं भावितं सप्तकृत्वः
दीपः प्रज्वाल्यः सर्पिषा तत्समुत्था
श्रेष्ठा पिल्लानां रोपणार्थे मषी सा ५७-२ वर्त्मावलेखंबहुशस्तद्वच्छोणितमोक्षणम् ५८
पुनःपुनर्विरेकं च नित्यमाश्च्योतनाञ्जनम्
नावनं धूमपानं च पिल्लरोगातुरो भजेत् ५९
पूयालसे त्वशान्तेऽन्ते दाहः सूक्ष्मशलाकया
चतुर्णवतिरित्यक्ष्णो हेतुलक्षणसाधनैः ६०
परस्परमसङ्कीर्णाः कार्त्स्न्येन गदिता गदाः
सर्वदा च निषेवेत स्वस्थोऽपि नयनप्रियः ६१
पुराणयवगोधूमशालि षष्टिककोद्र वान्
मुद्गादीन् कफपित्तघ्नान् भूरिसर्पिःपरिप्लुतान् ६२
शाकं चैवंविधं मांसं जाङ्गलं दाडिमं सिताम्
सैन्धवं त्रिफलां द्रा क्षा वारि पाने च नाभसम् ६३
आतपत्रं पदत्राणं विधिवद्दोषशोधनम्
वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च ६४
क्रोधशोकदिवास्वप्न रात्रिजागरणातपान्
विदाहि विष्टम्भकरं यच्चेहाहारभेषजम् ६५
द्वे पादमध्ये पृथुसंन्निवेशेशिरे गते ते बहुधा च नेत्रे
ता म्रक्षणोद्वर्तनलेपनादीन् पादप्रयुक्तान्नयने नयन्ति ६६
मलौष्ण्यसङ्घट्टनपीडनाद्यैस्ता दूषयन्ते नयनानि दुष्टाः
भजेत्सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि ६७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सर्वाक्षिरोगप्रतिषेधो नाम षोडशोऽध्यायः १६

सप्तदशोऽध्यायः
अथातः कर्णरोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत्
मिथ्यायोगेन शब्दस्य कुपितोऽन्यैश्च कोपनैः १
प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत्
अर्धावभेदकं स्तम्भं शिशिरानभिनन्दनम् २
चिराच्च पाकं पक्वं तु लसीकामल्पशः स्रवेत्
श्रोत्रं शून्यमकस्माच्च स्यात्सञ्चारविचारवत् ३
शूलं पित्तात् सदाहोषाशीतेच्छाश्वयथुज्वरम्
आशुपाकं प्रपक्वं च सपीतलसिकास्रुति ४
सा लसीका स्पृशेद्यद्यत्तत्तत्पाकमुपैति च
कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः ५
कण्डूः श्वयथुरुष्णेच्छा पाकाच्छ्वेतघनस्रुतिः
करोति श्रवणे शूलमभिघातादिदूषितम् ६
रक्तं पित्तसमानार्ति किञ्चिद्वाऽधिकलक्षणम्
शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक् ७
पर्यायादुष्णशीतेच्छं जायते श्रुतिजाड्यवत्
पक्वं सितासितारक्तघनपूयप्रवाहि च ८
शब्दवाहिसिरासंस्थे शृणोति पवने मुहुः
नादानकस्माद्विविधान् कर्णनादं वदन्ति तम् ९
श्लेष्मणाऽनुगतो वायुर्नादो वा समुपेक्षितः
उच्चैः कृच्छ्राच्छ्रुतिं कुर्याद्बधिरत्वं क्रमेण च १०
वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत्ततो भवेत्
रुग्गौरवं पिधानं च स प्रतीनाहसंज्ञितः ११
कण्डूशोफौ कफाच्छ्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ
कफो विदग्धः पित्तेन सरुजं नीरुजं त्वपि १२
घनपूतिबहुक्लेदं कुरुते पूतिकर्णकम्
वातादिदूषितं श्रोत्रं मांसासृक्क्लेदजा रुजम् १३
खादन्तो जन्तवः कुर्युस्तीव्रां स कृमिकर्णकः
श्रोत्रकण्डूयनाज्जाते क्षते स्यात्पूर्वलक्षणः १४
विद्र धिः पूर्ववच्चान्यः शोफोऽशोऽबुदमीरितम्
तेषु रुक् पूतिकर्णत्वं बधिरत्वं च बाधते १५
गर्भेऽनिलात्सङ्कुचिता शष्कुली कुचिकर्णकः
एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः १६
पिप्पली पिप्पलीमानः सन्निपाताद्विदारिका
सवर्णः सरुजः स्तब्धः श्वयथुः स उपेक्षितः १७
कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति
सङ्कोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम् १८
सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम्
कृशा दृढा च तन्त्रीवत् पाली वातेन तन्त्रिका १९
सुकुमारे चिरोत्सर्गात्सहसैव प्रवर्धिते
कर्णे शोफः सरुक् पाल्यामरुणः परिपोटवान् २०
परिपोटः स पवनात् उत्पातः पित्तशोणितात्
गुर्वाभरणभाराद्यैः श्यावो रुग्दाहपाकवान् २१
श्वयथुः स्फोटपिटिकारागोषाक्लेदसंयुतः
पाल्यां शोफोऽनिलकफात्सर्वतो निर्व्यथः स्थिरः २२
स्तब्धः सवर्णः कण्डूमानुन्मन्थो गल्लिरश्च सः
दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक् २३
श्वयथुः सन्निपातोत्थः स नाम्ना दुःखवर्धनः
कफासृक्कृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः २४
लेह्याख्याः पिटिकास्ता हि लिह्युः पालीमुपेक्षिताः
पिप्पली सर्वजं शूलं विदारी कुचिकर्णकः २५
एषामसाध्याः याप्यैका तन्त्रिकाऽन्यास्तु साधयेत्
पञ्चविशतिरित्युक्ताः कर्णरोगा विभागतः २६
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने कर्णरोगविज्ञानीयो नाम सप्तदशोऽध्यायः १७

अष्टादशोऽध्यायः
अथातः कर्णरोगप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
कर्णशूले पवनजे पिबेद्रा त्रौ रसाशितः
वातघ्नसाधितं सर्पिः कर्णं स्विन्नं च पूरयेत् १
पत्राणां पृथगश्वत्थबिल्वार्कैरण्डजन्मनाम्
तैलसिन्धूत्थदिग्धानां स्विन्नानां पुटपाकतः २
रसैः कवोष्णैस्तद्वच्च मूलकस्यारलोरपि
गणे वातहरेऽम्लेषु मूत्रेषु च विपाचितः ३
महास्नेहो द्रुतं हन्ति सुतीव्रामपि वेदनाम्
महतः पञ्चमूलस्य काष्ठात्क्षौमेण वेष्टितात् ४
तैलसिक्तात्प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः
योज्यश्चैवं भद्र काष्ठात्कुष्ठात्काष्ठाच्च सारलात् ५
वातव्याधिप्रतिश्यायविहितं हितमत्र च
वर्जयेच्छिरसा स्नानं शीताम्भःपानमह्न्यपि ६
पित्तशूले सितायुक्तघृतस्निग्धं विरेचयेत्
द्रा क्षायष्टिशृतं स्तन्यं शस्यते कर्णपूरणम् ७
यष्ट्यनन्ताहिमोशीर काकोलीरोध्रजीवकैः
मृणालबिसमञ्जिष्ठासारिवाभिश्च साधयेत् ८
यष्टीमधुरसप्रस्थक्षीरद्वि प्रस्थसंयुतम्
तैलस्य कुडवं नस्यपूरणाभ्यञ्जनैरिदम् ९
निहन्ति शूलदाहोषाः केवलं क्षौद्र मेव वा
यष्ट्यादिभिश्च सघृतैः कर्णौ दिह्यात्समन्ततः १०
वामयेत् पिप्पलीसिद्धसर्पिःस्निग्धं कफोद्भवे
धूमनावनगण्डूषस्वेदान् कुर्यात्कफापहान् ११
लशुनार्द्र कशिग्रूणां मुरुङ्ग्या मूलकस्य च
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे १२
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तांल्लवणान्वितान्
सन्निधाय स्नुहीकाण्डे कोरिते तच्छदावृतान् १३
स्वेदयेत्पुटपाकेन स रसः शूलजित्परम्
रसेन बीजपूरस्य कपित्थस्य च पूरयेत् १४
सुक्तेन पूरयित्वा वा फेनेनान्ववचूर्णयेत्
अजाविमूत्रवंशत्वक्सिद्धं तैलं च पूरणम् १५
सिद्धं वा सार्षपं तैलं हिङ्गुतुम्बुरुनागरैः
रक्तजे पित्तवत्कार्यं सिरां चाशु विमोक्षयेत् १६
पक्वे पूयवहे कर्णे धूमगण्डूषनावनम्
युञ्ज्यान्नाडीविधानं च दुष्टव्रणहरं च यत् १७
स्रोतः प्रमृज्य दिग्धं तु द्वौ कालौ पिचुवर्तिभिः
पुरेण धूपयित्वा तु माक्षिकेण प्रपूरयेत् १८
सुरसादिगणक्वाथफाणिताक्तां च योजयेत्
पिचुवर्ति सुसूक्ष्मैश्च तच्चूर्णैरवचूर्णयेत् १९
शूलक्लेदगुरुत्वानां विधिरेष निवर्तकः
प्रियङ्गुमधुकाम्बष्ठाधातक्युत्पलपर्णिभिः २०
मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन च
पचेत्तैलं तदास्रावं निगृह्णात्याशु पूरणात् २१
नादबाधिर्ययोः कुर्याद् वातशूलोक्तमौषधम्
श्लेष्मानुबन्धे श्लेष्माणं प्राग्जयेद्वमनादिभिः २२
एरण्डशिग्रुवरुणमूलकात्पत्रजे रसे
चतुर्गुणे पचेत्तैलं क्षीरे चाष्टगुणोन्मिते २३
यष्ट्याह्वाक्षीरकाकोलीकल्कयुक्तं निहन्ति तत्
नादबाधिर्यशूलानि नावनाभ्यङ्गपूरणैः २४
पक्वं प्रतिविषाहिङ्गुमिशित्वक्स्वर्जिकोषणैः
ससुक्तैः पूरणात्तैलं रुक्स्रावाश्रुतिनादनुत् २५
कर्णनादे हितं तैलं सर्षपोत्थं च पूरणे
शुष्कमूलकखण्डानां क्षारो हिङ्गु महौषधम् २६
शतपुष्पावचाकुष्ठ दारुशिग्रुरसाञ्जनम्
सौवर्चलयवक्षारस्वर्जिकौद्भिदसैन्धवम् २७
भूर्जग्रन्थिबिडं मुस्ता मधुसुक्तं चतुर्गुणम्
मातुलुङ्गरसस्तद्वत् कदलीस्वरसश्च तैः २८
पक्वं तैलं जयत्याशु सुकृच्छ्रानपि पूरणात्
कण्डूं क्लेदं च बाधिर्यपूतिकर्णत्वरुक्कृमीन् २९
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयेषु च
अथ सुप्ताविव स्यातां कर्णौ रक्तं हरेत्ततः ३०
सशोफक्लेदयोर्मन्द श्रुतेर्वमनमाचरेत्
बाधिर्यं वर्जयेद्बालवृद्धयोश्चिरजं च यत् ३१
प्रतीनाहे परिक्लेद्य स्नेहस्वेदैर्विशोधयेत्
कर्णशोधनकेनानु कर्णं तैलस्य पूरयेत् ३२
ससुक्तसैन्धवमधोर्मातुलुङ्गरसस्य वा
शोधनाद्रू क्षतोत्पत्तौ घृतमण्डस्य पूरणम् ३३
क्रमोऽय मलपूर्णेऽपि कर्णे कण्ड्वां कफापहम्
नस्यादि तद्वच्छोफेऽपि कटूष्णैश्चात्र लेपनम् ३४
कर्णस्रावोदितं कुर्यात्पूतिकृमिणकर्णयोः
पूरणं कटुतैलेन विशेषात् कृमिकर्णके ३५
वमिपूर्वा हिता कर्णविद्र धौ विद्र धिक्रिया
पित्तोत्थकर्णशूलोक्तं कर्तव्यं क्षतविद्र धौ ३६
अर्शोर्बुदेषु नासावद् आमा कर्णविदारिका
कर्णविद्र धिवत्साध्या यथादोषोदयेन च ३७
पालीशोषेऽनिलश्रोत्र शूलवन्नस्यलेपनम्
स्वेदं च कुर्यात् स्विन्नां च पालीमुद्बर्तयेत्तिलैः ३८
प्रियालबीजयष्ट्याह्व हयगन्धायवान्वितैः
ततः पुष्टिकरैः स्नेहैरभ्यङ्गं नित्यमाचरेत् ३९
शतावरीवाजिगन्धा पयस्यैरण्डजीवकैः
तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम् ४०
कल्केन जीवनीयेन तैलं पयसि पाचितम्
आनूपमांसक्वाथे च पालीपोषणवर्धनम् ४१
पालद्यं छित्त्वाऽतिसङ्क्षीणां शेषां सन्धाय पोषयेत्
याप्यैवं तन्त्रिकाख्याऽपि परिपोटेऽप्ययं विधिः ४२
उत्पाते शीतलैर्लेपो जलौकोहृतशोणिते
जम्ब्वाम्रपल्लवबलायष्टीरोध्रतिलोत्पलैः ४३
सधान्याम्लैः समञ्जिष्ठैः सकदम्बैः ससारिवैः
सिद्धमभ्यञ्जने तैलं विसर्पोक्तघृतानि च ४४
उन्मन्थेऽभ्यञ्जनं तैलं गोधाकर्कवसान्वितम्
तालपत्र्यश्वगन्धार्कबाकुचीफलसैन्धवैः ४५
सुरसालाङ्गलीभ्यां च सिद्धं तीक्ष्णं च नावनम्
दुर्विद्धेऽश्मन्तजम्ब्वाम्रपत्रक्वाथेन सेचिताम् ४६
तैलेन पालद्यं स्वभ्यक्तां सुश्लक्ष्णैरवचूर्णयेत्
चूर्णैर्मधुकमञ्जिष्ठाप्रपुण्ड्राह्वनिशोद्भवैः ४७
लाक्षाविडङ्गसिद्धं च तैलमभ्यञ्जने हितम्
स्विन्नां गोमयजैः पिण्डैर्बहुशः परिलेहिकाम् ४८
विडङ्गसारैरालिम्पेदुरभ्री मूत्रकल्कितैः
कौटजेङ्गुदकारञ्जबीजशम्याकवल्कलैः ४९
अथवाऽभ्यञ्जनं तैर्वा कटुतैलं विपाचयेत्
सनिम्बपत्रमरिचमदनैर्लेहिकाव्रणे ५०
छिन्नं तु कर्णं शुद्धस्य बन्धमालोच्य यौगिकम्
शुद्धास्रं लागयेल्लग्ने सद्यश्छिन्ने विशोधनम् ५१
अथ ग्रथित्वा केशान्तं कृत्वा छेदनलेखनम्
निवेश्य सन्धि सुषमं न निम्नं न समुन्नतम् ५२
अभ्यज्य मधुसर्पिर्भ्यां पिचुप्लोतावगुण्ठितम्
सूत्रेणागाढशिथिलं बद्ध्वा चूर्णैरवाकिरेत् ५३
शोणितस्थापनैर्व्रण्यमाचारं चादिशेत्ततः
सप्ताहादामतैलाक्तं शनैरपनयेत् पिचुम् ५४
सुरूढं जातरोमाणं श्लिष्टसन्धिं समं स्थिरम्
सुवर्ष्माणमरोगं च शनैः कर्णं विवर्धयेत् ५५
जलशूकः स्वयङ्गुप्ता रजन्यौ बृहतीफलम्
अश्वगन्धाबलाहस्तिपिप्पलीगौरसर्षपाः ५६
मूलं कोशातकाश्वघ्नरूपिकासप्तपर्णजम्
छुच्छुन्दरी कालमृता गृहं मधुकरीकृतम् ५७
जतूका जलजन्मा च तथा शबरकन्दकम्
एभिः कल्कैः खरं पक्वं सतैलं माहिषं घृतम् ५८
हस्त्यश्वमूत्रेण परमभ्यङ्गात्कर्णवर्धनम्
अथ कुर्याद्वयस्थस्य छिन्नां शुद्धस्य नासिकाम् ५९
छिन्द्यान्नासासमं पत्रं तत्तुल्यं च कपोलतः
त्वङ्मांसं नासिकासन्ने रक्षंस्तत्तनुतां नयेत् ६०
सीव्येद् गण्डं ततः सूच्या सेविन्या पिचुयुक्तया
नासाच्छेदेऽथ लिखिते परीवर्त्योपरि त्वचम् ६१
कपोलवध्रं सन्दध्यात्सीव्येन्नासां च यत्नतः
नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये ६२
आमतैलेन सिक्त्वाऽनु पत्तङ्गमधुकाञ्जनैः
शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत् ६३
ततो मधुघृताभ्यक्तं बध्वाऽचारिकमादिशेत्
ज्ञात्वाऽवस्थान्तरं कुर्यात् सद्योव्रणविधिं ततः ६४
छिन्द्याद्रू ढेऽधिकं मांसं नासोपान्ताच्च चर्म तत्
सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्धयेत्पुनः ६५
निवेशिते यथान्यासं सद्यश्च्छिन्नेऽप्ययं विधिः
नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः ६६
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने कर्णरोगप्रतिषेधो नामाष्टादशोऽध्यायः १८

एकोनविंशोऽध्यायः
अथातो नासारोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
अवश्याया निलरजोभाष्यातिस्वप्नजागरैः
नीचात्युच्चोपधानेन पीतेनान्येन वारिणा १
अत्यम्बुपानरमणच्छर्दि बाष्पग्रहादिभिः
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यानतां गताः २
जनयन्ति प्रतिश्यायं वर्धमानं क्षयप्रदम्
तत्र वातात्प्रतिश्याये मुखशोषो भृशं क्षवः ३
घ्राणोपरोधनिस्तोददन्तशङ्खशिरोव्यथाः
कीटिका इव सर्पन्तीर्मन्यते परितो भ्रुवौ ४
स्वरसादश्चिरात्पाकः शिशिराच्छकफस्रुतिः
पित्तात्तृष्णाज्वरघ्राणपिटिकासम्भवभ्रमाः ५
नासाग्रपाको रूक्षोष्णताम्रपीतकफस्रुतिः
कफात्कासोऽरुचिः श्वासो वमथुर्गात्रगौरवम् ६
माधुर्यं वदने कण्डूः स्निग्धशुक्लकफस्रुतिः
सर्वजो लक्षणैः सर्वैरकस्माद्वृद्धिशान्तिमान् ७
दुष्टं नासासिराः प्राप्य प्रतिश्यायं करोत्यसृक्
उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता ८
कण्डूः श्रोत्राक्षिनासासु पित्तोक्तं चात्र लक्षणम्
सर्व एव प्रतिश्याया दुष्टतां यान्त्युपेक्षिताः ९
यथोक्तोपद्र वाधिक्यात्स सर्वेन्द्रि यतापनः
साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः १०
कुप्यत्यकस्माद्बहुशो मुखदौर्गन्ध्यशोफकृत्
नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः ११
पूयोपमासितारक्तग्रथितश्लेष्मसंस्रुतिः
मूर्च्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः १२
पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः
श्लेष्मा सचिक्कणः पीतोऽज्ञानं च रसगन्धयोः १३
तीक्ष्णाघ्राणोपयोगार्करश्मि सूत्रतृणादिभिः
वातकोपिभिरन्यैर्वा नासिकातरुणास्थनि १४
विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत्
निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशक्षवः १५
शोषयन्नासिकास्रोतः कफं च कुरुतेऽनिलः
शूकपूर्णाभनासात्वं कृच्छ्रात्दुच्छ्वसनं ततः १६
स्मृतोऽसौ नासिकाशोषो नासानाहे तु जायते
नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना १७
निःश्वासोच्छ्वाससंरोधात् स्रोतसी संवृते इव
पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत् १८
स घ्राणपाकः स्रावस्तु तत्संज्ञः श्लेष्मसम्भवः
अच्छो जलोपमोऽजस्रं विशेषान्निशि जायते १९
कफः प्रवृद्धो नासायां रुद्द्धवा स्रोतांस्यपीनसम्
कुर्यात्सघुर्घुरश्वासं पीनसाधिकवेदनम् २०
अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका
अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम् २१
रक्तेन नासा दग्धेव बाह्यान्तः स्पर्शनासहा
भवेद्धूमोपमोच्छ्वासा सा दीप्तिर्दहतीव च २२
तालुमूले मलैर्दुष्टैर्मारुतो मुखनासिकात्
श्लेष्मा च पूतिर्निर्गच्छेत् पूतिनासं वदन्ति तम् २३
निचयादभिघाताद्वा पूयासृङ् नासिका स्रवेत्
तत्पूयरक्तमाख्यातं शिरोदाहरुजाकरम् २४
पित्तश्लेष्मावरुद्धोऽन्तर्नासायां शोषयेन्मरुत्
कफं स शुष्कः पुटतां प्राप्नोति पुटकं तु तत् २५
अर्शोर्बुदानि विभजेद्दोषलिङ्गैर्यथायथम्
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः २६
सानुनासिकवादित्वं पूतिनासः शिरोव्यथा
अष्टादशानामित्येषां यापयेद्दुष्टपीनसम् २७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने नासारोगविज्ञानीयो नामैकोनविंशोऽध्यायः १९

विंशोऽध्यायः
अथातो नासारोगप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
सर्वेषु पीनसेष्वादौ निवातागारगो भजेत्
स्नेहनस्वेदवमनधूम गण्डूषधारणम् १
वासो गुरूष्णं शिरसः सुघनं परिवेष्टनम्
लघ्वम्ललवणं स्निग्धमुष्णं भोजनमद्र वम् २
धन्वमांसगुडक्षीर चणकत्रिकटूत्कटम्
यवगोधूमभूयिष्ठं दधिदाडिमसारिकम् ३
बालमूलकजो यूषः कुलत्थोत्थश्च पूजितः
कोष्णंतु दशमूलाम्बु जीर्णां वा वारुणीं पिबेत् ४
जिघ्रेच्चोरकतर्कारी वचाजाज्युपकुञ्चिकाः
व्योषतालीसचविकातिन्तिडीकाम्लवेतसम् ५
साग्न्यजाजि द्विपलिकं त्वगेलापत्रपादिकम्
जीर्णाद्गुडात्तुलार्धेन पक्वेन वटकीकृतम् ६
पीनसश्वासकासघ्नं रुचिस्वरकरं परम्
शताह्वात्वग्बला मूलं स्योनाकैरण्डबिल्वजम् ७
सारग्वधं पिबेद्धूमं वसाज्यमदनान्वितम्
अथवा सघृतान् सक्तून कृत्वा मल्लकसम्पुटे ८
त्यजेत्स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम्
पिबेद्वातप्रतिश्याये सर्पिर्वातघ्नसाधितम् ९
पटुपञ्चकसिद्धं वा विदार्यादिगणेन वा
स्वेदनस्यादिकां कुर्यात् चिकित्सामर्दितोदिताम् १०
पित्तरक्तोथयोः पेयं सर्पिर्ममधुरकैः शृतम्
परिषेकान् प्रदेहांश्च शीतैः कुर्वीत शीतलान् ११
धवत्वक्त्रिफलाश्यामाश्रीपर्णीयष्टितिल्वकैः
क्षीरे दशगुणे तैलं नावनं सनिशैः पचेत् १२
कफजे लङ्घनं लेपः शिरसो गौरसर्षपैः
सक्षारं वा घृतं पीत्वा वमेत् पिष्टैस्तु नावनम् १३
बस्ताम्बुना पटुव्योषवेल्लवत्सकजीरकैः
कटुतीक्ष्णैर्घृतैर्नस्यैः कवलैः सर्वजं जयेत् १४
यक्ष्मकृमिक्रमं कुर्वन् यापयेद्दुष्टपीनसम्
व्योषोरुबूककृमिजिद्दारुमाद्री गदेङ्गुदम् १५
वार्ताकबीजं त्रिवृता सिद्धार्थः पूतिमत्स्यकः
अग्निमन्थस्य पुष्पाणि पीलुशिग्रुफलानि च १६
अश्वविड्रसमूत्राभ्यां हस्तिमूत्रेण चैकतः
क्षौमगर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत् १७
शुण्ठीकुष्ठकणावेल्लद्रा क्षाकल्ककषायवत् १८
साधितं तैलमाज्यं वा नस्यं क्षवपुटप्रणुत्
नासाशोषे बलातैलं पानादौ भोजनं रसैः १९
स्निग्धो धूमस्तथा स्वेदो नासानाहेऽप्ययं विधिः
पाके दीप्तौ च पित्तघ्नं तीक्ष्णं नस्यादि संस्रुतौ २०
कफपीनसवत्पूतिनासापीनसयोः क्रिया
लाक्षाकरञ्जमरिचवेल्लहिङ्गु कणागुडैः २१
अविमूत्रद्रुतैर्नस्यं कारयेद्वमने कृते
शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः २२
सवेल्लसुरसैस्तैलं नावनं परमं हितम्
पूयरक्ते नवे कुर्याद् रक्तपीनसवत् क्रमम् २३
अतिप्रवृद्धे नाडीवत् दग्धेष्वर्शोर्बुदेषु च
निकुम्भकुम्भसिन्धूत्थमनोह्वालकणाग्निकैः २४
कल्कितैर्घृतमध्वक्तां घ्राणे वर्तिं प्रवेशयेत्
शिग्र्वादि नावनं चात्र पूतिनासोदितं भजेत् २५
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने नासारोगप्रतिषेधोनाम विंशोऽध्यायः २०

