सांख्यदर्शनम्

प्रथमोऽध्यायः
अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः १
न दृष्टात्तत्सिद्धिर्निवृत्तेरप्यनुवृत्तिदर्शनात् २
प्रात्यहिकक्षुत्प्रतीकारवत्तत्प्रतीकारचेष्टनात्पुरुषार्थत्वम् ३
सर्वासम्भवात्सम्भवेऽपि सत्त्वासम्भवाद्धेयः प्रमाणकुशलैः ४
उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः ५
अविशेषश्चोभयोः ६
न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः ७
स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम् ८
नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः ९
शुक्लपटवद्बीजवच्चेत् १०
शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः ११
न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् १२
न देशयोगतोऽप्यस्मात् १३
नावस्थातो देहधर्मत्वात्तस्याः १४
असङ्गोऽयं पुरुष इति १५
न कर्मणान्यधर्मत्वादतिप्रसक्तेश्च १६
विचित्रभोगानुपपत्तिरन्यधर्मत्वे १७
प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यम् १८
न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते १९
नाविद्यातोऽप्यवस्तुना बन्धायोगात् २०
वस्तुत्वे सिद्धान्तहानिः २१
विजातीयद्वैतापत्तिश्च २२
विरुद्धोभयरूपा चेत् २३
न तादृक्पदार्थाप्रतीतेः २४
न वयं षट्पदार्थवादिनो वैशेषिकादिवत् २५
अनयितत्वेऽपि नायौक्तिकस्य संग्रहोऽन्यथा बालोन्मत्तादिसमत्वम् २६
नानादिविषयोपरागनिमित्तकोऽप्यस्य २७
न बाह्याभ्यन्तरयोरुपरज्योपरञ्जकभावोऽपि देशव्यवधानाच्छ्रुघ्नस्थपाटलिपुत्रस्थयोरिव २८
द्वयोरेकदेशलब्धोपरागान्न व्यवस्था २९
अदृष्टवशाच्चेत् ३०
न द्वयोरेककालायोगादुपकार्योपकारकभावः ३१
पुत्रकर्मवदिति चेत् ३२
नास्ति हि तत्र स्थिर एकात्मा यो गर्भाधानादिना संस्क्रियेत ३३
स्थिरकार्यासिद्धेः क्षणिकत्वम् ३४
न प्रत्यभिज्ञाबाधात् ३५
श्रुतिन्यायविरोधाच्च ३६
दृष्टान्तासिद्धेश्च ३७
युगपज्जायमानयोर्न कार्यकारणभावः ३८
पूर्वापाय उत्तरायोगात् ३९
तद्भावे तदयोगादुभयव्यभिचारादपि न ४०
पूर्वभावमात्रे न नियमः ४१
न विज्ञानमात्रं बाह्यप्रतीतेः ४२
तदभावे तदभावाच्छून्यं तर्हि ४३
शून्यं तत्त्वं भावो विनश्यति वस्तुधर्मत्वाद्विनाशस्य ४४
अपवादमात्रमबुद्धानाम् ४५
उभयपक्षसमानक्षमत्वादयमपि ४६
अपुरुषार्थत्वमुभयथा ४७
न गतिविशेषात् ४८
निष्क्रियस्य तदसम्भवात् ४९
मूर्त्तत्वाद्घटादिवत्समानधर्मापत्तावपसिद्धान्तः ५०
गतिश्रुतिरप्युपाधियोगादाकाशवत् ५१
न कर्मणाप्यतद्धर्मत्वात् ५२
अतिप्रसक्तिरन्यधर्मत्वे ५३
निर्गुणादिश्रुतिविरोधश्चेति ५४
तद्योगोऽप्यविवेकान्न समानत्वम् ५५
विपर्ययाद्बन्धः ५६-१
नियतकारणात्तदुच्छित्तिर्ध्वान्तवत् ५६-२
प्रधानाविवेकादन्याविवेकस्य तद्धाने हानम् ५७
वाङ्मात्रं न तु तत्त्वं चित्तस्थितेः ५८
युक्तितोऽपि न बाध्यते दिङ्मूढवदपरोक्षादृते ५९
अचाक्षुषाणामनुमानेन बोधो धूमादिभिरिव वह्नेः ६०
सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान्महतोऽहंकारोऽहंकारात्पञ्च तन्मात्राण्युभयमिन्द्रियं तन्मात्रेभ्यः स्थूलभूतानि पुरुष इति पञ्चविंशतिर्गणः ६१
स्थूलात्पञ्चतन्मात्रस्य ६२
