खिलस्थानम्

अथ नवमं खिलस्थानम्
विषमज्वरनिर्देशीयाध्यायः प्रथमः

अथातो विषमज्वरनिर्देशीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
कश्यपं सर्वशास्त्रज्ञं सर्वलोकगुरुं गुरुम्
भार्गवः परिपप्रच्छ संशयं संश्रितव्रतः ३
प्रोक्तं ज्वरचिकित्सायां विषमज्वरभेषजम्
न निर्दिष्टं भगवता विषमत्वस्य कारणम् ४
युक्तं सततकादीनां वैषम्यं विषमागतेः
अविसर्गी ज्वरः कस्मात् संततो विषमः स्मृतः ५
प्रेतज्वरो ग्रहोत्थश्च विषमः केन हेतुना
तदिदानीं यथाकालं वक्तव्योऽवयवाद्यथा ६
वक्तुमहसि तत्त्वेन सविशेषं सविस्तरम्
इति पृष्टः स शिष्येण प्रश्नं प्रोवाच कश्यपः ७
अल्पहेतुर्बहिर्मार्गो वैकृतो निरुपद्रवः
एकाश्रयः सुखोपायो लघुपाकः समो ज्वरः ८
विषमस्तद्विपर्यस्तस्तीक्ष्णत्वात् संततो मतः
तद्वत् प्रेतग्रहोत्था ये चत्वारो विषमागमात् ९
दुर्जयत्वादुग्रहपरिग्रहात्
वैषम्यं संततादीनां दारुणत्वादुदाहृतम् १०
तथा सततकादीनां चतुर्णां कालकारितम्
विषमत्वं प्रवक्ष्यामि ज्वराणां जायते यथा ११
समस्ता द्वन्द्वशो वाऽपि धमनी रसवाहिनीः
दोषाः प्रपन्नाः कुर्वन्ति विषमा विषमज्वरम् १२
ज्वरितो मुच्यमानो वा मुक्तमात्रश्च यो नरः
व्यायामगुर्वसात्म्यान्नमतिमात्रमथो जलम् १३
पायसं कृशरं पिष्टं पललं दधि मन्दकम्
पिण्याकमाषविकृतीर्ग्राम्यानूपं तथाऽऽमिषम् १४
एवं विधानि चान्यानि विरुद्धानि गुरूणि च
सेवते च दिवास्वप्नमजीर्णाध्यशनानि च १५
ज्वरोऽभिवर्धते तस्य विषमो वाऽऽशु जायते
दोषेष्वपरिपक्वेषु कषायं यश्च सेवते १६
लौल्याद्वा स्नेहपानानि क्षीरं संतर्पणानि वा
दैवतानामभिध्यानाद् ग्रहसंस्पर्शनादपि १७
सद्यो वान्तो विरिक्तो वा स्नेहपीतोऽनुवासितः
शीतोपचारं गुर्वन्नं व्यवायं यश्च सेवते १८
तस्यापि सहसा वायुरस्थिमज्जान्तरं गतः
कुपितः कोपयत्याशु श्लेष्माणं पित्तमेव च १९
ततोऽस्य धातुवैषम्याद्विषमो जायते ज्वरः
सततोऽन्येद्युको वाऽपि तृतीयः सचतुर्थकः २०
न च नोपशमं याति न च भूयो न कुप्यति
शमप्रकोपयोः कालं न चायमतिवर्तते २१
न च स्वभावोपशमं गच्छत्यनुशयात्मकः
न हि स्वभावशान्तानां भावानामस्ति संभवः २२
ज्वरप्रवेगोपरमे देही मुक्त इवेक्ष्यते
तथाऽप्यस्यामवस्थायामेभिर्लिङ्गैर्न मुच्यते २३
मुखवैरस्यकाटुक्यमाधुर्यादिभिरल्पशः
नात्यन्नलिप्साग्लानिभ्यां शिरसो गौरवेण च २४
पुनः पुनर्यथा चैष जायते तन्निबोध मे
निरुद्धमार्गो दोषेण विषमज्वरहेतुना २५
वायुस्तद्दोषकोपान्ते लब्धमार्गो यथाक्रमम्
दोषशेषं तमादाय यथास्थानं प्रपद्यते २६
स दोषशेषः स्वे स्थाने लीनः कालबलाश्रयात्
रसस्थानमुपागम्य भूयो जनयति ज्वरम् २७
उपक्रमविशेषेण स्वबलस्य व्ययेन च
क्षयं प्राप्नोति वृद्धिं च समानगुणसंश्रयात् २८
सोऽयं निवृत्तिं संप्राप्य यथा दीपः स्वभावतः
पुनः पुनः प्रज्वलति क्षीणत्तैलेन्धनोऽपि सन् २९
स्वमधिष्ठानमाश्रित्य शान्तः शान्तस्तथा ज्वरः
काले बलं दर्शयति क्षीणदोषेन्धनोऽपि सन् ३०
स्वहेतुदोषमाश्रित्य नियतो नियमेन यः
अहोरात्रे दर्शयति कालहेतुकृतं बलम् ३१
द्विकालं स यथादोषं ज्वरः सततकः स्मृतः
स्थानमामाशयस्तस्य यं समाश्रित्य वर्तते ३२
उरस्त्वन्येद्युकस्थानमहोरात्रादुरश्च्युतः
दोषो रसं समासाद्य यदा दर्शयते बलम् ३३
तदाऽनुषङ्गी स्वे काले जायतेऽन्येद्युको ज्वरः
कण्ठस्तृतीयकस्थानमहोरात्राच्च्युतस्ततः ३४
उरः प्रपद्यतेऽन्यस्मादहोरात्राद्यथाक्रमम्
रसधात्वाश्रितो दोष ऊष्मणा सह मूर्च्छितः ३५
तृतीयेऽहनि निर्वृत्तिं जनयेत् स तृतीयकः
शिरश्चतुर्थकस्थानं चतुर्थं समुदाहृतम् ३६
अहोरात्राच्च्युतः स्थानाद्दोषः कण्ठेऽवतिष्ठते
ततः पुनरहोरात्रादुरसि प्रतिपद्यते ३७
तृतीये चाप्यहोरात्रे रसधातौ प्रकुप्यति
चतुर्थकः स विज्ञेयश्चिरस्थायी महाज्वरः ३८
गम्भीरस्थानसंभूतो धातुसंकरदूषितः
दर्शयित्वा बलं काले जन्तोः शिरसि लीयते ३९
त्रिदोषसंभवत्वाच्च भूतसंस्पर्शनादपि
दुश्चिकित्स्यतमो ह्येष तस्माद्ध्येनमुपक्रमेत् ४०
बलिभिः शान्तिहोमैश्च सिद्धैर्मन्त्रपदैस्तथा
पापापहरणं चास्य कर्तव्यं सिद्धिमिच्छता ४१
भूतेश्वरं नीलकण्ठं प्रपद्येत वृषध्वजम्
चिरानुबन्धी विषमो यथाकालं विवर्धते ४२
एकाहाच्च द्व्यहाच्चैव त्र्यहाच्चतुरहात्तथा
पञ्चमेऽहनि षष्ठे वा कस्मादेष न जायते ४३
तस्य त्वामाशयः स्थानमुरः कण्ठः शिरस्तथा
स्थानमन्यत्ततो नास्ति स्थानाभावान्न जायते ४४
आग्नेयः स्यात् सततको वायव्यो हि द्वितीयकः
वैश्वदेवस्तृतीयः स्यादैशानस्तु चतुर्थकः ४५
कस्मात् परिक्षीणबलः क्षीणधातुबलौजसः
ज्वरो विवर्धते जन्तोर्मोक्षकाले विशेषतः ४६
गतेरभावाद्वाह्येन वायुनाऽभ्याहतक्रमः
संक्षीणवर्त्यनुगतः स्नेहवाय्वभिमूर्च्छितः
शान्तोऽपि तदुपादानाद्यथा दीपो न दीप्यते ४७
तद्वद्धातुबले क्षीणे ज्वरः क्षीणबलोऽपि सन्
निरुपादानदोषत्वान्मोक्षकाले विशेषतः ४८
हेतुशेषमशेषेण दहन् दर्शयते बलम्
सप्रतीकारवैशेष्यात् प्रशमं याति हन्ति वा ४९
पाकाद्वा शमनाद्वाऽपि शोधनाद्वा हृताधिके
स्वस्थानस्थे नरो दोषे शुद्धस्रोता विसृज्यते ५०
निर्दिष्टो दोषपाकादेरस्माद्धेतुत्रयात् परम्
अन्यत्र चैव नान्योऽस्ति हेतुर्ज्वरविमोक्षणे ५१
कस्माद्दोषपरिक्षोभे प्रायशः शीतपूर्वकम्
निर्वर्तते ज्वरो जन्तोः पश्चाद्दाहः प्रवर्तते ५२
वायुर्व्यवायी विशदः शीतो रूक्षश्चलः खरः
पित्तमाग्नेयमुष्णं च तीक्ष्णमल्पं लघु द्रवम् ५३
सौम्यः शीतो गुरुः स्निग्धो बलवान् कफको बहु
कफो मन्दव्यवायी च चिरोत्थाननिवर्तनः ५४
वायुश्च शीतसामान्यात् कफस्यानुबलो बली
बलवान् हि गुणः सौम्य आग्नेयो दुर्बलः स्मृतः ५५
हेतुनाऽनेन महता श्लेष्मा हि बलवत्तरः
तस्मात् पूर्वं ज्वरे शीतं पश्चाद्दाहः प्रवर्तते ५६
स्ववेगपरिणामाच्च क्रियाभिश्च यदा कफः
उष्णाभिः प्रशमं याति तदा पित्तं प्रकुप्यति ५७
परीणामक्रियाभिर्वा शान्ते तस्मिन् सुखी भवेत्
हेतुरुक्तो महानेष यथावच्छीतपूर्वके ५८
अथ कस्माज्ज्वरो जन्तोर्जायते दाहपूर्वकः
स एव हेतुरत्रापि बलीयस्त्वादुदाहृतः ५९
अत्युदीर्णं यदा पित्तं वायुनाऽल्पेन मूर्च्छितम्
अनुबद्धं रसस्थाने श्लेष्मणाऽल्पबलेन च ६०
दाहः पूर्वं तदा जन्तोः शीतमन्ते प्रवर्तते
सोद्वेपकः सप्रलापस्मृतिबुद्धिप्रमोहनः ६१
तावेतौ शीतदाहादी ज्वरौ संसर्गसंभवौ
असाध्यः कृच्छ्रसाध्यो वा दाहपूर्वो ज्वरस्तयोः ६२
प्रत्यनीकगुणाः सन्तो दोषा वातादयः कथम्
संभूय कुर्वते रोगान्नान्योऽन्यं शमयन्ति च ६३
स्वभावाद्दूषणाद्दोषा नान्योन्यशमनाः स्मृताः
यस्मात्तस्माद्बहुविधाः संसृष्टाः कुर्वते गदान् ६४
विरुद्धा गुणतोऽन्योन्यं कार्यं सत्त्वादयो यथा
शिरः संतप्यते कस्माज्ज्वरितस्य विशेषतः ६५
सति सर्वाङ्गतापे च शैत्यं भवति पादयोः
दोषैरावृतमार्गत्वादूर्ध्वगत्वाच्च तेजसः ६६
बाहुल्यादिन्द्रियाणां च शिरः संतप्यतेऽधिकम्
तेजसाऽतिप्रवृद्धेन सोमधातुः प्रपीडितः ६७
अधः प्रपद्यते तेन शैत्यं भवति पादयोः
ज्वरोष्मणाऽभिसंतप्ते प्रागुष्णादिक्रियाविधिः ६८
क्रियते नेतरः कस्माच्छीत उष्णस्य बाधकः
यथाऽग्न्यगारे संतप्ते कपाटपुटसवृते ६९
भवत्यत्यधिकस्तूष्मा सर्वतः परितापनः
स एवोद्घाटितद्वारे मन्दीभवति तत्क्षणात् ७०
एवमावृतमार्गेषु दोषैः स्रोतःसु देहिनाम्
ज्वरोष्मा वर्धते देहे यथाहेतुबलाश्रयम् ७१
उद्घाटनार्थं तत्तेषामुष्णोपक्रम इष्यते
स्तम्भनो हि गुणः शीत उष्णो विलयनः स्मृतः ७२
तस्मादुष्णाम्बु पानाय ज्वरिताय प्रदीयते
तेनास्य दोषाः पच्यन्ते कायाग्निश्चाभिदीप्यते ७३
ज्वरोष्मा मार्दवं याति विबन्धश्च प्रशाम्यति
तृष्णा निवर्तते चाशु प्रकाङ्क्षा चोपजायते ७४
ऋते पित्तज्वरादुष्णो विधिः सर्वो ज्वरापहः
तत्राप्यनुष्णशीतादिरुपचारो विधीयते ७५
इति सप्त यथाप्रश्नं निर्दिष्टा विषमज्वराः
वक्ष्ये सततकादीनां चिकित्सां शृण्वतः परम् ७६
उपक्रमैः परिक्लिष्टं क्षीणधातुबलौजसम्
ज्वरः पुराणो रूक्षत्वादनुबध्नाति देहिनम् ७७
तस्मादस्य बलाधाने प्रयतेत विचक्षणः
रम्यैर्विचित्रैराहारैर्हृद्यैः श्रद्धोपपादितैः ७८
सुराग्रपानैर्मांसानां वैष्किराणां च भक्षणैः
सर्पिषः पञ्चगव्यस्य पयसो लशुनस्य च ७९
उपक्रमेच्चौषधानां प्रयोगैर्विषमज्वरम्
दैवतेज्योपहारैश्च धूपनाभ्यञ्जनाञ्जनैः ८०
वातोत्तरं स्नेहपानैरभ्यङ्गैः सावगाहनैः
स्निग्धोष्णैरन्नपानैश्च बलिभिश्चाप्युपक्रमैः ८१
पित्तोत्तरं तिक्तशीतैः शमनैः सविरेचनैः
पयसा सर्पिषा चैव शीतैश्चाभ्यञ्जनैर्जयेत् ८२
वमनैः पाचनीयैश्च लङ्घनैर्लघुभोजनैः
रूक्षोष्णैश्चाप्युपचरेत् कषायैश्च कफोत्तरम् ८३
रोमहर्षोऽङ्गमर्दश्च वातपित्तोत्तरे ज्वरे
महाकल्याणकं सर्पिः पञ्चगव्यमथो पिबेत् ८४
पीत्वा वा महतीं मात्रां सर्पिषः पुनरुल्लिखेत्
तदहर्वा परेद्युर्वा पेयां समरिचां पिबेत् ८५
राजमूलस्य वा क्वाथं पिबेत् प्रज्वरकं हविः
क्रितोयं --- मयोगश्चतुर्थकमपोहति ८६
धारोष्णं वा पयः पीत्वा तद्वमेदिच्छया न वा
शीतं वा मधुनाऽशीतं निम्बपत्रोदकं पिबेत् ८७
सर्पिर्वा माहिषं पीत्वा हिङ्गुस्तोकसमन्वितम्
तस्मिन् विदग्ध एवान्नं दध्ना भुञ्जीत केवलम् ८८
नीलस्पन्दशिफा वाऽपि सुपिष्टा तण्डुलाम्बुना
देया ज्वरतिथौ नस्ये मृगराजस्य वा वसा ८९
हरीतकी वचा कुष्ठं निम्बपत्रं पलङ्कषा
सिद्धार्थका यवाः सर्पिर्धूपो जीर्णज्वरापहः ९०
मूलानि सहदेवायाः कटुका रोहिणी वचा
तण्डुलोदकपिष्टोऽयं देहो दाहज्वरापहः ९१
सुरया सर्वगन्धैश्च तैलमभ्यञ्जनं पचेत्
सर्षपा लसुनं हिङ्गु त्रिव्योषं रोचना वचा ९२
ऋक्षपित्तं बस्तमूत्रं करञ्जस्य फलानि च
ग्रहज्वराभिभूतानां नस्यकर्माञ्जनं हितम् ९३
सन्निपातविबन्धे च व्यालदष्टे च शस्यते
अर्शःसु योनिशूले च प्रलेपोऽयमनुत्तमः ९४
भीषणैर्हर्षणैश्चैव विचित्राद्भूतदर्शनैः
व्याक्षेपं मनसश्चास्य भिषक्कुर्याज्ज्वरागमे ९५
पानं चैतत्प्रदातव्यं स्निग्धस्विन्नस्य देहिनः
त्रिभण्टीमजगन्धां च नीलिनीं कटुरोहिणीम् ९६
कल्कं वा कटुरोहिण्याः पिबेद्गोमूत्रसंप्लुतम्
चिकित्सायां च यत् प्रोक्तं तच्च कुर्याद्विधानवित् ९७
इति ह स्माह भगवान् कश्यपः
इति खिलेषु विषमज्वरनिर्देशीयो नाम प्रथमोऽध्यायः

विशेषनिर्देशीयो नाम द्वितीयोऽध्यायः
अथातो विशेषनिर्देशीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
महर्षिं कश्यपं वृद्धं वेदवेदाङ्गपारगम्
सुखोपविष्टमव्यग्रमपृच्छद् वृद्धशीवकः ३
विषमाणां ज्वराणां ते सविकल्पं सविस्तरम्
यद्यथावच्च यावच्च प्रोक्तं वक्तव्यमादितः ४
सामान्येनापि सर्वेषां ज्वराणां विगतज्वर
वक्तुमर्हसि कार्त्स्न्येन परिशेषमतः परम् ५
इति संचोदितः प्राह प्रजापतिरिदं वचः
समासाभिहितं यच्च नाभिहितं हितम् ६
ज्वरितानां ज्वराणां च भूयो वक्ष्यामि तच्छृणु
अवस्थालक्षणोद्देशविशेषोपक्रमे क्रमात् ७
भैषज्यमनवस्थायां पथ्यमप्यवचारितम्
गुणं न किञ्चित् कुरुते दोषायैव तु कल्पते ८
प्रयुक्तं तदवस्थायाममृतत्वाय कल्पते
वाताद्बाह्यादभीघातात् क्रोधाच्छोकाद्भयात् क्षयात् ९
श्रमाद् ग्रहाभिषङ्गाच्च वेगानां च विधारणात्
समुत्पन्ने ज्वरे जन्तोर्वमनं न प्रयोजयेत् १०
प्रयुक्तं कुरुते क्षिप्रं तीव्रं सोपद्रवं ज्वरम्
पूरणात्तु समुत्पन्ने ज्वरे ह्यमात्रया श्रयेत् ११
दोषे वृद्धेऽतिमात्रा च समुत्क्लिष्टे तथैव च
सन्निपातज्वरभयात्त्वरितं वामयेद्भिषक् १२
वामितं लङ्घनाद्येन क्रमेणोपक्रमेत्ततः
वमनानन्तरं चास्य कुर्याच्छीर्षविरेचनम् १३
तथाऽऽशु शिरसः शूलं गौरवं चोपशाम्यति
विबन्धश्चक्षुरादीनामरुचिश्च निवर्तते १४
जीर्णज्वरेऽप्यथैतेषु विकारेषु प्रदापयेत्
बहुदोषे बलवती मध्यदोषेषु मध्यमा १५
अल्पदोषे ज्वरे मृद्वी क्रियः कार्या विजानता
स्वानि रूपाणि कार्त्स्न्येन यदा व्याधौ विशेषतः १६
तीव्राणि व्यथितत्वं च शरीरस्योपलक्षयेत्
बहुदोषं तदा विद्यादल्पदोषमतोऽन्यथा १७
तथा मध्यबलेष्वेषु मध्यदोषं विभावयेत्
विबन्धारुचितृण्मूर्च्छा गात्रभेदः शिरोरुजा १८
प्रलापालस्यहृल्लासतन्द्रीदाहश्रमभ्रमाः
मूत्रप्रचुरता ग्लानिः पुरीषस्याविपक्वता १९
उत्क्लेशो गुरुकोष्ठत्वं लिङ्गान्यामज्वरे वदेत्
निवृत्तौ प्रायशश्चैषां संजाते ज्वरमार्दवे २०
लघुत्वं चाष्टरात्रे च निरामज्वरमादिशेत्
आपातलक्ष्यः स्यादूष्मा तत्क्षणादेति मार्दवम् २१
अन्तर्लघुत्वमुत्साहो दोषपक्तिः प्रसन्नता
तृष्णादीनां मृदुत्वं च बहिर्मार्गगते ज्वरे २२
तत्राभ्यङ्गान् प्रदेहांश्च परिषेकांश्च कारयेत्
अविपक्वा विपक्वा वा दोषा यस्य न निर्हृताः २३
न च व्याधेरुपशमो न चोत्साहो न लाघवम्
ग्लानिकार्श्ये न चात्यर्थं न च च्छन्दोऽशनं प्रति २४
अप्रकृष्टे वा स काले दोषदुर्बलः
अतो विपर्ययाद्देही भवेदौषधदुर्बलः २५
पाचनैरविपक्वानां दोषाणां दोषदुर्बले
सम्यक्कुर्यादुपशमं पक्वानां च विरेचनैः २६
इतरस्यामयावेक्षं बलाप्यायनमिष्यते
समुदीर्णेषु सहसा दोषेष्वभिनवेषु च २७
बलवद् दुर्बले वाऽपि कषायं वाऽपि भेषजम्
संरक्षन् धर्मयशसी न प्रयुञ्ज्यात् कदाचन २८
यथा शरत्सु महतोः क्रुद्धयोरभिषक्तयोः
न धत्ते दुर्बला वेगं हस्तिनोरग्रवारणी २९
तथा बलं बलवतोस्तद्दोषौधयोर्द्वयोः
संक्षुब्धयोर्न सहते संतप्ता देहिनस्ततः ३०
पुष्णाति दुर्बलं दोषाः कषायः स्तम्भयत्यतः
भूयोऽभिवृद्धास्ते प्राणान्निघ्नन्त्याशु शरीरिणः ३१
कषायेणाकुलीभूताश्चिरं संक्लेशयन्ति वा
भग्नवेगेषु दोषेषु विधिना लङ्घनादिना ३२
काले प्रयुक्तं भैषज्यं स्याद्विकारोपशान्तये
लङ्घनं स्वेदनं पेया त्रिविधा दीपनान्विता
ओदनस्त्रिविधो यूषः कषायस्त्रिविधो रसः ३३
सर्पिरभ्यञ्जनं बस्तिः प्रदेहः सावगाहनः
ज्वरापहः समुद्दिष्टो लङ्घनादिरयं क्रमः ३४
पच्यन्ते सप्तरात्रेण दोषाः सप्तसु धातुषु
तस्मात् कषायं सप्ताहे पाचनीयं विधापयेत् ३५
शमनं स्रंसनीयं वा यथावस्थमतः परम्
मन्दोष्मत्वात् स्थिरत्वाच्च गुरुत्वाच्च कफज्वरः ३६
परिपाकं चिरादेति तस्मादस्यौषधक्रमः
अष्टाहात् परतो वाऽपि यथापाकं विधीयते ३७
पक्वावशेषस्तेनाशु पच्यतेऽग्निश्च दीप्यते
दोषपक्त्याऽग्निदीप्त्या च ज्वरस्यापचयो ध्रुवम् ३८
तद्युक्तस्नेहसंस्कारान् रसानत्रावचारयेत्
ततः संशमनं कुर्याद्व्याधिशेषोपशान्तये ३९
प्रसादनार्थं धातूनां बलस्याप्यायनाय च
देशदोषाग्निसात्म्यर्तुयुक्तं चात्र प्रशोषणम् ४०
त्र्यहं चतुरहं वाऽपि नातिमात्रमतः परम्
रूक्षत्वाज्ज्वर्यमाणाय देयं सर्पिर्ज्वरापहम् ४१
ज्वरितोऽनेन निर्वाति प्रदीप्तं चाम्बुना गृहम्
सर्पिः पित्तं शमयति शैत्यात् स्नेहाच्च मारुतम् ४२
समानगुणमप्येतत् संस्काराज्जीयते कफम्
अथ चेद्बहुदोषत्वात् कृतेऽपि शमने सति ४३
पक्वाशयगुरुत्वं च स्तिमितत्वं च लक्ष्यते
स्वेदो विण्मूत्ररागश्च भक्तस्यानभिनन्दनम् ४४
स्निग्धाय क्षामदेहाय दद्यात्तत्र विरेचनम्
शूले पक्वाशयगते पार्श्वपृष्ठकटिग्रहे ४५
वातविण्मूत्रसङ्गे च निरूहः सानुवासनः
बहिर्मार्गगते चापि ज्वरेऽभ्यङ्गादिरिष्यते ४६
नरस्य वातप्रकृतेर्यदि स्याद्वातिको ज्वरः
ऋतौ च वातप्रकृतौ स दुःसाध्यस्त्रिसंकरः ४७
तथैव पित्तप्रकृतेः श्लैष्मिकस्य च देहिनः
विपरीतप्रकृतयः सुखसाध्या ज्वरादयः ४८
एकद्वित्रिप्रकृतयो व्याधयः सर्व एव हि
सुखदुःखाश्चिकित्स्याः स्युः प्रायशस्ते यथाक्रमम् ४९
समुत्क्लिष्टेषु दोषेषु त्रिविधं कर्म निश्चितम्
शोधनं शमनं चैव तथा शमनशोधनम् ५०
तत्र पुंसां बलवतां वह्निमतां सताम्
तीव्रवेगामयानां च हितं शोधनमौषधम् ५१
बलिनामल्पदोषाणां नातिवृद्धविकारिणाम्
नातिक्लेशसहानां च शमनं हितमुच्यते ५२
तथैव मध्यदोषाणां दुर्बलानां शरीरिणाम्
बलवद्व्याधिजुष्टानां हितं शमनशोधनम् ५३
ऊर्ध्व हरति यद्दोषानधश्चोभयतश्च यत्
द्रव्यं विविधवीर्यत्वात्तद्धि संशोधनं स्मृतम् ५४
नाधो न चोर्ध्वं हरति यद्दोषाञ्छमयत्यपि
न चोग्रगुणवीर्यं तद् द्रव्यं संशमनं विदुः ५५
नात्यर्थं शोधयति यद्दोषान् संशमयत्यपि
तत्र मध्यबलोपेतं द्रव्यं शमनशोधनम् ५६
दशमूलशटीरास्नावयस्थापञ्चकोलकम्
शार्ङ्गेष्टा रोहिणी पाठा सरलो देवदारु च
मुस्ताऽमृता वृश्चिकाली कर्कटाख्या दुरालभा ५७
त्रायन्तीत्येवमादीनि शमनीयानि निर्दिशेत्
वचाकोशातकीनिम्बपिप्पल्यः कौटजं फलम् ५८
क्षारद्वयं सगोमूत्रं मदनं लवणानि च
त्रिफलाऽऽरग्वधो दन्ती नीलिनी सप्तला त्रिवृत् ५९
एवमादि तु यच्चान्यद् द्रव्यं शोधनमुच्यते
काश्मर्यामलकं द्राक्षा शीतपाकी परूषकम् ६०
मधुकं पिप्पलीमूलं विडङ्गं हिङ्गु सैन्धवम्
पाठाऽजगन्धाऽतिविषा पथ्या मुस्ता कटुत्रिकम् ६१
रोहिणीत्येवमादि स्याद् द्रव्यं शमनशोधनम्
त्रिविधं कर्म निर्दिष्टमित्येतद्दोषशान्तये ६२
दोषशान्तौ च धातूनां प्रसाद उपजायते
मलायनानां सर्वेषामव्याघातक्रियासु च ६३
दोषधातु मलैस्तस्मात् स्वे स्वे कर्मण्यवस्थितैः
स्वास्थ्यमुत्पद्यते नॄणामस्वास्थ्यं तद्विपर्यये ६४
सम्यगाहारचेष्टाभ्यां यदा सात्म्यं यथेरितम्
समानां रक्षणं कुर्याद्दोषादीनां विचक्षणः ६५
कुपितानां प्रशमनं क्षीणानामभिवर्धनम्
क्षपणं चैव वृद्धानामेतावद्धि चिकित्सितम् ६६
तदेकत्वमनेकत्वमवस्थामुदयव्ययम्
दोषाणामातुराणां च संप्रधार्य बलाबलम् ६७
यथावदौषधानां च भिन्नानां नामरूपतः
रसान् गुणांश्च वीर्यं च विपाकं च यथातथम् ६८
देशं कालमुपायं च प्रमाणं व्याधिमेव च
ज्ञात्वा चिकित्सा भिषजा प्रणेतव्याऽप्रमादतः ६९
ये यथा च समुद्दिष्टा योगाः स्वे स्वे चिकित्सिते
ते तथैव प्रयोक्तव्या न तेष्वस्ति विचारणा ७०
को हि नाम प्रणीतानां द्रव्याणां तत्त्वदर्शिभिः
नानाविधानामेकत्वे तत्कर्म ज्ञातुमर्हति ७१
किञ्चिदन्यरसं द्रव्यं गुणतः किञ्चिदन्यथा
वीर्यतश्चान्यथा किञ्चिद्विद्यादत्र विपाकतः ७२
अथ चैकत्वमागम्य प्रयोगे न विरुध्यते
उत्पद्यते यथार्थं च समवायगुणान्तरम् ७३
पृथक्पृथक्प्रसिद्धेऽपि गन्धे गन्धान्तरं यथा
गन्धाङ्गानां मनोह्लादि प्रत्यक्षं सामवायिकम् ७४
तस्मादार्षप्रयोगेषु प्रक्षेपापचयं प्रति
न प्रमाद्येदविज्ञाय दोषौषधबलाबलम् ७५
वयः शरीराग्निबलं त्ववेक्ष्य मतिमान् भिषक्
मात्रां विकल्पयेदत्र प्रधानावरमध्यतः ७६
इति ज्वराणामुद्दिष्टो विशेषोऽयमुपक्रमे
यं विदित्वा तु कार्येषु विविधेषु न संभ्रमेत् ७७
इति ह स्माह भगवान् कश्यपः ७८
इति खिलेषु विशेषनिर्देशीयो नाम द्वितीयोऽध्यायः

भैषज्योपक्रमणीयस्तृतीयाध्यायः
अथातो भैषज्योपक्रमणीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
ब्राह्मया श्रिया प्रज्वलन्तं ब्रह्मर्षिममितद्युतिम्
कश्यपं लोककर्तारं भार्गवः परिपृच्छति ३
आबाधकारणं व्याधिर्भेषजं सुखकारणम्
सम्यग्युक्तं तदमृतं स्यात्तदन्यद्विषवद्भवेत् ४
भेषजोपक्रमं तस्माद्भगवन् वक्तुमर्हसि
औषधं किमधिष्ठानं कथं चास्योपदिश्यते
औषधज्ञौषधत्वं च भेषजत्वमथापि च ५
भैषज्यत्वागदत्वं च कषायत्वं तथैव च
यथा च गौण्येन रसा द्रव्ये द्रव्ये व्यवस्थिताः ६
प्राधान्येन यथा दृष्टो मधुके मधुरो रसः
अम्लः कपित्थे लवणः सैन्धवे नागरे कटुः ७
तिक्तस्तिक्तकरोहिण्यां कषायश्चाभयां प्रति
सत्येवं रसनानात्वे संयोगः सर्व एव हि ८
कषायत्वेन निर्दिष्टः कुतः किं चात्र कारणम्
कति के चौषधगुणा भेदाश्चास्य कति स्मृताः ९
कति चौषधकालाश्च काले काले च को विधिः
कस्थां कस्यामवस्थायां पातव्यं भेषजं न वा १०
कथं च पेयं पीतस्य परिहार्यं च किं भवेत्
जीर्यमाणस्य किं रूपं किं च जीर्णस्य लक्षणम् ११
विभज्य वयसस्त्रित्वं कथं मात्रा विधीयते
अधोभागोर्ध्वभागानां दोषसंशमनी च या १२
जीवनीया च या मात्रा दीपनीया च या स्मृता
मात्रा संशोधनी या च स्नेहमात्रा च या भवेत् १३
सर्वमेतद्यथातत्त्वं कीर्तयस्व महामुने
जातमात्रमुपादाय यावद्वर्षशतं परम् १४
इति शुश्रूषमाणाय शिष्याय वदतांवरः
आचचक्षे यथान्यायं भैषज्योपक्रमं प्रति १५
अयं हेतुरिदं लिङ्गमस्य चायमुपक्रमः
इति तावत् परं सूक्ष्मं व्याधिज्ञानं प्रचक्षते १६
अस्मादप्यौषधज्ञानमाहुः सूक्ष्मतरं बुधाः
तदहं तेऽभिधास्यामि कार्त्स्न्येनैव निबोध मे १७
पथ्यसेविनमारोग्यं गुणेन भजते नरम्
अपथ्यसेविनं क्षिप्रं रोगः समभिमर्दति १८
स रोगो द्विविधश्चोक्तः शारीरो मानसस्तथा
आधयो मानसास्तत्र शारीरा व्याधयः स्मृताः १९
साध्योऽसाध्यश्च याप्यश्च त्रिविधं रोगलक्षणम्
वातपित्तकफा दोषाः शारीरव्याधिहेतवः २०
सत्त्वेतरं च द्वन्द्वं च मानसामयहेतवः
धृतिवीर्यस्मृतिज्ञानविज्ञानैर्मानसं जयेत् २१
शारीरं भेषजैः कालयुक्तिदैवव्यपाश्रयैः
स पुनर्द्विविधो व्याधिरागन्तुर्निज एव च २२
आगन्तुर्बाधते पूर्वं पश्चाद्दोषान् प्रपद्यते
निजस्तु चीयते पूर्वं पश्चाद्वृद्धः प्रबाधते २३
तस्मादागन्तुरोगाणां पश्यन्ति निजवत् क्रियाः
निजानां पूर्वरूपाणि दृष्ट्वा संशोधनं हितम् २४
संशोधनं सप्तविधं तदायत्तं चिकित्सितम्
तच्चायत्तं चतुष्पादे पादश्चौषधमुच्यते २५
ओषधं युक्त्यधिष्ठानं दैवाधिष्ठानमेव च
युक्तिर्वमनकर्मादि दैवं यागादि कीर्त्यते २६
ओसो नाम रसः सोऽस्यां धीयते यत्तदोषधिः
ओसादारोग्यमाधत्ते तस्मादोषधिरोषधः २७
भिषग्विज्ञाननेयत्वाद्भेषजं भिषजो विदुः
भिषग्जिते हितत्वाच्च भैषज्यं परिचक्षते २८
अगदत्वं च युक्तस्य गदानामपुनर्भवात्
कण्ठस्य कषाणात् प्रायो रोगाणां वाऽपि कर्षणात् २९
कषायशब्दः प्राधान्यात् सर्वयोगेषु कल्प्यते
शब्दरूपरसस्पर्शगन्धवद्देशजं नवम् ३०
अजग्धमविदग्धं च द्रव्यं गुणवदुच्यते
मात्रावल्लघुपाकं च हृद्यं दोषप्रवाहणम् ३१
अल्पपेयं महावीर्यं प्रीणनं बलरक्षणम्
व्यापत्तावल्पदोषं च मन्दग्लापनमेव च ३२
संस्कारगुणसंपन्नं राजार्हं भेषजं मतम्
तद्धि सिद्धमसिद्धं च शीतमुष्णं द्रवं घनम् ३३
कोष्णं सस्नेहमस्नेहमिति भिन्नमनेकधा
तदामयवयोभेदात् सप्तधैव विभज्यते ३४
चूर्णं शीतकषायश्च स्वरसोऽभिषवस्तथा
फाण्टः कल्कस्तथा क्वाथो यथावत्तं निबोध मे ३५
सूक्ष्मचूर्णीकृतं चूर्णं नानाकर्मसु युज्यते
ग्रहण्यामविकारेषु ब्रणवत्यञ्जनादिषु ३६
शीतः शीतकषायः स्यादन्तरिक्षाम्बुसंप्लुतः
स पित्तज्वरदाहासृग्विषमूर्च्छामदापहः ३७
तद्वदेव निशाव्युष्टोऽभिषवः साधु साधितः
प्रशान्ताग्निबलक्षोभः सौम्यः स्वरससङ्गतः ३८
द्राक्षेक्ष्वामलकादीनां पीडनात् स्वरसः स्मृतः
स संशमनसंयोगे नानारोगेषु कल्पते ३९
क्वथितस्त्वान्तरिक्षेण वारिणाऽर्धावशेषितः
सकृद्वा फाणितः फेनं कषायः फाण्ट उच्यते ४०
सोऽल्पदोषबले बाले लघुव्याधौ च शस्यते
कल्कः कल्कीकृतो योज्यः पानलेपावलेहने ४१
केवलद्रव्यपेयत्वाद्विकार्षी दुर्जरश्च सः
पादस्थितो भवेत् क्वाथो युक्तोऽबह्वग्नितेजसा ४२
स वयोबलसंपन्ने गुरुव्याधौ च शस्यते
सप्तधैवं विभज्यैतद्दशधा प्रविचारयेत्
पूर्वं भक्तस्य मध्येऽधः समुद्गं समुहुर्मुहुः ४३
सभक्तं भक्तयोर्मध्ये ग्रासग्रासान्तरे परः
पूर्वं भक्तस्य भैषज्यं न करोति बलक्षयम् ४४
आमाशयगतान् दोषान्निहन्त्याशु च पच्यते
अन्नसंस्तम्भिते देहे च्छर्द्युद्गारव्यथादयः ४५
न भवन्ति यतस्तस्मात्तद्देयं दुर्बलीयसे
मध्येभक्तं ह्युभयतो रुद्धमन्नेन भेषजम् ४६
तदन्तराशये दोषान् सुखेनैव नियच्छति
शमयत्याश्वधो भक्तमुरःकण्ठशिरोगदान् ४७
व्यत्यासेन च सामुद्गं दोषे तूर्ध्वमधोगते
मुहुर्मुहुः श्वासकासहिक्कातृट्छर्दिशान्तये ४८
हितं बलाग्निरक्षार्थं सभक्तं दुर्बलात्मनाम्
स्त्रीबालवृद्धललितक्षतक्षीणौषधद्विषाम् ४९
व्याधौ मन्देऽनले तीक्ष्णे भक्तयोर्मध्य इष्यते
क्षीणक्षीणाल्पशुक्राणां वाजीकरणमौषधम् ५०
ग्रासे विधेयं चूर्णं च यदग्निबलवर्धनम्
ग्रासान्तरे च्छर्दनीयं धूमपानं च शस्यते ५१
अभक्तमौषधं पीतं व्याधिमाशु बलीयसाम्
हन्यात्तदेवेह बलं बलवद्दुर्बलीयसाम् ५२
एतानौषधकालांस्तु विभजेद्दशधा दश
क्षीणधात्विन्द्रिये शान्ते क्लान्ते तान्ते बुभुक्षिते ५३
भैषज्यदग्धकोष्ठे च भेषजं नावचारयेत्
क्रुद्धे विषण्णे शोकार्ते रात्रौ जागरिते तथा ५४
विदग्धाजीर्णभक्ते च भेषजं नावचारयेत्
कर्मातिभाराभिहते निरूढे सानुवासिते ५५
उपोषिते विरिक्ते च भेषजं नावचारयेत्
यत्किञ्चिदप्युपात्तान्ने मूर्च्छिते घर्मतापिते ५६
सद्यः पीतोदके चैव भेषजं नावचारयेत्
अवस्थाविपरीतं च भेषजं नावचारयेत् ५७
ऊनद्वादशवर्षाणां नैकान्तेनावचारयेत्
अवचारितमेकान्तेनाहन्यहनि चौषधम् ५८
असमत्वागतप्राणदोषधातुबलौजसाम्
अत्यन्तसुकुमाराणां कुमाराणां बलायुषी ५९
क्षीणातिवृद्धक्रुद्धानां क्षीणधात्विन्द्रियौजसाम्
एकान्तेनौषधं पीतं सूर्यस्तोयमिवाल्पकम् ६०
व्याधिदोषबलाग्निभ्यो हीनं तेभ्योऽधिकं च यत्
अजिज्ञासितपूर्वं च गुणैश्चोक्तैर्विवर्जितम् ६१
अरोगसात्म्यं दुर्युक्तमनिष्टं मनसश्च यत्
यस्य पीतस्य पाकान्ते दोषः सूक्ष्मोऽपि लक्ष्यते ६२
व्याधेश्च प्रशमो न स्यात्तच्च वर्ज्यं विजानता
यन्नातुरबलं हन्ति व्याधिवीर्यं निहन्ति च ६३
तदेवास्यावचार्यं स्यादाव्याध्युच्छेददर्शनात्
कामं व्याधौ प्रशान्तेऽपि शमदानाच्छमौषधम् ६४
तदेवाल्पं विधातव्यं सकृद् द्विस्त्रिर्यथाबलम्
पुण्येऽहनि नमस्यादौ देवद्विजभिषग्गुरून् ६५
पूर्वाह्णे प्राङ्मुखायास्मै सुखासीनाय साधवे
बुभूषमाणाय भिषङ्मन्त्रवद्भेषजं शुचिः ६६
इदं हन्त पिब चेति संप्रयच्छेदुदङ्मुखः
अतिचङ्क्रमणत्थानशयनासनभाषणम् ६७
क्रोधशोकदिवास्वप्नविरुद्धान्नहिमातपान्
पीतौषधो न सेवेत तथा स्त्रीवेगधारणम् ६८
विजृम्भाः शब्दविद्वेषो मुखशोषोऽरतिः क्लमः
तन्द्रीरुद्वेष्टनं सादो लिङ्गं जीर्यति भेषजे ६९
सृष्टिर्विण्मूत्रवातानां शरीरस्य च लाघवम्
उद्गारशुद्धिर्वैशद्यं वैमल्यं हृदयस्य च ७०
प्रकाङ्क्षा कुक्षिशैथिल्यमन्नकालस्य लक्षणम्
वयस्त्रिधा विभज्यादौ मात्रा वक्ष्याम्यतः परम् ७१
गर्भबालकुमाराख्यमित्येतत्त्रिविधं वयः
यौवनं मध्यमं वृद्धमेतच्च त्रिविधं पुनः ७२
वर्षावरः क्षीरपः स्याद्यावत् पिबति वा पयः
वयस्तद्बालमस्माच्च यावत् षोडशवार्षिकः ७३
अन्नादः सर्व एव स्यात् कौमारे वयसि स्थितः
अतः परं धातुसत्त्वबलवीर्यपराक्रमैः ७४
वर्धमानैश्चतुस्त्रिंशद्युवा वर्षाण्युदर्कतः
धात्वादिभिः स्थिरीभूतैर्यावदासप्ततिर्नरः ७५
मध्यो धात्वादिभिः पश्चात् क्षीयमाणैर्यथाक्रमम्
वृद्धो भवति मन्दात्मा प्रवृत्तिर्यावदायुषः ७६
विकल्पनाऽन्या वृद्धस्य तस्य षोडशवार्षिकी
भवेद्भेषजमात्रा तु क्षीयमाणोत्तरोत्तरा ७७
शतिके शताधिके वाऽपि क्षीरान्नादवदिष्यते
जातमात्रस्य मात्रा स्यात् सर्पिष्कोलास्थिसंमिता ७८
पञ्चरात्रं भवेद्यावद्दशाहमधिकं ततः
कोलार्धसंमितं यावद्विंशद्रात्रमतः परम् ७९
कोलमात्रं भवेद्यावन्मासं मासद्वयेऽधिकम्
द्विकोलसंमितं सर्पिस्तृतीये मासि शस्यते ८०
शुष्कामलकमात्रं तु चतुर्थे मास्युदाहृतम्
पञ्चमे मासि षष्ठे च ह्यार्द्रामलकसंमितम् ८१
तदेवाभ्यधिकं किञ्चिद्विहितं सप्तमाष्टमे
क्षीरान्नादस्य बालस्य प्रायेणाहारसंकरात् ८२
भवत्यनियतो वह्निः पक्तौ बह्वनिलात्मनः
तस्याऽग्न्यावेक्षिकी तस्मात् स्नेहमात्रा विधीयते ८३
अनादस्य तु भूयिष्ठं समो भवति पावकः
तस्यामलकमात्रस्य सर्पिषः पानमिष्यते ८४
तदेवाग्निबलं वीक्ष्य वर्धमानस्य वर्धयेत्
क्षीरपस्य कुमारस्य क्षीरान्नदस्य चोभयोः ८५
देयं स्नेहचतुर्भागं भेषजस्य यथामयम्
घृतेन पाययेद्बालं यावत् स्यादष्टमासिकः ८६
मासादतोऽष्टमाज्जन्तोर्जलपिष्टं प्रदापयेत्
अतः परं यथाशास्त्रं कुमारस्यान्नसेविनः ८७
वक्ष्यामि विविधां मात्रां भेषजानां विभागशः
मुचूटिं वा प्रकुञ्चं वा प्रसृतं वाऽथवाञ्जलिम् ८८
आतुरस्य प्रमाणेन समेतव्यं चिकित्सिते
अग्रपर्वाङ्गुलिग्राह्या चूर्णमात्रा तु पाणिना ८९
चूर्णानां दीपनीयानामेषा मात्रा विधीयते
द्विगुणा जीवनीयानां तथा संशमनस्य च ९०
ऊर्ध्वभागे त्वर्धमात्रा तथैव च विरेचने
वातपित्तकफघ्नानां कषाये तु प्रदापयेत् ९१
द्वौ दापयेत प्रसृतौ शर्करामधुसंयुतौ
प्रसृतं छर्दनीयस्य निष्क्वाथस्य प्रदापयेत् ९२
तथा वैरेचनीयस्य प्रसृतं नात्र संशयः
द्विगुणां जीवनीयस्य तथा संशमनस्य च
दीपनीयस्य कल्कं तु अक्षमात्रं प्रदापयेत् ९३
द्विगुणं जीवनीयस्य तथा संशमनस्य च
अक्षार्धं छर्दनीयस्य तथा वैरेचिकस्य च ९४
स्नेहमात्रामतो वक्ष्ये वमने सविरेचने
वमने वमनीयाभिरोषधीभिः सुसंस्कृते ९५
मात्रावत्तु घृतं दद्याद्वमने कफसंभवे
अर्धमात्रा भवेद्देया विरेके सर्पिषस्तथा ९६
वैरेचनैर्विपक्वस्य पित्ते प्रकुपिते सति
मात्राऽधश्चोर्ध्वभागा च श्लैष्मिकस्य प्रशस्यते ९७
दीपनैः शमनीयैश्च जीवनीयैश्च साधितम्
तथाऽपि कुपिते वाते दोषे पक्वाशये स्थिते ९८
कुक्षिग्रन्थिषु पार्श्वे च सक्ते देयं विरेचनम्
शमनैर्दीपनीयैश्च पाचनीयैश्च साधितम् ९९
चतुर्भागगुणं दद्यान्मात्रायाः कुम्भसर्पिषः
पादार्धहीनं पादोनमर्धं वाऽपि यथाक्रमम् १००
सर्पिर्विदद्याद्बालेषु संप्रधार्य वयोबले
निष्क्वाथानां सकल्कानां चूर्णानां सर्पिषस्तथा १०१
इत्युक्ता विविधा मात्रा मात्रामूलं चिकित्सितम्
तस्मादग्निमृतुं सात्म्यं देहं कोष्ठं वयो बलम् १०२
प्रकृतिं भेषजं चैव दोषाणामुदयं व्ययम्
विज्ञायैतद्यथोद्दिष्टां मात्रां सम्यक् प्रयोजयेत् १०३
अप्रमत्तः सदा च स्याद्भेषजानां प्रयोजने
ओषधीर्नामरूपाभ्यां जानन्ति वनगोचराः १०४
अजपालाश्च गोपाश्च न तु कर्मगुणं विदुः
योगं तु तासां योगज्ञा भिषजः शास्त्रकोविदाः १०५
मात्राबलविधानज्ञा जानते गुणकर्म च
कर्मज्ञो वाऽप्यरूपज्ञस्तासां तत्त्वविदुच्यते १०६
किं पुनर्यो विजानीयादोषधीः सर्वथा भिषक्
यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा १०७
तथौषधमविज्ञातं विज्ञातममृतोपमम्
औषधं चापि दुर्युक्तं तीक्ष्णं संपद्यते विषम् १०८
विषं च विधिना युक्तं भैषज्यायोपकल्पते
अग्निर्यथा प्रज्वलितः क्रुद्धश्चाशीविषो यथा १०९
असिधारा यथा तीक्ष्णा प्रभिन्नो वाऽपि कुञ्जरः
तथौषधमसंयुक्तमवैद्येनावचारितम् ११०
विपर्ययेण मात्राया निरुणद्ध्यस्य जीवितम्
दृष्ट्वा स्पृष्ट्वा तथा पृष्ट्वा कार्याकार्यक्रियां ततः १११
औषधानि प्रसिद्धानि यानि स्युर्बहुशो भिषक्
रसतो वीर्यतश्चैव तानि तत्रावचारयेत् ११२
अतोऽन्यथा ह्यमात्रज्ञो युक्त्यागमबहिष्कृतः
कृशं रोगपरिध्वस्तं सुकुमारं समात्विकम् ११३
तीक्ष्णौषधप्रयोगेण हन्ति चाप्यतिमात्रया
महारोगं महाहारं महासत्त्वं महाबलम् ११४
मृद्वल्पौषधयोगेन क्लेशयत्यातुरं भिषक्
उपक्रम्यो बली तस्माद् दुर्बलो निरुपक्रमः ११५
मध्यं युक्तैरुपक्रम्य न चाहारान्निवर्तयेत्
कृशं विश्राम्य विश्राम्य पथ्यैरौषधसाधनैः ११६
धारयेद्वर्धयेदग्निमग्नौ वृद्धे हि जीवति
यथाऽनिलः पित्तकफासृजश्च
नित्याः शरीरे निहिता नराणाम् ।
तथैव बालेष्वपि सर्वमेत
द्द्वयोस्तु रूपं तु तदल्पमल्पम् ११७
यथाऽल्पदेहस्य तदल्पमल्पं
तथाऽन्नपानौषधमल्पमल्पम् ।
बुद्ध्या विमृश्येह भिषग्विदद्ध्यात्
मात्रा हि देहाग्निवयः प्रधानाः ११८
इति ह स्माह भगवान् कश्यपः
इति खिलेषु भैषज्योपक्रमणीयाध्यायस्तृतीयः ३