एकविंशोऽध्यायः
अथातो मुखरोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
मात्स्यमाहिषवाराहपिशितामक मूलकम्
माषसूपदधिक्षीरसुक्ते क्षुरसफाणितम् १
अवाक्शय्यां च भजतो द्विषतो दन्तधावनम्
धूमच्छर्दनगण्डूषानुचितं च सिराव्यधम् २
क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्यन्तर्मुखं गदान्
तत्र खण्डौष्ठ इत्युक्तो वातेनौष्ठो द्विधा कृतः ३
ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ
दाल्येते परिपाट्येते परुषासितकर्कशौ ४
पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ
पिटिकाभिर्बहुक्लेदावाशुपाकौ कफात्पुनः ५
शीतासहौ गुरू शूनौ सवर्णपिटिकाचितौ
सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छिलौ ६
अकस्मान्म्लानसंशूनरुजौ विषमपाकिनौ
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ७
खर्जूरसदृशं चात्र क्षीणे रक्तेऽबुदं भवेत्
मांसपिण्डोपमौ मांसात्स्यातां मूर्च्छत्कृमी क्रमात् ८
तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदू
क्षतजाववदीर्येते पाट्येते चासकृत्पुनः ९
ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ
जलबुद्बुदवद्वातकफादोष्ठे जलार्बुदम् १०
गण्डालजी स्थिरः शोफो गण्डे दाहज्वरान्वितः
वातादुष्णसहादन्ताः शीतस्पर्शेऽधिकव्यथाः ११
दाल्यन्त इव शूलेन शीताख्यो दालनश्च सः
दन्तहर्षे प्रवाताम्लशीतभक्षाक्षमा द्विजाः १२
भवन्त्यम्लाशनेनेव सरुजाश्चलिता इव
दन्तभेदे द्विजास्तोदभेदरुक्स्फुटनान्विताः १३
चालश्चलद्भिर्दशनैर्भक्षणा दधिकव्यथैः
करालस्तु करालानां दशनानां समुद्गमः १४
दन्तोऽधिकोऽधिदन्ताख्यः स चोक्तः खलु वर्धनः
जायमानेऽतिरुग् दन्ते जाते तत्र तु शाम्यति १५
अधावनान्मलो दन्ते कफो वा वातशोषितः
पूतिगन्धिः स्थिरीभूतः शर्करा साऽप्युपेक्षिता १६
शातयत्यणुशो दन्तात्कपालानि कपालिका
श्यावः श्यावत्वमायातो रक्तपित्तानिलैर्द्विजः १७
समूलं दन्तमाश्रित्य दोषैरुल्बणमारुतैः
शोषिते मज्ज्ञि सुषिरे दन्तेऽन्नमलपूरिते १८
पूतित्वात्कृमयः सूक्ष्मा जायन्ते जायते ततः
अहेतुतीव्रार्तिशमः ससंरम्भोऽसितश्चलः १९
प्रलूनः पूयरक्तस्रुत् स चोक्तः कृमिदन्तकः
श्लेष्मरक्तेन पूतीनि वहन्त्यस्रमहेतुकम् २०
शीर्यन्ते दन्तमांसानि मृदुक्लिन्नासितानि च
शीतादोऽसौ उपकुशः पाकः पित्तासृगुद्भवः २१
दन्तमांसानि दह्यन्ते रक्तान्युत्सेधवन्त्यतः
कण्डूमन्ति स्रवन्त्यस्रमाध्मायन्तेऽसृजि स्थिते २२
चला मन्दरुजो दन्ता पूति वक्त्रं च जायते
दन्तयोस्त्रिषु वा शोफो बदरास्थिनिभो घनः २३
कफास्रात्तीव्ररुक् शीघ्रं पच्यते दन्तपुप्पुटः
दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः २४
सरुग्दाहः स्रवेद्भिन्नः पूयास्रं दन्तविद्र धिः
श्वयथुर्दन्तमूलेषु रुजावान् पित्तरक्तजः २५
लालास्रावी स सुषिरो दन्तमांसप्रशातनः
स सन्निपाताज्ज्वरवान् सपूयरुधिरस्रुतिः २६
महासुषिर इत्युक्तो विशीर्णद्विजबन्धनः
दन्तान्ते कीलवच्छोफो हनुकर्णरुजाकरः २७
प्रतिहन्त्यभ्यवहृतिं श्लेष्मणा सोऽधिमांसकः
घृष्टेषु दन्तमांसेषु संरम्भो जायते महान् २८
यस्मिंश्चलन्ति दन्ताश्च स विदर्भोऽभिघातजः
दन्तमांसाश्रितान् रोगान् यः साध्यानप्युपेक्षते २९
अन्तस्तस्यास्रवन् दोषः सूक्ष्मां सञ्जनयेद्गतिम्
पूयं मुहुः सा स्रवति त्वङ्मांसास्थिप्रभेदिनी ३०
ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर्यथोदितैः
शाकपत्रखरा सुप्ता स्फुटिता वातदूषिता ३१
जिह्वा पित्तात् सदाहोषा रक्तैमांसाङ्कुरैश्चिता
शाल्मलीकण्टकाभैस्तु कफेन बहला गुरुः ३२
कफपित्तादधः शोफो जिह्वास्तम्भकृदुन्नतः
मत्स्यगन्धिर्भवेत्पक्वः सोऽलसो मांसशातनः ३३
प्रबन्धनेऽधो जिह्वायाः शोफो जिह्वाग्रसन्निभः
साङ्कुरः कफपित्तास्रैर्लालोषास्तम्भवान् खरः ३४
अधिजिह्वः सरुक्कण्डूर्वाक्याहारविघातकृत्
तादृगेवोपजिह्वस्तु जिह्वाया उपरि स्थितः ३५
तालुमांसेऽनिलाद्दुष्टे पिटिकाः सरुजः खराः
बह्व्यो घनाः स्रावयुतास्तास्तालुपिटिकाः स्मृताः ३६
तालुमूले कफात्सास्रात् मत्स्यबस्तिनिभो मृदुः
प्रलम्बः पिच्छिलः शोफो नासयाऽहारमीरयन् ३७
कण्ठोपरोधतृटकासवमिकृत् गलशुण्डिका
तालुमध्ये निरुङ्मांसं संहतं तालुसंहतिः ३८
पद्माकृतिस्तालुमध्ये रक्ताच्छ्वयथुरर्बुदम्
कच्छपः कच्छपाकारश्चिरवृद्धिः कफादरुक् ३९
कोलाभः श्लेष्ममेदोभ्यां पुप्पुटो नीरुजः स्थिरः
पित्तेन पाकः पाकाख्यः पूयास्रावी महारुजः ४०
वातपित्तज्वरायासैस्तालुशोषस्तदाह्वयः
जिह्वाप्रबन्धजाः कण्ठे दारुणा मार्गरोधिनः ४१
मांसाङ्कुराः शीघ्रचया रोहिणी शीघ्रकारिणी
कण्ठास्यशोषकृद्वातात् सा हनुश्रोत्ररुक्करी ४२
पित्ताज्वरोषातृण्मोहकण्ठधूमायनान्विता
क्षिप्रजा क्षिप्रपाकाऽतिरागिणी स्पर्शनासहा ४३
कफेन पिच्छिला पाण्डुः असृजा स्फोटकाचिता
तप्ताङ्गारनिभा कर्णरुक्करी पित्तजाकृतिः ४४
गम्भीरपाका निचयात् सर्वलिङ्गसमन्विता
दोषैः कफोल्बणैः शोफः कोलवद् ग्रथितोन्नतः ४५
शूककण्टकवत्कण्ठे शालूको मार्गरोधनः
वृन्दो वृत्तोन्नतो दाहज्वरकृद् गलपार्श्वगः ४६
हनुसन्ध्याश्रितः कण्ठे कार्पासीफलसन्निभः
पिच्छिलो मन्दरुक् शोफः कठिनस्तुण्डिकेरिका ४७
बाह्यान्तः श्वयथुर्घोरो गलमार्गार्गलोपमः
गलौघो मूर्द्धगुरुतातन्द्रा लालाज्वरप्रदः ४८
वलयं नातिरुक् शोफस्तद्वदेवायतोन्नतः
मांसकीलो गले दोषैरेकोऽनेकोऽथवाऽल्परुक् ४९
कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथुमूलो गिलायुकः
भूरिमांसाङ्कुरवृता तीव्रतृड्ज्वरमूर्द्धरुक् ५०
शतघ्नी निचिता वर्तिः शतघ्नीवातिरुक्करी
व्याप्तसर्वगलः शीघ्रजन्मपाको महारुजः ५१
पूतिपूयनिभस्रावी श्वयथुर्गलविद्र धिः
जिह्वावसाने कण्ठादावपाकं श्वयथुं मलाः ५२
जनयन्ति स्थिरं रक्तं नीरुजं तद्गलार्बुदम्
पवनश्लेष्ममेदोभिर्गलगण्डो भवेद्वहिः
वर्धमानः स कालेन मुष्कवल्लम्बतेऽतिरुक् ५३
कृष्णोऽरुणोवा तोदाढ्यः स वातात्कृष्णराजिमान्
वृद्धस्तालुगले शोषं कुर्याच्च विरसास्यताम् ५४
स्थिरः सवर्णः कण्डूमान् शीतस्पर्शो गुरुः कफात्
वृद्धस्तालुगले लेपं कुर्याच्च मधुरास्यताम् ५५
मेदसः श्लेष्मवद्धानिवृद्ध्योः सोऽनुविधीयते
देहं वृद्धश्च कुरुते गले शब्दं स्वरेऽल्पताम् ५६
श्लेष्मरुद्धाऽनिलगतिः शुष्ककण्ठो हतस्वरः
ताम्यन् प्रसक्तं श्वसिति येन स स्वरहाऽनिलात् ५७
करोति वदनस्यान्तर्व्रणान् सर्वसरोऽनिलः
सञ्चारिणोऽरुणान् रूक्षानोष्ठौ ताम्रौ चलत्वचौ ५८
जिह्वा शीतासहा गुर्वी स्फुटिता कण्टकाचिता
विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः ५९
अधः प्रतिहतो वायुरर्शोगुल्मकफादिभिः
यात्यूर्ध्वं वक्त्रदौर्गन्ध्यं कुर्वन्नूर्ध्वगुदस्तु सः ६०
मुखस्य पित्तजे पाके दाहोषे तिक्तवक्त्रता
क्षारोक्षितक्षतसमा व्रणाः तद्वच्च रक्तजे ६१
कफजे मधुरास्यत्वं कण्डूमत्पिच्छिला व्रणाः
अन्तःकपोलमाश्रित्य श्यावपाण्डु कफोऽबुदम् ६२
कुर्यात्तद् घट्टितं छिन्नं मृदितं च विवर्धते
मुखपाको भवेत्सास्रैः सर्वैः सर्वाकृतिर्मलैः ६३
पूत्यास्यता च तैरेव दन्तकाष्ठादिविद्विषः
ओष्ठे गण्डे द्विजे मूले जिह्वायां तालुके गले ६४
वक्त्रे सर्वत्र चेत्युक्ताः पञ्चसप्ततिरामयाः
एकादशैको दश च त्रयोदश तथा च षट् ६५
अष्टावष्टादशाष्टौ च क्रमात्तेष्वनुपक्रमाः
करालो मांसरक्तौष्ठावर्बुदानि जलाद्विना ६६
कच्छपस्तालुपिटिका गलौघः सुषिरो महान्
स्वरघ्नोर्ध्वगुदश्यावशतघ्नीवलयालसाः ६७
नाड्योष्ठकोपौ निचयात् रक्तात्सर्वैश्च रोहिणी
दशने स्फुटिते दन्तभेदः पक्वोपजिह्विका ६८
गलगण्डः स्वरभ्रंशी कृच्छ्रोच्छ्वासोऽतिवत्सरः
याप्यस्तु हर्षो भेदश्च शेषान् शस्त्रौषधैर्जयेत् ६९
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने मुखरोगविज्ञानीयो नामैकविंशोऽध्यायः २१

द्वाविंशोऽध्यायः
अथातो मुखरोगप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
खण्डौष्ठस्य विलिख्यान्तौ स्यूत्वा व्रणवदाचरेत्
यष्टीज्योतिष्मती रोध्रश्रावणीसारिवोत्पलैः १
पटोल्या काकमाच्या च तैलमभ्यञ्जनं पचेत्
नस्यं च तैलं वातघ्नमधुरस्कन्धसाधितम् २
महास्नेहेन वातौष्ठे सिद्धेनाक्तः पिचुर्हितः
देवधूपमधूच्छिष्टगुग्गुल्व मरदारुभिः ३
यष्ट्याह्वचूर्णयुक्तेन तेनैव प्रतिसारणम्
नाड्योष्ठं स्वेदयेद्दुग्धसिद्धैरेरण्डपल्लवैः ४
खण्डौष्ठविहितं नस्यं तस्य मूर्ध्नि च तर्पणम्
पित्ताभिघातजावोष्ठौ जलौकोभिरुपाचरेत् ५
रोध्रसर्जरसक्षौद्र मधुकैः प्रतिसारणम्
गुडूचीयष्टिपत्तङ्गसिद्धमभ्यञ्जने घृतम् ६
पित्तविद्र धिवच्चात्र क्रिया शोणितजेऽपि च
इदमेव नवे कार्यं कर्म ओष्ठे तु कफातुरे ७
पाठाक्षारमधुव्योषैर्हृतास्रे प्रतिसारणम्
धूमनावनगण्डूषाः प्रयोज्याश्च कफच्छिदः ८
स्विन्नं भिन्नं विमेदस्कं दहेन्मेदोजमग्निना
प्रियङ्गुरोध्रत्रिफलामाक्षिकैः प्रतिसारयेत् ९
सक्षौद्रा घर्षणं तीक्ष्णा भिन्नशुद्धे जलार्बुदे
अवगाढेऽतिवृद्धे वा क्षारोऽग्निर्वा प्रतिक्रिया १०
आमाद्यवस्थास्वलजी गण्डे शोफवदाचरेत्
स्विन्नस्य शीतदन्तस्य पालद्यं विलिखितां दहेत् ११
तैलेन प्रतिसार्या च सक्षौद्र घनसैन्धवैः
दाडिमत्वग्वरातार्क्ष्यकान्ताजम्ब्वस्थिनागरैः १२
कवलः क्षीरिणां क्वाथैरणुतैलं च नावनम्
दन्तहर्षे तथा भेदे सर्वा वातहरा क्रिया १३
तिलयष्टीमधुशृतं क्षीरं गण्डूषधारणम्
सस्नेहं दशमूलाम्बु गण्डूषः प्रचलद्द्विजे १४
तुत्थरोध्रकणाश्रेष्ठापत्तङ्ग पटुघर्षणम्
स्निग्धाः शील्या यथावस्थं नस्यान्नकवलादयः १५
अधिदन्तकमालिप्तं यदा क्षारेण जर्जरम्
कृमिदन्तमिवोत्पाट्य तद्वच्चोपचरेत्तदा १६
अनवस्थितरक्ते च दग्धे व्रण इव क्रिया
अहिंसन् दन्तमूलानि दन्तेभ्यः शर्करां हरेत् १७
क्षारचूर्णैर्मधुयुतैस्ततश्च प्रतिसारयेत्
कपालिकायामप्येवं हर्षोक्तं च समाचरेत् १८
जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्
स्निग्धैश्चालेपगण्डूष नस्याहारैश्चलापहैः १९
गुडेन पूर्णं सुषिरं मधूच्छिष्टेन वा दहेत्
सप्तच्छदार्कक्षीराभ्यां पूरणं कृमिशूलजित् २०
हिङ्गुकट्फलकासीसस्वर्जिकाकुष्ठवेल्लजम्
रजो रुजं जयत्याशु वस्त्रस्थं दशने धृतम् २१
गण्डूषं ग्राहयेत्तैलमेभिरेव च साधितम्
क्वाथैर्वा युक्तमेरण्डद्विव्याघ्रीभूकदम्बजैः २२
क्रियायोगैर्बहुविधैरित्यशान्तरुजं भृशम्
दृशमप्युद्धरेद्दन्तं पूर्वं मूलाद्विमोक्षितम् २३
सन्दंशकेन लघुना दन्तनिर्घातनेन वा
तैलं सयष्ट्याह्वरजो गण्डूषो मधु वा ततः २४
ततो विदारियष्ट्याह्वशृङ्गाटककसेरुभिः
तैलं दशगुणक्षीरं सिद्धं युञ्जीत नावनम् २५
कृशदुर्बलवृद्धानां वातार्तानां च नोद्धरेत्
नोद्धरेच्चोत्तरं दन्तं बहूपद्र वकृद्धि सः २६
एषामप्युद्धॄतौ स्निग्धस्वादुशीतक्रमो हितः
विस्रावितास्रे शीतादे सक्षौद्रैः प्रतिसारणम् २७
मुस्तार्जुनत्वक् त्रिफलाफलिनीतार्क्ष्यनागरैः
तत्क्वाथः कवलो नस्यं तैलं मधुरसाधितम् २८
दन्तमांसान्युपकुशे स्विन्नान्युष्णाम्बुधारणैः
मण्डलाग्रेण शाकादिपत्रैर्वा बहुशो लिखेत् २९
ततश्च प्रतिसार्याणि घृतमण्डमधुद्रुतैः
लाक्षाप्रियङ्गुपत्तङ्ग लवणोत्तमगैरिकैः ३०
सकुष्ठशुण्ठीमरिचयष्टी मधुरसाञ्जनैः
सुखोष्णो घृतमण्डोऽनु तैलं वा कवलग्रहः ३१
घृतं च मधुरैः सिद्धं हितं कवलनस्ययोः
दन्तपुप्पुटके स्विन्नछिन्नभिन्नविलेखिते ३२
यष्ट्याह्वस्वर्जिकाशुण्ठीसैन्धवैः प्रतिसारणम्
विद्र धौ कटुतीक्ष्णोष्णरूक्षैः कवललेपनम् ३३
घर्षणं कटुकाकुष्ठवृश्चिकालीयवोद्भवैः
रक्षेत्पाकं हिमैः पक्वः पाट्यो दाह्योऽवगाढकः ३४
सुषिरे छिन्नलिखिते सक्षौद्रैः प्रतिसारणम्
रोध्रमुस्तमिशिश्रेष्ठातार्क्ष्यपत्तङ्गकिंशुकैः ३५
सकट्फलैः कषायैश्च तेषां गण्डूष इष्यते
यष्टीरोध्रोत्पलानन्तासारिवागुरुचन्दनैः ३६
सगैरिकसितापुण्ड्रैः सिद्धं तैलं च नावनम्
छित्त्वाऽधिमांसकं चूर्णैः सक्षौद्रैः प्रतिसारयेत् ३७
वचातेजोवतीपाठा स्वर्जिकायवशूकजैः
पटोलनिम्बत्रिफलाकषायः कवलो हितः ३८
विदर्भे दन्तमूलानि मण्डलाग्रेण श्धयेत्
क्षारं युञ्ज्यात्ततो नस्यं गण्डूषादि च शीतलम् ३९
संशोध्योभयतः कायं शिरश्चोपचरेत्ततः
नाडीं दन्तानुगां दन्तं समुद्धृत्याग्निना दहेत् ४०
कुब्जां नैकगतिं पूर्णां गुडेन मदनेन वा
धावनं जातिमदनखदिरस्वादुकण्टकैः ४१
क्षीरिवृक्षाम्बुगण्डूषो नस्यं तैलं च तत्कृतम्
कुर्याद्वातौष्ठकोपोक्तं कण्टकेष्वनिलात्मसु ४२
जिह्वायां पित्तजातेषु घृष्टेषु रुधिरे स्रुते
प्रतिसारणगण्डूषनावनं मधुरैर्हितम् ४३
तीक्ष्णैः कफोत्थेष्वेवं च सर्षपत्र्यूषणादिभिः
नवे जिह्वालसेऽप्येवं तं तु शस्त्रेण न स्पृशेत् ४४
उन्नम्य जिह्वामाकृष्टां बडिशेनाधिजिह्विकाम्
छेदयेन्मण्डलाग्रेण तीक्ष्णोष्णैर्घर्षणादि च ४५
उपजिह्वां परिस्राव्य यवक्षारेण घर्षयेत्
कफघ्नैः शुण्डिका साध्या नस्यगण्डूषघर्षणैः ४६
एर्वारुबीजप्रतिमं वृद्धायामसिराततम्
अग्रं निविष्टं जिह्वाया बडिशाद्यवलम्बितम् ४७
छेदयेन्मण्डलाग्रेण नात्यग्रे न च मूलतः
छेदेऽत्यसृक्क्षयान्मृत्युर्हीने व्याधिर्विवर्द्धते ४८
मरिचातिविषापाठावचा कुष्ठकुटन्नटैः
छिन्नायां सपटुक्षौद्रै र्घर्षणं कवलः पुनः ४९
कटुकातिविषापाठा निम्बरास्नावचाम्बुभिः
सङ्घाते पुप्पुटे कूर्मे विलिख्यैवं समाचरेत् ५०
अपक्वे तालुपाके तु कासीसक्षौद्र तार्क्ष्यजैः
घर्षणं कवलः शीतकषायमधुरौषधैः ५१
पक्वेऽष्टापदवद्भिन्ने तीक्ष्णोष्णैः प्रतिसारणम्
वृषनिम्बपटोलाद्यैस्तिक्तैः कवलधारणम् ५२
तालुशोषे त्वतृष्णस्य सर्पिरुत्तरभक्तिकम्
कणाशुण्ठीशृतं पानमम्लैर्गण्डूषधारणम् ५३
धन्वमांसरसाः स्निग्धाः क्षीरसर्पिश्च नावनम्
कण्ठोरोगेष्वसृङ्मोक्षस्तीक्ष्णैर्नस्यादि कर्म च ५४
क्वाथः पानं च दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजः
हरीतकीकषायो वा पेयो माक्षिकसंयुतः ५५
श्रेष्ठाव्योषयवक्षारदार्वी द्वीपिरसाञ्जनैः
सपाठातेजिनीनिम्बैः सुक्तगोमूत्रसाधितैः ५६
कवलो गुटिका वाऽत्र कल्पिता प्रतिसारणम्
निचुलं कटभी मुस्तं देवदारु महौषधम् ५७
वचा दन्ती च मूर्वा च लेपः कोष्णोऽतिशोफहा
अथान्तर्बाह्यतः स्विन्नां वातरोहिणिकां लिखेत् ५८
अङ्गुलीशस्त्रकेणाशु पटुयुक्तनखेन वा
पञ्चमूलाम्बु कवलस्तैलं गण्डूषनावनम् ५९
विस्राव्य पित्तसम्भूतां सिताक्षौद्र प्रियङ्गुभिः
घर्षेत्सरोध्रपत्तङ्गैः कवलः क्वथितैश्च तैः ६०
द्रा क्षापरूषकक्वाथो हितश्च कबलग्रहे
उपाचरेदेवमेव प्रत्याख्यायास्रसम्भवाम् ६१
सागारधूमैः कटुकैः कफजां प्रतिसारयेत्
नस्यगण्डूषयोस्तैलं साधितं च प्रशस्यते ६२
अपामार्गफलश्वेतादन्ती जन्तुघ्नसैन्धवैः
तद्वच्च वृन्दशालूकतुण्डिकेरीगिलायुषु ६३
विद्र धौ स्राविते श्रेष्ठारोचनातार्क्ष्यगैरिकैः
सरोध्रपटुपत्तङ्ग कणैर्गण्डूषघर्षणे ६४
गलगण्डः पवनजः स्विन्नो निःस्रुतशोणितः
तिलैर्बीजैश्च लट्वोमाप्रियालशणसम्भवैः ६५
उपनाह्योव्रणे रूढे प्रलेप्यश्च पुनः पुनः
शिग्रुतिल्वकतर्कारीगजकृष्णापुनर्नवैः ६६
कालामृतार्कमूलैश्च पुष्पैश्च करहाटजैः
एकैषिकान्वितैः पिष्टैः सुरया काञ्जिकेन वा ६७
गुडूचीनिम्बकुटज हंसपादीबलाद्वयैः
साधितं पाययेत्तैलं सकृष्णादेवदारुभिः ६८
कर्तव्यं कफजेऽप्येतत्स्वेदविम्लापने त्वति
लेपोऽजगन्धातिविषाविशल्याः सविषाणिकाः ६९
गुञ्जालाबुशुकाह्वाश्च पलाशक्षारकल्किताः
मूत्रस्रुतं हठक्षारं पक्त्वा कोद्र वभुक् पिबेत् ७०
साधितं वत्सकाद्यैर्वा तैलं सपटुपञ्चकैः
कफघ्नान् धूमवमननावनादींश्च शीलयेत् ७१
मेदोभवे सिरां विध्येत्कफघ्नं च विधिं भजेत्
असनादिरजश्चैनं प्रातर्मूत्रेण पाययेत् ७२
अशान्तौ पाचयित्वा च सर्वान् व्रणवदाचरेत्
मुखपाकेषु सक्षौद्रा प्रयोज्या मुखधावनाः ७३
क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः
निष्ठेव्या भक्षयित्वा वा कुठेरादिर्गणोऽथवा ७४
मुखपाकेऽनिलात् कृष्णापट्वेलाः प्रतिसारणम्
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः ७५
पित्तास्रे पित्तरक्तघ्नः कफघ्नश्च कफे विधिः
लिखेच्छाकादिपत्रैश्च पिटिकाः कठिनाः स्थिराः ७६
यथादोषोदयं कुर्यात्सन्निपाते चिकित्सितम्
नवेऽबु देत्वसंवृद्धे छेदिते प्रतिसारणम् ७७
स्वर्जिकानागरक्षौद्रैः क्वाथो गण्डूष इष्यते
गुडूचीनिम्बकल्कोत्थो मधुतैलसमन्वितः ७८
यवान्नभुक् तीक्ष्णतैलनस्याभ्यङ्गांस्तथाऽचरेत्
वमिते पूतिवदने धूमस्तीक्ष्णः सनावनः ७९
समङ्गाधातकीरोध्र फलिनीपद्मकैर्जलम्
धावनं वदनस्यान्तश्चूर्णितैरवचूर्णितम् ८०
शीतादोपकुशोक्तं च नावनादि च शीलयेत्
फलत्रयद्वीपिकिराततिक्तयष्ट्याह्वसिद्धार्थ कटुत्रिकाणि
मुस्ताहरिद्रा द्वय यावशूक वृक्षाम्लकाम्लाग्रिमवेतसाश्च ८१
अश्वत्थजम्ब्वाम्रधनञ्जयत्वक् त्वक् चाहिमारात्खदिरस्यसारः
क्वाथेन तेषां घनतां गतेनतच्चूर्णयुक्ता गुटिका विधेयाः ८२
ता धारिता घ्नन्ति मुखेन नित्यंकण्ठौष्ठताल्वादिगदान् सुकृच्छ्रान्
विशेषतो रोहिणिकास्यशोषगन्धान् विदेहाधिपतिप्रणीताः ८३
खदिरतुलामम्बुघटे पक्त्वा तोयेन तेन पिष्टैश्च
चन्दनजोङ्गककुङ्कुमपरिपेलववालकोशीरैः ८४
सुरतरुरोध्रद्रा क्षामञ्जिष्ठाचोचपद्मकविडङ्गैः
स्पृक्कानतनखकट्फलसूक्ष्मैलाध्यामकैःसपत्तङ्गैः ८५
तैलप्रस्थं विपचेत्कर्षांशैः पाननस्यगण्डूषैस्तत्
हत्वाऽस्ये सर्वगदान् जनयति
गांर्ध्रींदृशं श्रुतिं च वाराहीम् ८६
उद्वर्तितं च प्रपुनाटरोध्रदार्वीभिरभ्यक्तमनेन वक्त्रम्
निर्व्यङ्गनीलीमुखदूषिकादिसञ्जायतेचन्द्र समानकान्ति ८७
पलशतं बाणात्तोयघटे पक्त्वा रसेऽस्मिश्च पलार्धिकैः
खदिरजम्बूयष्ट्यानन्ताम्रैरहिमारनीलोत्पलान्वितैः ८८
तैलप्रस्थं पाचयेच्छ्लक्ष्णपिष्टैरेभिर्द्र व्यैर्धारितं तन्मुखेन
रोगान् सर्वान् हन्ति वक्त्रे विशेषात्स्थैर्यं धत्ते दन्तपङक्तेश्चलायाः ८९
खदिरसाराद् द्वे तुले पचेद्वल्कात्तुलां चारिमेदसः
घटचतुष्के पादशेषेऽस्मिन् पूते पुनः क्वथनाद्घने ९०
आक्षिकं क्षिपेत्सुसूक्ष्मं रजः सेव्याम्बुपत्तङ्गगैरिकम्
चन्दनद्वयरोध्रपुण्ड्राह्वयष्ट्याह्वलाक्षाञ्जनद्वयम् ९१
धातकीकट्फलद्विनिशात्रिफला चतुर्जातजोङ्गकम्
मुस्तमञ्जिष्ठान्यग्रोधप्ररोहमांसीयवासकम् ९२
पद्मकैलासमङ्गाश्च शीते तस्मिंस्तथा पालिकां पृथक्
जातिपत्रिकां सजातीफलां सहलवङ्गकङ्कोल्लकाम् ९३
स्फटिकशुभ्रसुरभिकर्पूरकुडवं च तत्रावपेत्ततः
कारयेद्गुटिकाः सदा चैता धार्या मुखे तद्गदापहाः ९४
क्वाथ्यौषधव्यत्यययोजनेन तैलं पचेत्कल्पनयाऽनयैव
सर्वास्यरोगोद्धृतये तदाहुर्दन्तस्थिरत्वे त्विदमेव मुख्यम् ९५
खदिरेणैता गुटिकास्तैलमिदं चारिमेदसा प्रथितम्
अनुशीलयन् प्रतिदिनं स्वस्थोऽपि दृढद्विजो भवति ९६
क्षुद्रा गुडूचीसुमनःप्रवालदार्वीयवासत्रिफलाकषायः
क्षौद्रे ण युक्तः कवलग्रहोऽय सर्वामयान् वक्त्रगतान्निहन्ति ९७
पाठादार्वीत्वक्कुष्ठमुस्तासमङ्गातिक्तापीताङ्गीरोध्रतेजोवतीनाम्
चूर्णः सक्षौद्रो दन्तमांसार्तिकण्डूपाकस्रावाणां नाशनो घर्षणेन ९८
गृहधूमतार्क्ष्यपाठाव्योष क्षाराग्न्ययोवरातेजोह्वैः
मुखदन्तगलविकारे सक्षौद्रः कालको विधार्यश्चूर्णः ९९
दार्वीत्वक्सिन्धूद्भवमनः शिलायावशूकहरितालैः
धार्यः पीतकचूर्णो दन्तास्यगलामये समध्वाज्यः १००
द्विक्षारधूमकवरापञ्चपटु व्योषवेल्लगिरितार्क्ष्यैः
गोमूत्रेण विपक्वा गलामयघ्नी रसक्रिया एषा १०१
गोमूत्रक्वथनविलीन विग्रहाणां
पथ्यानां जलमिशिकुष्ठभावितानाम्
अत्तारं नरमणवोऽपि वक्त्ररोगाः
श्रोतारं नृपमिव न स्पृशन्त्यनर्थाः १०२
सप्तच्छदोशीरपटोलमुस्त हरीतकीतिक्तकरोहिणीभिः
यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य १०३
पटोलशुण्ठी त्रिफलाविशाला
त्रायन्तितिक्ता द्विनिशामृतानाम्
पीतः कषायो मधुना निहन्ति
मुखे स्थितश्चास्यगदानशेषान् १०४
स्वरसः क्वथितो दार्व्या घनीभूतः सगैरिकः
आस्यस्थः समधुर्वक्त्रपाकनाडीव्रणापहः १०५
पटोलनिम्बयष्ट्या ह्ववासाजात्यरिमेदसाम्
खदिरस्य वरायाश्च पृथगेवं प्रकल्पना १०६
खदिरायोवरापार्थ मदयन्त्यहिमारकैः
गण्डूषोऽम्बुशृतैर्धार्यो दुर्बलद्विजशान्तये १०७
मुखदन्तमूलगलजाः प्रायो रोगाः कफास्रभूयिष्ठाः
तस्मात्तेषामसकृद् रुधिरं विस्रावयेद्दुष्टम् १०८
कायशिरसोर्विरेको वमनं कवलग्रहाश्च कटुतिक्ताः
प्रायः शस्तं तेषां कफरक्तहरं तथा कर्म १०९
यवतृणधान्यं भक्तं विदलैः क्षारोषितैरपस्नेहाः
यूषा भक्ष्याश्च हिता यच्चान्यच्छ्लेष्मनाशाय ११०
प्राणानिलपथसंस्थाःश्वसितमपि निरुन्धते प्रमादवतः
कण्ठामयाश्चिकित्सितमतो द्रुतं तेषु कुर्वीत १११
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने मुखरोगप्रतिषेधो नाम द्वाविंशोऽध्यायः २२

