विमानस्थानम्

तृतीयं विमानस्थानम्
---पृथक् पजा हिताशनम् ।
तिथिनक्षत्रदेवार्चा घ्नन्त्यवेक्षितजान् गदान्

इति ह स्माह भगवान् कश्यपः
इति कर्णायजयावष्ठीवनं विमानम्

शिष्योपक्रमणीयविमानाध्यायः
अथातः शिष्योपक्रमणीयं विमानमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

अथ खलु गुरुः शिष्यमभिगतं विद्याथिनं शिष्यगुणान्वितं विधिनोपनयेदुदगयने पुण्याहे नक्षत्रेऽश्वयुजि रोहिण्यामुत्तरास्वन्यस्मिन् वा । पुण्ये प्रागुदक्प्रवणदेशे गोमयेनाद्भिश्च गोचर्ममात्रं स्थण्डिलमुपलिप्य यथोक्तं तत्र लक्षणोल्लेखनाग्निप्रणयनपरिसमूहनपर्युक्षणब्रह्मप्रणीतास्तरणाज्योत्पवनाघाराज्यभागा-ग्निहोमान् कृत्वा पालाशीः समिधो घृताक्ता जुहोति--अग्नये स्वाहा सोमाय स्वाहा प्रजापतये स्वाहा कश्यपाय स्वाहा अश्विभ्यां स्वाहा इन्द्राय स्वाहा धन्वन्तरये स्वाहा सरस्वत्यै स्वाहा पूर्णभगाय स्वाहा अग्नये स्विष्टकृते स्वाहा इति हुत्वा ब्राह्मणं हविष्यौदनेन दक्षिणावता तर्पयित्वा देवांश्च बलिभिः गुरवे पूर्णकुम्भं दक्षिणां दत्त्वा दधिक्राव्ण इति प्राङ्मुखो दधि प्राश्य उपस्पृश्याद्भिः परिक्रम्य प्रदक्षिणं गुरोर्बाहुं संस्पृस्य ब्रूयात् असावहं
पुत्र इति पादौ संस्पृश्य ब्रूयात्--असावहं शिष्य इति ३

अथ शिष्यगुणाः -- क्षान्तिर्दाक्ष्यं दाक्षिण्यमानुकूल्यंशौचं कुले
जन्म धर्मसत्याहिंसासामकल्याणज्ञानविज्ञानस्थितिविनिवेशः पाटवं यथोक्तकारित्वं ब्रह्मचर्यमनुत्सेको लोभेर्ष्याविवर्जनमिति अतोऽअन्यथा दोषैः सवर्ज्यः ४

अथ गुरुः--धर्मज्ञानविज्ञानोहापोहप्रतिपत्तिकुशलोगुणसंपन्नः सौम्यदर्शनः शुचिः शिष्यहितदर्शी चोपदेष्टा च भिषकशास्त्रव्याख्यानकुशलस्तीर्थागतज्ञानविज्ञानः कल्योऽनन्यकर्माऽव्यावृत्तः शिष्य गुणान्वितश्च । अतोऽन्यथा दौषैर्वर्ज्यः ५

अथ शिष्यानुशासनं--भोः सौम्येनानुकूलेन धार्मिकेण जितेन्द्रियेणाहूताध्यायिना च भवितव्यं सर्वनिवेदिना समानदुःखेन देशकालज्ञेन धृतिमता च भवितव्यं लोभक्रोधमोहेर्ष्याप्रहासवैरमद्यमांसस्त्रीभ्यो निवर्त्तयितव्यं गुरुशुश्रूषाऽवशेषेणाध्येतव्यं न
चाननुज्ञातेन न चानभ्यर्च्य वा गुरुमसमाप्तविद्येन वा प्रचरितव्यम् ६

अथाध्ययनविधिः -- गुरुः शुचिरुद्धतहस्तः शुचौ देशे तद्वच्छिष्यायावहितायाथशब्दमोङ्कारं वा पूर्व प्रयुज्य महाव्याहृतीरनूच्य सावित्रीं च त्रिरभ्यस्याऽधीष्व भो इत्युक्ते रूपमेकं निगदेत् तं चानुपठेत् तच्छिष्यो रूपहतं संस्थाहतं च कुर्यात् ग्रहणशक्त्यवेक्षः खण्डनसंदर्शनापूर्वग्रहणानि सोढुं यथोक्तश्रवणं तस्याभ्यासो धन्यः धारणाध्यापनेनार्थतत्त्वाधिगमनं तु मोक्षाय । नानध्यायेष्वधीयीत न गुरुव्यलीकेषु न पर्वसु न सन्ध्यायां न विद्यदुल्कानभ्रवर्षाऽसूर्यदर्शनेषु न महोत्सवे न भुक्तवान् नाद्भुतदर्शने न गोब्राह्मणगुरुपरात्मपीडायां न पक्षिणीषु नाप्यष्टकासु नात्युच्चनाचप्लतक्लीबस्वरैः नामुखाद्गुरोः नालक्षितं न संदिग्धं न च क्षुत्पिपासाव्याधिवैमनस्यादियुक्तोऽभ्यसेत् ७

