शारीरस्थानम्

चतुर्थं शारीरस्थानम्
--- तस्मात् पञ्चैव खलु ऋतवोऽपि तदनुपपत्तेर्नास्ति षट्त्वमिति अत्रोच्यते -- रसार्थमेषां षट्त्वं रसविमाने प्रोक्तम् ॥ --- स कः कलासमूहं कालं द्विविधमकल्पयत्--शुभं चाशुभं च तौ तुल्यप्रमाणौ भूतवर्तमानानागतविभागात् । तत्र शुभ उत्सर्पिणी अशुभोऽवसर्पिणी ते पुनरुभे त्रिविधे युगभेदेन--आदियुगं देवयुगं कृतयुगमित्युत्सर्पिणी त्रेताद्वापरकलियुगान्यवसर्पिणी तयोरानन्त्यात् परिमाणं नोच्यते । तत्रादियुगदेवयुगेऽचिन्त्यप्रमाणोद्भवे कर्मभोजनपानगतिवीर्यायुषि अनिर्देश्ये । कृतयुगे तु नारायणं नाम देहिनां संहननं शरीरमुत्पद्यते तस्मात्तदाहुः -- तस्य घनं निष्कपालं शिरः अस्थीनि च सत्त्वास्पदान्याकृतयो वज्रगरीयस्यः हृदि चास्य महासिरा दशैव त्वगस्य शिरश्चाभेद्यमच्छेद्यं सर्वतोऽस्य शुक्रं योजनं चास्योत्सेधः सप्तरात्रं चास्य गर्भवासः सद्योजातस्य चास्य सर्वकर्माणि शक्यानि भवन्ति न चैनं क्षुत्पिपासाश्रमग्लानिशोकभयेर्ष्याऽधर्मचिन्ताधिव्याधिजरा बाधन्ते न च स्तन्यवृत्तिर्भवति धर्मतपोज्ञानविज्ञानस्थितियुक्तिश्चाति भवति । तस्य पलितोपमार्धमायुरुत्कृष्टमाहुरिति ॥ अथ त्रेतायामर्धनारायणं नाम देहिनां संहननं शरीरमुत्पद्यते । तस्यैकास्थिप्रायं शरीरमाकुञ्चनप्रसारणवर्ज्यं गर्भवासोऽस्याष्टमासिकः स्तन्यजीविका च द्वे शिरस्कपाले पार्श्वयोरेकैकः सन्धिः उरसि च त्र्यस्थि पृष्ठं कोष्ठस्य सिरा विंशतिः शुक्रं च पलितोपमचतुर्भागमायुरुत्कृष्टं पूर्वाच्चार्धगुणावसर्पणमिति ॥ अथ द्वापरे कैशिकसंहननं शरीरमुत्पद्यते केशमात्राणुसुषिरास्थि अतिक्षिप्तसन्धि महाहस्तिबलः सिरानुवेष्टितगात्रः गात्रसन्धिषु चास्य शुक्रं पलितोपमाष्टभागमायुरुत्कृष्टं पूर्वाच्चा र्धगुणावसर्पणमिति ॥
अथ कलियुगे प्रज्ञप्तिपिशितं संहननं शरीरमुत्पद्यते । तस्य षष्टिश्च त्रीणि चास्थिशतानि भृशसुषिराणि मज्जपूर्णानि नलवदासन्नवधानि चत्वारि मांसपेशीशतानि सप्त सिराशतानि हृदयमूलानि नव स्नायुशतानि मस्तुलुङ्गमूलानि द्वे धमनीशते तालुमूले सप्तोत्तरं मर्मशतं त्रीणि महामर्माणि दश प्राणायतनानि पञ्च हृदयानि त्रीणि सन्धिशतान्येकाशीतानि चतुर्दश कण्डराः कूर्चा द्विचत्वारिंशत् षट् त्वचः सप्त धातवः स्रोतांसि द्विविधानि जातस्य पृथग्दन्तजन्म दशमासं गर्भवासः संवत्सरादूर्ध्वं प्रतितिष्ठति वाचं च विसृजति तस्य
वर्षशतमायुरुत्कृष्टं सुखदुःखाधिव्याधिजरामृत्युपरिगतः---
सर्वगात्रः क्षुत्पिपासागौरवश्रमशैथिल्यचित्तेर्ष्यारोषानृतलौल्यपरिक्लेशमोहवियोगप्रायः संसारगोचरः आबाधबहुल इति द्वे द्वे युगे
सत्त्वरजस्तमोन्वये विद्धि । इति पुरुषस्य सृष्टिकारणमुक्तम् ॥