त्रयोविंशोऽध्यायः
अथातः शिरोरोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
धूमातपतुषाराम्बु क्रीडातिस्वप्नजागरैः
उत्स्वेदाधिपुरोवात बाष्पनिग्रहरोदनैः १
अत्यम्बुमद्यपानेन कृमिभिर्वेगधारणैः
उपधानमृजाभ्यङ्गद्वेषाधः प्रततेक्षणैः २
असात्म्यगन्धदुष्टामभाष्याद्यैश्च शिरोगताः
जनयन्त्यामयान् दोषाः तत्र मारुतकोपतः ३
निस्तुद्येते भृशं शङ्खौ घाटा सम्भिद्यते तथा
भ्रुवोर्मध्यं ललाटं च पततीवातिवेदनम् ४
बाध्येते स्वनतः श्रोत्रे निष्कृष्येत इवाक्षिणी
घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते ५
स्फुरत्यति सिराजालं कन्धराहनुसङ्ग्रहः
प्रकाशासहता घ्राणस्रावोऽकस्माद्व्यथाशमौ ६
मार्दवं मर्दनस्नेहस्वेदबन्धैश्च जायते
शिरस्तापोऽयम् अर्धे तु मूर्ध्नः सोऽधावभेदकः ७
पक्षात्कुप्यति मासाद्वा स्वयमेव च शाम्यति
अतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत् ८
शिरोभितापे पित्तोत्थे शिरोधूमायनं ज्वरः
स्वेदोऽक्षिदहनं मूर्च्छा निशि शीतैश्च मार्दवम् ९
अरुचिः कफजे मूर्ध्नो गुरुस्तिमितशीतता
शिरानिस्पन्दताऽलस्यं रुङ्मन्दाऽह्न्यधिका निशि १०
तन्द्रा शूनाक्षिकूटत्वं कर्णकण्डूयनं वमिः
रक्तात् पित्ताधिकरुजः सर्वैः स्यात्सर्वलक्षणः ११
सङ्कीर्णैर्भोजनैर्मूर्ध्नि क्लेदिते रुधिरामिषे
कोपिते सन्निपाते च जायन्ते मूर्ध्नि जन्तवः १२
शिरसस्ते पिबन्तोऽस्र घोराः कुर्वन्ति वेदनाः
चित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः १३
रौक्ष्यशोफव्यधच्छेद दाहस्फुरणपूतिताः
कपाले तालुशिरसोः कण्डूः शोषः प्रमीलकः १४
ताम्राच्छसिङ्घाणकता कर्णनादश्च जन्तुजे
वातोल्बणाः शिरःकम्पं तत्संज्ञं कुर्वते मलाः १५
पित्तप्रधानैर्वाताद्यैः शङ्खे शोफः सशोणितैः
तीव्रदाहरुजारागप्रलापज्वरतृड्भ्रमाः १६
तिक्तास्यः पीतवदनः क्षिप्रकारी स शङ्खकः
त्रिरात्राज्जीवितं हन्ति सिध्यत्यप्याशु साधितः १७
पित्तानुबद्धः शङ्खाक्षिभ्रूललाटेषु मारुतः
रुजं सस्पन्दनां कुर्यादनुसूर्योदयोदयाम् १८
आमध्याह्नं विवर्धिष्णुः क्षुद्वतः सा विशेषतः
अव्यवस्थितशीतोष्णसुखा शाम्यत्यतः परम् १९
सूर्यावर्तः स इत्युक्ता दश रोगाः शिरोगताः
शिरस्येव च वक्ष्यन्ते कपाले व्याधयो नव २०
कपाले पवने दुष्टे गर्भस्थस्यापि जायते
सवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकम् २१
यथादोषोदयं ब्रूयात् पिटिकार्बुदविद्र धीन्
कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः २२
कङ्गुसिद्धार्थकनिभाः पिटिकाः स्युररुंषिकाः
कण्डूकेशच्युतिस्वापरौक्ष्यकृत् स्फुटनं त्वचः २३
सुसूक्ष्मं कफवाताभ्यां विद्याद्दारुणकं तु तत्
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् २४
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः
रोमकूपान् रुणद्ध्य्स्य तेनान्येषामसम्भवः २५
तदिन्द्र लुप्तं रुज्यां च प्राहुश्चाचेति चापरे
खलतेरपि जन्मैवं शातनं तत्र तु क्रमात् २६
सा वातादग्निदग्धाभा पित्तात्स्विन्नसिरावृता
कफाद्घनत्वग्वर्णांश्च यथास्वं निर्दिशेत् त्वचि २७
दोषैः सर्वाकृतिः सर्वैरसाध्या सा नखप्रभा
दग्धाग्निनेव निर्लोमा सदाहा या च जायते २८
शोकश्रमक्रोधकृतः शरीरोष्मा शिरोगतः
केशान् सदोषः पचति पलितं सम्भवत्यतः २९
तद्वातात्स्फुटितं श्यावं खरं रूक्षं जलप्रभम्
पित्तात्सदाहं पीताभं कफात् स्निग्धं विवृद्धिमत् ३०
स्थूलं सुशुक्लं सर्वैस्तु विद्याद्व्यामिश्रलक्षणम्
शिरोरुजोद्भवं चान्यद्विवर्णं स्पर्शनासहम् ३१
असाध्या सन्निपातेन खलतिः पलितानि च
शरीरपरिणामोत्थान्यपेक्षन्ते रसायनम् ३२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने शिरोरोगविज्ञानीयो नाम त्रयोविंशोऽध्यायः २३

चतुर्विंशोऽध्यायः
अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः
शिरोभितापेऽनिलजे वातव्याधिविधिं चरेत्
घृतमक्तशिरा रात्रौ पिबेदुष्णपयोनुपः १
माषान् कुलत्थान् मुद्गान् वा तद्वत्खादेद्घृतान्वितान्
तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत् २
पिण्डोपनाहस्वेदाश्च मांसधान्यकृता हिताः
वातघ्नदशमूलादिसिद्धक्षीरेण सेचनम् ३
स्निग्धं नस्यं तथा धूमः शिरःश्रवणतर्पणम्
वरणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत् ४
क्षीरावशिष्टं तच्छीतं मथित्वा सारमाहरेत्
ततो मधुरकैः सिद्धं नस्यं तत् पूजितं हविः ५
वर्गेऽत्र पक्वं क्षीरे च पेयं सर्पिः सशर्करम्
कार्पासमज्जा त्वड्मुस्ता सुमनःकोरकाणि च ६
नस्यमुष्णाम्बुपिष्टानि सर्वमूर्धरुजापहम्
शर्कराकुङ्कुमशृतं घृतं पित्तासृगन्वये ७
प्रलेपः सघृतैः कुष्ठकुटिलोत्पलचन्दनैः
वातोद्रे कभयाद्र क्तं न चास्मिन्नवसेचयेत् ८
इत्यशान्तौ चले दाहः कफे चेष्टो यथोदितः
अर्धावभेदकेऽप्येषा तथा दोषान्वयात्क्रिया ९
शिरीषबीजापामार्गमूलं नस्यं विडान्वितम्
स्थिरारसो वा लेपे तु प्रपुन्नाटोऽम्लकल्कितः १०
सूर्यावर्तेऽपि तस्मिंस्तु सिरयाऽपहरेदसृक्
शिरोभितापे पित्तोत्थे स्निग्धस्य व्यधयेत्सिराम् ११
शीताः शिरोमुखालेपसेकशोधनबस्तयः
जीवनीयशृते क्षीरसर्पिषी पाननस्ययोः १२
कर्तव्यं रक्तजेऽप्येतत् प्रत्याख्याय च शङ्खके
श्लेष्माभितापे जीर्णाज्यस्नेहितः कटुकैर्वमेत् १३
स्वेदप्रलेपनस्याद्या रूक्षतीक्ष्णोष्णभेषजैः
शस्यन्ते चोपवासोऽत्र निचये मिश्रमाचरेत् १४
कृमिजे शोणितं नस्यं येन मूर्च्छन्ति जन्तवः
मत्ताः शोणितगन्धेन निर्यान्ति घ्राणवक्त्रयोः १५
सुतीक्ष्णनस्यधूमाभ्यां कुर्यान्निर्हरणं ततः
विडङ्गस्वर्जिकादन्तीहिङ्गुगोमूत्रसाधितम् १६
कटुनिम्बेङ्गुदीपीलुतैलं नस्यं पृथक् पृथक्
अजामूत्रद्रुतं नस्यं कृमिजित् कृमिजित्परम् १७
पूतिमत्स्ययुतैः कुर्याद् धूमं नावनभेषजैः
कृमिभिः पीतरक्तत्वाद्र क्तमत्र न निर्हरेत् १८
वाताभितापविहितः कम्पे दाहाद्विना क्रमः
नवे जन्मोत्तरं जाते योजयेदुपशीर्षके १९
वातव्याधिक्रियां पक्वे कर्म विद्र धिचोदितम्
आमपक्वे यथायोग्यं विद्र धीपिटिकार्बुदे २०
अरुंषिका जलौकोभिर्हृतास्रा निम्बवारिणा
सिक्ता प्रभूतलवणैर्लिम्पेदश्वशकृद्र सैः २१
पटोलनिम्बपत्रैर्वा सहरिद्रैः सुकल्कितैः
गोमूत्रजीर्णपिण्याककृकवाकुमलैरपि २२
कपालभृष्टं कुष्ठं वा चूर्णितं तैलसंयुतम्
रुंषिकालेपनं कण्डूक्लेददाहार्तिनाशनम् २३
मालतीचित्रकाश्वघ्ननक्तमालप्रसाधितम्
चाचारुंषिकयोस्तैलमभ्यङ्गः क्षुरघृष्टयोः २४
अशान्तौ शिरसः शुद्ध्यै यतेत वमनादिभिः
विध्येच्छिरां दारुणके लालाट्यां शीलयेन्मृजाम् २५
नावनं मूर्द्धबस्तिं च लेपयेच्च समाक्षिकैः
प्रियालबीजमधुककुष्ठमाषैः ससर्षपैः २६
लाक्षाशम्याकपत्रैडगजधात्री फलैस्तथा
कोरदूषतृणक्षारवारिप्रक्षालनं हितम् २७
इन्द्र लुप्ते यथासन्नं सिरां विध्वा प्रलेपयेत्
प्रच्छाय गाढं कासीसमनोह्वातुत्थकोषणैः २८
वन्यामरतरुभ्यां वा गुञ्जामूलफलैस्तथा
तथा लाङ्गलिकामूलैः करवीररसेन वा २९
सक्षौद्र क्षुद्र वार्ताकस्वरसेन रसेन वा
धत्तूरकस्य पत्राणां भल्लातकरसेन वा ३०
अथवा माक्षिकहविस्तिलपुष्पत्रिकण्टकैः
तैलाक्ता हस्तिदन्तस्य मषी चाचौषधं परम् ३१
शुक्लरोमोद्गमे तद्वन्मषी मेषविषाणजा
वर्जयेद्वारिणा सेकं यावद्रो मसमुद्भवः ३२
खलतौ पलिते वल्यां हरिल्लोम्नि च शोधितम्
नस्यवक्त्रशिरोभ्यङ्गप्रदेहैः समुपाचरेत् ३३
सिद्धं तैलं बृहत्याद्यैर्जीवनीयैश्च नावनम्
मासं वा निम्बजं तैलं क्षीरभुङ्नावयेद्यतिः ३४
नीलीशिरीषकोरण्टभृङ्गस्वरसभावितम्
शेल्वक्षतिलरामाणां बीजं काकाण्डकीसमम् ३५
पिष्ट्वाऽजपयसा लोहाल्लिप्तादर्कांशुतापितात्
तैलं स्रुतं क्षीरभुजो नावनात् पलितान्तकृत् ३६
क्षीरात्साहचराद् भृङ्गरजसः सौरसाद्र सात्
प्रस्थैस्तैलस्य कुडवः सिद्धो यष्टीपलान्वितः ३७
नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः
क्षीरेण श्लक्ष्णपिष्टौ वा दुग्धिकाकरवीरकौ ३८
उत्पाट्य पलितं देयावाशये पलितापहौ
क्षीरं प्रियालं यष्ट्याह्वं जीवनीयो गणस्तिलाः ३९
कृष्णाः प्रलेपो वक्त्रस्य हरिल्लोमवलीहितः
तिलाः सामलकाः पद्मकिञ्जल्को मधुकं मधु ४०
वृंहयेद्र ञ्जयेच्चैतत् केशान् मूर्द्धप्रलेपनात्
मांसी कुष्ठं तिलाः कृष्णाः सारिवा नीलमुत्पलम् ४१
क्षौद्रं च क्षीरपिष्टानि केशसंवर्धनं परम्
अयोरजो भृङ्गरजस्त्रिफला कृष्णमृत्तिका ४२
स्थितमिक्षुरसे मासं समूलं पलितं रजेत्
माषकोद्र वधान्याम्लैर्यवागूस्त्रिदिनोषिता ४३
लोहशुक्लोत्कटा पिष्टा बलाकामपि रञ्जयेत्
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः ४४
सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन च
सर्वान् मूर्धगदान् हन्ति पलितानि च शीलितम् ४५
वरीजीवन्तिनिर्यासपयोभिर्यमकं पचेत्
जीवनीयैश्च तन्नस्यं सर्वजत्रूर्ध्वरोगजित् ४६
मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम्
दशमूलबलारास्नामधुकैस्त्रिपलैर्युतम् ४७
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्
कल्कितैर्मधुरद्र व्यैः सर्वजत्रूर्ध्वरोगजित् ४८
तदभ्यासीकृतं पानबस्त्यभ्यञ्जननावनैः
एतेनैव कषायेण घृतप्रस्थं विपाचयेत् ४९
चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः
जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूषकैः ५०
समङ्गाचविकाभार्गी काश्मरीकर्कटाह्वयैः
आत्मगुप्तामहामेदाताल खर्जूरमस्तकैः ५१
मृणालबिसखर्जूरयष्टी मधुकजीवकैः
शतावरीविदारीक्षु बृहतीसारिवायुगैः ५२
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटक कसेरुकैः
रास्नास्थिरातामलकी सूक्ष्मैलाशठिपौष्करैः ५३
पुनर्नवातवक्षीरीकाकोली धन्वयासकैः
मधूकाक्षोटवाताम मुञ्जाताभिषुकैरपि ५४
महामायूरमित्येतन्मायूरादधिकं गुणैः
धात्विन्द्रि यस्वरभ्रंशश्वासकासार्दितापहम् ५५
योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्
आखुभिः कुक्कुटैर्हंसैः शशैश्चेति प्रकल्पयेत् ५६
जत्रूर्ध्वजानां व्याधीनामेकत्रिंशच्छतद्वयम्
परस्परमसङ्कीर्णं विस्तरेण प्रकाशितम् ५७
ऊर्ध्वमूलमधः शाखमृषयः पुरुषं विदुः
मूलप्रहारिणस्तस्माद् रोगान् शीघ्रतरं जयेत् ५८
सर्वेन्द्रि याणि येनास्मिन् प्राणा येन च संश्रिताः
तेन तस्योत्तमाङ्गस्य रक्षायामादृतो भवेत् ५९
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने शिरोरोगप्रतिषेधोनाम चतुर्विंशोऽध्यायः २४
इति शालाक्यं नाम चतुर्थमूर्ध्वाङ्गमङ्गं सम्पूर्णम्

पञ्चविंशोऽध्यायः
अथातो व्रणप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
व्रणो द्विधा निजागन्तुदुष्टशुद्धविभेदतः
निजो दोषैः शरीरोत्थैरागन्तुर्बाह्यहेतुजः १
दोषैरधिष्ठितो दुष्टः शुद्धस्तैरनधिष्ठितः
संवृतत्वं विवृतता काठिन्यं मृदुताऽति वा २
अत्युत्सन्नावसन्नत्वमत्यौष्ण्यमतिशीतता
रक्तत्वं पाण्डुता कार्ष्ण्यं पूतिपूयपरिस्रुतिः ३
पूतिमांससिरास्नायुच्छन्नतोत्सङ्गिताऽतिरुक्
संरम्भदाहश्वयथुकण्ड्वादिभिरुपद्रुतः ४
दीर्घकालानुबन्धश्च विद्याद्दुष्टव्रणाकृतिम्
स पञ्चदशधा दोषैः सरक्तैः तत्र मारुतात् ५
श्यावः कृष्णोऽरुणो भस्मकपोतास्थिनिभोऽपि वा
मस्तुमांसपुलाकाम्बुतुल्यतन्वल्पसंस्रुतिः ६
निर्मांसस्तोदभेदाढ्यो रूक्षश्चटचटायते
पित्तेन क्षिप्रजः पीतो नीलः कपिलपिङ्गलः ७
मूत्रकिंशुकभस्माम्बुतैला भोष्णबहुस्रुतिः
क्षारोक्षितक्षतसमव्यथो रागोष्मपाकवान् ८
कफेन पाण्डुः कण्डूमान् बहुश्वेतघनस्रुतिः
स्थूलौष्ठः कठिनः स्नायुसिराजालततोऽल्परुक् ९
प्रवालरक्तो रक्तेन सरक्तं पूयमुद्गिरेत्
वाजिस्थानसमो गन्धे युक्तो लिङ्गैश्च पैत्तिकैः १०
द्वाभ्यां त्रिभिश्च सर्वैश्च विद्याल्लक्षणसङ्करात्
जिह्वाप्रभो मृदुः श्लक्ष्णः श्यावौष्ठपिटिकः समः ११
किञ्चिदुन्नतमध्यो वा व्रणः शुद्धोऽनुपद्र वः
त्वगामिषसिरास्नायुसन्ध्यस्थीनि व्रणाशयाः १२
कोष्ठो मर्म च तान्यष्टौ दुःसाध्यान्युत्तरोत्तरम्
सुसाध्यः सत्त्वमांसाग्निवयोबलवति व्रणः १३
वृत्तो दीर्घस्त्रिपुटकश्चतुरस्राकृतिश्च यः
तथा स्फिक्पायुमेढ्रोष्ठपृष्ठान्तर्वक्त्रगण्डगः १४
कृच्छ्रसाध्योऽक्षिदशननासिकापाङ्गनाभिषु
सेवनीजठरश्रोत्रपार्श्वकक्षास्तनेषु च १५
फेनपूयानिलवहः शल्यवानूर्ध्वनिर्वमी
भगन्दरोऽन्तर्वदनस्तथा कट्यस्थिसंश्रितः १६
कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्
व्रणाः कृच्छ्रेण सिद्ध्य्न्ति येषां च स्युर्व्रणे व्रणाः १७
नैव सिद्ध्य्न्ति वीसर्पज्वरातीसारकासिनाम्
पिपासूनामनिद्रा णां श्वासिनामविपाकिनाम् १८
भिन्ने शिरःकपाले वा मस्तुलुङ्गस्य दर्शने
स्नायुक्लेदात्सिराच्छेदाद्गाम्भीर्यात्कृमिभक्षणात् १९
अस्थिभेदात्सशल्यत्वात्सविषत्वादतर्कितात्
मिथ्याबन्धादतिस्नेहाद्रौ क्ष्याद्रो मादिघट्टनात् २०
क्षोभादशुद्ध कोष्ठत्वात्सौहित्यादतिकर्शनात्
मद्यपानाद्दिवास्वप्नाद्व्यवायाद्रा त्रिजागरात् २१
व्रणो मिथ्योपचाराच्च नैव साध्योऽपि सिध्यति
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः २२
स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत्
अथात्र शोफावस्थायां यथासन्नं विशोधनम् २३
योज्यं शोफो हि शुद्धानां व्रणश्चाशु प्रशाम्यति
कुर्याच्छीतोपचारं च शोफावस्थस्य सन्ततम् २४
दोषाग्निरग्निवत्तेन प्रयाति सहसा समम्
शोफे व्रणे च कठिने विवर्णे वेदनान्विते २५
विषयुक्ते विशेषेण जलजाद्यैर्हरेदसृक्
दुष्टास्रेऽपगते सद्यः शोफरागरुजां शमः २६
हृते हृते च रुधिरे सुशीतैः स्पर्शवीर्ययोः
सुश्लक्ष्णैस्तदहःपिष्टैः क्षीरेक्षुस्वरसद्र वैः २७
शतधौतघृतोपैतैर्मुहुरन्यै रशोषिभिः
प्रतिलोमं हितो लेपः सेकाभ्यङ्गाश्च तत्कृताः २८
न्यग्रोधोदुम्बराश्वत्थ प्लक्षवेतसवल्कलैः
प्रदेहो भूरिसर्पिर्भिः शोफनिर्वापणः परम् २९
वातोल्बणानां स्तब्धानां कठिनानां महारुजाम्
स्रुतासृजां च शोफानां व्रणानामपि चेदृशाम् ३०
आनूपवेसवाराद्यैः स्वेदः सोमास्तिलाः पुनः
भृष्टा निर्वापिताः क्षीरे तत्पिष्टा दाहरुग्घराः ३१
स्थिरान् मन्दरुजः शोफान् स्नेहैर्वातकफापहैः
अभ्यज्य स्वेदयित्वा च वेणुनाड्या शनैः शनैः ३२
विम्लापनार्थं मृद्गीयात् तलेनाङ्गुष्ठकेन वा
यवगोधूममुद्गैश्च सिद्धपिष्टैः प्रलेपयेत् ३३
विलीयते स चेन्नैवं ततस्तमुपनाहयेत्
अविदग्धस्तथा शान्तिं विदग्धः पाकमश्नुते ३४
सकोलतिलवल्लोमा दध्यम्ला सक्तुपिण्डिका
सकिण्वकुष्ठलवणा कोष्णा शस्तोपनाहने ३५
सुपक्वे पिण्डिते शोफे पीडनैरुपीडिते
दारणं दारणार्हस्य सुकुमारस्य चेष्यते ३६
गुग्गुल्वतसि गोदन्तस्वर्णक्षीरीकपोतविट्
क्षारौषधानि क्षाराश्च पक्वशोफविदारणम् ३७
पूयगर्भानणुद्वारान् सोत्सङ्गान्मर्मगानपि
निःस्नेहैः पीडनद्र व्यैः समन्तात्प्रतिपीडयेत् ३८
शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति
न मुखे चैनमालिम्पेत् तथा दोषः प्रसिच्यते ३९
कलाययवगोधूम माषमुद्गहरेणवः
द्र व्याणां पिच्छिलानां च त्वङ्मूलानि प्रपीडनम् ४०
सप्तसु क्षालनाद्येषु सुरसारग्वधादिकौ
भृशं दुष्टे व्रणे योज्यौ मेहकुष्ठव्रणेषु च ४१
अथवा क्षालनं क्वाथः पटोलीनिम्बपत्रजः
अविशुद्धे विशुद्धे तु न्यग्रोधादित्वगुद्भवः ४२
पटोलीतिलयष्ट्याह्व त्रिवृद्दन्तीनिशाद्वयम्
निम्बपत्राणि चालेपः सपटुर्व्रणशोधनः ४३
व्रणान् विशोधयेद्वर्त्या सूक्ष्मास्यान् सन्धिमर्मगान्
कृतया त्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः ४४
वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान्
यवाज्यभूर्जमदन श्रीवेष्टकसुराह्वयैः ४५
निर्वापयेद् भृशं शीतैः पित्तरक्तविषोल्बणान्
शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम् ४६
न्यग्रोधपद्मकादिभ्यामश्व गन्धाबलातिलैः
अद्यान्मांसादमांसानि विधिनोपहितानि च ४७
मांसं मांसादमांसेन वर्धते शुद्धचेतसः
उत्सन्नमृदुमांसानां व्रणानामवसादनम् ४८
जातीमुकुलकासीसमनोह्वाल पुराग्निकैः
उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान् ४९
व्रणान् सुदुःखशोध्यांश्च शोधयेत् क्षारकर्मणा
स्रवन्तोऽश्मरिजा मूत्रं ये चान्ये रक्तवाहिनः ५०
छिन्नाश्च सन्धयो येषां यथोक्तैर्ये च शोधनैः
शोध्यमाना न शुद्ध्य्न्ति शोध्याः स्युस्तेऽग्निकर्मणा ५१
शुद्धानां रोपणं योज्यमुत्सादाय यदीरितम्
अश्वगन्धा रुहा रोध्रं कट्फलं मधुयष्टिका ५२
समङ्गा धातकीपुष्पं परमं व्रणरोपणम्
अपेतपूतिमांसानां मांसस्थानामरोहताम् ५३
कल्कं संरोहणं कुर्यात् तिलानां मधुकान्वितम्
स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित् ५४
स क्षौद्र निम्बपत्राभ्यां युक्तः संशोधनं परम्
पूर्वाभ्यां सर्पिषा चासौ युक्तः स्यादाशु रोपणः ५५
तिलवद्यवकल्कं तु केचिदिच्छन्ति तद्विदः
सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान् ५६
क्षीररोपणभैषज्यशृतेनाज्येन रोपयेत्
रोपणौषधसिद्धेन तैलेन कफवातजान् ५७
काच्छीरोध्राभयासर्जसिन्दूराञ्जनतुत्थकम्
चूर्णितं तैलमदनैर्युक्तं रोपणमुत्तमम् ५८
समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते
कुकुभोदुम्बराश्वत्थ जम्बूकट्फलरोध्रजैः ५९
त्वचमाशु निगृह्णन्ति त्वक्चूणैश्चूर्णिता व्रणाः
लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः ६०
प्रलेपः सघृतक्षौद्र स्त्वग्विशुद्धिकरः परम्
कालीयकलताम्रास्थिहेमकालारसोत्तमैः ६१
लेपः सगोमयरसः सवर्णकरणः परम्
दग्धो वारणदन्तोऽन्तर्धूमं तैलं रसाञ्जनम् ६२
रोमसञ्जननो लेपस्तद्वत्तैलपरिप्लुता
चतुष्पान्नखरोमास्थित्वक्शृङ्गखुरजा मषी ६३
व्रणिनः शस्त्रकर्मोक्तं पथ्यापथ्यान्नमादिशेत्
द्वे पञ्चमूले वर्गश्च वातघ्नो वातिके हितः ६४
न्यग्रोधपद्मकाद्यौ तु तद्वत्पित्तप्रदूषिते
आरग्वधादिः श्लेष्मघ्नः कफे मिश्रास्तु मिश्रजे ६५
एभिः प्रक्षालनं लेपो घृतं तैलं रसक्रिया
चूर्णो वर्तिश्च संयोज्या व्रणे सप्त यथायथम् ६६
जातीनिम्बपटोलपत्रकटुका दार्वीनिशासारिवा
मञ्जिष्ठाभयसिक्थतुत्थमधुकै र्नक्ताह्वबीजान्वितैः
सर्पिः साध्यमनेन सूक्ष्मवदना मर्माश्रिताः क्लेदिनो
गम्भीराः सरुजो व्रणाः सगतयः शुद्ध्य्न्ति रोहन्ति च ६७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने व्रणप्रतिषेधो नाम पञ्चविंशोऽध्यायः २५

षड्विंशोऽध्यायः
अथातः सद्योव्रणप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
सद्योव्रणा ये सहसा सम्भवन्त्यभिघाततः
अनन्तैरपि तैरङ्गमुच्यते जुष्टमष्टधा १
घृष्टावकृत्तविच्छिन्न प्रविलम्बितपातितम्
विद्धं भिन्नं विदलितं तत्र घृष्टं लसीकया २
रक्तलेशेन वा युक्तं सप्लोषं छेदनात् स्रवेत्
अवगाढं ततः कृत्तं विच्छिन्नं स्यात्ततोऽपि च ३
प्रविलम्बि सशेषेऽन्स्थि पतितं पातितं तनोः
सूक्ष्मास्यशल्यविद्धं तु विद्धं कोष्ठविवर्जितम् ४
भिन्नमन्यद्विदलितं मज्जरक्तपरिप्लुतम्
प्रहारपीडनोत्पेषात् सहान्स्था पृथुतां गतम् ५
सद्यः सद्योव्रणं सिञ्चेदथ यष्ट्याह्वसर्पिषा
तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः ६
क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च
कषायशीतमधुरस्निग्धा लेपादयो हिताः ७
सद्योव्रणेष्वायतेषु सन्धानार्थं विशेषतः
मधुसर्पिश्च युञ्जीत पित्तघ्नीश्च हिमाः क्रियाः ८
ससंरम्भेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्
उपवासो हितं भुक्तं प्रततं रक्तमोक्षणम् ९
घृष्टे विदलिते चैष सुतरामिष्यते विधिः
तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते १०
अत्यर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते
ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे ११
स्नेहपानपरीषेकस्वेद लेपोपनाहनम्
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम् १२
इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः
सप्ताहाद्गतवेगे तु पूर्वोक्तं विधिमाचरेत् १३
प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक्पृथक्
घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत् १४
कल्कादीन्यवकृत्ते तु विच्छिन्नप्रविलम्बिनोः
सीवनं विधिनोक्तेन बन्धनं चानु पीडनम् १५
असाध्यं स्फुटितं नेत्रमदीर्णं लम्बते तु यत्
सन्निवेश्य यथास्थानमव्याविद्धसिरं भिषक् १६
पीडयेत् पाणिना पद्मपलाशान्तरितेन तत्
ततोऽस्य सेचने नस्ये तर्पणे च हितं हविः १७
विपक्वमाजं यष्ट्याह्वजीवकर्षभकोत्पलैः
सपयस्कैः परं तद्धि सर्वनेत्राभिघातजित् १८
गलपीडाऽवसन्नेऽक्ष्णि वमनोत्कासनक्षवाः
प्राणायामोऽथवा कार्यः क्रिया च क्षतनेत्रवत् १९
कर्णे स्थानाच्च्युते स्यूते श्रोतस्तैलेन पूरयेत्
कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते २०
समं निवेश्य बध्नीयात् स्यूत्वा शीघ्रं निरन्तरम्
आजेन सर्पिषा चात्र परिषेकः प्रशस्यते २१
उत्तानोऽन्नानि भुञ्जीत शयीत च सुयन्त्रितः
घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते २२
स्यूत्वा वेल्लितबन्धेन बध्नीयाद्घनवाससा
चर्मणा गोष्फणाबन्धः कार्यश्चासङ्गते व्रणे २३
पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा
प्रवेश्य वृषणौ सीव्येत् सेवन्या तुन्नसंज्ञया २४
कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम्
स्नेहसेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः २५
कालानुसार्यगुर्वेलाजाती चन्दनपर्पटैः
शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम् २६
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः
बध्नीयात् कोशबन्धेन ततो व्रणवदाचरेत् २७
कार्या शल्याहृते विद्धे भङ्गाद्विदलिते क्रिया
शिरसोऽपहृते शल्ये वालवर्ति प्रवेशयेत् २८
मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलोऽन्यथा
व्रणे रोहति चैकैकं शनैरपनयेत्कचम् २९
मस्तुलुङ्गस्रुतौ खादेन्मस्तिष्कानन्यजीवजान्
शल्ये हृतेऽङ्गादन्यस्मात्स्नेहवर्तिं निधापयेत् ३०
दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः
सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान् ३१
भिन्ने कोष्ठेऽसृजा पूर्णे मूर्च्छाहृत्पार्श्ववेदनाः
ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनन्दनम् ३२
सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोऽक्षिरक्तता
लोहगन्धित्वमास्यस्य स्याद् गात्रे च विगन्धता ३३
आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि
आध्मानेनातिमात्रेण शूलेन च विशस्यते ३४
पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत्
नामेरधस्ताच्छीतत्वं खेम्यो रक्तस्य चागमः ३५
अभिन्नोऽप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते
असृजा स्यन्दमानेन पार्श्वे मूत्रेण बस्तिवत् ३६
तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम्
रक्ताक्षं पाण्डुवदनमानद्धं च विवर्जयेत् ३७
अमाशयस्थे वमनं हितं पक्वाशयाश्रिते
विरेचनं निरूहं च निःस्नेहोष्णैर्विशोधनैः ३८
यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ३९
अतिनिःस्रुतरक्तस्तु भिन्नकोष्ठः पिबेदसृक्
क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः ४०
मूर्च्छादयोऽल्पा प्रथमे द्वितीये त्वति बाधकाः
क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति ४१
यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः
व्युपद्र वः स भिन्नेऽपि कोष्ठे जीवत्यसंशयम् ४२
अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं न त्वतोऽन्यथा
उत्पङ्गिलशिरोग्रस्तं तदप्येके वदन्ति तु ४३
प्रक्षाल्य पयसा दिग्धं तृणशोणितपांसुभिः
प्रवेशयेत्कॢप्तनखो घृतेनाक्तं शनैः शनैः ४४
क्षीरेणार्दीकृतं शुष्कं भूरिसर्पिःपरिप्लुतम्
अङ्गुल्या प्रमृशेत्कण्ठं जलेनोद्वेजयेदपि ४५
तथाऽन्त्राणि विशन्त्यन्तस्तत्कालं पीडयन्ति च
व्रणसौक्ष्म्याद्बहुत्वाद्वा कोष्ठमन्त्रमनाविशत् ४६
तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत्
यथास्थानं स्थिते सम्यगन्त्रे सीव्येदनु व्रणम् ४७
स्थानादपेतमादत्ते जीवितं कुपितं च तत्
वेष्टयित्वाऽनु पट्टेन घृतेन परिषेचयेत् ४८
पाययेत ततः कोष्णं चित्रातैलयुतं पयः
मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ४९
अनुवर्तेत वर्षं च यथोक्तां व्रणयन्त्रणाम्
उदरान्मेदसो वर्तिं निर्गतां भस्मना मृदा ५०
अवकीर्य कषायैर्वा श्लक्ष्णैर्मूलैस्ततः समम्
दृढं बध्वा च सूत्रेण वर्द्धयेत्कुशलो भिषक् ५१
तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु
स्यादन्यथा रुगाटोपो मृत्युर्वा छिद्यमानया ५२
सक्षौद्रे च व्रणे बद्धे सुजीर्णेऽन्ने घृतं पिबेत्
क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम् ५३
रुग्दाहजित्सयष्ट्याह्वैः परं पूर्वोदितो विधिः
मेदोग्रन्थ्युदितं तत्र तैलमभ्यञ्जने हितम् ५४
तालीसं पद्मकं मांसीहरेण्वगुरुचन्दनम्
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ५५
पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्
गूढप्रहाराभिहते पतिते विषमोच्चकैः ५६
कार्यं वातास्रजित् तृप्तिमर्दनाभ्यञ्जनादिकम्
विश्लिष्टदेहं मथितं क्षीणं मर्माहतं हतम् ५७
वासयेत्तैलपूर्णायां द्रो ण्यां मांसरसाशिनम् ५७ १२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सद्योव्रणप्रतिषेधोनाम षडिवंशोऽध्यायः २६

सप्तविंशोऽध्यायः
अथातो भङ्गप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
पातघातादिभिर्द्वेधा भङ्गोऽन्स्था सन्ध्यसन्धितः
प्रसारणाकुञ्चनयोरशक्तिः सन्धिमुक्तता १
इतरस्मिन् भृशं शोफः सर्वावस्थास्वतिव्यथा
अशक्तिश्चेष्टितेऽल्पेऽपि पीड्यमाने सशब्दता २
समासादिति भङ्गस्य लक्षणंबहुधा तु तत्
भिद्यते भङ्गभेदेन तस्य सर्वस्य साधनम् ३
यथा स्यादुपयोगाय तथा तदुपदेक्ष्यते
प्राज्याणुदारि यत्त्वस्थि स्पर्शे शब्दं करोति यत् ४
यत्रास्थिलेशः प्रविशेन्मध्यमस्थ्नो विदारितः
भग्नं यच्चाभिघातेन किञ्चिदेवावशेषितम् ५
उन्नम्यमानं क्षतवद्यच्च मज्जनि मज्जति
तद्दुःसाध्यं कृशाशक्तवातलाल्पाशिनामपि ६
भिन्नं कपालं यत् कट्यां सन्धिमुक्तं च्युतं च यत्
जघनं प्रति पिष्टं च भग्नं यत्तद्विवर्जयेत् ७
असंश्लिष्टकपालं च ललाटं चूर्णितं तथा
यच्च भग्नं भवेच्छङ्खशिरः पृष्ठस्तनान्तरे ८
सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात्
सङ्क्षोभादपि यद्गच्छेद्विक्रियां तद्विवर्जयेत् ९
आदितो यच्च दुर्जातमस्थिसन्धिरथापि वा
तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु १०
कपालानि विभिद्यन्ते स्फुटन्त्यन्यानि भूयसा
अथावनतमुन्नम्यमुन्नतं चावपीडयेत् ११
आञ्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत्
आञ्छनोत्पीडनोन्नामचर्मसङ्क्षेपबन्धनैः १२
सन्धीन् शरीरगान् सर्वान् चलानप्यचलानपि
इत्येतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्चलम् १३
पट्टैः प्रभूतसर्पिर्भिर्वेष्टयित्वा सुखैस्ततः
कदम्बोदुम्बराश्वत्थसर्जार्जुनपलाशजैः १४
वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः
सुश्लक्ष्णैः सप्रतिस्तम्भैर्वल्कलैः शकलैरपि १५
कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत्
शिथिलेन हि बन्धेन सन्धिस्थैर्यं न जायते १६
गाढेनाति रुजादाहपाकश्वयथुसम्भवः
त्र्यहात्त्र्यहादृतौ घर्मे सप्ताहान्मोक्षयेद्धिमे १७
साधारणे तु पञ्चाहाद् भङ्गदोषवशेन वा
न्यग्रोधादिकषायेण ततः शीतेन सेचयेत् १८
तं पञ्चमूलपक्वेन पयसा तु सवेदनम्
सुखोष्णं वाऽवचार्यं स्याच्चक्रतैलं विजानता १९
विभज्य देशं कालं च वातघ्नौषधसंयुतम्
प्रततं सेकलेपांश्च विदध्याद् भृशशीतलान् २०
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्
प्रातः प्रातः पिबेद्भग्नः शीतलं लाक्षया युतम् २१
सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः
कषायैः प्रतिसार्योऽथ शेषो भङ्गोदितः क्रमः २२
लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा
सन्दधीत व्रणान् वैद्यो बन्धनैश्चोपपादयेत् २३
तान् समान् सुस्थिताञ्ज्ञात्वा फलिनीरोध्रकट्फलैः
समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत् २४
धातकीरोध्रचूणैर्वारोहन्त्याशु तथा व्रणाः
इति भङ्ग उपक्रान्तः स्थिरधातोरृतौ हिमे २५
मांसलस्याल्पदोषस्य सुसाध्यो दारुणोऽन्यथा
पूर्वमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात् २६
मासैः स्थैर्यं भवेत्सन्धेर्यथोक्तं भजतां विधिम्
कटीजङ्घोरुभग्नानां कपाटशयनं हितम् २७
यन्त्रणार्थं तथा कीलाः पञ्च कार्या निबन्धनाः
जङ्घोर्वोः पार्श्वयोर्द्वौ द्वौ तल एकश्च कीलकः २८
श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा
विमोक्षे भग्नसन्धीनां विधिमेवं समाचरेत् २९
सन्धींश्चिरविमुक्तांस्तु स्निग्धस्विन्नान् मृदूकृतान्
उक्तैर्विधानैर्बुद्ध्या च यथास्वं स्थानमानयेत् ३०
असन्धिभग्ने रूढे तु विषमोल्बणसाधिते
आपोथ्य भङ्गं यमयेत्ततो भग्नवदाचरेत् ३१
भग्नं नैति यथा पाकं प्रयतेत तथा भिषक्
पक्वमांससिरास्नायुः सन्धिः श्लेषं न गच्छति ३२
वातव्याधिविनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत्
चतुष्प्रयोगान् बल्यांश्च बस्तिकर्म च शीलयेत् ३३
शाल्याज्यरसदुग्धाद्यैः पौष्टिकैरविदाहिभिः
मात्रयोपचरेद्भग्नं सन्धिसंश्लेषकारिभिः ३४
ग्लानिर्न शस्यते तस्य सन्धिविश्लेषकृद्धि सा
लवणं कटुकं क्षारमम्लं मैथुनमातपम्
व्यायामं च न सेवेत भग्नो रूक्षं च भोजनम् ३५
कृष्णांस्तिलान् विरजसो दृढवस्त्रबद्धान्
सप्त क्षपा वहति वारिणि वासयेत
संशोषयेदनुदिनं प्रविसार्य चैतान्
क्षीरे तथैव मधुकक्वथिते च तोये ३६
पुनरपि पीतपयस्कांस्तान् पूर्ववदेव शोषितान् बाढम्
विगततुषानरजस्कान् सञ्चूर्ण्य सुचूर्णितैर्युञ्ज्यात् ३७
नलदवालकलोहितयष्टिकानखमिशिप्लवकुष्ठबलात्रयैः
अगुरुकुङ्कुमचन्दनसारिवासरलसर्जरसामरदारुभिः ३८
पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत्
समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत् ३९
शैलेयरास्नांशुमतीकसेरुकालानु सारीनतपत्ररोध्रैः
सक्षीरशुक्लैः सपयः सदूर्वैस्तैलं पचेत्तन्नलदादिभिश्च ४०
गन्धतैलमिदमुत्तममस्थि स्थैर्यकृज्जयति चाशु विकारान्
वातपित्तजनितानतिवीर्यान्व्यापिनोऽपिविव्रुपयोगैः ४१
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने भङ्गप्रतिषेधो नाम सप्तविंशोऽध्यायः २७

अष्टाविंशोऽध्यायः
अथातो भगन्दरप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
हस्त्यश्वपृष्ठगमन कठिनोत्कटकासनैः
अर्शोनिदानाभिहितैरपरैश्च निषेवितैः १
अनिष्टाद्दृष्टपाकेन सद्यो वा साधुगर्हणैः
प्रायेण पिटिकापूर्वो योऽङगुले द्व्यश्चङ्गुलेऽपि वा २
पायोर्व्रणोऽन्तर्बाह्यो वा दुष्टासृङ्मांसगो भवेत्
बस्तिमूत्राशयाभ्यासगतत्वात्स्यन्दनात्मकः ३
भगन्दरः स सर्वांश्च दारयत्यक्रियावतः
भगवस्तिगुदांस्तेषु दीर्यमाणेषु भूरिभिः ४
वातमूत्रशकृच्छुक्रं खैः सूक्ष्मैर्वमति क्रमात्
दोषैः पृथग्युतैः सर्वैरागन्तुः सोऽष्टमः स्मृतः ५
अपक्वं पिटिकामाहुः पाकप्राप्तं भगन्दरम्
गूढमूलां ससंरम्भांरुगाढ्यां रूढकोपिनीम् ६
भगन्दरकरीं विद्यात् पिटिकां न त्वतोऽन्यथा
तत्र श्यावाऽरुणा तोदभेदस्फुरणरुक्करी ७
पिटिका मारुतात् पित्तादुष्ट्रग्रीवावदुच्छ्रिता
रागिणी तनुरूष्माढ्या ज्वरधूमायनान्विता ८
स्थिरा स्निग्धा महामूला पाण्डुः कण्डुमती कफात्
श्यावा ताम्रा सदाहोषा घोररुग् वातपित्तजा ९
पाण्डुरा किञ्चिदाश्यावा कृच्छ्रपाका कफानिलात्
पादाङ्गुष्ठसमा सर्वैर्दोषैर्नानाविधव्यथा १०
शूलारोचकतृड्दाह ज्वरछर्दिरुपद्रुता
व्रणतां यांति ताः पक्वाः प्रमादात्तत्र वातजा ११
चीयतेऽणुमुखैश्छिद्रैः शतपोनकवत् क्रमात्
अच्छं स्रवद्भिरास्रावमजस्रं फेनसंयुतम् १२
शतपोनकसंज्ञोऽयमुष्ट्रग्रीवस्तु पित्तजः
बहुपिच्छापरिस्रावी परिस्रावी कफोद्भवः १३
वातपित्तात्परिक्षेपी परिक्षिप्य गुदं गतिः
जायते परितस्तत्र प्राकारं परिखेव च १४
ऋजुर्वातकफादृज्व्या गुदो गत्याऽत्र दीर्यते
कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः १५
अर्शोमूले ततः शोफः कण्डूदाहादिमान् भवेत्
स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन्मूलमर्शसः १६
स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः
सर्वजः शम्बुकावर्तः शम्बुकावर्तसन्निभः १७
गतयो दारयन्त्यस्मिन् रुग्वेगैर्दारुणैर्गुदम्
अस्थिलेशोऽभ्यवहृतो मांसगृद्ध्या यदा गुदम् १८
क्षिणोति तिर्यङ्निर्गच्छन्नुन्मार्गं क्षततो गतिः
स्यात्ततः पूयदीर्णायां मांसकोथेन तत्र च १९
जायन्ते कृमयस्तस्य खादन्तः परितो गुदम्
विदारयन्ति नचिरादुन्मार्गी क्षतजश्च सः २०
तेषु रुग्दाहकण्ड्वादीन् विद्याद् व्रणनिषेधतः
षट् कृच्छ्रसाधनास्तेषां निचयक्षतजौ त्यजेत् २१
प्रवाहिणीं वलद्यं प्राप्तं सेवनी वा समाश्रितम्
अथास्य पिटिकामेव तथा यत्नादुपाचरेत् २२
शुद्ध्य्सृक्स्रुतिसेकाद्यैर्यथा पाकं न गच्छति
पाके पुनरुपस्निग्धं स्वेदितं चावगाहतः २३
यन्त्रयित्वाऽशसमिव पश्येत्सम्यग्भगन्दरम्
अर्वाचीनं पराचीनमन्तर्मुखबहिर्मुखम् २४
अथान्तर्मुखमेषित्वा सम्यक् शस्त्रेण पाटयेत्
बहिर्मुखं च निःशेषं ततः क्षारेण साधयेत् २५
अग्निना वा भिषक् साधु क्षारेणैवोष्ट्रकन्धरम्
नाडीरेकान्तराः कृत्वा पाटयेच्छतपोनकम् २६
तासु रूढासु शेषाश्च मृत्युर्दीर्णे गुदेऽन्यथा
परिक्षेपिणि चाप्येवं नाड्युक्तैः क्षारसूत्रकैः २७
अर्शोभगन्दरैः पूर्वमर्शांसि प्रतिसाधयेत्
त्यक्त्वोपचर्यः क्षतजः शल्यं शल्यवतस्ततः २८
आहरेच्च तथा दद्यात् कृमिघ्नं लेपभोजनम्
पिण्डनाड्यादयः स्वेदाः सुस्निग्धा रुजि पूजिताः २९
सर्वत्र च बहुच्छिद्रे छेदानालोच्य योजयेत्
गोतीर्थसर्वतोभद्र दललाङ्गललाङ्गलान् ३०
पार्श्वं गतेन शस्त्रेण छेदो गोतीर्थको मतः
सर्वतः सर्वतोभद्रः पार्श्वच्छेदोऽधलाङ्गलः ३१
पार्श्वद्वये लाङ्गलकः समस्तांश्चाग्निना दहेत्
आस्रावमार्गान्निःशेषं नैवं विकुरुते पुनः ३२
यतेत कोष्ठशुद्धौ च भिषक् तस्यान्तराऽन्तरा
लेपो व्रणे बिडालास्थि त्रिफलारसकल्कितम् ३३
ज्योतिष्मतीमलयुलाङ्ग लिशेलुपाठा
कुम्भाग्निसर्जकरवीरवचासुधार्कैः
अभ्यञ्जनाय विपचेत भगन्दराणां
तैलंवदन्ति परमं हितमेतदेषाम् ३४
मधुकरोध्रकणात्रुटिरेणुकाद्विरजनी फलिनीपटुसारिवाः
कमलकेसरपद्मकधातकीमदन सर्जरसामयरोदिकाः ३५
सबीजपूरच्छदनैरेभिस्तैलं विपाचितम्
भगन्दरापची कुष्ठमधुमेहब्रणापहम् ३६
मधुतैलयुता विडङ्गसारत्रिफलामागधिकाकणाश्च लीढाः
कृमिकुष्ठभगन्दरप्रमेहक्षतनाडीव्रणरोपणा भवन्ति ३७
अमृतात्रुटिवेल्लवत्सकंकलिपथ्यामलकानि गुग्गुलुः
क्रमवृद्धमिदं मधुद्रुतंपिटिकास्थौल्यभगन्दरान् जयेत् ३८
मागधिकाग्निकलिङ्गविडङ्गैर्बिल्वधृतैः सवरापलषट्कैः
गुग्गुलुना सदृशेन समेतैः क्षौद्र युतैः सकलामयनाशः ३९
गुग्गुलुपञ्चपलं पलिकांशा मागधिका त्रिफला च पृथक्स्यात्
त्वक्त्रुटिकर्षयुतं मधुलीढंकुष्ठभगन्दरगुल्मगतिघ्नम् ४०
शृङ्गबेररजोयुक्तं तदेव च सुभावितम्
क्वाथेन दशमूलस्य विशेषाद्वातरोगजित् ४१
उत्तमाखदिरसारजं रजः शीलयन्नसनवारिभावितम्
हन्ति तुल्यमहिषाक्षमाक्षिकं कुष्ठमेहपिटिकाभगन्दरान् ४२
भगन्दरेष्वेष विशेष उक्तः शेषाणि तु व्यञ्जनसाधनानि
व्रणाधिकारात् परिशीलनाच्च सम्यग्विदित्वौपयिकं विदध्यात् ४३
अश्वपृष्ठगमनं चलरोध्रं मद्यमैथुनमजीर्णमसात्म्यम्
साहसानि विविधानि च रूढे वत्सरं परिहरेदधिकं वा ४४
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने भगन्दरप्रतिषेधोनामाष्टाविंशोऽध्यायः २८

एकोनत्रिंशोऽध्यायः
अथातो ग्रथ्यर्बुद श्लीपदापचीनाडी
विज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
कफप्रधानाः कुर्वन्ति मेदोमांसास्रगा मलाः
वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात्स्मृतः १
दोषास्रमांसमेदोस्थिसिराव्रणभवा नव
ते तत्र वातादायामतोदमेदान्वितोऽसितः २
स्थानात्स्थानान्तरगति रकस्माद्धानिवृद्धिमान्
मृदुर्बस्तिरिवानद्धो विभिन्नोऽच्छ स्रवत्यसृक् ३
पित्तात्सदाहः पीताभो रक्तो वा पच्यते द्रुतम्
भिन्नोऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः ४
शीतः सवर्णः कण्डूमान् पक्वः पूयं स्रवेद्घनम्
दोषैर्दुष्टेऽसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु ५
सिरामांसं च संश्रित्य सस्वापः पित्तलक्षणः
मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत् ६
स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम्
प्रवृद्धं मेदुरैर्मेदो नीतं मांसेऽथवा त्वचि ७
वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम्
श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम् ८
स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत्
अस्थिभङ्गाभिघाताभ्यामुन्नतावनतं तु यत् ९
सोऽस्थिग्रन्थिः पदातेस्तु सहसाऽम्भोवगाहनात्
व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम् १०
वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च
निःष्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः ११
अरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः
सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथवा १२
वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्
कुर्यात्सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः १३
साध्या दोषास्रमेदोजाः न तु स्थूलखराश्चलाः
मर्मकण्ठोदरस्थाश्च महत्तु ग्रन्थितोऽबुदम् १४
तल्लक्षणं च मेदोन्तैः षोढा दोषादिभिस्तु तत्
प्रायो मेदःकफाढ्यत्वात्स्थिरत्वाच्च न पच्यते १५
सिरास्थं शोणितं दोषः सङ्कोच्यान्तः प्रपीड्य च
पाचयेत तदानद्धं सास्रावं मांसपिण्डितम् १६
मांसाङ्कुरैश्चितं याति वृद्धिं चाशु स्रवेत्ततः
अजस्रं दुष्टरुधिरं भूरि तच्छोणितार्बुदम् १७
तेष्वसृङ्मांसजे वर्ज्ये चत्वार्यन्यानि साधयेत्
प्रस्थिता वङ्क्षणोर्वादिमधःकायं कफोल्बणाः १८
दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते
शनैःशनैर्घनं शोफं श्लीपदं तत्प्रचक्षते १९
परिपोटयुतं कृष्णमनिमित्तरुजं खरम्
रूक्षं च वातात् पित्तात्तु पीतं दाहज्वरान्वितम् २०
कफाद्गुरु स्निग्धमरुक् चितं मांसाङ्कुरैर्बृहत्
तत्त्यजेद्वत्सरातीतं सुमहत् सुपरिस्रुति २१
पाणिनासौष्ठकर्णेषु वदन्त्येके तु पादवत्
श्लीपदं जायते तच्च देशेऽनूपे भृशं भृशम् २२
मेदः स्थाः कण्ठमन्याऽक्षकक्षावङ्क्षणगा मलाः
सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन् २३
अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते
पच्यन्तेऽल्परुजस्तेऽन्ये स्रवन्त्यन्येऽतिकण्डुराः २४
नश्यन्त्यन्ये भवन्त्यन्येदीर्घकालानुबन्धिनः
गण्डमालाऽपची चेयं दूर्वेव क्षयवृद्धिभाक् २५
तां त्यजेत्सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम्
अभेदात्पक्वशोफस्य व्रणे चापथ्यसेविनः २६
अनुप्रविश्य मांसादीन् दूरं पूयोऽभिधावति
गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः २७
नाड्येकाऽनृजुरन्येषां सैवानेकगतिर्गतिः
सा दोषैः पृथगेकस्थैः शल्यहेतुश्च पञ्चमी २८
वातात् सरुक्सूक्ष्ममुखी विवर्णा फेनिलोद्वमा
स्रवत्यभ्यधिकं रात्रौ पित्तात्तृड्ज्वरदाहकृत् २९
पीतोष्णपूतिपूयस्रुद्दिवा चाति निषिञ्चति
घनपिच्छिलसंस्रावा कण्डूला कठिना कफात् ३०
निशि चाभ्यधिकक्लेदा सर्वैः सर्वाकृतिं त्यजेत्
अन्तःस्थितं शल्यमनाहृतं तु
करोति नाडीं वहते च साऽस्य
फेनानुबिद्धं तनुमल्पमुष्णं
सास्रं च पूयं सरुजं च नित्यम् ३१
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने ग्रन्थ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं नामैकोनत्रिंशोऽध्यायः २९

त्रिंशोऽध्यायः
अथातो ग्रन्थ्यर्बुदश्लीपदापचीनाडीप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
ग्रन्थिष्वामेषु कर्तव्या यथास्वं शोफवत् क्रिया
बृहतीचित्रकव्याघ्रीकणासिद्धेन सर्पिषा १
स्नेहयेच्छुद्धिकामं च तीक्ष्णैः शुद्धस्य लेपनम्
संस्वेद्य बहुशो ग्रन्थिं विमृद्नीयात् पुनः पुनः २
एष वाते विशेषेण क्रमः पित्तास्रजे पुनः
जलौकसो हिमं सर्वं कफजे वातिको विधिः ३
तथाऽप्यपक्वं छित्त्वैनं स्थिते रक्तेऽग्निना दहेत्
साध्वशेषं सशेषो हि पुनराप्यायते ध्रुवम् ४
मांसव्रणोद्भवौ ग्रन्थी यापयेदेवमेव च
कार्यं मेदोभवेऽप्येतत्तप्तैः फालादिभिश्च तम् ५
प्रमृद्यात्तिलदिग्धेन छन्नं द्विगुणवाससा
शस्त्रेण पाटयित्वा वा दहेन्मेदसि सूद्धृते ६
सिराग्रन्थौ नवे पेयं तैलं साहचरंतथा
उपनाहोऽनिलहरैर्बस्तिकर्म सिराव्यधः ७
अर्बुदे ग्रन्थिवत् कुर्यात् यथास्वं सुतरां हितम्
अजाशकृच्छिग्रमूललाक्षासुरसकाञ्जिकैः
वस्त्रबद्धैरुपस्वेद्य मर्दयित्वा प्रलेपयेत् १
उपोदकापत्रपिण्ड्या छदैराच्छादितं घनम्
निवेश्य पट्टं बध्नीयाच्छाम्यत्येवं नवार्बुदम् २
जीर्णे चार्कच्छदसुधासामुद्र गुडकाञ्जिकैः
प्रच्छाने पिण्डिका बद्धा ग्रन्थ्यर्बुदविलायनी ३
श्लीपदेऽनिलजे विध्येत् स्निग्धस्विन्नोपनाहिते ८
सिरामुपरि गुल्फस्य द्व्यङ्गुले पाययेच्च तम्
मासमेरण्डजं तैलं गोमूत्रेण समन्वितम् ९
जीर्णे जीर्णान्नमश्नीयाच्छुण्ठीशृतपयोऽन्वितम्
त्रैवृतं वा पिबेदेवमशान्तावग्निना दहेत् १०
गुल्फस्याधः सिरामोक्षः पैत्ते सर्वं च पित्तजित्
सिरामङ्गुष्ठके विध्वा कफजे शीलयेद्यवान् ११
सक्षौद्रा णि कषायाणि वर्द्धमानास्तथाऽभयाः
लिम्पेत्सर्षपवार्ताकीमूलाभ्यां धन्वयाऽथवा १२
ऊर्ध्वाधःशोधनं पेयमपच्यां साधितं घृतम्
दन्तीद्र वन्तीत्रिवृताजालिनीदेवदालिभिः १३
शीलयेत्कफमेदोघ्नं धूमगण्डूषनावनम्
सिरयाऽपहरेद्र क्तं पिबेन्मूत्रेण तार्क्ष्यजम् १४
पिलमर्द्धपलं वाऽपि कर्षं वाऽप्युष्णवारिणा
काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति १
ग्रन्थीनपक्वानालिम्पे न्नाकुलीपटुनागरैः
स्विन्नान् लवणपोटल्या कठिनाननु मर्दयेत् १५
शमीमूलकशिग्रूणां बीजैः सयवसर्षपैः
लेपः पिष्टोऽम्लतक्रेण ग्रन्थिगण्डविलायनः १६
क्षुण्णानि निम्बपत्राणि कॢप्तैर्भल्लातकैः सह
शरावसम्पुटे दग्ध्वा सार्धं सिद्धार्थकैः समैः १
एतच्छागाम्बुना पिष्टं गण्डमालाप्रलेपनम्
पाकोन्मुखान् स्रुतास्रस्य पित्तश्लेष्महरैर्जयेत्
अपक्वानेव वोद्धृत्य क्षाराग्निभ्यामुपाचरेत् १७
काकादनीलाङ्गलिका नहिकोत्तुण्डिकीफलैः
जीमूतबीजकर्कोटीविशालाकृतवेधनैः १८
पाठान्वितैः पलार्धांशैर्विषकर्षयुतैः पचेत्
प्रस्थं करञ्जतैलस्य निर्गुण्डीस्वरसाढके १९
अनेन माला गण्डानां चिरजा पूयवाहिनी
सिध्यत्यसाध्यकल्पाऽपि पानाभ्यञ्जननावनैः २०
तैलं लाङ्गलिकीकन्दकल्कपादं चतुर्गुणे
निर्गुण्डीस्वरसे पक्वं नस्याद्यैरपचीप्रणुत् २१
भद्र श्रीदारुमरिचद्विहरिद्रा त्रिवृद्घनैः
मनः शिलालनलदविशालाकरवीरकैः २२
गोमूत्रपिष्टैः पलिकैर्विषस्यार्धपलेन च
ब्राह्मीरसार्कजक्षीरगोशकृद्र ससंयुतम् २३
प्रस्थं सर्षपतैलस्य सिद्धमाशु व्यपोहति
पानाद्यैः शीलितं कुष्ठदुष्टनाडीव्रणापचीः २४
वचाहरीतकीलाक्षाकटु रोहिणिचन्दनैः
तैलं प्रसाधितं पीतं समूलामपचीं जयेत् २५
शरपुङ्खोद्भवं मूलं पिष्टं तन्दुलवारिणा
नस्याल्लेपाच्च दुष्टारुरपचीविषजन्तुजित् २६
मूलैरुत्तमकारण्याः पीलुपर्ण्याः सहाचरात्
सरोध्राभययष्ट्याह्वशताह्वाद्वीपिदारुभिः २७
तैलं क्षीरसमं सिद्धं नस्येऽभ्यङ्गे च पूजितम्
गोव्यजाश्वखुरा दग्धाः कटुतैलेन लेपनम् २८
एङ्गुदेन तु कृष्णाहिर्वायसो वा स्वयं मृतः
इत्यशान्तौ गदस्यान्यपार्श्वजङ्घासमाश्रितम् २९
बस्तेरूर्ध्वमधस्ताद्वा मेदो हृत्वाऽग्निना दहेत्
स्थितस्योर्ध्वं पदं मित्वा तन्मानेन च पार्ष्णितः ३०
तत ऊर्ध्वं हरेद् ग्रन्थीनित्याह भगवान्निमिः
पार्ष्णिं प्रति द्वादश चाङ्गुलानि
मुक्त्वेन्द्र बस्तिं च गदान्यपार्श्वे
विदार्य मत्स्याण्डनिभानि मध्या
ज्जालानि कर्षेदिति सुश्रुतोक्तिः ३१
आ गुल्फकर्णात्सुमितस्य जन्तो
स्तस्याष्टभागं खुडकाद्विभज्य
घ्राणार्जवेऽध सुरराजबस्ते
र्भित्त्वाऽक्षमात्रं त्वपरे वदन्ति ३२
उपनाह्यानिलान्नाडीं पाटितां साधु लेपयेत्
प्रत्यक्पुष्पीफलयुतैस्तिलैः पिष्टैः ससैन्धवैः ३३
पैत्तीं तु तिलमञ्जिष्ठानागदन्तीनिशाद्वयैः
श्लैष्मिकीं तिलसौराष्ट्रीनिकुम्भारिष्टसैन्धवैः ३४
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम्
अशस्त्रकृत्यामेषिण्या भित्त्वाऽन्ते सम्यगेषिताम् ३५
क्षारपीतेन सूत्रेण बहुशो दारयेद् गतिम्
व्रणेषु दुष्टसूक्ष्मास्यगम्भीरादिषु साधनम् ३६
या वर्त्यो यानि तैलानि तन्नाडीष्वपि शस्यते
पिष्टं चञ्चुफलं लेपान्नाडीव्रणहरं परम् ३७
घोण्टाफलत्वक् लवणं सलाक्षं
बूकस्य पत्रं वनितापयश्च
स्नुगर्कदुग्धान्वित एष कल्को
वर्तीकृतो हन्त्यचिरेण नाडीम् ३८
सामुद्र सौवर्चलसिन्धुजन्मसुपक्वघोण्टाफलवेश्मधूमाः
आम्रातगायत्रिजपल्लवाश्चकटंकटेर्यावथ चेतकी च ३९
कल्केऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु
अगतिरिव नश्यति गतिश्चपला चपलेषु भूतिरिव ४०
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर चितायामष्टाङ्गहृदयसंहितायांषष्ठे उत्तरस्थाने ग्रन्थ्यर्बुदश्लीपदापचीनाडीप्रतिषेधोनाम त्रिंशॐऽध्यायः ३०

