वाराह श्रौत सूत्रम्
वाराह श्रौत सूत्रम्
अथ वाराहश्रौतसूत्रे प्राक्सौमिकम्
प्रयोगे पुरुषहितँ यज्ञस्य च ज्ञाने १ तँ व्याख्यास्यामः २ सर्वार्थं धर्मं प्रथमम् । उपवादाननुवदेत् ३ ब्राह्मणक्षत्रियवैश्यरथकाराणाँ यज्ञाः ४ निषादस्थपतेरिष्ट्यग्न्याधेयम् ५ अध्वर्युर्यजुर्वेदेन करोत्यृग्वेदेन होता सामवेदेनोद्गाता सर्वैर्ब्रह्मा ६ उच्चैरृग्वेदसामवेदाभ्यामुपाँ शु यजुषोच्चैः संप्रैषैः ७ सँ स्वारैकस्वर्यमिति शब्दन्यायः ८ प्राङ्मुखः कर्म कुर्यादा चतुर्थात्कर्मणः प्रसंपश्यन् ९ उत्तरतउपचारो विहारः १० न यज्ञाङ्गेनात्मानमभिविपरिहरेत् ११ न विहारादपपर्यावर्तेत १२ अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः १३ कर्तॄणां च प्रधानकारिणोऽभ्यन्तरा बाह्या इतरे १४ यज्ञोपवीती कर्माणि कुर्यात्प्राचीनावीती पित्र्याण्याचान्तोदकोऽहसन् १५ मन्त्रान्तेन कर्म संनिपातयेत् १६ उत्तरमन्त्रस्यादिना पूर्वस्यान्तँ विद्यात् १७ पूर्वाम्नानादङ्गानामानुपूर्व्यं पूर्वप्रकरणं चोदनाच्चानियमः क्रतूनाम् १८ घृतमाज्यशब्देन प्रतीयते भार्या पत्नी जुहूः आहवनीय इति होमे १९ हिरण्यं जातरूपम् २० गार्हपत्ये हविःश्रपणं प्रतितर्पणं च २१ दक्षिणाग्नेरेकोल्मुकाहरणम् २२ ब्राह्मणा ऋत्विज आर्षेया महान्तो युवानो बह्वपत्याः २३ जुहोतीति दर्विहोमचोदना २४ आज्यस्याधिश्रयणं गार्हपत्ये २५ पर्यग्निकरणमुत्पवनँ स्रुक्स्रुवसंमार्गः परिस्तरणं पर्युक्षणमाहवनीयस्येति २६ तूष्णीकां दर्विहोमधर्मः २७ अनभस्तन्त्रम् २८ आसीनो जुहुयाज्जान्वक्नो निगद्य स्वाहाकारान्तम् २९ जमदग्नीनां पञ्चावत्तं चतुरवत्तमन्येषाम् । आमन्त्र्य जामदग्न्यमाजामदग्न्यः पञ्चावत्ती स्यात् ३० माँ ससँ हिताभ्यामङ्गुलीभ्यामङ्गुष्ठेन च पुरोडाशस्यावद्येत्स्रुवेणाज्यपयसोर्मेक्षणेन चरोः स्वधितिना पशोर्दर्व्या सोमस्य ३१ यथादिष्टँ हविर्भिर्देवता यजत्याज्येनेतराः ३२ ध्रौवस्याज्यार्थान्कुर्वीत ३३ आज्यस्योपस्तीर्य हविषोऽवदानमभिघारणं च ३४ अवदायावदाय हविर्ध्रुवां प्रत्यभिघारयेदा स्विष्टकृदवदानात् ३५ आज्यस्थाल्या ध्रुवाम् ३६ अङ्गुष्ठपर्वमात्राण्यवदानानि ३७ भूयः स्विष्टकृते भूयिष्ठमिडायाः ३८ मध्यादवदाय हविषः पूर्वार्धाद् द्वितीयमवद्येच्चतुरवदानस्य पश्चार्धात् तृतीयं पञ्चावदानस्य ३९ पूर्वार्धात्प्रथमं ज्येष्ठस्य ज्यैष्ठिनेयस्य गतश्रियो वा ४० अपरं कनिष्ठस्य कानिष्ठिनेयस्य बुभूषतो वा ४१ सर्वेषाँ हविषाँ स्विष्टकृते समवद्येदुत्तरार्धात्सकृत्सकृच्चतुरवदानस्य द्विर्द्विः पञ्चावदानस्य ४२ द्विरभिघारयेत् ४३ यत्र याज्यास्तत्राश्रुतप्रत्याश्रुते च चतुरवत्तपञ्चावत्ते च ४४ दक्षिणेन दक्षिणातिक्रामेत्सव्येनोदङ् ४५ अवदाय ग्रहँ वा गृहीत्वा दक्षिणातिक्रामन्संप्रेष्यतिअमुष्मा अनुब्रूहीति यथादेवतँ संप्रैषयाज्ययोश्च ४६ अनुवाच्य वाग्यतो भवत्याश्रावणात् । आश्रुते चाग्नीध्र आ प्रत्याश्रावणात् । क्प्रत्याश्रुते चाध्वर्युरा यज यजेति ब्रूयात् ४७ अनुवाक्यान्ते प्रणवं दधाति होता । तमध्वर्युः प्रणवेनोपसंदधाति ४८ ओ श्रावयेत्यध्वर्युरस्तु श्रौषडित्याग्नीध्रः प्रत्याश्रावयत्युत्तरतस्तिष्ठन्स्फ्यं चेध्मसंनहनानि चोद्यम्य ४९ अमुष्मै प्रेष्येति संप्रेष्यति याज्यावत्स्वाहवनीयप्रधानस्थानेषु पशुसोमयोरमुँ यजेत्यारात् ५० याज्यानुवाक्यावन्ति प्रधानान्याज्यभागादीनि स्विष्टकृद् -- तानि पत्नीसँ याजेषु वाजिने च ५१ दक्षिणं परिधिसंधिं प्रत्यवस्थाय वषट्कारान्ते पार्श्वेनापिदधदिवानासेकँ हविषोऽप्रक्षिणन्जुहोति ५२ मुखेनासेकँ हविषो व्यृषन्यं द्विष्यात्तमाहुतिषु हूयमानासु मनसा ध्यायेत् ५३ याज्यावत्स्वाहवनीयप्रधानेष्वॐकारे च दक्षिणातिक्रमणम् ५४ उपभृतमधस्तादुपयम्य प्रचरति वेदमुपयाममन्यत्र दशाँ सोमे ५५ समानं दर्शपूर्णमासयोर्विधानमन्यत्र निर्देशात् ५६ उभयत्राग्नेयः पुरोडाशः । अग्नीषोमीयो द्वितीयः पौर्णमास्यामैन्द्रा ग्नोऽमावास्यायामसंनयतः ५७ सांनाय्येन समानदेवतः ५८ संनयत ऐन्द्रँ सांनाय्यं माहेन्द्रँ वा ५९ अग्नीषोमीय उपाँ शुयाजः पौर्णमास्याँ वैष्णवोऽमावास्यायाम् ६० एतदिज्याप्रधानम् ६१ तदङ्गानीतराणि ६२ अर्थकारणाद्धर्मानावर्तयेद्वचनाद्वा ६३ सोमेज्याग्निष्टोमे प्रधानम् ६४ दर्शपूर्णमासिकानां प्रधानानामिष्टिपशुबन्धे चोदना ६५ सोमस्यैकाहाहीनसत्त्रेष्वङ्गानां च समन्वयः पिण्डपितृयज्ञवर्जम् ६६ प्रत्याम्नायप्रतिषेधार्थलोपैरङ्गानिवृत्तिः सामान्यादर्थात्स्वाश्रुत्यादिति ६७ धर्मविनियोगेऽनाम्नाते यथार्थं मन्त्रान्संनमयेत् ६८ द्र व्यालाभे तुल्यार्थानाँ यथासदृशं प्रतिनिदध्याद्यथार्थमतुल्यार्थे ६९ प्रधानानां धर्मविप्रतिषेधे भूयस्त्वे न धर्मान्विनियच्छेत्तुल्यां पूर्वचोदनया ७० कर्मणां गणादेशे प्रत्यृचं करोति प्रतिपर्यायं च ७१ अमुष्मै प्रणीयमानायानुब्रूहीत्युक्ते त्रिरुक्तां करोति ७२ सोमे क्रीते हविर्धानप्रवर्तने च ७३ दर्भाः परिस्तरणे ७४ स्वाहाकारान्ताः