समुदयकारणं तु ब्रूमः -- अव्यक्तान् महान् महतोऽहङ्कारः अहङ्कारात् खादीनि ता अष्टौ भूतप्रकृतयः । चक्षुः श्रोत्रं घ्राणं रसनं स्पर्शनमिति पञ्चेन्द्रियाणि तान्येव बुद्धीन्द्रियाणि हस्तौ पादौ जिह्वा गुद उपस्थ इति पञ्च कर्मेन्द्रियाणि शब्दस्पर्शरसरूपगन्धाः पञ्चेन्द्रियार्थाः अतीन्द्रियं तु मनः इत्येते षोडश विकाराः महदादि सर्वं क्षेत्रमव्यक्तमाचक्षते क्षेत्रज्ञं तु शाश्वतमचिन्त्यमात्मानम् । अस्य लिङ्गानिचेतनाहङ्कारप्राणापानोन्मेषनिमेषसुखदुःखेच्छाद्वेषस्मृतिधृतिबुद्धयः तदभावे मृताख्या । शरीरेन्द्रियात्मसत्त्वसमुदयं पुरुषमाचक्षते आत्मानमेके । ज्ञानस्याभावो भावश्च मनसो लक्षणं तस्यैकत्वमणुत्वं च द्वौ गुणौ प्रयत्नज्ञानायौगपद्यादेकं पृथक् । समनस्कमिन्द्रियमर्थग्रहणसमर्थं भवति । खं वायुस्तेज आपः पृथिवीति पञ्च महाभूतानि शरीरहेतुरुच्यते । शब्दादयस्तेषां गुणाः । गुनवृद्ध्याऽवस्थितानि महाभूतानि दिगात्मा मनः कालश्च द्रव्याणि । द्रव्याश्रया गुणाः । खस्याप्रतिषेधो लिङ्गं वायोश्चलनं तेजस औष्ण्यम् अपां द्रवत्वं पृथिव्याः स्थैर्यम् । मनःषष्ठानामिन्द्रियाणां त्रीणि त्रीणि विप्रकृष्टसन्निकृष्टवृत्तीनि । मनश्चक्षुः श्रोत्रमिति विप्रकृष्टवृत्तीनि घ्राणं रसनं त्वगिति सन्निकृष्टवृत्तीनि । तत् सर्वं स्पर्शनलक्षणमाहुः तद्यथा--पुरुषः सर्वतोगवाक्षं प्रासादमभिरूढस्तांस्तानर्थान् गवाक्षैरालोचयत्येवमयमात्मा शरीरस्थ इन्द्रियैरनुपहतैर्मनः

असमानगोत्रीयशारीराध्यायः
प्राणस्तु बीजधातुं हि विभजत्यस्थिसंख्यया
प्रविष्टमात्रं बीजं हि रक्तेन परिवेष्ट्यते

शुक्रादस्थ्यस्थितो मांसमुभाभ्यां स्नायवः स्मृताः
सर्वेन्द्रियाणि गर्भस्य सर्वाङ्गावयवास्तथा

तृतीये मासि युगपन्निर्वर्तन्ते यथाक्रमम्
प्रस्पन्दते चेतयति वेदनाश्चावबुद्ध्यते

सूक्ष्मप्रव्यक्तकरणस्तृतीये तु मनोधिकः
चतुर्थे स्थिरतां याति गर्भः कुक्षौ निरामयः

गुरुगात्रत्वमधिकं गर्भिण्यास्तत्र जायते
मांसशोणितवृद्धिस्तु पञ्चमे मासि जीवक

गर्भिणी पञ्चमे मासि तस्मात् कार्श्येन युज्यते
बलवर्णौजसां वृद्धिः षष्ठे मातुः श्रमोऽधिकः

सर्वधात्वङ्गसंपूर्णो वातपित्तकफान्वितः
सप्तमे मासि तस्माच्च नित्यक्लान्ताऽत्र गर्भिणी

अष्टमे गर्भिणीगर्भावाददाते परस्परम्
ओजो रसवहायुक्तेः पूर्णत्वाच्छलयत्यपि

तस्मात्तत्र मुहुर्ग्लाना मुहुर्हृष्टा च गर्भिणी
अत्ययं चाप्नुते तस्मान्न मासो गण्यतेऽष्टमः