एकत्रिंशोऽध्यायः
अथातः क्षुद्र रोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसंन्निभा
पिटिका कफवाताभ्यां बालानामजगल्लिका १
यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना
अवक्त्रा चालजी वृत्ता स्तोकपूया घनोन्नता २
ग्रन्थयः पञ्च वा षड्वा कच्छपी कच्छपोन्नताः
कर्णस्योर्ध्वं समन्ताद्वा पिटिका कठिनोग्ररुक् ३
शालूकाभा पनसिका शोफस्त्वल्परुजः स्थिरः
हनुसन्धिसमुद्भूतस्ताभ्यां पाषाणगर्दभः ४
शाल्मलीकण्टकाकाराः पिटिकाः सरुजो घनाः
मेदोगर्भा मुखे यूनां ताभ्यां च मुखदूषिकाः ५
ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्टकैः
चीयते नीरुजैः श्वेतैः शरीरं कफवातजैः ६
पित्तेन पिटिका वृत्ता पक्वोदुम्बरसन्निभा
महादाहज्वरकरी विवृता विवृतानना ७
गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः
मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटिका घनाः ८
ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः
या पद्मकर्णिकाकारा पिटिका पिटिकाचिता ९
सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी
मण्डला विपुलोत्सन्ना सरागपिटिकाचिता १०
कक्षेति कक्षासन्नेषु प्रायो देशेषु साऽनिलात्
पित्ताद्भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ११
तादृशी महती त्वेका गन्धनामेति कीर्तिता
घर्मस्वेदपरीतेऽङ्गे पिटिकाः सरुजो घनाः १२
राजिकावर्णसंस्थानप्रमाणा राजिकाह्वयाः
दोषैः पित्तोल्बणैर्मन्दैर्विसर्पति विसर्पवत् १३
शोफोऽपाकस्तनुस्ताम्रो ज्वरकृज्जालगर्दभः
मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांसदारणाः १४
कक्षाभागेषु जायन्ते येऽग्न्याभाः साऽग्निरोहिणी
पञ्चाहात्सप्तरात्राद्वा पक्षाद्वा हन्ति जीवितम् १५
त्रिलिङ्गा पिटिका वृत्ता जत्रूर्ध्वमिरिवेल्लिका
विदारीकन्दकठिना विदारी कक्षवङ्क्षणे १६
मेदोनिलकफैर्ग्रन्थिः स्नायुमांससिराश्रयैः
भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्बणोऽनिलः १७
मांसं विशोष्य ग्रथितां शर्करामुपपादयेत्
दुर्गन्धं रुधिरं क्लिन्नं नानावर्णं ततो मलाः १८
तां स्रावयन्ति निचितां विद्यात्तच्छर्करार्बुदम्
पाणिपादतले सन्धौ जत्रूर्ध्वं वोपचीयते १९
वल्मीकवच्छनै र्ग्रन्थिस्तद्वद्बह्वणुभिर्मुखैः
रुग्दाहकण्डूक्लेदाढ्यैर्वल्मीकोऽसौ समस्तजः २०
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
ग्रन्थिः कीलवदुत्सन्नो जायते कदरं तु तत् २१
वेगसन्धारणाद्वायु रपानोऽपानसंश्रयम्
अणूकरोति बाह्यान्तर्मार्गमस्य ततः शकृत् २२
कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदो मतः
कुर्यात्पित्तानिलं पाकं नखमांसे सरुग्ज्वरम् २३
चिप्यमक्षतरोगं च विद्यादुपनखं च तम्
कृष्णोऽभिघाताद्रू क्षश्च खरश्च कुनखो नखः २४
दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदान्वितान्तराः
अङ्गुल्योऽलसमित्याहुस्तिलाभांस्तिलकालकान् २५
कृष्णानवेदनांस्त्वक्स्थान् मषांस्तानेव चोन्नतान्
मषेभ्यस्तून्नततरांश्चर्मकीलान् सितासिरान् २६
तथाविधो जतुमणिः सहजो लोहितस्तु सः
कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम् २७
शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु
श्यामलं मण्डलं व्यङ्गं वक्त्रादन्यत्र नीलिका २८
परुषं परुषस्पर्शं व्यङ्गं श्यावं च मारुतात्
पित्तात्ताम्रान्तमानीलं श्वेतान्तं कण्डुमत्कफात् २९
रक्ताद्र क्तान्तमाताम्रं सौषं चिमिचिमायते
वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ३०
ततस्त्वग्जायते पाण्डुः क्रमेण च विचेतना
अल्पकण्डूरविक्लेदा सा प्रसुप्तिः प्रसुप्तितः ३१
असम्यग्वमनोदीर्ण पित्तश्लेष्मान्ननिग्रहैः
मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च ३२
उत्कोठः सोऽनुबद्धस्तु कोठ इत्यभिधीयते
प्रोक्ताः षट्त्रिंशदित्येते क्षुद्र रोगा विभागशः ३३
यानविज्ञाय मुह्येत चिकित्सायां चिकित्सकः
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने क्षुद्र रोगविज्ञानीयं नामैकत्रिंशोऽध्यायः ३१

द्वात्रिंशोऽध्यायः
अथातः क्षुद्र रोगप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
विस्रावयेज्जलौकोभिरपक्वा मजगल्लिकाम्
स्वेदयित्वा यवप्रख्यां विलयाय प्रलेपयेत् १
दारुकुष्ठमनोह्वालैरित्या पाषाणगर्दभात्
विधिस्तांश्चाचरेत्पक्वान् व्रणवत्साजगल्लिकान् २
रोध्रकुस्तुम्बुरुवचाः प्रलेपो मुखदूषिके
वटपल्लवयुक्ता वा नारिकेलोत्थशुक्तयः ३
अशान्तौ वमनं नस्यं ललाटे च सिराव्यधः
निम्बाम्बवान्तो निम्बाम्बुसाधितं पद्मकण्टके ४
पिबेत्क्षौद्रा न्वितं सर्पिर्निम्बारग्वधलेपनम्
विवृतादींस्तु जालान्तांश्चिकित्सेत्सेरिवेल्लिकान्
पित्तवीसर्पवत्तद्वत् प्रत्याख्यायाग्निरोहिणीम् ५
विलङ्घनं रक्तविमोक्षणं च विरूक्षणं कायविशोधनं च
धात्रीप्रयोगान् शिशिरप्रदेहान् कुर्यात्सदाजालकगर्दभस्य ६
विदारिकां हृते रक्ते श्लेष्मग्रन्थि वदाचरेत्
मेदोर्बुदक्रियां कुर्यात्सुतरां शर्करार्बुदे ७
प्रवृद्धं सुबहुच्छिद्रं सशोफं मर्मणि स्थितम्
वल्मीकं हस्तपादे च वर्जयेदितरत्पुनः ८
शुद्धस्यास्रे हृते लिम्पेत् सपट्वारेवतामृतैः
श्यामाकुलत्थिकामूलदन्तीपललसक्तुभिः ९
पक्वे तु दुष्टमांसानि गतीः सर्वाश्च शोधयेत्
शस्त्रेण सम्यगनु च क्षारेण ज्वलनेन वा १०
शस्त्रेणोत्कृत्य निःशेषं स्नेहेन कदरं दहेत्
निरुद्धमणिवत्कार्यं रुद्धपायोश्चिकित्सितम् ११
चिप्यं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्मणा
दुष्टं कुनखमप्येवं चरणावलसे पुनः १२
धान्याम्लसिक्तौ कासीसपटोलीरोचनातिलैः
सनिम्बपत्रैरालिम्पेद् दहेत्तु तिलकालकान् १३
मषांश्च सूर्यकान्तेन क्षारेण यदि वाऽग्निना
तद्वदुत्कृत्य शस्त्रेण चर्मकीलजतूमणी १४
लाञ्छनादित्रये कुर्याद्यथासन्नं सिराव्यधम्
लेपयेत्क्षीरपिष्टैश्च क्षीरिवृक्षत्वगङ्कुरैः १५
व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका
लेपः सनवनीता वा श्वेताश्वखुरजा मषी १६
रक्तचन्दनमञ्जिष्ठा कुष्ठरोध्रप्रियङ्गवः
वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः १७
द्वे जीरके कृष्णतिलाः सर्षपाः पयसा सह
पिष्टाः कुर्वन्ति वक्त्रेन्दुमपास्तव्यङ्गलाञ्छनम् १८
क्षीरपिष्टा घृतक्षौद्र युक्ता वा भृष्टनिस्तुषाः
मसूराः क्षीरपिष्टा वा तीक्ष्णाःशाल्मलिकण्टकाः १९
सगुडः कोलमज्जा वा शशासृक्क्षौद्र कल्कितः
सप्ताहं मातुलुङ्गस्थं कुष्ठं वा मधुनाऽन्वितम् २०
पिष्टा वा छागपयसा सक्षौद्रा मौशली जटा
गोरस्थि मुशलीमूलयुक्तं वा साज्यमाक्षिकम् २१
जम्ब्वाम्रपल्लवा मस्तु हरिद्रे द्वे नवो गुडः
लेपः सवर्णकृत् पिष्टं स्वरसेन च तिन्दुकम् २२
उत्पलमुत्पलकुष्ठं प्रियङ्गुकालीयकं बदरमज्जा
इदमुद्वर्तनमास्यं करोति शतपत्रसंकाशम् २३
एभिरेवौषधैः पिष्टैर्मुखाभ्यङ्गाय साधयेत्
यथादोषर्तुकान् स्नेहान् मधुकक्वाथसंयुतैः २४
यवान् सर्जरसं रोध्रमुशीरं मदनं मधु
घृतं गुडं च गोमूत्रे पचेदादर्विलेपनात् २५
तदभ्यङ्गान्निहन्त्याशु नीलिकाव्यङ्गदूषिकान्
मुखं करोति पद्माभं पादौ पद्मदलोपमौ २६
कुङ्कुमोशीरकालीयलाक्षायष्ट्याह्वचन्दनम्
न्यग्रोधपादांस्तरुणान् पद्मकं पद्मकेसरम् २७
सनीलोत्पलमञ्जिष्ठं पालिकं ससिलाढके
पक्त्वा पादावशेषेण तेन पिष्टैश्च कार्षिकैः २८
लाक्षापत्तङ्गमञ्जिष्ठायष्टी मधुककुङ्कुमैः
अजाक्षीरं द्विगुणितं तैलस्य कुडवं पचेत् २९
नीलिकापलितव्यङ्गवलीतिलक दूषिकान्
हन्ति तन्नस्यमभ्यस्तं मुखोपचयवर्णकृत् ३०
मञ्जिष्ठा शबरोद्भवस्तुवरिका लाक्षा हरिद्रा द्वयं
नेपाली हरितालकुङ्कुमगदा गोरोचना गैरिकम्
पत्रं पाण्डु वटस्य चन्दनयुगं कालीयकं पारदं
पत्तङ्गं कनकत्वचं कमलजं बीजं तथा केसरम् ३१
सिक्थं तुत्थं पद्मकाद्यो वसाऽज्य
मज्जा क्षीरं क्षीरिवृक्षाम्बु चाग्नौ
सिद्धं सिद्धं व्यङ्गनील्यादिनाशे
वक्त्रे छायामैन्दवीं चाशु धत्ते ३२
मार्कवस्वरसक्षीरतोयानीष्टानि नावने
प्रसुप्तौ वातकुष्ठोक्तं कुर्याद्दाहं च वह्निना ३३
उत्कोठे कफपित्तोक्तं कोठे सर्वं च कौष्ठिकम् ३३-२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने क्षुद्र रोगप्रतिषेधो नाम द्वात्रिंशोऽध्यायः ३२

त्रयस्त्रिंशोऽध्यायः
अथातो गुह्यरोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
स्त्रीव्यवायनिवृत्तस्य सहसा भजतोऽथवा
दोषाध्युषितसङ्कीर्ण मलिनाणुरजःपथाम् १
अन्ययोनिमनिच्छन्तीमगम्यां नवसूतिकाम्
दूषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा २
विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः
मुष्टिदन्तनखोत्पीडा विषवच्छूकपातनैः ३
वेगनिग्रहदीर्घातिखर स्पर्शविघट्टनैः
दोषा दुष्टा गता गुह्यं त्रयोविंशतिमामयान् ४
जनयन्त्युपदंशादीनुपदंशोऽत्र पञ्चधा
पृथग्दोषैः सरुधिरैः समस्तैश्चात्र मारुतात् ५
मेढ्रे शोफो रुजश्चित्राः स्तम्भस्त्वक्परिपोटनम्
पक्वोदुम्बरसङ्काशः पित्तेन श्वयथुर्ज्वरः ६
श्लेष्मणा कठिनः स्निग्धः कण्डूमान् शीतलो गुरुः
शोणितेनासितस्फोटसम्भवोऽस्रस्रुतिर्ज्वरः ७
सर्वजे सर्वलिङ्गत्वं श्वयथुर्मुष्कयोरपि
तीव्रा रुगाशुपचनं दरणं कृमिसम्भवः ८
याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः
जायन्ते कुपितैर्दोषैर्गुह्यासृक्पिशिताश्रयैः ९
अन्तर्बहिर्वा मेढ्रस्य कण्डूला मांसकीलकाः
पिच्छिलास्रस्रवा योनौ तद्वच्च च्छत्रसन्निभाः १०
तेऽशास्युपेक्षया घ्नन्ति मेढ्रपुंस्त्वं भगार्तवम्
गुह्यस्य बहिरन्तर्वा पिटिकाः कफरक्तजाः ११
सर्षपामानसंस्थाना घनाः सर्षपिकाः स्मृताः
पिटिका बहवो दीर्घा दीर्यन्ते मध्यतश्च याः १२
सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षवान्
कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुजा १३
अलजीं मेहवद्विद्यादुत्तमां पित्तरक्तजाम्
पिटिकां माषमुद्गाभां पिटिका पिटिकाचिता १४
कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा
पाणिभ्यां भृशसंव्यूढे संव्यूढपिटिका भवेत् १५
मृदितं मृदितं वस्त्रसंरब्धं वातकोपतः
विषमा कठिना भुग्ना वायुनाऽष्ठीलिका स्मृता १६
विमर्दनादिदुष्टेन वायुना चर्म मेढ्रजम्
निवर्तते सरुग्दाहं क्वचित्पाकं च गच्छति १७
पिण्डितं ग्रन्थितं चर्म तत्प्रलम्बमधो मणेः
निवृत्तसंज्ञं सकफं कण्डूकाठिन्यवत्तु तत् १८
दुरूढं स्फुटितं चर्म निर्दिष्टमवपाटिका
वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत् १९
स्रोतो मूत्रं ततोऽभ्येति मन्दधारमवेदनम्
मणेर्विकाशरोधश्च स निरुद्धमणिर्गदः २०
लिङ्गं शूकैरिवापूर्णं ग्रथिताख्यं कफोद्भवम्
शूकदूषितरक्तोत्था स्पर्शहानिस्तदाह्वया २१
छिद्रै रणुमुखैर्यत्तु मेहनं सर्वतश्चितम्
वातशोणितकोपेन तं विद्याच्छतपोनकम् २२
पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान्
मांस्पाकः सर्वजः सर्ववेदनो मांसशातनः २३
सरागैरसितैः स्फोटैः पिटिकाभिश्च पीडितम्
मेहनं वेदना चोग्रा तं विद्यादसृगर्बुदम् २४
मांसार्बुदं प्रागुदितं विद्र धिश्च त्रिदोषजः
कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः २५
पक्वानि सन्निपातेन तान् विद्यात्तिलकालकान्
मांसोत्थमर्बुदं पाकं विद्र धिं तिलकालकान् २६
चतुरो वर्जयेदेषां शेषांश्छीघ्रमुपाचरेत्
विंशतिर्व्यापदो योनेर्जायन्ते दुष्टभोजनात् २७
विषमस्थाङ्गशयन भृशमैथुनसेवनैः
दुष्टार्तवादपद्र व्यैर्बीजदोषेण दैवतः २८
योनौ क्रुद्धोऽनिलः कुर्याद् रुक्तोदायामसुप्तताः
पिपीलिकासृप्तिमिव स्तम्भं कर्कशतां स्वनम् २९
फेनिलारुणकृष्णाल्पतनु रूक्षार्तवस्रुतिम्
स्रंसं वङ्क्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च ३०
तांस्तांश्च स्वान् गदान् व्यापद्वातिकी नाम सा स्मृता
सैवातिचरणा शोफसंयुक्ताऽतिव्यवायतः ३१
मैथुनादतिबालायाः पृष्ठजङ्घोरुवङ्क्षणम्
रुजन् सन्दूषयेद्योनिं वायुः प्राक्चरणेति सा ३२
वेगोदावर्तनाद्योनिं प्रपीडयति मारुतः
सा फेनिलं रजः कृच्छ्रादुदावृत्तं विमुञ्चति ३३
इयं व्यापदुदावृत्ता जातघ्नी तु यदाऽनिलः
जातं जातं सुतं हन्ति रौक्ष्याद्दुष्टार्तवोद्भवम् ३४
अत्याशिताया विषमं स्थितायाः सुरते मरुत्
अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत् ३५
सास्थिमांसं मुखं तीव्ररुजमन्तर्मुखीति सा
वातलाहारसेविन्यां जनन्यां कुपितोऽनिलः ३६
स्त्रियो योनिमणुद्वारां कुर्यात्सूचीमुखीति सा
वेगरोधादृतौ वायुर्दुष्टो विण्मूत्रसङ्ग्रहम् ३७
करोति योनेः शोषं च शुष्काख्या साऽतिवेदना
षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयान्मरुत् ३८
वमेत्सरुङ् नीरुजो वा यस्याः सा वामिनी मता
योनौ वातोपतप्तायां स्त्रीगर्भे बीजदोषतः ३९
नृद्वेषिण्यस्तनी च स्यात् षण्ढसंज्ञाऽनुपक्रमा
दुष्टो विष्टभ्य योन्यास्यं गर्भकोष्ठं च मारुतः ४०
कुरुते विवृतां स्रस्तां वातिकीमिव दुःखिताम्
उत्सन्नमांसां तामाहुर्महायोनिं महारुजाम् ४१
यथास्वैर्दूषणैर्दुष्टं पित्तं योनिमुपाश्रितम्
करोति दाहपाकोषापूतिगन्धिज्वरान्विताम् ४२
भृशोष्णभूरिकुणप नीलपीतासितार्तवाम्
सा व्यापत् पैत्तिकी रक्तयोन्याख्याऽसृगतिस्रुतेः ४३
कफोऽभिष्यन्दिभिः क्रुद्धः कुर्याद्योनिमवेदनाम्
शीतलां कण्डुलां पाण्डुपिच्छिलां तद्विधस्रुतिम् ४४
सा व्यपच्छ्लैष्मिकी वातपित्ताभ्यां क्षीयते रजः
सदाहकार्श्यवैवर्ण्यं यस्याः सा लोहितक्षया ४५
पित्तलाया नृसंवासे क्षवथूद्गारधारणात्
पित्तयुक्तेन मरुता योनिर्भवति दूषिता ४६
शूना स्पर्शासहा सार्तिर्नीलपीतास्रवाहिनी
बस्तिकुक्षिगुरुत्वातिसारारोचककारिणी ४७
श्रोणिवङ्क्षणरुक्तोदज्वरकृत् सा परिप्लुता
वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी ४८
उपप्लुता स्मृता योर्निप्ल्ताख्या त्वधावनात्
सञ्जातजन्तुः कण्डूला कण्ड्वा चातिरतिप्रिया ४९
अकालवाहनाद्वायुः श्लेष्मरक्तविमूर्च्छितः
कर्णिकां जनयेद्योनौ रजोमार्गनिरोधिनीम् ५०
सा कर्णिनी त्रिभिर्दोषैर्योनिगर्भाशयाश्रितैः
यथास्वोपद्र वकरैर्व्यापत्सा सान्निपातिकी ५१
इति योनिगदा नारी यैः शुक्रं न प्रतीच्छति
ततो गर्भं न गृह्णाति रोगांश्चाप्नोति दारुणान् ५२
असृग्दरार्शोगुल्मादीनाबाधांश्चानिलादिभिः५२-२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने गुह्यरोगविज्ञानीयोनाम त्रयस्त्रिंशोऽध्यायः ३३

चतुस्त्रिंशोऽध्यायः
अथातो गुह्यरोगप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
मेढ्रमध्ये सिरां विध्येदुपदंशे नवोत्थिते
शीतां कुर्यात् क्रियां शुद्धिं विरेकेण विशेषतः १
तिलकल्कघृतक्षौद्रै र्लेपः पक्वे तु पाटिते
जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान् २
शल्लकीबदरीबिल्व पलाशतिनिशोद्भवाः
त्वचः क्षीरिद्रुमाणां च त्रिफलां च पचेज्जले ३
स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम्
तुत्थगैरिकलोध्रैला मनोह्वालरसाञ्जनैः ४
हरेणुपुष्पकासीससौराष्ट्री लवणोत्तमैः
लेपः क्षौद्र युतैः सूक्ष्मैरुपदंशव्रणापहः ५
कपाले त्रिफला दग्धा सघृता रोपणं परम्
सामान्यं साधनमिदं प्रतिदोषं तु शोफवत् ६
न च याति यथा पाकं प्रयतेत तथा भृशम्
पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः ७
अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत्
सर्षपा लिखिताः सूक्ष्मैः कषायैरवचूर्णयेत् ८
तैरेवाभ्यञ्जनं तैलं साधयेद् व्रणरोपणम्
क्रियेयमवमन्थेऽपि रक्तं स्राव्यं तथोभयोः ९
कुम्भीकायां हरेद्र क्तं पक्वायां शोधिते व्रणे
तिन्दुकत्रिफलारोध्रैर्लेपस्तैलं च रोपणम् १०
अलज्यां स्रुतरक्तायामयमेव क्रियाक्रमः
उत्तमाख्यां तु पिटिकां सञ्च्छिद्य बडिशोद्धृताम् ११
कल्कैश्चूर्णैः कषायाणां क्षौद्र युक्तैरुपाचरेत्
क्रमः पित्तविसर्पोक्तः पुष्करव्यूढयोर्हितः १२
त्वक्पाके स्पर्शहान्यां च सेचयेन्मृदितं पुनः
बलातैलेन कोष्णेन मधुरैश्चोपनाहयेत् १३
अष्ठीलिकां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत्
निवृत्तं सर्पिषाऽभ्यज्य स्वेदयित्वोपनाहयेत् १४
त्रिरात्रं पञ्चरात्रं वा सुस्निग्धैः शाल्वलादिभिः
स्वेदयित्वा ततो भूयः स्निग्धं चर्म समानयेत् १५
मणिं प्रपीड्य शनकैः प्रविष्टे चोपनाहनम्
मणौ पुनः पुनः स्निग्धं भोजनं चात्र शस्यते १६
अयमेव प्रयोज्यः स्यादवपाट्यामपि क्रमः
नाडीमुभयतोद्वारां निरुद्धे जतुना सृताम् १७
स्नेहाक्तां स्रोतसि न्यस्य सिञ्चेत्स्नेहैश्चलापहैः
त्र्यहात्त्र्यहात्स्थूलतरां न्यस्य नाडीं विवर्धयेत् १८
स्रोतोद्वारमसिद्धौ तु विद्वान् शस्त्रेण पाटयेत्
सेवनीं वर्जयन् युञ्ज्यात् सद्यः क्षतविधिं ततः १९
ग्रन्थितं स्वेदितं नाड्या स्निग्धोष्णैरुपनाहयेत्
लिम्पेत्कषायैः सक्षौद्रै र्लिखित्वा शतपोनकम् २०
रक्तविद्र धिवत्कार्या चिकित्सा शोणितार्बुदे
व्रणोपचारं सर्वेषु यथावस्थं प्रयोजयेत् २१
योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित्
स्नेहनस्वेदबस्त्यादि वातजासु विशेषतः २२
न हि वातादृते योनिर्वनितानां प्रदुष्यति
अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम् २३
पाययेत बलातैलं मिश्रकं सुकुमारकम्
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्समां २४
पाणिना नमयेज्जिह्मां संवृतां व्यधयेत् पुनः
प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत् २५
स्थानापवृत्ता योनिर्हि शल्यभूता स्त्रियो मता
कर्मभिर्वमनाद्यैश्च मृदुभिर्योजयेत्स्त्रियम् २६
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते
बस्त्यभ्यङ्गपरीषेक प्रलेपपिचुधारणम् २७
काश्मर्यत्रिफला द्रा क्षाकासमर्दनिशाद्वयैः
गुडूचीसैर्यकाभीरुशुकनासा पुनर्नवैः २८
परूषकैश्च विपचेत्प्रस्थमक्षसमैर्घृतात्
योनिवातविकारघ्नं तत्पीतं गर्भदं परम् २९
वचोपकुञ्चिकाजाजीकृष्णा वृषकसैन्धवम्
अजमोदायवक्षारशर्करा चित्रकान्वितम् ३०
पिष्ट्वा प्रसन्नयाऽलोड्य खादेत्तद्घृतभर्जितम्
योनिपार्श्वार्तिहृद्रो गगुल्मार्शोविनिवृत्तये ३१
वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम्
पिबेन्मद्यैः सलवणैस्तथा कृष्णोपकुञ्चिके ३२
रास्नाश्वदंष्ट्रावृषकैः शृतं शूलहरं पयः
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ३३
नतवार्ताकिनीकुष्ठ सैन्धवामरदारुभिः
तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः ३४
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः
शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च ३५
शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात्
रसेन क्षीरतुल्येन पाचयेत घृताढकम् ३६
जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः
पिष्टैः प्रियालैश्चाक्षांशैर्द्विबलामधुकान्वितैः ३७
सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम्
शर्कराया दशपलं क्षिपेल्लिह्यात्पिंचु ततः ३८
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम्
क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम् ३९
कामलां वातरुधिरं विसर्पं हृच्छिरोग्रहम्
अपस्मारार्दितायाममदोन्मादांश्च नाशयेत् ४०
एवमेव पयः सर्पिर्जीवनीयोपसाधितम्
गर्भदं पित्तजानां च रोगाणां परमं हितम् ४१
बलाद्रो णद्वयक्वाथे घृततैलाढकं पचेत्
क्षीरे चतुर्गुणे कृष्णाकाकनासासितान्वितैः ४२
जीवन्तीक्षीरकाकोली स्थिरावीरर्धिजीवकैः
पयस्याश्रावणीमुद्गपीलु माषाख्यपर्णिभिः ४३
वातपित्तामयान् हत्वा पानाद् गर्भं दधाति तत्
रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च ४४
यथादोषोदयं युञ्ज्याद् रक्तस्थापनमौषधम्
पाठां जम्ब्वाम्रयोरस्थि शिलोद्भेदं रसाञ्जनम् ४५
अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम्
बाह्लीकबिल्वातिविषारोध्रतोयदगैरिकम् ४६
शुण्ठीमधूकमाचीकरक्त चन्दनकट्फलम्
कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् ४७
पुष्ये गृहीत्वा सञ्चूर्ण्य सक्षौद्रं तन्दुलाम्भसा
पिबेदर्शःस्वतीसारे रक्तं यश्चोपवेश्यते ४८
दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत्
योनिदोषं रजोदोषं श्यावश्वेतारुणासितम् ४९
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्
योन्यां बलासदुष्टायां सर्वं रूक्षोष्णमौषधम् ५०
धातक्यामलकीपत्र स्रोतोजमधुकोत्पलैः
जम्ब्वाम्रसारकासीस रोध्रकट्फलतिन्दुकैः ५१
सौराष्ट्रिकादाडिमत्वगुदुम्बर शलाटुभिः
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत् ५२
तैलप्रस्थं तदभ्यङ्गपिचुबस्तिषु योजयेत्
तेन शूनोन्नता स्तब्धा पिच्छिला स्राविणी तथा ५३
विप्लुतोपप्लुता योनिः सिद्ध्य्त्सेस्फोटशूलिनी
यवान्नमभयारिष्टं सीधु तैलं च शीलयेत् ५४
पिप्पल्ययोरजः पथ्याप्रयोगांश्च समाक्षिकान्
कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि धातुकी ५५
पैच्छिल्ये क्षौद्र संयुक्तश्चूर्णो वैशद्यकारकः
पलाशधातकीजम्बूसमङ्गामोचसर्जजः ५६
दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते
आरग्वधादिवर्गस्य कषायः परिषेचनम् ५७
स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम्
धारणं वेसवारस्य कृसरापायसस्य च ५८
दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा
चूर्णो वा सर्वगन्धानां पूतिगन्धान्ध्यिपिकर्षणः ५९
श्लेष्मलानां कटुप्रायाः समूत्रा बस्तयो हिताः
पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः ६०
सन्निपातसमुत्थायाः कर्म साधारणं हितम्
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः ६१
अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति
पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रि यम् ६२
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्
मञ्जिष्ठाकुष्ठतगरत्रिफला शर्करावचाः ६३
द्वे निशे मधुकं मेदां दीप्यकं कटुरोहिणीम्
पयस्याहिङ्गुकाकोलीवाजिगन्धाशतावरीः ६४
पिष्ट्वाऽक्षाशा घृतप्रस्थं पचेत्क्षीरचतुर्गुणम्
योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते ६५
आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम्
फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत् ६६
म्रियमाणप्रजानां च गर्भिणीनां च पूजितम्
एतत्परं च बालानां ग्रहघ्नं देहवर्धनम् ६७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने गुह्यरोगप्रतिषेधो नाम चतुस्त्रिंशोऽध्यायः ३४
इति शल्यतन्त्रं नाम पञ्चममङ्गं समाप्तम्