बाह्याभ्यन्तराभ्यां तैश्चाहंकारस्य ६३
तेनान्तःकरणस्य ६४
ततः प्रकृतेः ६५
संहतपरार्थत्वात्पुरुषस्य ६६
मूले मूलाभावादमूलं मूलम् ६७
पारम्पर्येऽप्येकत्र परिनिष्ठेति संज्ञामात्रम् ६८
समानः प्रकृतेर्द्वयोः ६९
अधिकारित्रैविध्यान्न नियमः ७०
महदाख्यमाद्यं कार्यं तन्मनः ७१
चरमोऽहंकारः ७२
तत्कार्यत्वमुत्तरेषाम् ७३
आद्यहेतुता तद्द्वारा पारम्पर्येऽप्यणुवत् ७४
पूर्वभावित्वे द्वयोरेकतरस्य हानेऽन्यतरयोगः ७५
परिच्छिन्नं न सर्वोपादानम् ७६
तदुत्पत्तिश्रुतेश्च ७७
नावस्तुनो वस्तुसिद्धिः ७८
अबाधाददुष्टकारणजन्यत्वाच्च नावस्तुत्वम् ७९
भावे तद्योगेन तत्सिद्धिरभावे तदभावात्कुतस्तरां तत्सिद्धिः ८०
न कर्मण उपादानायोगात् ८१
नानुश्रविकादपि तत्सिद्धिः साध्यत्वेनावृत्तियोगादपुरुषार्थत्वम् ८२
तत्र प्राप्तविवेकस्यानावृत्तिश्रुतिः ८३
दुःखाद्दुःखं जलाभिषेकवन्न जाड्यविमोकः ८४
काम्येऽकाम्येऽपि साध्यत्वाविशेषात् ८५
निजमुक्तस्य बन्धध्वंसमात्रं परं न समानत्वम् ८६
द्वयोरेकतरस्य वाप्यसंनिकृष्टार्थपरिच्छित्तिः प्रमा तत्साधकतमं यत्तत् ८७
त्रिविधं प्रमाणं तत्सिद्धौ सर्वसिद्धेर्नाधिक्यसिद्धिः ८८
यत्सम्बद्धं सत्तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षम् ८९
योगिनामबाह्यप्रत्यक्षत्वान्न दोषः ९०
लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः ९१
ईश्वरासिद्धेः ९२
मुक्तबद्धयोरन्यतराभावान्न तत्सिद्धिः ९३
उभयथाप्यसत्करत्वम् ९४
मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा ९५
तत्संनिधानादधिष्ठातृत्वं मणिवत् ९६
विशेषकार्येष्वपि जीवानाम् ९७
सिद्धरूपबोद्धृत्वाद्वाक्यार्थोपदेशः ९८
अन्तःकरणस्य तदुज्ज्वलितत्वाल्लोहवदधिष्ठातृत्वम् ९९
प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानम् १००
आप्तोपदेशः शब्दः १०१
उभयसिद्धिः प्रमाणात्तदुपदेशः १०२
सामान्यतो दृष्टादुभयसिद्धिः १०३
चिदवसानो भोगः १०४
अकर्तुरपि फलोपभोगोऽन्नाद्यवत् १०५
अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः १०६
नोभयं च तत्त्वाख्याने १०७
विषयोऽविषयोऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य १०८
सौक्ष्म्यात्तदनुपलब्धिः १०९
कार्यदर्शनात्तदुपलब्धेः ११०
वादिविप्रतिपत्तेस्तदसिद्धिरिति चेत् १११
तथाप्येकतरदृष्ट्यैकतरसिद्धेर्नापलापः ११२
त्रिविधविरोधापत्तेः ११३
नासदुत्पादो नृशृङ्गवत् ११४
उपादाननियमात् ११५
सर्वत्र सर्वदा सर्वासम्भवात् ११६
शक्तस्य शक्यकरणात् ११७
कारणभावाच्च ११८
न भावे भावयोगश्चेत् ११९
नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ १२०
नाशः कारणलयः १२१
पारम्पर्यतोऽन्वेषणाद्बीजान्नरवत् १२२
उत्पत्तिवद्वादोषः १२३
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् १२४
आञ्जस्यादभेदतो वा गुणसामान्यादेस्तत्सिद्धिः प्रधानव्यपदेशाद्वा १२५
त्रिगुणाचेतनत्वादि द्वयोः १२६
प्रीत्यप्रीतिविषादाद्यैर्गुणानामन्योन्यं वैधर्म्यम् १२७
लघ्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं गुणानाम् १२८
उभयान्यत्वात्कार्यत्वं महदादेर्घटादिवत् १२९
परिमाणात् १३०