नवमादिषु मासेषु जन्म चास्य यथाक्रमम्
पूर्वदेहकृतं कर्म गर्भावाससुखासुखम्

जातः स्मरति तावच्च यावन्नोपैति जीविकाम्
इति ह स्माह भगवान् कश्यपः
इति शारीरेऽसमानगोत्रीयं नाम

गर्भावक्रान्तिशारीराध्यायः
अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

जीवस्तु खलु भो सर्वगतत्वादीश्वरगुणसमन्वितः पूर्वशरीराच्चावक्रामति परशरीरं चोपक्रामति युगपत् न कदाचिदपि बीजशोणितवाय्वाकाशादिमनोबुद्धिभिर्वियुक्तपूर्वः सर्वगतत्वाच्च न कस्यांचिद्योनौ
नोपपद्यते स्वकर्मफलानुभवादिति ३

गर्भस्य पुनर्भगवन् के शरीरावयवा आकाशान्निर्वर्तन्ते के वायोः के तेजसः केऽद्भ्यः के पृथिव्याः के चास्य मातृतः संभवतः संभवन्ति के चास्य पितृतः किमात्मनः किंच सात्म्यतः किंच रसतः किंच सत्त्वतः कुत्र चैते सर्वभावा अन्वायत्ता भवन्ति कं चार्थमवेक्षन्ते इति पृष्टो
भगवान् कश्यप उवाच --
गर्भस्य खलु भो शब्दश्च श्रोत्रं च लाघवं च सौक्ष्म्यं च विवेकश्च मुखं च कण्ठश्च कोष्ठं चाकाशात्मकानि भवन्ति स्पर्शश्च स्पर्शनं च रौक्ष्यं च प्रेरणं च धातुव्यूहनं च प्राणश्चापानश्च शरीरचेष्टा च वाय्वात्मकानि भवन्ति रूपं च चक्षुश्च प्रकाशश्च पित्तं च पक्तिश्चोष्मा च शरीरवृद्धिश्च तैजसानि भवन्ति रसश्च रसनं च शैत्यं च मार्दवं च द्रवश्च स्नेहश्च क्लेदश्च श्लेष्मा च मेदश्च रक्तं च मांसं च शुक्रं चाप्यानि भवन्ति गन्धश्च घ्राणं च गौरवं च स्थैर्यं च मूर्तिश्च पार्थिवानि भवन्ति तस्मात् पुरुषो लोकसंमितः प्रोच्यते । लोहितं च मांसं च नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्कौ च बस्तिश्च पुरीषधारणं चामाशयश्चोत्तरगुदश्च क्षुद्रान्त्रं च स्थूलान्त्रं चेति मातृजानि केशाश्च रोमाणि च श्मश्रूणि च नखाश्च दन्ताश्चास्थीनि च सिराश्च स्नायवश्च धमन्यश्च शुक्रं चेति पितृजानि आयुश्चात्मज्ञानं च मनश्चेन्द्रियाणि च प्राणापानौ च धारणं च प्रेरणं च चाकृतिश्च स्वरवर्णोपचयविशेषाश्च सुखदुःखे इच्छाद्वेषौ च स्मृतिश्चाहङ्कारश्च प्रयत्नश्चावस्थान्तरगमनं च सत्त्वं च नानायोनिषूपपत्तिश्चेत्यात्मजानि आरोग्यं चोत्थानं च संतोषश्चेन्द्रियप्रसादश्च स्वरवर्णबीजसंपच्च मेधा च प्रहर्षभूयिष्ठता चेति सात्म्यजानि शरीराभिनिर्वृत्तिश्च शरीराभिवृद्धिश्च प्राणाश्च बन्धश्च वृत्तिश्च पुष्टिश्चोत्साहश्चेति रसजानि । कल्याणरोषमोहात्मकं तु सत्त्वं त्रिविधमुक्तमग्रे तत्रौपपादिकं सत्त्वं मनश्च लयि नित्यं शुभाशुभमिश्रभावानां स्पर्श इत्युच्यते । ते सर्वभावाः स्वकर्मण्यायत्ताः कालं चावेक्षन्ते । वायुर्हि कालसहितः शरीरं विभजति संदधाति चेति ४


