कल्पसिद्धिस्थान

श्रीमद्वग्भाटविरचिते अष्टाङ्गहृदये
कल्पसिद्धिस्थानम्
प्रथमोऽध्यायः
अथातो वमनकल्पं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
अथ मदनकल्पः
वमने मदनं श्रेष्ठं त्रिवृन्मूलं विरेचने
नित्यमन्यस्य तु व्याधिविशेषेण विशिष्टता १
फलानि नातिपाण्डूनि न चातिहरितान्यपि
आदायाह्नि प्रशस्तर्क्षे मध्ये ग्रीष्मवसन्तयोः २
प्रमृज्य कुशमुत्तोल्यां क्षिप्त्वा वद्ध्वा प्रलेपयेत्
गोमयेनानु मुत्तोलद्यं धान्यमध्ये निधापयेत् ३
मृदुभूतानि मध्विष्टगन्धानि कुशवेष्टनात्
निष्कृष्टानि गतेऽष्टाहे शोषयेत्तान्यथातपे ४
तेषां ततः सुशुष्काणामुद्धृत्य फलपिप्पलद्यः
दधिमध्वाज्यपललैर्मृदित्वा शोषयेत्पुनः ५
ततः सुगुप्तं संस्थाप्य कार्यकाले प्रयोजयेत्
अथादाय ततो मात्रां जर्जरीकृत्य वासयेत् ६
शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले
कर्बुदारस्य बिम्ब्या वा नीपस्य विदुलस्य वा ७
शणपुष्प्याः सदापुष्प्याः प्रत्यक्पुष्प्युदकेऽथवा
ततः पिबेत्कषायं तं प्रातर्मृदितगालितम् ८
सूत्रोदितेन विधिना साधु तेन तथा वमेत्
श्लेष्मज्वरप्रतिश्यायगुल्मान्तर्विद्र धीषु च ९
प्रच्छर्दयेद्विशेषेण यावत्पित्तस्य दर्शनम्
फलपिप्पलिचूर्णं वा क्वाथेन स्वेन भावितम् १०
त्रिभागत्रिफलाचूर्णं कोविदारादिवारिणा
पिबेज्ज्वरारुचिष्ठेव ग्रन्थ्यपच्यर्बुदोदरी ११
पित्ते कफस्थानगते जीमूतादिजलेन तत्
हृद्दाहेऽधोस्रपित्ते च क्षीरं तत्पिप्पलीशृतम् १२
क्षैरेयीं वा कफच्छर्दिप्रसेकतमकेषु तु
दध्युत्तरं वा दधि वा तच्छृतक्षीरसम्भवम् १३
फलादिक्वाथकल्काभ्यां सिद्धं तत्सिद्धदुग्धजम्
सर्पिः कफाभिभूतेऽग्नौ शुष्यद्देहे च वामनम् १४
स्वरसं फलमज्ज्ञो वा भल्लातकविधिशृतम्
आदर्वीलेपनात्सिद्धं लीढ्वा प्रच्छर्दयेत्सुखम् १५
तं लेहं भक्ष्यभोज्येषु तत्कषायांश्च योजयेत्
वत्सकादिप्रतीवापः कषायः फलमज्जजः १६
निम्बार्कान्यतरक्वाथसमायुक्तो नियच्छति
बद्धमूलानपि व्याधीन् सर्वान् सन्तर्पणोद्भवान् १७
राठपुष्पफलश्लक्ष्णचूर्णैर्माल्यं सुरूक्षितम्
वमेन्मण्डरसादीनां तृप्तो जिघ्रन् सुखं सुखी १८
एवमेव फलाभावे कल्प्यं पुष्पं शलाटु वा
इति मदनकल्पः
अथ जीमूतकल्पः
जीमूताद्याश्च फलवत् जीमूतं तु विशेषतः १९
प्रयोक्तव्यं ज्वरश्वासकासहिध्मादिरोगिणाम्
पयः पुष्पेऽस्य निर्वृत्ते फले पेया पयस्कृता २०
लोमशे क्षीरसन्तानं दध्युत्तरमलोमशे
शृते पयसि दध्यम्लं जातं हरितपाण्डुके २१
आसुत्य वारुणीमण्डं पिबेन्मृदितगालितम्
कफादरोचके कासे पाण्डुत्वे राजयक्ष्मणि २२
इयं च कल्पना कार्या तुम्बीकोशातकीष्वपि
पर्यागतानां शुष्काणां फलानां वेणिजन्मनाम् २३
चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत्
द्वे वा त्रीण्यपि वाऽपोथ्य क्वाथे तिक्तोत्तमस्य वा २४
आरग्वधादिनवकादासुत्यान्यतमस्य वा
विमृद्य पूतं तं क्वाथं पित्तश्लेष्मज्वरी पिबेत् २५
जीमूतकल्कं चूर्णं या पिबेच्छीतेन वारिणा
ज्वरे पैत्ते कवोष्णेन कफवातात्कफादपि २६
इति जीमूतकल्पः
अथेक्ष्वाकुकल्पः
कासश्वासविषच्छर्दिज्वरार्ते कफकर्शिते
इक्ष्वाकुर्वमने शस्तः प्रताम्यति च मानवे २७
फलपुष्पविहीनस्य प्रवालैस्तस्य साधितम्
पित्तश्लेष्मज्वरे क्षीरं पित्तोद्रि क्ते प्रयोजयेत् २८
हृतमध्ये फले जीर्णे स्थितं क्षीरं यदा दधि
स्यात्तदा कफजे कासे श्वासे वम्यं च पाययेत् २९
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः
तेन तक्रं विपक्वं वा पिबेत्समधुसैन्धवम् ३०
भावयित्वाऽजदुग्धेन बीजं तेनैव वा पिबेत्
विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च ३१
सक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः
कफोद्भवे ज्वरे कासे गलरोगेष्वरोचके ३२
गुल्मे ज्वरे प्रसक्ते च कल्कं मांसरसैः पिबेत्
नरः साधु वमत्येवं न च दौर्बल्यमश्नुते ३३
तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम्
छर्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः ३४
इतीक्ष्वाकुकल्पः
अथ धामार्गवकल्पः
कासगुल्मोदरगरे वाते श्लेष्माशयस्थिते
कफे च कण्ठवक्त्रस्थे कफसञ्चयजेषु च ३५
धामार्गवो गदेष्विष्टः स्थिरेषु च महत्सु च
जीवकर्षभकौ वीरा कपिकच्छूः शतावरी ३६
काकोली श्रावणी मेदा महामेदा मधूलिका
तद्र जोभिः पृथग्लेहा धामार्गवरजोन्विताः ३७
कासे हृदयदाहे च शस्ता मधुसिताद्रुताः
ते सुखाम्भोनुपानाः स्युः पित्तोष्मसहिते कफे ३८
धान्यतुम्बरुयूषेण कल्कस्तस्य विषापहः
बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा रसे ३९
एकं धामार्गवं द्वे वा मानसे मृदितं पिबेत्
तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः ४०
इति धामार्गवकल्पः
अथ क्ष्वेडकल्पः
क्ष्वेडोऽतिकटुतीक्ष्णोष्णः प्रगाढेषु प्रशस्यते
कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु ४१
पृथक् फलादिषट्कस्य क्वाथे मांसमनूपजम्