पञ्चत्रिंशोऽध्यायः
अथातो विषप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
मथ्यमाने जलनिधावमृतार्थं सुरासुरैः
जातः प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः १
दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः
जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः २
हुंकृतो ब्रह्मणा मूर्ती ततः स्थावरजङ्गमे
सोऽध्यतिष्ठन्निजं रूपमुज्झित्वा वञ्चनात्मकम् ३
स्थिरमत्युल्बणं वीर्ये यत्कन्देषु प्रतिष्ठितम्
कालकूटेन्द्र वत्साख्यशृङ्गीहालाहलादिकम् ४
सर्पलूतादिदंष्ट्रासु दारुणं जङ्गमं विषम्
स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम् ५
कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः
हन्ति योगवशेनाशु चिराच्चिरतराच्च तत् ६
शोफपाण्डूदरोन्माददुर्नामादीन् करोति वा
तीक्ष्णोष्णरूक्षविशदं व्यवाय्याशुकरं लघु ७
विकाषि सूक्ष्ममव्यक्तरसं विषमपाकि च
ओजसो विपरीतं तत् तीक्ष्णाद्यैरन्वितं गुणैः ८
वातपित्तोत्तरं नॄणां सद्यो हरति जीवितम्
विषं हि देहं सम्प्राप्य प्राग् दूषयति शोणितम् ९
कफपित्तानिलांश्चानु समं दोषान् सहाशयान्
ततो हृदयमास्थाय देहोच्छेदाय कल्पते १०
स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते
जिह्वायाः श्यावता स्तम्भो मूर्च्छा त्रासः क्लमो वमिः ११
द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना
विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम् १२
तालुशोषस्तृतीये तु शूलं चामाशये भृशम्
दुर्बले हरिते शूने जायेते चास्य लोचने १३
पक्वाशयगते तोदहिध्माकासान्त्रकूजनम्
चतुर्थे जायते वेगे शिरसश्चाति गौरवम् १४
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना १५
षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते
स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे १६
प्रथमे विषवेगे तु वान्तं शीताम्बु सेचितम्
सर्पिर्मधुभ्यां संयुक्त मगदं पाययेद्द्रुतम् १७
प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम्
द्वितीये पूर्ववद्वान्तं विरिक्तं चानु पाययेत्
तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम् १८
चतुर्थे स्नेहसंयुक्तमगदं प्रतियोजयेत्
पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम् १९
षष्ठेऽतिसारवत्सिद्धिरव पीडस्तु सप्तमे
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् २०
कोशातक्यग्निकः पाठा सूर्यवल्ल्यमृताभयाः
शेलुः शिरीषः किणिही हरिद्रे क्षौद्र साह्वया २१
पुनर्नवे त्रिकटुकं बृहत्यौ सारिवे बला
एषां यवागूं निर्यूहे शीतां सघृतमाक्षिकाम् २२
युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः
तद्वन्मधूकमधुक पद्मकेसरचन्दनैः २३
अञ्जनं तगरं कुष्ठं हरितालं मनःशिला
फलिनी त्रिकटु स्पृक्का नागपुष्पं सकेसरम् २४
हरेणुर्मधुकं मांसी रोचना काकमालिका
श्रीवेष्टकं सर्जरसः शताह्वा कुङ्कुमं बला २५
तमालपत्रतालीसभूर्जोशीर निशाद्वयम्
कन्योपवासिनी स्नाता शुक्लवासा मधुद्रुतैः २६
द्विजानभ्यर्च्य तैः पुष्ये कल्पयेदगदोत्तमम्
वैद्यश्चात्र तदा मन्त्रं प्रयतात्मा पठेदिमम् २७
नमः पुरुषसिंहाय नमो नारायणाय च
यथाऽसौ नाभिजानाति रणे कृष्ण पराजयम् २८
एतेन सत्यवाक्येन अगदो मे प्रसिद्ध्य्तु
नमो वैडूर्यमाते हुलु हुलु रक्षमां सर्व विषेभ्यः २९
गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा
पिष्टे च द्वितीयो मन्त्रःहरिमायि स्वाहा ३०
अशेषविषवेतालग्रह कार्मणपाप्मसु
मरकव्याधिदुर्भिक्ष युद्धाशनिभयेषु च ३१
पाननस्याञ्जनालेपमणि बन्धादियोजितः
एष चन्द्रो दयो नाम शान्तिस्वस्त्ययनं परम् ३२
वासवो वृत्रमवधीत्समालिप्तः किलामुना
जीर्णं विषघ्नौषधिभिर्हतं वादावाग्निवातातपशोषितं वा
स्वभावतो वा न गुणैः सुयुक्तं
दूषीविषाख्यां विषमभ्युपैति ३३
वीर्याल्पभावादविभाव्यमेतत्कफावृतं वर्षगणानुबन्धि
तेनार्दितो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्तः ३४
मूर्च्छन् वमन् गद्गदवाक्विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी ३५
भवेन्नरो ध्वस्तशिरोरुहाङ्गो
विलूनपक्षः स यथा विहङ्गः
स्थितं रसादिष्वथवा विचित्रान्
करोति धातुप्रभवान् विकारान् ३६
प्राग्वाताजीर्ण शीताभ्रदिवास्वप्नाहिताशनैः
दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम् ३७
दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्
दूषीविषारिमगदं लेहयेन्मधुनाऽप्लुतम् ३८
पिप्पल्यो ध्यामकं मांसी रोध्रमेला सुवर्चिका
कुटन्नटं नतं कुष्ठं यष्टी चन्दनगैरिकम् ३९
दूषीविषारिर्नाम्नाऽय न चान्यत्रापि वार्यते
विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः ४०
विवर्णभावं भजते विषादं चाशु गच्छति
कीटैरिवावृतं चास्य गात्रं चिमिचिमायते ४१
श्रोणिपृष्ठशिरःस्कन्धसन्धयः स्युः सवेदनाः
कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान् ४२
दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात्
आरक्तपीतपर्यन्तः श्यावमध्योऽतिरुग्व्रणः ४३
शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम्
प्रक्लिन्नं शीर्यतेऽभीक्ष्णं सपिच्छिलपरिस्रवम् ४४
कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम्
शल्यमाकृष्य तप्तेन लोहेनानु दहेद्व्रणम् ४५
अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः
शिरीषाद् गृध्रनख्याश्च क्षारेण प्रतिसारयेत् ४६
शुकनासाप्रतिविषाव्याघ्रीमूलैश्च लेपयेत्
कीटदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः ४७
व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत्
सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वाऽरातिचोदिताः ४८
गरमाहारसम्पृक्तं यच्छन्त्यासन्नवर्तिनः
नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनाम् ४९
विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः
तेन पाण्डुः कृशोऽल्पाग्निः कासश्वासज्वरार्दितः ५०
वायुना प्रतिलोनेन स्वप्नचिन्तापरायणः
महोदरयकृत्प्लीही दीनवाग्दुर्बलोऽलसः ५१
शोफवान् सतताध्मातः शुष्कपादकरः क्षयी
स्वप्ने गोमायुमार्जारनकुलव्यालवानरान् ५२
प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान्
मन्यते कृष्णमात्मानं गौरो गौरं च कालकः ५३
विकर्णनासानयनं पश्येत्तद्विहतेन्द्रि यः
एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुपद्र वैः ५४
गरार्तो नाशमाप्नोति कश्चित्सद्योऽचिकित्सितः
गरार्तो वान्तवान् भुक्त्वा तत्पथ्यं पानभोजनम् ५५
शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन्
शर्कराक्षौद्र संयुक्तं चूर्णं ताप्यसुवर्णयोः ५६
लेहः प्रशमयत्युग्रं सर्वयोगकृतं विषम्
मूर्वामृतानतकणापटोलीचव्यचित्रकान् ५७
वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः
पिबेद्र सेन वाऽम्लेन गरोपहतपावकः ५८
पारावतामिषशटीपुष्कराह्वशृतं हिमम्
गरतृष्णारुजाकासश्वासहिध्माज्वरापहम् ५९
विषप्रकृतिकालान्न दोषदूष्यादिसङ्गमे
विषसङ्कटमुद्दिष्टं शतस्यैकोऽत्र जीवति ६०
क्षुत्तृष्णाघर्मदौर्बल्य क्रोधशोकभयश्रमैः
अजीर्णवर्चोद्र वतापित्त मारुतवृद्धिभिः ६१
तिलपुष्पफलाघ्राण भूबाष्पघनगर्जितैः
हस्तिमूषिकवादित्र निःस्वनैर्विषसङ्कटैः ६२
पुरोवातोत्पलामोदमदनैर्वर्धते विषम्
वर्षासु चाम्बुयोनित्वात्संक्लेदं गुडवद्गतम् ६३
विसर्पति घनापाये तदगस्त्यो हिनस्ति च
प्रयाति मन्दवीर्यत्वं विषं तस्माद्घनात्यये ६४
इति प्रकृति सात्म्यर्तुस्थानवेगबलाबलम्
आलोच्य निपुणं बुद्ध्या कर्मानन्तरमाचरेत् ६५
श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः
कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम् ६६
पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः
कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः ६७
वातात्मकं जयेत्स्वादुस्निग्धाम्ललवणान्वितैः
सघृतैर्भोजनैर्लेपैस्तथैव पिशिताशनैः ६८
नाघृतं स्रसनं शस्तं प्रलेपो भोज्यमौषधम्
सर्वेषु सर्वावस्थेषु विषेषु न घृतोपमम् ६९
विद्यते भेषजं किञ्चिद्विशेषात् प्रबलेऽनिले
अयत्नाच्छ्लेष्मगं साध्यं यत्नात् पित्ताशयाश्रयम् ७०
सुदुःसाध्यमसाध्यं वा वाताशयगतं विषम् ७०॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने विषप्रतिषेधो नाम पञ्चत्रिंशोऽध्यायः ३५

षट्त्रिंशोऽध्यायः
अथातः सर्पविषप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
दर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगाः
त्रिधा समासतो भौमाः भिद्यन्ते ते त्वनेकधा १
व्यासतो योनिभेदेन नोच्यन्तेऽनुपयोगिनः
विशेषाद्रू क्षकटुकमम्लोष्णं स्वादुशीतलम् २
विषं दर्वीकरादीनां क्रमाद्वातादिकोपनम्
तारुण्यमध्यवृद्धत्वे वृष्टिशीतातपेषु च ३
बिषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषु
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ४
फणिनः शीघ्रगतयः सर्पा दर्वीकराः स्मृताः
ज्ञेया मण्डलिनोऽभोगा मण्डलैर्विविधैश्चिताः ५
प्रांशवो मन्दगमनाः राजीमन्तस्तु राजिभिः
स्निग्धा विचित्रवर्णाभिस्तिर्यगूर्ध्वं च चित्रिताः ६
गोधासुतस्तु गौधेरो विषे दर्वीकरैः समः
चतुष्पाद्व्यन्तरान् विद्यादेतेषामेव सङ्करात् ७
व्यामिश्रलक्षणास्ते हि सन्निपातप्रकोपनाः
आहारार्थं भयात् पादस्पर्शादतिविषात् क्रुधः ८
पापवृत्तितया वैराद्देवर्षियमचोदनात्
दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम् ९
आदिष्टात् कारणं ज्ञात्वा प्रतिकुर्याद्यथायथम्
व्यन्तरः पापशीलत्वान्मार्गमाश्रित्य तिष्ठति १०
यत्र लालापरिक्लेदमात्रं गात्रे प्रदृश्यते
न तु दंष्ट्राकृतं दंशं तत्तुण्डाहतमादिशेत् ११
एकं दंष्ट्रापदं द्वे वा व्यालीढाख्यमशोणितम्
दंष्ट्रापदे सरक्ते द्वे व्यालुप्तं त्रीणि तानि तु १२
मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकम्
दंष्ट्रापदानि चत्वारि तद्वद्दष्टनिपीडितम् १३
निर्विषं द्वयमत्राद्यमसाध्यं पश्चिमं वदेत्
विषं नाहेयमप्राप्य रक्तं दूषयते वपुः १४
रक्तमण्वपि तु प्राप्तं वर्धते तैलमम्बुवत्
भीरोस्तु सर्पसंस्पर्शाद्भयेन कुपितोऽनिलः १५
कदाचित्कुरुते शोफं सर्पाङ्गाभिहतं तु तत्
दुर्गान्धकारे विद्धस्य केनचिद्दष्टशंकया १६
विषोद्वेगो ज्वरश्छर्दिर्मूर्च्छा दाहोऽपि वा भवेत्
ग्लानिर्मोहोऽतिसारो वा तच्छङ्काविषमुच्यते १७
तुद्यते सविषो दंशः कण्डूशोफरुजान्वितः
दह्यते ग्रथितः किञ्चिद्विपरीतस्तु निर्विषः १८
पूर्वे दर्वीकृतां वेगे दुष्टं श्यावीभवत्यसृक्
श्यावता तेन वक्त्रादौ सर्पन्तीव च कीटकाः १९
द्वितीये ग्रन्थयो वेगेतृतीये मूर्ध्नि गौरवम्
दृग्रोधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः २०
सन्धिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम्
दाहो हिध्मा च षष्ठे तु हृत्पीडा गात्रगौरवम् २१
मूर्च्छा विपाकोऽतीसारः प्राप्य शुक्रं तु सप्तमे
स्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्तनम् २२
अथ मण्डलिदष्टस्य दुष्टं पीतीभवत्यसृक्
तेन पीताङ्गता दाहो द्वितीये श्वयथूद्भवः २३
तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायते
चतुर्थे ज्वर्यते दाहः पञ्चमे सर्वगात्रगः २४
दष्टस्य राजिलैर्दुष्टं पाण्डुतां याति शोणितम्
पाण्डुता तेन गात्राणां द्वितीये गुरुताऽति च २५
तृतीये दंशविक्लेदो नासिकाक्षिमुखस्रवाः
चतुर्थे गरिमा मूर्ध्नो मन्यास्तम्भश्चपञ्चमे २६
गात्रभङ्गो ज्वरः शीतः शेषयोः पूर्ववद्वदेत्
कुर्यात्पञ्चसु वेगेषु चिकित्सां न ततः परम् २७
जलाप्लुता रतिक्षीणा भीता नकुलनिर्जिताः
शीतवातातपव्याधिक्षुत्तृष्णाश्रमपीडिताः २८
तूर्णं देशान्तरायाता विमुक्तविषकञ्चुकाः
कुशौषधीकण्टकवद्ये चरन्ति च काननम् २९
देशं च दिव्याध्युषितं सर्पास्तेऽल्पविषा मताः
श्मशानचितिचैत्यादौ पञ्चमीपक्षसन्धिषु ३०
अष्टमीनवमीसन्ध्यामध्यरात्रिदिनेषु च
याम्याग्नेयमघाश्लेषाविशाखापूर्वनैरृते ३१
नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत्
दष्टमात्रः सितास्याक्षः शीर्यमाणशिरोरुहः ३२
स्तब्धजिह्वोमुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवति
हिध्माश्वासो वमिः कासो दष्टमात्रस्य देहिनः ३३
जायन्ते युगपद्यस्य स हृच्छूली न जीवति
फेनं वमति निःसंज्ञः श्यावपादकराननः ३४
नासावसादो भङ्गोऽङ्गे विड्भेदः श्लथसन्धिता
विषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च ३५
भवन्त्येतानि रूपाणि सम्प्राप्ते जीवितक्षये
न नस्यैश्चेतना तीक्ष्णैर्न क्षतात् क्षतजागमः ३६
दण्डाहतस्य नो राजिः प्रयातस्य यमान्तिकम्
अतोऽन्यथा तु त्वरया प्रदीप्तागारवद्भिषक् ३७
रक्षन् कण्ठगतान् प्राणान् विषमाशु शमं नयेत्
मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहिनः ३८
देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत्
एतस्मिन्नन्तरे कर्म दंशस्योत्कर्तनादिकम् ३९
कुर्याच्छीघ्रं यथा देहे विषवल्ली न रोहति
दष्टमात्रो दशेदाशु तमेव पवनाशिनम् ४०
लोष्टं महीं वा दशनैश्छित्त्वा चानु ससम्भ्रमम्
निष्ठीवेन समालिम्पेद्दंशं कर्णमलेन वा ४१
दंशस्योपरि बध्नीयादरिष्टां चतुरङ्गुले
क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित् ४२
अम्बुवत् सेतुबन्धेन बन्धेन स्तभ्यते विषम्
न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः ४३
निष्पीड्यानूद्धरेद्दंशं मर्मसन्ध्यगतं तथा
न जायते विषाद्वेगो बीजनाशादिवाङ्कुरः ४४
दंशं मण्डलिनां मुक्त्वा पित्तलत्वादथापरम्
प्रतप्तैर्हेमलोहाद्यैर्दहेदाशूल्मुकेन वा ४५
करोति भस्मसात्सद्यो वह्निः किं नाम तु क्षतम्
आचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः ४६
प्रच्छायान्तररिष्टायां मांसलं तु विशेषतः
अङ्गं सहैव दंशेन लेपयेदगदैर्मुहुः ४७
चन्दनोशीरयुक्तेन सलिलेन च सेचयेत्
विषे प्रविसृते विध्येत्सिरां सा परमा क्रिया ४८
रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रियते विषम्
दुर्गन्धं सविषं रक्तमग्नौ चटचटायते ४९
यथादोषं विशुद्धं च पूर्ववल्लक्षयेदसृक्
सिरास्वदृश्यमानासु योज्याः शृङ्गजलौकसः ५०
शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणा
लेपसेकैः सुबहुशः स्तम्भयेद्भृशशीतलैः ५१
अस्कन्ने विषवेगाद्धि मूर्च्छायमदहृद्द्र वाः
भवन्ति तान् जयेच्छीतैर्वीजेच्चारोमहर्षतः ५२
स्कन्ने तु रुधिरे सद्यो विषवेगः प्रशाम्यति
विषं कर्षति तीक्ष्णत्वाद् हृदयं तस्य गुप्तये ५३
पिबेद्घृतं घृतक्षौद्र मगदं वा घृताप्लुतम्
हृदयावरणे चास्य श्लेष्मा हृद्युपचीयते ५४
प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततः
द्र वैः काञ्जिककौलत्थतैलमद्यादिवर्जितैः ५५
वमनैर्विषहृद्भिश्च नैवं व्याप्नोति तद्वपुः
भुजङ्गदोषप्रकृतिस्थानवेगविशेषतः ५६
सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियाम्
सिन्दुवारितमूलानि श्वेता च गिरिकर्णिका ५७
पानं दर्वीकरैर्दष्टे नस्यं मधुसपाकलम्
कृष्णसर्पेण दष्टस्य लिम्पेद्दंशं हृतेऽसृजि ५८
चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वा
पानं च क्षौद्र मञ्जिष्ठागृहधूमयुतं घृतम् ५९
तन्दुलीयककाश्मर्यकिणिही गिरिकर्णिकाः
मातुलुङ्गी सिता शेलुः पाननस्याञ्जनैर्हितः ६०
अगदः फणिनां घोरे विषे राजीमतामपि
समाः सुगन्धामृद्वीकाश्वेताख्यागजदन्तिकाः ६१
अर्धांशं सौरसं पत्रं कपित्थं बिल्वदाडिमम्
सक्षौद्रो मण्डलिविषे विशेषादगदो हितः ६२
पञ्चवल्कवरा यष्टीनागपुष्पैलवालुकम्
जीवकर्षभकौ शीतं सिता पद्मकमुत्पलम् ६३
सक्षौद्रो हिमवान्नाम हन्ति मण्डलिनां विषम्
लेपाच्छ्वयथुवीसर्पविस्फोटज्वरदाहहा ६४
काश्मर्यं वटशुङ्गानि जीवकर्षभकौ सिता
मञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत् ६५
वंशत्वग्बीजकटुका पाटलीबीजनागरम्
शिरीषबीजातिविषे मूलं गावेधुकं वचा ६६
पिष्टो गोवारिणाऽष्टाङ्गो हन्ति गोनसजं विषम्
कटुकातिविषाकुष्ठगृह धूमहरेणुकाः ६७
सक्षौद्र व्योषतगरा घ्नन्ति राजीमतां विषम्
निखनेत्काण्डचित्राया दंशं यामद्वयं भुवि ६८
उद्धृत्य प्रच्छितं सर्पिर्धान्यमृद्भ्यां प्रलेपयेत्
पिबेत्पुराणं च घृतं वराचूर्णावचूर्णितम् ६९
जीर्णे विरिक्तो भुञ्जीत यवान्नं सूपसंस्कृतम्
करवीरार्ककुसुममूल लाङ्गलिका कणाः ७०
कल्कयेदारनालेन पाठामरिचसंयुताः
एष व्यन्तरदष्टानामगदः सार्वकार्मिकः ७१
शिरीषपुष्पस्वरसे सप्ताहं मरिचं सितम्
भावितं सर्पदष्टानां पाननस्याञ्जने हितम् ७२
द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रं चतुष्पलम्
अपि तक्षकदष्टानां पानमेतत्सुखप्रदम् ७३
अथ दर्वीकृतां वेगे पूर्वे विस्राव्य शोणितम्
अगदं मधुसर्पिर्भ्यां संयुक्तं त्वरितं पिबेत् ७४
द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत्
विषापहे प्रयुञ्जीत तृतीयेऽञ्जननावने ७५
पिबेच्चतुर्थे पूर्वोक्तां यवागूं वमने कृते
षष्ठपञ्चमयोः शीतैर्दिग्धं सिक्तमभीक्ष्णशः ७६
पाययेद्वमनं तीक्ष्णं यवागूं च विषापहैः
अगदं सप्तमे तीक्ष्णं युञ्ज्यादञ्जननस्ययोः ७७
कृत्वाऽवगाढं शस्त्रेण मूर्ध्नि काकपदं ततः
मांसं सरुधिरं तस्य चर्म वा तत्र निक्षिपेत् ७८
तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत्
अतीक्ष्णमगदं षष्ठे गणं वा पद्मकादिकम् ७९
आद्येऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः
अलाबुना हरेद्र क्तं पूर्ववच्चागदं पिबेत् ८०
षष्ठेऽञ्जनं तीक्ष्णतममवपीडं च योजयेत्
अनुक्तेषु च वेगेषु क्रियां दर्वीकरोदिताम् ८१
गर्भिणीबालवृद्धेषु मृदुं विध्येत्सिरां न च
त्वङ्मनोह्वा निशे वक्रं रसः शार्दूलजो नखः ८२
तमालः केसरं शीतं पीतं तन्दुलवारिणा
हन्ति सर्वविषाण्येतद्वज्रं वज्रमिवासुरान् ८३
बिल्वस्य मूलं सुरसस्य पुष्पं
फलं करञ्जस्य नतं सुराह्वम्
फलत्रिकं व्योषनिशाद्वयं च
बस्तस्य मूत्रेण सुसूक्ष्मपिष्टम् ८४
भुजङ्गलूतोन्दुरवृश्चिकाद्यैर्विसूचिका जीर्णगरज्वरैश्च
आर्तान्नरान्भूतविधर्षितांश्चस्वस्थीकरोत्यञ्जनपाननस्यैः ८५
प्रलेपाद्यैश्च निःशेषं दंशादप्युद्धरेद्विषम्
भूयो वेगाय जायेत शेषं दूषीविषाय वा ८६
विषापायेऽनिलं क्रुद्धं स्नेहादिभिरुपाचरेत्
तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः ८७
पित्तं पित्तज्वरहरैः कषायस्नेहबस्तिभिः
समाक्षिकेण वर्गेण कफमारग्वधादिना ८८
सिता वैगन्धिको द्रा क्षा पयस्या मधुकं मधु
पानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम् ८९
सर्पाङ्गाभिहते युञ्ज्यात्तथा सङ्काविषार्दिते
कर्केतनं मरकतं वज्रं वारणमौक्तिकम् ९०
वैडूर्यं गर्दभमणिं पिचुकं विषमूषिकाम्
हिमवद्गिरिसम्भूतां सोमराजीं पुनर्नवाम् ९१
तथा द्रो णां महाद्रो णां मानसीं सर्पजं मणिम्
विषाणि विषशान्त्यर्थं वीर्यवन्ति च धारयेत् ९२
छत्री झर्झरपाणिश्च चरेद्रा त्रौ विशेषतः
तच्छायाशब्दवित्रस्ताः प्रणश्यन्ति भुजङ्गमाः ९३
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सर्पविषप्रतिषेधो नाम षट्त्रिंशोऽध्यायः ३६