समन्वयात् १३१
शक्तितश्चेति १३२
तद्धाने प्रकृतिः पुरुषो वा १३३
तयोरन्यत्वे तुच्छत्वम् १३४
कार्यात्कारणानुमानं तत्साहित्यात् १३५
अव्यक्तं त्रिगुणाल्लिङ्गात् १३६
तत्कार्यतस्तत्सिद्धेर्नापलापः १३७
सामान्येन विवादाभावाद्धर्मवन्न साधनम् १३८
शरीरादिव्यतिरिक्तः पुमान् १३९
संहतपरार्थत्वात् १४०
त्रिगुणादिविपर्ययात् १४१
अधिष्ठानाच्चेति १४२
भोक्तृभावात् १४३
कैवल्यार्थं प्रवृत्तेः १४४
जडप्रकाशायोगात्प्रकाशः १४५
निर्गुणत्वान्न चिद्धर्मा १४६
श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबाधात् १४७
सुषुप्त्याद्यसाक्षित्वम् १४८
जन्मादिव्यवस्थातः पुरुषबहुत्वम् १४९
उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव घटादिभिः १५०
उपाधिर्भिद्यते न तु तद्वान् १५१
एवमेकत्वेन परिवर्तमानस्य न विरुद्धधर्माध्यासः १५२
अन्यधर्मत्वेऽपि नारोपात्तत्सिद्धिरेकत्वात् १५३
नाद्वैतश्रुतिविरोधो जातिपरत्वात् १५४
विदितबन्धकारणस्य दृष्ट्या तद्रूपम् १५५
नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः १५६
वामदेवादिर्मुक्तो नाद्वैतम् १५७
अनादावद्य यावदभावाद्भविष्यदप्येवम् १५८
इदानीमिव सर्वत्र नात्यन्तोच्छेदः १५९
व्यावृत्तोभयरूपः १६०
अक्षसम्बन्धात्साक्षित्वम् १६१
नित्यमुक्तत्वम् १६२
औदासीन्यं चेति १६३
उपरागात्कर्तृत्वं
चित्सांनिध्याच्चित्सांनिध्यात् १६४
इति प्रथमोऽध्यायः

द्वितीयोऽध्यायः
विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य १
विरक्तस्य तत्सिद्धेः २
न श्रवणमात्रात्तत्सिद्धिरनादिवासनाया बलवत्त्वात् ३
बहुभृत्यवद्वा प्रत्येकम् ३
प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः ४
कार्यतस्तत्सिद्धेः ५
चेतनोद्देशान्नियमः कण्टकमोक्षवत् ६
अन्ययोगेऽपि तत्सिद्धिर्नाञ्जस्येनायोदाहवत् ७
रागविरागयोर्योगः सृष्टिः ८
महदादिक्रमेण पञ्चभूतानाम् ९
आत्मार्थत्वात्सृष्टेर्नैषामात्मार्थ आरम्भः १०
दिक्कालावाकाशादिभ्यः ११
अध्यवसायो बुद्धिः १२
तत्कार्यं धर्मादिः १३
महदुपरागाद्विपरीतम् १४
अभिमानोऽहंकारः १५
एकादशपञ्चतन्मात्रं तत्कार्यम् १६
सात्त्विकमेकादशकं प्रवर्तते वैकृतादहंकारात् १७
कर्मेन्द्रियबुद्धीन्द्रियैरान्तरमेकादशकम् १८
आहङ्कारिकत्वश्रुतेर्न भौतिकानि १९
देवतालयश्रुतिर्नारम्भकस्य २०
तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च २१
अतीन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठाने २२
शक्तिभेदेऽपि भेदसिद्धौ नैकत्वम् २३
न कल्पनाविरोधः प्रमाणदृष्टस्य २४
उभयात्मकं मनः २५
गुणपरिणामभेदान्नानात्वमवस्थावत् १६
रूपादिरसमलान्त उभयोः २७
द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणाम् २८
त्रयाणां स्वालक्षण्यम् २९
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ३०
क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः ३१
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ३२
तन्निवृत्तावुपशान्तोपरागः स्वस्थः ३३
कुसुमवच्च मणिः ३४
पुरुषार्थं करणोद्भवोऽप्यदृष्ठोल्लासात् ३५
धेनुवद्वत्साय ३६
करणं त्रयोदशविधमवान्तरभेदात् ३७