तत्र श्लोकाः --
शोणिताद्धृदयं तस्य जायते हृदयाद्यकृत्
यकृतो जायते प्लीहा प्लीह्नः फुप्फुसमुच्यते ५
परस्परनिबन्धानि सर्वाण्येतानि भार्गव
तेषामधस्ताद्विपुलं स्रोतः कुण्डलसंस्थितम् ६
जरायुणा परिवीतं स गर्भाशय उच्यते
आमपक्वाशयौ तस्मिन्नन्नपानाश्रयौ गुदः ७
तस्मात् संजायते बस्तिः परिष्यन्दाच्च पूर्यते
धमनीमुखसंस्थाने स्रोतसी चाप्यधः स्मृते ८
विण्मूत्रकृमिपक्वामकफपित्ताशयाः पृथक्
सन्त्येते देहिनां कोष्ठे स्त्रिया गर्भाशयोऽष्टमः ९
शुक्रमज्जास्थि पितृतो मातृतो मांसशोणितम्
षट्कोशं प्रवदन्त्येके देह --- १०

शरीरविचयशारीराध्यायः
द्वात्रिंशत्तु मता दन्तास्तावन्त्यू खलिकानि च
पाणिपादाङ्गुलास्थीनि षष्टिः स्युर्विंशतिर्नखाः
पाणिपादशलाकास्तु विंशतिः परिकीर्तिताः
पाणिपादशलाकानामधिष्ठानचतुष्टयम्
द्वे पार्ण्योरस्थिनी कूर्चाश्चत्वारः पादयोः स्मृताः
द्वावेव हस्तमणिकौ चत्वार्याहुररत्निषु
जान्वस्थिनी द्वे संख्याते चत्वार्यस्थीनि जङ्घयोः
द्वावूरुनलकौ द्वे च ख्याते जानुकपालिके
द्वावंसावंसफलकावपि द्वावेव चाक्षकौ
द्वे बाहुनलके द्वे द्वे श्रोणितालूषके तथा
एकं जत्रु भगास्थ्येकं ग्रीवा पञ्चदशास्थिकी
भार्गवाऽस्थीनि पृष्ठयानि चत्वारिंशच्च पञ्च च
चतुर्दशास्थीन्युरसि हन्वस्थ्येकं तु निर्दिशेत्
शिरसस्तु कपालानि चत्वार्याहुर्मनीषिणः
चतुर्विंशतिः पार्श्वे च तावन्ति स्थालकानि च
चतुर्विंशतिरेवाहुः स्थालकार्बुदकानि च
द्वौ शङ्खौ परिसंख्यातौ द्वे हनुमूलबन्धने
ललाटनासिकागण्डकूटास्थ्येकं विनिर्दिशेत्
इत्यस्थिसंख्या सामान्याद् वृद्धिह्रासौ निमित्तजौ
दशैवायतनान्याहुः प्राणानां तानि मे शृणु
मूर्धाऽथ हृदयं बस्तिः कण्ठौजः शुक्रशोणितम्
शङ्खौ गुदं ततस्त्रीणि महामर्माणि चादितः
नाभिः प्लीहा यकृत् क्लोम हृद्वृक्कौ गुदबस्तयः
क्षुद्रान्त्रमथ च स्थूलमामपक्वाशयौ वपा
कोष्ठाङ्गानि वदन्ति ज्ञाः प्रत्यङ्गानि निबोध मे
अक्षिणी नासिके कर्णौ स्तनावोष्ठौ कुकुन्दरौ
हस्तौ पादौ भ्रुवौ कूटौ बाहुजङ्घोरुपिण्डिकाः
सृक्किणी कर्णशष्कुल्यौ कर्णपुत्राक्षितारके
वृषणौ दन्तवेष्टौ च शङ्खकावुपजिह्विके
दन्तलोहाधिमूलानि द्वे द्वे सर्वाणि निर्दिशेत्
बस्तिर्बस्तिशिरः शेफः पृष्ठं सचिबुकोदरम्
ललाटमास्यं गोजिह्वा शिरो हृदयमेकशः
पाणिपादतलेष्वेव चत्वारि हृदयानि तु
शाखाहृदयसंज्ञानि पञ्चमं चेतनाश्रयम्
अक्षिबन्धानि चत्वारि विद्याद्विंशतिरङ्गुलीः
स्रोतांसि द्विविधान्याहुः सूक्ष्माणि च महान्ति च
महान्ति नव जानीयाद् द्वे चाधः सप्त चोपरि
नाभिश्च रोमकूपाश्च सूक्ष्मस्रोतांसि निर्दिशेत्
हृदयात् संप्रतायन्ते सिराणां दश मातरः
ऊर्ध्वं चतस्रो द्वे तिर्यक्चतस्रोऽधोवहाः सिराः
व्याप्नुवन्ति शरीरं ता भिद्यमानाः पुनः पुनः
पर्णानामिव सीवन्यः सरणाच्च सिराः स्मृताः
यथा काष्ठमयं रूपं तृणरज्ज्वोपवेष्टितम्
भवेल्लिप्तं मृदा बाह्यं तथेदं देहसंज्ञकम्
अस्थीनि स्नायुबद्धानि स्नायवो मांसलेपनाः
सिराभिः पुष्यते नित्यं तस्य सर्वं त्वचा ततम्
सन्ततं कर्णमूलाभ्यां धमनीनां शतं शतम्
तासु नित्योऽनिलस्तिष्ठन्नग्नीषोमौ बिभर्त्यधि