सप्तत्रिंशोऽध्यायः
अथातः कीटलूतादिविषप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः
दोषैर्व्यस्तैः समस्तैश्च युक्ताः कीटाश्चतुर्विधाः १
दष्टस्य कीटैर्वायव्यैर्दंशस्तोदरुजोल्बणः
आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान् २
पक्वपीलुफलप्रख्यः खर्जूरसदृशोऽथवा
कफाधिकैर्मन्दरुजः पक्वोदुम्बरसन्निभः ३
स्रावाढ्यः सर्वलिङ्गस्तु विवर्ज्यः सान्निपातिकैः
वेगाश्च सर्पवच्छोफो वर्धिष्णुर्विस्ररक्तता ४
शिरोक्षिगौरवं मूर्च्छा भ्रमः श्वासोऽतिवेदना
सर्वेषां कर्णिका शोफो ज्वरः कण्डूररोचकः ५
वृश्चिकस्य विषं तीक्ष्णमादौ दहति वह्निवत्
ऊर्ध्वमारोहति क्षिप्रं दंशे पश्चात्तु तिष्ठति ६
दंशः सद्योऽतिरुक् श्यावस्तुद्यते स्फुटतीव च
ते गवादिशकृत्कोथाद्दिग्धदष्टादिकोथतः ७
सर्पकोथाच्च सम्भूता मन्दमध्यमहाविषाः
मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुरमेचकाः ८
रोमशा बहुपर्वाणो लोहिताः पाण्डुरोदराः
धूम्रोदरास्त्रिपर्वाणो मध्यास्तु कपिलारुणाः ९
पिशङ्गाः शबलाश्चित्राः शोणिताभा महाविषाः
अग्न्याभा द्व्येकपर्वाणो रक्तासितसितोदराः १०
तैर्दष्टः शूनरसनः स्तब्धगात्रो ज्वरार्दितः
स्वैर्वमन् शोणितं कृष्णमिन्द्रि यार्थानसंविदन् ११
स्विद्यन् मूर्च्छन् विशुष्कास्यो विह्वलो वेदनातुरः
विशीर्यमाणमांसश्च प्रायशो विजहात्यसून् १२
उच्चिटिङ्गस्तु वक्त्रेण दशत्यभ्यधिकव्यथः
साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्टरोमताम् १३
करोति सेकमङ्गानां दंशः शीताम्बुनेव च
उष्ट्रधूमः स एवोक्तो रात्रिचाराच्च रात्रिकः १४
वातपित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराः
प्रायो वातोल्बणविषा वृश्चिकाः सोष्ट्रधूमकाः १५
यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत्
तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम् १६
हृत्पीडोर्ध्वानिलस्तम्भः शिरायामोऽस्थिपर्वरुक्
घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे १७
संज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यता
मांसावदरणं शोफो रक्तपीतश्च पैत्तिके १८
छर्द्यरोचक हृल्लासप्रसेकोत्क्लेशपीनसैः
सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम् १९
पिण्याकेन व्रणालेपस्तैलाभ्यङ्गश्च वातिके
स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः २०
पैत्तिकं स्तम्भयेत्सेकैः प्रदेहैश्चातिशीतलैः
लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत् २१
कीटानां त्रिप्रकाराणां त्रैविध्येन क्रिया हिता
स्वेदालेपनसेकांस्तु कोष्णान् प्रायोऽवचारयेत् २२
अन्यत्र मूर्च्छिताद्दंशपाकतः कोथतोऽथवा
नृकेशाः सर्षपाः पीता गुडो जीर्णश्च धूपनम् २३
विषदंशस्य सर्वस्य काश्यपः परमब्रवीत्
विषघ्नं च विधिं सर्वं कुर्यात्संशोधनानि च २४
साधयेत्सर्पवद्दष्टान् विषोग्रैः कीटवृश्चिकैः
तन्दुलीयकतुल्यांशां त्रिवृतां सर्पिषा पिबेत् २५
याति कीटविषैः कम्पं न कैलास इवानिलैः
क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः २६
मुक्तालेपो वरः शोफतोददाहज्वरप्रणुत्
वचा हिङ्गु विडङ्गानि सैन्धवं गजपिप्पली २७
पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम्
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत् २८
सद्यो वृश्चिकजं दंशं चक्रतैलेन सेचयेत्
विदारिगन्धासिद्धेन कवोष्णेनेतरेण वा २९
लवणोत्तमयुक्तेन सर्पिषा वा पुनः पुनः
सिञ्चेत्कोष्णारनालेन सक्षीरलवणेन वा ३०
उपनाहो घृते भृष्टः कल्कोऽजाज्याः ससैन्धवः
आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत् ३१
रजनीसैन्धवव्योष शिरीषफलपुष्पजैः
मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् ३२
लेपः सुखोष्णश्च हितः पिण्याको गोमयोऽपि वा
पाने सर्पिर्मधुयुतं क्षीरं वा भूरिशर्करम् ३३
पारावतशकृत् पथ्या तगरं विश्वभेषजम्
बीजपूररसोन्मिश्रः परमो वृश्चिकागदः ३४
सशैवलोष्ट्रदंष्ट्रा च हन्ति वृश्चिकजं विषम्
हिङ्गुना हरितालेन मातुलुङ्गरसेन च ३५
लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा
करञ्जार्जुनशेलूनां कटभ्याः कुटजस्य च ३६
शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनम्
यो मुह्यति प्रश्वसिति प्रलपत्युग्रवेदनः ३७
तस्य पथ्यानिशाकृष्णामञ्जिष्ठातिविषोषणम्
सालाबुवृन्तं वार्ताकरसपिष्टं प्रलेपनम् ३८
सर्वत्र चोग्रालिविषे पाययेद्दधिसर्पिषी
विध्येत्सिरां विदध्याच्च वमनाञ्जननावनम्
उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहम् ३९
नागरं गृहकपोतपुरीषं
बीजपूरकरसो हरितालम्
सैन्धवं च विनिहन्त्यगदोऽय
लेपतोऽलिकुलजं विषमाशु ४०
अन्ते वृश्चिकदष्टानां समुदीर्णे भृशं विषे
विषेणालेपयेद्दंशमुच्चिटिङ्गेऽप्ययं विधिः ४१
नागपुरीषच्छत्रं रोहिषमूलं च शेलुतोयेन
कुर्याद्गुटिकां लेपादियमलिविषनाशनी श्रेष्ठा ४२
अर्कस्य दुग्धेन शिरीषबीजं
त्रिर्भावितं पिप्पलिचूर्णमिश्रम्
एषोऽगदो हन्ति विषाणि कीट
भुजङ्गलूतोन्दुरवृश्चिकानाम् ४३
शिरीषपुष्पं सकरञ्जबीजं
काश्मीरजं कुष्ठमनःशिले च
एषोऽगदो रात्रिकवृश्चिकानां
संक्रान्तिकारी कथितो जिनेन ४४
कीटेभ्यो दारुणतरा लूताः षोडश ता जगुः
अष्टाविंशतिरित्येके ततोऽप्यन्ये तु भूयसीः ४५
सहस्ररश्म्यनुचरा वदन्त्यन्ये सहस्रशः
बहूपद्र वरूपा तु लूतैकैव विषात्मिका ४६
रूपाणि नामतस्तस्या दुर्ज्ञेयान्यतिसङ्करात्
नास्ति स्थानव्यवस्था च दोषतोऽत प्रचक्षते ४७
कृच्छ्रसाध्या पृथग्दोषैरसाध्या निचयेन सा
तद्दंशः पैत्तिको दाहतृट्स्फोटज्वरमोहवान् ४८
भृशोष्मा रक्तपीताभः क्लेदी द्रा क्षाफलोपमः
श्लैष्मिकः कठिनः पाण्डुः परूषकफलाकृतिः ४९
निद्रां शीतज्वरं कासं कण्डूं च कुरुते भृशम्
वातिकः परुषः श्यावः पर्वभेदज्वरप्रदः ५०
तद्विभागं यथास्वं च दोषलिङ्गैर्विभावयेत्
असाध्यायां तु हृन्मोहश्वासहिध्माशिरोग्रहाः ५१
श्वेतपीतासितारक्ताः पिटिकाः श्वयथूद्भवः
वेपथुर्वमथुर्दाहस्तृडान्ध्यं वक्रनासता ५२
श्यावौष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम्
पक्वजम्बूसवर्णं च दंशात्स्रवति शोणितम् ५३
सर्वाऽपि सर्वजा प्रायो व्यपदेशस्तु भूयसा
तीक्ष्णमध्यावरत्वेन सा त्रिधा हन्त्युपेक्षिता ५४
सप्ताहेन दशाहेन पक्षेण च परं क्रमात्
लूतादंशश्च सर्वोऽपि दद्रुमण्डलसन्निभः ५५
सितोऽसितोऽरुणः पीतः श्यावो वा मृदुरुन्नतः
मध्ये कृष्णोऽथवा श्यावः पर्यन्ते जालकावृतः ५६
विसर्पवांश्छोफयुतस्तप्यते बहुवेदनः
ज्वराशुपाकविक्लेदकोथावदरणान्वितः ५७
क्लेदेन यत्स्पृशत्यङ्गं तत्रापि कुरुते व्रणम्
श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्तवैः ५८
अष्टाभिरुद्वमत्येषा विषं वक्त्राद्विशेतः
लूता नाभेर्दशत्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः ५९
तद्दूषितं च वस्त्रादि देहे पृक्तं विकारकृत्
दिनार्धं लक्ष्यते नैव दंशो लूताविषोद्भवः ६०
सूचीव्यधवदाभाति ततोऽसौ प्रथमेऽहनि
अव्यक्तवर्णः प्रचलः किञ्चित्कण्डूरुजान्वितः ६१
द्वितीयेऽभ्युन्नतोऽन्तेषु पिटिकैरिव वाऽचितः
व्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसन्निभः ६२
तृतीये सज्वरो रोमहर्षकृद्र क्तमण्डलः
शरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः ६३
महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः
विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान् ६४
षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम्
इति तीक्ष्णं विषं मध्यं हीनं च विभजेदतः ६५
एकविंशतिरात्रेण विषं शाम्यति सर्वथा
अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत् ६६
दहेच्च जाम्बवौष्ठाद्यैर्न तु पित्तोत्तरं दहेत्
कर्कशं भिन्नरोमाणं मर्मसन्ध्यादिसंश्रितम् ६७
प्रसृतं सर्वतो दंशं न छिन्दीत दहेन्न च
लेपयेद्दग्धमगदैर्मधुसैन्धवसंयुतैः ६८
सुशीतैः सेचयेच्चानु कषायैः क्षीरिवृक्षजैः
सर्वतोऽपहरेद्र क्तं शृङ्गाद्यैः सिरयाऽपि वा ६९
सेकलेपास्ततः शीता बोधिश्लेष्मातकाक्षकैः
फलिनीद्विनिशाक्षौद्र सर्पिर्भिः पद्मकाह्वयः ७०
अशेषलूताकीटानामगदः सार्वकार्मिकः
हरिद्रा द्वयपत्तङ्गमञ्जिष्ठानतकेसरैः ७१
सक्षौद्र सर्पिः पूर्वस्मादधिकश्चम्पकाह्वयः
तद्वद्गोमयनिष्पीडशर्करा घृतमाक्षिकैः ७२
अपामार्गमनोह्वाल दार्वीध्यामकगैरिकैः
नतैलाकुष्ठमरिचयष्ट्याह्व घृतमाक्षिकैः ७३
अगदो मन्दरो नाम तथाऽन्यो गन्धमादनः
नतरोध्रवचाकट्वीपाठैलापत्रकुङ्कुमैः ७४
विषघ्नं बहुदोषेषु प्रयुञ्जीत विशोधनम्
यष्ट्याह्वमदनाङ्कोल्लजालिनीसिन्दुवारिकाः ७५
कफे ज्येष्ठाम्बुना पीत्वा विषमाशु समुद्वमेत्
शिरीषपत्रत्वङ्मूलफलं वाऽङ्कोल्लमूलवत् ७६
विरेचयेच्च त्रिफलानीलिनीत्रिवृतादिभिः
निवृत्ते दाहशोफादौ कर्णिकां पातयेद् व्रणात् ७७
कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्
त्रिवृता सैन्धवं दन्ती कर्णिकापातनं तथा ७८
मूलमुत्तरवारुण्या वंशनिर्लेखसंयुतम्
तद्वच्च सैन्धवं कुष्ठं दन्तीकटुकदौग्धिकम् ७९
राजकोशातकीमूलं किण्वो वा मथितोद्भवः
कर्णिकापातसमये बृंहयेच्च विषापहैः ८०
स्नेहकार्यमशेषं च सर्पिषैव समाचरेत्
विषस्य वृद्धये तैलमग्नेरिव तृणोलुपम् ८१
ह्रीबेरवैकङ्कतगोपकन्यामुस्ताशमीचन्दनटिण्टुकानि
शैवालनीलोत्पलवक्रयष्टीत्वङ्नाकुलीपद्मकराठमध्यम् ८२
रजनीघनसर्पलोचना कणशुण्ठीकणमूलचित्रकाः
वरुणागुरुबिल्वपाटलीपिचुमन्दामयशेलुकेसरम् ८३
बिल्वचन्दननतोत्पलशुण्ठीपिप्पलीनिचुलवेतसकुष्ठम्
शुक्तिशाकवरपाटलिभार्गीसिन्दुवारकरघाटवराङ्गम् ८४
पित्तकफानिललूताः पानाञ्जननस्यलेपसेकेन
अगदवरा वृत्तस्थाः कुगतीरिव वारयन्त्येते ८५
रोध्रं सेव्यं पद्मकं पद्मरेणुः
कालीयाख्यं चन्दनं यच्च रक्तम्
कान्तापुष्पं दुग्धिनीका मृणालं
लूताः सर्वा घ्नन्ति सर्वक्रियाभिः ८६
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने कीटलूतादिविषप्रतिषेधोनाम सप्तत्रिंशोऽध्यायः ३७

अष्टत्रिंशोऽध्यायः
अथातो मूषिकालर्कविषप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
लालनश्चपलः पुत्रो हसिरश्चिक्किरोऽजिरः
कषायदन्तः कुलकः कोकिलः कपिलोऽसितः १
अरुणः शबलः श्वेतः कपोतः पलितोन्दुरः
छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः २
शुक्रं पतति यत्रैषां शुक्रदिग्धैः स्पृशन्ति वा
यदङ्गमङ्गैस्तत्रास्रे दूषिते पाण्डुतां गते ३
ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमोऽरुचिः
शीतज्वरोऽतिरुक्सादो वेपथुः पर्वभेदनम् ४
रोमहर्षः स्रुतिर्मूर्च्छा दीर्घकालानुबन्धनम्
श्लेष्मानुबद्धबह्वाखुपोतकच्छर्दनं सतृट् ५
व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यति
मूर्च्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः ६
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणम्
शूनबस्तिं विवर्णौष्ठमाख्वाभैर्ग्रन्थिभिश्चितम् ७
छुच्छुन्दरसगन्धं च वर्जयेदाखुदूषितम्
शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाश्रिताः ८
मुष्णन्तः कुर्वते क्षोभं धातूनामतिदारुणम्
लालावानन्धबधिरः सर्वतः सोऽभिधावति ९
स्रस्तपुच्छहनुस्कन्धः शिरोदुःखी नताननः
दंशस्तेन विदष्टस्य सुप्तः कृष्णं क्षरत्यसृक् १०
हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्च्छोद्भवोऽनु च
अनेनान्येऽपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः ११
शृगालाश्वतराश्वर्क्ष द्वीपिव्याघ्रवृकादयः
कण्डूनिस्तोद वैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः १२
विदाहरागरुक्पाकशोफ ग्रन्थिविकुञ्चनम्
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च १३
सर्वत्र सविषे लिङ्गं विपरीतं तु निर्विषे
दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति १४
पश्यंस्तमेव चाकस्मादादर्शसलिलादिषु
योऽद्भ्यस्त्रस्येददष्टोऽपि शब्दसंस्पर्शदर्शनैः १५
जलसन्त्रासनामानं दष्टं तमपि वर्जयेत्
आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत् १६
दर्पणेनाथवा तीव्ररुजा स्यात्कर्णिकाऽन्यथा
दग्धं विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत् १७
शिरीषरजनीवक्रकुङ्कुमा मृतवल्लिभिः
अगारधूममञ्जिष्ठारजनीलवणोत्तमैः १८
लेपो जयत्याखुविषं कर्णिकायाश्च पातनः
ततोऽम्लै क्षालयित्वाऽनु तोयैरनु च लेपयेत् १९
पालिन्दीश्वेतकटभीविल्व मूलगुडूचिभिः
अन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेद्द्रुतम् २०
छर्दनं नीलिनीक्वाथैः शुकाख्याङ्कोल्लयोरपि
कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च २१
मदनस्य च सञ्चूर्ण्य दध्ना पीत्वा विषं वमेत्
वचामदनजीमूतकुष्ठं वा मूत्रपेषितम् २२
पूर्वकल्पेन पातव्यं सर्वोन्दुरविषापहम्
विरेचनं त्रिवृन्नीलीत्रिफलाकल्क इष्यते २३
शिरोविरेचने सारः शिरीषस्य फलानि च
अञ्जनं गोमयरसो व्योषसूक्ष्मरजोन्वितः २४
कपित्थगोमयरसो मधुमानवलेहनम्
तन्दुलीयकमूलेन सिद्धं पाने हितं घृतम् २५
द्विनिशाकटभीरक्तायष्ट्याह्वैर्वाऽमृतान्वितैः
आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा २६
सिन्दुवारं नतं शिग्रुबिल्वमूलं पुनर्नवा
वचाश्वदंष्ट्राजीमूतमेषां क्वाथं समाक्षिकम् २७
पिबेच्छाल्योदनं दध्ना भुञ्जानो मूषिकार्दितः
तक्रेण शरपुङ्खाया बीजं सञ्चूर्ण्य वा पिबेत् २८
अङ्कोल्लमूलकल्को वा बस्तमूत्रेण कल्कितः
पानालेपनयोर्युक्तः सर्वाखुविषनाशनः २९
कपित्थमध्यतिलकतिलाङ्कोल्लजटाः पिबेत्
गवां मूत्रेण पयसा मञ्जरीं तिलकस्य वा ३०
अथवा सैर्यकान्मूलं सक्षौद्रं तन्दुलाम्बुना
कटुकालाबुविन्यस्तं पीतं वाऽम्बु निशोषितम् ३१
सिन्दुवारस्य मूलानि बिडालास्थि विषं नतम्
जलपिष्टोऽगदो हन्ति नस्याद्यैराखुजं विषम् ३२
सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शने
यथायथं वा कालेषु दोषाणां वृद्धिहेतुषु ३३
तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः
यथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः ३४
दंशं त्वलर्कदष्टस्य दग्धमुष्णेन सर्पिषा
प्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत् ३५
अर्कक्षीरयुतं चास्य योज्यमाशु विरेचनम्
अङ्कोल्लोत्तरमूलाम्बु त्रिपलं सहविःपलम् ३६
पिबेत्सधत्तूरफलां श्वेतां वाऽपि पुनर्नवाम्
एकध्यं पललं तैलं रूपिकायाः पयो गुडः ३७
भिनत्ति विषमालर्कं घनवृन्दमिवानिलः
समन्त्रं सौषधीरत्नं स्नपनं च प्रयोजयेत् ३८
चतुष्पाद्भिर्द्विपाद्भिर्वा नखदन्तपरिक्षतम्
शूयते पच्यते रागज्वरस्रावरुजान्वितम् ३९
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपादिका
रजन्यौ गैरिकं लेपो नखदन्तविषापहः ४०
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने मूषिकालर्कविषप्रतिषेधो नामाष्टत्रिंशोऽध्यायः ३८
इति विषतन्त्रं नाम षष्ठमङ्गं समाप्तम्

एकोनचत्वारिंशोऽध्यायः
अथातो रसायनविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः
प्रभावर्णस्वरौदार्यं देहेन्द्रि यबलोदयम् १
वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात्
लाभोपायो हि शस्तानां रसादीनां रसायनम् २
पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः
स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्वथा ३
अविशुद्धे शरीरे हि युक्तो रासायनो विधिः
वाजीकरो वा मलिने वस्त्रे रङ्ग इवाफलः ४
रसायनानां द्विविधं प्रयोगमृषयो विदुः
कुटीप्रावेशिकं मुख्यं वातातपिकमन्यथा ५
पुरे प्राप्योपकरणे हर्म्यनिर्वातनिर्भये
दिश्युदीच्यां शुभे देशे त्रिगर्भां सूक्ष्मलोचनाम् ६
धूमातपरजोव्यालस्त्री मूर्खाद्यविलङ्घिताम्
सज्जवैद्योपकरणां सुमृष्टां कारयेत्कुटीम् ७
अथ पुण्येऽह्नि सम्पूज्य पूज्यांस्तां प्रविशेच्छुचिः
तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः ८
ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रि यः
दानशीलदयासत्यव्रत धर्मपरायणः ९
देवतानुस्मृतौ युक्तो युक्तस्वप्नप्रजागरः
प्रियौषधः पेशलवागारभेत रसायनम् १०
हरीतकीमामलकं सैन्धवं नागरं वचाम्
हरिद्रां पिप्पलद्यं वेल्लं गुडं चोष्णाम्बुना पिबेत् ११
स्निग्धस्विन्नो नरः पूर्वं तेन साधु विरिच्यते
ततः शुद्धशरीराय कृतसंसर्जनाय च १२
त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम्
दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथवा १३
इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत्
यस्य यद्यौगिकं पश्येत्सर्वमालोच्य सात्म्यवित् १४
पथ्यासहस्रं त्रिगुणधात्रीफलसमन्वितम्
पञ्चानां पञ्चमूलानां सार्धं पलशतद्वयम् १५
जले दशगुणे पक्त्वा दशभागस्थिते रसे
आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथ १६
विनीय तस्मिन्निर्यूहे योजयेत्कुडवांशकम्
त्वगेलामुस्तरजनीपिप्पल्यगुरुचन्दनम् १७
मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम्
यष्ट्याह्वयं विडङ्गं च चूर्णितं तुलयाऽधिकम् १८
सितोपलार्धभारं च पात्राणि त्रीणि सर्पिषः
द्वे च तैलात् पचेत्सर्वं तदग्नौ लेहतां गतम् १९
अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्र शतैस्त्रिभिः
ततः खजेन मथितं निदध्याद् घृतभाजने २०
या नोपरुन्ध्यादाहारमेकं मात्राऽस्य सा स्मृता
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते २१
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः
ब्रह्मणा विहितं धन्यमिदं प्राश्य रसायनम् २२
तन्द्रा श्रमक्लमवलीपलितामयवर्जिताः
मेधास्मृतिबलोपेता बभूवुरमितायुषः २३
अभयामलकसहस्रं निरामयं पिप्पलीसहस्रयुतम्
तरुणपलाशक्षारद्र वीकृतं स्थापयेद्भाण्डे २४
उपयुक्ते च क्षारे छायासंशुष्कचूर्णितं योज्यम्
पादांशेन सितायाश्चतुर्गुणाभ्यां मधुघृताभ्याम् २५
तद्घृतकुम्भे भूमौ निधाय षण्माससंस्थमुद्धृत्य
प्राह्णे प्राश्य यथानलमुचिताहारो भवेत्सततम् २६
इत्युपयुञ्ज्याशेषं वर्षशतमनामयो जरारहितः
जीवति बलपुष्टिवपुःस्मृतिमेधाद्यन्वितो विशेषेण २७
नीरुजार्द्र पलाशस्य छिन्ने शिरसि तत्क्षतम्
अन्तर्द्विहस्तं गम्भीरं पूर्यमामलकैर्नवैः २८
आमूलं वेष्टितं दर्भैः पद्मिनीपङ्कलेपितम्
आदीप्य गोमयैर्वन्यैर्निर्वाते स्वेदयेत्ततः २९
स्विन्नानि तान्यामलकानि तृप्त्या
खादेन्नरः क्षौद्र घृतान्वितानि
क्षीरं शृतं चानु पिबेत्प्रकामं
तेनैव वर्तेत च मासमेकम् ३०
वर्ज्यानि वर्ज्यानि च तत्र यत्नात्
स्पृश्यं च शीताम्बु न पाणिनाऽपि
एकादशाहेऽस्य ततो व्यतीते
पतन्ति केशा दशना नखाश्च ३१
अथाल्पकैरेव दिनैः सुरूपः
स्त्रीष्वक्षयः कुञ्जरतुल्यवीर्यः
विशिष्टमेधा बलबुद्धिसत्त्वो
भवत्यसौ वर्षसहस्रजीवी ३२
दशमूलबलामुस्त जीवकर्षभकोत्पलम्
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः ३३
जीवन्ती जोङ्गकं द्रा क्षा पौष्करं चन्दनं शठी
पुनर्नवर्द्धिकाकोलीकाकनासामृताद्वयम् ३४
विदारी वृषमूलं च तदैकध्यं पलोन्मितम्
जलद्रो णे पचेत्पञ्च धात्रीफलशतानि च ३५
पादशेषं रसं तस्माद्व्यस्थीन्यामलकानि च
गृहीत्वा भर्जयेत्तैलघृताद् द्वादशभिः पलैः ३६
मत्स्यण्डिकातुलार्धेन युक्तं तल्लेहवत् पचेत्
स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश्चतुष्पलम् ३७
पिप्पल्या द्विपलं दद्याच्चतुर्जातं कणार्धितम्
अतोऽवलेहयेन्मात्रां कुटीस्थः पथ्यभोजनः ३८
इत्येष च्यवनप्राशो यं प्राश्य च्यवनो मुनिः
जराजर्जरितोऽप्या सीन्नारीनयननन्दनः ३९
कासं श्वासं ज्वरं शोषं हृद्रो गं वातशोणितम्
मूत्रशुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति ४०
बालवृद्धक्षतक्षीण कृशानामङ्गवर्धनः
मेधां स्मृतिं कान्तिमनामयत्व
मायुःप्रकर्षं पवनानुलोम्यम्
स्त्रीषु प्रहर्षं बलमिन्द्रि याणा
मग्नेश्च कुर्याद्विधिनोपयुक्तः ४१
मधुकेन तवक्षीर्या पिप्पल्या सिन्धुजन्मना
पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा ४२
सितया वा समा युक्ता समायुक्ता रसायनम्
त्रिफला सर्वरोगघ्नी मेधायुःस्मृतिबुद्धिदा ४३
मण्डूकपर्ण्याः स्वरसं यथाग्नि
क्षीरेण यष्टीमधुकस्य चूर्णम्
रसं गुडूच्याः सहमूलपुष्प्याः
कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः ४४
आयुष्प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी ४५
नलदं कटुरोहिणी पयस्या
मधुकं चन्दनसारिवोग्रगन्धाः
त्रिफला कटुकत्रयं हरिद्रे
सपटोलं लवणं च तैः सुपिष्टैः ४६
त्रिगुणेन रसेन शङ्खपुष्प्याः
सपयस्कं घृतनल्वणं विपक्वम्
उपयुज्य भवेज्जडोऽपि वाग्मी
श्रुतधारी प्रतिभानवानरोगः ४७
पेष्यैर्मृणालबिस केसरपत्रबीजैः
सिद्धं सहेमशकलं पयसा च सर्पिः
पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां
प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम् ४८
यन्नालकन्ददल केसरवद्विपक्वं
नीलोत्पलस्य तदपि प्रथितं द्वितीयम्
सर्पिश्चतुष्कुवलयं सहिरण्यपत्रं
मेध्यं गवामपि भवेत् किमु मानुषाणाम् ४९
ब्राह्मीवचासैन्धव शङ्खपुष्पी
मत्स्याक्षकब्रह्म सुवर्चलैन्द्र्यः
वैदेहिका च त्रियवाः पृथक्स्यु
र्यवौ सुवर्णस्य तिलो विषस्य ५०
सर्पिषश्च पलमेकत एत
द्योजयेत्परिणते च घृताढ्यम्
भोजनं समधु वत्सरमेवं
शीलयन्नधिकधी स्मृतिमेधः ५१
अतिक्रान्तजरा व्याधितन्द्रा लस्य श्रमक्लमः
जीवत्यब्दशतं पूर्णं श्रीतेजःकान्तिदीप्तिमान् ५२
विशेषतःकुष्ठकिलास गुल्मविषज्वरोन्माद गरोदराणि
अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्चवाताः५३
शरन्मुखे नागबलां पुष्ययोगे समुद्धरेत्
अक्षमात्रं ततो मूलाच्चूर्णितात्पयसा पिबेत् ५४
लिह्यान्मधुघृताभ्यां वा क्षीरवृत्तिरनन्नभुक्
एवं वर्षप्रयोगेण जीवेद्वर्षशतं बली ५५
फलोन्मुखो गोक्षुरकः समूल
श्छायाविशुष्कः सुविचूर्णिताङ्गः
सुभावितः स्वेन रसेन तस्मा
न्मात्रां परां प्रासृतिकीं पिबेद्यः ५६
क्षीरेण तेनैव च शालिमश्नन्
जीर्णे भवेत्स द्वितुलोपयोगात्
शक्तः सुरूपः सुभगः शतायुः
कामी ककुद्मानिव गोकुलस्थः ५७
वाराहीकन्दमार्द्रार्द्रं क्षीरेण क्षीरपः पिबेत्
मासं निरन्नो मासं च क्षीरान्नादो जरां जयेत् ५८
तत्कन्दश्लक्ष्णचूर्णं वा स्वरसेन सुभावितम्
घृतक्षौद्र प्लुतं लिह्यात्तत्पक्वं वा घृतं पिबेत् ५९
तद्वद्विदार्यतिबलाबला मधुकवायसीः
श्रेयसीश्रेयसीयुक्तापथ्या धात्रीस्थिरामृताः ६०
मण्डूकीशङ्खकुसुमावाजि गन्धाशतावरीः
उपयुञ्जीत मेधाधीवयः स्थैर्यबलप्रदाः ६१
यथास्वं चित्रकः पुष्पैर्ज्ञेयः पीतसितासितैः
यथोत्तरं स गुणवान् विधिना च रसायनम् ६२
छायाशुष्कं ततो मूलं मासं चूर्णीकृतं लिहन्
सर्पिषा मधुसर्पिर्भ्यां पिबन् वा पयसा यतिः ६३
अम्भसा वा हितान्नाशी शतं जीवति नीरुजः
मेधावी बलवान् कान्तो वपुष्मान् दीप्तपावकः ६४
तैलेन लीढो मासेन वातान् हन्ति सुदुस्तरान्
मूत्रेण श्वित्रकुष्ठानि पीतस्तक्रेण पायुजान् ६५
भल्लातकानि पुष्टानि धान्यराशौ निधापयेत्
ग्रीष्मे संगृह्य हेमन्ते स्वादुस्निग्धहिमैर्वपुः ६६
संस्कृत्य तान्यष्टगुणे सलिलेऽष्टौ विपाचयेत्
अष्टांशशिष्टं तत्क्वाथं सक्षीरं शीतलं पिबेत् ६७
बर्धयेत्प्रत्यहं चानु तत्रैकैकमरुष्करम्
सप्तरात्रत्रयं यावत् त्रीणि त्रीणि ततः परम् ६८
आचत्वारिंशतस्तानि ह्रासयेद्वृद्धिवत्ततः
सहस्रमुपयुञ्जीत सप्ताहैरिति सप्तभिः ६९
यन्त्रितात्माघृतक्षीर शालिषष्टिक भोजनः
तद्वत्त्रिगुणितं कालं प्रयोगान्तेऽपि चाचरेत् ७०
आशिषो लभतेऽपूर्वा वह्नेर्दीप्तिं विशेषतः
प्रमेहकृमिकुष्ठार्शो मेदोदोषविवर्जितः ७१
पिष्टस्वेदनमरुजैः पूर्णं भल्लातकैर्विजर्जरितैः
भूमिनिखाते कुम्भे प्रतिष्ठितं कृष्णमृल्लिप्तम् ७२
परिवारितं समन्तात्पचेत्ततो गोमयाग्निना मृदुना
तत्स्वरसो यश्च्यवते गृह्णीयात्तं दिनेऽन्यस्मिन् ७३
अमुमुपयुज्य स्वरसं मध्वष्टमभागिकं द्विगुणसर्पिः
पूर्वविधियन्त्रितात्मा प्राप्नोति गुणान् स तानेव ७४
पुष्टानि पाकेन परिच्युतानि भल्लातकान्याढकसम्मितानि
घृष्ट्वेष्टिकाचूर्णकणैर्जलेनप्रक्षाल्य संशोष्य च मारुतेन ७५
जर्जराणि विपचेज्जलकुम्भे पादशेषधृतगालितशीतम्
तद्र सं पुनरपि श्रपयेतक्षीरकुम्भसहितं चरणस्थे ७६
सर्पिः पक्वं तत्र तुल्यप्रमाणं युञ्ज्यात्स्वेच्छं शर्कराया रजोभिः
एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम् ७७
तममृतरसपाकं यः प्रगे प्राशमश्नन्
अनु पिबति यथेष्टं वारि दुग्धं रसं वा
स्मृतिमतिबल मेधा सत्त्वसारैरुपेतः
कनकनिचयगौरः सोऽश्नुते दीर्घमायुः ७८
द्रो णेऽम्भसो व्रणकृतां त्रिशताद्विपक्वात्
क्वाथाढके पलसमैस्तिलतैलपात्रम्
तिक्ताविषाद्वयवरा गिरिजन्मतार्क्ष्यैः
सिद्धं परं निखिलकुष्ठनिबर्हणाय ७९
सहामलकशुक्तिभिर्दधिसरेण तैलेन वा
गुडेन पयसा घृतेन यवसक्तुभिर्वा सह
तिलेन सह माक्षिकेण पललेन सूपेन वा
वपुष्करमरुष्करं परममेध्यमायुष्करम् ८०
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ८१
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन
यं न भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम् ८२
वातातपविधानेऽपि विशेषेण विवर्जयेत्
कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम् ८३
वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः
वीचीतरङ्गविक्षोभ मारुतोद्धूतपल्लवाः ८४
तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे
मज्ज्ञः फलेभ्यश्चादाय शोषयित्वाऽवचूर्ण्य च ८५
तिलवत् पीडयेद्द्रो ण्यां क्वाथयेद्वा कुसुम्भवत्
तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात् ८६
अवतार्य करीषे च पक्षमात्रं निधापयेत्
स्निग्धस्विन्नो हृतमलः पक्षादुद्धृत्य तत्ततः ८७
चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत्
मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे ८८
मज्जसार महावीर्य सर्वान् धातून् विशोधय
शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः ८९
तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः
सायमस्नेहलवणां यवागूं शीतलां पिबेत् ९०
पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यान् विवर्जयन्
पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते ९१
तदेव खदिरक्वाथे त्रिगुणे साधु साधितम्
निहितं पूर्ववत्पक्षं पिबेन्मासं सुयन्त्रितः ९२
तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम्
भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभक्षितम्
अनेनाशु प्रयोगेण साधयेत्कुष्ठिनं नरम् ९३
सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना
पक्षं मांसरसाहारं करोति द्विशतायुषम् ९४
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्
बिलीपलितनिर्मुक्तं स्थिरस्मृतिकचद्विजम्
वपुष्मतं श्रुतधरं करोति त्रिशतायुषम् ९५
पञ्चाष्टौ सप्त दशवा पिप्पलीर्मधुसर्पिषा
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ९६
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ९७
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम् ९८
वर्धयेत्पयसा सार्धं तथैवापनयेत्पुनः
जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा ९९
पिप्पलीनां सहस्रस्य प्रयोगोऽय रसायनम्
पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः १००
शीतीकृता हीनबलैर्वीक्ष्य दोषामयान् प्रति
तद्वच्च छागदुग्धेन द्वे सहस्रे प्रयोजयेत्
एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान् १०१
यक्ष्ममेहग्रहण्यर्शः पाण्डुत्वविषमज्वरान्
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम् १०२
बिल्वार्धमात्रेण च पिप्पलीनांपात्रं प्रलिम्पेदयसो निशायाम्
प्रातः पिबेत्तत्सलिलाञ्जलिभ्यांवर्षं यथेष्टाशनपानचेष्टः१०३
शुण्ठीविडङ्गत्रिफलागुडूचीयष्टीहरिद्रा तिबलाबलाश्च
मुस्तासुराह्वागुरुचित्रकाश्च सौगन्धिकं पङ्कजमुत्पलानि१०४
धवाश्वकर्णासनबालपत्रसारास्तथा पिप्पलिवत् प्रयोज्याः
लोहोपलिप्ताः पृथगेव जीवेत्समाः शतं व्याधिजराविमुक्तः १०५
क्षीराञ्जलिभ्यां च रसायनानियुक्तान्यमून्यायसलेपनानि
कुर्वन्ति पूर्वोक्तगुणप्रकर्षमायुःप्रकर्षं द्विगुणं ततश्च १०६
असनखदिरयूषैर्भावितां सोमराजीं
मधुघृतशिखिपथ्या लोहचूर्णैरुपेताम्
शरदमवलिहानः पारिणामान् विकारां
स्त्यजति मितहिताशी तद्वदाहारजातान् १०७
तीव्रेण कुष्ठेन परीतमूर्ति
र्यःसोमराजीं नियमेन खादेत्
संवत्सरं कृष्णतिलद्वितीयां
स सोमराजी वपुषाऽतिशेते १०८
ये सोमराज्या वितुषीकृताया
श्चूर्णैरुपेतात् पयसः सुजातात्
उद्धृत्य सारं मधुना लिहन्ति
तक्रं तदेवानु पिबन्ति चान्ते १०९
कुष्ठिनः शीर्यमाणाङ्गास्ते जाताङ्गुलिनासिकाः
भान्ति वृक्षा इव पुनः प्ररूढनवपल्लवाः ११०
शीतवातहिमदग्धतनूनांस्तब्धभग्नकुटिलव्यथितान्स्थाम्
भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य १
राहोरमृतचौर्येण लूनाद्ये पतिता गलात्
अमृतस्य कणा भूमौ ते रसोनत्वमागताः १११
द्विजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम्
साक्षादमृतसम्भूतेर्ग्रामणीः स रसायनम् ११२
शीलयेल्लशुनं शीते वसन्तेऽपि कफोल्बणः
घनोदयेऽपि वातार्तः सदा वा ग्रीष्मलीलया ११३
स्निग्धशुद्धतनुः शीतमधुरोपस्कृताशयः
तदुत्तंसावतंसाभ्यां चर्चितानुचराजिरः ११४
तस्य कन्दान् वसन्तान्ते हिमवच्छकदेशजान्
अपनीतत्वचो रात्रौ तिमयेन्मदिरादिभिः ११५
तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्
मदिरायाः सुरूढायास्त्रिभागेन समन्वितम् ११६
मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा
तत्काल एव वा युक्तं युक्तमालोच्य मात्रया ११७
तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक्
क्वाथेन वा यथाव्याधि रसं केवलमेव वा ११८
पिबेद्गण्डूषमात्रं प्राक् कण्ठनाडीविशुद्धये
प्रततं स्वेदनं चानु वेदनायां प्रशस्यते ११९
शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे
शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि १२०
विदाहपरिहाराय परं शीतानुलेपनः
धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः १२१
कुडवोऽस्य परा मात्रा तदर्धं केवलस्य तु
पलं पिष्टस्य तन्मज्ज्ञः सभक्तं प्राक् च शीलयेत् १२२
जीर्णशाल्योदनं जीर्णे शङ्खकुन्देन्दुपाण्डुरम्
भुञ्जीत यूषैः पयसा रसैर्वा धन्वचारिणाम् १२३
मद्यमेकं पिबेत्तत्र तृट्प्रबन्धे जलान्वितम्
अमद्यपस्त्वारनालं फलाम्बु परिसिक्थकाम् १२४
तत्कल्कं वा समघृतं घृतपात्रे खजाहतम्
स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम् १२५
विकञ्चुकप्राज्यरसोनगर्भान्सशूल्यमांसान् विविधोपदंशान्
निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघु तुच्छमश्नन् १२६
पित्तरक्तविनिर्मुक्त समस्तावरणावृते
शुद्धे वा विद्यते वायौ न द्र व्यं लशुनात्परम् १२७
प्रियाम्बुगुडदुग्धस्य मांसमद्याम्लविद्विषः
अतितिक्षोरजीर्णं च रसोनो व्यापदे ध्रुवम् १२८
पित्तकोपभयादन्ते युञ्ज्यान्मृदु विरेचनम्
रसायनगुणानेवं परिपूर्णान् समश्नुते १२९
ग्रीष्मेऽकतप्ता गिरयो जतुतुल्यं वमन्ति यत्
हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु १३०
सर्वं च तिक्तकटुकं नात्युष्णं कटु पाकतः
छेदनं च विशेषेण लौहं तत्र प्रशस्यते १३१
गोमूत्रगन्धि कृष्णं गुग्गुल्वाभं विशर्करं मृत्स्नम्
स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम् १३२
व्याधिव्याधितसात्म्यं समनुस्मरन् भावयेदयःपात्रे
प्राक् केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम् १३३
समगिरिजमष्टगुणिते निःक्वाथ्यं भावनौषधं तोये
तन्निर्यूहेऽष्टाशे पूतोष्णे प्रक्षिपेद् गिरिजम् १३४
तत्समरसतां यातं संशुष्कं प्रक्षिपेद्र से भूयः
स्वैः स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत्सप्त १३५
अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम्
त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम् १३६
फलत्रयस्य यूषेण पटोल्या मधुकस्य च
योगं योग्यं ततस्तस्य कालापेक्षं प्रयोजयेत् १३७
शिलाजमेवं देहस्य भवत्यत्युपकारकम्
गुणान् समग्रान् कुरुते सहसा व्यापदं न च १३८
एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम्
हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः १३९
संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम्
युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः १४०
क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम्
कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत् १४१
न सोऽस्ति रोगो भुवि साध्यरूपो
जत्वश्मजं यं न जयेत् प्रसह्य
तत् कालयोगैर्विधिवत् प्रयुक्तं
स्वस्थस्य चोर्जां विपुलां दधाति १४२
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः १४३
वातातपसहा योगा वक्ष्यन्तेऽतो विशेषतः
सुखोपचारा भ्रंशेऽपि ये न देहस्य बाधकाः १४४
शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः
त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः १४५
गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा
द्वे द्वे खादन् सदा पथ्ये जीवेद्वर्षशतं सुखी १४६
हरीतकीं सर्पिषि सम्प्रताप्य
समश्नतस्तत् पिबतो घृतं च
भवेच्चिरस्थायि बलं शरीरेसकृत् कृतं साधु यथा कृतज्ञे १४७
धात्रीरसक्षौद्र सिताघृतानि
हिताशनानां लिहतां नराणाम्
प्रणाशमायान्ति जराविकारा
ग्रन्था विशाला इव दुर्गृहीताः १४८
धात्रीकृमिघ्नासनसारचूर्णं सतैलसर्पिर्मधुलोहरेणु
निषेवमाणस्य भवेन्नरस्य तारुण्यलावण्यमविप्रणष्टम् १४९
लौहं रजो वेल्लभवं च सर्पिः
क्षौद्र द्रुतं स्थापितमब्दमात्रम्
समुद्गके बीजकसारकॢप्ते
लिहन् बली जीवति कृष्णकेशः १५०
विडङ्गभल्ला तकनागराणि
येऽश्नन्ति सर्पिर्मधुसंयुतानि
जरानदीं रोगतरङ्गिणीं ते
लावण्ययुक्ताः पुरुषास्तरन्ति १५१
खदिरासन यूषभाविताया
स्त्रिफलाया घृतमाक्षिकप्लुतायाः
नियमेन नरा निषेवितारो
यदि जीवन्त्यरुजः किमत्र चित्रम् १५२
बीजकस्य रसमङ्गुलिहार्यं
शर्करां मधु घृतं त्रिफलां च
शीलयत्सु पुरुषेषु जरत्ता
स्वागताऽपि विनिवर्तत एव १५३
पुनर्नवस्यार्धपलं नवस्य
पिष्टं पिबेद्यः पयसाऽधमासम्
मासद्वयं तत्त्रिगुणं समां वा
जीर्णोऽपि भूयः स पुनर्नवः स्यात् १५४
मूर्वाबृहत्यंशुमतीबलानामुशीरपाठासनसारिवाणाम्
कालानुसार्यागुरुचन्दनानां वदन्ति पौनर्नवमेव कल्पम् १५५
शतावरीकल्क कषायसिद्धं
येसर्पिरश्नन्ति सिताद्वितीयम्
तान् जीविताध्वानमभिप्रपन्ना
न्न विप्रलुम्पन्ति विकारचौराः १५६
पीताऽश्वगन्धा पयसाऽधमासं
घृतेन तैलेन सुखाम्बुना वा
कृशस्य पुष्टिं वपुषो विधत्ते
बालस्य सस्यस्य यथा सुवृष्टिः १५७
दिने दिने कृष्णतिलप्रकुञ्चं
समश्नतां शीतजलानुपानम्
पोषः शरीरस्य भवत्यनल्पो
दृढीभवन्त्यामरणाच्च दन्ताः १५८
चूर्णं श्वदंष्ट्रामलकामृतानां
लिहन् ससर्पिर्मधुभागमिश्रम्
वृषः स्थिरः शान्तविकारदुःखः
समाः शतं जीवति कृष्णकेशः १५९
सार्धं तिलैरामलकानि कृष्णै
रक्षाणि संक्षुद्य हरीतकीर्वा
येऽद्युर्मयूरा इव ते मनुष्या
रम्यं परीणाममवाप्नुवन्ति १६०
शिलाजतुक्षौद्र विडङ्ग सर्पिर्लोहाभयापारदताप्यभक्षः
आपूर्यते दुर्बलदेहधातुस्त्रिपञ्चरात्रेण यथा शशाङ्कः १६१
ये मासमेकं स्वरसं पिबन्ति
दिने दिने भृङ्गरजःसमुत्थम्
क्षीराशिनस्ते बलवीर्ययुक्ताः
समाः शतं जीवितमाप्नुवन्ति १६२
मासं वचामप्युपसेवमानाः
क्षीरेण तैलेन घृतेन वाऽपि
भवन्ति रक्षोभिरधृष्यरूपा
मेधाविनो निर्मलमृष्टवाक्याः १६३
मण्डूकपर्णीमपि भक्षयन्तो
भृष्टां घृते मासमनन्नभक्षाः
जीवन्ति कालं विपुलं प्रगल्भा
स्तारुण्यलावण्यगुणोदयस्थाः १६४
लाङ्गलीत्रिफलालोहपलपञ्चाशता कृतम्
मार्कवस्वरसे षष्ट्या गुलिकानां शतत्रयम् १६५
छायाविशुष्कं गुलिकार्ध मद्यात्
पूर्वं समस्तामपि तां क्रमेण
भजेद्विरिक्तः क्रमशश्च मण्डं
पेयां विलेपीं रसकौदनं च १६६
सर्पिःस्निग्धं मासमेकं यतात्मा
मासादूर्ध्वं सर्वथा स्वैरवृत्तिः
वर्ज्यं यत्नात्सर्वकालं त्वजीर्णं
वर्षेणैवं योगमेवोपयुञ्ज्यात् १६७
भवति विगतरोगो योऽप्यसाध्यामयार्तः
प्रबलपुरुषकारः शोभते योऽपि वृद्धः
उपचितपृथुगात्र श्रोत्रनेत्रादियुक्तस्तरुण इव समानां पञ्च जीवेच्छतानि १६८
गायत्रीशिखिशिंशिपासनशिवावेल्लाक्षकारुष्करान्
पिष्ट्वाऽष्टादशसंगुणेऽम्भसि धृतान् खण्डैः सहायोमयैः
पात्रे लोहमये त्र्यहं रविकरैरालोडयन् पाचये
दग्नौ चानु मृदौ सलोहशकलं पादस्थितं तत्पचेत् १६९
पूतस्यांशः क्षीरतॐऽशस्तथांऽशौ
भार्ङ्गान्निर्यासाद् द्वौ वराया स्त्रयॐऽशा
अंशाश्चत्वारश्चेह हैयङ्गवीना
देकीकृत्यैतत्साधयेत्कृष्णलौहे १७०
विमलखण्डसितामधुभिः पृथक्
युतमयुक्तमिदं यदि वा घृतम्
स्वरुचि भोजन पानविचेष्टितो
भवति ना पलशः परिशीलयन् १७१
श्रीमान्निर्धूतपाप्मा वनमहिषबलो वाजिवेगः स्थिराङ्गः
केशैर्भृङ्गाङ्गनीलैर्मधुसुरभिमुखो नैकयोषिन्निषेवी
वाङ्मेधाधीसमृद्धः सुपटुहुतवहो मासमात्रोपयोगा
द्धत्तेऽसौ नारसिंहं वपुरनलशिखातप्तचामीकराभम् १७२
अत्तारं नारसिंहस्य व्याधयो न स्पृशन्त्यपि
चक्रोज्ज्वलभुजं भीता नारसिंहमिवासुराः १७३
भृङ्गप्रवालानमुनैव भृष्टान् घृतेन यः खादति यन्त्रितात्मा
विशुद्धकोष्ठोऽसनसारसिद्धदुग्धानुपस्तत्कृतभोजनार्थः १७४
मासोपयोगात् स सुखी जीवत्यब्दशतत्रयम्
गृह्णाति सकृदप्युक्तमविलुप्तस्मृतीन्द्रि यः १७५
अनेनैव च कल्पेन यस्तैलमुपयोजयेत्
तानेवाप्नोति स गुणान् कृष्णकेशश्च जायते १७६
उक्तानि शक्यानि फलान्वितानियुगानुरूपाणि रसायनानि
महानुशंसान्यपि चापराणिप्राप्त्यादिकष्टानि न कीर्तितानि १७७
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् १७८
सत्यवादिनमक्रोध मध्यात्मप्रवणेन्द्रि यम्
शान्तं सद्वृत्तनिरतं विद्यान्नित्यरसायनम् १७९
गुणैरेभिः समुदितः सेवते यो रसायनम्
स निवृत्तात्मा दीर्घायुः परत्रेह च मोदते १८०
शास्त्रानुसारिणी चर्या चित्तज्ञाः पार्श्ववर्तिनः
बुद्धिरस्खलिताऽथेषु परिपूर्णं रसायनम् १८१
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने रसायनविधिर्नाम एकोनचत्वारिंशोऽध्यायः ३९
इति रसायनाख्यं सप्तममङ्गं समाप्तम्