इन्द्रियेषु साधकतमत्वगुणयोगात्कुठारवत् ३८
द्वयोः प्रधानं मनो लोकवद्भृत्यवर्गेषु ३९
अव्यभिचारात् ४०
तथाशेषसंस्काराधारत्वात् ४१
स्मृत्यानुमानाच्च ४२
सम्भवेन्न स्वतः ४३
आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् ४४
तत्कर्मार्जितत्वात्तदर्थमभिचेष्टा लोकवत् ४५
समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् ४६
इति द्वितीयोऽध्यायः

तृतीयोऽध्यायः
अविशेषाद्विशेषारम्भः १
तस्माच्छरीरस्य २
तद्बीजात्संसृतिः ३
आविवेकाच्च प्रवर्तनमविशेषाणाम् ४
उपभोगादितरस्य ५
सम्प्रति परिमुक्तो द्वाभ्याम् ६
मातापितृजं स्थूलं प्रायश इतरन्न तथा ७
पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य ८
सप्तदशैकं लिङ्गम् ९
व्यक्तिभेदः कर्मविशेषात् १०
तदधिष्ठानाश्रये देहे तद्वादात्तद्वादः ११
न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च १२
मूर्तत्वेऽपि न संघातयोगात्तरणिवत् १३
अनुपरिमाणं तत्कृतिश्रुतेः १४
तदन्नमयत्वश्रुतेश्च १५
पुरुषार्थं संसृतिर्लिङ्गानां सूपकारवद्राज्ञः १६
पाञ्चभौतिको देहः १७
चातुर्भौतिकमित्येके १८
ऐकभौतिकमित्यपरे १९
न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः २०
प्रपञ्चमरणाद्यभावश्च २१
मदशक्तिवच्चेत्प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः २२
ज्ञानान्मुक्तिः २३
बन्धो विपर्ययात् २४
नियतकारणत्वान्न समुच्चयविकल्पौ २५
स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य २६
इतरस्यापि नात्यन्तिकम् २७
संकल्पितेऽप्येवम् २८
भावनोपचयाच्छुद्धस्य सर्वं प्रकृतिवत् २९
रागोपहतिर्ध्यानम् ३०
वृत्तिनिरोधात्तत्सिद्धिः ३१
धारणासनस्वकर्मणा तत्सिद्धिः ३२
निरोधश्छर्दिविधारणाभ्याम् ३३
स्थिरसुखमासनम् ३४
स्वकर्म स्वाश्रमविहितकर्मानुष्ठानम् ३५
वैराग्यादभ्यासाच्च ३६
विपर्ययभेदाः पञ्च ३७
अशक्तिरष्टाविंशतिधा तु ३८
तुष्टिर्नवधा ३९
सिद्धिरष्टधा ४०
अवान्तरभेदाः पूर्ववत् ४१
एवमितरस्याः ४३
आध्यात्मिकादिभेदान्नवधा तुष्टिः ४४
ऊहादिभिः सिद्धिः ४५
नेतरादितरहानेन विना ४६
दैवादिप्रभेदा ४७
आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिराविवेकात् ४८
ऊर्ध्वं सत्त्वविशाला ४९
तमोविशाला मूलतः ५०
मध्ये रजोविशाला ५१
कर्मवैचित्र्यात्प्रधानचेष्टा गर्भदासवत् ५२
आवृत्तिस्तत्राप्युत्तरोत्तरयोनियोगाद्धेयः ५३
समानं जरामरणादिजं दुःखम् ५४
न कारणलयात्कृतकृत्यता मग्नवदुत्थानात् ५५
अकार्यत्वेऽपि तद्योगः पारवश्यात् ५६
स हि सर्ववित्सर्वकर्ता ५७
ईदृशेश्वरसिद्धिः सिद्धा ५८
प्रधानसृष्टिः परार्थं स्वतोऽप्यभोक्तृत्वादुष्ट्रकुन्नमवहनवत् ५९
अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य ६०
कर्मवद्दृष्टेर्वा कालादेः ६१
स्वभावाच्चेष्टितमनभिसंधानाद्भृत्यवत् ६२
कर्माकृष्टेर्वानादितः ६३
विविक्तबोधात्सृष्टिनिवृत्तिः प्रधानस्य सूदवत्पाके ६४
इतर इतरवत्तद्दोषात् ६५
द्वयोरेकतरस्य वौदासीन्यमपवर्गः ६६
अन्यसृष्ट्युपरागेऽपि न विरज्यते प्रबुद्धरज्जुतत्त्वस्यैवोरगः ६७
कर्मनिमित्तयोगाच्च ६८
नैरपेक्ष्येऽपि प्रकृत्युपकारेऽविवेको निमित्तम् ६९