अथ यूषनिर्देशीयो नाम चतुर्थोध्यायः
अथातो यूषनिर्देशीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
यूषादिव्यञ्जनोपेतं भोज्यं पथ्यतरं भवेत्
स्वस्थानामातुराणां च विशेषारोग्यकारकम् ३
अतश्च सर्वभूतानामाहारः स्थितिकारणम्
न त्वाहारादृतेऽस्त्यन्यत् प्राणिनां प्राणधारणम् ४
न चाहारसमं किञ्चिद्भैषज्यमुपलभ्यते
शक्यतेऽप्यन्नमात्रेण नरः कर्तुं निरामयः ५
भेषजेनोपपन्नोऽपि निराहारो न शक्यते
तस्माद्भिषग्भिराहारो महाभैषज्यमुच्यते ६
स ह्याहरणसामान्याद्दृष्टं एकविधो बुधैः
द्विविधो वीर्यभेदेन त्रिविधो दोषभेदतः ७
भक्ष्यभोज्यादिभेदेन तथैवोक्तश्चतुर्विधः
पञ्चभूतात्मकत्वाच्च पुनः पञ्चविधः स्मृतः ८
स एव पुनरुद्दिष्टः षड्विधः षड्रसाश्रयात्
पुनर्द्वादशधा भिन्नो द्वादशप्रविचारतः ९
चतुर्विंशतिधा भूयः कालादीनां विकल्पतः
प्रवर्तते तमाश्रित्य धर्मार्थाद्रिचतुष्टयम् १०
स्वस्थयात्रा चिकित्सा च तमेवाश्रित्य वर्तते
तुष्टिः पुष्टिर्धृतिर्बुद्धिरुत्साहः पौरुषं बलम् ११
सौस्वर्यमोजस्तेजश्च जीवितं प्रतिभा प्रभा
आहारादेव जायन्ते एवमाद्या गुणा नृणाम् १२
तदात्मवान् हितमितं काले भुञ्जीत षड्रसम्
यथा च यच्च भोक्तव्यं ये च भोग्यगुणागुणाः १३
तत्ते भोज्यविभागीये सर्वं वक्ष्याम्यतः परम्
अत्र ते संप्रवक्ष्यामि नानाद्रव्योपसंस्कृतान् १४
नानारोगोपशमनान् यूषान् स्थविरजीवक
रोचनो दीपनो वृष्यः स्वरवर्णबलाग्निकृत् १५
प्रस्वेदजननो मुख्यस्तुष्टिपुष्टिसुखावहः
यूषः स्नेहोष्णभावाच्च वातं स्नेहकषायतः १६
पित्तं कफं कदुष्णत्वात् संस्काराच्च नियच्छति
यूषधातुं वदन्ति ज्ञा द्रवीकरणपाकयोः १७
द्रवीकरोति भोज्यानि पक्वः सद्यूष इत्यतः
द्रव्यैर्बहुविधैर्द्रव्यैस्तथा चान्यैरतण्डुलैः १८
यूष इत्युच्यते सिद्धो यवागूस्तण्डुलैः सह
मद्गयूषो विरसिका यूषो दाडिमकस्तथा १९
चित्रकामलकानां च द्वौ यूषौ परिकीर्तितौ
पञ्चकोलकयूषौ द्वौ संग्राही दीपनस्तथा २०
धान्ययूषोऽथ कौलत्थः फलयूषश्च भार्गव
पुष्पयूषः पत्रयूषो वल्कयूषस्तथैव च २१
मुख्यः पल्लवयूषश्च महायूषस्तथैव च
रास्नायूषो महायूषश्चाङ्गेर्या मूलकस्य च २२
पुनर्नवातिबलयोर्गुडकम्बलिकस्तथा
मुख्यत्रिकटुयूषश्च लशुनैर्वास्तुकेन च २३
पञ्चविंशतिरित्येते यूषाः कश्यपनिर्मिताः
यूषाः कषायमधुरा कषायाम्लाश्च भार्गव २४
द्विविधा विहिताः सर्वे सर्वे च द्रवयोनयः
कृताऽकृताऽकृतकृताः पित्तश्लेष्मानिलात्मसु २५
रोगेषु स्नेहयोगाच्च ते यूषास्त्रिविधाः स्मृताः
त एव पाचनाः प्रोक्ताः कर्षणा बृंहणास्तथा २६
शीतोष्णमिश्रवीर्यत्वान्नानाद्रव्योपसंश्रयात्
लवणव्योषणस्नेहपक्तिसंस्कारयुक्तयः २७
सिद्धा यूषेषु विदुषो न वक्ष्यामि पुनः पुनः
दोषभेदेन यूषास्ते संख्याताः पञ्चसप्ततिः २८
तथैव यापनादित्वात् पञ्चाशत्तु रसाश्रयात्
एके यूषास्तथैकेषां यत्किञ्चिद्व्यञ्जनं द्रवम् २९
अग्नौ सिद्धमसिद्धं तु रागखाडवपानकम्
यमकस्नेहसिद्धास्तु ते यूषा घृततैलयोः ३०
शष्यन्ते वातरोगेषु वर्चः शोषाभिघातयोः
दीप्ताग्नीनामनिद्राणां भाराध्वश्रममैथुनैः ३१
क्लान्तानां पतनाद्यैश्च यूषोऽयमेक इष्यते
दधिकाञ्जिकशुक्तानि वर्गो यश्चापि दीपनः ३२
निर्यूहः सर्वयूषाणामन्यस्मात् पाञ्चकर्मिकात्
क्वाथो निर्यूह आदानं कषायश्चेति तत् समम् ३३
गर्भः कल्कस्तथाऽऽवापः पाकः संस्कार उच्यते
निस्तुषाणां पुराणानां मुद्गानां दीपनाम्बुना ३४
मुद्गमण्डस्तनुत्वात् स मुद्गयूषो घनोऽल्पशः
मुद्गतक्राम्लसिद्धस्तु यूषो विरसिका स्मृतः ३५
स एव दाडिमोदश्वित्कृतो रोचन उच्यते
स्मृतो दाडिमयूषश्च मुद्गदाडिमसंस्कृतः ३६
मुद्गामलकनिर्यूहो धात्रीयूषोऽभिधीयते
इत्येते पञ्च यूषास्तु विहिताः पाञ्चकर्मिकाः ३७
काम्यांस्त्वन्यान् प्रवक्ष्यामि यूषानामयदर्शनात्
सिद्धश्चित्रकनिर्यूहे समूलस्कन्धपत्रके ३८
ख्यातश्चित्रकयूषस्तु ग्रहणीदोषशूलनुत्
प्लीहार्शोगुल्मकुष्ठघ्नो हृद्रोगकफवातजित् ३९
तद्वन्मूलकयूषोऽपि स वै संस्कारमीक्षते
शटीकर्कटकीबिल्वमाजपौष्करधातकी ४०
दधित्थं दाडिमफलं चाङ्गेरीससमङ्गयोः
पञ्चकोलकयूषोऽयं परः सांग्राहिकः स्मृतः ४१
स एव दीपनोपेतो लवणैश्चापि दीपनः
अखण्डितानां धान्यानां सर्वेषां समभागिनाम् ४२
निर्यूहः स्यादृते माषतिलनिष्पावसर्षपात्
धान्ययूषः स्मृतो मुख्यो द्वीपदाडिमसंस्कृतः ४३
दधिमण्डेऽथ वा सिद्धस्तक्रे वा रोगदर्शनात्
शिरःकर्णात्तिरोगेषु हृद्रोगेऽवर्धाभेदके ४४
अरुचौ चातिसारे च कार्यः सतिलमाषकः
कुलत्थानां तु निर्यूहे कौलत्थो यूष उच्यते ४५
सन्निपातानिलकफव्याधीन् हन्ति विरूक्षणः
कपित्थबिल्वबदरद्वाकदाडिमचूतजैः ४६
फलयूषः फलैरामैर्जीर्णातीसारनाशनम्
शणशाल्मलिधातक्यः पद्मसौगन्धिकैः सह ४७
कोविदारात् कर्बुदारात् पुष्पैर्यूषं प्रकल्पयेत्
असृग्दरे रक्तपित्ते दाहे चोदरचक्षुषोः ४८
तैलाम्लाभ्यामृते सिद्धः पुष्पयूषः सदाडिमः
बिल्वशोभाञ्जनैरण्डबलारास्नाम्रवारिणा ४९
पत्रनिष्क्वाथयूषः स्यात् पत्रयूषोऽनिलापहः
दाडिमाम्रातजम्बूनां चिरबिल्वस्य च त्वचः ५०
निष्क्वाथ्य दधिमण्डेन वल्कयूषोऽतिसारनुत्
न्यग्रोधोदुम्बराश्वत्थप्लक्षकालापलाशजैः ५१
पल्लवैः कमलानां च घृतदाडिमसंस्कृतः
पित्तरोगेषु सर्वेषु गर्भच्यवनदाहयोः ५२
मुख्यः पल्लवयूषोऽयं हितः कटुकिनीषु च
पुनर्नवाया रास्नायाश्चाङ्गेरीबलयोस्तथा ५३
पृथग्यूषाः समाख्याता वातघ्ना दधिसर्पिषा
रोहितापोतमत्स्यानां निर्यूहं साधयेज्जले ५४
तं क्वाथं साधयेद्भूयः शुक्तकाञ्जिकमस्तुभिः
द्रवाणि कुडबीजानि गुडपञ्चपले शृतः ५५
एष काम्बलिको रूक्षः कटुतैलेन वा कृतः
वातरोगप्रशमनो बृंहणो बलवर्धनः ५६
रतिनिद्रारुचिकरस्तिलतैलेन वा कृतः
दीपनं पञ्चमूलं च फलानि मधुराणि च ५७
पूर्ववत् सर्वधान्यानि धान्यकं मरिचानि च
काकोलीक्षीरकाकोलीकाश्मर्याणि परूषकम् ५८
बदराणि कुलत्थाश्च रास्नैरण्डपुनर्नवाः
द्वे पले गोक्षुरः शिग्रुपलाशतरुणानि च ५९
जलद्रोणे पचेदेतं निर्यूहं पादशेषितम्
दधिकाञ्जिकशुक्तानि प्रस्थशस्तैलसर्पिषी ६०
मूलकानामपत्राणां तरुणानां शतं भवेत्
एष सिद्धो महायूषो व्योषसंस्कारसंस्कृतः ६१
सर्वरोगेषु भूयिष्ठं संसृष्टेषु प्रशस्यते
अत्यग्निषु विनिद्रेषु स्तब्धाङ्गच्छुबुकाक्षिषु ६२
निर्यूहेण समं दद्यान्मांसनिर्यूहमेव तु
कार्यः सतिलकल्को वा जीर्णातीसारशान्तये ६३
उक्तो लशुनयूषस्तु स्वकल्पे वातनाशनः
सूपाश्च रसकाश्चैव त्रिविधाः प्राङ्निदर्शिताः ६४
स्विन्नानि मूलकान्यप्सु निष्पीड्य तरुणो विभुः
परिभृज्य ततः स्नेहे तत आदानमावपेत् ६५
एष मूलकयूषस्तु सर्वरोगविनाशनः
अनम्लोलदकरसः संस्कृतो जलसर्पिषोः ६६
भवेत् पित्तोपशमनस्तैलभृष्टोऽनिलापहः
एते यूषाः स्वतन्त्रोत्था उक्ता व्याससमासतः ६७
यवागूरपि वक्ष्यामि नानाद्रव्योपसंस्कृताः
नानारोगोपशमनीः शृणु वृद्धैकविंशतिम् ६८
ओदनस्य विलेप्ल्याश्च यवाग्वाश्च किमन्तरम्
शुश्रूषे भगवन्नेतदित्युक्तः प्राह कश्यपः ६९
ओदनो विशदः सिद्धः सुस्विन्नो निस्रुतो मृदुः
तण्डुलैः सकलप्रायैरक्षीणैश्चापि पठ्यते ७०
अस्विन्नत्वमवक्लेदस्त्वसाकल्यमनिस्रवः
विरसोऽविशदः शीत ओदनस्य विपर्ययाः ७१
द्रवाद्विंशतिभागेन तण्डुलैः सह साधयेत
तथा पञ्चदशाख्येन यवागूर्दशकेन वा ७२
विंशतेः स्फुटितैः सिक्थैस्तुल्याधोमध्यतोपरि
अहस्तहार्या पेया स्याद्यवागूः सपरिग्रहाः ७३
घना विशीर्णा शीता च न चावक्षीणतण्डुला
पिच्छिला विशदाऽहृद्या यवाग्वा दोषसंग्रहः ७४
तक्रसिद्धा यवागूस्तु दधिसिद्धा च ते घने
संस्कृते हस्तहार्ये ते प्रतिषिद्धे क्रियावताम् ७५
उष्णा घना प्रशिथिला दलितैस्तण्डुलैः कृता
विलेप्या गुणदोषांस्तु यवाग्वा इव निर्दिशेत् ७६
दीर्घोपवासिनां नॄणां क्षीरपेया प्रशस्यते
शीतपित्तोपशमनी बृंहणी वर्चबन्धनी ७७
शूलघ्नी दीपनी पेया दीपनीयोपसाधिता
पाचनी पचनी चोक्ता कषायैर्वर्चबन्धनी ७८
बिल्वं दधित्थं सह दाडिमेन
सव्योषचाङ्गेरिकृता यवागूः
सांग्राहिणी दीपनपाचनी च
सपञ्चमूलाऽनिलपीडिते तु ७९
बला वृषत्पर्ण्यथ शालपर्णी
स्याद्दाडिमं बिल्वशलाटुयुक्तम्
पेया हिता पित्तकफातिसारे
तोयं च तत्तत्र वदन्ति पेयम् ८०
एषैव दध्ना रुचिवर्धनी स्यान्निर्वाहिकां हन्ति तिलोपसिद्धा
रक्तातिसारं शमयत्युदीर्णमसृग्दरं गर्भपरिस्रवं च ८१
सदाडिमा सातिविषाऽथ साम्ला
पेया भवेदामविपाचनीया
स्यात् कण्टकारीरसगोक्षुराभ्यां
सफाणिता मूत्रगदे यवागूः ८२
सुवर्चिकाक्षारविडङ्गशिग्रुसपिप्पलीमूलकृता यवागूः ।
तक्रोपसिद्धा क्रिमिनाशनी स्याद्गुल्मेऽथ कासे ग्रहणीगदे च ८३
मृद्वीकलाजामधुपिप्पलीभिः
ससारिवा तृड्शमनी यवागूः
विषं निहन्त्याशु तु सोमराज्ञ्या
वराहनिर्यूहकृता तु बल्या ८४
कार्श्यार्थमिष्टा तु गवेधुकानां
सर्पिष्मती सैन्धवयुग्बलाय
द्विपञ्चमूलोदकसाधिता तु
श्वासं च कासं च कफं च हन्ति ८५
शाकैः समांसैः सतिलैः समाषैः
सर्पिष्मती स्नेहनभेदनी तु ।
जम्ब्वाम्रयोरस्थिदधित्थबिल्वैस्तैरम्लयुग्वर्चविबन्धनी तु ८६
तक्रोपसिद्धा तु घृतामये स्यात्
पिण्याकयुक् सैव तु तैलरोगे
उपोदिकादध्युपसाधिता तु
मदं विदाहं च नयेत् प्रसादम् ८७
शाकैरभृष्टैः परिभृष्टकैश्च रोगातुरावेक्ष्युपकल्पयेत्ताः
लोके प्रसिद्धं यन्मानं तर्कमानं तुलाधृतम्
तत्तन्त्रेऽस्मिन् प्रमाणं स्याद्वक्तव्य तत्र नास्ति मे ८८
इति ह स्माह भगवान् कश्यपः
इति खिलेषु यूषनिर्देशीयो नाम चतुर्थेऽध्यायः

भोज्योपक्रमणीयाध्यायः पञ्चमः
अथातो भोज्योपक्रमणीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कशयपः २
अथ खल्वस्माभिः पूर्वं यद्रसविमानेऽभिहितं कालादिचतुर्विंशतिविधमाहारमानं तस्येदानीं प्रतिविकल्पविशेषानुपदेक्ष्यामः । किं कारणम् न ह्याहारादृते प्राणिनां प्राणाधिष्ठानं किञ्चिदप्युपलभामहे । स सम्यगुपयुज्यमानो जीवयति सर्वेन्द्रियाणि ह्लादयति धातूनाप्याययति स्मृतिमतिसर्वबलौजांस्यूर्जयति वणप्रसादं चोपजनयति असम्यगुपयुज्यमानस्त्वसुखेनोपयोजयति । तस्मात् काले सात्म्यं मात्रावदुष्णं स्निग्धमविरोधि शुचौ देशे शुचिषु पात्रेषु शुचिपरिचरेणोपनीतं प्राङ्मुखस्तूष्णींस्तन्मना आस्वादयन्नातिद्रुतं नातिविलम्बितं नात्युष्णं नातिशीतं नातिरूक्षं नातिस्निग्धं नातिबहु नातिस्तोकं नातिद्रवं नातिशुष्कं नाकांक्षितो न प्रतान्तो नैकरसं वाऽऽरोग्यायुर्बलार्थी समश्नीयात् ३
भवन्ति चात्र--
आरोग्यं दोषसमता सर्वाबाधनिवर्तनम्
तदर्थमृषयः पुण्यमायुर्वेदमधीयते ४
रसायनानि विधिवत्तदर्थं चोपयुञ्जते
धर्मार्थकाममोक्षाणामवाप्तिश्च तदाश्रया ५
तदात्मवांस्तदर्थाय प्रयतेत विचक्षणः
अन्नाभिलाषो भुक्तस्य परिपाकः सुखेन च ६
सृष्टविण्मूत्रवातत्वं शरीरस्य च लाघवम्
सुप्रसन्नेन्द्रियत्वं च सुखस्वप्नप्रबोधनम् ७
बलवर्णायुषां लाभः सौमनस्यं समाग्निता
विद्यादारोग्यलिङ्गानि विपरीते विपर्ययम् ८
आरोग्यं भोजनाधीनं भोज्यं विधिमवेक्षते
विधिर्विकल्पं भजते विकल्पस्तु प्रवक्ष्यते ९
स्वस्थानस्थेषु दोषेषु स्रोतःसु विमलेषु च
जातायां च प्रकाङ्क्षायामन्नकालं विदुर्बुधाः १०
कालेऽश्नतोऽन्नं स्वदते तुष्टिः पुष्टिश्च वर्धते
सुखेन जीर्यते न स्युः प्रतान्ताजीर्णजा गदाः ११
सात्म्यं नामाहुरौचित्यं सातत्येनोपसेवितम्
आहारजातं यद्यस्य चानुशेते स्वभावतः १२
सात्म्याशी सात्म्यसाद्गुण्याच्छतं वर्षाणि जीवति
न चाप्यनुचिताहारविकारैरुपसृज्यते १३
लघूनां नातिसौहित्यं गुरूणामल्पशस्तथा
मात्रावदश्नतो भुक्तं सुखेन परिपच्यते १४
स्वास्थ्य यात्राग्निचेष्टानामविरोधि च तद्भवेत्
उष्णं हि भुक्तं स्वदते श्लेष्माणं च जयत्यपि १५
वातानुलोम्यं कुरुते क्षिप्रमेव च जीर्यते
अन्नाभिलाषं लघुतामग्निदीप्तिं च देहिनाम् १६
स्निग्धं प्रीणयते देहमूर्जयत्यपि पौरुषम्
करोति धातूपचयं बलवर्णौ दधाति च १७
सुमृष्टमपि नाश्नीयाद्विरुद्धं तद्धि देहिनः
प्राणानस्याऽऽशु वा हन्यात्तुल्यं मधुघृतं यथा १८
अविरुद्धान्नभुक् स्वास्थ्यमायुर्वर्णं बलं सुखम्
प्राप्नोति विपरीताशी तेषामेव विपर्ययम् १९
शुचिपात्रोपचरणः शुचौ देशे शुचिः स्वयम्
भुञ्जानो लभते तुष्टि पुष्टिं तेनाधिगच्छति २०
नानिष्टैरमनस्यैर्वा विघातं मनसोर्च्छति
तस्मादनिष्टे नाश्नीयादायुरारोग्यलिप्सया २१
प्राङ्मुखोऽश्नन्नरो धीमान् दीर्घमायुरवाप्नुते
तूष्णीं सर्वेन्द्रियाह्लादं मनःसात्म्यं च विन्दति २२
एतदेव च मात्रां च पक्ति युक्तिं च तन्मनाः
तस्मात्तत्प्रवणोऽजल्पन् स्वस्थो भुञ्जीत भोजनम् २३
आस्वाद्यास्वाद्य योऽश्नाति शुद्धजिह्वेन्द्रियो रसान्
स वेत्ति रसनानात्वं विशेषांश्चाधिगच्छति २४
अतिद्रुतं हि भुञ्जानो नाहारस्थितिमाप्नुयात्
भोज्यानुपूर्वीं नो वेत्ति न चान्नरससंपदम् २५
नातिद्रुताशी तत्सर्वमनूनं प्रतिपद्यते
प्रसादमिन्द्रियाणां च तथा वातानुलोमताम् २६
शीतीकरोति चान्नाद्यं भुञ्जानोऽतिविलम्बितम्
भुङ्क्ते बहु च शीतं च न तृप्तिमधिगच्छति २७
शैत्याद्बहुत्वाद्वैरस्याद् भुक्तं क्लेशेन पच्यते
अत्युष्णभोजनाज्जिह्वाकण्ठौष्ठहृदयोदरम् २८
दह्यते न रसं वेत्ति रोगांश्चाप्नोति दारुणान्
मुखाक्षिपाकवैसर्परक्तपित्तभ्रमज्वरान् २९
अतिशीताशिनः शूलं ग्रहणीमार्दवं घृणा
कफवाताभिवृद्धिश्च कासो हिक्का च जायते ३०
रूक्षं करोति विष्टम्भमुदावर्तं विवर्णताम्
ग्लानिं बह्वशितं वायोः प्रकोपं मूत्रनिग्रहम् ३१
अतिस्निग्धाशिनस्तन्द्रीतृष्णाजीर्णोदरामयाः
भवन्ति कफमेदोत्था रोगाः कण्ठोद्भवास्तथा ३२
विष्टम्भोद्वेष्टनक्लेशचेष्टाहानिविसूचिकाः
ज्ञेया विकारा जन्तूनामतिबह्वशनोद्भवाः ३३
अतिस्तोकाशिनोऽत्यग्निविकाराः कृशता भ्रमः
अतृप्तिर्लघुता निद्राशकृन्मूत्रबलक्षयः ३४
अतिद्रवाशनाज्जन्तोरुत्क्लेशो बहुमूत्रता
पार्श्वभेदः प्रतिश्यायो विड्भेदश्चोपजायते ३५
अतिशुष्काशनं चापि विष्टभ्य परिपच्यते
पूर्वजातरसं जग्ध्वा कुर्यान्मूत्रकफक्षयम् ३६
मोहात् प्रमादाल्लौल्याद्वा यो भुङ्क्ते ह्यप्रकाङ्क्षितः
अविपाकारुचिच्छर्दिशूलानाहान् समृच्छति ३७
प्रतान्तभोक्तुस्तृण्मूर्च्छा वह्निसादोऽङ्गसीदनम्
ज्वरः क्षयोऽतिसारो वा मन्दत्वं दर्शनस्य च ३८
दौर्बल्यमदृढत्वं च भवत्येकरसाशनात्
दोषाप्रवृद्धिर्धातूनां साम्यं वृद्धिर्बलायुषोः ३९
आरोग्यं चाग्निदीप्तिश्च जन्तोः सर्वरसाशनात्
तस्मादेकरसाभ्यासमारोग्यार्थी विवर्जयेत् ४०
कालसात्म्यादिनाऽनेन विधिनाऽश्नाति यो नरः
स प्राप्नोति गुणांस्तज्जान्न च दोषैः प्रबाध्यते ४१
स्थिरत्वं स्वस्थताऽङ्गानामिन्द्रियोपचयं बलम्
कफमेदोऽभिवृद्धिं च कुर्यान्मधुरसात्म्यता ४२
दन्ताक्षिकेशदौर्बल्यं कफपित्तामयोद्भवम्
लघुतामग्निदीप्तिं च जनयेदम्लसात्म्यता ४३
रक्तप्रकोपं तैमिर्यं तृष्णां दुर्बलशुक्रताम्
पालित्यं बलहानिं च कुर्याल्लवणसात्म्यता ४४
पक्तेरुपचयं कार्श्यं रौक्ष्यं शुक्रबलक्षयम्
पित्तानिलप्रवृद्धिं च कुर्यात् कटुकसात्म्यता ४५
क्लेदाल्पतां वातवृद्धिं दृष्टिहानिं कफक्षयम्
त्वग्विकारोपशान्तिं च जनयेत्तिक्तसात्म्यता ४६
कफपित्तक्षयं वायोः प्रकोपं पक्तिमार्दवम्
कुर्याद्रक्तोपशान्तिं च कषायरससात्म्यता ४७
ओजस्तेजो बलं वर्णमायुर्मेधा धृतिः स्मृतिः
जायते सौकुमार्यं च घृतसात्म्यस्य देहिनः ४८
तथैव क्षीरसात्म्यस्य परं चैतद्रसायनम्
दृढोपचितगात्रश्च निर्मेदस्को जितश्रमः ४९
बलवान् तैलसात्म्यः स्यात् क्षीणवातकफामयः
चक्षुष्मान् बलवाञ्छ्लेष्मी दृढसत्त्वो दृढेन्द्रियः ५०
दृढाश्रयो मन्दरुजो मांससात्म्यो भवेन्नरः
अहितं यस्य सात्म्यं स्यादसात्म्यं च हितं भवेत् ५१
स शनैर्हितमादद्यादहितं च शनैस्त्यजेत्
आदौ तु स्निग्धमधुरं विचित्रं मध्यतस्तथा ५२
रूक्षद्रवावसानं च भुञ्जानो नावसीदति
भागद्वयमिहान्नस्य तृतीयमुदकस्य च ५३
वायोः संचरणार्थं च चतुर्थमवशेषयेत्
ततो मुहूर्तमाश्वस्य गत्वा पादशतं शनैः ५४
स्वासीनस्य सुखेनान्नमव्यथं परिपच्यते
वीणावेणुस्वनोन्मिश्रं गीतं नाट्यविडम्बितम् ५५
विचित्राश्च कथाः शृण्वन् भुक्त्वा वर्धयते बलम्
सुखस्पर्शविहारं च सम्यगाप्नोत्यतोऽन्यथा ५६
अतिस्निग्धातिशुष्काणां गुरूणां चातिसेवनात्
जन्तोरत्यम्बुपानाच्च वातविण्मूत्रधारणात् ५७
रात्रौ जागरणात् स्वप्नाद्दिवा विषमभोजनात्
असात्म्यसेवनाच्चैव न सम्यक् परिपच्यते ५८
हिताहितं यदैकध्यं भुक्तं समशनं तु तत्
पूर्वभक्तेऽपरिणते विद्यादध्यशनं भिषक् ५९
क्षुत्तृष्णोपरमे जाते शान्तेऽग्नौ प्रमृताशनात्
विषमं गुणसंस्कारात् क्रमसात्म्यव्यतिक्रमात् ६०
विरुद्धं पयसा मत्स्या यथा वा गुडमूलकम्
स्यादजीर्णाशनं नाम व्युष्टाजीर्णे चतुर्विधे ६१
तथैवात्यशनं ज्ञेयमतिमात्रोपयोगतः
स --- तान्यामयोत्पत्तौ मूलहेतुं प्रचक्षते ६२
आहारसात्म्यं देशेषु येषु येष यथा यथा
प्रोक्तं तथोपदेष्टव्यं तेषु तेषु तथा तथा ६३
चतुर्विंशतिरित्येते विकल्पाः समुदाहृताः
भिषजा ह्युपदेष्टव्या राज्ञो राजोपमस्य वा ६४
अन्येषां वा वसुमतां यशोधर्मार्थसिद्धये
इति ह स्माह भगवान् कश्यपः
इति खिलेषु भोज्यविभागीयो नाम पञ्चमोऽध्यायः ५