साग्रे शतसहस्रे द्वे बहिरन्तश्च कूपकाः
रोमकूपानि तावन्ति जातान्येकैकशो यदि

वृद्धिह्रासौ निषेकाच्च स्वभावाद्विश्वकर्मणः
चतुर्भागविहीनानि स्त्रीणां विद्धि स्वभावतः

कूपके कूपके चापि विद्यात् सूक्ष्मं सिरामुखम्
प्रस्विद्यमानस्तैः स्वेदं विमुञ्चति सिरामुखैः

जातस्य वर्धमानस्य यूनो वृद्धस्य देहिनः
स्वेनाञ्जलिप्रमाणेन द्रवाणि प्रमिमीमहे
मज्जमेदोवसामूत्रपित्तश्लेष्माणि विट् तथा
एकद्वित्रिचतुष्पञ्चषट्सप्ताञ्जलिकाः स्मृताः

शोणिताञ्जलयोऽष्टौ तु नव पक्तिरसस्य तु
दशैवाञ्जलयः प्रोक्ता उदकस्य त्वगाश्रयाः

तेनोदकेन पुष्यन्ति धातवो लोहितादयः
अतीसारे पुरुषं च ततो मूत्रं प्रवर्तते

व्रणे लसीका पूयं च पिच्छा चातः प्रवर्तते
भवन्ति तस्मिन् दुष्टे च दद्रुकण्डूविचर्चिकाः

त्वगामयाः किलासानि पामा केशवधस्तथा
तदग्निमारुतोद्विद्धं पकैः स्वेद उच्यते

श्लेष्मणस्तु प्रमाणेन प्रमाणं तुल्यमोजसः
शुक्रस्यार्धाञ्जलिर्देहे मस्तिष्कस्य तथैव च

एतत् प्रमाणमुद्दिष्टमुत्कृष्टं सर्वमेव तु
प्रज्ञाप्तपिशितीयस्य ततो मध्यं ततोऽधमम्

शुक्रं तु षोडशे वर्षे संपूर्णं संप्रवर्तते
अन्योन्यसंश्रयाण्याहुरन्योन्यगुणवन्ति च

महाभूतानि दृश्यानि दार्वग्नितिलतैलवत्
शरीरसंख्या निर्दिष्टा यथास्थूलं प्रकारतः

देहावयवसूक्ष्मं तु भेदानन्त्यं सुदुर्वचम्

इति ह स्माह भगवान् कश्यपः
इति शारीरस्थाने शरीरविचयं नाम शारीरम्

जातिसूत्रीयशारीराध्यायः
अथातो जातिसूत्रीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

जातौ जातौ खलु स्वभाव एवाकृतिभेदनिर्वर्तयिता भवति । स्वभावतो ह्यस्य वायुपरमाणवः संयोगविभागचेष्टाधिकारा आकुञ्चनप्रसारणकोष्ठाङ्गप्रत्यङ्गधातुचेतनास्रोतांसि विभजान्त । समत्यके धातुरिव निषिक्तः पुरुषः पुरुषमभिनिर्वर्तयति गौर्गामश्वाऽश्वमेवमादि । नृणामपि तु मध्ये गर्भनिर्वृत्तिः । तत्र द्वयोर्दम्पत्योः स्वभावात् स्वकर्मपरिणामाद्वा प्रजाभिवृद्धिर्भवति तौ धन्यौ अतोऽन्यथा भिषजितव्यौ । स्नेहस्वेदवमनविरेचनास्थापनानुवासनैः क्रमश उपचरेन्मधुरौषधसिद्धाभ्यां क्षीरघृतपुष्टं पुरुषं स्त्रियं तु तैलमांसाभ्यामित्येके सात्म्यैरेवेति प्रजापतिः ३
यथा च पुष्पमध्ये फलमनिर्वृत्तं सुसूक्ष्ममस्ति न चोपलभ्यते यथा चाग्निर्दारुषु सर्वगतः प्रत्नाभावान्नोपलभ्यते तथा स्त्रीपुंसयोः शोणितशुक्रे कालावेक्षे स्वकर्मावक्षे च भवतः । षोडशवर्षयोर्हि शोणितशुक्रयोर्मध्ये प्रभवतः अर्वागपि यदाहारविशेषादारोग्याश्च पूर्णे भवत
इति परिषत् ४