नर्तकीवत्प्रवृत्तस्यापि निवृत्तिश्चारितार्थ्यात् ७०
दोषबोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् ७१
नैकान्ततो बन्धमोक्षौ पुरुषस्याविवेकादृते ७२
प्रकृतेराञ्जस्यात्ससङ्गत्वात्पशुवत् ७३
रूपैः सप्तभिरात्मानं बध्नाति प्राधानं कोशकारवद्विमोचयत्येकरूपेण ७४
निमित्तत्वमविवेकस्य न दृष्टहानिः ७५
तत्त्वाभ्यासान्नेति नेतीति त्यागाद्विवेकसिद्धिः ७६
अधिकारिप्रभेदान्न नियमः ७७
बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः ७८
जीवन्मुक्तश्च ७९
उपदेश्योपदेष्टृत्वात्तत्सिद्धिः ८०
श्रुतिश्च ८१
इतरथान्धपरम्परा ८२
चक्रभ्रमणवद्धृतशरीरः ८३
संस्कारलेशतस्तत्सिद्धिः ८४
विवेकान्निःशेषदुःखनिवृत्तौ कृतकृत्यता नेतरान्नेतरात् ८५
इति तृतीयोऽध्यायः

चतुर्थोऽध्यायः
राजपुत्रवत्तत्त्वोपदेशात् १
पिशाचवदन्यार्थोपदेशेऽपि २
आवृत्तिरसकृदुपदेशात् ३
पितापुत्रवदुभयोर्दृष्टत्वात् ४
श्येनवत्सुखदुःखी त्यागवियोगाभ्याम् ५
अहिनिर्व्लयनीवत् ६
छिन्नहस्तवद्वा ७
असाधनानुचिन्तनं बन्धाय भरतवत् ८
बहुभिर्योगे विरोधो रागादिभिः कुमारीशङ्खवत् ९
द्वाभ्यामपि तथैव १०
निराशः सुखी पिङ्गलावत् ११
अनारम्भेऽपि परगृहे सुखी सर्पवत् १२
बहुशास्त्रगुरूपासनेऽपि सारादानं षट्पदवत् १३
इषुकारवन्नैकचित्तस्य समाधिहानिः १४
कृतनियमलङ्घनादानर्थक्यं लोकवत् १५
तद्विस्मरणेऽपि भेकीवत् १६
नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते विरोचनवत् १७
दृष्टस्तयोरिन्द्रस्य १८
प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिर्बहुकालात्तद्वत् १९
न कालनियमो वामदेववत् २०
अध्यस्तरूपोपासनात्पारम्पर्येण यज्ञोपासकानामिव २१
इतरलाभेऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः २२
विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् २३
लब्धातिशययोगाद्वा तद्वत् २४
न कामचारित्वं रागोपहते शुकवत् २५
गुणयोगाद्बद्धः शुकवत् २६
न भोगाद्रागशान्तिर्मुनिवत् २७
दोषदर्शनादुभयोः २८
न मलिनचेतस्युपदेशबीजप्ररोहोऽजवत् २९
नाभासमात्रमपि मलिनदर्पणवत् ३०
न तज्जस्यापि तद्रूपता पङ्कजवत् ३१
न भूतियोगेऽपि कृतकृत्यतोपास्यसिद्धिवदुपास्यसिद्धिवत् ३२
इति चतुर्थोऽध्यायः

पञ्चमोऽध्यायः
मङ्गलाचरणं शिष्टाचारात्फलदर्शनाच्छ्रुतितश्चेति १
नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः २
स्वोपकारादधिष्ठानं लोकवत् ३
लौकिकेश्वरवदितरथा ४
पारिभाषिको वा ५
न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् ६
तद्योगेऽपि न नित्यमुक्तः ७
प्रधानशक्तियोगाच्चेत्सङ्गापत्तिः ८
सत्तामात्राच्चेत्सर्वैश्वर्यम् ९
प्रमाणाभावान्न तत्सिद्धिः १०
सम्बन्धाभावान्नानुमानम् ११
श्रुतिरपि प्रधानकार्यत्वस्य १२
नाविद्याशक्तियोगो निःसङ्गस्य १३
तद्योगे तत्सिद्धावन्योन्याश्रयत्वम् १४
न बीजान्नरवत्सादिसंसारश्रुतेः १५
विद्यातोऽन्यत्वे ब्रह्मबाधप्रसङ्गः १६
अबाधे नैष्फल्यम् १७
विद्याबाध्यत्वे जगतोऽप्येवम् १८
तद्रूपत्वे सादित्वम् १९
न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् २०
श्रुतिलिङ्गादिभिस्तत्सिद्धिः २१
न नियमः प्रमाणान्तरावकाशात् २२