अथ रसदोषविभागीयाध्यायः षष्ठः
अथातो रसदोषविभागीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
रसदोषविभागज्ञः प्रकोपोपशमं प्रति
भिषग्भिषक्त्वं लभते विपर्ययमथान्यथा ३
तस्माद्दोषविकल्पांश्च विकल्पांश्च रसाश्रयान्
प्रवक्ष्यामि यथाशास्त्रं सविशेषं सविस्तरम् ४
व्यासतस्तु ज्वरादीनां व्याधीनां दोषभेदतः
द्विषष्टिधा कल्पनोक्ता स्थूलसंख्या त्वतः परम् ५
एकैकशस्त्रयो द्वन्द्वैर्नव सर्वे त्रयोदश
क्षीणाधिकसमैश्चान्यैर्दश द्वौ च प्रकीर्तिताः ६
तेषां विभागं वक्ष्यामि विस्तरेण यथाक्रमम्
एकैकशस्त्रयो ज्ञेया वातपित्तकफैर्गदाः ७
समैर्द्वन्द्वैस्त्रयः षट् तु विषमैर्नव ते स्मृताः
द्व्यधिकैकाधिकैः षट् च हीनमध्याधिकैश्च षट् ८
एकः समैस्त्रिभिर्दोषैरित्यातङ्कास्त्रयोदश
दोषैरेतैर्विवृद्धैः स्युर्विकल्पाः पञ्चविंशतिः ९
दोषैः क्षीणैरपि गदा दृष्ट्वैवं पञ्चविंशतिः
द्विक्षीणैरेकवृद्धैः स्युरेकक्षीणैर्द्विरुद्बलैः १०
षट् षट् क्षीणाधिकसमैर्दश द्वौ चापरे गदाः
इति द्विषष्टिसंख्यैषा विकाराणां विकल्पशः ११
वातपित्तकफैरेको दश स्यात् प्रकृतिस्थितैः
रसानां तु विकल्पाः स्युरेकैकश्येन षट् स्मृताः १२
पूर्वः पूर्वः परैर्युक्तो द्विकाः पञ्चदशापरे
रसेषु त्रिषु पूर्वेषु विकल्पाः स्युस्त्रयोऽधिकाः १३
द्विकेषु त्रिष्वथैकैकं संयोज्य कटुकादिभिः
कट्वादिषु तथा पूर्वैः स्वाद्वम्ललवणैः पृथक् १४
अष्टादशैते द्वाभ्यां च त्रिकाभ्यां विंशतिस्त्रिकाः
पूर्वोत्तराभ्यां मधुरव्योषादिभ्यां यथाक्रमम् १५
ये द्विकास्त्रिषु पूर्वेषु योज्यास्ते त्रिभिरुत्तरैः
प्रत्येकशो नवैते स्युर्विकल्पाः षडिहान्यथा १६
युक्ताः स्वाद्वम्ललवणाः पृथक् कष्ट्वादिभिस्त्रिभिः
कट्वादयस्तथा पूर्वैरित्येते दश पञ्च च १७
चतुष्काः पञ्चकाः षट् स्युरेकैकस्य विवर्जनात्
षड्भिरेको रसैस्तेषां कल्पनेयं त्रिषष्टिधा १८
संयोगाः सप्तपञ्चाशदसंयुक्तास्तु षड्रसाः
षडेव त्रिषु युज्यन्ते रसा दोषेषु योगतः १९
क्वचिदेकः क्वचिद् द्वौ च दोषवृद्ध्या क्वचित्त्रयः
हीनमध्यातिवृद्धानां दोषाणां तु यथाक्रमम् २०
हीनमध्याधिकैरेवं रसैः कुर्यादुपक्रमम्
द्व्युद्बलैकोद्बलानां च समानां चैव तद्विधैः २१
वृद्धानां क्षपणं कार्यं मध्यानां यापनं तथा
क्षीणानां वर्धनं चैव रसवृद्धिप्रमाणतः २२
विशेषोऽत्र यथायोगं कार्यो रसविपर्ययात्
एवं द्विषष्टिदोषाणां रसैरेपां द्विषष्टिभिः २३
साम्यं तैः षट्कैरेवैकः स्वस्थवृत्तौ प्रयुज्यते
कटुतिक्तकषायांस्तु रसान् प्राज्ञो यथाक्रमम् २४
योगतः कफजे व्याधौ भैषज्यमवतारयेत्
प्रयुक्तः कटुकः पूर्वं पैच्छिल्यं गौरवं च यत् २५
श्लेष्मणस्तं निहन्त्याशु तिक्तस्तस्मादनन्तरम्
ह्रासयत्यास्यमाधुर्यं कफं संशोषयत्यपि २६
संगृह्णाति कषायश्च स्नेहं चास्यावकर्षति
तिक्तस्वादुकषायाः स्युः क्रमशः पैत्तिके हिताः २७
आमान्वयत्वात् पित्तस्य पूर्वं तिक्तोऽवचारितः
पाचयत्याशु तं पक्वं ततस्तु मधुरो रसः २८
शैत्याद्गुरुत्वात्स्नेहाच्च माधुर्याच्च नियच्छति
तद्द्रवत्वविघातार्थं कषायश्चावचारितः २९
रौक्ष्याद्विशोषिभावाच्च विशोषयति तैजसम्
वातिके लवणः पूर्वं संयोगादवचारितः ३०
प्रक्लेदिभावाज्जयति विबन्धं मातरिश्वनः
निहन्ति शैत्यमुष्णत्वाद्गुरुत्वाच्चापि लाघवम् ३१
तथैवाम्लो रसः पश्चात्तस्मिन्नेवावचारितः
जडीकृतानि स्रोतांसि तैक्ष्ण्यादुद्घाट्य मारुतम् ३२
अनुलोमयति क्षिप्रं स्निग्धोष्णत्वाद्विमार्गगम्
अम्लादनन्तरं पश्चात् प्रयुक्तो मधुरो रसः ३३
वायोर्लघुत्वं वैशद्यं रूक्षत्वं च व्यपोहति
गुरुत्वात् पिच्छिलत्वाच्च स्निग्धत्वाच्च यथाबलम् ३४
इत्युक्ताः सर्वरोगेषु रसानां प्रविचारणाः
दृश्यन्ते प्रायशो योगा रोगेषूक्ता ज्वरादिषु ३५
कटुतिक्तकषायाश्च रसतो मधुरास्तथा
वातज्वरे यथापूर्वं पेयायूषरसादिषु
लवणोऽम्लश्च युज्येते रसौ संस्कारयोगिनौ ३६
ततो विदारिगन्धादिर्मधुरः संप्रयुज्यते
पित्तज्वरे यथा तिक्तः शाङ्गिष्ठादिः प्रयुज्यते ३७
मधुरः सारिवादिश्च कषायश्चाभयादिकः
पिप्पल्यादिर्यथापूर्वं कटुकः कफजे ज्वरे ३८
आरग्वधादिकस्तिक्तः कषायस्त्रिफलादिकः
सर्वत्रैवानया युक्त्या यथोद्दिष्टान्रसान् बुधः ३९
यथादोषं यथायोगं प्रयुञ्जीत यथेप्सितम्
प्रक्षेपैरवकर्षैश्च द्रव्याणामन्यथान्यथा ४०
यथा वा वीणया वीणी तन्त्रीणां स्वरकोविदः
उत्कर्षंश्चावकर्षंश्च स्वरान् सम्यक् प्रयोजयेत् ४१
विन्दन् नानाविकल्पैश्च ग्रामरागांश्च दर्शयेत्
स्वरमण्डलतत्त्वज्ञो विकल्पैर्बहुविस्तरैः ४२
तथैव शास्त्रतत्त्वज्ञो योगज्ञः प्रतिपत्तिमान्
व्याधौ बलाबलज्ञश्च प्रकृतिज्ञश्च योगवान् ४३
उत्कर्षंश्चावकर्षंश्च प्रयोगाञ्छास्त्रकोविदः
केवलैः शीतवीर्यैश्च तथैवोष्णैश्च वीर्यतः ४४
शीतैरुष्णैश्च संपृक्तैर्द्रव्यैर्योगान् प्रयोजयेत्
कार्त्स्न्यतश्च प्रयुञ्जीत यथावदनुपूर्वशः ४५
समुच्चयैर्विकल्पैश्च नानारससमुच्छ्रयैः
युञ्जीत बहुधा योगान्नृत्तं गीतवशादिव ४६
समस्योक्तं पृथक्चोक्तं संप्रधार्य बलाबलम्
द्विषष्टिर्दोषभेदा ये निर्दिष्टास्तानतः परम् ४७
स्थानानि दश संगृह्य प्रवक्ष्यामि सविस्तरम्
त्रय एकैकशस्तेषां ये च वृद्धास्त्रयः समाः ४८
समैरेकश्च सप्तैते क्षयवृद्ध्या चतुर्दश
स्थानवृद्ध्या भवेत्तेषां चत्वारिंशोत्तरं शतम् ४९
व्युदस्यैतानतः शेषा ये त्रिंशद्दश चाष्ट च
ते भेदं यान्त्यमेयत्वाच्छतशोऽथ सहस्रशः ५०
द्वन्द्वानां विषमाणां तु षण्णामन्यतमं बुधः
स्वस्थानाद्वर्धयेत्तावद्यावत् स्यात् स्थानमष्टमम् ५१
एकैकशो द्विशश्चैव चतुर्विंशद्भवन्ति ते
ह्रासेनैकैकशश्चापि विंशन्नव च भेदतः ५२
एवमेते त्रिपञ्चाशद्द्वन्द्वेनैकेन दर्शिताः
एषैव युक्तिः शिष्टानां द्वन्द्वानां स्यान्न संशयः ५३
शतत्रयं भवत्येवमेषामष्टादशोत्तरम्
द्व्युद्बलैकोद्बलानां च तावदेव विनिर्दिशेत् ५४
हीनमध्याधिका दोषाः स्वे स्वे स्थाने व्यवस्थिताः
स्वस्थानात् सप्तमं स्थानमेकैकश्येन यान्ति ते ५५
द्वौ च द्वौ च समस्ताश्च तेषां षट् सप्तकास्तथा
भवन्ति ह्रासयेत्तांश्च यथानमधः क्रमात् ५६
पञ्चाशीतिमतस्तेषां भेदानां परिचक्षते
एष एव विकल्पः स्याच्छेषाणां प्रविभागशः ५७
शतानि सप्त षष्टिश्च द्वौ च भेदा भवन्ति ते
एवं सहस्रं भेदानां वृद्धैस्त्रीणि शतानि च ५८
दोषैर्नवतिरष्टौ च क्षीणैस्तावन्त एव ते
द्विक्षीणैरेकवृद्धैः स्युः षट् च त्रीणि शतानि च ५९
यावन्त्येव च भेदानामेकक्षीणैर्द्विरुद्बलैः
क्षीणाधिकसमैः षट् च षट् च षट् च शतानि च ६०
क्रम एवात्र भागः स्याद्यो द्वन्द्वेषु निदर्शितः
चतुर्दश विनिर्दिष्टाः सविकल्पास्तयोः पृथक् ६१
तैः सार्धमेषां सर्वेषां कार्त्स्न्येनैव विभावयेत्
सहस्राणि च चत्वारि शतं षष्ट्युत्तरं तथा ६२
एतावन्तो ज्वराद्यानां भेदाः प्रोक्ता यथागमम्
अथैतेषु चतुर्योगविभागगतिकर्मतः ६३
सहस्रं सन्निपातानां विद्यात् सनवकं भिषक्
अत ऊर्ध्वं रसानां तु वक्ष्यते भेदविस्तरः ६४
कर्मस्थानानि दोषाणां भाववृद्ध्या यथाक्रमम्
तथा रसानां षट्कुर्यात् स्थानानीति विनिश्चयः ६५
तदेव कर्म सर्वेषां द्विकादीनां क्षयं विना
भवत्येवं द्विकानां तु पञ्चषष्ट्युत्तरं शतम् ६६
त्रिकानां च सविंशानि षट्शतानि विनिर्दिशेत्
चतुष्कानां सहस्रं च पञ्चषष्ट्युत्तरं वदेत् ६७
पञ्चकाणां शतान्यष्टौ स्याच्छतं च षडुत्तरम्
षष्ठकानां शते द्वे तु शतं चैकादशोत्तरम् ६८
संयुक्तानां विकल्पोऽयं सविकल्पाः षडेककः
समानां रसभेदानामेकमेकं तु पिण्डितम् ६९
त्रिसप्ततिर्भवत्येषां सहस्रत्रयमेव च
रसदोषविकल्पानामतिसौक्ष्म्यादतः परम्
न वक्ष्यामि महाभाग न तु बुद्धिपरिक्षयात् ७०

अतः परमिदानीं रसभेदान् विस्तरेणोपदेक्ष्यामः । तद्यथा--मधुराम्ललवणकटुकतिक्तकषायाः षड्रसाः । एषामिदानीं रसानां विकल्पास्त्रिषष्टिर्भवन्ति । तत्रैकैकश्येन षट् । तद्यथा--मधुर एव अम्ल
एव लवण एव कटुक एव तिक्त एव कषाय एव ७१

पूर्वः पूर्वः परैर्युक्तो द्विकः ते पञ्चदश भवन्ति । तत्र मधुरः पञ्चभिरम्लादिभिर्युज्यते । तद्यथा--मधुराम्लः मधुरलवणः मधुरकटुकः मधुरतिक्तः मधुरकषाय इति । अम्लश्चतुर्भिर्लवणादिभिः तद्यथा--अम्ललवणः अम्लकटुकः अम्लतिक्तः अम्लकषाय इति । लवणस्त्रिभिः कटुकादिभिः तद्यथा--लवणकटुः लवणतिक्तः लवणकषाय इति । कटुकस्तिक्तकषायाभ्यां द्वाभ्यां तद्यथा--कटुतिक्तः कटुकषाय इति । तिक्तः कषायेण च । तद्यथा--तिक्तकषाय इति । ते पञ्चदश एव । ते द्विकाः पञ्चदशविकल्पा भवन्ति मधुरसंयोगेन पञ्च भवन्ति अम्लसंयोगेन चत्वारः लवणसंयोगेन त्रयः कटुसंयोगेन द्वौ तिक्तसंयोगेनैक-- इति । पूर्वेषु त्रिषु रसेषु मधुराम्ललवणेषु त्रयोऽधिका निष्पद्यन्ते । मधुराम्लः मधुरलवणः अम्ललवण इति
७२

एषां त्रयाणां द्विकानामेकैको द्विकस्त्रिभिरितरैः कटुतिक्तकषायै रसैर्योज्यः ततस्त्रिका निष्पद्यन्ते । तद्यथा--मधुराम्लकटुः मधुराम्लतिक्तः मधुराम्लकषायः मधुरलवणकटुः मधुरलवणतिक्तः मधुरलवणकषायः अम्ललवणकटुः अम्ललवणतिक्तः अम्ललवणकषाय इति । उत्तरेषु त्रिषु रसेषु कटुतिक्तकषायेषु त्रयो द्विका निष्पद्यन्ते तद्यथा--कटुतिक्तः कटुकषायः तिक्तकषाय इति एषां त्रयाणां द्विकानामेकैको द्विकस्त्रिभिरितरैर्मधुराम्ललवणै रसैर्योजयितव्यः तत्र त्रिका निष्पद्यन्ते । तद्यथा--कटुतिक्तमधुरः कटुतिक्ताम्लः कटुतिक्तलवणः कटुकषायमधुरः कटुकषायाम्लः कटुकषायलवणः तिक्तकषायमधुरः तिक्तकषायाम्लः तिक्तकषायलवण इति । पूर्वे चोत्तरे च । पूर्वे च त्रयः मधुराम्ललवणत्रिक एकः उत्तरे च त्रयः कटुकतिक्तकषायत्रिक एकः । त एते त्रिका विंशतिर्भवन्ति प्रथमेन
सूत्रेणोक्ता नव नव च द्वितीयेन तृतीयेन द्वाविति ७३

पूर्वेषु त्रिषु रसेषु मधुराम्ललवणेषु त्रयोऽधिका ये पूर्वोक्तास्ते परेषां त्रयाणां रसानां कटुकतिक्तकषायाणां पूर्वोक्तैस्त्रिभिर्द्विकैः प्रत्येकैकश्येन योजयितव्याः तेन चतुष्का निष्पद्यन्ते । तद्यथा--मधुराम्लकटुतिक्तः मधुराम्लकटुकषायः मधुराम्लतिक्तकषायः मधुरलवणकटुतिक्तः मधुरलवणकटुकषायः मधुरलवणतिक्तकषायः अम्ललवणकटुतिक्तः अम्ललवणकटुकषायः अम्ललवणतिक्तकषाय इति । पूर्वे मधुराम्ललवणा उत्तरैः कटुकतिक्तकषायैरेकैकशो युज्यन्ते । तद्यथा--मधुराम्ललवणकटुः मधुराम्ललवणतिक्तः मधुराम्ललवणकषाय इति । उत्तरे त्रयः कटुकतिक्तकषायाः पूर्वैर्मधुराम्ललवणैरेकैकशो युज्यन्ते ततश्चतुष्का निष्पद्यन्ते । तद्यथा--कटुतिक्तकषायमधुरः कटुतिक्तकषायाम्लः कटुतिक्तकषायलवण इति । एते चतुष्काः पञ्चदश पूर्वसूत्रोक्ता नव द्वितीयसूत्रोक्तास्त्रयः तृतीयसूत्रोक्तास्त्रयः इत्येते चतुष्काः पञ्चदश ७४

षट् पञ्चकाः । षण्णां रसानां मधुराम्ललवणकटुतिक्तकषायाणामेकैकमपनयितव्याः षट् पञ्चका निष्पद्यन्ते । तद्यथा--अम्ललवणकटुतिक्तकषायः मधुरलवणकटुतिक्तकषायः मधुराम्लकटुतिक्तकषायः मधुराम्ललवणतिक्तकषायः मधुराम्ललवणकटुकषायः मधुराम्ललवणकटुतिक्त इति । त एते षट् पञ्चकाः । षड्भिर्मधुराम्ललवणकटुतिक्तकषायैरेकः । तद्यथा--मधुराम्ललवणकटुतिक्तकषाय इति । त एवमेते रसास्त्रिषष्टिधा भिन्नाः तत्र
संयुक्ताः सप्तपञ्चाशत् असंयुक्ताः षट् ७५

इति ह स्माह भगवान् कश्यपः ७६
इति खिलेषु रसदोषविभागीयो नाम षष्ठोऽध्यायः ६

अथ संशुद्धिविशेषणीयो नाम सप्तमोऽध्यायः
अथातः संशुद्धिविशेषणीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
सिद्धौ विशोधनाख्यायामनुक्तं यद्विशेषणम्
ऊर्ध्वानुलोमयोः सर्वं तत् प्रवक्ष्याम्यतः परम् ३
चयप्रकोपप्रशमाः पित्तस्य प्रावृडादिषु
श्लेष्मणः शिशिराद्येषु वायोर्ग्रीष्मादिषु त्रिषु ४
प्रावृट्शरद्धेमन्ताख्या विसर्गस्त्वृतवस्त्रयः
शिशिरश्च वसन्तश्च ग्रीष्मश्चादानसंज्ञिताः ५
विसर्गादानयोर्मध्ये बलं मध्यं शरीरिणाम्
आद्यन्तयोस्तु दौर्बल्यमन्ताद्योरुत्तमं बलम् ६
हेमन्ते स्निग्धशीताभिरद्भिरोषधिभिस्तथा
चितोऽपि शैत्यात् प्रस्कन्नः कफो नात्र प्रकुप्यति ७
स कुप्यति हिमापाय संतप्तो भास्करांशुभिः
तस्मात् संशोधनं तत्र कर्तव्यं वमनोत्तरम् ८
ग्रीष्मे निष्पीतसारत्वाद्रसानां विचितोऽपि सः
औष्ण्यातिरेकात् कालस्य वायुरत्र न कुप्यति ९
रवेरम्बुदसंरोधात् प्रकुप्यत्यम्बुदागमे
बस्तिकर्मोत्तरं तत्र प्रतिकर्म विशिष्यते १०
अपां चैवौषधीनां च वर्षास्वम्लविपाकतः
चितमप्यत्र तत् पित्तं वर्षाशैत्यान्न कुप्यति ११
दिवाकरांशुसंतप्तं शरत्काले प्रकुप्यति
विरेचनोत्तरं चात्र विधातव्यं विशोधनम् १२
दोषप्रकोपे सर्वस्मिन् काले कार्यमनन्तरम्
न हि हेत्वीरितो दोषः कञ्चित्कालमुदीक्ष्यते १३
औचित्यादार्तवो दोषप्रकोपो न तथा भृशः
यथा हेतुकृतस्तस्मात् क्षिप्रमेनमुपक्रमेत् १४
वमनैश्च विरेकैश्च निरूहैः सानुवासनैः
तथा स्वास्थ्यमवाप्नोति रोगेभ्यश्च प्रमुच्यते १५
स्थौल्यामपाण्डुताकर्णकोठारुःपिडकोद्भवः
निद्रानाशोऽरतिस्तन्द्रीरुत्क्लेशः कफपित्तयोः १६
श्रमदौर्बल्यदौर्गन्ध्यमालस्यं सीदनं क्लमः
भक्तद्वेषोऽविपाकश्च क्लैब्यं बुद्धेरुपप्लवः १७
बृंहणैस्तृप्यतोऽपि स्याद्बलवर्णपरिक्षयः
दुःस्वप्नदर्शनं चेति बहुदोषस्य लक्षणम् १८
बलिनः स्थिरदेहस्य तस्य संशोधनं भिषक्
कुर्यात् संशमनं चैव मध्यदोषबलस्य तु १९
अल्पदोषबलस्यापि यथाकालं विशोषणम्
अथ संशोधनार्हे तु स्नेहस्वेदोपपादिते २०
वमनं स्रंसनं वाऽपि यथावदुपकल्पयेत्
स्नेहः पीतोऽनिलं हन्ति कुरुते देहमार्दवम् २१
सङ्गं मलानां निघ्नन्ति स्वेदः स्निग्धस्य देहिनः
स्रोतःसु लीनं सूक्ष्मेषु दोषं द्रवयति द्रवम् २२
शोधनं हरति क्षिप्रं यथावत् संप्रयोजितम्
मन्त्रपूतमबीभत्सं हृद्यं कार्यं विरेचनम् २३
सबीभत्सं तु वमनं तथा तद्योगमृच्छति
स्निग्धो वमेत्तृतीयेऽह्नि चतुर्थे स्रंसनं पिबेत् २४
विकारजाते तद्युक्तं स्वस्थवृत्तौ तु कामतः
कफवृद्धिकरं भोज्यः श्वः पाता वमनं नरः २५
विरेचनं द्रवप्रायं स्निग्धोष्णविशदं लघु
तथोत्क्लिष्टकफत्वाच्च पुरीषस्य च लाघवात् २६
ऊर्ध्वं चाधश्च दोषाणां प्रवृत्तिः स्यादयत्नतः
विष विसर्पे श्वयथौ वातरक्ते हलीमके २७
कामलापाण्डुरोगे च नातिस्निग्धं विरेचयेत्
नातिस्निग्धशरीराय विदध्यात् स्नेहसंयुतम् २८
स्निग्धाय रूक्षं रूक्षाय कामं स्नेहविरेचनम्
स्निग्धाभारं रथात् को वा स्रंसनं सहते नरः २९
घृतकुम्भाद्यथा तोयमयत्नेन निरस्यते
निरस्यते तथा दोषः स्निग्धाद्देहाद्विरेचनैः ३०
स्निग्धं विष्यन्दयत्यङ्गं स्वेदो स्निग्धार्द्रमिन्धनम्
ततः स्विन्नशरीरस्य दोषान् हरति भेषजम् ३१
यथा हि मलिनं वासः क्षारेणोत्क्लेश्य वारिणा
शोध्यते शोधनैस्तद्वदुत्क्लेश्य विधिवद्बलात् ३२
वामितं लङ्घयेल्लङ्घ्यं लघु भोजयेत्
तस्य वान्तविरिक्तस्य क्रमः पेयादिरिष्यते ३३
तेनाग्निर्वर्धते सूक्ष्मैरिन्धनारणयो यथा
समुत्थितेऽग्नौ संजाते मले देहे च निर्मले ३४
वाससीवार्पितो रागः सिद्धिं यात्युत्तरो विधिः
यश्चात्र वा यदाबाधः स्यादयोगादियोगतः ३५
समासव्यासतस्तस्य सिद्धौ सिद्धिरुदाहृता
ततोऽन्नप्रविचारस्य विकल्पः संप्रवक्ष्यते ३६
सर्वत्र त्रिविधा पेया संसर्गादौ विधीयते
अकृतादिविकल्पेन ततो यूषस्ततो रसः ३७
व्यपेतलवणा पूर्वा दीपनीयाम्बुसाधिता
तानि क्षुद्रा द्वितीया स्यात् किञ्चिल्लवणदीपना ३८
तद्वदेव तृतीया तु संस्कृता स्नेहमात्रया
अव्यक्तलवणस्नेहो यूषस्त्वकृतको मतः ३९
मन्दाम्ललवणस्नेहसंस्कारः स्यात्कृताकृतः
व्यक्तस्नेहाम्ललवणः कृतयूषः सुसंस्कृतः ४०
एवमेव रसं विद्यादिमं पेयादिकं क्रमम्
सकृज्जघन्या द्विर्मध्या त्रिः श्रेष्ठा शुद्धिमर्हति ४१
इमां पेयादिसंसर्गीं सर्वसंशोधनोपगाम्
आरोग्यकामः सेवेत स्वास्थ्ये प्रकृतिभोजनम् ४२
वर्जयित्वा विरुद्धान्नं गुर्वसात्म्यं च यद्भवेत्
अतः परं प्रवक्ष्यामि प्रमाणादिप्रयोजनम् ४३
वमनीयकषायस्य चत्वारोऽञ्जलयः परा
मात्रा मध्या त्रयो ह्रस्वा द्वौ तदर्धा विरेचने ४४
पुरुषं पुरुषं प्राप्य दोषाणां च बलाबलम्
मदनस्य फलक्वाथः पिप्पलीसर्षपान्वितः ४५
ग्रहघ्न्या वा स एवाऽथ पटोलारिष्टवत्सकैः
युक्तो वाऽथ प्रियङ्गूनां कल्केन मधुकस्य च ४६
वमनार्थे विधेयः स्यान्मधुसैन्धवमूर्च्छितः
न त्वजीर्णे हितं त्वत्र लवणोष्णाम्बु केवलम् ४७
तद्धि सर्वं समुत्क्लिश्य मुखेनाशु विनिर्हरेत्
यद्येवमामं विष्टम्भान्नापैति तत उत्तरम् ४८
वचाजगन्धामदनपिप्पलीभिस्तदुद्धरेत्
अन्यैर्वा कल्कविहितैर्बीभत्सोद्वेजनौषधैः ४९
अङ्गल्युत्पलनालाद्यैर्गलावतुदनैः सुखैः
तत्पार्श्वोदरपृष्ठानां पीडनोन्मदनैरपि ५०
पितवन्तं च वमनं मुहूर्तमनुपालयेत्
विदाहपूर्वः स्वेदोऽस्य यदा भवति सर्वतः ५१
विष्यन्दमानं जानीयात्तदा दोषं भिषग्वरः
लोमहर्षेण चान्वक्षं स्थानेभ्यश्चलितं तथा ५२
आध्मानोद्वेष्टनाभ्यां च निर्दिशेत् कोष्ठमाश्रितम्
हृल्लासास्यपरिस्रावैश्चामुखी भूतमुद्धरेत् ५३
उष्णाम्बु लवणोपेतं पीत्वाऽऽकण्ठं पुनः पुनः
यावत् स्युरष्टौ षड्वाऽपि वेगाश्चत्वार एव वा ५४
आपित्तदर्शनाद्वाऽपि दोषोच्छित्तेरथापि वा
मानप्रमाणतो वैकाध्यर्धद्विप्रस्थसंमितम् ५५
पीतादभ्यधिकं यत् स्यात् सदोषस्तद्विनिर्गमे
निरामगन्धं सोद्गारं यावत् पीतमपिच्छिलम् ५६
यदा विकलुषं वान्तं दृश्यतेऽम्बु प्रतिग्रहे
कुक्ष्युरःकण्ठशिरसां लाघवं रोगमार्दवम् ५७
क्लमकार्श्ये न चात्यर्थमुत्साहो विशदात्मता
सद्यो निर्हृतदोषस्य लिङ्गान्येतानि निर्दिशेत् ५८
शिरोगतं ततश्चास्य तैलैः स्विन्नस्य देहिनः
दोषावशेषं नस्येन धूमपानेन वा हरेत् ५९
यथाशुद्धिं ततश्चैनं संसर्गेणोपपादयेत्
हरीतक्या ग्रहघ्न्या वा कल्पोक्तं स्याद्विरेचनम् ६०
पिप्पलीसैन्धवोपेता पथ्या वा त्रिवृतायुता
शृतं चारग्वधफलं क्षीरेणाथ रसेन वा ६१
त्रिफला वा त्रिवृद्युक्ता सघृतव्योषसैन्धवा
तथा गन्धर्वतैलं वा श्रेष्ठं स्नेहविरेचनम् ६२
दशमूलकषायेण जाङ्गलानां रसेन वा
द्राक्षाक्वाथेन वा युक्तमथवा दीपनाम्बुना ६३
त्रिवृद्द्राक्षाभयानां वा गवां मूत्रेण संयुता
सद्राक्षा त्रिवृता वा स्यादथवा त्रिवृताष्टाकम् ६४
पथ्या त्रिजातकं व्यूषं विडङ्गामलकं घनम्
समानि षड्गुणा त्वत्र शर्कराऽष्टगुणा त्रिवृत् ६५
चूर्णं ज्वरश्रमश्वासकासपाण्ड्वामयक्षयान्
हन्यात्क्रिमिविषार्शांसि मूत्रकृच्छ्रं च देहिनाम् ६६
दशावरे पञ्चदश मध्यमे त्रिंशदुत्तमे
वेगा द्वित्रिचतुष्प्रस्थप्रमाणाः स्युर्विरेचने ६७
विट्पत्तिकफसंमिश्राः सवाताः स्युर्यथाक्रमम्
पित्तावसाना वमने कषायकफमूर्च्छिताः ६८
सम्यग्योगेऽतियोगेऽतिप्रवृत्तिः शोणितोत्तरा
अयोगे त्वप्रवृत्तिः स्याद्विपरीताऽल्पशोऽपि वा ६९
विभ्रंशः कर्मणो भ्रंशः केवलौषधनिर्गमः
सर्पिष्पानं विकारे स्यादतियोगानुबन्धजे ७०
मधुकादिविपक्वं वा तैलं तत्रानुवासनम्
दुर्वान्तं दुर्विरिक्तं वा स्निग्धदेहं बलान्वितम् ७१
बहुदोषं दृढाग्निं च पाययेदपरेऽहनि
दुर्बलं क्रमशो भूयः स्निग्धस्विन्नं विशोधयेत् ७२
न तु दुश्छर्दनं जातु क्ररकोष्ठमथापि वा
तयोः संशमनैर्दोषान् बस्तिभिर्वा शमं नयेत् ७३
अहृद्यमतिदुर्गन्धमजीर्णे चाति वा बहु
यस्यानुलोमिकं पीतमूर्ध्वं याति कफावृतम् ७४
तं वामितं लङ्घितं वा परिस्निग्धं विरेचयेत्
अत्यर्थस्निग्धदेहस्य विशुद्धामाशयस्य वा ७५
मारुतस्यानुलोम्यस्य यस्याधो वमनं व्रजेत्
तस्य संसर्गमात्रेण परिशुद्धिर्विधीयते ७६
दुर्बलस्याल्पदोषस्य मृदु संशोधनं हितम्
विगृहीताचिराद्दोषैः स्तोकं स्तोकं व्रजत्यधः ७७
उष्णाम्बुपानं तत्र स्यादानुलोम्यकरं परम्
दोषो भवेद्वा सोद्गारो नोर्ध्वं नाधश्च गच्छति ७८
सशूले भेषजे जन्तोः स्वेदं तत्रावचारयेत्
मात्राविरिक्ते सोद्गारमौषधं क्षिप्रमुद्धरेत् ७९
अतिप्रवृत्तौ जीर्णेऽस्मिन् स्तम्भनीयैरुपक्रमेत्
दीप्ताग्नेः क्रूरकोष्ठस्य बहुदोषस्य देहिनः ८०
सोदावर्तस्य निर्वाह्य पुरीषं फलवर्तिभिः
सुस्निग्धस्विन्नगात्रस्य भिषग्दद्याद्विरेचनम् ८१
यदसक्तं महावेगैः सुखेनाशु प्रवर्तते
अनाबाधकरं नातिग्लपनं दोषशोधनम् ८२
अव्यापन्नगुणोदर्कं मात्रायुक्तं सुसंस्कृतम्
पीतमेकाग्रमनसा सम्यक्च्छुद्धिकृदावहेत् ८३
दीप्ताग्नयः कर्मनित्या ये नरा रूक्षभोजिनः
शश्वद्दोषाः क्षयं यान्ति तेषां वाय्वग्निकर्मभिः ८४
विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते
स्वस्थवृत्तौ न ते शोध्या रक्ष्या वातविकारतः ८५
विज्ञायैवंविधं वैद्यः संशुद्धिं कर्ममर्हति
इति ह स्माह भगवान् कश्यपः
इति खिलेषु संशुद्धिविशेषणीयो नाम सप्तमोऽध्यायः ७

अथ बस्तिविशेषणीयो नामाष्टमोऽध्यायः
अथातो बस्तिविशेषणीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
बस्तिदानात्परं नास्ति चिकित्साऽङ्गसुखावहा
शाखाकोष्ठगता रोगाः सर्वार्धाङ्गगताश्च ये ३
तेषां समुद्भवे हेतुर्वातादन्यो न विद्यते
तथा कफस्य पित्तस्य मलानां च रसस्य च ४
विक्षेपणे संहरणे वायुरेवात्र कारणम्
जेता चास्य प्रवृद्धस्य बस्तितुल्यो न कश्चन ५
तदुपार्धं चिकित्सायाः सर्वं वातचिकित्सितम्
कर्म कालश्च योगश्च तिस्रः संज्ञा यथाक्रमम् ६
वक्ष्ये निरुक्तनिर्देशसंख्यादोषविकल्पतः
बाहु --- तेः कर्मसंज्ञितम् ७
अत्युदीर्णबले जाते प्रयोज्यं तद्यथाविधि
तदर्धकलनात् कालः स हि मध्यबलान्वये ८
पवने पित्तसंसृष्टे विधातव्यो विजानता
अल्पत्वात् स्नेहबस्तीनां युक्तेर्योगः स लाघवात् ९
प्रयोज्यः कफसंसृष्टे नातितीव्रबलेऽनिले
अन्वासनाश्चतुर्विंशतिर्निरूहाः षट् च कर्मणि १०
द्वादशाऽन्वासनाः काले निरूहाश्चात्र वै त्रयः ११
त्रय एव निरूहाः स्युर्योगे पञ्चानुवासनाः
कर्मादीनां त्रिपञ्चाशद्बस्तिसंख्या निदर्शिता १२
पञ्चादौ कर्मणि स्नेहाश्चत्वारोऽन्ते तथाऽनयोः
मध्ये षण्णां निरूहाणामन्तरेषु त्रयस्त्रयः १३
आदावन्तेऽन्तरे चैव काले स्नेहास्त्रयस्त्रयः
योगे निरूहान्तरितास्त्रयोऽन्ते द्वाविति क्रमात् १४
प्रोक्तो विभागनिर्देशस्तद्विकल्पमतः शृणु
सप्त पञ्च त्रयो वाऽऽदौ वाते गर्हिताः १५
जघन्यौ पित्तकफयोरेतावेव कदाचन
तां तामवस्थामन्वीक्ष्य दोषकालबलाश्रयाम् १६
उत्कर्षेच्चावकर्षेच्च बस्तीन् द्रव्याणि वा भिषक्
कुर्याद्योगे तथोत्कर्षमपकर्षं तु कर्मणि १७
काले तदुभयं चैव वीक्ष्य दोषबलाबलम्
वाते समांशः स्निग्धोष्णो निरूहः पानतैलिकः १८
षड्भागस्नैहिकौ पित्ते सक्षीरौ स्वादुशीतलौ
त्रयः समूत्रास्तीक्ष्णोष्णः श्लेष्मण्यष्टाङ्गतैलिकाः १९
सकृत्प्रणिहितो वातमाशयस्थं निरस्यति
सपित्तं सकफं द्विस्त्रिरत ऊर्ध्वं न शस्यते २०
शस्यतेऽत्र रसक्षीरयूषाशनविधिः क्रमात्
अथवा बलकालाग्निदेशप्रकृतिसात्म्यतः २१
एता दोषविकल्पान्ता निर्दिष्टा बस्तियुक्तयः
एष चाप्यपरः कल्पश्चतुर्भद्र इति स्मृतः २२
चत्वारो बस्तयः पूर्वमन्ते चत्वार एव च
तयोरास्थापनं मध्ये कल्पः सोऽयं निरत्ययः २३
द्विस्त्रिर्वाऽर्थवशादेष क्रियमाणः सुखावहः
ज्वरादिभिः परिक्लिष्टे हीनवर्णबलौजसि २४
जातानुवासनावस्थे बलपुंस्त्वाग्निवर्धनाः
अयुग्मा बस्तयो देया न तु युग्माः कथञ्चन २५
विषमा विषमैरेव हन्यन्ते बस्तिभिर्गदाः
एकस्त्रयो वा कफजे पैत्तिके पञ्च सप्त वा २६
वाते नवैकादश वा यो यदाप्नोति वा समम्
इति सूक्ष्मविचित्रार्थमुक्तं व्याससमासतः २७
विज्ञायैतत् प्रयोक्तव्यं यथा वक्ष्याम्यतः परम्
गम्भीरानुगता यस्य क्रमेणोपचिता मलाः २८
कुपिता वातभूयिष्ठा बस्तिसाध्या विशेषतः
संपन्नस्य सहिष्णोश्च कर्म तस्य परायणम् २९
अतो मध्यस्य कालः स्यादवरस्यावरस्तथा
स्नेहस्वेदोपपन्नस्य वामितस्य यथाक्रमम् ३०
स्निग्धस्विन्नस्य तु पुनर्विरिक्तस्य क्रमे गते
दत्तानुवासनस्यास्य यथायोगं ततस्त्र्यहात् ३१
क्षणिकस्य प्रशान्तस्य निरूहमुपलक्षयेत्
त्रिभिरन्वासितस्यातः सप्ताहः कर्मकालयोः ३२
पुनरास्थापनं कार्यं योगः स्यात् पञ्चमेऽहनि
स्वभ्यक्तस्विन्नगात्रस्य काल्यमप्रातराशिनः ३३
कोष्ठानु साऽऽमं शाखाभ्यः सम्यक्संवाहितस्य च
निरूहं योजयेत् प्राज्ञः सर्वोपकरणान्वितः ३४
हैमे रौप्येऽथवा कांस्ये सुमृष्टे भाजने समे
प्रक्षिप्यैकैकशो द्रव्यं यत् क्रमेणोपदेक्ष्यते ३५
भिषङ्निरूहं मृद्नीयात् प्राङ्मुखः सुसमाहितः
पूर्वमेवात्र निक्षेप्यं मधुनः प्रसृतद्वयम् ३६
सैन्धवस्यार्धकर्षं च तैलं च मधुनः समम्
ततश्च कल्कप्रसृतं क्वाथं कल्कचतुर्गुणम् ३७
प्रसृतौ मांसनिर्यूहान्मूत्रप्रसृतमेव च
द्वादशप्रसृतो बस्तिरित्येवं खजमूर्च्छितः ३८
यथार्थं च यथावच्च प्रणिधेयो विजानता
स्याच्चेद्विवक्षा द्रव्याणां प्रक्षेपं प्रति कस्यचित् ३९
तत्र वाच्यमिदं व्यस्तक्रमसंयोगकारणम्
मङ्गल्यं मङ्गलार्थाय मधु पूर्वं निषिच्यते ४०
पैच्छिल्यं बहुलत्वं च कषायत्वं च माक्षिके
भिनत्ति लवणं तैक्ष्ण्यात् सङ्घातं च नियच्छति ४१
मधुनोऽनन्तरं तस्माल्लवणांशो निषिच्यते २५
ततस्तैलं विनिक्षिप्तमेकीभावाय कल्पते ४२
कल्कः संसृज्यते चाशु क्वाथश्च समतां व्रजेत्
स्नेहकल्ककषायाणामेवं संमूर्च्छने कृते ४३
मूत्रं पटुत्वं कुरुते वीर्यं चोद्भावयत्यपि
सम्यगेवं विमृदितः स्रोतोभ्यः कफमारुतौ ४४
विष्यन्दयति पित्तं च क्षिप्रं चैव हरत्यपि
अतोऽन्यथा मृद्यमानो न श्लेषमधिगच्छति ४५
असम्यङ्मथितः श्लिष्टो बस्तिर्नार्थाय कल्पते
तत एष क्रमो दृष्टो निरूहस्योपयोजने ४६
प्रमाणं च प्रकृष्टस्य प्रसृतेर्यदुदाहृतम्
तस्मात् प्रमाणादुत्कर्षो वयोबलवदिष्यते ४७
अपकर्षस्तु कर्तव्यः संप्रधार्य वयोबलम्
गुणतस्तूभयत्वेन दृष्ट्वा व्याधिबलाबलम् ४८
उत्कर्षणं यदङ्गेन तदङ्गेनापकर्षयेत्
शीतोष्णस्निग्धरूक्षाणां द्रव्याणामुपकल्पयेत् ४९
स्वाद्वम्ललवणोष्णानामुत्कर्षं नातिमात्रशः
वातव्याधौ भिषक्कुर्यात् स्नेहस्य तु विधापयेत् ५०
रूक्षाणां शीतवीर्याणामपकर्षं च युक्तितः
स्वादुतिक्तकषायाणां व्याधौ पित्तोत्तरे भिषक् ५१
उत्कर्षमपकर्षं तु कुर्यात्तिक्ष्णोष्णयोग्यथा
तीक्ष्णोष्णरूक्षद्रव्याणामुत्कर्षं तु कफोत्तरे ५२
विपर्ययं विपर्यये गुणानां च प्रकल्पयेत्
संसृष्टदोषे संसृष्टगुणद्रव्याणि योजयेत् ५३
आस्थापनं दुष्प्रयुक्तं भवत्याशीविषोपमम्
सुप्रयुक्तं तदेवेह प्राणिनाममृतोपमम् ५४
प्रायो यत्र गुणाधिक्यं सम्यग्योगेन लक्ष्यते
तदप्रमादं कुर्वीत बस्तिकर्मणि बुद्धिमान् ५५
न हि तादृग्विधं किञ्चित् कर्मान्यदुपपद्यते
क्षिप्रं रोगाभिघाताय रोगाणां चोपपत्तये ५६
व्याध्यातुराग्निभैषज्यबलं प्रकृतिमेव च
वयः शरीरमौचित्यं सौकुमार्यं साहष्णुताम् ५७
प्रधार्य बुद्ध्या मतिमाँस्तत्तत्कर्मावचारणम्
अवस्थायामवस्थायां कुर्यात् सम्यगतन्द्रितः ५८
नातिशीतं न चात्युष्णं नातितीक्ष्णं नचेतरत्
नातिरूक्षमतिस्निग्धं नातिसान्द्रं न च द्रवम् ५९
नातिमात्रं न चात्यल्पं निरूहमुपकल्पयेत्
अतिशीतोऽतिशैत्येन स्कन्नो बातबलावृतः ६०
भृशं स्तम्भयते गात्रं कृच्छ्रेण च निवर्तते
अत्युष्णः कुरुते दाहं मूर्च्छां चाशु निरेति च ६१
अतितीक्ष्णस्तथैवास्य जीवादानं करोति वा
मन्दो न दोषान् हरति दूषयत्येव केवलम् ६२
कर्षयत्यतिरूक्षश्च मारुतं च प्रकोपयेत्
स्निग्धोऽतिजाड्यं कुरुते व्यापादयति चानलम् ६३
क्षपयत्यतिसान्द्रस्तु न वा नेत्राद्विनिष्क्रमेत्
अतिद्रवोऽल्पवीर्यत्वादयोगायोपपद्यते ६४
अल्पमात्रो न चाप्येति कृच्छ्राद्वाऽपि निवर्तते
अतिमात्रोऽतियोगाय तस्मादेते विगर्हिताः ६५
यथावन्मूर्च्छितो मृत्स्नो भोज्योष्णलवणः समः
बालकाष्ठौष्ठजिह्वानां योनिदाहप्रवर्तकः ६६
श्रोणिबस्तिकटीपार्श्वनाभिमूलोदराश्रितः
सम्यक्समुच्छ्रयं कृत्स्नं वीर्यतः प्रतिपद्यते ६७
ऊर्ध्वभागैर्बलान् क्षिप्तो मारुतैरिव पावकः
पित्तस्थानमतिक्रम्य स्वल्पमाक्षिपते कफम् ६८
तीक्ष्णो मात्राशतादूर्ध्वं नातितीक्ष्णः प्रयुज्यते
न तिष्ठति मृदुस्तिष्ठत्यधिकं वाऽपि यापनः ६९
आनुलोम्यादपानस्य गुदस्यारोपणाद्भृशम्
तद्द्वितीयस्तृतीयो वा कालमल्पतरं तथा ७०
दोषान् स्थूलांश्च सूक्ष्मांश्च गम्भीरानुगतानपि
विष्यन्दयति विष्टब्धान् सपुरीषान् प्रकर्षति ७१
न कुर्याद्व्यापदः काश्चित् सुखेन च निवर्तते
युक्तो युक्तेन भिषजा स बस्तिः संप्रशस्यते ७२
वयसः स्थापनो वृष्यः स्वरवर्णबलाग्निकृत्
वातपित्तकफानां च मलानां चापकर्षणः ७३
बालवृद्धवयस्थानां क्षिप्रमूर्जस्करः परम्
सर्वेन्द्रियाणां वैशद्यं कुरुते चाङ्गमार्दवम् ७४
एवमेते समाख्याता निरूहस्य गुणागुणाः
पुरीषं मारुतः पित्तं कफश्च क्रमशो यदा ७५
प्रवर्तन्ते च फेनं च शङ्खस्फटिकसन्निभम्
सम्यङ्गिरूढगात्राणां मार्दवं जनयेत् परम् ७६
अन्नाभिलाषो वैशद्यं लघुता वाऽथ मार्दवम्
सृष्टविण्मूत्रवातत्वमिन्द्रियाणां प्रसन्नता ७७
अयोगे विपरीतं स्यादतियोगेऽतिवर्तनम्
कफपित्तासृजां मांसप्रक्षालननिभस्य वा ७८
हिक्का कम्पस्तृषा ग्लानिर्गात्रभेदस्तमः क्लमः
निद्रानाशः प्रलापश्च यत्र चाप्युपजायते ७९
सम्यङ्निरूढमाश्वस्तं परिषिक्तं सुखाम्बुना
तनु वा भोजयेन्मात्रां जाङ्गलानां रसेन वा ८०
भुक्तवन्तं च तैलस्य प्रसृतेनानुवासयेत्
वायुः प्रशाम्यते तेन निरूहेण प्रचालितः ८१
आस्थापनो बस्तिरयं गुदनिर्वापणं नरः
एकान्तरं ततश्चोर्ध्वं यथोक्तमनुवासनम् ८२
दीप्ताग्नेर्दृढदेहस्य सोदावर्ते विमार्गते
श्रोणिवङ्क्षणसंस्थे च वाते शस्तं दिने दिने ८३
तस्य पक्वाशयगतः स्नेहमात्रां प्रभञ्जनः
बलवान् बलवत्यग्नौ वारिवत् स विशोधयेत् ८४
न च तैलात् परं किञ्चिद्द्रव्यमस्त्यनिलापहम्
स्नेहाद्रौक्ष्यं गुरुत्वाच्च लघुत्वं मारुतस्य तु ८५
औष्ण्याच्छैत्यं निहन्त्याशु तैलं पुष्टि करोति च
मनःप्रसादः स्नेहं च बलवर्णमथापि च ८६
स्यात्स्निग्धविटपस्कन्धः कोमलाङ्कुरपल्लवः
मूले सिक्तो यथा वृक्षः काले पुष्पफलप्रदः ८७
स्नेहबस्तेर्नरस्तद्वद् दृढकायो दृढप्रजः
वाता मकैर्विकारैश्च पूर्वोक्तैर्नाभिभूयते ८८
पञ्चमूलाढकेऽध्यर्धं फलानामाढकं भवेत्
यवकोलकुलत्थानां कुडवाः स्युस्त्रयः पृथक् ८९
चतुर्भागावशिष्टं तु पश्चादष्टगुणे जले
मस्तुनश्चाढकेनैतत्तैलप्रस्थं विपाचयेत् ९०
कुष्ठस्य शतपुष्पाया वचाया मधुकस्य च
कुटजस्य च बीजानां बीजानां मदनस्य च ९१
यवान्याः पिप्पलीनां च हरेण्वा देवदारुणः
बिल्वस्य देवपुष्पस्य रास्नाया मुस्तकस्य च ९२
सूक्ष्मैलायाः प्रियङ्ग्वाश्च भागैरक्षसमैः पृथक्
सिद्धं सुलवणं पूतं निदध्याद्भाजने शुचौ ९३
एतन्मन्दनिरूढानां बस्तिव्यापत्सु चोत्तमम्
फलतैलमिति ख्यातमुदावर्तनिवर्तनम् ९४
तथैवोदरिणां सिद्धं गुलिमिनां क्रिमिकोष्ठिनाम्
पृष्ठश्रोण्यूरुजङ्घासु वातेष्वप्रगुणेषु च ९५
निरूहसाध्या ये केचिद्विकाराः समुदाहृताः
ताञ्जयेद्बस्तिनाऽनेन मूत्राघातांश्च नाशयेत् ९६
एरण्डमूलत्रिफलाबलारास्नापुनर्नवाः
गुडूच्यारग्वधो दारु पलाशो मदनं फलम् ९७
मूलं तुरङ्गगन्धायाः पञ्चमूलं कनीयसम्
पलप्रमाणान्येतानि जलद्रोणे विपाचयेत् ९८
अष्टभागावशेषं तं परिपूतं समाहरेत्
कर्षप्रमाणान्येतानि श्लक्ष्णपेष्याणि कारयेत् ९९
शताह्वा मधुकं मुस्ता प्रियङ्गुर्हपुषा वचा
रसाञ्जनं तार्क्ष्यशैलं पिप्पल्यः कौटजं फलम् १००
खजेन मथितः कोष्णः सतैलमधुसैन्धवः
समूत्रमांसनिर्यूहो निरूहः साधुयोजितः १०१
लेखनो दीपनो बल्यो ग्रहण्यर्शोविकारनुत्
पार्श्वपृष्ठकटीशूलं पार्श्वजङ्घोरुजा रुजः १०२
एरण्डबस्तिः शमयेन्मारुतं च कफावृतम्
युक्तमात्रोष्णलवणः स्नेहबस्तिर्विधीयते १०३
समासतः स द्विविधस्तस्य मात्रा प्रचक्ष्यते
प्रकुञ्चः कन्यसी मात्रा ततोऽध्यर्धा तु मध्यमा १०४
उत्तमा द्विपला मात्रा मात्राबस्तौ तु भार्गव
अपस्तनस्यार्धपलं परिहार्या निरत्यया १०५
कर्वत्रयं त्रिवर्षस्य चतुर्वर्षस्य वै पलम्
षड्वर्षस्य तु बालस्य स्व एव प्रसृतः स्मृतः १०६
द्वौ द्वौ द्वादशवर्षाणां चत्वारः प्रसृतास्तथा
देयाः षोडशकादीनां पूर्वाह्णे वाऽन्तरेषु च १०७
यावन्मध्यं वयो वार्धे त्वपकर्षेद्यथाक्रमम्
समीक्ष्य देहदोषाग्निबलं प्रकृतिमेव च १०८
स्नेहप्रमाणं यद्बस्तौ निरूहस्त्रिगुणस्ततः
अतिव्यवायव्यायामपानयानाध्वसङ्गिनः १०९
वयस्थाः स्नेहसात्म्याश्च येषां चाग्निबलं दृढम्
येषां चाधः प्रकुपितो वायुर्वातात्मकाश्च ये ११०
तेषूत्तमां प्रणिदधेत् स्नेहमात्रां विचक्षणः
य एभ्यो मध्यमावस्थाः पुरुषास्तेषु मध्यमाम् १११
वयोव्याधिबलावेक्षामितरामितरेषु च
इति कर्मादिबस्तीनां त्रितयं समुदाहृतम् ११२
निर्देशश्च विकल्पश्च प्रविभागश्च कार्त्स्न्यतः
यच्च यस्मिन् विधातव्यं या मात्रा येषु युज्यते ११३
निरूहयुक्तिः स्नेहश्च निरूहश्च प्रकीर्तितः
इति ह स्माह भगवान् कश्यपः ११४
इति खिलेषु बस्तिविशेषणीयो नामाष्टमोऽध्यायः ८