समिधः ७५ अग्निँ सादयिष्यन्नुद्धत्य लक्षणमद्भिरवोक्ष्य सादयति ९७ संतकर्मसु पुरस्तादारम्भं प्रदक्षिणं प्रागपवर्गाण्युदग्वा करोति ७७ प्रसव्यं पित्र्याणि ७८ मङ्गलानि लोकतः ७९ कर्माभ्यावृत्तौ कृतसंख्येषु मन्त्रानावर्तयेत् ८० संप्रैषानुवचनेष्वाश्रुतप्रत्याश्रुतेषु च मन्द्र स्वारः ८१ सामिधेनीप्रभृत्याज्यभागान्तेषूर्ध्वमाज्यभागाभ्यामानुयाजेभ्यो मध्यमाः ८२ अनुयाजप्रभृत्युच्चैरा शँ य्वन्तात् ८३ त्रिँ शद्वर्षाणि दर्शपूर्णमासाभ्याँ यजेत यावज्जीवँ वा ८४ पञ्चदश दाक्षायणयज्ञेन दर्शपूर्णमासयोः स्थाने ८५ यावज्जीवमग्निहोत्रम् ८६ अनियमोऽन्यत्र ८७
इतीष्टिसूत्रे प्रथमं खण्डम् ॥
चन्द्रा दर्शनेनामावास्यामुपवसेत्संपूर्णेन पौर्णमासीं पूर्वे वा १ केशश्मश्रु वापयित्वा माँ समाषलवणवर्जमश्नीतो यजमानः पत्नी चासुहितौ २
अग्निं गृह्णामि सुरथँ यो मयोभूर्य उद्यन्तमारोहति स्वर्विदेति ।
आदित्यं तेजसां तेज उत्तमँ श्वोयज्ञाय चमतां देवताभ्यः ॥
इमामूर्जं पञ्चदशीँ याः प्रविष्टास्ता देवताः परिगृह्णामि सर्वाः ।
पौर्णमासँ हविरिदं जुषन्तामामावास्यँ हविरिदं जुषन्ताम् ॥
इति यथारूपं गार्हपत्यादाहवनीयं ज्वलन्तं प्रणीय ममाग्ने वर्चो विहवेष्वित्यन्वादधाति ३ उत्तराभ्याँ वैहवीभ्यामपरयोरन्ववधाय व्रतमुपैति ४
पयस्वतीरोषधयः पयस्वद्वीरुधां पयः ।
अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृज ॥
इति पाणी प्रक्षाल्याग्ने व्रतपत इत्याहवनीयँ यजमान उपतिष्ठते ५ सम्राडसि व्रतपा असि व्रतपतिरसि व्रतं चरिष्यामि तत्ते ब्रवीमि तन्मे गोपाय तच्छकेयं तेन शकेयं तेन राध्यासमित्यादित्यम् । यद्यस्तमितः स्यादाहवनीयम् ६ पुरस्ताद्बर्हिराहरणस्य पौर्णमास्याँ व्रतमुपेयाद्वत्सापाकरणस्यामावास्यायाम् ७ उभयोः पूर्वेद्युः समन्वाधानम् ८ नानृतँ वदेन्न माँ सं प्राश्नीयान्न स्त्रियमुपेयात् । माषवर्जँ सायमारण्यमश्नीयात् ९ आरण्यहविश्चेत्स्यादुदकम् १० आहवनीयागारे यजमानो विहरति गार्हपत्यागारे पत्नी तयोर्दक्षिणा ११ प्रत्यगाशिषोऽकर्मयुक्ता मन्त्रा याजमानम् १२ दक्षिणत उपचारो यजमानस्यापरः पत्न्याः १३ आमन्त्रिते प्रणवमुक्त्वा यथार्थमनुज्ञानम् १४ यथादेवतमाहुतिमनुमन्त्रयते यथाकर्मसँ योगमारात् १५ को वः प्रणयतीति प्रणीयमाना भूश्च कश्च वाक् च गौश्च वट् च खं च नीश्च पूश्चैकाक्षराः पूर्दशमा विराजो या इदँ विश्वं भुवनँ व्यानशुस्ता नो देवीस्तरसा सँ विदानाः स्वस्ति यज्ञं नयत प्रजानतीरिति १६ ब्रह्मपूताः स्थेति सादने च १७ अग्निँ होतारमिति हविर्निर्वपणमभिमृशेन्निरुप्यमाणे वा जपेत् १८ पुरस्तात्स्तम्बयजुषोऽन्तर्वेद्युपविश्य
