प्रथमोऽध्यायः प्रथमः पादः
अथातो धर्मजिज्ञासा १
चोदनालक्षणोऽर्थो धर्मः २
तस्य निमित्तपरीष्टिः ३
सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ४
औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ५
कर्मैके तत्र दर्शनात् ६
अस्थानात् ७
करोति शब्दात् ८
सत्त्वान्तरे यौगपद्यात् ९
प्रकृतिविकृत्योश्च १०
वृद्धिश्च कर्तृभूम्नास्य ११
समं तु तत्र दर्शनम् १२
सतः परमदर्शनं विषयानागमात् १३
प्रयोगस्य परम् १४
आदित्यवद्यौगपद्यम् १५
वर्णान्तरमविकारः १६
नादवृद्धिपरा १७
नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् १८
सर्वत्र यौगपद्यात् १९
संख्याभावात् २०
अनपेक्षत्वात् २१
प्रख्याभावाच्च योगस्य २२
लिङ्गदर्शनाच्च २३
उत्पत्तौ वावचनाः स्युरर्थस्यातन्निमित्तत्वात् २४
तद्भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वात् २५
लोके संनियमात्प्रयोगसंनिकर्षः स्यात् २६
वेदांश्चैके संनिकर्षं पुरुषाख्याः २७
अनित्यदर्शनाच्च २८
उक्तन्तु शब्दपूर्वत्वम् २९
आख्या प्रवचनात् ३०
परन्तु श्रुतिसामान्यमात्रम् ३१
कृते वा विनियोगः स्यात्कर्मणः
सम्बन्धात् ३२
इति प्रथमः पादः
द्वितीयः पादः
आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते १
शास्त्रदृष्टविरोधाच्च २
तथाफलाभावात् ३
अन्यानर्थक्यात् ४
अभागिप्रतिषेधाच्च ५
अनित्यसंयोगात् ६
विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ७
तुल्यं च साम्प्रदायिकम् ८
अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधस्स्याच्छब्दार्थस्त्वप्रयोगभूतस्तस्मादुपपद्येत ९
गुणवादस्तु १०
रूपात्प्रायात् ११
दूरभूयस्त्वात् १२
स्त्र्यपराधात्कर्तुश्च पुत्रदर्शनम् १३
आकालिकेप्सा १४
विद्याप्रशंसा १५
सर्वत्वमाधिकारिकम् १६
फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात् १७
अन्त्ययोर्यथोक्तम् १८
विधिर्वा स्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम् १९
लोकवदिति चेत् २०
न पूर्वत्वात् २१
उक्तन्तु वाक्यशेषत्वम् २२
विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्वम् २३
प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति २४
विधौ च वाक्यभेदः स्यात् २५
हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् २६
स्तुतिस्तु शब्दपूर्वत्वादचोदना च तस्य २७
व्यर्थे स्तुतिरन्याय्येति चेत् २८
अर्थस्तु विधिशेषत्वाद्यथालोके २९
यदि च हेतुरवतिष्ठेत निर्देशात्सामान्यादिति चेदव्यवस्था विधीनां स्यात् ३०
तदर्थशास्त्रात् ३१
वाक्यनियमात् ३२
बुद्धशास्त्रात् ३३
अविद्यमानवचनात् ३४
अचेतनेऽर्थे खल्वर्थं निबन्धनात् ३५
अर्थविप्रतिषेधात् ३६
स्वाध्यायवदवचनात् ३७
अविज्ञेयात् ३८
अनित्यसंयोगान्मन्त्रानर्थक्यम् ३९
अविशिष्टस्तु वाक्यार्थः ४०
गुणार्थेन पुनः श्रुतिः ४१
परिसंख्या ४२
अर्थवादो वा ४३
अविरुद्धं परम् ४४
सम्प्रैषे कर्मगर्हानुपालम्भः संस्कारत्वात् ४५
अभिधानेऽर्थवादः ४६
गुणादविप्रतिषेधः स्यात् ४७
विद्यावचनमसंयोगात् ४८
सतः परमविज्ञानम् ४९
उक्तश्चानित्यसंयोगः ५०
लिङ्गोपदेशश्च तदर्थवत् ५१
ऊहः ५२
विधिशब्दाश्च ५३
इति द्वितीयः पादः
तृतीयः पादः
धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् १
अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् २
विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् ३
हेतुदर्शनाच्च ४
शिष्टाकोपेऽविरुद्धमिति चेत् ५
न शास्त्रपरिमाणत्वात् ६
अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ७
तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् ८
शास्त्रास्था वा तन्निमित्तत्वात् ९
चोदितं तु प्रतीयेताविरोधात्प्रमाणेन १०
प्रयोगशास्त्रमिति चेत् ११
नासंनियमात् १२
अवाक्यशेषाच्च १३
सर्वत्र प्रयोगात्संनिधानशास्त्राच्च १४
अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् १५
अपि वा सर्वधर्मः स्यात्तन्न्यायत्वाद्विधानस्य १६
दर्शनाद्विनियोगः स्यात् १७
लिङ्गाभावाच्च नित्यस्य १८
आख्या हि देशसंयोगात् १९
न स्याद्देशान्तरेष्विति चेत् २०
स्याद्योगाख्या हि माथुरवत् २१
कर्मधर्मो वा प्रवणवत् २२
तुल्यं तु कर्तृधर्मेण २३
प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् २४
शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् २५
अन्यायश्चानेकशब्दत्वम् २६
तत्र तत्त्वमभियोगविशेषात्स्यात् २७
तदशक्तिश्चानुरूपत्वात् २८
एकदेशत्वाच्च विभक्तिव्यत्यये स्यात् २९
प्रयोगचोदनाभावादर्थैकत्वमविभागात् ३०
अद्रव्यशब्दत्वात् ३१
अन्यदर्शनाच्च ३२
आकृतिस्तु क्रियार्थत्वात् ३३
न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् ३४
तदर्थत्वात्प्रयोगस्याविभागः ३५
इति तृतीयः पादः
चतुर्थः पादः
उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यात् १
अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात् २
यस्मिन्गुणोपदेशः प्रधानतोऽभिसम्बन्धः ३
तत्प्रख्यञ्चान्यशास्त्रम् ४
तद्व्यपदेशं च ५
नामधेये गुणश्रुतेः स्याद्विधानमिति चेत् ६
तुल्यत्वात्क्रिययोर्न ७
ऐकशब्द्ये परार्थवत् ८
तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः ९
बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः १०
प्रोक्षणीष्वर्थसंयोगात् ११
तथानिर्मन्थ्ये १२
वैश्वदेवे विकल्प इति चेत् १३
न वा प्रकरणात्प्रत्यक्षविधानाच्च न हि प्रकरणं द्रव्यस्य १४
मिथश्चानर्थसम्बन्धः १५
परार्थत्वाद्गुणानाम् १६
पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये १७
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवत्तास्ति १८
तच्छेषो नोपपद्यते १९
अविभागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन् २०
कारणं स्यादिति चेत् २१
आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थो हि विधीयते २२
तत्सिद्धिः २३
जातिः २४
सारुप्यम् २५
प्रशंसा २६
भूमा २७
लिङ्गसमवायः
२८
संदिग्धेषु वाक्यशेषात् २९
अर्थाद्वा कल्पनैकदेशत्वात् ३०
इति चतुर्थः पादः इति प्रथमोऽध्यायः