उभयत्राप्येवम् २३
अर्थात्सिद्धिश्चेत्समानमुभयोः २४
अन्तःकरणधर्मत्वं धर्मादीनाम् २५
गुणादीनां च नात्यन्तबाधः २६
पञ्चावयवयोगात्सुखसंवित्तिः २७
न सकृद्ग्रहणात्सम्बन्धसिद्धिः २८
नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः २९
न तत्त्वान्तरं वस्तुकल्पनाप्रसक्तेः ३०
निजशक्त्युद्भवमित्याचार्याः ३१
आधेयशक्तियोग इति पञ्चशिखः ३२
न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः ३३
विशेषणानर्थक्यप्रसक्तेः ३४
पल्लवादिष्वनुपपत्तेश्च ३५
आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् ३६
वाच्यवाचकभावः सम्बन्धः शब्दार्थयोः ३७
त्रिभिः सम्बन्धसिद्धिः ३८
न कार्ये नियम उभयथा दर्शनात् ३९
लोके व्युत्पन्नस्य वेदार्थप्रतीतिः ४०
न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्यातीन्द्रियत्वात् ४१
न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् ४२
निजशक्तिर्व्युत्पत्त्या व्यवच्छिद्यते ४३
योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः ४४
न नित्यत्वं वेदानां कार्यत्वश्रुतेः ४५
न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् ४६
मुक्तामुक्तयोरयोग्यत्वात् ४७
नापौरुषेयत्वान्नित्यत्वमन्नरादिवत् ४८
तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः ४९
यस्मिन्नदृष्टेऽपि कृतबुद्धिरुपजायते तत्पौरुषेयम् ५०
निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यम् ५१
नासतः ख्यानं नृशृङ्गवत् ५२
न सतो बाधदर्शनात् ५३
नानिर्वचनीयस्य तदभावात् ५४
नान्यथाख्यातिः स्ववचोव्याघातात् ५५
सदसत्ख्यातिर्बाधाबाधात् ५६
प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः ५७
न शब्दनित्यत्वं कार्यताप्रतीतेः ५८
पूर्वसिद्धसत्त्वस्याभिव्यक्तिर्दीपेनेव घटस्य ५९
सत्कार्यसिद्धान्तश्चेत्सिद्धसाधनम् ६०
नाद्वैतमात्मनो लिङ्गात्तद्भेदप्रतीतेः ६१
नानात्मनापि प्रत्यक्षबाधात् ६२
नोभाभ्यां तेनैव ६३
अन्यपरत्वमविवेकानां तत्र ६४
नात्माविद्या नोभयं जगदुपादानकारणं निःसङ्गत्वात् ६५
नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् ६६
दुःखनिवृत्तेर्गौणः ६७
विमुक्तिप्रशंसा मन्दानाम् ६८
न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा ६९
सक्रियत्वाद्गतिश्रुतेः ७०
न निर्भागत्वं तद्योगाद्घटवत् ७१
प्रकृतिपुरुषयोरन्यत्सर्वमनित्यम् ७२
न भागलाभो भागिनः निर्भागत्वश्रुतेः ७३
नानन्दाभिव्यक्तिर्मुक्तिर्निर्धर्मत्वात् ७४
न विशेषगुणोच्छित्तिस्तद्वत् ७५
न विशेषगतिर्निष्क्रियस्य ७६
नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् ७७
न सर्वोच्छित्तिरपुरुषार्थत्वादिदोषात् ७८
एवं शून्यमपि ७९
संयोगाश्च वियोगान्ता इति न देशादिलाभोऽपि ८०
न भागियोगो भागस्य ८१
नाणिमादियोगोऽप्यवश्यम्भावित्वात्तदुच्छित्तेरितरयोगवत् ८२
नेन्द्रादिपदयोगोऽपि तद्वत् ८३
न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः ८४
न षट्पदार्थनियमस्तद्बोधान्मुक्तिः ८५
षोडशादिष्वप्येवम् ८६
नाणुनित्यता तत्कार्यत्वश्रुतेः ८७
न निर्भागत्वं कार्यत्वात् ८८