रजस्वलायाश्चेत् प्रथमेऽहनि गर्भ आपद्येत तं वातगर्भमाचक्षते विफलं वातपुष्पमिवोद्भिदानां द्वितीयेऽहनि चेत् स्रंसते च्यवते वा तृतीयेऽहनि सूतिकासने म्रियते न वा दीर्घायुर्भवति हीनाङ्गश्च जायते अत ऊर्ध्वमृतुर्द्वादशाहं ब्राह्मणीनामेकादशाहं क्षत्रियाणां दशाहं वैश्यानां नवरात्रमितरासाम् । ऋतुर्बीजकालमवेक्षत इत्याहुर्महर्षयः । अत ऊर्ध्वमकालजमाहुः । अकालजं हीनं दुर्बलमस्थिरमदृढमपीनभङ्गुरं
धान्यमिव भवति ५

युग्मेष्वहःसु पुत्रकामोऽन्यत्र कन्यार्थी हर्षितस्तृप्तोऽनुरुद्धः स्त्रियमुपेयादिति सिद्धम् ६

अथ शुद्धस्नातां स्त्रियं चतुर्थेऽहनि स्नानगृहे श्वेतेन एवाऽन्येन वाससाऽवगुण्ठ्यानवलोकयन्ती शुचिर्देवगृहं प्रविश्योद्घटाग्निं प्रज्वलन्तं घृताक्षतेनाभ्यर्च्य ब्राह्मणमीश्वरं विष्णुं स्कन्दं च संप्रेक्ष्याभिवाद्य निष्क्रम्य सूर्याचन्द्रमसाविति न तु प्रेतपिशाचरक्षांसि शुद्धस्नातमात्रा हि स्त्री यं वा पश्यति मनसा वाऽभिध्यायति तादृशाचारवपुषं प्रायेण जनयति तस्माद्देवगोब्राह्मणगुरुवृद्धाचार्यान् सतः पश्येत् कल्याणमनाश्च स्यात् । न तु सन्ध्ययोः स्नानं मैथुनं वोपेयान्नान्यमना इति

तत ऋत्विक् पुत्रीयामिष्टिं निर्वपेत् । सिद्धमांसौदना वातघ्नौ वाज्यभागौ यवमयः पुरोडाशोऽष्टाकपालो व्रीहिमयश्चरुः उभौ वागायुर्युतौ प्रजायेते न त्वदे --- क्षे आब्रह्मन्ब्राह्मण इति यजमानभागमभिमन्त्र्य शेषं दम्पती प्राश्नीयाताम् । श्वेत ऋषभोऽश्वो वा हिरण्यं वा भिषजे सैव दक्षिणा सैवमनाहिताग्नेः शालाग्नौ नित्यं होमं हुत्वा तेनैव मन्त्रेण हुतशेषं तौ प्रा । शयनीये मृदुस्वास्तीर्णोपहितेऽस्यै भर्ता ---त्र लक्ष्मणामद्भिरालोड्य सोमः पवत इत्येतेन शतजप्तेन सावित्र्या व्याहृतिभिः अपो देवीरुपसृज इति मन्त्रेण नस्यं दत्त्वा वामदेव्यं जपित्वा दक्षिणेन पार्श्वेन स्त्रियं शाययीत वामपार्श्वेन पुमानूर्ध्वोत्तरेणोपशयीत । शनैः प्रजार्थं चाचरेत् । बीजेऽवसिक्ते विधार्यावसर्पेत् । शीतोदकेन च शौचं कुर्यात् । तत ऊर्ध्वमग्निकर्मप्रतापायासव्यायामशोकादिवर्जनमिति ८