अथ रक्तशुल्मविनिश्चयाध्यायो नवमः
अथातो रक्तगुल्मविनिश्चयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
भगवन्तमृषिश्रेष्ठं सर्वशास्त्रविदां वरम्
कश्यपं भार्गवो धीमान् पर्यपृच्छत् प्रजापतिम् ३
रक्तगुल्मः कथं स्त्रीणां जायते दुरुपद्रवः
अथ कस्मात्कुमाराणां कन्यानां च न जायते ४
रक्तगुल्मः कथं चासौ रक्तगुल्म इति स्मृतः
कस्मान्निश्चेतनत्वेऽपि गर्भचेष्टा विचेष्टते ५
दूरान्तरं न त्वनयोश्चेतनाचेतनावतोः
विप्रकृष्टान्तरेऽप्यस्मिन् गर्भशोणितगुल्मयोः ६
केचिद्विशेषं नेच्छन्ति केचिदिच्छन्ति लिङ्गतः
तयोर्विशेषो यद्यस्ति किमर्थं स उपेक्ष्यते ७
युक्तो गर्भे दोहदस्य क्षीरस्य च समुद्भवः
आपाण्डुगण्डतादीनां लिङ्गानां च समुद्भवः ८
न युक्तमिव पश्यामि तस्मिन्नेषां समुद्भवम्
रक्तगुल्मेऽथ दृश्यन्ते लिङ्गान्येतानि तत् कथम् ९
कस्मादादशमान्मासात् परिपाकं नियच्छति
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवादिषु १०
मासेषु भेदं नाप्नोति प्रायो गर्भवदास्थितः
नारीणां सुकुमारीणां स कष्ट इति मे मतिः ११
उपक्रम्यः कथमयं कश्चास्योपक्रमः स्मृतः
कस्यां कस्यामवस्थायां का का वाऽस्यावचारणा १२
कस्मिन् काले च निर्भेद्यो भेदनीयं च किं भवेत्
विनिर्भिन्ने च किं कार्यमेतदाचक्ष्व मे विभो १३
इति पृष्टः स शिष्येण प्रोवाच वदतां वरः
रक्तगुल्मस्तु नारीणां जायते येन हेतुना १४
येन चैव कुमाराणां कन्यानां च न जायते
तत् सर्वमभिधास्यामि विस्तरेण निबोध मे १५
विण्मूत्रक्रिमिपक्वामकफवाताशयाः पृथक्
सप्तैते देहिनां कोष्ठे स्त्रीणां गर्भाशयोऽष्टमः १६
रजोवहाः सिरा यस्मिन् रजः प्रविसृजन्त्यतः
पुष्पभूतं हि तद्दैवान्मासि मासि प्रवर्तते
विपर्ययात्तदेवेह तत्रैव तु निचीयते १७
अनेन हेतुना स्त्रीणां रक्तगुल्मो हि जायते
तदाशयस्य चाभावात्पुरुषाणां न जायते १८
हीनयोन्यास्तु बालायाः कायं गच्छति शोणितम्
अथ पूर्णस्वभावायाः कायं योनि च गच्छति १९
गर्भमङ्गे भावयति किञ्चित् स्तन्याय कल्पते
पक्तये शोणिताद्यस्तु शेषः कायं समिन्धति २०
तथैव गर्भः सूतायाः सद्यः स्तन्याय कल्पते
शेषं तु रुधिरीभूतं कायं योनिं च सर्पति २१
धातुषु प्रतिपूर्णेषु शरीरे समवस्थिते
संचितं रुधिरं योनिः पुनः कालेन मुञ्चति २२
यदा रक्तवहा रक्तं प्रदोषान्नानुपद्यते
विमार्गाद्योनिमन्वेति विकृतिस्तेन जायते २३
तथैव रक्तगुल्मोऽपि हेतुनाऽनेन जायते
यदा ऋतुमती नारी प्राप्तान् वेगान् विधारयेत् २४
ह्रिया त्रासाद्व्यवायाद्वा वर्तमानानधोगतान्
एवमादिभिरप्यन्यैरुदावृत्तैः प्रकोपितः २५
वायुः शोणितमादाय प्रतिस्रोतः प्रपद्यते
गर्भाशयमुदावृत्तस्तस्या वहति गोणितम् २६
मारुतश्च्युतगर्भाया यदा मिथ्योपचर्यते
तस्याः स वायुरुद्वृत्तः प्रतिघातात् सशोणितः २७
गत्वा गर्भाशयं रुद्धः स्थिरत्वमुपपद्यते
संवृत्तं शोणितं तत्र मारुतो विषमं गतः २८
रजोवहाः समावृत्तः संस्तम्भयति गर्भवत्
स गुल्मः स्पन्दतेऽभीक्ष्णं मारुतेन समीरितः २९
दर्शयन् यानि रूपाणि तानि वक्ष्यामि सर्वशः
कासते शूल्यते चैव ज्वर्यतेऽथातिसार्यते ३०
मन्यते सर्वगात्राणि मूर्च्छितानि गुरूणि च
तमोऽस्या जायतेऽभीक्ष्णं कार्श्यं चैव निगच्छति ३१
वमत्यभीक्ष्णशो भुक्तमन्नं चास्यै न रोचते
जायन्ते चोदरे गण्डा नीलं चास्याः प्रदृश्यते ३२
स्तनान्तरं च नाभिश्च लोमराजी च मूर्च्छिता
ओष्ठौ च कृष्णौ भवतस्तथैव स्तनचूचुकौ ३३
पयोधरौ प्रसिच्येते दोहदं च निगच्छति
नानारसान् प्रार्थयते निष्ठीवति मुहुर्मुहुः ३४
शुभादुद्विजते गन्धाद्वर्णश्चास्याः प्रसीदति
गर्भिण्या यानि रूपाणि तानि संदृश्य तत्त्वतः ३५
वर्षाणि हरति व्याधिं गर्भोऽयमिति दुःखिता
केनचित्त्वथ कालेन निर्भेदं यदि गच्छति ३६
ततो गुल्मप्रमुक्ता सा ज्ञातिमध्ये प्रभाषते
गर्भिण्यहं चिरं भूत्वा प्रच्युते गर्भशोणिते ३७
गर्भरूपं न पश्यामि तत्र मे संशयो महान्
तामिदं प्रतिभाषन्ते सर्वग्रामकुतूहलाम् ३८
दिव्यो गर्भा व्यतिक्रान्तो नैगमेषेण ते हृतः
इत्येनामबुधाः प्राहुर्हृतं सर्वमशोभनम् ३९
परिप्लुत इति प्राहुः कुशला ये मनीषिणः
गुल्मश्चय इति प्रोक्तो रक्तं रुधिरमुच्यते ४०
रक्तस्य संचयस्तेन रक्तगुल्म इति स्मृतः
गर्भवच्चेष्टते नायं किन्तु सादृश्यदर्शनात् ४१
गर्भोऽयमिति मन्वाना मनसा तद्विभाविनी
नारी विचेष्टते तास्ता गर्भचेष्टाः पृथग्विधाः ४२
दोहदं यत् करोतीति शृणु तत्रापि कारणम्
य एव हि रसाः प्रायो धातूनां वृद्धिहेतवः ४३
तेषामेवाभिलाषः स्याद्योनिसाधर्म्यतत्त्वतः
वातपित्तान्वितं रक्तं चीयमानं विकारवत् ४४
कष्ट्वम्ललवणादीनां रसानां गृद्धिमावहेत्
गर्भिण्यस्मीति तत्प्रीतिप्रेमसंकल्पसंभृतः ४५
प्रस्रुतो जायते नार्यास्तेन स्तन्यं प्रवर्तते
सर्वा रसवहा नाड्यः समन्तान्नाभिमाश्रिताः ४६
गर्भो विवर्धमानश्च संपीडयति ताः स्त्रियाः
तद्वच्च रक्तगुल्मोऽपि पीडयन्नुपचीयते ४७
ताभिश्च पीड्यमानाभिर्न सम्यग्वर्तते रसः
आपाण्डुगण्डतादीनि लक्षणानि भवन्त्यतः ४८
कथं प्रकर्षते कालमिति तत्रापि मे शृणु
विवृद्धेरिह सारूप्याद्गर्भोऽयमिति निश्चिता ४९
संरक्षतेऽभिघातेभ्यः कुक्कुट्यण्डमिवाङ्गना
तदपायकरान् हेतून्न कथंचन सेवते ५०
श्रमोपवासतीक्ष्णोष्णक्षारादीनि च सर्वशः
स एवं याप्यमानस्तु यथाकालं प्रकर्षते ५१
व्यापत्तिहेतुमासाद्य कालेनाल्पेन वा पुनः
भेदं गच्छत्यधस्ताद्धि जलकुम्भ इव क्षतः ५२
केचिदिच्छन्ति गुल्मस्य मासादादशमात्परम्
परिपाकं फलस्येव स्वकालपरिणामतः ५३
तस्मिंश्च काले स व्याधिः स्यान्नातिदुरुपक्रमः
तत्रोपक्रममिच्छन्ति तस्य कर्तुमतो बुधाः ५४
अप्राप्तकालो याप्यः स्याद्गर्भवद्युक्तिकोविदैः
नापक्वो भिद्यते व्याधिरिति मत्त्वा यथाभवम् ५५
विशेषं रक्तगुल्मस्य गर्भस्य च निबोध मे
अङ्गप्रत्यङ्गवान् गर्भस्तैरेव च विचेष्टते ५६
रक्तगुल्मस्तु वृत्तः स्याल्लोष्टवच्च विचेष्टते
स्थानात्स्थानं व्रजन् गर्भो व्याविद्धं परिवर्तते ५७
नाभेरधस्ताद्गुल्मोऽयमव्याविद्धं विवर्तते
आनुपूर्व्येण गर्भश्च अहन्यहनि वर्धते ५८
विपरीतं हि गुल्मस्तु मन्दं मन्दं विवर्धते
तां तामवस्थां गर्भस्तु मासि मासि प्रपद्यते ५९
गर्भिणी नानिमित्तं च ज्वर्यते दह्यतेऽपि वा
गुल्मिनी ह्यनिमित्तं तु ज्वर्यते दह्यतेऽपि वा ६०
अस्मिन् विशेषेऽपि सति संदेहो जायते महान्
नानागर्भविकाराणां सङ्कराद्भिषजे मतः ६१
संभूय सह संमन्त्र्य भिषग्भिः शास्त्रकोविदैः
काले चिकित्सां कुर्वीत यथा वक्ष्याम्यतः परम् ६२
अल्पान्तरावुभावेतौ गर्भो गुल्मश्च रक्तजः
तद्यथावद्विदित्वाऽऽदौ क्रियां कुर्याद्भिषग्वरः ६३
यो हि गुल्मे गर्भ इति गर्भे वा गुल्म इत्यपि
क्रियां कुर्यादयशसा एनसा चैव युज्यते ६४
अतस्तु संशये जाते कुर्यात् साधारणीः क्रियाः
नोपक्रमेदविदितं रोगं कञ्चिच्चिकित्सकः ६५
अथ काले त्वसंपूर्णे संदिग्धे चापि दर्शने
हेतुना केनचिद्रक्तं स्रवेत्तं चाशु वारयेत् ६६
पूर्णे प्रसवकाले तु न रक्तं प्रतिवारयेत्
तत्रानुवासनं दद्याद् द्रवं स्निग्धं च भोजनम् ६७
विधिनाऽनेन गर्भश्चेत् सुखेन प्रसविष्यति
अथवा रक्तगुल्मः स्यात् सोऽप्यकृत्स्नेन भेत्स्यते ६८
एतस्मात्कारणाद्रक्तं प्रवृत्तं न निवार्यते
रक्तगुल्मे प्रथमतो युक्त्या स्नेहोपपादनम् ६९
शस्तं बाहुसिरायाश्च वेधनं पाकवारणम्
तथा संशमनीयं च दोषशेषावकर्षणम् ७०
कल्याणकं पञ्चगव्यं षट्पलं तिक्तमेव वा
सरुजां पाययेन्नारीं दोषवित् कर्मकोविदः ७१
तीक्ष्णैरास्थापयेदेनां युक्तितश्चानुवासयेत्
पथ्यानि भोजयेच्चैव क्षीरयूषरसादिभिः ७२
अन्नपानानि रूक्षानि विदाहीनि गुरूणि च
व्यायामं मैथुनं चिन्तां गुल्मिनी तु विवर्जयेत् ७३
ज्वरारुचिश्वासकासशोषकार्श्यारतिव्यथाः
शोफश्चोपद्रवा गुल्मे तांश्चिकित्सेत् स्वभेषजैः ७४
बिल्वश्योनाकनिर्यूहे साधितैर्जाङ्गलैः रसैः
शैथिल्यकरणार्थं च रक्तगुल्मस्य भोजयेत् ७५
यूषेण वा कुलत्थानां लावसंस्कारिकेण वा
चालनार्थं विरेकं च त्रिवृत्त्रिफलया पिबेत् ७६
वायोरुपशमार्थं च फलतैलानुवासिताम्
आस्थापयेत् सकृद् द्विर्वा शूलाटोपनिवृत्तये ७७
तुल्यं मधु च तैलं च ताभ्यामुष्णोदकं समम्
द्वौ कर्षौ शतपुष्पायाः कर्षार्धं सैन्धवस्य च ७८
एतेनास्थापयेन्नारीं दशमूलादिकेन वा
बलं चाप्याययेत्तस्या रसैः क्षीरैश्च संस्कृतैः ७९
उपक्रमेत्ततश्चूर्णैरेतैः शोधनपातनैः
हरीतकी वचा हिङ्गु सैन्धवं साम्लवेतसम् ८०
यवानी यावशूकं च चूर्णमुष्णाम्बुना पिबेत्
हरीतकीयवक्षारसौवर्चलमिति त्रयम् ८१
घृतयुक्तं पिबेद्युक्त्या रक्तगुल्मस्य भेदनम्
पत्रैलापिप्पलीशुण्ठीचूर्णं वा विडसंयुतम् ८२
नागरं शुक्तिचूर्णं वा पिबेद्गोमूत्रसंप्लुतम्
सूक्ष्मैलाकुञ्चिकाचव्यपिप्पलीचित्रकस्य वा ८३
कल्कं बल्वजयूषाद्यैः पिबेन्मण्डोदकेन वा
अपरापातनोद्दिष्टैरौषधैश्चापि भेदयेत् ८४
अतिप्रवृत्तं रुधिरं ग्लानिं जनयते यदि
विनिर्हृते गुल्मदोषे सावशेषेऽपि वा भिषक् ८५
पुनरास्थापनोक्तेन तत्र कुर्याद्भिषग्जितम्
अनुबन्धभयाच्चैव शनैस्तदनुशोधयेत् ८६
पद्मादीनि समूलानि दग्ध्वा तद्भस्म संहरेत्
गाढयित्वा च तत्क्वाथं चूर्णैरेतैर्विपाचयेत् ८७
शुण्ठीपिप्पलिकुष्ठैश्च चव्यचित्रकदारुभिः
दर्विप्रलेपितं सिद्धमभ्यसेत्तेन शुद्ध्यति ८८
शिलाजत्वभयारिष्टं कल्पेनाभ्यस्य मुच्यते
यच्चापि पञ्चगुल्मीये चिकित्सितमुदाहृतम् ८९
तदिहापि प्रयोक्तव्यं प्रसमीक्ष्य बलाबलम्
इति ह स्माह भगवान् कश्यपः ९०
इति खिलेषु रक्तगुल्मविनिश्चयो नाम नवमोऽध्यायः

अथ अन्तर्वत्नीचिकित्सिताध्यायो दशमः
अथातोऽन्तर्वत्नीचिकित्सितमध्यायं वक्ष्यामः १
यथोवाच भगवान् कश्यपः २
सूक्ष्मां चिकित्सां वक्ष्यामि गर्भिणीनां विभागशः
तथा गर्भश्च नारी च वर्धते रक्ष्यतेऽपि च ३
गर्भिणीनां ज्वरः कष्टः सर्वव्याधिषु पार्थिव
ज्वरोष्मणाऽभितप्तस्तु गर्भो यात्येव विक्रियाम् ४
तस्माज्ज्वरचिकित्सां तु पूर्वमेव निबोध मे
क्षुच्छ्रमाभ्यञ्जनाद्रौक्ष्यादौष्ण्यापक्वविधारणात् ५
स्नेहस्वेदौषधानां च विभ्रमात्तेजसोऽपि च
सन्तापान्मनसश्चापि पर्वतानां तथैव च ६
गन्धाच्च तृणपुष्पाणां गर्भिण्या जायते ज्वरः
गर्भिणीं ज्वरितां नारीमेकाहमुपवासयेत् ७
ततो दद्यादलवणां पेयां स्नेहविवर्जिताम्
तीक्ष्णानि त्वन्नपानानि स्वेदमायासमेव च ८
वर्जयेज्ज्वरिता नारी यवागूं केवलां पिबेत्
यवाग्वा ह्रसिते दोषे यूषैरन्नानि दापयेत् ९
यूषैस्तु ह्रसिते दोषे रसं वा क्षीरमेव वा
दापयेन्मतिमान् प्राज्ञो न त्वौषधविधिर्हितः १०
अनुबन्धे तु दोषस्य गर्भकालमपेक्ष्य च
मासाच्चतुर्थात् प्रभृति भिषग्भेषजमाचरेत् ११
शारीरं तु ज्वरं ज्ञात्वा वातपित्तकफात्मकम्
मध्यां क्रियां प्रयुञ्जीत संचिन्त्य गुरुलाघवम् १२
उपद्रवबलं ज्ञात्वा सत्त्वं चापि समीक्ष्य तु
गर्भावस्थां तु विज्ञाय लेखनानि प्रदापयेत् १३
उत्पन्नायां तु तृष्णायां नात्युष्णं प्रपिबेज्जलम्
वातश्लेष्मसमुत्थे तु ज्वरे नीरं विषायते १४
अथ पित्तकृते चापि शृतशीतं प्रशस्यते
कुप्यपाषाणनिष्पक्वं शीतं तृष्णानिबर्हणम् १५
ज्वरे तु तरुणे दृष्टो विधिरेष विशेषतः
भग्नवेगे तु कर्तव्यं तृष्णाप्रजमनैः शृतम् १६
ज्वरं ज्वरं समासाद्य शीतं वा यदि वेतरम्
शिरोरोगे तु कर्तव्यो यथावद्भेषजक्रमः
भग्नवेगे ज्वरे कृत्स्ने गुरु नैव प्रशस्यते १७
तरुणे तु ज्वरे नार्या अभ्यङ्गो न प्रशस्यते
गर्भे तु तरुणे दत्तो गर्भघाताय कल्पते १८
गर्भिणीनां तु नारीणां नस्ततो नानुसेचयेत्
नस्यदानेन गर्भिण्याः प्राणास्तु परिहीयते १९
कुणिर्वा यदि वाऽन्धश्च जायते दुर्बलेन्द्रियः
धूमपानेन गर्भिण्या धूमतेजोऽहतो भृशम् २०
विवर्णो जायते गर्भः पतेद्वाऽपि विशांपते
शिरोविरेके गर्भिण्याः संक्षोभात्तु भयेन वा २१
मारुतः कुपितो देहे गर्भघाताय कल्पते
अथवा वातरोगी तु गर्भो भवति पार्थिव २२
स्वेदेन तरुणे गर्भे पित्तं प्रकुपितं भृशम्
च्यावयेदाशु गर्भं तु तस्मात् स्वेदं विवर्जयेत् २३
स्वेदः स्थिरे तु विहितो गर्भवैवर्ण्यकारकः
वमनं तरुणे गर्भे स्वैर्गुणैर्गर्भघातकम् २४
नाभिप्रपीडनत्करात् संक्षोभाच्च विशेषतः
गर्भिण्यास्तरुणे गर्भे स्रंसनं न प्रशस्यते २५
गुरुत्वादुष्णतीक्ष्णत्वाद्वाहनाच्चास्य घातकम्
आस्थापनं तु तरुणे गर्भे नार्या न शस्यते २६
अनुवासनं च मतिमानिति शास्त्रविनिश्चयः
आस्थापनं सानुवासं करोति स्वेन तेजसा २७
हीनाङ्गं स्राविणं वाऽपि गर्भमित्येष निश्चयः
तस्मादेतानि मतिमान् गर्भिण्या न प्रदापयेत् २८
इमानि दद्यात् संचिन्त्य रोगावस्थाविशेषवित्
विदारिगन्धां कलशीं तथा गन्धर्वहस्तकम् २९
मधुकं भद्रदारुं च क्वाथः शर्करया युतः
वातज्वरहरो देयो मातुलुङ्गरसाप्लुतः ३०
वर्गो विदारिगन्धादिः क्वथितो नातिशीतलः
भद्रदारुसमायुक्तो वातज्वरहरो मतः ३१
एरण्डो वरुणश्चैव बृहत्यौ मधुकं तथा
वातज्वरहरः क्वाथो रास्नाकल्कसमायुतः ३२
द्विपञ्चमूलनिष्क्वाथः कोष्णो वा यदि वा हिमः
रास्नाकल्कसमायुक्तो वातज्वरहितो मतः ३३
जीर्णे तु भोजने पेया तन्वी लवणवर्जिता
कुष्ठं सयष्टीमधुकं रास्ना गिरिकदम्बकः ३४
शताह्वा पद्मकं चैव सारिवोशीरमुत्पलम्
मुस्ता शृगालविन्ना च करविन्दी तथा वचा ३५
पयस्या हंसपादी च तथा पुन्नागमेव च
कर्षप्रमाणान्येतानि दधिमण्डेन पेषयेत् ३६
ततस्तमेषामङ्गानां निष्क्वाथं क्वाथयेद्भिषक्
भागाश्च दशमूलस्य कार्या द्विपलसंमिताः ३७
बलातिबलयोश्चैव कुर्यादर्धपलं भिषक्
कोरण्डमधुशिग्रूणि मदयन्ती च ते त्रयः ३८
यवकोलकुलत्थानां भागाः स्युः प्रस्थसंमिताः
निष्क्वाथ्यैतानपां द्रोणे शेषमाढकसंमितम् ३९
तत्र दद्यात् प्रतीवापं यत् पूर्वमुपकल्पितम्
क्षीरं तथैव गोमूत्रं वारुणीं दधि चोत्तमम् ४०
भिषक्कुडवमात्राणि तिलतैलेन योजयेत्
अवहृत्याग्निना सिद्धमीषत्क्षोदायितं यदि ४१
उष्णेनैतेन तैलेन सर्वगात्राणि म्रक्षयेत्
वातज्वरं निहन्त्येतन्म्रक्षणैस्त्रिभिरेव तु ४२
एषोऽभ्यङ्गः स्थिरे गर्भे यथावत् संप्रशस्यते
क्षीरं क्षीरयवागूर्वां रसो वा जाङ्गलो हितः ४३
जीर्णज्वरे सदा नार्या वातघ्नैरौषधैः शृतः
अथ पित्तकृते चापि क्वथितं सारिवादिकम् ४४
शर्करामधुसंयुक्तं पाययेत् कल्यमुत्थितम्
पयस्या क्षीरकाकोली मृद्वीका मधुकानि च ४५
शर्करामधुसंयुक्तं पानकं पैत्तिके ज्वरे
नीलोत्पलं पयस्या च सारिवा मधुकं मधु ४६
पिप्पल्यो मरिचोशीरं लोध्रं लाजा सशर्करा
एतत् क्षीरसमायुक्तं खजेन मथितं पिबेत् ४७
गर्भिणी ज्वरिता क्षिप्रं पित्तात्तेन प्रशाम्यति
नलवञ्जुलमूलानि गुन्द्रामूलानि चाहरेत् ४८
सहां च सहदेवां च मार्कवं पाटलिं तथा
क्षीरिणां च प्रवालानि तथा जम्ब्वाम्रयोरपि ४९
उत्पलं सारिवोशीरं चन्दनं पद्मपत्रकम्
श्लक्ष्णान्येतानि पिष्टानि प्रदेहः शीतलो भवेत् ५०
पित्तज्वरहरो नार्यास्तर्पणो घृतसंयुतः
यवपिष्टस्य कुडवो मञ्जिष्ठार्धपलं तथा ५१
अम्लप्रस्थशते तैलं तैलप्रस्थं विपाचयेत्
दाहज्वरहरं तैलं प्रशस्तं ज्वरनाशनम् ५२
अथ श्लेष्मज्वरे नारीं रास्नाक्वाथं सुशीतलम्
क्षौद्रेण सह संयुक्तं पाययेदिति कश्यपः ५३
भद्रदारुकनिष्क्वाथो रास्नाक्षौद्रसमायुतः
अथवा चन्दनक्वाथः पिप्पलीक्षौद्रसंयुतः ५४
श्लेष्मज्वरहरः पेयो रास्नावासाऽमृताशृतः
श्रीपर्णिकामृतानां तु निष्क्वाथो मधुयोजितः ५५
पेयः सयष्टीमधुको ज्वरे श्लैष्मिकपैत्तिके
महतः पञ्चमूलस्य क्वाथः श्लैष्मिकवातिके ५६
रास्नाकल्कसमायुक्तः पेयः कल्यमिति स्थितिः
क्वाथो विदारिगन्धादेः शर्करामधुयोजितः ५७
वातपित्तज्वरे पेय इति ह स्माह कश्यपः
पित्तज्वरे हिमा पेया पथ्या क्षीरमथापि च ५८
जीर्णे पित्तहरैः पक्वो यूषस्तु चणकैस्तथा
श्लेष्मज्वरे सुखोष्णा तु पेया नार्याः प्रशस्यते ५९
तथैव मुद्गयूषोऽथ मौलको रस एव च
सुसात्म्यश्चेति कर्तव्यो व्याधावस्मिन् विशेषतः ६०
संसृष्टे तु भिषक् प्राज्ञो योजयेत यथाबलम्
सन्निपातसमुत्थाने त्रिदोषशमनं हितम् ६१
अथ या मद्यपा नारी शृणु तस्याश्चिकित्सितम्
वातिके पैत्तिके वाऽपि श्लैष्मिके च विशांपते ६२
ज्वरे दद्यात् सुरां नार्या जलेनार्धेन योजिताम्
सुरया वासयित्वैनां ततः कल्पं प्रदापयेत् ६३
हरेणुमुद्गचुच्चूनां कर्कट्याश्च रसेन तु
रसेन किञ्चिदम्लेन लघून्यन्नानि भोजयेत् ६४
लवणस्नेहहीनानि मृदूनि सुरभीणि च
आहारेण गदे भग्ने मद्यस्योपरमे कृते ६५
यथोक्ता तु क्रिया पथ्या यथास्वमिति कश्यपः
अतिसारे तु गर्भिण्याः समुत्पन्ने भिषग्जितम् ६६
वातिके पैत्तिके चैव श्लैष्मिके च प्रवक्ष्यते
विरुद्धाध्यशनाजीर्णैस्तथैवात्यशनादपि ६७
भयोद्वेगविघाताद्वा संघातात् पूरणात् क्षयात्
कन्दमूलफलैरामैर्दुष्टतोयनिषेवणात् ६८
रौक्ष्याद्बुभुक्षया छोकाद्गुर्वभिष्यन्दिभोजनात्
अब्धातोश्च सद्रेकादतीसारः प्रवर्तते ६९
आमातिसारे संजाते पाचनानि प्रदापयेत्
कुटजस्य च बीजानि मुस्ता पाठा तथैव च ७०
अजमोदाऽथ सरलं तथा चातिविषा शुभा
आमे श्लेष्मान्विते पेयमेतत् पिष्टं सुखाम्बुना ७१
पाठाचन्दनभागश्च कुटजस्य फलानि च
तथा चातिविषा मुख्या पिष्टमेतद्धिताम्बुना ७२
आमे पित्तान्विते पेयमिति ह स्माह कश्यपः
हिङ्गुसैन्धवनागाश्च बृहत्यौ कौटजं फलम् ७३
तथा पिप्पलिमूलं च मुख्या चातिविषा नृप
आमे वातोत्थिते पेयमेतत् पिष्टं सुखाम्बुना ७४
बृहत्यादिस्तु पातव्यः सन्निपातसमुत्थिते
पक्वसंग्रहणे पथ्यः सर्वेषामिति निश्चयः ७५
श्लैष्मिके मधुसंयुक्तस्तण्डुलोदकसंयुतः
अम्बष्ठादिगणः पेयो भिन्नवर्चोविबन्धनः ७६
अथवा कौटजं पिष्ट्वा फलं क्षौद्रेण संयुतम्
धातकी मरिचं लोध्रं कट्वङ्गं देवदारु च ७७
तण्डुलोदकसंयुक्तं श्लेष्मातीसारनाशनम्
तण्डुलोदकपिष्टं वा केसरं नलिनस्य तु ७८
मधुयुक्तं पिबेन्नारी श्लेष्मातीसारनाशनम्
न्यग्रोधादिस्तु निर्यूहः क्षौद्रेण मधुरीकृतः ७९
पित्तातिसारशमनः कुशलैः परिकीर्तितः
कणा धातकिपुष्पं च मधुकं बिल्वपेशिका ८०
शर्करामधुसंयुक्तं पित्तवृद्धिविनाशनम्
पद्मं समङ्गमाम्रास्थि मधुकं पद्मकेसरम् ८१
लोध्रं मोचरसश्चैव शर्कराक्षौद्रसंयुतः
पित्तातिसारशमनो योग एष विधीयते ८२
एरण्डवर्जं खुड्डाकं पञ्चमूलं शृतं हितम्
कालाकट्वङ्गसंयुक्तं वातातीसारनाशनम् ८३
पद्मं समङ्गमाम्रास्थि बृहती बिल्वपेशिका
श्लक्ष्णपिष्टं पिबेद्दध्ना वातातीसारनाशनम् ८४
पिप्पल्यो धातकी पद्मं समङ्गा मोचजो रसः
मत्स्यण्डिकेन्द्रधान्यं च पिष्टमेतन्नृपोत्तम ८५
तण्डुलोदकसंयुक्तं सशूले वातिके हितम्
मुस्ताबिल्वशलाटूनि अनन्ता मधुकं तथा ८६
श्लक्ष्णपिष्टं पिबेद्दध्ना सर्पिर्गुडसमायुतम्
वातातीसारशान्त्यर्थं यथावदिति कश्यपः ८७
पिप्पल्यो धातकी लोध्रं समङ्गा पद्मकेसरम्
पद्मा मोचरसश्चैव दीर्घवृन्ततरोस्त्वचः ८८
केसरं चेति चूर्णानि श्लक्ष्णान्येतानि चूर्णयेत्
घृतं मत्स्यण्डिका क्षौद्रं लेहीभूतानि लेहयेत् ८९
लेहः कल्याणकस्त्वेष सर्वातीसारनाशनः
काश्मर्यमूलत्वक्कल्कः श्यामामूलं तथैव च ९०
यवागूं दधिमण्डेन सिद्धामल्पघृतां पिबेत्
प्रवाहिकार्तां सततं तथा संपद्यते सुखी ९१
किराततिक्तकं लोध्रं यष्टीमधुकमेव च
फाणितं तिलकल्कश्च शर्करामधुसंयुतम् ९२
तण्डुलोदकमित्येतत् प्रतिहन्ति प्रवाहिकाम्
कपित्थबिल्वमाषाणां कल्कानक्षसमान् पृथक् ९३
तथा कोमलमोचाऽपि पिप्पलीशृङ्गबेरयोः
अर्धप्रस्थं भवेद्दध्नो गौडमद्यकृतः खटः ९४
घृतक्षौद्रेण सहितः पीतो हन्ति चिरोत्थिताम्
वाहिकां जीर्णभक्षायाः प्राणस्य बलवर्धनः ९५
बाणमूलस्य निष्क्वाथस्त्रपुषीबीजसंयुतः
शर्करामधुसंयुक्तो रक्तातीसारनाशनः ९६
पद्मं समङ्गा मधुकं चन्दनं पद्मकेशरम्
पयसा मधुसंयुक्तं रक्तातीसारनाशनम् ९७
तिलान् कृष्णान् समङ्गा च यष्टीमधुकमुत्पलम्
पिबेदामेन पयसा रक्तातीसारनाशनम् ९८
मौचो रसस्तिला लोध्रमुत्पलं कमलं तथा
पिबेत् क्षीरेण संयुक्तं रक्तातीसारनाशनम् ९९
पयस्या चन्दनं लोध्रं पद्मकेसरमेव च
पयसा मधुसंयुक्तं पिबेद्रक्तातिसारिणी १००
रक्तं निर्वाहते यावत् कृच्छ्रात् सगुदवेदनम्
कुप्यपाषाणतप्तेन पयसा भोजितां ततः १०१
मधुकं घृतमण्डेन त्वथैनामनुवासयेत्
गर्भिण्या वातिकी यस्या जायते परिकीर्तिका १०२
बृहतीबिल्वमानन्तैर्यूषं कृत्वा तु भोजयेत्
परिकीर्तिकायां गर्भिण्याः पैत्तिकायामिदं हितम् १०३
मधुकं हंसपादी च वितुन्नकमथापि च
पाययेन्मधुसंयुक्तं सुपिष्टं तण्डुलाम्बुना १०४
श्लैष्मिकायां तु कर्तव्यं यथावत्तन्निबोधत
कण्टकारी श्वदंष्ट्रा च अश्वत्थं चेति तत् समम् १०५
संपन्नलवणं कृत्वा भोजयेत् पाययेदपि
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम्
बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलिम् १०७
यूषं कृत्वा तु संपन्नं भोजयेत् पाययेदपि
अथ चेदत्र गर्भिण्या मुखपाको भवेदिह १०८
हरिद्रादारुनिष्क्वाथं ग्राहयेत् कवलं ततः
ततः स्नेहेन कृत्वा तु ततः स्याच्छर्करोदकम् १०९
लोध्रोदकेन कृत्वा तु कुर्यात्तत्प्रतिसारणम्
अनन्तां च समङ्गां च घृषीं मोचरसं तथा ११०
मधुना सहमश्नीयात्ततः संपद्यते सुखी
आक्षेपके समुत्पन्ने तथैवाप्यपतानके १११
मातुलुङ्गरसः पेयो बिडसैन्धवसंयुतः
अग्निमन्थस्य निर्यूहः क्वथितो वरुणस्य वा ११२
लावो वा तैत्तिरो वाऽपि रसः स्निग्धः प्रशस्यते
पानार्थं वातशमनो वादूलो रस एव च ११३
असंसृष्टे तु कर्तव्यो विधिरेष सुखावहः
पित्तोपसृष्टे तु हितो जाङ्गलो मधुरो रसः ११४
शृतो मधुरकैः सर्वैर्दाडिमाम्लसमायुतः
वातश्लेष्मसमुत्थे तु व्यम्लस्तु कटुको रसः ११५
यवक्षारेण संयुक्तो जाङ्गलः सततं हितः
मृदवः पाणितापाश्च पित्तवर्ज्ये हितास्तथा ११६
घृतसेकोऽथवा कार्यो जीर्णे गर्भे विशेषतः
उष्णो वा यदि वा शीतो व्याधिमासाद्य तत्त्वतः ११७
अथ छर्दिचिकित्सां तु प्रोच्यमानां निबोधत
मातुलुङ्गरसो लाजाः कोलमज्जा तथाऽञ्जनम् ११८
तथा दाडिमसारश्च शर्करा क्षौद्रमेव च
एष वातात्मिकां छर्दिं हन्ति लेहो विशेषतः ११९
दाडिमाम्लो रसः पक्वो हृद्यो लवणवर्जितः
वातच्छदिहरो राजन् माहिषो वा सुसंस्कृतः १२०
शर्करामधुसंयुक्तं लाजचूर्णसमायुतम्
चातुर्जातककल्केन हृद्यं पुष्पैः सुवासितम् १२१
पित्तच्छर्दिप्रशमनं हितं तण्डुलधावने
हिता लाजमयी पेया सिताक्षौद्रेण संयुता १२२
जाङ्गलो वा रसः पथ्यः शर्करामधुरीकृतः
आम्रजम्बूप्रवालानि सितानि सुशृतानि तु १२३
क्षौद्रयुक्तानि पेयानि श्लेष्मच्छर्द्यां विशेषतः
भोजनार्थे हितं यूषं मुद्गैर्दाडिमसारितम् १२४
व्यपेतस्नेहलवणं हृद्यं छर्दिविनाशनम्
सन्निपातसमुत्थायां संसृष्टान्यवचारयेत् १२५
क्रिमिजायां तु कर्तव्यं यत् पुरस्तात् प्रवक्ष्यते
वर्षाभूमूलनिष्क्वाथं योजयेद्भद्रदारुणा १२६
तत् पिबेन्मधुसंयुक्तं शोफं स्त्री पूर्वया सह
पिप्पल्यङ्कोठमूलानि वाजिलिण्डरसस्तथा १२७
दधि माहिषमित्येतत् कामलायाश्चिकित्सितम्
मातुलुङ्गरसः पेयः सैन्धवेन सुयोजितः १२८
वातिके हृदि शूले तु प्रधान इति निश्चयः
प्रियङ्गवोऽथ पिप्पल्यो भद्रमुस्ता हरेणवः १२९
क्षौद्रं बदरचूर्णं च पिबेत् पित्तार्दिते हृदि
पिप्पलीचूर्णकल्कस्तु पत्रं चोचं प्रियङ्गवः १३०
मातुलुङ्गरसश्चैव लेहः श्लेष्मार्दिते हृदि
कुलीरशृङ्गी शरटं भार्गी पिप्पल्य एव च १३१
वातकासहरो लेहो मातुलुङ्गरसप्लुतः
मधूलिका तु गोक्षीरी पिप्पली शर्करा तथा १३२
द्राक्षाक्षौद्रसमायुक्तो लेहो वै पित्तकासहा
पिप्पल्यस्त्रिफला रास्ना भद्रदारु समाक्षिकम् १३३
श्लेष्मकासहरो लेहः कुशलैः परिकीर्तितः
मधुकं शङ्खचूर्णं च जीवलाक्षाऽथ माक्षिकम् १३४
लेहः शर्करया युक्तः क्षतकासविनाशनः
मयूरस्य तु रोमाणि श्वाविच्छल्यकयोरपि १३५
पिप्पलीतण्डुलाश्चैव कोलमूलं च तत्समम्
चूर्णितं मधुसर्पिर्भ्यां लिहेच्छ्वासकफापहम् १३६
गुडो रास्नाऽथ पिप्पल्यो द्राक्षा समरिचा तथा
हरिद्रा च समङ्गानि चूर्णान्येतानि लेहयेत् १३७
तैलेन श्वासकासेषु तमके चैव पूजितः
अभयाऽऽमलकं वाऽपि शल्यकस्य त्वचा युतम् १३८
अन्तर्गृहं सहोष्ट्रास्थि दधितैलेन लेहयेत्
पिप्पल्यामलकी मुस्ता तथा फाणितशर्करा १३९
हरीतकीति चूर्णानि मधुतैलेन लेहयेत्
शमनं सर्वकासानां श्वासानां च प्रशस्यते १४०
भद्रदारुहरीतक्यौ सैन्धवं कुष्ठमेव च
घृतं च फाणितं चैव लेह ऊर्ध्वानिलापहः १४१
पिप्पली गैरिकं भार्गी हिङ्गु कर्कटकी तथा
समानि च भवेल्लेहो हिक्काप्रशमनः स्त्रियाः १४२
पिप्पली पिप्पलीमूलं मुस्ता तगरमेव च
दीपनीयं भवेदेतत् क्षीरेण तु समाक्षिकम् १४३
शतावरी दर्भमूलं मधुकं क्षीरमोरटः
पाषाणभेदकोशीरं कतकस्य फलानि च १४४
एषां क्वाथरसं कल्कं क्षीरं वा पाययेद्भिषक्
मूत्रग्रहेषु सर्वेषु सिद्धमित्याह कश्यपः १४५
वातगुल्मस्य भैषज्यं योनिगुल्मस्य चाप्यथ
यथावत् पूर्वमुद्दिष्टं समासेन चिकित्सितम् १४६
वातिके पैत्तिके चैव श्लैष्मिके च विशेषतः
चतुर्थे मासि नारीणामिदं कुर्याच्चिकित्सितम् १४७
सर्पिर्भिरन्नपानैर्वा क्षीरेणेक्षुरसेन वा
वामयेत् फलयुक्तेन यथावदिति कश्यपः १४८
चतुरङ्गुलसिद्धेन रसेन पयसाऽपि वा
विरेचयेत्तु मतिमान् य इच्छेत् सुखमात्मनः १४९
पूतीकपत्रैर्भृष्टैर्वा पुष्पैर्वाट्यालकस्य वा
अम्लां यवागूं प्रपिबेन्नातिवेगा यथा भवेत् १५०
एरण्डपत्रं क्षीरेण वातरोगान्विता पिबेत्
वातमूत्रविरोधे तु शूले वाऽपि समुत्थिते १५१
पञ्चमे मासि गर्भिण्या व्यक्ताम्ललवणं ततः
आस्थापनं हितं नार्या मधुरं चानुवासनम् १५२
ग्रन्थीनां पिडकानां च शोथे चैव विशाम्पते
रोहिण्यां विद्रधौ वाऽपि षष्ठमासे विशेषतः
यथास्वं भेषजं कुर्याद्दारुणं शास्त्रपारगः १५३
पीनमांसोपशमनं क्षारकार्माग्निकर्म च
भग्नास्थिश्लेषणं चैव शस्त्रकर्म तथैव च १५४
सप्तमे मासि नारीणां सर्वमेतत् प्रयोजयेत्
दष्टा सर्पेण पीता वा या विषं गर्भिणी नृप १५५
वमनादिर्विषघ्नैस्तु संसृष्टः स्यादुपक्रमः
पाठाऽमृता सोमवल्कं द्वे सहे कुटजं तथा १५६
क्षीरक्वथितमेतत्तु पेयं नार्या विषापहम्
शिरीषं पाटलीमूलं तण्डुलीयकमेव च १५७
सिन्दुवारितमूलं च मूलं सहचरस्य च
निष्क्वाथ्य साधयेत्पेयां प्रक्षुद्रां विषनाशनीम् १५८
खडयूषादिकं चापि युक्त्याऽन्नमशितं हितम्
द्वितीये वक्ष्यते यच्च स्थाने तच्चापि कारयेत् १५९
गर्भिणी दुर्बलाकारा या भवत्यासिता सती
ज्वरश्चाभिद्रवत्येनां तस्या गर्भो विपद्यते १६०
बहु भुङ्क्ते तु याऽत्यर्थं बहुशो बहुमूर्च्छिता
भवेत्तस्याः पतेद्गर्भो गर्भिण्यास्तु न संशयः १६१
नेत्रे मुस्तोत्थिताकारे कर्णौ पादौ च शीतलौ
केशाश्च जटिला यस्यास्तस्या गर्भो विपद्यते १६२
उपरिष्टात्तु यो नाभ्या उभे पार्श्वे निषेवते
मध्ये वा तिष्ठते नार्याः सोऽपि गर्भो विपद्यते १६३
रुक् सन्धिमोक्षे यस्याः स्यान्मृष्टान्ने चारुचिस्तथा
निश्चेष्टस्वप्नकामायास्तस्या गर्भो विपद्यते १६४
सन्धिशोथोऽङ्गपाकश्च विक्रामश्च गुरुर्भवेत्
यस्यास्तस्याः सुतो जातो म्रियते नात्र संशयः १६५
शोचन्त्याः परिदेविन्याः प्रध्यायिन्यास्तथैव च
अङ्गुलीस्फोटशीलाया जातः पुत्रो न जीवति १६६
दुर्गन्धि च पयो यस्या जटिलाश्च शिरोरुहाः
मलिनाश्च ततस्तस्या जातः पुत्रो न जीवति १६७
पूतिगन्धि मुखं यस्याः शूलं चैवोपजायते
निद्रा वाऽभिद्रवत्येनां मूढगर्भा न जीवति १६८
मयूरग्रीवसंकाशं या पश्यति हुताशनम्
शूनपादमुखी चैव मूढगर्भा न जीवति १६९
पार्श्वशूलं च तृष्णा च संज्ञानाशस्तथैव च
श्वासश्च वर्त्मरोधश्च यस्याः साऽपि न जीवति १७०
कटिग्रहो योनिशूलं पूतिगन्धि मुखं तथा
संज्ञानाशः प्रलापो वा गर्भिण्याः सा न जीवति १७१
नासा तु काकवद्यस्याः स्रस्तनेत्रा च या भवेत्
तथा शकुन्तगन्धा च गर्भः शस्त्रेण मुच्यते १७२
अजाश्वगन्धा श्वेता या मायूरं मांसमिच्छति
गर्भस्तस्यापि शस्त्रेण नार्या निर्ह्रियते नृप १७३
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना
स्मयते सा शयाना वा श्मशानं याऽधिरोहति १७४
मूढगर्भा सगर्भा वा गर्भिणी सा विनश्यति
खरं वराहं महिषं श्वानमुष्ट्रं तथैव च १७५
स्वप्नेऽधिरोहते या तु सगर्भा सा विनश्यति
नित्यस्नाता च मृष्टा च शुक्लवस्त्रधरा शुचिः १७६
देवविप्रपरा सौम्या गर्भिणी तु सदा भवेत्
बहुपुत्रामनन्तां च ईश्वरीं मुदितां तथा १७७
ब्राह्मीं च सहदेवां च तथा चैवेन्द्रवारुणीम्
जीवकर्षभकौ भार्गीं समङ्गां च तथैव च १७८
रोहपादान् वटशुङ्गानात्मगुप्तां तथैव च
अरिष्टं पूतनां केशीं शतवीर्यां च पार्थिव १७९
सहस्रवीर्यां चैतानि प्राजापत्येन संहरेत्
संदधेदथ पुष्येण धारयेदुत्तरेषु च १८०
त्रैवृतं तु मणिं कृत्वा तं श्रोण्यां गर्भिणी सदा
प्रजाता शिरसा राजन् धारयेत् कारयेत्तथा १८१
सूतिकाया विशेषेण रक्षोघ्नानि हितानि च
ज्वराद्यानां विकाराणां यत्र यत्रेह लक्षणम् १८२
अन्नादानां प्रवक्ष्यामि तज्ज्ञेयं गर्भिणीष्वपि
इति ह स्माह भगवान् कश्यपः १८३
इति खिलेष्वन्तर्वत्नीचिकित्सितं नाम दशमोऽध्यायः १०