न रूपनिबन्धनात्प्रत्यक्षनियमः ८९
न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् ९०
अनित्यत्वेऽपि स्थिरतायोगात्प्रत्यभिज्ञानं सामान्यस्य ९१
न तदपलापस्तस्मात् ९२
नान्यनिवृत्तिरूपत्वं भावप्रतीतेः ९३
न तत्त्वान्तरं सादृश्यं प्रत्यक्षोपलब्धेः ९४
निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः ९५
न संज्ञासंज्ञिसम्बन्धोऽपि ९६
न सम्बन्धनित्यतोभयानित्यत्वात् ९७
नाजः सम्बन्धो धर्मिग्राहकमानबाधात् ९८
न समवायोऽस्ति प्रमाणाभावात् ९९
उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा १००
नानुमेयत्वमेव क्रियाया नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः १०१
न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् १०२
न स्थूलमिति नियम आतिवाहिकस्यापि विद्यमानत्वात् १०३
नाप्राप्तप्रकाशकत्वमिन्द्रियाणामप्राप्तेः सर्वप्राप्तेर्वा १०४
न तेजोऽपसर्पणात्तैजसं चक्षुर्वृत्तितस्तत्सिद्धेः १०५
प्राप्तार्थप्रकाशलिङ्गाद्वृत्तिसिद्धिः १०६
भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति १०७
न द्रव्यनियमस्तद्योगात् १०८
न देशभेदेऽप्यन्योपादानतास्मदादिवन्नियमः १०९
निमित्तव्यपदेशात्तद्व्यपदेशः ११०
ऊष्मजाण्डजजरायुजोद्भिज्जसांकल्पिकसांसिद्धिकं चेति न नियमः १११
सर्वेषु पृथिव्युपादानमसाधारण्यात्तद्व्यपदेशः पूर्ववत् ११२
न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः ११३
भोक्तुरधिष्ठानाद्भोगायतननिर्माणमन्यथा पूतिभावप्रसङ्गात् ११४
भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्तात् ११५
समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता ११६
द्वयोः सबीजमन्यत्र तद्धतिः ११७
द्वयोरिव त्रयस्यापि दृष्टत्वान्न तु द्वौ ११८
वासनयानर्थख्यापनं दोषयोगेऽपि न निमित्तस्य प्रधानबाधकत्वम् ११९
एकः संस्कारः क्रियानिर्वर्तको न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः १२०
न बाह्यबुद्धिनियमो वृक्षगुल्मलतौषधिवनस्पतितृणवीरुधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् १२१
स्मृतेश्च १२२
न देहमात्रतः कर्माधिकारित्वं वैशिष्ट्यश्रुतेः १२३
त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः १२४
न किं चिदप्यनुशयिनः १२५
न बुद्ध्यादिनित्यत्वमाश्रयविशेषेऽपि वह्निवत् १२६
आश्रयासिद्धेश्च १२७
योगसिद्धयोऽप्यौषधादिसिद्धिवन्नापलपनीयाः १२८
न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्येऽपि च सांहत्येऽपि च १२९
इति पञ्चमोऽध्यायः

षष्ठोऽध्यायः
अस्त्यात्मा नास्तित्वसाधनाभावात् १
देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् २
षष्ठीव्यपदेशादपि ३
न शिलापुत्रवद्धर्मिग्राहकमानबाधात् ४
अत्यन्तदुःखनिवृत्त्या कृतकृत्यता ५
यथा दुःखात्क्लेशः पुरुषस्य न तथा सुखादभिलाषः ६
कुत्रापि कोऽपि सुखीति ७
तदपि दुःखशबलमिति दुःखपक्षे निःक्षिपन्ते विवेचकाः ८
सुखलाभाभावादपुरुषार्थत्वमिति चेन्न द्वैविध्यात् ९
निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः १०
परधर्मत्वेऽपि तत्सिद्धिरविवेकात् ११
अनादिरविवेकोऽन्यथा दोषद्वयप्रसक्तेः १२