अधीत्यानुज्ञातः प्रचरेच्छुक्लवासाः संहतकेशोऽनुद्भ्रान्तो युगमात्रावलोकी पूर्वाभिभाषी सुमुखः । न चातुरकुलमनाहूतः प्रविशेत् प्रविशंश्च निमित्तानि लक्षयेत् । न च सर्वतोऽवलोकयेदन्यत्रातुरात् । न चातुरकुलेषु स्त्रीभिः प्रेष्याभिरपि महोपहासं गच्छेत् न चासामपूजापुरस्कृतं नाम गृह्णीयात् मान्यस्थानेनैव तु ब्रूयात् न च ताभिः संव्यवहारमतिप्रणयं वा कुर्यात् न च भर्तुरविदितं स्त्रीभ्यः किञ्चिदादद्यात् न चाविदितः प्रदिशेत् न च रहसि स्त्रिया सह ब्रूयादासीत वा न चैनां विवृतां प्रेक्षेत विहसेद्वा प्रणयन्तीं चोपेक्षेत न च प्रकाशयेत् । न चातुरकुलगुह्यं बहिः प्रकाशयेत् नातुरकुलदोषान् प्रथयेत् । दृष्टारिष्टमपि चातुरं न तत्त्वं ब्रूयात् नित्यमाश्वासयेत् । न मृत्युपरिगतशरीरमसाध्यरोगमनुपकरणं चोपगच्छेत् नौषधमक्रमेणोपदिशेत् न पराधीनं कुर्यात् । न स्वयं कृतकमौषधं प्रयुञ्जीत शरीरौषधव्याधिवयसां चावस्थान्तरज्ञः स्यात् । नित्यसंभृतधूपाञ्जनौषधः स्यात् । न चान्यभिषग्भिर्विरोधं गच्छेत् । सयुक्तश्च तैरौषधं प्रकल्पयेत् । प्रगल्भो निःशङ्क उपस्थितपदे विस्पष्टं विचित्रं मृदूपनयवद्ग्राहकमविरुद्धं धर्म्यं सदा ब्रूयात् । प्रजानां हि स्वस्तिकामो
भिषगिह चामुत्र च नन्दत इति ८

अथान्यो भिषगभिषदेत्तस्मै क्षमेत साम्ना चानुनयेत् । पुनः पुनः कुत्सयन्तं तु विगृह्यादितो ग्रन्थेनाऽवकिरेत् न चास्य वाक्यावकाशं दद्यात् । ब्रुवतोऽपि प्रोक्तं च ब्रूयात् नैतदेवमिति । परिहसेत् अपशब्दांश्चास्य विगृह्णीयात् अर्थे कृच्छ्रे चैनमवतारयेत् न चैनमवशः
परुषयेत् स्तोत्रगर्भैरेवैनं धर्षयेदिति ९
भो भिषक् आयुः किं किमायुर्वेदस्यायुर्वेदत्वं किं चायुरित्युच्यते कत्यङ्गश्चायुर्वेदः कथं चाध्येयः किमर्थं चाध्येय किञ्चास्याद्यं तन्त्रं कश्चैषां धुर्यः कतमं च वेदं श्रयति किं नित्योऽनित्यः किमाश्रयश्चायुर्वेदः कानि चैषां सु लक्षणानि तत्प्रकृतीनां तिसृणां च वेदनानामतीतवर्त्तमानानागतानां कतमां भिषक् चिकित्सति किं चास्यायुर्वेदसाधनं किं पुण्योऽपुण्यः इति पृष्टो वा प्रतिब्रूयात् -- भोः तत्रायुर्जीवितमित्युच्यते ॥ विद ज्ञाने धातुः विदॢ लाभे च आयुरनेन ज्ञानेन विद्यते ज्ञायते विन्दते लभ्यते न रिष्यतीत्यायुर्वेदः कत्यङ्गश्चायुर्वेद इति अष्टाङ्गः तस्य कौमारभृत्यं कायचिकित्सा शल्याहर्तृकं शालाक्यं विषतन्त्रं भूततन्त्रमगदतन्त्रं रसायनतन्त्रमिति ॥ अत्राह--अङ्गान्येतानि शरीरमस्य कतमत् यदाश्रयन्त्यङ्गानि अङ्गानि हि शरीराश्रयाणि भवन्ति अत्राह तस्य शरीरं धर्मः धर्माश्रयं ह्यस्मिन् कर्म सिध्यतीति ॥ कथं चोत्पन्न इति आहअथर्ववेदोपनिषत्सु प्रागुत्पन्नः स्वयंभूर्ब्रह्मा प्रजाः सिसृक्षुः प्रजानां परिपालनार्थमायुर्वेदमेवाग्रेऽसृजत् सर्वंवित् ततो विश्वानि भूतानि । ततस्तं पुण्यमायुर्वेदमनन्तमायुषो वर्धनमाधारमाप्यायनममृतमश्विभ्यां कः प्रददौ ताविन्द्राय इन्द्र ऋषिभ्यश्चतुर्भ्यः कश्यपवशिष्ठात्रिभृगुभ्यः ते पुत्रेभ्यः शिष्येभ्यश्च प्रददुर्हितार्थं धर्मार्थकाममोक्षशक्तिपरिपालनार्थं चेति एवमुत्पन्नः ॥ कथं चाध्येय इति गुरोरनुमतेनेति ॥ केन चाध्येय इति ब्राह्मणक्षत्रियवैश्यशूद्रैरायुर्वेदोऽध्येयः ॥ तत्रार्थपरिज्ञानार्थं पुण्यार्थं चात्मनः प्रजानुग्रहार्थं ब्राह्मणैः प्रजासंरक्षणार्थं क्षत्रियैः वृत्त्यर्थं वैश्यैः शुश्रूषार्थमितरैः धर्मार्थं च सर्वैः । सुखजीवितदानं हि सर्वधर्मस्याधिकं ब्रुवते ततश्च पुण्य एवमायुर्वेदः । सुखजीवितदानतुष्टाश्च देहिनः कृतज्ञाय संविभजन्ति पुरःस्तुवन्ति च तदस्य धर्मार्थकामनिर्वर्तकं भवतीति किमर्थं चाध्येय इत्यत्रोक्तम् ॥ किंचास्याद्यं
तन्त्रमिति