सूतिकोपक्रमणीयाध्याय एकादशः
अथातः सूतिकोपक्रमणीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
उपक्रमं तु सूतानां सविशेषमतः परम्
संप्रवक्ष्यामि कार्त्स्न्येन तन्निबोध यथाक्रमम् ३
गर्भात् प्रभृति सूतायां भिषग्भवति कार्यवान्
कथं नु काले संपूर्णे सूयेदित्यपरापरम् ४
प्राप्ते प्रसवकाले च भयमुत्पद्यते यतः
अस्मिन्नेकः स्थितः पादो भवेदन्यो यमक्षये ५
सूतायाश्चापि तत्र स्यादपरा चेन्न निर्गता
प्रसूताऽपि न सूता स्त्री भवत्येवं गते सति ६
दुष्प्रजातामयाः सन्ति चतुःषष्टिरिति स्थितिः
योनिर्भ्रष्टा क्षता चैव विभिन्ना मूत्रसङ्गिनी ७
सशोफस्राविणी चैव प्रसुप्ता वेदनावती
पार्श्वपृष्ठकटीशूलं हृदि शूलं विषूचिका ८
प्लीहा महोदरत्वं च शाखावातोऽङ्गमर्दकः
भ्रक्षेपको हनुस्तम्भो मन्यास्तम्भोऽपतानकः
मक्कल्लो विद्रधिः शोफः प्रलापोन्मादकामलाः ९
दौर्बल्यं भ्रमली कार्श्यं भक्तद्वेषोऽविपाचकः
ज्वरातिसारौ वैसर्पश्छर्दिस्तृष्णा प्रवाहिका १०
हिक्का श्वासश्च कासश्च पाण्डुर्गुल्मश्च रक्तजः
आनाहाध्मापने चोभे वर्चोमूत्रग्रहावपि ११
मुखरोगोऽक्षिरोगश्च प्रतिश्यायगलग्रहौ
राजयक्ष्माऽर्दितं कम्पः कर्णस्रावः प्रजागरः १२
उष्णवातो ग्रहावाधस्तनरोगोऽथ रोहणी
वाताष्ठीला वातगुल्मरक्तपित्तविचर्चिकाः १३
इत्येते सूतिकारोगाश्चतुःषष्टिरुदाहृताः
तेभ्यः सर्वेभ्य एवासौ रक्षितव्या कथं त्विति १४
तद्विदामपि समोहो भिषजामुपजायते
किं पुनर्येऽल्पमतयः परतन्त्रोपशिक्षिताः १५
तस्मात्सुनिश्चितार्थेन तद्विद्येनाऽनुदर्शिना
अप्रमत्तेन संभाव्यं सूतिकानामुपक्रमे १६
तदुपक्रमसामान्यं विशेषापक्रमं तथा
वक्ष्यामि व्यासतो देशविदेशकुलसात्म्यतः १७
प्रजातमात्रामाश्वास्य सृतां शक्ला विजाविका
न्युब्जां शयानां संवाह्य पृष्ठे संश्लिष्य कुक्षिणा १८
पीडयेद्घट्टमुदरं गर्भदोषप्रवृत्तये
महताऽदुष्टपट्टेन कुक्षिपार्श्वे च वेष्टयेत् १९
तेनोदरं स्वसंस्थानं याति वायुश्च शाम्यति
चर्मावनद्धामासन्दीं बलातैलोष्णपूरिताम् २०
अप्यासीत सदा सूता तथा योनिः प्रसीदति
प्रियङ्गुकानां कृसरैः स्वभ्यक्तां स्वेदयेत्ततः २१
स्विन्नामुष्णाम्बुना स्नातां विश्रान्तां विगतक्लमाम्
कुष्ठगुग्गुल्वगुरुभिर्धूपयेद्घृतसंयुतैः २२
ततोऽग्निबलवद्वीक्ष्य त्र्यहं पञ्चाहमेव वा
मण्डानुपानमन्वक्षं पिबेत् स्नेहं हिताशिनी २३
स्नेहव्युपरमेऽश्नीयादल्पस्नेहामसैन्धवाम्
यवागूं त्र्यहमेवात्र पिप्पलीनागराश्रिताम् २४
स्याद्व्यपेतौषधा पश्चात्सस्नेहलवणोत्तरा
कुलत्थयूषः सस्नेहलवणाम्लस्ततः परम् २५
तथैव जाङ्गलरसः शाकानीमानि चाप्यतः
घृतभृष्टानि कूष्माण्डमूलकैर्वारुकाणि च २६
स्नेहस्वेदौ च सेवेत मासमेकमतन्द्रिता
उष्णोदकोपचारं च स्वस्थवृत्तमतः परम् २७
त्रिविधं देशमाश्रित्य वक्ष्यामि त्रिविधं विधिम्
आनूपदेशे भूयिष्ठं वातश्लेष्मात्मका गदाः २८
तत्राभिस्यन्दभूयस्त्वादादौ स्नेहो विगर्हितः
मण्डादिरत्र कर्तव्यः संसर्गोऽग्निबलावहः २९
स्वेदो निवातशयनं सर्वमुष्णं च शस्यते
नियतं जाङ्गले देशे वातपित्तात्मका गदाः ३०
तदत्र स्नेहसात्म्यत्वात् स्नेहादिः स्यादुपक्रमः
कार्यः प्रजातमात्राया विशेषश्चात्र बुध्यते ३१
कुमारप्रसवे तैलं कुमारीप्रसवे घृतम्
पिबेज्जीर्णे यवागूं च दीपनीयोपसंस्कृताम् ३२
पञ्चाहं सप्तरात्रं वा ततो मण्डाद्युपक्रमः
देशे साधारणे चास्या हितः साधारणो विधिः ३३
वैदेश्याश्च प्रयच्छन्ति विविधा म्लेच्छजातयः
रक्तं मांसस्य निर्यूहं कन्दमूलफलानि च ३४
कुलसात्म्यं च बुध्येत यस्मिन् यस्मिन् यथा यथा
औचित्यात् कुलसात्म्यस्य तत्तथैवानुवर्तते ३५
अतो नैकान्तिकत्वाच्च सूतिकोपक्रमस्य च
देशं च जातिसात्म्यं च संप्रधार्य प्रयोजयेत् ३६
उक्तं तद्व्याधिभैषज्यं दुष्प्रजातोपचारिके
केषांचिदिह वक्ष्यामि व्याधीनामत उत्तरम् ३७
सर्वेषामेव रोगाणां ज्वरः कष्टतमो मतः
तदस्यादौ विधिं वक्ष्ये निदानाकृतिभेषजैः ३८
षड्विधस्तु प्रसूतानां नारीणां जायते ज्वरः
निजागन्तुविभागेन निदानं तस्य मे शृणु ३९
वेगसंधारणाद्रौक्ष्याद्व्यायामादत्यसृक्क्षयात्
शोकादत्यग्निसंतापात् कट्वम्लोष्णातिसेवनात् ४०
दिवास्वप्नात् पुरोवाताद्गुर्वभिष्यन्दिभोजनात्
स्तन्यागमाद्ग्रहाबाधादजीर्णाद्दुष्प्रजायनात् ४१
ज्वरः संजायते नार्याः षड्विधो हेतुभेदतः
स एव पूर्वरूपेषु व्यभिचीर्णो विरोधिभिः ४२
संसृष्टैः स्नेहशीताम्बुस्नानपानाशनादिभिः
सन्निपातज्वरो घोरो जायते दुरुपक्रमः ४३
तस्य तीव्राभिरावीभिः प्रततं वाहनश्रमैः
शैथिल्यं चागते देहे संक्षुब्धेष्वनिलादिषु ४४
क्लान्तेष्विन्द्रियमार्गेषु सारशून्येषु धातुषु
एकोऽपि दोषः कुपितः कृच्छ्रतो वहते महत् ४५
परिजीर्णं यथा वस्त्रं मलदिग्धं समन्ततः
क्लेशेन शोध्यते तज्ज्ञैः प्रदृश्य तत्तदाश्रयम् ४६
तथा शरीरं सूतायाः परिक्लिष्टं परिस्रुतम्
भृशं दोषबलैर्दिग्धं क्लेशेन परिशोध्यते ४७
यथा च जीर्णं भवनं सर्वतः श्लथबन्धनम्
वर्षवातविकम्पानामसहं स्यात्तथाविधम् ४८
तथा शरीरं सूतायाः स्विन्नं प्रस्रवणश्रमैः
वातपित्तकफोत्थानां व्याधीनामसहं भवेत् ४९
दोषैरेव शरीराणि धार्यन्ते सर्वदेहिनाम्
तेषु क्षीणेषु सूताया ज्वरः संतापलक्षणः ५०
देहं सन्तापयत्याशु शुष्केन्धनमिवानलः
तद्धेतुमात्रवृद्धानां दोषाणां तु यथोच्छ्रयम् ५१
कुर्यादुपशमं धीमान् धातूनां च प्रसादनम्
षड्भिर्मासैः प्रसूताया धातवो रुधिरादयः ५२
प्रत्यागच्छन्त्यरोगाया यथास्वं परिसंस्थितिम्
एतच्चान्यच्च संचिन्त्य चिकित्सां संप्रयोजयेत् ५३
अतः परं ज्वराणां तु लक्षणं संप्रवक्ष्यते
विषमोष्माऽङ्गमर्दश्च जृम्भथू रोमहर्षणम् ५४
कषायविरसास्यत्वं शीतद्वेषोष्णकामते
दन्तहर्षः प्रलापश्च शुष्कोद्गारः प्रजागरः ५५
आध्मानमङ्गसंकोचो वातज्वरनिदर्शनम्
तृष्णा दाहः प्रलापश्च वमथुः कटुकास्यता ५६
पीतास्यनखदन्ताक्षिविण्मूत्रत्वं च लक्ष्यते
कण्ठस्य शोषः सर्वं च प्रदीप्तमिव मन्यते ५७
भ्रमः शीताभिलाषश्च पित्तज्वरनिदर्शनम्
उष्णाभिकामता कासः शिरोरुग्गात्रगौरवम् ५८
मन्दोष्मता प्रतिश्यायः शुक्लमूत्रपुरीषता
निद्रा तन्द्रीर्हिमद्वेषः ष्ठीवनं मधुरास्यता ५९
गात्रसादोऽन्नविद्वेषः कफज्वरनिदर्शनम्
मुहुः शीतं मुहुर्दाहो मुहुरूष्मा समोऽसमः ६०
कृच्छ्रविण्मूत्रवातत्वं वाताङ्गान्त्राभिसंजनम्
दाहस्तृष्णा प्रलापश्च पित्ताद्विक्षिप्तचित्तता ६१
गुरुत्वं कण्ठसंरोधः कफाच्च प्रतिशीतता
सन्निपातज्वरस्यैतल्लक्षणं समुदाहृतम् ६२
तृतीयेऽह्नि चतुर्थे वा नार्याः स्तन्यं प्रवर्तते
पयोवहानि स्रोतांसि संवृतान्यभिघट्टयेत् ६३
करोति स्तनयोः स्तम्भं पिपासां हृदयद्रवम्
कुक्षिपार्श्वकटीशूलमङ्गमर्दं शिरोरुजाम् ६४
एतत् स्तन्यागमोत्थस्य ज्वरस्योक्तं स्वलक्षणम्
स हि पीयूषसंशुद्धौ क्रममात्रेण तिष्ठति ६५
ग्रहावलोकितत्रासवाताघातावधूननैः
ज्वर्यते चेत् प्रसूता स्त्री तस्य वक्ष्यामि लक्षणम् ६६
उद्वेपको निष्टननं चक्षुषो विभ्रमः श्रमः
कम्पनं हस्तनेत्राणां हारिद्रमुखनेत्रता ६७
क्षणेन श्यावताङ्गानां क्षणेन च सवर्णता
सुप्रबोधः सह--क्रोशः केशलुञ्चनम् ६८
पवनज्वररूपाणि भूयिष्ठानि करोति च
विधिर्ग्रहघ्नोऽस्य हितः क्रमो यश्चानिलज्वरे ६९
श्लेष्माभिष्यन्दिनीं स्थूलामक्लिन्नामल्पनिःस्रुताम्
विदग्धभक्तां स्निग्धां च लङ्घनेनोपपादयेत् ७०
रूक्षां निःस्रुतरक्तां च कृशां वातज्वरादिताम्
क्षुत्तृष्णाभिहतां क्लान्तां शमनेनोपपादयेत् ७१
तस्यास्तदहरेवेह पेयादिः क्रम इष्यते
लङ्घितायाश्च मण्डादिरित्येष द्विविधः क्रमः ७२
पेया हि दीपत्यग्नि धातून् संशमयत्यपि
गर्भदोषावशेषघ्नो मण्डो दोषविपाचनः ७३
तस्मात् पेया च मण्डश्च क्रमादौ विहितौ हितौ
अकृतश्च कृतश्चैव द्विस्त्रिर्यूषरसौ तथा ७४
स्वेदोऽपतर्पणं युक्त्या पाचनौषधसेवनम्
कषायोऽभ्यञ्जनं सर्पिर्ज्वरघ्नः परमो विधिः ७५
शीतोपवासे व्यायाममायासमहिताशनम्
तद्धेतुसेवनं चैव क्षिप्रं ज्वरबलावहम् ७६
गर्भाशये च्युते नार्या दोषास्तदनुगामिनः
च्यवन्ति तस्माद्वमनं नस्यं बस्तिर्विरेचनम् ७७
न कार्यमल्पदोषायाः शरीरे परिसंस्थिते
तदेव युक्तितः कार्यं वीक्ष्य दोषबलाबलम् ७८
वमन वा विरेकं वा तीक्ष्ण तीक्ष्णौषधान्वितम्
न ह्यतिच्युतदोषायां ज्वरितायाः प्रशस्यते ७९
संतप्ते तूष्मणा देहे धातवः परिपाचिताः
भूयस्तीक्ष्णौषधं प्राप्य गच्छेयुरमितां गतिम् ८०
उत्क्लिश्यमाने हृदये कफे चाप्युरसि स्थिते
कफज्वरे क्षमे देहे विदध्याद्वमनं मृदु ८१
अरुचौ कण्ठसंरोधे कफे चैव शिरोगते
अशक्यमाने कवले नस्यं तत्र विधापयेत् ८२
संसर्गपाचिते दोषे ज्वरे च मृदुतां गते
पञ्चाहात् सप्तरात्राद्वा कषायमवचारयेत् ८३
पाचनीयं तु पञ्चाहात् सप्ताहादानुलोमिकम्
कफपित्तज्वरे दद्यात् पञ्चाहे शमनौषधम् ८४
स्वभावतैक्ष्ण्यादल्पेन कालेन परिपच्यते
दुर्बलत्वाच्च धातूनां च्युतत्वादामयस्य च ८५
वातज्वरे जितेऽभ्यङ्गैस्तथैव रसभोजनैः
पक्वाशयस्थे विमले विदध्यादानुलोमिकम् ८६
भोजयेल्लघु चाप्यन्नं तनुभिर्जाङ्गलै रसैः
यश्च नैवं शमं याति वातपित्तात्मको ज्वरः ८७
सर्पिस्तं शमयेदाशु दावाग्निमिव तोयदः
विमलेऽग्नौ मृदौ सर्पिरेव परायणम् ८८
स्नेहवध्यास्तु भूयिष्ठं व्याधयो दुष्प्रजातयः
सन्निपातज्वरे नार्या मारुते च बलीयसि ८९
संस्कृतं रसयूषाभ्यां पुराणं सर्पिरिष्यते
तत्र वातज्वरे तावत् प्रवक्ष्यामि चिकित्सितम् ९०
क्रव्यादानां च मांसानि धान्यमाषतिला यवाः
दशमूलमपामार्गभण्ट्येरण्डाटरूषकाः ९१
अश्वगन्धां श्वदंष्ट्रां च वंशपत्रं च संहरेत्
इत्येष संकरस्वेदः सकरीषोऽम्लसंयुतः ९२
वातज्वरेऽवचार्यः स्यात् संसर्गादौ सुखावहः
द्वे पञ्चमूल्यौ वृश्चीवमेकेषीकां पुनर्नवाम् ९३
सहस्रवीर्यां नादेयीं शतवीर्यां शतावरीम्
विश्वदेवां शुकनसं सहदेवां सनाकुलीम् ९४
रास्नाऽजगन्धे पूतीकं देवाह्वां देवताडकम्
बले द्वे हंसपादीं च क्वाथार्थमुपसंहरेत् ९५
कृष्णागरुं व्याघ्रनखं शतपुष्पां पलङ्कषाम्
कायस्थां च वयस्थां च चोरकं जटिलां जटाम् ९६
अपेतराक्षसीं यक्षगुहां महोष्ट्रलोमिकाम्
हरेणुकां हैमवतीं कैरवं सुवहां वचाम् ९७
वृश्चिकालीं च भार्गीं च श्यामां शिग्रुं च कल्कशः
संहृत्य तैलं विपचेद्वातज्वरनिबर्हणम् ९८
महतः पञ्चमूलस्य पिबेत् क्वाथं ससैन्धवम्
पेयो विदारिगन्धाया निष्क्वाथो वा ससैन्धवः ९९
रास्नां सरलदेवाह्वयष्टीमधुकसंयुताम्
बृहतीं सरलं दारुं भार्गीं वरुणकं तथा १००
एरण्डमूलं रास्नां च वृश्चिकालीं च संहरेत्
एतदुत्क्वथितं कोष्णं पिबेद्वातज्वरापहम् १०१
पिबेदन्तरपानं च बिल्वमूलशृतं जलम्
पञ्चमुष्टिकयूषेण युक्ताम्ललवणेन च १०२
भुञ्जीत भोजनं काले जाङ्गलानां रसेन वा
यवकोलकुलत्थानां पञ्चमूलद्वयस्य च १०३
क्वाथे दधियवक्षारचव्यचित्रकनागरैः
पिप्पलीभिश्च तत् सिद्धं सर्पिर्ज्वरहरं पिबेत् १०४
वातश्लेष्मविबन्धघ्नं ग्रहणीदीपनं परम्
श्यामातिल्वकसिद्धेन सर्पिषा च विरेचयेत् १०५
स चेद्वातोल्बणत्वाच्च वेपथुर्नोपशाम्यति
स्वभ्यक्तामुष्णतैलेन धूपयेत् सुरदारुणा १०६
सुखोष्णैरम्लपिष्टैश्च सर्वगन्धैः प्रलेपयेत्
स्योनाकवासावंशानां तर्कार्येरण्डयोस्तथा १०७
अपामार्गस्य काश्मर्या भङ्गोष्णाम्लेऽवगाहयेत्
सुखावगाढामाश्वस्तां मांसाद्याजिनकम्बलैः १०८
कुष्ठगुग्गुलुधूपेन घृतमिश्रेण धूपयेत्
उष्णानि चान्नपानानि --- १०९
उष्णो वर्ज्यश्च पवनः पित्ते चोष्णं विरुद्ध्यते
अतीक्ष्णोपद्रवं तस्मात् पित्तज्वरमुपक्रमेत् ११०
कषायतिक्तमधुरैः प्रदेहाभ्यञ्जनौषधैः
शार्ङ्गिष्ठां मरुवां पाठां नक्तमालं सवत्सकम् १११
निम्बमारग्वधोशीरमासुतं मधुना पिबेत्
स्थिराद्यं पञ्चमूलं च केसरं सकशेरुकम् ११२
गोपीं पर्पटकोशीरं धान्यकं चेति साधयेत्
पादावशिष्टं तच्छीतं पिबेत् समधुशर्करम् ११३
मुस्तद्विसारिवोशीरयष्टिकालोध्रपद्मकैः
ससप्तपर्णैरष्टाङ्गैर्वार्यर्धाढकमाप्लुतम् ११४
तन्निशामुषितं पूतं पातव्यं शर्करायुतम्
कर्षेण कटुरोहिण्याः श्लक्ष्णपिष्टेन चान्वितम् ११५
सर्वाभिषवराजोऽयं सर्वज्वरनिवारणः
मृद्वीका नागपुष्पं च मरिचान्यथ शर्करा ११६
पत्रमेला च चव्यं च पानकं पैत्तिके ज्वरे
भद्रश्रीस्तिन्दुको मुस्ता पयस्या मधुकं वचा ११७
कषाय एषां पातव्यो ज्वरातीसारनाशनः
पिबेन्मुद्गरसं वाऽपि पृश्निपर्णीस्थिरायुतम् ११८
सारिवाचन्दनोशीरद्राक्षापद्मकसाधितम्
लाजपेयां पिबेच्छर्दिमूर्च्छादाहज्वरापहाम् ११९
मुद्गयूषेण वाऽश्नीयान्मधुरेण रसेन वा
मधुकं केसरं गोपी निम्बपत्रं कशेरुकम् १२०
शर्करामधुसंयुक्तो लेहो मुखविशोधनः
शान्तवेगे ज्वरे चास्यै दद्यान्मृदु विरेचनम् १२१
चतुरङ्गुलमृद्वीकात्रिवृत्कल्केन बुद्धिमान्
प्रदिहेद्दारुसंयुक्तैस्तालीसोशीरचन्दनैः १२२
मधुकस्य च कल्केन कल्केन तगरस्य च
तैलमभ्यञ्जनं सिद्धं पीतं ज्वरमपोहति १२३
पटोलस्य गुडूच्याश्च रोहिण्यारग्वधस्य च
चन्दनस्य च कल्केन सिद्धं सर्पिर्ज्वरापहम् १२४
चन्दनाद्येन वा सिद्धं पटोलाद्येन वा घृतम्
पाययेत्तिक्तसर्पिर्वा तित्तिराद्यमथापि वा १२५
अम्लानि चान्नपानानि तथोष्णकटुकानि च
पित्तज्वरे विवर्ज्यानि प्रत्यनीकानि चाचरेत् १२६
सम्यक्संसर्गयोगेन भग्नवेगं कफज्वरम्
जयेद्भैषज्यपानैश्च सर्पिषाऽभ्यञ्जनेन च १२७
बृहत्यौ पुष्करं दारु पिप्पल्यो नागरं शटी
क्वाथमेषां पिबेदुष्णमादौ दोषविपाचनम् १२८
द्विपञ्चमूलीं भार्गीं च कर्कटाख्यां दुरालभाम्
नागरं पिप्पलीं दारुं पिबेद्वा सैन्धवान्वितम् १२९
पटोलं धान्यकं मुस्ता मूर्वा पाठा निदिग्धिका
कषाय एषां पातव्यः षडङ्गो मधुसंयुतः १३०
नागरामरदारुभ्यां शृतमुष्णं पिबेज्जलम्
बालमूलकयूषेण जाङ्गलानां रसेन वा १३१
कटूष्णद्रव्ययुक्तेन मन्दस्निग्धेन भोजयेत्
पिबेद्गोमूत्रसंयुक्तं त्रिवृत्कल्कविरेचनम् १३२
काले कल्याणकं सर्पिः पिबेद्वा दाशमौलिकम्
लाक्षा मुस्ता हरिद्रे द्वे शताह्वा भद्ररोहिणी १३३
देवपुष्पा वचा दारु सरलं चेति तैः समैः
पचेत्तैलं तदेतेन कुर्यादभ्यञ्जनं भिषक् १३४
कुष्ठागरुव्याघ्रनखं मांसी धान्यकसामकम्
वक्रं हरेणुं ह्रीबेरं स्थौणेयं केसरं त्वचम् १३५
एले द्वे सरलं दारु मूर्वा कालानुसारिवा
बर्हिष्टं शतपुष्पा च पृथ्वीका देवपुष्पकम् १३६
एतैर्हि समभागैस्तु तैलं धीरो विपाचयेत्
एतदभ्यञ्जनादेव कफज्वरमपोहति १३७
शेषं वातज्वरहितं कार्यमत्र चिकित्सितम्
मधुराण्यन्नपानानि स्निग्धानि च गुरूणि च १३८
कफज्वरे विवर्ज्यानि प्रत्यनीकानि चाचरेत्
सन्निपातज्वरस्यातः प्रवक्ष्यामि चिकित्सितम् १३९
स सर्वलक्षणोऽसाध्यः कृच्छ्रसाध्योऽल्पलक्षणः
बलहीनस्य नष्टाग्नेः सर्वथा नैव सिद्ध्यति १४०
किमङ्ग सूतिकानां तु क्षीणधातुबलौजसाम्
तथाऽपि यत्नमातिष्ठेदानृशंस्याद्भिषग्वरः १४१
सन्निपातेषु दोषेषु यो दोषो बलवान् भवेत्
तमेवादौ प्रशमयेच्छेषदोषमतः परम् १४२
अल्पान्तरबलेष्वेषु दोषेषु मतिमान् भिषक्
श्लेष्माणमादौ शमयेत् स ह्येषामनुबन्धकृत् १४३
गुरुत्वात्कृच्छ्रपाकित्वादूर्ध्वकायाश्रयात्तथा
तस्माज्ज्वरेण दुर्दिष्टं वातपित्तकफात्मके १४४
तस्यां तस्यामवस्थायां तत्तत् कार्यं चिकित्सितम्
सामान्येन तु वक्ष्यामि तद्विशेषं भिषग्जितम् १४५
कुशकाशश्वदंष्ट्रार्कसुधैरण्डपरूषकैः
--- न्नयवद्रोणं चर्मण्यास्तीर्य युक्तितः १४६
स्वेदयेत् सूतिकां तत्र गुरुप्रावरणावृताम्
नागरं दशमूलं च कट्वङ्गं दारुकद्वयम् १४७
पिप्पल्यस्त्रिफला भार्गी कर्कटाख्या दुरालभा
ससैन्धवः कषायोऽयं ज्वरे पूर्वापराह्णिके १४८
मधुहिङ्गुसमायुक्तो देयः सायाह्निके ज्वरे
पटोलमुस्तामधुकरोहि --- १४९
सर्पिषा सह पातव्यं सन्निपातेऽनिलोत्तरे
एतदेव त्रिफलया युक्तं च सुरदारुणा १५०
पाययेन्मधुनाऽलोड्य सन्निपाते कफोत्तरे
एलामधूकमधुकशीतपाकीपरूषकैः १५१
त्रिफलासारिवापाठामञ्जिष्ठाचतुरङ्गुलैः
पित्तोत्तरे त्वभिन्यासे पिबेत् समधुशर्करम् १५२
भार्गी शृङ्गी त्रिवृद्दन्ती दशमूली दुरालभा
कट्वङ्गं त्रिफला शुण्ठी पिप्पली चेति तैः शृतम् १५३
क्वाथं ससैन्धवक्षारं पाययेच्चानुलोमिकम्
गोमूत्रयुक्तां त्रिवृतां केवलां वा वचां पिबेत् १५४
अनुलोमं गते दोषे संजाते ग्रहणीबले
--- ततः सर्पिर्वा साधु संस्कृतम् १५५
मधुकेनातिविषया रोहिण्या भद्रदारुणा
सिद्धं सर्पिः पिबेत् काले सन्निपातज्वरापहम् १५६
कल्याणकं महान्तं वा पञ्चगव्यमथापि वा
शीतोष्णैरौषधैस्तैलं सर्वैरेवोपसंस्कृतम् १५७
अभ्यञ्जनं विधातव्यं यच्चान्यत्त्रिमलापहम्
हरीतक्या प्रियंग्वा च मालत्याऽऽमलकेन च १५८
मुखप्रक्षालनं कार्यं वासया खदिरेण वा
श्लक्ष्णपिष्टं तथाऽम्रास्थि रसाञ्जनसमन्वितम् १५९
दन्तमांसौष्ठजिह्वानां प्रधानं प्रतिसारणम्
सन्तप्यमाने शिरसि दधिसर्जरसाक्षतैः १६०
साश्वगन्धैर्मधुयुतैर्ललाटमुपलेहयेत्
लघ्वन्नकृतसंसर्गे निरष्टाहपरे ज्वरे १६१
संसर्गे सन्निपाते वा सप्रलापेऽनिलोत्तरे
सशूलबद्धविण्मूत्रे सश्वासे च विशेषतः १६२
पुराणसर्पिः संस्कारो विधेयो जाङ्गलो रसः
दशमूलकुलत्थानां यवानां कुवलस्य च १६३
कुलीरशृङ्ग्या रास्नायाः शटीपुष्करमूलयोः
भार्ग्या दुरालभायाश्च निर्यूहे साधु साधितः १६४
तेनास्य विगुणो वायुर्ज्वरश्चास्य प्रशाम्यति
पाचनीयैरुपक्रान्ते भग्नवेगे सति ज्वरे १६५
पक्वावशेषे च मले बले मन्दत्वमागते
पेयं सुशीतं सक्षौद्रमिदं संशमनद्वयम् १६६
पिप्पली सदुरालम्भा मृद्वीका वा सपिप्पिली
गुडूच्यामलकानां च स्वरसे साधितं घृतम् १६७
कल्केन सारिवाशुण्ठीलोध्रदाडिमचन्दनै
तद्धि मङ्गल्यकं नाम विषमज्वरनाशनम् १६८
ज्वराणां चापि सर्वेषामेतदेवामृतोपमम्
इति ह स्माह भगवान् कश्यपः
इति खिलेषु सूतिकोपक्रमणीयो नामैकादशोऽध्यायः