अयँ वेदः पृथिवीमन्वविन्दद् गुहाहितां निहितां गह्वरेषु ।
स मह्यं लोकँ यजमानाय विन्दत्वच्छिद्रँ यज्ञं भूरिरेताः कृणोतु ॥
इति वेदमादते १६
वेदेन वेदिँ विविदुः पृथिव्याः सा पप्रथे पृथिवी पार्थिवानि ।
गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञस्तायते विश्वदानीम् ॥
इति त्रिर्वेदेन वेदिमभिमार्ष्टि २० उभयत्राज्यावेक्षणम् २१ पञ्चानां त्वा वातानामित्यान्तादनुवाकस्याज्यग्रहान् २२ युनज्मि त्वेति च परिधिषु परिधीयमानेष्वाहवनीयम् २३ भ्रुवाकरणमुभयत्र २४ ममाग्ने वर्च इत्यष्टाभिर्वैहवीभिर्हवीष्याँ सन्नान्यभिमृशेत् २५ चतुर्होत्रा च पौर्णमास्यां प्रजाकामः पञ्चहोत्रा चामावास्यायाँ स्वर्गकामः २६ चित्तिः स्रुगिति दशहोतारं पुरस्तात्सामिधेनीनाम् २७
अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्तु ।
समिद्धो अग्निराहुतः स्वाहाकृतः पिपर्तु नः ॥
इति समिद्धम् २८ मनोऽसि प्राजापत्यं मनसा भूतेनाविशेति स्रुवाघारम् २९ वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रि येणाविशेति स्रौचम् ३० देवाः पितर इति प्रवरे प्रवर्यमाणे ३१ पृथिवी होतेति चतुर्होतारं पुरस्तात्प्रयाजानाम् ३२
इतीष्टिसूत्रे द्वितीयं खण्डम्
वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु ।
वसन्तस्याहं देवयज्यया तेजस्वान्पयस्वान्भूयासम् ॥
ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु ।
ग्रीष्मस्याहं देवयज्ययेन्द्रि यवान्वीर्यवान्भूयासम् ॥
वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु ।
वर्षाणामहं देवयज्यया पुष्टिमान्पशुमान्भूयासम् ॥
शरदृतूनां प्रीणामि सा मा प्रीता प्रीणातु ।
शरदोऽहं देवयज्ययान्नवान्वर्चस्वान्भूयासम् ॥
हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीताम् ।
हेमन्तशिशिरयोरहं देवयज्यया सहस्वाँ स्तपस्वान्भूयासम् ॥
इति प्रयाजान् १
अग्निना यज्ञश्रक्षुष्मानग्नेरहं देवयज्यया चक्षुषा चक्षुष्मान्भूयासम् ॥
सोमेन यज्ञश्चक्षुष्मान्सोमस्याहं देवयज्यया चक्षुषा चक्षुष्मान्भूयासम् ॥
इत्याज्यभागौ २ अग्निर्होतेति पञ्चहोतारं पुरस्ताद्धविषाम् ३
अग्निरन्नादोऽग्नेरहं देवयज्ययान्नादो भूयासम् ॥
दब्धिर्नामास्यदब्धोऽहं भ्रातृव्यं दभेयम् ॥
इत्युपाँ शुयाजौ ४