सा चेदिच्छेद् गौरमोजस्विनं शुचिमायुष्मन्तं पुत्रं जनयेयमिति तस्या एवं शुद्धस्नानात् प्रभृति शुक्लयवसक्तूनां मधुघृताभ्यां श्वेतायाः श्वेतपुंवत्साया गोः क्षीरेण संसृज्य मन्थं राजते पात्रे कांस्ये वा सदा पाययेत् शालिगौरयवक्षीरदधिघृतप्रायं च काले मात्रया अश्नीयात् पुष्पाभरणवासांसि च शुक्लानि बिभृयात् सायं प्रातश्च श्वेतमश्वं वृषभं वा पश्येत् सौम्यहितप्रियकथाभिरासीत अनुकूलपरिवारा च स्यादिष्टमपत्यं जनयति । या तु श्यामं लोहिताक्षं व्यूढोरस्कं पुत्रमिच्छेत् कृष्णं वा तत्र तादृगुपचारो भोजनवसनकुसुमालङ्काराणां तादृग्देशानुचिन्तनं चेति । यवागूं तु कन्याथिनीभ्योदद्यात् क्षीरोदकतिलसिद्धास्तु वर्ण्याः । गौरश्यामकृष्णेभ्योऽन्ये वर्णा निन्दिताः ९

आहारश्चतुर्विधः षड्रसाश्रयो विंशतिविकल्पोगुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छि-लश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवविकल्पात् तेन त्वगादयः शुक्रान्ता धातव आप्यायन्ते । तेषां समानं वर्धनमविरुद्धाशनम् । वातादीनां तु धातूनामन्ये धातव आप्यायिता भवन्ति भुज्यमानं मांसं मांसस्य शोणितं शोणितस्येति तदधर्मभयादनिष्टं तद्गुणैस्तु शुचिभिराहारैः क्षीणधातूनाप्याययेत् । शुक्रक्षये क्षीरघृतोपयोगो मधुरस्निग्धजीवनानां चान्येषामपि द्रव्याणामविदाहिनां प्रशस्यते मूत्रक्षये पुनरिक्षुरसवारुणीमण्डद्रवमधुराम्ललवणतक्रगुडत्रपुसोपक्लेदिनां पुरीषक्षये यवान्नविकृतिकुल्माषमाषषष्टिकयावकगोरसाम्ललवणस्निग्धशाकोपयोगः वातक्षये कटुतिक्तकषायलघुरूक्षशीतयवान्नोपयोगः पित्तक्षये कटुलवणाम्लतीक्ष्णोष्णक्षाराणां कफक्षये स्निग्धमधुरगुरुसान्द्रादीनाम् १०

यानि द्रव्याणि पुण्यानि मङ्गल्यानि शुचीनि च नवान्यभग्नखण्डानि पुन्नामानि प्रियाणि च

गर्भिण्यै तान्युपहरेद्वासांस्याभरणानि च
न स्त्रीनपुंसकाख्यानि धारयेद्वा लभेत वा

धूपितार्चितसंमृष्टं मशकाद्यपवर्जितम्
ब्रह्मघोषैः सवादित्रैर्वादितं वेश्म शस्यते

प्रातरुत्थाय शौचान्ते गुरुदेवार्चने रता
अर्चेदादित्यमुद्यन्तं गन्धधूपार्घ्यवार्जपैः

क्षीयमाणं च शशिनमस्तं यान्तं च भास्करम्
न पश्येद्गर्भिणी नित्यं नाप्युभौ राहुदर्शने

सोमार्कौ सग्रहौ श्रुत्वा गर्भिणी गर्भवेश्मनि
शान्तिहोमपराऽऽसीत मुक्तयोगं तु याचयेत्

न द्विष्यादतिथिं भिक्षां दद्यान्न प्रतिवारयेत्
स्वयं प्रज्वलिते चाग्नौ शान्त्यर्थं जुहुयाद्घृतम्

पूर्णकुम्भं घृतं माल्यं पूर्णपात्रं घृतं दधि
न किञ्चित् प्रतिरुध्नीयान्न न बध्नीत गर्भिणी

सूत्रेण तनुना रज्ज्वा स्तम्भनं बन्धनानि च
वर्जयेद्गर्भिणी नित्यं कामं बन्धानि मोक्षयेत्

अथ हीमानि रूपाणि गर्भिण्या उपलक्षयेत्
यानिदृष्ट्वा जिवानीयाद्बालजन्मान्युपक्रमेत्

मुखग्लानिः क्लमोऽङ्गानामक्षिबन्धनमुक्तता
कुक्षेश्च स्यादवस्रंसस्त्वधोभागस्य गौरवम्