अथ जातकर्मोत्तराध्यायो द्वादशः
अथातो जातकर्मोत्तरमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
अथ खलु शिशोर्जातस्य तत्कर्मण्यभिनिर्वृत्ते प्रथम एव मासि कृतरक्षाहोममङ्गलस्वस्त्ययनस्य सूर्योदयदर्शनोपस्थानं प्रदोषे चन्द्रमसः ३
चतुर्थे मासि स्नातालङ्कृतस्याहतवाससा संवीतस्य ससिद्धार्थकमधुसर्पिषा रोचनया चान्वालब्धस्य धात्र्या सहान्तर्गृहान्निष्क्रमणं देवतागारप्रवेशनं च । तत्राग्निं प्रज्वलन्तं घृताक्षतैरभ्यर्च्य ब्रह्माणमीश्वरं विष्णुं स्कन्दं मातॄश्चान्यानि च कुलदैवतानि गन्धपुष्पधूपमाल्योपहारैर्मक्ष्यैश्च बहुभिर्बहुविधैः संपूज्य ततो ब्राह्मणवाचनं कृत्वा तेषामाशिषो गृहीत्वाऽभिवाद्य च गुरून् पुनः स्वमागारं प्रविशेत् । प्रविष्टं चैनमनेन मन्त्रेणाभ्युक्ष्य भिषग्वर्तेत ४
शरच्छतं जीव शिशो त्वं देवैरभिरक्षितः
द्विजैरप्याशिषा पूतो गुरुभिश्चाभिनन्दितः इति ५
षष्ठे मासि पुण्याहेऽभ्यर्च्य देवतां द्विजांश्च भोजनेन सन्तर्प्य दक्षिणाभिः स्वस्ति वाच्य च गृहमध्ये वास्तुमध्ये वा शुचौ देशे गोमयेनाद्भिश्च चतुर्हस्तमात्रं स्थण्डिलमुपलिप्य मण्डलं चतुरस्रं वा हिरण्यसुवर्णरजतताम्रकांस्यशीसायसानि मणयो मुक्ताप्रवालादयः सर्वे सर्वाणि धान्यानि व्रीहयः सर्वसतालेष्टक क्षीरदधिघृतमधुगोमयगोमूत्रकार्पासादीनि बालक्रीडनकानि पिष्टमयानि तद्यथा--गोगजोष्ट्राश्वगर्दभमहिषमेषच्छागमृगवराहवानररुरुशरभसिंहव्याघ्रकपितरक्षुवृककूर्ममीनशुकसारिकाकोकिलकल-विङ्कचक्रवाकहंसक्रौञ्चसारसमयूरक्रकरचकोरकपिञ्जलचरणायुधवर्तकाकाराणि शैलकगृहकरथकयानकस्यन्दनकशल्लिकाजिज्झिरिकाखैरिकेशीकातुम्बीकादुष्प्रवाह-कभद्रकसंचोल्लकपीठप --- न्दिकादुहितृकाकुमारकगोलगन्दुकादीन्यन्यानि च स्त्रीकौतुकानीति भिषक् तस्य
मण्डलं सन्निधाय वसुधायै अर्ध्यं दत्त्वाऽनेन मन्त्रेण ६
त्वमग्रजा त्वं प्रभवाऽव्यया च
लोकस्य धात्री सचराचरस्य ।
त्वमीज्यसे त्वं यजसे महीह
मात्रेऽव नः पाहि कुमारमेनम् ७
तं ब्रह्मा अनुमन्यतां स्वाहा । ततस्तं मण्डलमध्ये तथैव स्नातमलङ्कृतमहतवाससं कुमारं प्राङ्मुखमुपवेशयेन्मुहूर्तं मुहूर्त्तमुपविश्य यद्धस्ताभ्यां प्रथमं गृह्णीत परिमृशेद्वा कृष्याद्वा तद्भागी भविष्यतीति हृदि निमित्तं कृत्वोत्थाप्योत्तरकालमवहितया धात्र्याऽन्वितः कुमारेण वा एतैरेव क्रीडनकैस्तैजसैरितरैश्च लघुभिरखरैरतीक्ष्णैरवक्रङ्गमैरनवोपस्करैराकर्षणाहरणशक्तै रुचिभिर्घोषवद्भिर्विनोद्यमानः सोपाश्रयास्तरणोपेतायां भूमौ प्रतिदिनमभ्यासार्थं सकृदुपविशेदिति ८
तत्र श्लोकाः--
उपलिप्ते शुचौ देशे शस्त्रतोयाग्निवर्जिते
उपविष्टं सकृच्चैनं न चिरात् स्थापयेद् बुधः ९
स्तैमित्यं कटिदौर्बल्यं पृष्टभङ्गः श्रमो ज्वरः
विण्मूत्रानिलसंरोधाध्मानं चात्युपवेशनात् १०
आसीनस्यातिबालस्य सततं भूमिसेवनात्
आसन्नान्येव दुःखानि निर्घातं गात्रभेदनम् ११
निर्घाताज्जर्जराङ्गत्वं वेदना ज्वरसंभवः
ततो न वृद्धिर्बालस्य कठोराङ्गत्वमेव च १२
मक्षिकाक्रिमिकीटानां वेलाझञ्झानिलस्य च
सर्पाखुनकुलादीनां गम्यो भवति नित्यशः १३
तस्मान्नातिचिरं नैको न बालो न च रोगितः
उपवेश्यो भवेद्बालो नापुण्याहकृतादिकः १४ इति
तस्मिन्नेव मासि विविधानां फलानां प्राशनं भिषगनुतिष्ठेत् । तद्धि दन्तजातस्यान्नप्राशनं दशमे वा मासि प्रशस्तेऽहनि प्राजापत्ये नक्षत्रेऽऽभ्यर्च्य देवतां ब्राह्मणांश्च समांसेनान्नेन दक्षिणावता स्वस्ति वाच्य गोमयोपलिप्ते स्थण्डिले दर्भानास्तीर्य सुमनसोऽवकीर्य चतुर्षु स्थानेषु गन्धमाल्यालङ्कृतान् पूर्णकलशान् स्वस्तिकांश्च स्थाप्य क्रीडनकविहितानि पूर्ववदुपकरणानि सर्वाण्येवोपकल्प्य लावककपिञ्जलतित्तिरचरणायुधानामन्यतमस्य मांसेनान्यैश्च विचित्रसुसंस्कृतकामिकैर्व्यञ्जनैः समुदितमन्नपानं मध्ये निधाय ततो भिषक् सुतमलङ्कृतमहतवस्त्रपरिहितमनुष्ठितरक्षाविधानं कुमारं प्राङ्मुखः प्रत्यङ्मुखमुपवेश्याग्निं प्रज्वाल्यान्नं सर्वव्यञ्जनोपेतं गृहीत्वाऽनेन मन्त्रेण जुहुयात् १५
यथा सुराणाममृतं नागेन्द्राणां यथा सुधा
तथाऽन्नं प्राणिनां प्राणा अन्नं चाहुः प्रजापतिम् १६
तदुद्भवस्त्रिवर्गश्च लोकाश्चैव यथा ह्यमी
जुहोमि तस्मात्त्वय्यन्नमग्नेऽमृतसुखोपगम् १७
प्रजापतिरनुमन्यतां स्वाहा । हुतशेषस्याङ्गुष्ठमात्रं सुमृदितं कृत्वालभ्य बालं ततोऽस्य मुखे दद्यात्त्रीणि पञ्च वा वारान् प्राश्योपस्पृशेच्चैनम् उत्थाप्योर्ध्वं द्वादशमासिकस्यान्नमभिलषतोऽल्पशश्चमानि दद्यादिति
१८
तत्र श्लोकाः--
शालीनां षष्टिकानां वा पुराणानां विशेषतः
तण्डुलैर्निस्तुषैर्भृष्टैः क्षालितैः साधिता द्रवाः १९
सस्नेहलवणा लेह्या बालानां पुष्टिवर्धनाः
गोधूमानां तथा चूर्णं यवानां वाऽपि सात्म्यतः २०
विडङ्गलवणस्नेहैः पक्वोष्णं लेहनं हितम्
भृशं भिन्नपुरीषस्य कोद्रवानां निधापयेत् २१
मृद्वीकामधुसर्पींषि दद्यात् पित्तात्मनः सदा
मातुलुङ्गरसोपेतं वाते सलवणाशनम् २२
एकान्तरं द्व्यन्तरं वा देशाग्निबलकालवित्
यदा वा क्षुधितं पश्येत्तदैनम् सात्म्यमाशयेत् २३
इति ह स्माह भगवान् कश्यपः
इति खिलेषु जातकर्मोत्तरं नाम द्वादशोऽध्यायः

अथ कुक्कुणकचिकित्सिताध्यायस्त्रयोदशः
अथातः कुक्कुणकचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
यदा माता कुमारस्य मधुराणि निषेवते
मत्स्यं मांसं पयः शाकं नवनीतं तथा दधि ३
सुरासवं पिष्टमयं तिलपिष्टाम्लकाञ्जिकम्
अभिष्यन्दीनि सर्वाणि काले काले निषेवते ४
भुक्त्वा भुक्त्वा दिवा शेते विसंज्ञा च विबुध्यते
तस्य दोषाः प्रकुपिता दूरं गत्वा च तिष्ठते ५
दोषेणावृतमार्गायास्ततः स्तन्यं च दुष्यते
प्रदुष्टदोषसंज्ञं तु यदा पिबति दारकः ६
लवणाम्लनिषेवित्वान्मातापुत्रौ रसादिह
आहारदोषातस्यास्तु बालस्यानन्नभोजिनः ७
अनुप्रवेशादाक्षेपादुष्णसत्त्वावनादपि
जायते नयनव्याधिः श्लेष्मलोहितसंभवः ८
अभीक्ष्णमस्रं स्रवते न च क्षीवति दुर्मनाः
नासिकां परिमृद्नाति कर्णं वाञ्छति दुःखितः ९
ललाटमक्षिकूटं च नासां च परिमर्दति
नेत्रे कण्डूयतेऽभीक्ष्णं पाणिना चाप्यतीव तु १०
स प्रकाशं न सहते अश्रु चास्य प्रवर्तते
वर्त्मनि श्वयथुश्चास्य जानीयात्तं कुक्कुणकम् ११
तस्य चिकित्सितं श्रेष्ठं व्याख्यास्यामि यथा तथा
धात्रीं तु तस्य वामयेद्युक्तं चैव विपाचयेत् १२
तस्या वान्तविरिक्ताया निर्दुह्य च स्तनावुभौ
भोजनानि च सर्वाणि यथायुक्तं प्रदापयेत् १३
पथ्यं भुञ्जीत खादेत विपरीतं च वर्जयेत्
प्रयता शुद्धवस्त्रा स्यादक्लिष्टाऽमलिना तथा १४
ततो वर्त्मनि बालस्य निर्भुज्याथ प्रमृज्य च
निर्मुच्य रुधिरं दुष्टं कुर्याद्धीरोऽवसेचनम् १५
एरण्डं रोहिषं चैव त्वक्क्षीरीं वरुणं तथा
निष्क्वाथमेतत् कृत्वा च कुमारं परिषेचयेत् १६
फणिज्झकस्य पत्राणि सुरसस्य च पीडयेत्
जातिप्रसन्नामण्डेन यष्टीमधुकमेव च १७
एतदाश्चोतनं तस्य शारदेन जलेन तु
त्र्यहमेतत् प्रयुञ्जीत द्व्यहं वाऽपि विधानवित् १८
ने कराजस्य पत्राणि बिल्वस्याच्छवनां तथा
सुराग्रमण्डसंपिष्टं श्रेष्ठमाश्चोतनं मतम् १९
कोलान्युत्क्वाथ्य कल्कं वा यष्टीमधुकसंयुतम्
नेत्रामये मुखालेपः कश्यपस्तत्प्रशंसति २०
नेकराजीं च नीलीं च सुरसं गौरसर्षपाः
हरिद्रां चैव तत् सर्वं कल्कं कुर्वीत भागशः २१
एतदालेपनं कुर्याद्रोगघ्नं नयनामये
वेदनामक्षिरोगं च क्षिप्रमवापकर्षति २२
हरिद्रात्वचमाहृत्य पिप्पलीं चाथ भागशः
वरप्रसन्नया मण्डं कुर्यादञ्जनवर्तिकाम् २३
पिल्लिका चोपलेपश्च नेत्रयोस्तेन शाम्यति
अथास्याश्च्योतनं कुर्यात् सौवीरकमनुत्तमम्
प्रपौण्डरीकं लोध्रं च हरिद्रां शर्करां मधु २४
परिषेको भवेच्छ्रेष्ठो जलेनोष्णेन योजयेत्
अक्षिरोगेषु सर्वेषु योग एष प्रशस्यते २५
आचार्यानुमतं श्रेष्ठं रात्रौ चैनं प्रयोजयेत्
आटरूषकपत्राणि मधूकं सैन्धवं तथा २६
पुण्डरीकस्य पत्राणि तथा नीलोत्पलानि च
सुखोदकेन संयुक्तः परिषेको हितो भवेत् २७
कफात्मके त्वभिष्यन्दे सिद्धमेतं नराधिपः
अमृतायास्तु निष्क्वाथे कुष्ठं च गुडमेव च २८
विनीय पिष्टं तोयेन परिषेकोऽक्षिरोगिणाम्
परिषेकास्तु बलानां दन्तजन्मनि ये मया २९
कीर्तितास्ते प्रयोक्तव्याः परिभूताक्षिरोगिषु
गव्येन मधुना पिष्ट्वा शङ्खेन सह सैन्धवम् ३०
सप्तरात्रं प्रलेप्यं तु तेन स्रौतसमञ्जनम्
तं पिष्ट्वा गुडिकां कृत्वा छायायां परिशोषयेत् ३१
पुष्ये सर्वास्तु सिद्धास्ता गुडिकाः पत्रसन्निभाः
पृश्निपर्ण्यास्तु भागौ द्वावंशुमत्यास्तथा भवेत् ३२
त्रयश्चैवोरुपूगस्य बृहत्या भागमेव तु
रजसश्चायसश्चाथ तथा ताम्रायसस्य च ३३
अजाक्षीरेण पिष्ट्वा तु शोषयेद् गुटिकां कृताम्
अजानां लिण्डिकाभिस्ताः शमीपत्रैश्च धूपयेत् ३४
तथैवार्द्राश्च शुष्काश्च बालानामक्षिरोगके
रसाञ्जनं च यन्मुख्यं हरिद्रात्वचमेव च ३५
प्रसन्नयाऽञ्जनं त्वेतत् कुर्यादञ्जनवर्तिकाम्
पिप्पलीं शृङ्गबेरं च समभागानि पेषयेत् ३६
सुराग्रेण ततः कुर्यात् पिल्लिकाञ्जनवर्तिकाम्
अथवाऽतिभवेन्नेत्रशूलं बालस्य लक्षयेत् ३७
स्तब्धनेत्रश्च दृश्येत तत्रेमं विधिमाचरेत्
पिप्पलीं शृङ्गबेरं च पर्णानि सुरसस्य च ३८
कालमालकपर्णानि तथैव च कुठेरकम्
तं प्रपिष्य सुराग्रेण कुर्यादञ्जनवर्तिकाम् ३९
पिल्लिकामुपदेहं च न चिरादेव नाशयेत्
कपित्थस्याथ बिल्वस्य खदिरस्य च पेषयेत् ४०
अजाक्षीरस्य पात्रं च ततः श्च्योतनमुत्तमम्
कपित्थस्याऽटजीनां च पत्राणि सुरसस्य च ४१
अजाक्षीरेण पिष्टानि कुर्यादाश्च्योतनं भिषक्
मधुकं पर्वतीयां च हरिद्रां पेषयेत् समाम् ४२
अजाक्षीरेण तत् कुर्यादाश्च्योतनमनुत्तमम्
सर्पिर्मण्डं सुराग्रं च ऐन्द्रीं चन्दनमेव च ४३
सलिलेन प्रपिष्टानि कुर्यादञ्जनवर्तिकाम्
पद्मकं चोत्पलं चैव मधुकं च प्रपेषयेत् ४४
अक्षिरोगे मुखालेपमजाक्षीरेण शर्कराम्
शृङ्गबेरोऽथ मञ्जिष्ठा कार्पासकुलकानि च ४५
सलिलेन प्रपिष्टानि मुखालेपनमुत्तमम्
त्रिफलामञ्जनं चैव तथैव च रसाञ्जनम् ४६
मधुना समभागानि कुर्यादाशु रसक्रियाम्
पिप्पलीं शृङ्गबेरं च मरिचानि तथाऽञ्जनम् ४७
त्रिफलां शङ्खनाभिं च सैन्धवं ताम्रजं रजः
एते भागाः समाः पिष्टाश्छायायां गुडिकाः कृताः ४८
शोषयित्वा विकारेषु नैकजेषु प्रदापयेत्
तिमिरे तोयसंसृष्टा कोथके मार्कवेन तु ४९
रसेन पिष्ट्वा सिद्धस्य द्राक्षाक्षुद्रोदकेन तु
गुडिका कोकिला नाम चक्षुर्व्याधिषु संमता ५०
हितभोजिषु योक्तव्या बालेषु भिषगुत्तमैः
निर्यासो नक्तमालस्य घृतमण्डेन साधितः ५१
स्तन्यक्षीरेण तिमिरे कण्डौ चैव हितो भवेत्
सुवर्णगैरिकं लाक्षा सैन्धवं मरिचानि च ५२
सशर्करं त्रिकटुकं गुटिकां ह्युपकल्पयेत्
एषा लोहितिका नाम गुडिका तु स्मृता बुधैः ५३
प्रयोक्तव्याऽक्षिसंरम्भे क्षिप्रं निर्वाणमिच्छता
पिप्पल्यस्त्रिफला चैव वचा कटुकरोहिणी ५४
षडेताः समभागाः स्युः सप्तमं ताम्रजं रजः
जलपिष्टा भवेदेताः सूर्यतप्ताः पुनः पुनः ५५
गुडिकाः कारयेत्ता हि छायायां परिशोषयेत् ५६
रूक्षां घृतेन पिष्टां दुग्धेनाजेन कोथके दद्यात्
पाशवरसेन तिमिरे राजिषु मधुकेन देया तु ५७
कोथके मर्मजे सर्वा सर्वाभिष्यन्द एव च
सैन्धवेन समायुक्ता हन्यात् कण्डूं जलान्विता ५८
द्वीपिशत्रोश्च पत्राणि निष्क्वाथमुपहारयेत्
एतेन चाक्षिरोगं तु कोष्णेन परिषेचयेत् ५९
सरलं मधुकं चैव देवदारुं च पेषयेत्
कल्केनैतेन वदनं वेदनासु प्रलेपयेत् ६०
रसाञ्जनं तार्क्ष्यशिलां क्षौद्रेण सह संयुताम्
आश्च्योतनं प्रयुञ्जीत नेत्राव्याधिविनाशनम् ६१
शर्करां शृङ्गबेरं च स्तन्यं गोपित्तमेव च
रसाञ्जनं समधुकं कुर्यादाश्च्योतनं भिषक् ६२
हरिद्रां शङ्खनाभिं च सलिलेन प्रपेषयेत्
क्षीरस्य मात्रया चैव कुर्यादाश्च्योतनं हितम् ६३
हरिद्रां पर्वतीयां तु सूर्यतेजसि पाचयेत्
ताम्रपट्टेषु पिष्टां च सारसेनावसेचयेत् ६४
शीतं च परिपूतं च स्तन्येन सह संयुतम्
आश्च्योतनं प्रयुञ्जीत नेत्रव्याधिविनाशनम् ६५
सर्पिषश्च भवेद्भागः क्षौद्रेण द्विगुणं भवेत्
तत्काले प्रलिपेद्बालो नेत्रव्याधौ प्रमुच्यते ६६
हरिद्रां शङ्खनाभिं च भद्रमुस्तं च काढकम्
पिष्ट्वा व्याघ्रनखं चैव मधुकं चैव भागशः ६७
शिरीषबीजं प्रथमं ताभ्यां कुर्वीत पूपिकाम्
ताम्रपात्रे सतैलास्ताः सूर्यतेजसि पाचिताः ६८
द्वादशेऽह्नि निवाते च नीरजस्काः प्रयत्नतः
शिलामये ततो भाण्डे तैलं तां चैव पूपिकाम् ६९
आतुराण्यथ नेत्राणि तैलेनानेन पूरयेत्
व्याधिमाशु नृणां हन्ति प्रयोगश्चेत् प्रशस्यते ७०
हरीतकीमामलकीं हरिद्रां गिरिजामपि
मधुकं च समं सर्वं सलिलेन प्रपेषयेत् ७१
एतदाश्च्योतनं मुख्यं व्याधीनां शमनं हितम्
स्थविराणां शिशूनां च एतदाश्च्योतनं हितम् ७२
हरिद्राशकलीकानामार्द्राणां कर्षमावपेत्
ताम्रपात्रे मितं दद्यात् सारमस्याढकं मितम् ७३
दशभागावशेषं तु मृद्वग्निमुपसाधितम्
शीतं च परिपूतं च मुख्यमाश्योतनं हितम् ७४
शकलीकमथाक्षीणां धारयेन्नयनामये
ग्रीवायामुत्तमाङ्गे वा तथा रोगात् प्रमुच्यते ७५
आलङ्कतकमूलाणि वास्तुकस्य यवस्य च
आघृष्य नव एषां तु मूर्ध्नि कुर्वीत कण्टकान् ७६
अक्षिरोगं शिरोरोगं सर्वमेतेन शाम्यति
बलामतिबलां चैव त्रिवृतां चैव गर्भिणी ७७
सव्ये पाणिपुटे कृत्वा पीडयेत्तमपूर्वशः
तं रसं क्षौद्रसंसृष्टं कण्ठमस्याः प्रलेपयेत् ६७
सपिप्पलीशृङ्गबेरां हरितालमनःशिलाम्
रसाञ्जन तार्क्ष्यशिलां सुमनाकोरकाणि च ७९
सप्तमोऽत्र गुडस्यांशो मधुना सह पेषितः
एषा कल्याणिका नाम सर्वरोगरसक्रिया ८०
मरिचं शृङ्गबेरं च समभागानि कारयेत्
दधिनाऽम्लेन पिष्ट्वा तु ताम्रपट्टं प्रलेपयेत् ८१
सप्तरात्रं प्रलिप्यैव ततो दध्ना प्रपेषयेत्
वर्त्योऽथ तनुकाः कार्या दद्यात् कौतुकमञ्जनम् ८२
मृदुपूर्वमदोषं तु मात्रायुक्तं च भेषजम्
सादेश्यात्तत्कुलीनां च कुर्याद्बाले भिषक् क्रियाम् ४७
कटुकीया हि केचित् स्यान्मधुरीयास्तथाऽपरे
मृदु तस्मै उपक्राम्यंस्तीक्ष्णमप्यल्पमाचरेत् ८४
इति वार्योविदायेदं महीपाय महानृषिः
शशंस सर्वमखिलं बालानामथ भेषजम् ८५
लोध्रं सयष्टीमधुकं तु पिष्टं
घृतेन भृष्टं तु निबध्य वस्त्रे
क्वाथं गुडूच्याः परिमृज्य तप्ते
निहन्ति सर्वाक्षिगतान्विकारान् ८६
इति ह स्माह भगवान् कश्यपः ८७
इति वृद्धकाश्यपीयायां संहितायां कुक्कुणकचिकित्साध्यायस्त्रयोदशः १३

अथ विसर्पचिकित्सिताध्यायश्चतुर्दशः
अथातो वैसर्पचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
कश्यपं भिषजां श्रेष्ठमादित्यसमतेजसम्
हुताग्निहोत्रमासीनमपृच्छद् वृद्धजीवकः ३
भगवन् मण्डलीभूतं त्वग्रक्तं मांसमेव च
विदहन् दृश्यते व्याधिराशीविषविषोपमः ४
दुःसहः सुकुमाराणां कुमाराणां विशेषतः
तस्य दारुणरूपस्य दीप्ताग्निसमतेजसः ५
समुत्पत्ति च रूपं च चिकित्सां च महामुने
वक्तुमर्हसि तत्त्वेन बालानां हितकाम्यया ६
इति पृष्टः स शिष्येण प्रोवाचेदं महामुनिः
दक्षक्रोधाद्भगवतो रुद्रस्यामिततेजसः ७
संदष्टौष्ठपुटस्यौष्ठाद्यद्रक्तं प्रापतद् भुवि
लोहिताङ्कोऽभवत्तस्माद्वैसर्पश्चाग्निसन्निभः ८
तस्मान्निर्दाहिनावेतौ भृशं पीडाकृतौ नृणाम्
विविधं सर्पणाद्देहे वैसर्पस्तु निरुच्यते ९
क्षताद्भग्नादथोत्पिष्टादामच्छेदाद्विधारणात्
दध्यम्लमन्दकसुराशुक्तसौवीरकस्य च १०
तिलमाषकुलत्थानां पलाण्डोर्लशुनस्य च
ग्राम्यानूपौदकानां च मांसानामतिसेवनात् ११
विरोधिगुर्वभिष्यन्दपूतिपर्युषिताशनात्
दिवास्वप्नादजीर्णाच्च शाकपिष्टान्नसेवनात् १२
विषोपहतवाय्वम्बुवस्त्रपानान्नसेवनात्
एवमादिभिरप्यन्यैर्दुष्टा वातादयः शिशोः १३
वैसर्पं जनयन्त्याशु रक्तादीन् संप्रदूष्य तु
एवमेव प्रकुपितैर्दोषैर्दुष्टं यदा पयः १४
सेवते तस्य तद्दोषाद्वैसर्पः संप्रजायते
वातिकः पैत्तिकश्चैव श्लैष्मिको द्वन्द्वजास्त्रयः १५
सन्निपाताच्च सप्तैते वैसर्पाः समुदाहृताः
न विना रक्तपित्ताभ्यां वैसर्पो जातु जायते १६
रक्ताश्रयो रक्तभवः पित्तं रक्ते व्यवस्थितम्
तस्माद्रक्तावसेकोऽत्र भेषजं परमुच्यते १७
बलकालवयोदोषदेशदेहव्यपेक्षया
लक्षणान्यत ऊर्ध्वं तु प्रवक्ष्याम्यनुपूर्वशः १८
हेतुभिः पूर्वमुद्दिष्टैर्यदा प्रकुपितोऽनिलः
रक्तादीन्यभिदूष्याशु वै --- १९
वातरक्तज्वर --- स्फोटांश्चैष न -- येत्
ऊर्ध्वाधःशुद्धदेहानां बहिर्मार्गाश्रिते मले
आदितश्चाल्पदोषाणां क्रियां कुर्यादिमां भिषक्

लङ्घयित्वा यथाकालं कषायैः समुपक्रमेत्
प्रदेहैः परिषेकैश्च स्नेहैरभ्यञ्जनैरपि

रक्तावसेकैः पथ्यैश्च पानान्नौषधसेवनैः
वातवैसर्पिणं पूर्वमनुबन्धविशेषतः

पुराणं प्रपुराणं वा कौम्भं वा पाययेद् घृतम्
तैलं सलवणं चास्य क्षिप्रमभ्यञ्जने हितम्

आरनालेन सुरया बलया वा विपाचितम्
मधुकस्य च कल्केन गुडूच्या स्वरसेन च

तुल्यक्षीरं पचेत्तैलं तदस्याभ्यञ्जने हितम्
बलां रास्नां बृहत्यौ द्वे वर्चीवं सपुनर्नवम्

पाटलां सुषवीं चैव मधुकं देवदारुकम्
पिष्ट्वा विपक्वं दध्ना च तैलमभ्यञ्जने हितम्

बिल्वाग्निमन्थकाश्मर्यश्योनाकैरण्डपाटलैः
पयसा चाम्बुना वाऽपि शृतेन परिषेचयेत्

भृष्टैः पयसि निर्वातैरतसीतिलसर्षपैः
क्षीरपिष्टैः प्रलिम्पेद्वा वातवैसर्पपीडितम्

सुषवीं सुरभीं रास्नां वर्चींवं सपुनर्नवम्
एकाष्ठीलां पलाशं च देवदारुं च पेषयेत्
जलेनाम्लेन वा तेन स्निग्धोष्णेन प्रलेपयेत्
तिल्वकेन त्रिवृतया नीलिन्या वा पृथक्पृथक्

विपक्वं पाययेत् सर्पिः समस्तैर्वा विरेचनम्
आभिः क्रियाभिः प्रशमं न प्रयाति यदाऽनिलः

स्वभ्यक्तं स्वेदयेद्वस्त्रैर्वेशवारेण वा पुनः
उक्ताभिराभिः स्निग्धाभिः पायसैः कृसरेण वा

शुष्कमूलककल्कैर्वा कल्कैः शोभाञ्जनस्य वा
सुखोष्णैः प्रदिहेदेनं नात्युष्णं वाऽऽचरेद्विधिम्

स्वेदैः प्रशान्ते त्वनिले प्रकुप्येत् पित्तमग्निवत्
यथा न च प्रकुप्येत पित्तं वायुश्च शाम्यति

तथा भिषक् प्रयुञ्जीत वातपित्तहरीं क्रियाम्

पैत्तिके तिक्तकं सर्पिरुक्तं ज्वरचिकित्सिते
निरामं पाययेद्वैद्यः स्निग्धं ज्ञात्वा विरेचयेत्

चन्दनं पद्मकोशीरं तथा चन्दनसारिवाम्
मृद्वीकां च विदारीं च काश्मर्याणि परूषकम्

वासाशृतं पिबेदेतद्बैसर्पज्वरनाशनम्

उशीरं मधुकं द्राक्षां काश्मर्याण्युत्पलानि च
कशेरुकामिक्षुगण्डं परूपकफलानि च

पूर्वकल्पेन पेयानि ज्वरवैसर्पशान्तये
कैरातं मधुकं लोध्रं चन्दनं सबिभीतकम्

पद्मोत्पलं नागपुष्पं नागरं सदुरालभम्
निष्क्वाथ्य शीतं मधुना पेयं वैसर्पशान्तये १६

पटोलं चन्दनं मूर्वा गुडूचीं कटुरोहिणीम्
मुस्तां पाठां सयष्टीकां पूर्वकल्पेन पाचयेत्

व्याघातकं हरिद्रे द्वे कुटजं कटुरोहिणीम्
गुडूचीं मधुकं चैव चन्दनं चेति तत् पिबेत्

पिचुमन्दं पटोलं च दार्वीं कटुकरोहिणीम्
गुडूचीं मधुकं चैव चन्दनं चेति तत् पिबेत्

पिचुमन्दं पटोलं च दार्वीं कटुकरोहिणीम्
त्रायमाणां सयष्टीकां पिबेद्बैसर्पशान्तये

पटोलनिम्बमुस्तानां चन्दनोशीरयोरपि
मुस्तकामलकोशीरसारिवाणामथापि वा

दद्यात् कषायं पानेन पित्तवैसर्पशान्तये
पटोलमुस्तामलकशृतं वा सघृतं पिबेत्

उदुम्बरत्वङ्मधुकं प्रियङ्ग्वो नागकेशरम्
पद्मोत्पलानां किञ्जल्कं प्रदेहः सघृतो हितः

अश्वत्थोदुम्बरप्लक्षवटवेतसजाम्बवैः
त्वग्भिः सुपिष्टैरालेपः शतधौतघृताप्लुतैः

शकुभोदुम्बराश्वत्थवटलोध्रत्वचः समाः
वेतसत्वक् सशालूका नऽ--- पेषयेत्

सहविष्कः प्रलेपोऽयं दाहरागनिवारणः
उशीरं चन्दनं चैव शाड्वलं शङ्खमुत्पलम्

वेतसस्य च मूलानि प्रदेहः स्यात् सतण्डुलः
ह्रीबेरं चन्दनोशीरं मञ्जिष्ठां कुमुदोत्पलम्
शारिवां पद्मकिञ्जल्कं प्रलेपनमनुत्तमम्
विदारीं चन्दनोशीरं तथा चन्दनसारिवाम्

मधुकं क्षीरशुक्लां च दद्यादालेपनं भिषक्
तालीशं पद्मकोशीरं मञ्जिष्ठां चन्दनद्वयम्

प्रपौण्डरीकं मधुकं प्रलेपो दाहनाशनः
मुक्ताशङ्खप्रलेपैश्च शुक्तिस्फाटिकगैरिकैः

सघृतैः प्रदिहेदेनं समस्तैर्लाभतोऽपि वा
कदलीकुशकाशानां तथैव नडवेत्रयोः

मूलानि चन्दनोशीरं पद्मकर्षभजीवकम्
कुमुदोत्पलपत्राणि मूर्वासौगन्धिकानि च
मृणालविशशालूकतृणशोलेक्षुवालिकाः
प्रपौण्डरीकं मधुकं तालीशं सकशेरुकम्

इक्षुवेतसमूलानि सानन्ताः क्षीरिणां त्वचः
शतावरीं समञ्जिष्ठां कुम्भीकामिति संहरेत्

संक्षोद्यैतानि मतिमान् वासयेत् सलिले निशि
रसं तमथ निस्राव्य परिषेकं तु दापयेत्

घृतं वा विपचेदेभिर्म्रक्षणं पयसा सह
एतेनैव कषायेण पयस्तुल्यं पचेद्भिषक्

चतुर्भागावशिष्टं च खजेनाभिप्रमन्थयेत्
तत्रोत्थितं घृतं भूयः पयसाऽष्टगुणेन तु

कल्कैः पयस्यामधुकचन्दनानां विपाचितम्
अभ्यङ्गे भोजने पाने दद्याद्वैसर्पनाशनम्

घृतेन परिषक्त --- न्तर ।
यष्टीमधुकतोयेन क्षीरेणेक्षुरसेन वा

वटादिवल्कतोयेन शीतेन परिषेचयेत्
प्रदिहेद्वा वटादीनां कल्केन सघृतेन तु

तथा सहस्रधौतेन शतधौतेन वा पुनः
सर्पिषा प्रदिहेदेनं दाहे क्षीरोत्थितेन वा
सदाहरामपाके तु श्वयथौ विप्रसर्पति

अन्तर्विशुद्धदेहानां जलौकाभिहरेदसृक्
निःस्राव्य दुष्टं रुधिरं कुर्याद्रक्तप्रसादनम्

सघृतैः क्षीरिणां कल्कैर्यथोक्तैः शीतलैरपि
आदितः श्लेष्मवैसर्पे वमनं संप्रकल्पयेत्

लङ्घनं वाऽल्पदोषाणां ततः कुर्यादिमां क्रियाम्
मुस्तां पाठां हरिद्रे द्वे कुष्ठं तेजोवतीं वचाम्

शार्ङ्गिष्ठां त्रिफलां मूर्वामग्निं हैमवतीमपि
वत्सकातिविषे चैव तथा कटुकरोहिणीम्

निष्क्वाथ्य पाययेदेनं पिष्टैस्तैश्च प्रलेपयेत्
आरग्वधं सोमवल्कं कुटजातिविषे घनम्

पाठां मूर्वां सशार्ङ्गिष्ठां कुष्ठं च विपचेद्भिषक्
तत्कषायं पिबेत् काले सुपिष्टैस्तैश्च लेपयेत्

तेनास्य कण्डूः कोठानि शोफश्चाशु प्रशाम्यति
शृतं वाऽप्यमृताशुण्ठीपर्पटैः सदुरालभैः

पिबेत् कषायं मधुना वैसर्पज्वरपीडितः
त्रिफलोशीरमुस्तानि एरण्डं देवदारु च

निष्क्वाथ्य परिषेक्तव्यो निम्बपत्रोदकेन वा
शिग्रुत्वक्सुरसास्फोटकालमालफणिज्झकैः

साटरूषैः शृतं तोयं प्रदद्यात् परिषेचनम्
खदिरोदकसेको वा गोमूत्रेणाथवा हितः

गृहधूमं हरिद्रे द्वे मालतीपल्लवानि च
विडङ्गं द्वे हरिद्रे च पिप्पल्यस्तललण्डिका

मुस्ताऽमृता हरिद्रे द्वे पटोलारिष्टपल्लवाः
कुटजातिविषे मुस्तं कुष्ठं चेति प्रपेषयेत्

आगारधूमं रजनीं सैन्धवं च प्रलेपनम्
श्लोकार्धविहिता ह्येते योगाः स्वल्पघृतायुताः

प्रदेहार्थे प्रयोक्तव्याः शोफकण्डूरुजापहाः
सप्तपर्णं सखदिरं मुस्तमारग्वधत्वचम्

कुरण्टकं देवदारु प्रलेपनमनुत्तमम्
पलाशभस्म चैकाङ्गं लेपो गोमूत्रसंयुतः

सक्षारं सार्षपं तैलमथवाऽपि ससैन्धवम्
अभ्यङ्गार्थे प्रयोक्तव्यं तैलं कारञ्जमेव वा
कुष्ठसैन्धवचूर्णं वा तैलाक्तस्यावघर्षणम्

स्वर्जिकातिविषे मुस्तं त्वगेलेल्वार्थवत्सकैः
शताह्वागरुकुष्ठैश्च पिष्टैस्तैलं विपाचयेत्

तदस्याभ्यञ्जने योज्यं कण्डूकोठारुनाशनम्
शिग्रुमूलमहिंस्रां च पिष्ट्वा सर्पिर्विपाचयेत्
तेनास्याभ्यञ्जयेद्गात्रं कुष्ठतैलेन वा पुनः

एतेन विधिना व्याधिर्यदि नैवोपशाम्यति
कण्डूमद्भिः सदाहैश्च मण्डलैर्विदहेदपि

ततो विरेचनं दद्याद्रक्तं चास्यावसेचयेत्
विनिर्हृते दुष्टरक्ते कुर्याद्रक्तप्रसादनम्

सघृतैस्त्रिफलाकल्कैर्मधुकोदुम्बरान्वितैः
इति वातादिजानां ते वैसर्पाणां चिकित्सितम्

समासव्यासयोगैश्च पृथक्त्वेन च कीर्तितम्
एतदेव च संसृष्टं संसृष्टेषु प्रयोजयेत्

यवान्नं शालयो मुद्गा मसूराः सहरेणवः
भोजनार्थे पुराणाः स्युर्जाङ्गलाश्च मृगाद्विजाः

मसूरिकाः सविस्फोटाः कक्ष्यां पामां तथैव च
संसृष्टपित्तरक्तोत्था वैसर्पवदुपक्रमेत्

इति ह स्माह भगवान् कश्यपः
इति उत्तरेषु खिलस्थाने भार्गवीयायां संहितायां वैसर्पचिकित्साध्यायश्चतुर्दशः १४

अथ चर्मदलचिकित्सिताध्यायः पञ्चदशः
अथातश्चर्मदलचिकित्सितं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

अथ खलु भगवन्तमृषिगणपरिवृतं ब्राह्मा श्रिया देदीप्यमानमृषिश्रेष्ठं कश्यपमभिवांद्य पप्रच्छ भार्गवः--भगवन् क एषचर्मदलो नाम व्याधिर्विसर्पमाणोऽग्निदग्धोपमरूपोऽत्याबाधकरो बालानामङ्गेषूपपद्यते कथं चोत्पद्यते क्षीरपाणां कुमाराणां क्षीरान्नादानां तु नवाऽन्नादवयःस्थानाम् अत्र को हेतुः किमात्मकः कतिविधः कानि चास्य
लक्षणानि उपद्रवाश्च के इत्येवं व्याख्यातुमर्हसीति ३

अथ भगवानब्रवीद्वत्स श्रूयतामिह खलु क्षीरपाणां कुमाराणां स्तन्यदोषेण क्षीरान्नादानां स्तन्यदोषेणाहारदोषेण च सुकुमाराणामस्थिरधातूनां बालानां गर्भशय्योचितमृदुशरीराणां वस्त्राङ्काधारणोष्णानिलातपस्वेदोपनाहस्वमलमूत्रपुरीषसंस्पशाशौचपाणिपीडनाऽती-वोद्वर्तनकुलप्रवृत्त्यादिभिरुपायैर्मुखगलहस्तपादवृषणान्तरकट्यङ्ग
सन्धिषु चोत्पद्यते ४