कोशातक्या समं सिद्धं तद्र सं लवणं पिबेत् ४२
फलादि पिप्पली तुल्यं सिद्धं क्ष्वेडरसेऽथवा
क्ष्वेडक्वाथं पिबेत्सिद्धं मिश्रमिक्षुरसेन वा ४३
इति क्ष्वेडकल्पः
अथ कुटजफलकल्पः
कौटजं सुकुमारेषु पित्तरक्तकफोदये
ज्वरे विसर्पे हृद्रो गे खुडे कुष्ठे च पूजितम् ४४
सर्षपाणां मधूकानां तोयेन लवणस्य वा
पाययेत्कौटजं बीजं युक्तं कृशरयाऽथवा ४५
सप्ताहं वाऽकदुग्धाक्तं तच्चूर्णं पाययेत्पृथक्
फलजीमूतकेक्ष्वाकुजीवन्तीजीवकोदकैः ४६
इति कुटजफलकल्पः
वमनौषधमुख्यानामिति कल्पदिगीरिता
बीजेनानेन मतिमानन्यान्यपि च कल्पयेत् ४७
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थानेवमनकल्पो नाम प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातो विरेचनकल्पं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
अथ त्रिवृच्छ्यामयोः कल्पः
कषायमधुरा रूक्षा विपाके कटुका त्रिवृत्
कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी १
सेदानीमौषधैर्युक्ता वातपित्तकफापहैः
कल्पवैशेष्यमासाद्य जायते सर्वरोगजित् २
द्विधा ख्यातं च तन्मूलं श्यामं श्यामाऽरुणं त्रिवृत्
त्रिवृदाख्यं वरतरं निरपायं सुखं तयोः ३
सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तद्धितम्
मूर्च्छासम्मोहहृत्कण्ठकषण क्षणनप्रदम् ४
श्यामं तीक्ष्णाशुकारित्वादतस्तदपि शस्यते
क्रूरे कोष्ठे बहौ दोषे क्लेशक्षमिणि चातुरे ५
गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत्
गृहीत्वा विसृजेत्काष्ठं त्वचं शुष्कां निधापयेत् ६
अथ काले ततश्चूर्णं किञ्चिन्नागरसैन्धवम्
वातामये पिबेदम्लैः पैत्ते साज्यसितामधु ७
क्षीरद्रा क्षेक्षुकाश्मर्य स्वादुस्कन्धवरारसैः
कफामये पीलुरसमूत्रमद्याम्लकाञ्जिकैः ८
पञ्चकोलादिचूर्णैश्च युक्त्या युक्तं कफापहैः
त्रिवृत्कल्ककषायाभ्यां साधितः ससितो हिमः ९
मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम्
अजगन्धा तवक्षीरी विदारी शर्करा त्रिवृत् १०
चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते
सन्निपातज्वरस्तम्भपिपासादाहपीडितः ११
लिम्पेदन्तस्त्रिवृतया द्विधाकृत्वेक्षुगण्डिकाम्
एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत् १२
भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा
चूर्णं फलरसक्षौद्र सक्तुभिस्तर्पणं पिबेत् १३
वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च
नरेषु सुकुमारेषु निरपायं विरेचनम् १४
विडङ्गतण्डुलवरायावशूककणास्त्रिवृत्
सर्वतोऽधेन तल्लीढं मध्वाज्येन गुडेन वा १५
गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्
कफवातकृतांश्चान्यान् परिमार्ष्टि गदान् बहून् १६
विडङ्गपिप्पलीमूल त्रिफलाधान्यचित्रकान्
मरीचेन्द्र यवाजाजीपिप्पलीहस्तिपिप्पलद्यः १७
दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक्
तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ १८
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान्
पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः १९
कुष्ठार्शःकामलागुल्म मेहोदरभगन्दरान्
ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः २०
गुडः कल्याणको नाम सर्वेष्वृतुषु यौगिकः
व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत् २१
सर्वैः समा समसिता क्षौद्रे ण गुटिकाः कृताः
मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये २२
तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ताः सर्वविषेषु च
अविपत्तिरयं योगः प्रशस्तः पित्तरोगिणाम् २३
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्
क्षौद्र द्रा क्षारसोपेतं वर्षाकाले विरेचनम् २४
त्रिवृद्दुरालभामुस्त शर्करोदीच्यचन्दनम्
द्रा क्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये २५
त्रिवृतां चित्रकं पाठामजार्जी सरलं वचाम्
स्वर्णक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत् २६
त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम्
त्रिवृत्त्रायन्तिहपुषासातला कटुरोहिणीः २७
स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत्त्र्यहम्
एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत् २८
श्यामात्रिवृद्दुरालम्भाहस्ति पिप्पलिवत्सकम्
नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम् २९
रसाज्योष्णाम्बुभिः शस्तं रूक्षाणामपि सर्वदा
इति त्रिवृच्छ्यामयोः कल्पः
अथ राजवृक्षकल्पः
ज्वरहृद्रो गवातासृ गुदावर्तादिरोगिषु ३०
राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः
वाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे ३१
योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः
फलकाले परिणतं फलं तस्य समाहरेत् ३२
तेषां गुणवतां भारं सिकतासु विनिक्षिपेत्
सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः ३३
ततो मज्जानमुद्धृत्य शुचौ पात्रे निधापयेत्
द्रा क्षारसेन तं दद्याद्दाहोदावर्तपीडिते ३४
चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके
चतुरङ्गुलमज्ज्ञो वा कषायं पाययेद्धिमम् ३५
दधिमण्डसुरामण्डधात्रीफलरसैः पृथक्
सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा ३६
दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत्
तमरिष्टं स्थितं मासं पाययेत् पक्षमेव वा ३७
इति राजवृक्षकल्पः
अथ तिल्वककल्पः
त्वचं तिल्वकमूलस्य त्यक्त्वाऽभ्यन्तरवल्कलम्
विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत्ततः ३८
रोध्रस्यैव कषायेण तृतीयं तेन भावयेत्
कषाये दशमूलस्य तं भागं भावितं पुनः ३९
शुष्कं चूर्णं पुनः कृत्वा ततः पाणितलं पिबेत्
मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः ४०
तिल्वकस्य कषायेण कल्केन च सशर्करः
सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम् ४१
इति तिल्वकल्पः
अथ सुधाकल्पः
सुधा भिनत्ति दोषाणां महान्तमपि सञ्चयम्
आश्वेव कष्ठविभ्रंशान्नैव तां कल्पयेदतः ४२
मृदौ कोष्ठेऽबले बाले स्थविरे दीर्घरोगिणि
कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु ४३
पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि
सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता ४४
द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः
तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः ४५
बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः
मिश्रयित्वा सुधाक्षीरं ततोऽङ्गारेषु शोषयेत् ४६
पिबेत्कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः
त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम् ४७
सप्ताहं स्नुक्पयः पीतान् रसेनाज्येन वा पिबेत्
तद्वद्व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना ४८
इति सुधाकल्पः
अथ शङ्खिनीसप्तलयोः कल्पः
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्
सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी ४९
श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत्
अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम् ५०
हृद्रो गे वातकफजे तद्वद्गुल्मेऽपि योजयेत्
इति शङ्खिनीसप्तलयोः कल्पः
अथ दन्तीद्र वन्त्योः कल्पः
दन्तिदन्तस्थिरं स्थूलं मूलं दन्तीद्र वन्तिजम् ५१
आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाशि च
गुरु प्रकोपि वातस्य पित्तश्लेष्मविलायनम् ५२
तत्क्षौद्र पिप्पलीलिप्तं स्वेद्यं मृद्दर्भवेष्टितम्
शोष्यं मन्दातपेऽग्न्यर्कौ हतो ह्यस्य विकाशिताम् ५३
तत्पिबेन्मस्तु मदिरातक्रपीलुरसासवैः
अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी ५४
गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी
सिद्धं तत्क्वाथकल्काभ्यां दशमूलरसेन च ५५
विसर्पविद्र ध्यलजीकक्षादाहान् जयेद्घृतम्
तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान् ५६
महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः
इति दन्तीद्र वन्त्योः कल्पः
विरेचने मुख्यतमा नवैते त्रिवृतादयः ५७
अथ हरीतकीकल्पः
हरीतकीमपि त्रिवृद्विधानेनोपकल्पयेत्
गुडस्याष्टपले पथ्याविंशतिः स्यात्पलं पलम् ५८
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश
प्रकल्प्य मोदकानेकं दशमे दशमेऽहनि ५९
उष्णाम्भोऽनुपिबेत्खादेत्तान् सर्वान्विधिनाऽमुना
एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः ६०
विशेषाद्ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः
इति हरीतकीकल्पः
अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम् ६१
कुर्यात्संश्लेषविश्लेषकालसंस्कारयुक्तिभिः ६१॥१२
त्वक्केसराम्रात कदाडिमैला
सितोपलामाक्षि कमातुलुङ्गैः
मद्येन तैस्तैश्च मनोनुकूलै
र्युक्तानि देयानि विरेचनानि ६२॥१२
इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थानेविरेचनकल्पो नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथातो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
वमनं मृदुकोष्ठेन क्षुद्वताऽल्पकफेन वा
अतितीक्ष्णहिमस्तोकमजीर्णे दुर्बलेन वा १
पीतं प्रयात्यधस्तस्मिन्निष्टहानिर्मलोदयः
वामयेत्तं पुनः स्निग्धं स्मरन् पूर्वमतिक्रमम् २
अजीर्णिनः श्लेष्मवतो व्रजत्यूर्ध्वं विरेचनम्
अतितीक्ष्णोष्णलवणमहृद्यमतिभूरि वा ३
तत्र पूर्वोदिता व्यापत्सिद्धिश्च न तथाऽपि चेत्
आशये तिष्ठति ततस्तृतीयं नावचारयेत् ४
अन्यत्र सात्म्याद्धृद्याद्वा भेषजान्निरपायतः
अस्निग्धस्विन्नदेहस्य पुराणं रूक्षमौषधम् ५
दोषानुत्क्लेश्य निर्हतुमशक्तं जनयेद्गदान्
विभ्रंशं श्वयथुं हिध्मां तमसो दर्शनं तृषम् ६