अग्नीषोमौ वृत्रहणा अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् ॥
इन्द्रा ग्न्योरहं देवयज्ययेन्द्रि यवानन्नादो भूयासम् ॥
इन्द्र स्याहं देवयज्ययेन्द्रि यवान्भूयासम् ॥
महेन्द्र स्याहं देवयज्यया जेमानं महिमानं गमेयम् ॥
इत्यौत्तरतनिकानप्यनुमन्त्रानधीयेत ५
इन्द्र स्य वैमृधस्याहं देवयज्ययाऽसपत्नो भूयासम् ॥
इन्द्र स्य त्रातुरहं देवयज्यया त्राता भूयासम् ॥
पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासम् ॥
सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं गमेयम् ॥
अदितेरहं देवयज्यया प्र प्रजया पशुभिर्जनिषीय ॥
विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयम् ॥
द्यावापृथिव्योरहं देवयज्यया प्रजनिषीय प्रजया पशुभिः ॥
अमुष्याहं देवयज्ययेत्यनाम्नातेऽभ्यूहेत् ६ अग्निः स्विष्टकृद्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमित्यग्निँ स्विष्टकृतम् ७ अग्निर्मा दुरिष्टात्पातु सविताघशँ साद्यो नो अन्ति शपति तमेतेन जेषमिति प्राशित्रमवदीयमानम् ८ इडायास्तूष्णीम् ९ उपहवे वसीयस्येहीति । चिदसीत्युच्चैः । घृतेन मा समुक्षतेत्यन्तम् । अस्मास्विन्द्र इति च १० माशिष इति नामग्राहे ११
इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना ।
सा नो अन्नेन हविषोत गोभिरिडा पिन्वतां पयसाभ्यस्यान् ॥
इतीडामार्जने १२ ब्रध्न पाहीति बर्हिषि हवीँ ष्यासन्नान्यभिमृशेत् १३ आग्नेयं चतुर्धा व्युद्दिशेत्इदमग्नीध इदं ब्रह्मण इदँ होतुरिदमध्वर्योरिति । इदँ यजमानस्येति यजमानभागम् १४ दिशां कॢप्तिरसि दिशः प्रीणामि दिशो मा प्रीता अवन्त्विति व्युद्दिष्टे दक्षिणां ददाति १५ दक्षिणाग्नौ यजमानो मन्त्रान्तमोदनं पक्त्वा दक्षिणस्याँ वेदिश्रोण्यामासाद्याभिमृशेत्
इयँ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः ।
अनेनौदनेनाति मृत्युं तराम्यहम् ॥
प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान् । अक्षितोऽस्यक्षित्यै त्वा । अक्षितो नामासि मा मे क्षेष्ठा आ मा गम्याः ॥ प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानरूपे मे पाहि चक्षुःश्रोत्रे मे पाहि ॥ ऊर्गस्यूर्जं मयि धेहि ॥ प्रजापतिरहं त्वया साक्षादृध्यासमिति १६ अग्रेणोत्तरमुदञ्चमुद्वास्य दक्षिणतःसद्भ्य ऋत्विग्भ्यः परिहृत्यादध्यात् १७ सं मे संनतयः संनमन्तामिध्मसंनहने हुत इति संमार्गानाहितान् १८ महाहविर्होतेति सप्तहोतारं पुरस्तादनुयाजानाम् १९