चत्वारिंशोऽध्यायः
अथातो वाजीकरणविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वाजीकरणमन्विच्छेत्सततं विषयी पुमान्
तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितम् १
अपत्यसन्तानकरं यत्सद्यः संप्रहर्षणम्
वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः २
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते
तद्वाजीकरणं तद्धि देहस्योजस्करं परम् ३
धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम्
अनुमोदामहे ब्रह्मचर्यमेकान्तनिर्मलम् ४
अल्पसत्वस्य तु क्लेशैर्बाध्यमानस्य रागिणः
शरीरक्षयरक्षार्थं वाजीकरणमुच्यते ५
कल्यस्योदग्रवयसो वाजीकरणसेविनः
सर्वेष्वृतुष्वहरहर्व्यवायो न निवार्यते ६
अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान्
घृततैलरसक्षीरशर्करा क्षौद्र संयुतान् ७
योगविद्योजयेत्पूर्वं क्षीरमांसरसाशिनाम्
ततो वाजीकरान् योगान् शुक्रापत्यबलप्रदान् ८
अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः
यथैकश्चैकशाखश्च निरपत्यस्तथा नरः ९
स्खलद्गमनमव्यक्तवचनं धूलिधूसरम्
अपि लालाविलमुखं हृदयाह्लादकारकम् १०
अपत्यं तुल्यतां केन दर्शनस्पर्शनादिषु
किं पुनर्यद्यशोधर्ममानश्रीकुलवर्धनम् ११
शुद्धकाये यथाशक्ति वृष्ययोगान् प्रयोजयेत्
शरेक्षुकुशकाशानां विदार्या वीरणस्य च १२
मूलानि कण्टकार्याश्च जीवकर्षभकौ बलाम्
मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम् १३
अश्वगन्धामतिबलामात्मगुप्तां पुनर्नवाम्
वीरां पयस्यां जीवन्तीमृद्धिं रास्नां त्रिकण्टकम् १४
मधुकं शालिपर्णी च भागांस्त्रिपलिकान् पृथक्
माषाणामाढकं चैतद् द्विद्रो णे साधयेदपाम् १५
रसेनाढकशेषेण पचेत्तेन घृताढकम्
दत्त्वा विदारीधात्रीक्षुरसानामाढकाढकम् १६
घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत्
वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गूनि पिप्पलीम्
द्रा क्षां विदारी खर्जूरं मधुकानि शतावरीं
तत्सिद्धपूतं चूर्णस्य पृथक् प्रस्थेन योजयेत् १८
शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च
मरिचस्य प्रकुञ्चेन पृथगर्धपलोन्मितैः १९
त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्र द्विकुडवेन च
पलमात्रं ततः खादेत् प्रत्यहं रसदुग्धभुक् २०
तेनारोहति वाजीव कुलिङ्ग इव हृष्यति
विदारीपिप्पलीशालिपियालेक्षुरकाद्र जः २१
पृथक् स्वगुप्तामूलाच्च कुडवांशं तथा मधु
तुलार्धं शर्कराचूर्णात् प्रस्थार्धं नवसर्पिषः २२
सोऽक्षमात्रमतः खादेत् यस्य रामाशतं गृहे
सात्मगुप्ताफलान् क्षीरे गोधूमान् साधितान् हिमान् २३
माषान् वा सघृतक्षौद्रा न् खादन् गृष्टिपयोऽनुपः
जागर्ति रात्रिं सकलामखिन्नः खेदयन् स्त्रियः २४
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान्
यः खादेत्ससितान् गच्छेत्स स्त्रीशतमपूर्ववत् २५
चूर्णं विदार्या बहुशः स्वरसेनैव भावितम्
क्षौद्र सर्पिर्युतं लीढ्वा प्रमदाशतमृच्छति २६
कृष्णाधात्रीफलरजः स्वरसेन सुभावितम्
शर्करामधुसर्पिर्भिर्लीढ्वा योऽनु पयः पिबेत् २७
स नरोऽशीतिवर्षोऽपि युवेव परिहृष्यति
कर्षं मधुकचूर्णस्य घृतक्षौद्र समन्वितम् २८
पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत्
कुलीरशृङ्ग्या यः कल्कमालोड्य पयसा पिबेत् २९
सिताघृतपयोन्नाशी स नारीषु वृषायते
यः पयस्यां पयःसिद्धां खादेन्मधुघृतान्विताम् ३०
पिबेद्बाष्कयणं चानु क्षीरं न क्षयमेति सः
स्वयंगुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम् ३१
धारोष्णेन नरः पीत्वा पयसा रासभायते
उच्चटाचूर्णमप्येवं शतावर्याश्च योजयेत् ३२
चन्द्र शुभ्रं दधिसरं ससिताषष्टिकौदनम्
पटे सुमार्जितं भुक्त्वा वृद्धोऽपि तरुणायते ३३
श्वदंष्ट्रेक्षुरमाषात्मगुप्ता बीजशतावरीः
पिबन्क्षीरेण जीर्णोऽपि गच्छति प्रमदाशतम् ३४
यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्धनम्
मनसो हर्षणं यच्च तत्सर्वं वृष्यमुच्यते ३५
द्र व्यैरेवंविधैस्तस्माद्दर्पितः प्रमदां व्रजेत्
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः ३६
सेव्याः सर्वेन्द्रि यसुखा धर्मकल्पद्रुमाङ्कुराः
विषयातिशयाः पञ्च शराः कुसुमधन्वनः ३७
इष्टा ह्येकैकशोऽप्यर्था हर्षप्रीतिकराः परम्
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः ३८
नामापि यस्या हृदयोत्सवाय
यां पश्यतां तृप्तिरनाप्तपूर्वा
सर्वेन्द्रि या कर्षणपाशभूता
कान्तानुवृत्तिव्रतदीक्षिता या ३९
कलाविलासाङ्ग वयोविभूषा
शुचिः सलज्जा रहसि प्रगल्भा
प्रियंवदा तुल्यमनःशया या
सा स्त्री वृषत्वाय परं नरस्य ४०
आचरेच्च सकलां रतिचर्यांकामसूत्रविहितामनवद्याम्
देशकालबलशक्त्यनुरोधाद्वैद्यतन्त्रसमयोक्त्यविरुद्धाम् ४१
अभ्यञ्जनोद्वर्तनसेकगन्धस्रक्चित्रवस्त्रा भरणप्रकाराः
गान्धर्वकाव्यादिकथाप्रवीणाःसमस्वभावावशगावयस्याः ४२
दीर्घिका स्वभवनान्तनिविष्टापद्मरेणु मधुमत्तविहङ्गा
नीलसानुगिरिकूटनितम्बे काननानि पुरकण्ठगतानि ४३
दृष्टिसुखा विविधा तरुजातिःश्रोत्रसुखः कलकोकिलनादः
अङ्गसुखर्तुवशेन विभूषाचित्तसुखः सकलः परिवारः ४४
ताम्बूलमच्छमदिरा कान्ता कान्ता निशा शशाङ्काङ्का
यद्यच्च किञ्चिदिष्टंमनसो वाजीकरं तत्तत् ४५
मधु मुखमिव सोत्पलं प्रियायाः
कलरणना परिवादिनी प्रियेव
कुसुमचयमनोरमा च शय्या
किसलयिनी लतिकेव पुष्पिताग्रा ४६
देशे शरीरे च न काचिदर्ति
रर्थेषु नाल्पोऽपि मनोविघातः
वाजीकराः सन्निहिताश्च योगाः
कामस्य कामं परिपूरयन्ति ४७
मुस्तापर्पटकं ज्वरे तृषि जलं मृद्भृष्टलोष्टोद्भवं
लाजाश्छर्दिषु बस्तिजेषु गिरिजंमेहेषु धात्रीनिशे
पाण्डौ श्रेष्ठमयोऽभयाऽनिलकफे प्लीहामये पिप्पली
सन्धाने कृमिजा विषे शुकतरुर्मेदोनिले गुग्गुलुः ४८
वृषोऽस्रपित्ते कुटजोऽतिसारे
भल्लातकोऽशसु गरेषु हेम
स्थूलेषु तार्क्ष्यं क्रिमिषु कृमिघ्नं
शोषे सुरा च्छागपयोऽथ मांसम् ४९
अक्ष्यामयेषु त्रिफला गुडूची
वातास्ररोगेमथितं ग्रहण्याम्
कुष्ठेषु सेव्यः खदिरस्य सारः
सर्वेषु रोगेषु शिलाह्वयं च ५०
उन्मादं घृतमनवं शोकं मद्यं व्यपस्मृतिं ब्राह्मी
निद्रा नाशं क्षीरं जयतिरसाला प्रतिश्यायम् ५१
मांसं कार्श्यं लशुनः प्रभञ्जनं स्तब्धगात्रतां स्वेदः
गुडमञ्जर्याः खपुरो नस्यात् स्कन्धांसबाहुरुजम् ५२
नवनीतखण्डमर्दितमौष्ट्रं मूत्रं पयश्च हन्त्युदरम्
नस्यं मूर्धविकारान् विद्र धिमचिरोत्थमस्रविस्रावः ५३
नस्यं कवलो मुखजान् नस्याञ्जनतर्पणानि नेत्ररुजः
वृद्धत्वं क्षीरघृते मूर्च्छां शीताम्बुमारुतच्छायाः ५४
समशुक्तार्द्र कमात्रा मन्दे वह्नौ श्रमे सुरा स्नानम्
दुःखसहत्वे स्थैर्ये व्यायामो गोक्षुरुर्हितः कृच्छ्रे ५५
कासे निदिग्धिका पार्श्वशूले पुष्करजा जटा
वयसः स्थापने धात्री त्रिफला गुग्गुलुर्व्रणे ५६
बस्तिर्वातविकारान्पैत्तान् रेकः कफोद्भवान् वमनम्
क्षौद्रं जयति बलासंसर्पिः पित्तं समीरणं तैलम् ५७
इत्यग्र्यं यत्प्रोक्तं रोगाणामौषधं शमायालम्
तद्देशकालबलतो विकल्पनीयं यथायोगम् ५८
इत्यात्रेयादागमय्यार्थसूत्रंतत्सूक्तानां पेशलानामतृप्तः
भेडादीनां सम्मतो भक्तिनम्रः पप्रच्छेदं संशया नोऽग्नि वेशः५९
दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः
द्र व्योपस्थातृसम्पन्ना वृद्धवैद्यमतानुगाः ६०
क्षीयमाणामयप्राणा विपरीतास्तथाऽपरे
हिताहितविभागस्य फलं तस्मादनिश्चितम् ६१
किं शास्ति शास्त्रमस्मि
न्निति कल्पयतोऽग्निवेशमुख्यस्य
शिष्यगणस्य पुनर्वसु
राचख्यौ कार्स्त्न्यतस्तत्त्वम् ६२
न चिकित्साऽचिकित्सा च तुल्या भवितुमर्हति
विनाऽपि क्रियया स्वास्थ्यं गच्छतां षोडशांशया ६३
आतङ्कपङ्कमग्नानां हस्तालम्बो भिषग्जितम्
जीवितं म्रियमाणानां सर्वेषामेव नौषधात् ६४
न ह्युपायमपेक्षन्ते सर्वे रोगा न चान्यथा
उपायसाध्याः सिध्यन्ति नाहेतुर्हेतुमान् यतः ६५
यदुक्तं सर्वसम्पत्तियुक्तयाऽपि चिकित्सया
मृत्युर्भवति तन्नैवं नोपायेऽस्त्यनुपायता ६६
अपि चोपाययुक्तस्य धीमतो जातुचित् क्रिया
न सिध्येद्दैववैगुण्यान्न त्वियं षोडशात्मिका ६७
कस्यासिद्धोऽग्नितोयादिः स्वेदस्तम्भादिकर्मणि
न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम् ६८
कस्य माषात्मगुप्तादौ वृष्यत्वे नास्ति निश्चयः
विण्मूत्रकरणाक्षेपौ कस्य संशयितौ यवे ६९
विषं कस्य जरां याति मन्त्रतन्त्रविवर्जितम्
कः प्राप्तः कल्यतां पथ्यादृते रोहिणिकादिषु ७०
अपि चाकालमरणं सर्वसिद्धान्तनिश्चितम्
महताऽपि प्रयत्नेन वार्यतां कथमन्यथा ७१
चन्दनाद्यपि दाहादौ रूढमागमपूर्वकम्
शास्त्रादेव गतं सिद्धिं ज्वरे लङ्घनबृंहणम् ७२
चतुष्पाद्गुणसम्पन्ने सम्यगालोच्य योजिते
मा कृथा व्याधिनिर्घातं विचिकित्सां चिकित्सिते ७३
एतद्धि मृत्युपाशानामकाण्डे छेदनं दृढम्
रोगोत्त्रासितभीतानां रक्षासूत्रमसूत्रकम् ७४
एतत्तदमृतं साक्षाज्जगदायासवर्जितम्
याति हालाहलत्वं तु सद्यो दुर्भाजनस्थितम् ७५
अज्ञातशास्त्रसद्भावान् शास्त्रमात्रपरायणान्
त्यजेद्दूराद्भिषक्पाशान् पाशान् वैवस्वतानिव ७६
भिषजां साधुवृत्तानां भद्र मागमशालिनाम्
अभ्यस्तकर्मणां भद्रं भद्रं भद्रा भिलाषिणाम् ७७
इति तन्त्रगुणैर्युक्तं तन्त्रदोषैर्विवर्जितम्
चिकित्साशास्त्रमखिलं व्याप्य यत् परितः स्थितम् ७८
विपुलामलविज्ञान महामुनिमतानुगम्
महासागरगम्भीर सङ्ग्रहार्थोपलक्षणम् ७९
अष्टाङ्गवैद्यक महोदधिमन्थनेन योऽष्टाङ्गसङ्ग्रहमहामृतराशिराप्तः
तस्मादनल्पफल मल्पसमुद्यमानां
प्रीत्यर्थमेतदुदितं पृथगेव तन्त्रम् ८०
इदमागमसिद्धत्वात्प्रत्यक्ष फलदर्शनात्
मन्त्रवत्संप्रयोक्तव्यं न मीमांस्यं कथञ्चन ८१
दीर्घजीवितमारोग्यं धर्ममर्थं सुखं यशः
पाठावबोधानुष्ठानैरधिगच्छत्यतो ध्रुवम् ८२
एतत्पठन् सङ्ग्रहबोधशक्तः
स्वभ्यस्तकर्मा भिषगप्रकम्प्यः
आकम्पयत्यन्य विशालतन्त्र
कृताभियोगान् यदि तन्न चित्रम् ८३
यदि चरकमधीते तद् ध्रुवं सुश्रुतादि
प्रणिगदितगदानां नाममात्रेऽपि बाह्यः
अथ चरकविहीनः प्रक्रियायामखिन्नः
किमिव खलु करोतु व्याधितानां वराकः ८४
अभिनिवेश वशादभियुज्यते
सुभणितेऽपि न यो दृढमूढकः
पठतु यत्नपरः पुरुषायुषं
स खलु वैद्यकमाद्यमनिर्विदः ८५
वाते पित्ते श्लेष्मशान्तौ च पथ्यं
तैलं सर्पिर्माक्षिकं च क्रमेण
एतद् ब्रह्मा भाषतां ब्रह्मजो वा
का निर्मन्त्रे वक्तृभेदोक्तिशक्तिः ८६
अभिधातृवशात् किंवा द्र व्यशक्तिर्विशिष्यते
अतो मत्सरमुत्सृज्य माध्यस्थ्यमवलम्ब्यताम् ८७
ऋषिप्रणीते प्रीतिश्चेन्मुक्त्वा चरकसुश्रुतौ
भेडाद्याः किं न पठ्यन्ते तस्माद्ग्राह्यं सुभाषितम् ८८
हृदयमिव हृदयमेतत्सर्वायुर्वेदवाङ्मयपयोधेः
कृत्वा यच्छुभमाप्तं शुभमस्तुपरं ततो जगतः ८९
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने वाजीकरणविधिर्नाम चत्वारिंशोऽध्यायः ४०
इति वाजीकरणमष्टममङ्गं समाप्तम्
समाप्तं चेदं षष्ठमुत्तरस्थानम्
समाप्तेयमष्टाङ्गहृदयसंहिता
, by ÌchŒrya VŒgbhat, edited by Vaidya Yadunandan Upadhyaya, 1982 edition.
Typed by Radhe Shyam Tiwari, B.A.
Proofread by Anand Upadhyay (M.A.).
Font conversion by Claude Setzer and Ralph Bunker.
Formatted for Maharishi University of Management Vedic Literature Collection.