पिण्डीकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम्
स्निग्धस्विन्नस्य वाऽत्यल्पं दीप्ताग्नेर्जीर्णमौषधम् ७
शीतैर्वा स्तब्धमामे वा समुत्क्लेश्याहरन्मलान्
तानेव जनयेद्रो गानयोगः सर्व एव सः ८
तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करैः
निरूढं जाङ्गलरसैर्भोजयित्वाऽनुवासयेत् ९
फलमागधिकादारुसिद्धतैलेन मात्रया
स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत् १०
बहुदोषस्य रूक्षस्य मन्दाग्नेरल्पमौषधम्
सोदावर्तस्य चोत्क्लेश्य दोषान् मार्गान् निरुध्य तैः ११
भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्
श्वासं विण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम् १२
अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्
उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते १३
पञ्चमूल यवक्षार वचाभूतिकसैन्धवैः
यवागूः सुकृता शूलविबन्धानाहनाशनी १४
पिप्पलीदाडिमक्षारहिङ्गु शुण्ठ्यम्लवेतसान्
ससैन्धवान् पिबेन्मद्यैः सर्पिषोष्णोदकेन वा १५
प्रवाहिकापरिस्राव वेदनापरिकर्तने
पीतौषधस्य वेगानां निग्रहान्मारुतादयः १६
कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम्
हिध्मापार्श्वरुजाकासदैन्यलालाक्षिविभ्रमैः १७
जिह्वां खादति निःसंज्ञो दन्तान् कटकटाययन्
न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक् १८
मधुरैः पित्तमूर्च्छार्तं कटुभिः कफमूर्च्छितम्
पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत् १९
कायाग्निं च बलं चास्य क्रमेणाभिप्रवर्धयेत्
पवनेनातिवमतो हृदयं यस्य पीड्यते २०
तस्मै स्निग्धाम्ललवणान् दद्यात्पित्तकफेऽन्यथा
पीतौषधस्य वेगानां निग्रहेण कफेन वा २१
रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः
स्तम्भवेपथुनिस्तोद सादोद्वेष्टार्तिभेदनैः २२
तत्र वातहरं सर्वं स्नेहस्वेदादि शस्यते
बहुतीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम् २३
हृत्वाऽशु विट्पित्तकफान् धातूनास्रावयेद्द्र वान्
तत्रातियोगे मधुरैः शेषमौषधमुल्लिखेत् २४
योज्योऽति वमने रेको विरेके वमनं मृदु
परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तम् २५
अञ्जनं चन्दनोशीरमजासृक्शर्करोदकम्
लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम् २६
वमनस्यातियोगे तु शीताम्बुपरिषेचितः
पिबेत्फलरसैर्मन्थं सघृतक्षौद्र शर्करम् २७
सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः
समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम् २८
वमतोऽन्त प्रविष्टायां जिह्वायां कवलग्रहाः
स्निग्धाम्ललवणा हृद्या यूषमांसरसा हिताः २९
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः
निःसृतां तु तिलद्रा क्षाकल्कलिप्तां प्रवेशयेत् ३०
वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम्
यवागूं तनुकां दद्यात्स्नेहस्वेदौ च कालवित् ३१
अतियोगाच्च भैषज्यं जीवं हरति शोणितम्
तज्जीवादानमित्युक्तमादत्ते जीवितं यतः ३२
शुने काकाय वा दद्यात्तेनान्नमसृजा सह
भुक्तेऽभुक्ते वदेज्जीवं पित्तं वा भेषजेरितम् ३३
शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा
प्रक्षालितं विवर्णं स्यात्पित्ते शुद्धं तु शोणिते ३४
तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात्क्रियाम्
रक्तपित्तातिसारघ्नीं तस्याशु प्राणरक्षणीम् ३५
मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्
पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति ३६
तदेव दर्भमृदितं रक्तं बस्तौ निषेचयेत्
श्यामाकाश्मर्यमधुकदूर्वोशीरैः शृतं पयः ३७
घृतमण्डाञ्जनयुतं बस्तिं वा योजयेद्धिमम्
पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम् ३८
गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्
विसंज्ञं श्रावयेत्सामवेणुगीतादिनिस्वनम् ३९
इतिश्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमेकल्पसिद्धिस्थाने
वमनविरेचनव्यापत्सिद्धिर्नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातो बस्तिकल्पं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
बलां गुडूचीं त्रिफलां सरास्नांद्विपञ्चमूलं च पलोन्मितानि
अष्टौ फलान्यर्धतुलां च मांसाच्छागात्पचेदप्सु चतुर्थशेषम् १ पूतो यवानीफलबिल्वकुष्ठ-वचाशताह्वाघनपिप्पलीनाम्
कल्कैर्गुडक्षौद्र घृतैः सतैलै-र्युक्तःसुखोष्णो लवणान्वितश्च २
बस्तिः परं सर्वगदप्रमाथी स्वस्थे हितो जीवनबृंहणश्च
बस्तौ च यस्मिन् पठितो न कल्कः सर्वत्र दद्यादमुमेव तत्र ३
द्विपञ्चमूलस्य रसेऽम्लयुक्तः सच्छागमांसस्य सपूर्व पेष्यः
त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः ४
बलापटोलीलघुपञ्चमूल त्रायन्तिकैरण्डयवात्सुसिद्धात्
प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमः स यावत् ५