इतीष्टिसूत्रे तृतीयं खण्डम् ॥
बर्हिषोऽहं देवयज्यया प्रजावान्भूयासम् ॥
नराशँ सस्याहं देवयज्यया वीर्यवान्भूयासम् ॥
अग्निः स्विष्टकृद्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् ॥
इत्यनुयाजान् १ वाजवत्या उभयत्र २ सा मे सत्याशीरिति प्रस्तरे प्रह्रियमाणे ३ वस्विहागच्छत्विति वरँ वृणीते ४ वि ते मुञ्चामीति परिधिषु प्रह्रियमाणेष्वाहवनीयम् ५ इष्टो यज्ञो भृगुभिरिति सँ स्रावभागान् ६ अदो मागच्छत्विति द्वितीयँ वरमदो मागम्यादिति तृतीयम् ७ स्रुचोर्विमोचनमुभयत्र ८ पत्नी च पत्नीसँ याजाननुमन्त्रयते
सोमस्याहं देवयज्यया विश्वँ रेतो धेषीय ॥
त्वष्टुरहं देवयज्यया सर्वाणि रूपाणि पशूनां पुषेयम् ॥
देवानां पत्नीनामहं देवयज्यया पत्नीर्यज्ञस्य मिथुनं तासामहं देवयज्यया मिथुनेन प्रभूयासम् ॥
राकाया अहं देवयज्यया वीरान्विदेयम् ॥
सिनीवाल्या अहं देवयज्यया पशून्विदेयम् ॥
कुह्वा अहं देवयज्यया प्रतिष्ठां गमेयम् ॥
अग्निर्गृहपतिर्यज्ञस्य प्रतिष्ठा तस्याहं देवयज्यया यज्ञेन गृहैः प्रतिष्ठां गमेयम् ॥
इत्यग्निं गृहपतिम् ९
इडास्मं अनुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः ।
वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवी ॥
इतीडाम् १० दक्षिणाग्निका होमा उभयत्र ११ या सरस्वती वेशभगीनेति मुखँ विमृष्टे १२ प्रायश्चि त्ताहुतयः समिष्टयजुः कपालानाँ विमोचनं प्रणीतानाँ विमोचनमुभयत्र १३ सँ यज्ञपतिराशिषेति यजमानो यजमानभागं प्राश्नाति १४ यदि प्रवसेत्समिष्टयजुषा सह जुहुयात्प्रजापतेर्विभान्नाम लोकस्तस्मै त्वा दधानि सह यजमानेनेति १५ सांनाय्यस्य प्राश्नीयान्नाब्राह्मणः १६ इदँ हविरिति शृतस्य १७ दधिक्राव्णो अकारिषमिति दध्नः १८ अन्तर्वेदि प्रणीतास्ववमृश्य मार्जयन्त ऋत्विजो यजमानश्च १९ आसिच्यमान उदकेऽविच्छिन्ने सदसीत्यभिमन्त्र्य दिङ्मन्त्रैः प्रतिदिशँ व्युत्सिच्य
यदप्सु ते सरस्वति गोष्वश्वेषु यद्वसु ।
तेन मे वाजिनीवति मुखमङ्धि सरस्वति वर्चसा ॥
इति मुखानि विमृजते २०
समुद्रँ वः प्रहिणोमि स्वाँ योनिमभिगच्छत ।
अरिष्टा अस्माकँ वीरा मा परासेचि मत्पयो मा मा हिँ सीस्त्वं धनम् ॥
इति प्रणीताशेषं निनीय
नमः कृताय कर्मणे अकृताय कर्मणे नमः ॥
अयाड् यज्ञं जातवेदा अन्तरः पूर्वोऽस्मिन्निषद्य ।
स त्वँ सनिँ सुविमुचा विमुञ्च धेह्यस्मासु द्र विणं जातवेदः ॥