कौमारभृत्यमष्टानां तन्त्राणामाद्यमुच्यते
आयुर्वेदस्य महतो देवानामिव हव्यपः

अनेन हि संवर्धितमितरे चिकित्सन्ति । बालस्य हृद्यमौषधमन्यत् प्रमाणमन्य उपक्रमोऽन्ये च विशेषाः ॥ कं च वेदं श्रयति अथर्ववेदमित्याह तत्र हि रक्षाबलिहोमशान्ति --- प्रतिकर्मविधानमुद्दिष्टं विशेषेण तद्वदायुर्वेदे तस्मादथर्ववेदं श्रयति । सर्वान् वेदानित्येके पद्यगद्यकथ्यगेयविद्याश्रयादिति न चैतदेवमायुर्वेदमेवाश्रयन्ते वेदाः । तद्यथा--दक्षिणे पाणौ चतसृणामङ्गुलीनामङ्गुष्ठ आधिपत्यं कुरुते न च नाम ताभिः सह समतां गच्छति एकस्मिंश्च पाणौ भवति एवमेवायमृग्वेदयजुर्वेदसामवेदाथर्ववेदेभ्यः पञ्चमो भवत्यायुर्वेद इति । किं कारणं यथाहि वेदेषु सतत ब्रह्मज्ञैस्त्रिवर्गसंयुक्तं पुरुषनिश्रेयसं चिन्त्यते एवमेवास्मिन्नपि वेदे निदानोत्पत्तिलिङ्गारिष्टचिकित्सितैः सततमेव हितसुखकरं त्रिवर्गसारभूतं पुरुषनि श्रेयसं चिन्त्यते तद्यथा च विविधविज्ञानज्ञानोपपन्ना भाष्यवचनविदोऽष्टाङ्गया बुद्ध्योपपन्ना लङ्घनप्लवनस्थानासनगमनागमनसमर्था अपि च नाम मनुष्या अदेशज्ञानवन्तो नित्यमेव देशज्ञं दैशिकमन्वयुरेवमेव खलु वेदनासु शिक्षाकल्पसूत्रनिरुक्तवृत्तच्छन्दोयज्ञसंस्तरज्ञानसमुच्चयविशेषज्ञा आयुर्वेदमेवानुधावन्ति तस्माद्ब्रूमः ऋग्वेदयजुर्वेदसामवेदाथर्ववेदेभ्यः पञ्चमोऽयमायुर्वेदः । यतश्च व्याधितस्यारोग्यमरोगस्य च शेषाः क्रिया धर्मार्थकाममोक्षेषु निर्वर्तन्ते ॥ किं नित्योऽनित्य इति कुतः आर्षवचनप्रामाण्यादविनाशित्वात् साध्यासिद्धेर्देशकालसामान्यादिति ॥ किमाश्रय इति वातपित्तकफाश्रयः । ते च द्वे द्वे देवते श्रिताः मारुतमाकाश च वातः श्रितः अग्निमादित्यं च पित्तं सोमं वरुणं च कफः तास्तेषां देवताः । धर्मार्थकामानित्येके सत्त्वरजस्तमांसीत्येके साध्ययाप्यासाध्यत्वमित्येके ॥ कानि चैषां
स्वलक्षणानि तत्प्रकृतीनामित्यत्रोच्यते ।
तत्र श्लेष्मा स्निग्ध ---
विमानस्थानस्यैतावानेव भाग उपलब्धः