नचान्नादवयःस्थानामिति किं कारणं स्थिरकठिनसंहतत्वगस्थिधातूनां तथा नित्यव्यायामोपचितगात्राणां क्लेशं सहतां न भवत्येष
व्याधिरिति ५

वायुभूयिष्ठत्वाद्वाय्वात्मकमेवोदाहरन्ति । चर्मदलमिति चर्मावदारणात् । स चतुर्विधो--वातिकः श्लैष्मिकः सान्निपातिक इति ६

तत्र या बालस्य माता वा धात्री वा रूक्षसमुदाचाराहारोदावर्तनोपवसनशीला तथाऽतिचङ्क्रमणव्यायामक्लेशानत्यर्थमुपसेवते तस्या वायुः प्रकुपितः स्तन्यं दूषयति । तस्य लक्षणम् -- उदके प्रक्षिप्तं प्लवते विच्छिद्यते छत्रायते श्यावावभासं रसेन तिक्तकषायं विरसं चेति । तत् पिबतो जन्तोरिमानि रूपाणि भवन्ति--सकण्डूस्फुटितपरुषश्यावावभासान्यङ्गे मण्डलानि पिप्लुतं तनु विवर्णमतिसार्यते प्रवेपकमुखशोषरोमहर्षान्वितश्च वातचर्मदलः ७

यदा तु धात्री क्रोधसंतापोष्णाम्ललवणकटुकविदग्धाध्यशनविवशानुपसेवते तस्याः पित्तं प्रकुपितं वायुना विक्षिप्यमाणं स्तन्यवहाभिः सिराभिरनुसृत्य स्तन्यं दूषयति । तस्य लक्षणानि--उदके प्रक्षिप्तं हरितरक्तासितावभासं भवत्यथ रसेन कट्वम्ललवणतिक्तं स्पर्शेनोष्णमिति । तत् पिबतो जन्तोरिमानि रूपाणि भवन्ति--रक्तनीलावभासानि श्यावपीताभानि शुष्कच्छवीन्युष्णानि कुथितदोषपूर्णानि मण्डलान्युत्पद्यन्तेऽस्य विसर्पीणित्वङ्मांसदारणानि प्रभिन्नानि पद्मपत्रप्रकाशान्यग्निदग्धोपमानि भवन्ति । अतोऽतिसार्यते हरितपीतगुदपाककरमभीक्ष्णं दाहमुखशोषच्छर्दियच्च वदनान्वितश्च पित्तचर्मदलः ८

अथ या धात्री गुर्वम्ललवणमधुराभिष्यन्दिदिवास्वप्नालस्याहितानि चात्यर्थमुपसेवते तस्याः प्रकुपितः श्लेष्मा वायुना समुदीर्यमाणः स्तन्यमभिदूषयति । तस्य लक्षणं--जले निषीदत्यधस्ताद्रूपेण सान्द्रं स्नेहबहलं स्पर्शेन शीतपिच्छिलं रसेन मधुरमिति । तत् पिबतो जन्तोरिमानि रूपाणि भवन्ति--शीतस्तिमितस्निग्धसान्द्रैर्मण्डलैः श्वेताभैर्बहुभिर्नात्यर्थवेदनाकरैः सर्षपमात्रीभिः पिडकाभिरुपचितैश्चिरपाकिभिः सकण्डूतोदयुतैरुपचीयते ततोऽस्य प्रतिश्यायारोचकाङ्गगौरवकासपाका उत्पद्यन्ते बहुलं पिच्छिलं चाऽनुबद्धमतिसार्यते निष्टनति श्लेष्माणं छर्दयति तन्द्राभिभूतः श्वेतताल्वोष्ठश्च भवतीति
श्लेष्मचर्मदलः ९

तदा तु त्रिदोषसंसृष्टं क्षीरमनुपिबति तदाऽस्याङ्गे मण्डलानि प्रादुर्भवन्ति कृष्णरक्तावभासानि दग्धगुडप्रकाशानि वा त्रिभिर्गुणैरन्वितानि क्षिप्रपाकीनि विगन्धीन्यवदीर्णानि पूतिकुणपविस्रावीणि चेति । तैः स सर्वावनद्धाङ्गो निष्टनत्यनिशं कृच्छ्रेण रोदिति स्तनं नाभिनन्दति कृष्णमरुणवर्णावभासं चाऽतिसार्यते । सोऽसाध्यः सन्निपातात्मक
इति १०

छर्दितृष्णाज्वराध्मानश्वयथुहिक्काश्वासस्वरभेदोपद्रवान्वितश्च प्रत्याख्येयः ११

भवन्ति चात्र श्लोकाः--
नोपक्रमेदसाध्यं तु साध्यं यत्नेन साधयेत्
यत् पश्येद् द्वन्द्वजं रूपे पाकं वा रूपतोऽधिकम् १२
तस्य तस्य विदित्वा तु क्रियां सम्यक् प्रयोजयेत्
येनोपक्रम्यमाणोऽपि शान्तिं नैति पुनः पुनः १३
तेनैवोत्पातरोगोऽयं न विश्वास्यः कथञ्जन
तस्मात् सम्यगुपक्रम्यो यथा वक्ष्ये चिकित्सितम् १४

तत्रादितश्चैव धात्रीं स्नेहाभ्यङ्गस्वेदोपपन्नां नीलिकाचूर्णयुतं सर्पिः पाययेत् त्रिवृच्चूर्णघृतं वा । ततः संसर्गोपपादितालघुस्निग्धैर्यूषैर्द्राडिमसैन्धवयुतैर्मृदुमोदनमश्नीयान्निवातशयनासनपरा । व्यायामाजीर्णमथुनं च नानुचरेत् । विदारिगन्धैरण्डबृहतीगोक्षुरकपुनर्नवापृश्निपर्ण्य इति कषायमेनां पाययेत् स्तन्यशोधनार्थं द्विपञ्चमूलकषायं वा । रास्ना सुगन्धा नाकुलीति कल्कः स्तनालेपः तथाऽजगन्धाऽवल्गुजकबृहतीकण्टकारिकायुतः प्रदेहः शताह्वामधुकाजगन्धाकाश्मर्यबृहतीकण्टकारिकाबलापीलुगुडूचीकल्को वा भद्रमुस्तात्वग्गरुकल्को वा पुराणसर्पिस्तिलकल्को वेति । अथोरुपूगपलाशपाटलिरास्नाक्वाथः परिषेकः पयसा वा सुखोष्णेन चेति । देवदारुरास्नाबर्हिणमज्जेति तैलं विपक्वमभ्यञ्जनीयं बिल्वदेवदारुचूतमुक्तिफलविपक्वं वा द्विबलाबिल्वमूलसुरदार्वाम्रपेशिका विपक्वं वेति वातचर्मदलचिकित्सितमुक्तम् १५

अथ पैत्तिके वक्ष्यामः । तद्यथा--धात्रीं स्नेहाभ्यङ्गोपपन्नां वमनविरेचनेनोपक्रमेत् निम्बोदकपिप्पलीकल्केन वामयेत् पिप्पलीलवणयुक्तेन वा दोषनिर्हरणार्थं मृद्वीकेक्षुरसाभयादिभिर्विरेचयेन्मृद्वीकामलकसंयोगेन वा आरग्वधफलमज्जकषायसंयुक्तेन वा क्षीरेणेति यथाबलं वीक्ष्य । संसर्गं कारयेद्यवाग्वा यूषकृताकृतविधानेन वा । काश्मर्यमधुकपरूषकशीतपाक्य इति कृत्वा सुशीतं शर्करामधुलिखितं कषायं पाययेत् स्तन्यशोधनार्थं पयस्यासारिवामृतामधूकमृद्वीकानां कषायं शर्करायुतं चेति । प्रपौण्डरीकसारिवोशीरचन्दनकल्कः स्तनालेपः मधुकक्षीरशुक्लाचन्दनरसाञ्जनतुङ्गयुतः प्रदेहः यष्टीमधुकचन्दनकल्को वा मधुकचन्दनभद्रमुस्तामञ्जिष्ठारसाञ्जनकल्को वा रसाञ्जनसारिवामधुकचन्दनोशीरकल्को वा ककुभोदुम्बराश्वत्थवटनलमूलशालूकवञ्जुलकल्को वा घृतयुतः विशमृणालपद्मकमञ्जिष्ठापद्मरसाञ्जनकल्को वेति । मधुकमधुपर्णी वेडवेतसशतावरीनलमूलकदलीकुशकाशपद्मोत्पलेक्षुविदारीवटोदुम्बरत्वग्जम्बू-कुम्भीका मधुरा चेत्येतानि जलाढके पक्त्वा चतुर्भागावशेषे घृतप्रस्थं पाचयेत् कषायद्विगुणक्षीरेण सगर्भः स्यान्मञ्जिष्ठावितूर्णकपयस्याधातक्युशीर चन्दनक्षीरकाकोलीप्रपौण्डरीकक्षीरशुक्लातालीसमृद्वीकेति सुपिष्टं विदध्यादेतेन सिद्धेनाभ्यज्य ततोऽवचूर्णयेल्लोध्रमधुकदारुहरिद्रामलकीत्वक्पत्रचूर्णेनैतेनेत्येवम् अस्माज्ज्वरदाहरागपाकव्रणादयश्चोपशाम्यन्तीति पित्तचर्मद लचिकित्सितमुत्तमम् १६

अत ऊर्ध्वं श्लैष्मिके वक्ष्यामः--अथ धात्रीं पूर्वेण विधिनोपचार्य निम्बकषायमदनफलसिद्धां व्यक्तलवणां यवागूं पाययेन्मदनफलतिलपिष्टतण्डुलसिद्धां वा वमनविधानेन सुखसलवणस्निग्धायाः श्लेष्मोद्धरणार्थं च पिप्पल्युष्णोदकं पीत्वा च्छर्दयेत् कृतवमनायाः शिरोविरेचनं विदध्यान्मुद्गसतीनवेत्राग्रपटोलनिम्बमुस्तकानामन्यतमपरिगृहीतेन यूषेण मृदुमोदनं भोजयेत् । कुटजफलमुस्ताप्रियङ्गुशार्ङ्गिष्ठापाठालोध्रगुडूचीमूर्वेत्यक्षमात्राणि यथालाभं सुखोष्णोदकेनानुपिबेत् पाठाशृङ्गबेरकल्कं वा कुटजफलपाठाकल्कं वा किराततिक्तकमुस्ताचूर्णं वा मधुना लिहेत् । भद्रमुस्तारिष्टपटोलमूर्वादारुहरिद्रात्रिफलासप्तपर्णत्वगित्येतैः कषायमासुतं मधुना पाकव्यपदेशतश्चोपयोजयेत् मुस्तकमालतीपत्रकल्केन स्तनावालेपयेत् । अथ विरेचनं त्रिवृत्त्रिफलोष्णोदकलवणसंयुक्तमुपयोज्य यूषश्चाहारविधिः । कुटजारिष्टारग्वधमदनस्वादुकण्टकमुस्तकनक्तमालयुतः प्रदेहः कुष्टशुकनासारोहिणीमुस्तककिराततिक्तातिविषायुतो वा सुरसशिग्रुमुस्ताकालमालकविडङ्गहिङ्गुपर्णीति वा त्रिफलादारुहरिद्राकल्को वा हरिद्रारसाञ्जनकल्को वेति । भद्रमुस्तोशीराफोटाटरूषकहरिद्राकरञ्जसुमनारिष्टसिद्धं तैलमभ्यञ्जनीयमिति १७

भवति चात्र श्लोकः
एषा चर्मदलोत्पत्तिर्व्याख्याता वर्णरूपतः
साध्यासाध्यविधानैश्च प्रतीकार्यो यथाक्रमम् १८
इति ह स्माह भगवान् कश्यपः
इति खिलेषु चर्मदलचिकित्साध्यायः पञ्चदशः १५

अथाम्लपित्तचिकित्सिताध्यायः षोडशः
अथातोऽम्लपित्तचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
विरुद्धाध्यशनाजीर्णादामे चामे च पूरणात्
पिष्टान्नानामपक्वानां मद्यानां गोरसस्य च ३
गुर्वविष्यन्दिभोज्यानां वेगानां धारणस्य च
अत्युष्णस्निग्धरूक्षाम्लद्रवाणामतिसेवनात् ४
फाणितेक्षुविकाराणां कुलत्थानां च शीलनात्
भृष्टधान्यपुलाकानां पृथुकानां तथैव च ५
भुक्त्वा भुक्त्वा दिवास्वप्नादतिस्नानावगाहनात्
अन्तरोदकपानाच्च भुक्तपर्युषिताशनात् ६
वातादयः प्रकुप्यन्ति तेषामन्यतमो यदा
मन्दीकरोति कायाग्निमग्नौ मार्दवमागते ७
एतान्येव तथा भूयः सेवमानस्य दुर्मतेः
यत्किञ्चिदशितं पीतं देहिनस्तद्धि दह्यति ८
विदग्धं शुक्ततां याति शुक्तमामाशये स्थितम्
तदम्लपित्तमित्याहुर्भूयिष्ठं पित्तदूषणात् ९
जन्तोर्यदनुबध्नाति लौल्यादनियतात्मनः
अविशुष्के यथा क्षीरं प्रक्षिप्तं दधिभाजने १०
क्षिप्रमेवाम्लतामेति कूर्चीभावं च गच्छति
रसधातौ तथा व्यम्ले भुक्तं मुक्तं विदह्यते ११
अव्यापन्ने त्वधिष्ठाने जाग्रतः स्वपतोऽपि वा
प्रेर्यमाणः समानेन प्रश्वासोच्छ्वासयोगतः १२
धम्यमान उदानेन सम्यक् पचति पाचकः
इत्युद्दिष्टं समुत्थानं लिङ्गं वक्ष्याम्यतः परम् १३
विड्भेदो गुरुकोष्ठत्वमम्लोत्क्लेशः शिरोरुजा
हृच्छूलमुदराध्मानमङ्गसादोऽन्त्रकूजनम् १४
कण्ठोरसी विदह्येते रोमहर्षश्च जायते
सामान्यलक्षणं त्वेतद्विशेषश्चोपदेक्ष्यते १५
वाताच्छूलाङ्गसादौ च जृम्भा स्निग्धोपशायिता
पित्ताद्भ्रमो विदाहश्च स्वादुशीतोपशायिता १६
कफाद् गुरुत्वं छर्दिश्च स्याद्रूक्षोष्णोपशायिता १७
व्याधिरामाशयोत्थोऽयं कफपित्ते तदाश्रये
तस्मादादित एवास्य मूलच्छेदाय बुद्धिमान् १८
अक्षीणबलमांसस्य वमनं संप्रकल्पयेत्
नान्यो मान्यः क्रमो ह्यस्य शान्तये वमनादृते १९
मूलच्छेदादिव तरोः स्कन्धशाखाविपर्यये
दोषशेषश्च वान्तस्य यः स्यात्तदनुबन्धकृत् २०
तस्योपशमनं कुर्याल्लङ्घनैर्लघुभोजनैः
सात्म्यकालोपपन्नैश्च योगैः शमनपाचनैः २१
दोषोत्क्लेशे न सहसा द्रवमौषधमाचरेत्
वमनीयादृते तद्धि न सम्यक् परिपच्यते २२
चेष्टाहारविशेषेण किञ्चित् परिणते ततः
पीतं तु कुरुते यस्माच्छमपाचनभेदनम् २३
नागरातिविषे मुस्ता नागरातिविषेऽभया
त्रायमाणा पटोलस्य पत्रं कटुकरोहिणी २४
त्रयस्त्रिकार्षिका ह्येते पातव्या दोषदर्शनात्
किराततिक्तक्वाथो वा रोहिण्या वाऽथ केवलः २५
संसर्गहृतदोषस्य विशुद्धामाशयस्य च
यतेनाग्निसमाधाने प्रयतेत विचक्षणः २६
यथा गोमयचूर्णाद्यैः सूक्ष्मैः सन्धुत्तितोऽनलः
क्रमेणाप्यायितबलो दहत्यार्द्रमपीन्धनम् २७
तथा विशुद्धदेहानां कायाग्निः समुदीरितः
पाचयत्यन्नपानानि सारवन्त्यपि देहिनाम् २८
सम्यक्परिणतेष्वेषु न स्युरामान्वया गदाः
जायते च तदोत्साहस्तुष्टिः पुष्टिर्वपुर्बलम् २९
ततः क्रमविशेषेण जातप्राणस्य देहिनः
पक्वाशयगतान् दोषान् स्रंसनेन विनिर्हरेत् ३०
लवणाम्बुना सुखोष्णेन क्षीरेणेक्षुरसेन वा
मधूदकेन तिक्तैर्वा वमनं संप्रकल्पयेत् ३१
त्रिफला त्रायमाणा च कटुका रोहिणी त्रिवृत्
पञ्चैषामर्धपलिकास्त्रिवृता त्वर्धभागिका ३२
पीत्वा विरेचनं ह्येतदम्लपित्ताद्विमुच्यते
पटोलपत्रं त्रिफलात्वचश्चार्धपलोन्मिताः ३३
त्रायन्तीरोहिणीनिम्बयष्टिकाः कर्षसंमिताः
पलद्वयं मसूराणां चैकध्यं तद्विपाचयेत् ३४
जलाढकेऽष्टभागं तु पूतशेषं पुनः पचेत्
सर्पिषः कुडवं दत्त्वा प्रस्थार्धमवशेषितम् ३५
तत् पीत्वा नातिशीतोष्णं सुखेनाशु विरिच्यते
चिरप्रसक्तमप्येतदम्लपित्तं व्यपोहति ३६
वातपित्तं ज्वरं कुष्ठं वैसर्पं वातशोणितम्
विद्रधि रक्तगुल्मं च विस्फोटांश्चाशु नाशयेत् ३७
पुराणाः शालयो मुद्गा मसूराः सहरेणवः
गव्यं सर्पिः पयो वाऽपि जाङ्गलाश्च मृगद्विजाः ३८
कलायशाकं पौतीकं वासापुष्पं सवास्तुकम्
यानि चान्यानि शाकानि तिक्तानि च लघूनि च ३९
भोजनेनाऽतिशस्यन्ते यच्चान्यदविदाहि च
तत्सात्म्यानां प्रयोगाणां यथोक्तानां च शीलनम् ४०
लशुनस्य हरीतक्याः पिप्पल्याः सर्पिषस्तथा
मदिरायाश्च जीर्णायाः कालाग्निबलवृद्धये ४१
व्याधेरस्य यथोक्तानां निदानानां च वर्जनम्
युक्ताहारविहारस्य युक्तव्यायामसेविनः ४२
शुक्तकोऽयमलोलस्य शाम्यत्यात्मवतः सतः
यश्च यस्यानुबन्धः स्याद्दोषस्तस्योपशान्तये ४३
प्रयतेत भिषङ् नित्यं तच्छान्तौ स प्रशाम्यति
आनूपदेशे प्रायेण संभवत्येष देहिनाम् ४४
तस्माज्जाङ्गलजैरेनमौषधैः समुपक्रमेत्
अप्रशाम्यति चैतस्मिन्नपि देशान्तरं व्रजेत् ४५
स एव देशो यत्र स्यादारोग्यं ते च बान्धवाः
गच्छन्ति ये न गच्छन्ति ये चास्य हितकारिणः ४६
नित्यालोलस्य दीनस्य परिदूनस्य देहिनः
क्रियाः सर्वाः प्रहीयन्ते स्वजनो विजनीभवेत् ४७
तस्मात् सततमारोग्ये प्रयतेत विचक्षणः
अरोगो जीवितफलं सुखं समधिगच्छति ४८
ज्वरातीसारपाण्डुत्वशूलशोथारुचिभ्रमैः
उपद्रवैरिमैर्जुष्टः क्षीणधातुर्न सिद्ध्यति ४९
इति ह स्माह भगवान् कश्यपः
इति खिलेष्वम्लपित्तचिकित्साध्यायः षोडशः १६

अथ शोथचिकित्साध्यायः सप्तदशः
अथातः शोथचिकित्सितं नामाध्यायं व्याख्यास्यामः
इति ह स्माह भगवान् कश्यपः २
वान्तस्याथ विरिक्तस्य कर्शितस्य ज्वरादिभिः
महोपवासक्लिष्टस्य विरुद्धाजीर्णभोजिनः ३
सद्यश्चात्यर्थलवणक्षारोष्णाम्लकटून् रसान्
शूकरोरभ्रमांसादि दधिमृद्भक्षणादि च ४
शीतप्रवातव्यायामव्यवायांश्चातिसेवतः
तथैव दुष्प्रजाताया नार्याः कृच्छ्रेण वा पुनः ५
सूताया निःस्रुतायाश्च द्विषन्त्याः स्वमुपक्रमम्
एतदेव निदानं च शीलयन्त्यास्ततस्तयोः ६
शोथः संजायते शीघ्रं दारुणः स चतुर्विधः
वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः ७
आगन्तुः क्षतनिष्पिष्टच्युतमग्नादिसंभवः
दष्टावमूत्रिताघ्रातसंस्पर्शगरयोगजः ८
प्रकोपहेतुः सर्वेषां सामान्येनैव कीर्तितः
पूर्वं ज्वरनिदाने तु प्रोक्तः प्रत्येकशो मया ९
यथावदेषां रूपाणि संप्रवक्ष्याम्यतः परम्
अपराह्णे ध्रुवा वृद्धिः श्वयथोरनिलात्मनः १०
पूर्वाह्णे श्लैष्मिकस्य स्यान्मध्याह्ने पैत्तिकस्य तु
पूर्वामध्यापरे यामे ह्रासश्चैषां यथाक्रमम् ११
श्याववर्णः सवर्णो वा क्षिप्रोत्थाननिवर्तनः
पिपीलिकाकीर्ण इव ताम्यते परितुद्यते १२
विषमज्वरजुष्टस्य चिराच्चैव विदह्यते
भिन्नरोमा चलोऽङ्गुल्या निम्नो भवति पीडितः १३
सिरास्नायुत्वगायामैरधःकाये च वर्धते
स्निग्धोष्णोपशयी रूक्षः श्वयथुर्वातसंभवः १४
नीललोहितपीताभः पीड्यते धूप्यते मुहुः
क्षिप्रपाकी सविड्भेदस्तृष्णादाहज्वरान्वितः १५
नाभ्यां च बस्तिमूले च वृद्धिश्चास्य विशेषतः
नित्यं च रोचते शीतं श्वयथुः पित्तसंभवः १६
स्थिरः शीतोऽतिबहलः श्लक्ष्णः पाण्डुरवेदनः
सोत्क्लेशारोचकस्वापकण्डूकाठिन्यगौरवः १७
चिराद् वृद्धिमवाप्नोति चिराच्च विनिवर्तते
उरोगण्डाक्षिकूटेषु वृद्धिश्चास्य विशेषतः १८
शीतज्वरकरः शीतद्वेषी शोफः कफात्मकः
नीलपीतारुणाभासः सिराजालोपसन्ततः १९
अनेकोपद्रवस्रावः सर्वरूपसमन्वितः
सुतीव्रवेदनोऽसाध्यः श्वयथुः सान्निपातिकः २०
रक्तश्यावारुणोऽत्युष्णस्तोदभेदरुजान्वितः
आगन्तुः सविषस्ताम्रिः कृष्णो वाशु विसर्पितः २१
हृल्लासारुचितृण्मूर्छाज्वरारुचिकरो भृशम्
इति षड्विधमुद्दिष्टं श्वयथोर्लक्षणं मया २२
नृणां तु पादप्रभवः स्त्रीणां च मुखसंभवः
उभयोर्यश्च गुह्यस्थः सर्वगश्च न सिद्ध्यति २३
मारुतः सर्वशोफानां मूलहेतुरुदाहृतः
यथा च पित्तं दाहस्य शैत्यस्य च यथा कफः २४
त्वग्रक्तमांसमेदांसि शोथोऽधिष्ठाय वर्धते
तदस्याशु क्रियां कुर्याद्दारुणस्य यत्थोत्तरम् २५
कफपित्तोत्तरे शोफे क्षामदेहस्य देहिनः
वमनाद्यां क्रियां कुर्यात्तद्युक्तमनिलोत्तरे २६
शाल्यन्नमुद्गमण्डेन शोथी भुञ्जीत मात्रया
सबालमूलकव्योषपिप्पलीकेन वाऽऽदितः २७
लघ्वामाशयकोष्ठस्य पञ्चगव्येन सर्पिषा
कल्याणकेन तिक्तेन दशमूलादिकेन वा २८
स्निग्धस्विन्नस्य वमनं विदध्याच्च विरेचनम्
ततो दशाहान् सोऽश्नीयात् पयसा वाऽप्यभोजनम् २९
ततो यवान्नं तक्रेण शीलयेच्च यथाबलम्
पञ्चमुष्टिकयूषेण जाङ्गलानां रसेन वा ३०
द्रधिमद्यसुरास्नेहशाकपिष्टाम्लसेवनम्
असात्म्यानि निदानं च वर्जयेत् पथ्यमाचरेत् ३१
सगुडं शृङ्गबेरं च भक्षयेत् प्रातरुत्थितः
हरीतकीं गुडयुतां त्रिसमां वाऽभ्यसेत् सदा ३२
पिप्पलीवर्धमानं वा पिप्पल्यो मधुकेन वा
देवर्दावभयाशुण्ठीचूर्णकल्कमथापि वा ३३
पिबेत्त्रयाणामेतेषां क्वाथं च सपुनर्नवम्
महौषधं चित्रकं वा पिप्पल्यो देवदारु वा ३४
तक्रेण पयसा वाऽथ सेवमानः सुखी भवेत्
चित्रामूलाग्निकश्यामात्रिव्योषैर्वा शृतं पयः ३५
महौषधं देवदारुकल्कं वा पयसा पिबेत्
गन्धर्वहस्तं त्रिव्योषं श्यामामूलं च पञ्चमम् ३६
क्षीरसिद्धं पिबेदेतद्यस्य स्याच्छ्वयथुर्महान्
गोमूत्रं महिषीमूत्रमुष्ट्रमूत्रमथो पिबेत् ३७
यथास्वं क्षीरमिश्रं वा शीलयेच्छोफशान्तये
सर्पिः पुनर्नवाक्वाथे कल्कैरेभिर्विपाचयेत् ३८
व्योषमुस्ता --- दिने दिने
सर्वेषामेव शोथानां प्रयोगोऽयं विधीयते ३९
अयोरजस्त्रिकटुकं त्रिवृता कटुरोहिणी
त्रिफलाया रसेनैतत् पीत्वा चूर्णं सुखी भवेत् ४०
त्रिफला त्रिवृता दन्ती विडङ्गं गजपिप्पली
त्रिव्योषं रोहिणी दारु चित्रकं चेति चूर्णयेत् ४१
अयोरजस्तद् द्विगुणं क्षीरेणाभ्यस्य मुच्यते
त्रिव्योषत्रिफलामुस्ताविडङ्गचित्रकाः समाः ४२
नवैते सुधृता भागा नवायोरजसस्तथा
तच्चूर्णं मधुना लीढ्वा भुञ्जीत यवषष्टिकम् ४३
शुष्कमूलकयूषेण मुस्ताक्तपयसाऽपि वा
भल्लातकं त्रिवृद्दन्ती त्रिव्योषं त्रिफलाऽग्निकः ४४
तिला गुडा विडङ्गं च मधु सर्पिरयोरजः
नाम्ना कटुकबिन्दुर्हि लेहः शोथप्रमर्दनः ४५
सामान्येनैतदाख्यातं पृथक्त्वेन निबोध मे
तत्रादितः प्रवक्ष्यामि वातिकस्य भिषग्जितम् ४६
कुलत्थयवकोलानामुभयोः पञ्चमूलयोः
निर्यूहे साधितं तैलं कल्कैरेतैः समांशिकैः ४७
शतावरीकृष्णगन्धायष्टीमधुकजीवनैः
सक्षीरैस्तत् पिबेत् काले कुर्यादभ्यञ्जनं च तत् ४८
शताह्वां मधुकं दारु सश्वेतां च गवादनीम्
वत्सादनीं च पिष्ट्वा तैः सुखोष्णैः शोथमादिहेत् ४९
वर्चीवं बिल्वमेरण्डं तर्कारीं सपुनर्नवाम्
निष्क्वाथ्य वारिणोष्णेन श्वयथुं परिषेचयेत् ५०
तिलानां सर्षपाणां च गोधूमस्य यवस्य च
चूर्णानां तैलमिश्राणामुपनाहं विधापयेत् ५१
तथैवैरण्डबीजानां भृष्टानां वोपनाहनम्
एरण्डो बिल्वमूलं च बृहती कण्टकारिका ५२
करञ्जश्चिरिबिल्वश्च श्वदंष्ट्रा च समांशिका
लेपोऽयं सर्पिषा युक्तो वातश्वयथुनाशनः ५३
एष एव यथालाभं परिषेकः सुखावहः
शारिवा मूलकं शुष्कं शुकनासा महौषधम् ५४
कुष्ठं मुस्ता जलं लम्बा प्रलेपः शोफनाशनः
श्वदंष्ट्रैरण्डमूलं च बिल्वमूलं महौषधम् ५५
पुराणमूलकं चैषां क्वाथे क्षीरं विपाचयेत्
क्षीरावशेषमाहृत्य काले सघृतशर्करम् ५६
यथाग्नि पाचयेदेनं वातश्वयथुनाशनम्
एरण्डतैलं पयसा गवां मूत्रेण वा पिबेत् ५७
तेनास्य दोषशेषश्च श्वयथुश्च निवर्तते
लघून्यन्नानि भुञ्जीत स्निग्धोष्णसहितानि च ५८
अथ पित्तसमुत्थस्य प्रवक्ष्यामि चिकित्सितम्
अभयाऽऽमलकीदन्तीत्रिकर्ममधुचन्दनैः ५९
संजीवनीयमञ्जिष्ठैर्मधूककुसुमैः समैः
सक्षीरैः पाचितं सर्पिः शोफस्याभ्यञ्जनं परम् ६०
पानं चैतत् प्रदातव्यं शोफरोगनिवारणम्
जीवकर्षभकावैन्द्री मधुपर्णी शतावरी ६१
मुदिता वेतसं चैव प्रलेपः सरसाञ्जनः
तालीशोशीरमुदिताचन्दनं सरसाञ्जनम् ६२
मधुकं पद्मकं चेति लेपः श्वयथुनाशनः
शतावरीं हंसपदीं मधुपर्णीं च चित्रकम् ६३
बन्दां तालीसपत्रं च पिष्ट्वा श्वयथुमादिहेत्
क्षीरद्रुमाणां त्वङ्मूलक्वाथस्तु परिषेचने ६४
सदाहरागपाके च हितः सक्षीरशर्करः
त्रिवृन्मधुकमृद्वीकाकाश्मर्याभिः शृतं पयः ६५
विरेचनीयमन्यद्वा यथावस्थं प्रयोजयेत्
नात्यच्छस्निग्धशीतानि स्वादूनि च लघूनि च ६६
पयो द्रवाणि भुञ्जीत यथोक्तानि च मात्रया
श्वयथोः कफजस्यापि चिकित्सां शृण्वतः परम् ६७
ह्रीबेरागरुदारूणि चव्यचित्रकनागरम्
अभया पिप्पलीमूलं रजन्यौ हिङ्गु मात्रया ६८
क्वाथं गोमूत्रपिष्टं वा पिबेच्छोफनिबर्हणम्
चित्रकारग्वधौ मूर्वाविडङ्गामलकाभयाः ६९
पिप्पलीशारिवापाठाकषायं मधुना पिबेत्
देवदारु च पाठां च शृङ्गबेरं च भागशः ७०
तथा पुष्करमूलं च गोमूत्रक्वथितं पिबेत्
पाठा मुस्ताऽभया दारु चित्रको विश्वभेषजम् ७१
पिप्पल्यतिविषा मूर्वा तथा ताडकपत्रिका
बाधासु तत् पिबेत् पूतं कफश्वयथुनाशनम् ७२
तगरागरुमुस्तानि सरलं देवदारु च
कुष्ठं त्वचा च लेपोऽयं कफश्वयथुवारणः ७३
कालां गोधापदीं हिंस्रां सुषवीं तालपत्रिकाम्
पिष्ट्वा शीतकमूलं च शोथमस्य प्रलेपयेत् ७४
कुष्ठच्छत्राकवल्कं च यातुमूलं त्रिकण्टकम्
भद्रदारुं सुगन्धां च पिष्ट्वोष्णैः शोफमादिहेत् ७५
मूलकानि च शुष्काणि भद्रमुस्तं सशारिवम्
गोमूत्रपिष्टो लेपोऽयं श्वयथोविनिवारणः ७६
पलाशभस्म चैकाङ्गलेपो गोमूत्रसंयुतः
श्लैष्मिके श्वयथावेष परिषेको विधीयते ७७
पञ्चमूलशृतं तोयं गोमूत्रं वाऽपि केवलम्
निम्बाङ्कोठोरुपूगानां तर्कार्याः कुटजस्य च ७८
नक्तमालस्य वंशस्य पत्रक्वाथोऽवगाहनः
त्रिफला चित्रकवचे द्वे हरिद्रे कुठेरकः ७९
श्यामाखुपर्णीकटुकाकाकमाचीसुवर्चलाः
वार्ताकी निचुलं निम्बो विडङ्गं विश्वभेषजम् ८०
रास्ना पुनर्नवा मूर्वा कुष्ठं व्याघ्रनखं वृषम्
शिग्रुमूलमथार्कं च यथालाभं समाहृतैः ८१
गोमूत्रपिष्टैर्लेपः स्यात् क्वथितैः परिषेचनम्
एतैरेव द्रवैः पक्वैरभ्यङ्गः शोथनाशनः ८२
पटोलमूलं त्रिफला विडङ्गं रजनीति षट्
कार्षिकाः स्युस्तथैकस्माद्द्विगुणं रोचनीफलम् ८३
नीलिका त्रिगुणा देया त्रिवृता तु चतुर्गुणा
चूर्णमेतद्गवां मूत्रसंयुतं मात्रया पिबेत् ८४
काले विरिक्तो भुञ्जीत जाङ्गलानां रसेन तु
त्रिफला सरलं दारु रजन्यो रोहिणी वचा ८५
पिप्पली पिप्पलीमूलं नागरातिविषे घनम्
क्षारद्वयं विडङ्गं च पाठाऽगरु सचित्रकम् ८६
अयोरजश्च चूर्णानि गोमूत्रेण विपाचयेत्
द्राक्षावलयमाहृत्य गुटिका बदरोपमाः ८७
कृत्वाऽथैकां ततो द्वे वा पिबेदुष्णेन वारिणा
मुच्यते कफजाच्छोफादेवं श्वयथुपीडितः ८८
एषा हि ग्रहणीदोषं पाण्डुरोगं कफात्मकम्
कफार्शांसि च वृद्धिं च प्रमेहं च शमं नयेत् ८१
पञ्चमूलं वरुणकं सरलं देवदारु च
हस्तिकर्णपलाशश्च फलानि निचुलस्य च ९०
पलाशः काकला काला गुडूची देवपुष्पकम्
अहिंस्रा श्रेयसी हिंस्रा कृष्णगन्धा पुनर्नवा ९१
कायस्था च वयःस्था च चोरको जटिला जटा
अलम्बुषं सोरुपूगं प्रपुन्नाडं सनागरम् ९२
शिग्रर्गोधापदी भार्गी तर्कारी शुष्कमूलकम्
एतैः सिद्धं यथालाभं तैलमभ्यञ्जनैस्त्रिभिः ९३
निहन्त्युदीर्णश्वयथुं जन्तोर्वातकफोत्तरम्
उभे हरिद्रे मञ्जिष्ठा यष्टीमधुकचन्दनम् ९४
पिप्पल्यो बालकं चैव पीतद्रुः पद्मकं तथा
मांस्युशीरं सतगरमेलाऽगरु कुटन्नटम् ९५
श्रीवेष्टकं सर्जरसं मूर्वाकुष्ठप्रियङ्गवः
एतैस्तैलं विपक्तव्यमभ्यङ्गाच्छोथनाशनम् ९६
क्रियैषा दोषजस्योक्ताऽऽगन्तोर्वैसर्पवत् क्रिया
अग्निसादो ज्वरस्तृष्णा कार्श्यारुचितमोभ्रमाः ९७
श्वासव्रणातिसाराश्च स्वैश्चिकित्स्या उपद्रवाः ९८
इति ह स्माह भगवान् कश्यपः
इति खिलेषु श्वयथुचिकित्साध्यायः सप्तदशः १७