न नित्यः स्यादात्मवदन्यथानुच्छित्तिः १३
प्रतिनियतकारणनाश्यत्वमस्य ध्वान्तवत् १४
अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात् १५
प्रकारान्तरासम्भवादविवेक एव बन्धः १६
न मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्तिश्रुतेः १७
अपुरुषार्थत्वमन्यथा १८
अविशेषापत्तिरुभयोः १९
मुक्तिरन्तरायध्वस्तेर्न परः २०
तत्राप्यविरोधः २१
अधिकारित्रैविध्यान्न नियमः २२
दार्ढ्यार्थमुत्तरेषाम् २३
स्थिरसुखमासनमिति न नियमः २४
ध्यानं निर्विषयं मनः २५
उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः २६
निःसङ्गेऽप्युपरागोऽविवेकात् २७
जपास्फटिकयोरिव नोपरागः किं त्वभिमानः २८
ध्यानधारणाभ्यासवैराग्यादिभिस्तन्निरोधः २९
लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः ३०
न स्थाननियमश्चित्तप्रसादात् ३१
प्रकृतेराद्योपादानतान्येषां कार्यत्वश्रुतेः ३२
नित्यत्वेऽपि नात्मनो योग्यत्वाभावात् ३३
श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः ३४
पारम्पर्येऽपि प्रधानानुवृत्तिरणुवत् ३५
सर्वत्र कार्यदर्शनाद्विभुत्वम् ३६
गतियोगेऽप्याद्यकारणताहानिरणुवत् ३७
प्रसिद्धाधिक्यं प्रधानस्य न नियमः ३८
सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् ३९
अनुपभोगेऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुन्नमवहनवत् ४०
कर्मवैचित्र्यात्सृष्टिवैचित्र्यम् ४१
साम्यवैषम्याभ्यां कार्यद्वयम् ४२
विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् ४३
नान्योपसर्पणेऽपि मुक्तोपभोगो निमित्ताभावात् ४४
पुरुषबहुत्वं व्यवस्थातः ४५
उपाधिश्चेत्तत्सिद्धौ पुनर्द्वैतम् ४६
द्वाभ्यामपि प्रमाणविरोधः ४७
द्वाभ्यामप्यविरोधान्न पूर्वमुत्तरं च साधकाभावात् ४८
प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः ४९
जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः ५०
न श्रुतिविरोधो रागिणां वैराग्याय तत्सिद्धेः ५१
जगत्सत्यत्वमदुष्टकारणजन्यत्वाद्बाधकाभावात् ५२
प्रकारान्तरासम्भवात्सदुत्पत्तिः ५३
अहंकारः कर्ता न पुरुषः ५४
चिदवसाना भुक्तिस्तत्कर्मार्जितत्वात् ५५
चन्द्रादिलोकेऽप्यावृत्तिर्निमित्तसद्भावात् ५६
लोकस्य नोपदेशात्सिद्धिः पूर्ववत् ५७
पारम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः ५८
गतिश्रुतेश्च व्यापकत्वेऽप्युपाधियोगाद्भोगदेशकाललाभो व्योमवत् ५९
अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः ६०
अदृष्टद्वारा चेदसम्बद्धस्य तदसम्भवाज्जलादिवदन्नरे ६१
निर्गुणत्वात्तदसम्भवादहंकारधर्मा ह्येते ६२
विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् ६३
अहंकारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् ६४
अदृष्टोद्भूतिवत्समानत्वम् ६५
महतोऽन्यत् ६६
कर्मनिमित्तः प्रकृतेः स्वस्वामिभावोऽप्यनादिर्बीजान्नरवत् ६७
अविवेकनिमित्तो वा पञ्चशिखः ६८
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः ६९
यद्वा तद्वा तदुच्छित्तिः पुरुषार्थस्तदुच्छित्तिः पुरुषार्थः ७०
इति षष्ठोऽध्यायः


इति सांख्यदर्शनम्