प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च
स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः ६
एरण्डमूलात्त्रिपलं पलाशात्तथा पलांशं लघुपञ्चमूलम्
रास्नाबलाछिन्नरुहाश्वगन्धापुनर्नवारग्वधदेवदारु ७
फलानि चाष्टौ सलिलाढकाभ्यां विपाचयेदष्टमशेषितेऽस्मिन्
वचाशताह्वाहपुषाप्रियङ्गुयष्टीकणावत्सकबीजमुस्तम् ८
दद्यात्सुपिष्टं सहतार्क्ष्यशैलमक्षप्रमाणं लवणांशयुक्तम्
समाक्षिकस्तैलयुतः समूत्रो बस्तिर्जयेल्लेखनदीपनोऽसौ ९
जङ्घोरुपादत्रिकपृष्ठकोष्ठहृद्गुह्यशूलं गुरुतां विबन्धम्
गुल्माश्मवर्ध्मग्रहणीगुदोत्थांस्तांस्तांश्चरोगान्कफवातजातान् १०
यष्ट्याह्वरोध्राभयचन्दनैश्च शृतं पयोऽग्र्य कमलोत्पलैश्च
सशर्कराक्षौद्र घृतं सुशीतं पित्तामयान् हन्ति सजीवनीयम् ११
रास्नां वृषं लोहितिकामनन्तां बलां कनीयस्तृणपञ्चमूल्यौ
गोपाङ्गनाचन्दनपद्मकर्द्धियष्ट्याह्वरोध्राणि पलार्धकानि १२
निःक्वाथ्य तोयेन रसेन तेन शृतं पयोऽधाढकमम्बुहीनम्
जीवन्तिमेदर्द्धिवरीविदारीवीराद्विकाकोलिकसेरुकाभिः १३
सितोपलाजीवकपद्मरेणुप्रपौण्डरी कोत्पलपुण्डरीकैः
रोध्रात्मगुप्तामधुयष्टिकाभिर्नागाह्व मुञ्जातकचन्दनैश्च १४
पिष्टैर्घृतक्षौद्र युतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्
प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात्परिषिक्तगात्रः १५
दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च
सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति १६
कोशातकारग्वधदेवदारुमूर्वाश्व दंष्ट्राकुटजार्कपाठाः
पक्त्वा कुलत्थान् बृहतीं च तोयेरसस्य तस्य प्रसृता दश स्युः १७
तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्
क्षौद्र स्य तैलस्य फलाह्वयस्य क्षारस्यतैलस्य च सार्षपस्य १८
दद्यान्निरूहं कफरोगिताय मन्दाग्नये चाशनविद्विषे च
वक्ष्ये मृदून् स्नेहकृतो निरूहान् सुखोचितानां प्रसृतैः पृथक् तु १९
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक् २०
क्षीराद् द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः
खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत् २१
एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्र सर्पिषाम्
बिल्वादिमूलक्वाथाद्द्वौकौलत्थाद्द्वौ सवातजित् २२
पटोलनिम्बभूतीकरास्ना सप्तच्छदाम्भसः
प्रसृतः पृथगाज्याच्च बस्तिः सर्षपकल्कवान् २३
स पञ्चतिक्तोऽभिष्यन्दकृमिकुष्ठप्रमेहहा
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात् २४
प्रसृताः सर्षपैः पिष्टैर्विट्सङ्गानाहभेदनः
पयस्येक्षुस्थिरारास्नाविदारीक्षौद्र सर्पिषाम् २५
एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्
सिद्धबस्तीनतो वक्ष्ये सर्वदा यान् प्रयोजयेत् २६
निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान्
मधुतैले समे कर्षः सैन्धवाद्द्विपिचुर्मिसिः २७
एरण्डमूलक्वाथेन निरूहो माधुतैलिकः
रसायनं प्रमेहार्शःकृमिगुल्मान्त्रवृद्धिनुत् २८
सयष्टिमधुकश्चैष चक्षुष्यो रक्तपित्तजित्
यापनो घनकल्केन मधुतैलरसाज्यवान् २९
पायुजानूरुवृषणबस्तिमेहनशूलजित्
प्रसृतांशैर्घृतक्षौद्र वसातैलैः प्रकल्पयेत् ३०
यापनं सैन्धवार्धाक्षहपुषार्धपलान्वितम्
एरण्डमूलनिःक्वाथो मधुतैलं ससैन्धवम् ३१
एष युक्तरथो बस्तिः सवचापिप्पलीफलः
स क्वाथो मधुषड्ग्रन्थाशताह्वाहिङ्गुसैन्धवम् ३२
सुरदारु च रास्ना च बस्तिर्दोषहरः शिवः
पञ्चमूलस्य निःक्वाथस्तैलं मागधिका मधु ३३
ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः
द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत् ३४
गोमूत्रेतेन पिष्टैश्च पाठावत्सकतोयदैः
सफलैः क्षौद्र तैलाभ्यां क्षारेण लवणेन च ३५
युक्तो बस्तिः कफव्याधिपाण्डुरोगविषूचिषु
शुक्रानिलविबन्धेषु बस्त्याटोपे च पूजितः ३६
मुस्तापाठाऽमृतैरण्डबलारास्ना पुनर्नवाः
मञ्जिष्ठारग्वधोशीरत्रायमाणाक्षरोहिणीः ३७
कनीयः पञ्चमूलं च पालिकं मदनाष्टकम्
जलाढके पचेत्तच्च पादशेषं परिस्रुतम् ३८
क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत्
सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः ३९
पिष्टैर्यष्टिमिसिश्यामा कलिङ्गकरसाञ्जनैः
बस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्द्धनः ४०
वातासृङ्मोहमेहार्शोगुल्मविण्मूत्रसङ्ग्रहान्
विषमज्वरवीसर्पवर्ध्माध्मान प्रवाहिकाः ४१
वङ्क्षणोरुकटीकुक्षिमन्या श्रोत्रशिरोरुजः
हन्यादसृग्दरोन्मादशोफकासाश्मकुण्डलान् ४२
चक्षुष्यः पुत्रदो राजा यापनानां रसायनम्
मृगाणां लघुवद्राणां दशमूलस्य चाम्भसा ४३
हपुषामिसिगाङ्गेयीकल्कैर्वातहरः परम्
निरूहोऽत्यर्थवृष्यश्च महास्नेहसमन्वितः ४४
मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम्
लघुना पञ्चमूलेन पालिकेन समन्वितम् ४५