पृष्ठपार्श्वकटीबस्तिवंक्षणं चातितुद्यति
योनिप्रस्रवणौदार्यभक्तद्वेषारतिक्लमाः

एतानि दृष्ट्वा रूपाणि कृत्वा ब्राह्मणवाचनम्
प्रविशेयुः स्त्रियो वृद्धाः कुशलाः शस्तधाविताः

गर्भिणीं सान्त्वयेयुस्ता हर्षयेयुः प्रियंवदाः
आश्वासयेयुर्धर्मार्थौ चोदयन्तं प्रजापतिम्

लोकान् पुत्रवतीनां च सुखानि विविधानि च
कीर्तयेयुरपुत्राणां दुःखानि निरयादिषु

अदितिं कश्यपं देवमिन्द्राणीमिन्द्रमश्विनौ
आयुष्मतां पुत्रवतां मङ्गल्यानां च कीर्तनम्

तन्त्रीवर्णोऽल्पशः स्रावः पिच्छिलः पुत्रजन्मनि
किंशुकोदकसंकाशः पुत्रिकाजन्म शंसति

सूतेरूर्ध्वं तु ये स्रावा निन्दिताञ्शस्मयेत्तु तान्
तस्या अस्यामवस्थायामुपयाचेत देवताः

अव्यावृते स्त्रिया गर्भे विवृते चापरामुखे
ग्राहीषु वर्तमानासु सा विवर्तेत गर्भिणी
न तीक्ष्णं ग्राहिशूलेषु क्षिप्रं नारी प्रजायते
विलम्बिताभिरावीभिर्गर्भः क्लेशयते स्त्रियम्

केचिदस्यामवस्थायां व्यायामं मुसलादिकम्
जृम्भाचङ्क्रमणाद्यं च भिषजो ब्रुवते हितम्

वर्जनीयं तु तत् सर्वं भगवानाह कश्यपः
नार्याः प्रसवकाले हि शरीरमुपमृद्यते

त्रयो दोषाः प्रकुप्यन्ति विचाल्यन्ते च धातवः
गर्भिणी तदवस्था हि यत्नधार्या विशेषतः

अधिकं सौकुमार्यं हि गर्भिण्याः क्लेद्यमेव च
स्रावकाले विशेषेण विषादभयसंश्रयः

एकपादो यमकुले पाद एक इह स्थितः
दृष्ट्वा दुःखं स्त्रियस्तस्या इत्येवं ब्रुवते मिथः

तस्यास्त्वस्यामवस्थायां व्यायामो न प्रशस्यते
व्यायामः सेव्यमानो हि गर्भिणीमाशु नाशयेत्

अतिचङ्क्रमणेनापि हन्याद्गर्भमुपस्थितम्
अत्ययं प्राप्नुयाद्धोरं देहान्तकरणं महत्

उपविष्टाऽसकृत्तस्मादनिर्विण्णात्रपान्विता
वृद्धस्त्रीद्रव्यसंपन्ना प्रजायेत प्रजार्थिनी

वचा लाङ्गलिकी कुष्ठं चिरबिल्वैलचित्रकाः
चूर्णितं मुखराजिघ्रेत्तथा शीघ्रं प्रजायते

आजिघ्रेद्भूर्जधूपं वा नमेरोर्गुग्गुलोस्तथा
अथ प्रपद्यते गर्भस्तथा क्षिप्रं विमुच्यते

पार्श्वसन्धिकटीपृष्ठं तैलेनोष्णेन म्रक्षितम्
मृद्गीयुरवकर्षेयुः शनैः प्राज्ञ्यः स्त्रियः सुखाः

दुर्बलां पाययेन्मद्यमित्येके नेति कश्यपः
पूर्वक्लिष्टा तथैवास्यायवागूं तृषिता पिबेत्

यदा गर्भोदकं योनौ सशूलं संप्रवर्तते
कालेन चोदितो गर्भो विमुच्य हृदयोदरम्

बस्तिशीर्षमधोभागमवगृह्णाति जन्मनि
ग्लानिश्च जायतेऽत्यर्थं योन्युत्पीडनभेदनम्
इत्येतैः कारणैर्विद्याद्गर्भस्य परिवर्तनम्
अथास्याः प्रसवश्चेति ततः पर्यङ्कमारुहेत्

प्रावारमुपधानं वा ---
शारीरस्थानस्यैतावानेव भाग उपलब्धः