अथ शूलचिकित्साध्यायोऽष्टादशः
अथातः शूलचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
क्षोभात्त्रासाध्ययनातिप्रसङ्गात्
क्षुत्काले चात्यम्भसः पानदोषात्
वेगानां वा निग्रहाद्यानयानादामाद्भ्रंशसाद्रूक्षधान्याशनाद्वा ३
क्रुद्धो वायुः कर्तनायामतोदैः
कम्पाध्मानैराविशन् कुक्षिदेशे ।
शूलं पित्तेनान्वितः श्लेष्मणा वा
द्वाभ्यां वाऽपि प्रेर्यमाणः करोति ४
वाताच्छूलं क्षुधितस्योग्ररूपं
घोरैर्वेगैर्यन्निरुच्छ्वासकर्तृ । विद्याद्भुक्ते जीर्यति स्वेददाह तृष्णार्तस्य प्रततं पित्तशूलम् ५
मन्दाबाधं स्तिमितं भुक्तमात्रे
कफोद्रेकात् स्तम्भहृल्लासकर्तृ ।
विद्याच्छूलं सन्निपाताच्चतुर्थं
सर्वैर्लिङ्गैर्दुःसहं तत्त्वसाध्यम् ६
वायुः प्रोक्तो बलवानुग्रवेगः
सोऽयं क्रुद्धो देहमाश्वेव हन्ति ।
तस्मादादावर्दितं वातशूलेनाऽभ्यक्ताङ्गं स्वेदयेदाशु वैद्यः ७
वातघ्नोष्णैरवगाहोपनाहैः
पिण्डस्वेदैरुष्णकैः पायसैर्वा ।
एणादीनां जाङ्गलानां रसांश्च
लावादीनां चान्वितान् सैन्धवेन ८
स्निग्धोष्णाम्लान् शीलयेद्वातशूली
वातघ्नैर्वा साधितं क्षीरमुष्णम् ९
तैलं शुक्तं मस्तु सौवीरकं च
पिबेच्छूली सह सौवर्चलेन
श्यामां शुण्ठीं सैन्धवं तुम्बुरूणि
हिङ्गु क्षारं यावशूकं विडं च १०
श्लक्ष्णं पिष्ट्वा प्रवराह्वं शटि च
पेयं कोष्णं चाम्भसा वातशूले
क्षीरं पीत्वा शीतलं पित्तशूली
वमेत् कामं शर्करावारिणा वा ११
शूलार्तं वा शङ्खकुन्देन्दुगौरैर्मुक्ताहारैः संस्पृशेत् पङ्कजैर्वा ।
रौप्यैः कांस्यैः स्फाटिकैः काञ्चनैर्वा
तोयासिक्तैर्भाजनैश्चन्द्रशीतैः १२
यस्मिञ्छूलं संस्पृशेत्तं प्रदेशं
भूयो भूयः कदलीनां दलैर्वा ।
मृद्वीं शय्यां विसिनीपत्रभक्तिन्यासोपेतां चन्दनाम्बुप्रसिक्ताम् १३
शीते वेश्मन्यहतां सोपधानां
सेवेतान्तःप्रस्फुरत्पद्मपत्राम्
हृद्याः शीता मधुरा भेदनीयाः
पेयाः सिद्धाः शीतला वा कषायाः १४
क्षौद्रोन्मिश्राः स्वादवः पित्तशूलस्योच्छेदार्थं शर्कराचूर्णयुक्ताः ।
सामे सोत्क्लेशे भोजने वा विदग्धे
संशुद्ध्यर्थं सैन्धवोष्णोदकेन १५
कुर्यात् कामं वमनं श्लेष्मशूले
वान्तं चैनं लङ्घितं सुप्रतान्तम्
क्षारोपेतं पाययेत् पाचनीयं
पिप्पल्यादिक्वाथमुष्णं सहिङ्गु १६
तत्सिद्धां वा भोजयेत्तं यवागूं
संसृष्टान्नः क्रमशो वा निषेवेत्
चूर्णं सर्पिर्वटकक्षारबस्तीन्
कल्कक्वाथान् भागशः कल्पशश्च १७
शूलाटोपानाहगुल्मामयघ्नं
सिद्धं प्रोक्तमृषिभिर्ध्यानयोगात् १८
हिङ्गुपाठात्रिकटुकक्षारसैन्धवचित्रकान्
हपुषामभयां चव्यमजाजीधान्यपुष्करान् १९
अम्लवेतसवृक्षाम्लयवानीदाडिमानि च
शटिं सौवर्चलं चैव सूक्ष्मचूर्णानि कारयेत् २०
एतद्धि चूर्णमुष्णाम्बुदधिमस्तुप्तुरासवैः
पीतमानाहहृद्बस्तिशूलगुल्मार्तिनाशनम् २१
प्लीहार्शोग्रहणीदोषकासश्वासानुरोग्रहम्
मातुलुङ्गरसैर्युक्तं हन्ति मूत्रग्रहं तथा २२
अम्लवेतसवृक्षाम्लयवानीक्षारचित्रकम्
हिङ्गुचव्योषकशटीजीवन्तीत्रिकटूनि च २३
पिप्पलीं पिप्पलीमूलं बदरं शिरिवारिकाम्
नागदन्तीं च बिल्वं च तथा लवणपञ्चकम् २४
समभागानि मतिमान् सूक्ष्मचूर्णानि कारयेत्
रसेन मातुलुङ्गस्य वटकान् कारयेत्ततः २५
गुल्मोदावर्तशूलेषु पिबेदेतान्महागुणान्
सुखोष्णवारिमद्याम्लैर्मूत्रकृच्छ्रे तथैव च २६
हृद्रोगेषु गुदभ्रंशमेढ्रबस्तिरुजासु च
विडदाडिमहिङ्गूनि सैन्धवं मरिचं तथा २७
मातुलुङ्गरसैर्युक्तं शूलाटोपहरं पिबेत्
एतानि व्योषपृथ्वीकाचव्यचित्रकसैन्धवैः २८
साजाजिपिप्पलीमूलयुतैर्वा पथ्यमुत्तमम्
सौवर्चलवचाहिङ्गुत्र्यूषणं सहरीतकम् २९
सुरेशयवसंयुक्तं हन्ति शूलबलं क्षणात्
पलिकान् घृतसंयुक्तान् सक्तुसैन्धवचित्रकान् ३०
वचां चैवैकतः कृत्वा कटाहे प्रदहेद्भिषक्
प्रदीप्तमवतार्याथ तं क्षारं मात्रया पिबेत् ३१
तण्डुलोदकसंयुक्तं शूलगुल्मरुजापहम्
पञ्चमूलयवक्वाथयुक्तमेरण्डजं पिबेत् ३२
तैलं वाय्वात्मके शूले द्राक्षाक्वाथयुतं तथा
सशर्करं पित्तशूले पित्तगुल्मे प्लिहेषु च ३३
दाडिमव्योषहपुषापृथ्वीकाक्षारचित्रकैः
साजाजिपिप्पलीमूलचव्यदीप्यकसैन्धवैः ३४
समांशैर्विपचेत् सर्पिः सक्षीरं मृदुनाऽग्निना
कोलमूलकयूषेण संयुक्तं वातगुल्मनुत् ३५
शूलानाहश्वासकासविषमज्वरहृद्ग्रहान्
अरुचिग्रहणीदोषशूलपाण्ड्वामयांस्तथा ३६
योनिदोषांश्च हन्त्येतदमृतप्रतिमं घृतम्
बिल्वकुष्ठयवक्षारवचाचित्रकसैन्धवैः ३७
एनीयकविडव्योषतिन्तिडीकाम्लवेतसैः
हिङ्गुसौवर्चलाजातिदाडिमेन्द्रयवैस्तथा ३८
पुनर्नवाकारवीभ्यां हंसपद्या च साधितम्
घृतं चतुर्गुणे दध्नि शुक्तकातिकसंयुतम् ३९
द्विपञ्चमूलकोलानां कुलत्थानां रसेन च
शूलगुल्मानिलोत्कम्पग्रन्थीनर्दितहृद्ग्रहान् ४०
वातकुण्डलिकावर्तमेतत् सर्पिरपोहति
सौवर्चलयवक्षारवचात्र्यूषणचित्रकैः ४१
हरीतकीविडङ्गाभ्यां पयसा चैव साधितम्
संयुक्तं भद्ररोहिण्या दशाङ्गं शूलनुद् घृतम् ४२
प्लीहगुल्मक्रिमिश्वासकासहिक्काविनाशनम्
शतपुष्पावचाकुष्ठपिप्पलीफलसैन्धवैः ४३
सर्षपद्वयसंयुक्तां फलवति प्रयोजयेत्
एषाऽऽध्मानमुदावर्तं शूलं चाशु व्यपोहति ४४
उष्णोदकस्नेहयुक्तं मूत्रक्षौद्राम्लकाञ्जिकैः
संयोज्यैकत्र मतिमानेभिश्चूर्णैः समावपेत् ४५
शताह्वापिप्पलीकुष्ठवचानां देवदारुणः
पूतीकस्य हरेणूनां बिल्वानां मदनस्य च ४६
शूलानाहविबन्धघ्नमिमं बस्तिं प्रदापयेत्
आस्थापनप्रमाणेन स्निग्धस्विन्नस्य देहिनः ४७
संरुद्धे वायुना मूत्रे प्रतिस्तब्धे तथोदरे
पुरीषे च विमार्गस्थे चूर्णबस्तिरयं हितः ४८
वारिद्रोणे पलान्यष्टौ पचेद्गन्धपलाशकात्
ततः कषायं तु वचापिप्पलीफलसैन्धवैः ४९
संयुक्तं क्षौद्रतैलाभ्यां शताह्वाकुडवेन च
दद्यान्निरूहमानाहपार्श्वहृद्बस्तिशूलिनाम् ५०
बलवर्णाग्निजननं श्रोणिगुल्मरुजापहम्
कुलत्थयवकोलानि पञ्चमूलद्वयं तथा ५१
क्वाथयेत्तं जलद्रोणे ततस्तं तैलसंयुतम्
कषायं पिप्पलीकुष्ठवचेन्द्रयवसर्षपैः ५२
हरेणुकासैन्धवाभ्यां तगरेण घृतेन वा
तन्निरूहमुदावर्तकुष्ठगुल्मोपशान्तये ५३
दद्याच्चैवेदमाश्वेव बलवर्णाग्निवर्धनम्
तैलपक्वाशनं धीरः कल्कपेष्यैर्विपाचितम् ५४
पिप्पलीबिल्वमधुकशताह्वाफलचित्रकैः
देवदारुवचाकुष्ठपुष्कराख्यैश्च संयुतम् ५५
समांशैद्विगुणक्षीरं तदुदावर्तिनां हितम्
शूलानाहगुदभ्रं शवर्चोमूत्रविनिग्रहान् ५६
कट्यूरुपृष्ठशूलार्शोमूढवातांश्च नाशयेत्
गुदशूलं तथोत्थानं बहुशः सप्रवाहिकम् ५७
कुष्ठं विडङ्गातिविषादारुदार्वीहरेणुकाः
एलाऽजमोदा ह्रीबेरं नागरं पुष्करं शटी ५८
स्थिरा सकट्फला रास्ना पिप्पल्यश्चव्यचित्रकम्
श्यामा शताह्वा यष्ट्याह्वा सैन्धवं मदनं वचा ५९
निचुलं नीलिनी दन्ती बिल्वं चाक्षार्धसंश्रितैः
गन्धर्वतैलं तैलं वा पचेत्तदनुवासनम् ६०
गुल्माढ्यवातशूलार्शःप्लीहोदावर्तवृद्धिनुत्
सकुण्डलं मूत्रकृच्छ्रमानाहं च व्यपोहति ६१
शतार्धं दशमूलस्य मदनानां तथाऽऽढकम्
पूतीकदन्तीसुरभीश्वदंष्ट्राणां च बुद्धिमान् ६२
पलानि विंशतिं दद्यादेकैकस्य तमेकतः
यवकोलकुलत्थानां प्रस्थयुक्तं जलोन्मने ६३
क्वाथयेत् पादशेषं तु तस्मिंस्तैलाढकं पचेत्
गोमूत्रार्धाढकं यवपिप्पलीसैन्धवत्रिकम् ६४
--- यवशताह्वानां --- वलीनकैः
कुष्ठवक्त्रस्य चायुक्तमेतत् स्यादनुवासनम् ६५
ऊरुस्तम्भकटीपृष्ठगुदवंक्षणशूलिषु
प्लीहोदावर्तगुल्मेषु फलतैलं प्रयोजयेत् ६६
इति शूलचिकित्सा ते विस्तरेण प्रकीर्तिता
सिद्धैः प्रयोगैर्विविधैः प्राणिनां हितकाम्यया ६७
इति ह स्माह भगवान् कश्यपः
इति खिलेषु शूलचिकित्साध्यायोऽष्टादशः १८

अथाष्टज्वरचिकित्सितोत्तराध्याय एकोनविंशतितमः
अथातोऽष्टज्वरचिकित्सितोत्तरमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
एकद्वित्रिसमुत्थानां निदानं प्रागुदाहृतम्
चिकित्सां संप्रवक्ष्यामि सन्निपातस्य हेतुवत् ३
अहिता --- ।
----- गुडसंयुतः
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा
एषां तु मूलं निष्क्वाथ्य पिबेत् सक्षारसैन्धवम्

समङ्गी मधुकं मुस्तं भद्रदार्वथ शर्करा
वातज्वरे प्रयोक्तव्यं गुडूच्या सह पानकम्

विदारिगन्धा ह्येरण्डं बृहत्यौ पृश्निपर्णिका
भद्रदारुसमायुक्तो वातज्वरहरो मतः

विदारिगन्धा कलशी तथा गन्धर्वहस्तकः
मधुकं भद्रदारुश्च क्वाथः शर्करया युतः

वातज्वरहरो देयो मातुलुङ्गरसाप्लुतः
एरण्डं वरुणं चैव बृहत्यौ मधुकं तथा

वातज्वरहरः क्वाथो रास्नाकल्कसमायुतः
द्विपञ्चमूलनिष्क्वाथः कोष्णो वा यदि वा हिमः
रास्नाकल्कसमायुक्तो वातज्वरहितो मतः

रास्नासरलदेवाह्वयष्टीमधुकसंयुतः
पेयो विदारिगन्धाद्यो निष्क्वाथो वा ससैन्धवः

पञ्चमुष्टिकयूषेण युक्ताम्ललवणेन च
भुञ्जीत भोजनं काले जाङ्गलानां रसेन च
पिबेदन्तरपानं च बिल्वमूलशृतं जलम्
द्वे पञ्चमूले वर्चीवमेकेषीकां पुनर्नवाम्

सहस्रवीर्यां नादेयीं शतवीर्यां शतावरीम्
विश्वदेवां शुकनसां सहदेवां सनाकुलीम्

रास्नाजगन्धे पूतीकं देवाह्वं देवताडकम्
बले द्वे हंसपादीं च क्वाथोत्थीमुपलङ्कशाम्

कृष्णागरुं व्याघ्रनखं शतपुष्पां पलङ्कषाम्
कायस्थां च वयस्थां च चोरकं जटिलां जटाम्
अपेतराक्षसीं यक्षां गुहाह्वामुष्ट्रलोमिकाम्
हरेणुकां हैमवतीं कैटर्यं सुवहां वचाम्

वृश्चिकालीं च भार्गीं च --- स्या शिग्रुं च कल्कशः
संहृत्य तैलं विपचेद्वातज्वरनिबर्हणम्

पुराणसर्पिःसंस्कारो विधेयो जाङ्गलो रसः
दशमूलकुलत्थानां यवानां कुडवस्य च

कुलीरशृङ्ग्या रास्नायाः शटीपुष्करमूलयोः
भार्ग्या दुरालभायाश्च निर्यूहः साधु साधितः

तेनास्य विगुणो वायुर्ज्वरश्चाशु प्रशाम्यति
वातश्लेष्मसमुत्थस्य व्याख्यास्यामि चिकित्सतम्

बृहत्यौ पुष्करं दारु पिप्पल्यो नागरं शटी
क्वाथमेषां पिबेदुष्णमादौ दोषविपाचनम्

द्विपञ्चमूलं भार्गीं च कर्कटाख्यां दुरालभाम्
नागरं पिप्पलीं दारु पिबेद्वा सैन्धवान्वितम्

पटोलं धान्यकं मुस्ता मूर्वा पाठा निदिग्धिका
कषाय एषां पातव्यः षडङ्गो मधुसंयुतः

त्रिफला जीवनीयानि पिप्पलीमूलशर्करे
सिद्धो ग्रहघ्नसंयुक्तो वातश्लेष्मज्वरापहः

नागरं दशमूलं च कट्वङ्गं दारुकद्वयम्
पिप्पल्यस्त्रिफला भार्गी कर्कटाख्या दुरालभा

वातश्लेष्मज्वरे पेयं सुखोष्णं सैन्धवान्वितम्
तिक्तकं कटुरोहिण्याः कल्कमक्षसमं भिषक्

हिङ्गुसैन्धवसंसृष्टं पिबेत् क्षिप्रं सुखाम्बुना
कफजेऽनिलजे चैव ज्वरे पीतं सुखावहम्

महतः पञ्चमूलस्य क्वाथः श्लैष्मिकवातिके
नागरामरदारुभ्यां शृतमुष्णं पिबेज्जलम्

बालमूलकयूषेण जाङ्गलानां रसेन वा
कटूष्णद्रव्ययुक्तेन मन्दस्निग्धेन भोजयेत्

लाक्षाप्रियङ्गुमञ्जिष्टायष्टिकोशीरबालकैः
चन्दनागरुबाह्लीकश्रीवेष्टककुटन्नटैः

मूर्वाशताह्वासरलसालनिर्यासरोचकैः
क्षीरद्रोणेऽर्धपलिकैर्भिषक्तैलाढकं पचेत्
तत् साधु सिद्धमाहृत्य स्वनुगुप्तं निधापयेत्
लाक्षादिकमिदं तैल ---
पिपल्योऽतिविषा मुस्ता स्थिराढ्या सदुरालभा

सचन्दनयवोशीरसारिवाः सनिदिग्धिकाः
रोहिण्यामलकं बिल्वं त्रायमाणातिसाधितम्

घृतं हन्ति शिरः शूलं कासं जीर्णज्वरं क्षयम्
वमनं कफरोगाणां पैत्तिकानां विरेचनम्

शोधनं शमनं कार्यं कृशे शमनशोधनम्
मण्डादिरिष्यते सामे ववागूर्वातजे तथा

विषौषधिप्रजातानां पित्तघ्नीं कारयेत् क्रियाम्
सन्निपातज्वरस्यातः प्रवक्ष्यामि चिकित्सितम्

स सर्वलक्षणोऽसाध्यः कृच्छ्रसाध्योऽल्पलक्षणः
बलहीनस्य नष्टाग्नेः सर्वथा नैव सिध्यति

किमङ्ग बालकानां तु क्षीणधातुबलौजसाम्
तथाऽपि यत्नमातिष्ठेदानृशंस्याद्भिषग्वरः

सन्निपातेषु दोषेषु यो दोषो बलवान् भवेत्
तमेवादौ प्रशमयेच्छेषं दोषमतः परम्

अल्पान्तरबलेष्वेषु दोषेषु मतिमान् भिषक्
श्लेष्माणमादौ शमयेत् स ह्येषामनुबन्धकृत्

गुरुत्वात् कृच्छ्रपाकित्वादूर्ध्वकायाश्रयात्तथा
तस्माज्ज्वरे यदुद्दिष्टं वातपित्तकफात्मके

तस्मात्तस्यामवस्थायां तत्तत् कार्यं चिकित्सितम्
पिप्पल्यादिवचादारुवयस्थासरलान्वितः

पेयः कफोत्तरे सामे सहिङ्गुक्षारसैन्धवः
दोषास्तेनाशु पच्यन्ते विबन्धश्चोपशाम्यति

नागरं कट्फलं धान्यं मुस्तं पर्पटकं वचा
देवदार्वभया भार्गी भूतीकं दशमं भवेत्

शृतं सैन्धवहिङ्गुभ्यां पेयं वातकफोत्तरे
ऊर्ध्वजत्र्वङ्गरोगाणां ज्वरितानां प्रशस्यते

शटीपौष्करपिप्पल्यो बृहती कण्टकारिका
शुण्ठी कर्कटकी भार्गी दुरालम्भा यवानिका

शूलानाहविबन्धघ्नं शट्याद्यं कफवातनुत्
विडङ्गातिविषे भार्गी पौष्करं चित्रकं शटी

शार्ङ्गेष्टा पिप्पली शुण्ठी पिबेद्वातकफोत्तरे
दुरालभावचादारुपिप्पलीमूलनागरम्

--- पुष्करं शटी ।
क्वाथं सलवणं देयं हिङ्गुक्षारान्वितं पिबेत्

सन्निपाते विबन्धे च वातश्लेष्मोत्तरे ज्वरे
जीवकर्षभकौ शृङ्गी मूलं पुष्करजं शटी

सन्निपातेऽनिलकफे कासे चैषां प्रशस्यते
बृहत्यौ पुष्करं दारु पिप्पल्यो नागरं शटी

क्वाथमेषां पिबेदुष्णमादौ दोषविपाचनम्
दुरालभा वचा दारु पिप्पली भद्ररोहिणी

महौषधं कर्कटकी बृहती कण्टकारिका
क्वाथः सलवणः पेयः सन्निपातज्वरापहः

देवदारु वचा मुस्तं कैरातं कटुरोहिणी
गुडूची नागरं क्वाथः सन्निपातज्वरापहः

उरोग्रहे कण्ठरोगे मुखरोगे च शस्यते
त्रिफला रोहिणी निम्बं पटोलं कटुकत्रयम्

पाठा गुडूची वेताग्रं सप्तपर्णः सवत्सकः
किराततिक्तकं मुस्ता वचा चेत्येकतः शृतम्

कफोत्तरं निहन्त्येतत् पानादग्निं च दीपयेत्
पटोलमुस्तमधुकरोहिणीक्वथितं जलम्

योगमेतं त्रिफलया युक्तं च सुरदारुणा
पाययेन्मधुनाऽऽलोड्य सन्निपाते कफोत्तरे

आरग्वधवचानिम्बपटोलोशीरवत्सकम्
शार्ङ्गेष्टाऽतिविषा मूर्वा त्रिफला सदुरालभा

भद्रमुस्ता बला पाठा मधुकं भद्ररोहिणी
कषाय एष शमयेज्ज्वरमाशु त्रिदोषजम्

जाड्यं सशोफमाध्मानं गुरुत्वं चापकर्षति
नागरं दशमूलं च कट्वङ्गं दा ---
--- शिशुं प्राशयेयुः कथञ्चन

नवसद्यःक्षतानां तद् व्रणानां रोहणं भवेत्
क्षतजं प्राप्य हि विषं दर्शयत्यात्मनो बलम्

प्रसादयति तच्चाशु सन्धत्ते च मधु व्रणम्
तस्मात् स्वभावतो नॄणां सहोष्णेनाशितं मधु

विरुद्धत्वात्त्रिभिर्दोषैर्जीवितान्ताय कल्पते
तुल्यत्वादुष्णयोगाच्च यथा च मधुसर्पिषी

इति ह स्माह भगवान् कश्यपः
इति खिलेषु मधुविशेषणीयो नामैकविंशतितमोऽध्यायः २१

अथ क्षीरगुणविशेषीयाध्यायो द्वाविंशतितमः
अथातः क्षीरगुणविशेषीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
गोर्महिष्या अजायाश्च नार्या उष्ट्र्या अवेः स्त्रियाः
तुरङ्ग्या इति चोक्तानि पूर्वमेव पयांसि तु ३
भूयश्च गुणवैशेष्यात् क्षीराण्यष्टौ निबोध मे
प्रजापतेः पुरेच्छातः प्रजानां प्राणधारणम् ४
पञ्चभूतगुणं चापि भूरुहां जन्म कथ्यते
वनस्पतीनां वृक्षाणां वानस्पत्यगणस्य च ५
वीरुधामोषधीनां च गुल्मानामपि जीवक
विविधानां तृणानां च सस्यानां चैव देहिनाम् ६
एवमादिगणो यस्तु भूमेः सार उदाहृतः
सोमस्य वायुतेजोपां बुद्धिश्चेति प्रजापतेः

तदाहारगुणोत्पन्नं गवादीनामतः परम्
यथा सर्वौषधीसारं क्षीरोदे मथिते पुरा

संभूतममृतं दिव्यममरा येन देवताः
तथा सर्वौषधीसारं गवादीनां तु कुक्षिषु

क्षीरमुत्पद्यते तस्मात् कारणादमृतोपमम्
जरायुजानां भूतानां विशेषेण तु जीवनम्

क्षीरं सात्म्यं हि बालानां क्षीरं जीवनमुच्यते
क्षीरं पुष्टिकरं वृद्धिकरं बलविवर्धनम्

क्षीरमोजस्करं पुंसां क्षीरं प्राणगुणावहम्
गर्भधानकरं क्षीरं बन्ध्यानामपि योषिताम्

क्षीणानां च कृशानां च शोफिनां राजयक्ष्मिणाम्
व्यायामश्रमनित्यानां स्त्रीनित्यानां च देहिनाम्

संक्षीणरेतसां चापि गर्भस्रावे च दारुणे
रक्तपित्तामयेऽर्शस्सु मदक्षीणे ज्वरे तथा

गर्भशोषे च वातानां क्षीरं परममुच्यते
सामान्यादिह दुग्धानां पुरा चोक्ता गुणादयः

पृथक्त्वेन च वक्ष्यामि गवादीनां विशेषणम्
तृणगुल्मौषधीनां च अग्राग्रं पय एव हि

खादन्ति मधुरप्रायं लवणं च विशेषतः
तत्सारगुणवैशेष्याद्गवां क्षीरं प्रशस्यते

मधुरो हि रसः श्रेष्ठो रसानां परिकीर्तितः
तन्नित्यं वा गवां क्षीरं मधुरं बृंहणं मतम्

औषधाग्रातिभक्षत्वाद्विरेचयति तत् पयः
एतस्मात् कारणादुक्तं गवां क्षीरं रसायनम्

एष वैशेषिकगुणो गोक्षीरस्य प्रकीर्तितः
क्रिमिकीटपतङ्गैश्च सर्पैरपि तृणाश्रितैः

सह नानातृणं हीनं महिष्यो भक्षयन्ति हि
अवगाहन्ति तोयानि गर्भाणि च विशेषतः

एतस्मात् कारणात्तासां क्षीरं कषायशीतलम्
शीतत्वाद्दुर्जरं स्निग्धं गुरुदाहनिबर्हणम्

गवां क्षीराच्चाल्पा गुणं महिषीणां पयो मतम्
अजानामल्पकायत्वात् कटुतिक्तानिबर्हणात्

अल्पत्वाच्च बलित्वाच्च लघु दोषहरं पयः
अल्पत्वात्तद्घनं क्षीरं घनत्वादपि बृंहणम्

शीतं संग्राहि मधुरं बल्यं वातानुलोमनम्
महाशयतया श्याममधुरप्रायसेवनात्

बहुत्वाच्च घनत्वाच्च बल्यं पुष्टिकरं पयः
गुरु वृष्यं च निर्दिष्टं मधुरं च विशेषतः

अल्पाहारतयोष्ट्रीणां प्रियं चाऽऽलवणं ---
---
अतीते प्रथमे मासि प्रावृट्प्रोष्ठपदागमे

दिव्यं खात् पतितं तोयं नाम्ना हंसोदकं शिवम्
आपूतं सूर्यतेजोभिरगस्त्येनाऽविषीकृतम्

--- ति

स्निग्धं वृष्यं च बल्यं च हेमन्ते गुरु वर्षति
शिशिरे वर्षति जलं कफवातप्रकोपनम्

वसन्ते वर्षति जलं कषायस्वादुरूक्षणम्
तत्र ---

--- पतितं क्षितौ ।
तत् पात्रोपेक्षितवति पात्रदोषेण तत्त्वतः

नानारसत्वं भजते तोयं संप्राप्य भूतलम्
सर्वाम्बु सद्यःपतितमप्रशस्तमनार्तवम्

त --- ।
---रूदकम्

कफानिलकरं पित्ते हितं शीतातिकारकम्
रक्तापित्तहरं रूक्षमवश्यायोदकं लघु

एतच्चतुर्विधं प्रोक्तं तत्त्वेनाम्भोऽन्तरिक्षजम् ।
सहृ ---

--- श्लेष्मप्रकोपनाः ।
क्षारोदाः प्राक्सृता नद्यः कफघ्नाः पित्तकोपनाः

लघूदकाः प्रतीचीगा वातलाः कफनाशनाः
क्षारं ताभ्यस्तु सामुद्रं मधुरं गुरु पच्यते

--- ।
---- लवणं जलम्

साभिष्यन्दि स्वादुपाकि शीतं पित्तघ्नमौद्भिदम्
सत्त्वक्लेदमलाद्दुष्टं पल्वलाम्बु गुरु स्मृतम्

कषायमधुरं स्वादु विमलं सारसं जलम्
कौपं पि ---

---- ।
इत्यष्टधा जलं प्रोक्तं भूमिजं वृद्धजीवक

लघु प्रकामं सस्नेहं शीतं सर्वरसान्वितम्
तृष्णापहं मनोह्लादि श्लेष्मघ्नं क्रिमिनाशनम्

रक्षोघ्नं जीवनं वृष्यं मूर्च्छाघ्नं ---

--- सूक्ष्मप्राणिसमाकुलम् ।
बहलं कलुषं चैव तथा पिच्छिलमाविलम्
ग्रामक्षेत्ररसैर्दुष्टं विषमूलोपदूषितम्

शकुन्तक्रिमिशैवालयुक्तमत्युष्णचिक्कणम्
---

--- गुर्विणीषु च वर्जयेत् ।
धात्रीणां च विशेषेण स्वस्थानां रोगिणामपि

पूर्वोक्तगुणबाहुल्यात् पानीयं सेव्यमिष्यते
विपाके मधुरं शैत्याद्वारि पित्तघ्नमुच्यते

--- ।
---- णशीतमुष्णमथापि वा ।
भक्तस्य पूर्वं पीतं वा कृशत्वं कुरुते शिशोः

भक्तस्य मध्ये पीतं तन्मध्यमत्वं नियच्छति
भक्तस्योपरि पीतं तु पीनत्वं संप्रयच्छति

--- निष्क्वाथोष्णाम्बु पाचनम्

श्रमे भेदेषु तृष्णासु मूर्च्छास्वतिपिपासिते
निष्क्वाथलाघवादम्बु सलिलं तप्तशीतलम्

निर्दिशेत् सर्वदोषघ्नं बालानां --- ।
--- मुष्णोदकं शिशोः ।
रक्तपित्तामयं त्यक्त्वा प्रायो वातकफात्मके

रोगे शिशुर्वा धात्री वा गुर्विणी वोष्णकं पिबेत्
क्वचिद्रोगविशेषेण तप्तशीतं हितं बहु

अथान्तरिक्षं शरदि प्रशस्तं
संतप्यमानं च रवेर्मयूखैः ।
पिबेत्सरो वाऽथ नदीं तडागं
हेमन्तकाले शिशिरे च बालः

वाप्यौद्भिदं प्रास्रवणं हि तोयं
ग्रीष्मे प्रशस्तं कुसुमागमे च । वर्षासु कौपं सलिलं प्रशस्त मारोग्यहेतोरथ तप्तशीतलम्

इति ह स्माह भगवान् कश्यपः
इति खिलेषु पानीयगुणविशेषीयाध्यायः २३

अथ मांसगुणविशेषीयाध्यायश्चतुर्विंशः
अथातो मांसगुणविशेषीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
मांसं वृष्यं च बल्यं च मांसं प्राणविवर्धनम्
मांसं पुष्टिकरं वृद्धकृशानां मांसवर्धनम् ३
क्षयिणां क्षीणदेहानां मांसमेव परायणम्
न मांसतुल्यमन्यत्त्वारोग्यवीर्यविवर्धनम् ४
नराणां क्षीणशुक्राणां मांसं रेतोभिवर्धनम्
बन्ध्यानामपि नारीणां कुमाराणां तथैव च ५
गर्भाधानकरं मांसमन्ते पुष्टिकरं तथा
गर्भिणीनां च नारीणां वातप्रशमनं परम् ६
स्त्रीणां प्रसवकाले तु मांस --- मेव च
गर्भकाले च बालानां सरसं परमौषधम् ७
स्त्रीप्रियाणां तथा पुंसां नित्यव्यायामसेविनाम्
क्षीणानां यक्ष्मिणां चैव ज्वरक्षीणाश्च ये नराः ८
वाताहतास्तु ये सत्त्वास्तेषां मांसरसो हितः
सुसंस्कृतो मांसरसो बिडजीरकहिङ्गुभिः ९
स्नेहे सिद्धश्च पयसा विशेषाद्वातिके स्मृतः
वातपित्तोत्तरे पुंभिः शर्करामधुरीकृतः १०
स्निग्धो मांसरसः पेयस्तथा रक्तामयार्दितैः
क्षीणसिद्धो मांसरसो मधुरो लवणोऽपि वा ११
बालानां क्षीणदेहानां गर्भकाले च शस्यते
हितं च बालकामानां मांसस्वरससाधितः १२
सुसिद्धं लवणे सिद्धं मांसं कटुकरोचनम्
कायाग्निदीपनं चैव रसा --- पो हितः १३
वेसवारः समधुरो लावणो वाऽपि रोचनः
पिष्टचूर्णितपक्वं वा प्रकु---वापिवान्नतत् १४
शूल्यमङ्गारतप्तं च मांसं श्लेष्मामये हितम्
साम्लः सलवणश्चैव
हितस्तस्मात्तु जीवक १५
पिष्टं वा खण्डशो वाऽपि मांसं पुटकसाधितम्
सहिङ्गुसैन्धवबिडैर्मरिचाम्लसजीरकैः १६
साङ्कुरैर्धान्यकैश्चैव शृङ्गबेरार्द्रकैरपि
पलाशे भूस्तृणोपेतं मांसं सिद्धं प्रयोजयेत् १७
अथ मांसरसं सर्पिः
सिद्धं सक्षीरमिष्यते ।
रसपाकविशेषेण तद्बल्यं
तद्रसायनम् १८
अतः परं तु मांसानां रसपाकविशेषणम्
वक्ष्ये गुणविशेषं च वृद्धजीवक तच्छृणु १९
कफपित्तकरं मांसं गवां वाते हितं गुरु
विदाहि बृंहणं चैव खङ्गमांसं च तत्समम् २०
न्यङ्कूनां विहितं वाते कफपित्तहरं लघु
सक्षारं दान्तिनं मांसं बृंहणं कटुतिक्तकम् २१
वीर्येणोष्णं च तद्विद्यात् कफपित्तं करोति च
गोकर्णमांसं तत्तुल्यं गवयस्य रुरोरपि २२
रसे पाके च मधुरं वातपित्तहरं गुरु
उष्णं चैव च्छागमांसमाविकं चापि तद्गुणम् २३
वृष्यं तु मांसं वाराहं मधुरं गुरु पच्यते
तद्गुणं माहिषं विद्धि शौकरं स्यात्ततो गुरु २४
गर्दभस्य तथाऽश्वस्य मांसं यत् पृषतस्य च
कफघ्नं वातलं रूक्षं कटुतिक्ताह्वयं लघु २५
श्वदंष्ट्रो वृषदंष्ट्रश्च ऋष्यः शरभ एव च
वातघ्ना उष्णवीर्याश्च रसतः कटुकान्वयाः २६
गोलाङ्गूला वानराश्च तत्तुल्या मधुरोत्तराः
वृकर्क्षकोकजम्बूकाः सिंहा व्याघ्रतरक्षवः २७
स्वाद्यमांसास्त्विमे वृष्या उष्णाः पित्तविवर्धनाः
कषायतिक्ता रसतो वातघ्नाः कटुपाकिनः २८
नकुलो मूषिकः श्वाविद्बभ्रुः शल्यक एव च
कषायमधुराः शीता वृष्या गोधाश्च तद्गणाः २९
ये स्युः शशकुरङ्गाद्याः सृमरश्चमराश्च ये
लघवो---ष्णाः पित्तला नातिबृंहणाः ३०
बार्हिणं मधुरोष्णं तु विषघ्नं गुरु बृंहणम्
तुल्यं कौक्कुटजं वन्यं तत्तुल्यं ग्राम्यकौक्कुटम् ३१
विष्किराः क्रौञ्चवर्तीका मयूरेण समाः स्मृताः
तस्माल्लघुस्तु वर्तीरो वर्तीका लघवो लघुः ३२
तित्तिरिस्तु कटुः पाके सोष्णस्तु कफवातजित्
कपिञ्जलश्चकोरश्च उपचक्रश्च तत्समाः ३३
लोहपृष्ठो रक्तपृष्ठो रक्ताक्षो जीवजीवकः
तथाऽन्ये हिमवज्जाता मधुरा वृष्यबृंहणाः ३४
गुरवः शीतलाः पाके कषाया रसतस्तथा
खञ्जरीटो वपुक्कारः क्रकरो दीर्घपुंसकः ३५
कोयष्टिकः कपोतश्च रक्तपादो वसन्तकः
भृङ्गराजोऽथ हारीतः कोकिलः शुकसारिकाः ३६
एते चान्ये च प्रच्छदा शीतमारुतकोपकाः
कषायमधुराः स्वादे कफघ्नाः कटुपाकिनः ३७
गृध्रः काकः श्येनचाषौ भासोलूककुलिङ्गकाः
शशन्ता मूषिकाः कोडास्तथाऽन्ये मांसभोजनाः ३८
प्रसहास्ते तु मधुरा वातघ्ना कटुपाकिनः
बृंहणाश्चोष्णवीर्याश्च सततं शोषिणां हिताः ३९
प्लवा बका बलाकाश्च तीदार्यः कुररास्तथा
--- रक्ताक्षा मल्लिकाक्षाः सवारटाः ४०
नन्दीमुखा मेघरावाः शराख्या जलकुक्कुटाः
समुद्रकाकाः कुहरा गोटुभा गण्डमालकाः ४१
कारण्डवाः सजोमूतास्तथाऽन्ये जलचारिणः
पाके च मधुरा वृष्या गुरवश्च --- ४२
--- ४३
हंसस्तु गुरुरत्यर्थं वृष्योऽथ कफपित्तलः
शरारिः पाकहंसश्च चक्रवाकस्तथैव च ४४
जालपादास्तथाऽन्ये च हंसतुल्या गुणैः स्मृताः
क्रौञ्चः कुलिङ्गो द्रविडः पद्मपुष्करसादकः ४५
वार्धीणसः सारसश्च सारङ्गो धामृण्यलिकः
एते चान्ये चाबुचराः पक्षिणो गुरवः स्मृताः ४६
रसे पाके च मधुरा उष्णाः सलवणान्वयाः
वृष्या वातहराश्चैव कफपित्तविवर्धनाः ४७
नलमीनो झषश्चैव पाठीनश्चर्मपीवरः
चेलीमः शकुलार्भश्च शिलीन्ध्रो गर्गरस्तथा ४८
पुष्करो गोकरो मूचो वारडः शूलपाटलः
कृष्णमत्स्यः श्वेतमत्स्यो गोमत्स्यो रोहितस्तथा ४९
शकली महाशकली चम्पः कुन्दोऽथ मद्गुरः
इल्यः शङ्कुश्चिचरणो राजीवः शफरी तथा ५०
एते चान्ये च बहवो विविधा मत्स्यजातयः
रसे पाके च मधुरा वातघ्ना वृष्यबृंहणाः ५१
उष्णवीर्याश्च ते ज्ञेया गुरवः कफपित्तलाः
लघ्वाशयास्तेऽन्ये तु किञ्चित्तिक्तान्वयान्तराः ५२
रोहितो नलमीनश्च --- लघवः स्मृताः ।
कूर्मो दुटिश्च नक्रश्च मकरोऽवकुशस्तथा ५३
तिमिः सहस्रदशनस्तथैव च तिमिङ्गिलः
इञ्चकः शुक्तिकः शङ्खोऽवलूको जलसूकरः ५४
शम्बूकश्चन्द्रिकः शृङ्गी कर्कटः शकुटीपयः
एते चान्ये च जलजा मधुरा रसपाकयोः ५५
गुरवश्चोष्णवीर्याश्च गुरवः कफपित्तलाः
आनूपे तूत्तमश्च्छागः श्रेष्ठो मत्स्येषु रोहितः ५६
जलजे शुक्तिकूर्मौ च वारटोऽप्यथ पक्षिषु
एणो मृगेषु प्रवरः प्रतुदेषु शुको वरः ५७
विषयेषु --- ग्न्यो लावः खगेषु तु ।
तित्तिरो विष्किरेष्वग्न्यः काकोऽग्न्यः प्रसहेषु तु ५८
लघूक्तं रुधिरं मांसाद् गुरु मेदश्च चर्म च
मज्जावसे गुरुतरे तेभ्यो गुरु शिरः स्मृतम् ५९
लघुः स्कन्धो हि शिरसस्तस्मात् पार्श्वं लघु स्मृतम्
पार्श्वात् सक्थि लघु प्रोक्तं पादमांसं गुरु स्मृतम् ६०
वसा मेदश्च मज्जा च वातपित्तहिताः स्मृताः
रसे पाके च मधुराः स्नेहाच्छ्लेष्मप्रकोपनाः ६१
रक्तं रक्तप्रशमनं मांसं मांसम्विवर्धनम्
गुरवः प्राणिनो बाला युवानो वृष्यबृंहणाः ६२
वृद्धास्तु वातला रूक्षाः पुंभ्यस्तु लघवः स्त्रियः
मृगाल्लघुतरः पक्षी पक्षिभ्योऽम्बुचरो गुरुः ६३
महाशरीराश्चाल्पकाया लघवो जीवक स्मृताः
विज्ञेयाश्चाल्पभुग्भ्योऽपि गुरवो बहुभोजनाः ६४
लघवोऽल्पभूमिचरा अलसेभ्यो विदूरगाः
लघुदेशचरा अल्पा लघवो लघुभोजनाः ६५
गुरुदेशचराः स्थूला गुरवो गुरुभोजनाः
पाशबद्धं गुरु मांसं रूक्षं क्षुद्व्याधिभिर्हतम् ६६
श्वभिर्हतं पीतरक्तं नातिबृंहणमुच्यते
पिषैर्हतमभक्ष्यं स्याच्छुष्कं नातिगुणावहम् ६७
सद्योऽपरिक्लिष्टहतं मांसं धातुं विवर्धयेत्
पूतिमांसं गुर्वसारं तदवृष्यमबृंहणम् ६८
एवं मांसविशेषज्ञः कल्पयेद्भोजने सदा
बालानां गुर्विणीनां वा बालपुत्रासु वा भिषक् ६९
दुष्प्रजातासु वा स्त्रीषु बाले वा कृशिते सदा
प्रयुञ्जन् सिद्धिमाप्नोति तत्त्वविद् वृद्धजीवक ७०
इति ह स्माह भगवान् कश्यपः
इति खिलेषु मांसगुणविशेषीयाध्यायश्चतुर्विंशतितमोऽध्यायः २४

अथ देशसात्म्याध्यायः पञ्चविंशः
अथातो देशसात्म्याध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
कश्यपाख्यमृषिश्रेष्ठं पृष्टवान् --- रोचतः
देशसात्म्यमजानन्तः कथं कुर्युश्चिकित्सितम् ३
कस्य देशस्य मध्ये तु कुरुक्षेत्रं प्रतिष्ठितम्
इत्येवमुक्तो भगवान् काशिराजो महामुनिः ४
इदमुत्तरमक्लिष्टं व्याख्यातुमुपचक्रमे
कुरुक्षेत्रं मध्यदेशाद्योजनानां शतं परम् ५
समस्तान् षड्रसान् प्रायो भुञ्जते मध्यदेशजाः
भक्ष्यभोज्यान्नवीरास्ते तु भुञ्जन्तो वाऽसकृत्तथा ६
पूर्वदेशस्तु विज्ञेयो मधुरः शीतलो गुरुः
कुमारवर्तनीमादौ कटीवर्षस्तथैव च ७
मगधासु महाराष्ट्रमृषभद्वीपमेव च
पौंड्रवर्धनकं चापि मृत्तिकावर्धमानकम् ८
कर्वटं च समातङ्गं तामलिप्तं सचीरकम्
प्रियङ्गुमथ कौशल्यं कलिङ्गपृष्ठपूरकम् ९
एषु प्लीहविनो मर्त्या गलगण्डिकमेव च
गुडशाल्योदनप्राया मत्स्यभोजनसेविनः १०
प्रायशो मधुराहारा वातश्लेष्मात्मका नराः
तेषां कटुकतिक्तं च रूक्षमुष्णं च भोजनम् ११
यच्चान्यदपि श्लेष्मघ्नं तेषां तत्तत् प्रयोजयेत्
कञ्चीपदा नवध्वाना कावीरास्तुल्ययोरपि १२
वानसी कुमुदाराज्यं चिरिपालिस्तथैव च
चीरराज्यञ्च चोराणां पुलिन्दं द्रविडेषु च १३
करघाटशनानां च विवेहा मण्डपेषु च
कान्तारं च वराहं च घटास्वाभीरमेव च १४
दक्षिणां दिशमाश्रित्य देशा वि ---
---
खिलस्थानस्यैतावानेव भाग उपलब्धः
काश्यपसंहिता वृद्धजीवकीयतन्त्रं च
एतावत्येवोपलब्धभागे
विश्राम्यति