पक्त्वा क्षीरजले क्षीरशेषं सघृतमाक्षिकम्
तद्विदारीकणायष्टिशताह्वाफलकल्कवत् ४६
बस्तिरीषत्पटुयुतः परमं बलशुक्रकृत्
कल्पनेयं पृथक् कार्या तित्तिरिप्रभृतिष्वपि ४७
विष्किरेषु समस्तेषु प्रतुदप्रसहेषु च
जलचारिषु तद्वच्च मत्स्येषु क्षीरवर्जिता ४८
गोधानकुलमार्जारशल्यकोन्दुरजं पलम्
पृथक् दशपलं क्षीरे पञ्चमूलं च साधयेत् ४९
तत्पयः फलवैदेहीकल्कद्विलवणान्वितम्
ससितातैलमध्वाज्यो बस्तिर्योज्यो रसायनम् ५०
व्यायाममथितोरस्कक्षीणेन्द्रि य बलौजसाम्
विबद्धशुक्रविण्मूत्रखुडवात विकारिणाम् ५१
गजवाजिरथक्षोभभग्न जर्जरितात्मनाम्
पुनर्नवत्वं कुरुते वाजीकरणमुत्तमम् ५२
सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः
स्नेहाश्चायन्त्रणान् सिद्धान् सिद्धद्र व्यैः प्रकल्पयेत् ५३
दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहबस्तयः
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम् ५४
गुडूच्यैरण्डभूतीकभार्गी वृषकरोहिषम्
शतावरीं सहचरं काकनासां पलांशकम् ५५
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्
वहे विपाच्य तोयस्य द्रो णशेषेण तेन च ५६
पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः
अनुवासनमित्येतत्सर्व वातविकारनुत् ५७
आनूपानां वसा तद्वज्जीवनीयोपसाधिता
शताह्वाचिरिबिल्वाम्लैस्तैलं सिद्धं समीरणे ५८
सैन्धवेनाग्निवर्णेन तप्तं चानिलजिद् घृतम्
जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम् ५९
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्
स्वगुप्तां क्षीरकाकोलद्यं कर्कटाख्यां शठीं वचाम् ६०
पिष्ट्वा तैलघृतं क्षीरे साधयेत्तच्चतुर्गुणे
बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम् ६१
रजःशुक्रामयहरं पुत्रीयं चानुवासनम्
सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा ६२
ह्रीबेरं मधुकं भार्गी देवदारु सकट्फलम्
नागरं पुष्करं मेदा चविका चित्रकः शठी ६३
विडङ्गातिविषे श्यामा हरेणुर्नीलिनी स्थिरा
बिल्वाजमोदचपला दन्ती रास्ना च तैः समैः ६४
साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत्
वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान् ६५
आनाहमश्मरीं चाशु हन्यात्तदनुवासनम्
साधितं पञ्चमूलेन तैलं बिल्वादिनाऽथवा ६६
कफघ्नं कल्पयेत्तैलं द्र व्यैर्वा कफघातिभिः
फलैरष्टगुणैश्चाम्लैः सिद्धमन्वासनं कफे ६७
मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते
तीक्ष्णैर्विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः ६८
तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः
प्राप्तकालं विधातव्यं क्षीराज्याद्यैस्तु मार्दवम् ६९
बलकालरोगदोषप्रकृतीः प्रविभज्य योजितो बस्तिः
स्वैः स्वैरौषधवर्गैः स्वान् स्वान् रोगान्निवर्तयति ७०
उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च
तद्योग्यौषधयुक्तान् बस्तीन् संतर्क्य युञ्जीत ७१
बस्तीन्न बृंहणीयान् दद्याद्व्याधिषु विशोधनीयेषु
मेदस्विनो विशोध्या ये च नराः कुष्ठमेहार्ताः ७२
न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कशुद्धदेहानाम्
दद्याद्विशोधनीयान् दोषनिबद्धायुषो ये च ७३
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थानेबस्तिकल्पो नाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः
शीतोऽल्पस्नेहलवणद्र व्यमात्रो घनोऽपि वा १
बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्
करोत्ययोगं तेन स्याद्वातमूत्रशकृद्ग्रहः २
नाभिबस्तिरुजा दाहो हृल्लेपः श्वयथुर्गुदे
कण्डूर्गण्डानि वैवर्ण्यमरतिर्वह्निमार्दवम् ३
क्वाथद्वयं प्राग्विहितं मध्यदोषेऽतिसारिणि
उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते ४
फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम्
बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान् ५
सुरादिमूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्
युक्तोऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशयेऽथवा ६
बस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात्समीरणम्
स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम् ७
विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम्
रुणद्धि हृदयं शूलैरितश्चेतश्च धावति ८
स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत्
बिल्वादिश्च निरूहः स्यात्पीलुसर्षपमूत्रवान् ९
सरलामरदारुभ्यां साधितं चानुवासनम्
कुर्वतो वेगसंरोधं पीडितो वाऽतिमात्रया १०
अस्निग्धलवणोष्णो वा बस्तिरल्पोऽल्पभेषजः
मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात् ११
निरेति मूर्च्छाहृल्लासतृड्दाहादीन् प्रवर्तयन्
मूर्च्छाविकारं दृष्ट्वाऽस्य सिञ्चेच्छीताम्बुना मुखम् १२
व्यजेदाक्लमनाशाच्च प्राणायामं च कारयेत्
पृष्ठपार्श्वोदरं मृज्यात् करैरुष्णैरधोमुखम् १३
केशेषूत्क्षिप्य धुन्वीत भीषयेद्व्यालदंष्ट्रिभिः
शस्त्रोल्काराजपुरुषैर्बस्तिरेति तथा ह्यधः १४
पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते तथा
प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः १५
अपानः पवनो बस्तिं तमाश्वेवापकर्षति
कुष्ठक्रमुककल्कं च पाययेताम्लसंयुतम् १६
औष्ण्यात्तैक्ष्ण्यात्सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत्
गोमूत्रेण त्रिवृत्पथ्याकल्कं वाऽधोनुलोमनम् १७
पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः
यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः १८
बस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः
पूतीकरञ्जत्वक्पत्रशठी देवाह्वरोहिषैः १९
सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान्
बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते २०
शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः
बस्तिरत्युष्णतीक्ष्णाम्लघनोऽतिस्वेदितस्य वा २१
अल्पे दोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः
अतियोगत्वमापन्नो भवेत्कुक्षिरुजाकरः २२
विरेचनातियोगेन स तुल्याकृतिसाधनः
बस्तिः क्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा २३
गुदं दहन् लिखन् क्षिण्वन् करोत्यस्य परिस्रवम्
स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः २४
बहुशश्चातिवेगेन मोहं गच्छति सोऽसकृत्
रक्तपित्तातिसारघ्नी क्रिया तत्र प्रशस्यते २५
दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्
तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकान् जयेत् २६
विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम्
युञ्ज्याद्वाऽतिविरिक्तस्य क्षीणविट्कस्य भोजनम् २७
माषयूषेण कुल्माषान् पानं दध्यथवा सुराम्
सिद्धिर्बस्त्यापदामेवं स्नेहबस्तेस्तु वक्ष्यते २८
शीतोऽल्पो वाऽधिकेवाते पित्तेऽत्युष्णः कफे मृदुः
अतिभुक्ते गुरुर्वर्चः सञ्चयेऽल्पबलस्तथा २९
दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि
स्तम्भोरुसदनाध्मानज्वर शूलाङ्गमर्दनैः ३०
पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम्
स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः ३१
सौवीरकसुराकोलकुलत्थ यवसाधितैः
निरूहैर्निर्हरेत्सम्यक् समूत्रैः पाञ्चमूलिकैः ३२
ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्
तृड्दाहरागसम्मोहवैवर्ण्य तमकज्वरैः ३३
विद्यात्पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्
तन्द्रा शीतज्वरालस्यप्रसेका रुचिगौरवैः ३४
सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्
कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः ३५
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्
छर्दिमूर्च्छारुचिग्लानि शूलनिद्रा ङ्गमर्दनैः ३६
आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्
कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम् ३७
मृदुर्विरेकः सर्वं च तत्रामविहितं हितम्
विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः ३८
स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः
श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः ३९
निर्हरेद्विधिना सम्यगुदावर्तहरेण च
अभुक्ते शूनपायौ वा पेयामात्राशितस्य वा ४०
गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः
ऊर्ध्वं कायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि ४१
मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्
तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः ४२
कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः
छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निबर्हणम् ४३
नापक्वं प्रणयेत्स्नेहं गुदं स ह्युपलिम्पति
ततः कुर्यात्सरुङ्मोहकण्डूशोफान् क्रियाऽत्र च ४४
तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम्
अनुच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा ४५
प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्
तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च ४६
द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा
स्यात् कटीगुदजङ्घोरुबस्तिस्तम्भार्तिभेदनम् ४७
भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सबस्तयः
पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः ४८
उरःशिरोरुजं सादमूर्वोश्च जनयेद्बली
बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान् ४९
अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्
तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च ५०
वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम्
यथाऽण्ड तरुणं पूर्णं तैलपात्रं यथा तथा ५१
भिषक् प्रयत्नतो रक्षेत्सर्वस्मादपचारतः
दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ ५२
स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः
अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः ५३
व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्
सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः ५४
इतिश्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने
बस्तिव्यापत्सिद्धिर्नाम पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथातो द्र व्यकल्पं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
धन्वे साधारणे देशे समे सन्मृत्तिके शुचौ
श्मशानचैत्यायतनश्वभ्र वल्मीकवर्जिते १
मृदौ प्रदक्षिणजले कुशरोहिषसंस्तृते
अफालकृष्टेऽनाक्रान्ते पादपैर्बलवत्तरैः २
शस्यते भेषजं जातं युक्तं वर्णरसादिभिः
जन्त्वजग्धं दवादग्धमविदग्धं च वैकृतैः ३
भूतैश्छायातपाम्ब्वाद्यैर्यथाकालं च सेवितम्
अवगाढमहामूलमुदीचीं दिशमाश्रितम् ४
मिहेन्द्र रामकृष्णानां ब्राह्मणानां गवामपि
तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै १
मन्त्रेणानेन मतिमान् सर्वमप्यौषधं नयेत्
अथ कल्याणचरितः श्राद्धः शुचिरुपोषितः
गृह्णीयादौषधं सुस्थं स्थितं काले च कल्पयेत् ५
सक्षीरं तदसम्पत्तावनतिक्रान्तवत्सरम्
ऋते गुडघृतक्षौद्र धान्यकृष्णाविडङ्गतः ६
पयो बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम्
वयोबलवतां धातुपिच्छशृङ्गखुरादिकम् ७
कषाययोनयः पञ्च रसा लवणवर्जिताः
रसः कल्कः शृतः शीतः फाण्टश्चेति प्रकल्पना ८
पञ्चधैव कषायाणां पूर्वं पूर्वं बलाधिका
सद्यःसमुद्धृतात् क्षुण्णाद्यः स्रवेत्पटपीडितात् ९
स्वरसः स समुद्दिष्टः कल्कः पिष्टो द्र वाप्लुतः
चूर्णोऽप्लुतः शृतः क्वाथः शीतो रात्रिं द्र वे स्थितः १०
सद्योऽभिषुतपूतस्तु फाण्टस्तन्मानकल्पने
युञ्ज्याद्व्याध्यादिबलतस्तथा च वचनं मुनेः ११
मात्राया न व्यवस्थाऽस्ति व्याधिं कोष्ठं बलं वयः
आलोच्य देशकालौ च योज्या तद्वच्च कल्पना १२
मध्यं तु मानं निर्दिष्टं स्वरसस्य चतुष्पलम्
पेष्यस्य कर्षमालोड्यं तद् द्र वस्य पलत्रये १३
क्वाथं द्र व्यपले कुर्यात्प्रस्थार्धं पादशेषितम्
शीतं पले पलैः षड्भिश्चतुर्भिस्तु ततोऽपरम् १४
स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम्
कल्कस्नेहद्र वं योज्यमधीते शौनकः पुनः १५
स्नेहे सिद्ध्यति शुद्धाम्बुनिःक्वाथस्वरसैः क्रमात्
कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम् १६
पृथक् स्नेहसमं दद्यात्पञ्चप्रभृति तु द्र वम्
नाङ्गुलिग्राहिता कल्के न स्नेहेऽग्नौ सशब्दता १७
वर्णादिसम्पच्च यदा तदैनं शीघ्रमाहरेत्
घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः १८
लेहस्य तन्तुमत्ताऽप्सु मज्जनं सरणं न च
पाकस्तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः १९
मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे
किञ्चित्सीदति कृष्णे च वर्त्यमाने च पश्चिमः २०
दग्धोऽत ऊर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत्
मृदुर्नस्ये खरोऽभ्यङ्गे पाने बस्तौ च चिक्कणः २१
शाणं पाणितलं मुष्टिं कुडवं प्रस्थमाढकम्
द्रो णं वहं च क्रमशो विजानीयाच्चतुर्गुणम् २२
द्विगुणं योजयेदार्द्रं कुडवादि तथा द्रवम्
पेषणालोडने वारि स्नेहपाके च निर्द्र वे २३
कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम्
कल्कीकुर्याच्च भैषज्यमनिरूपितकल्पनम् २४
अङ्गानुक्तौ तु मूलं स्यादप्रसिद्धौ तदेव तु
षिड्वंश्यस्तु मरीची स्यात् षण्मरीच्यस्तु सर्पषः
तण्डुलः सर्षषास्त्वष्टौ धान्यमाषस्तु तौ यवः १
तावण्डिका चतुर्भिस्तैर्माषकः शाणकस्तथा
द्वौ शाणौ वटकः कोलं बदरं द्रं क्षणश्च तौ २५
अक्षं पिचुः पाणितलं सुवर्णं कवलग्रहः
कर्षो बिडालपदकं तिन्दुकः पाणिमानिका २६
शब्दान्यत्वमभिन्नेऽथे शुक्तिरष्टमिका पिचू
पलं प्रकुञ्चो बिल्वं च मुष्टिराम्रं चतुर्थिका २७
द्वे पले प्रसृतस्तौ द्वावञ्जलिस्तौ तु मानिका
आढकं भाजनं कंसोद्रो णः कुम्भो घटोऽमणम् २८
तुला पलशतं तानि विंशतिर्भार उच्यते
हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा २९
सौम्यं पथ्यं च तत्राद्यमाग्नेयं वैन्ध्यमौषधम् २९॥१२
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थानेद्र व्यकल्पो नाम षष्ठोऽध्यायः ६
कल्प सिद्धि स्थानम् समाप्तम्

, by ÌchŒrya VŒgbhat, edited by Vaidya Yadunandan Upadhyaya, 1982 edition.
Typed by Radhe Shyam Tiwari, B.A.
Proofread by Anand Upadhyay (M.A.).
Font conversion by Claude Setzer and Ralph Bunker.
Formatted for Maharishi University of Management Vedic Literature Collection.