इति २१ दक्षिणत आहवनीयमुपस्थाय विष्णुः पृथिव्याँ व्यक्रँ स्तेति पर्यायैर्यजमानस्त्रीन्क्रामति । विष्णुर्दिक्षु व्यक्रँ स्तानुष्टुभेन छन्दसेति चतुर्थम् २२ स्वयंभूरसीत्यादित्यमुपस्थाय प्रत्यपक्रामति
इदमहमाभ्यो दिग्भ्योऽस्मादन्नाद्याद् भ्रातृव्यं निर्भजामि निर्भक्तोयं द्विष्मः ॥
इदमहमस्मादन्तरिक्षादस्मादन्नाद्याद् भ्रातृव्यं निर्भजामि निर्भक्तो यं द्विष्मः ॥
इदमहमस्याः पृथिव्या अस्मादन्नाद्याद् भ्रातृव्यं निर्भजामि निर्भक्तो यं द्विष्मः ॥
इति २३ अगन्म स्वः सं ज्योतिषाभूमेत्याहवनीयमुपस्थायेदमहममुष्य प्राणं निवेष्टयामीति पार्ष्ण्याभिदक्षिणं निवेष्टयति २४ यो अस्मान्द्वेष्टि यं च वयं द्विष्म इत्यभिचरन् २५ तेजोऽसी त्याहवनीयम् २६ अग्ना आयूँ षि पवस इति तिसृभिर्गार्हपत्यम् । अग्ने गृहपत इति च २७ असा अनु मा तन्विति मामग्राहं पुत्रानन्वातयते २८ ज्योतिषे तन्तवे त्वेत्यन्तर्वेद्युपविश्य ये देवा यज्ञहन इति यजमानस्त्रीनतिमोक्षान्जपति २९ वेदोऽसीति वेदमादत्ते ३० घृतवन्तं कुलायिनमिति स्तृणाति संततं गार्हपत्यादध्याहवनीयात् ३१ गोमं अग्न इति प्राङ् प्रक्रम्य जपति ३२ अग्ने व्रतपते व्रतमचारिषं तं ते प्रावोचं तदशकं तेनाशकं तेनारात्समित्याहवनीयम् ३३ सम्राडसि व्रतपा असि व्रतपतिरसि व्रतमचारिषं तत्ते प्रावोचं तदशकं तेनाशकं तेनारात्समित्यादित्यम् ३४
यज्ञो बभूव स उ वाबभूव स प्रजज्ञे स उ वावृधे पुनः ।
स प्रजानामधिपतिर्बभूव सो अस्मासु द्र विणमादधातु वयँ स्याम म्पतयो रयीणाम् ॥
इति जपित्वा सर्वेषु समिध आधाय तेन धर्मेण पर्युक्षति ३५
इतीष्टिसूत्रे चतुर्थं खण्डम् ॥
तन्त्रादिषु ब्रह्मिष्ठं ब्रह्माणँ वृणीतेभूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृण इति १ वृतो जपतिदेव सवितरेतं त्वा वृणते बृहस्पतिं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो वाचे वाग्गायत्र्यै गायत्री त्रिष्टुभे त्रिष्टुब् जगत्यै जगत्यनुष्टुभेऽनुष्टुप् पङ्क्तये पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यो ॥ बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपायाहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिः ॥ महो मेऽवोचो यशो मेऽवोचो भर्गो मेऽवोचः स्तोमं मेऽवोचोऽन्नाद्यं मेऽवोचः प्रजां मेऽवोचः प्रतिष्ठां मेऽवोच इति २ दक्षिणतः कर्माण्यनुतिष्ठेत् ३ ब्राह्मौदनस्य प्राशिष्यन्नोदनस्यादायौदनेन जुहोतिओदनौदनस्य त्वा संजुहोमि स्वाहेति ४ अग्नेऽङ्गिरोऽहुताद्यान्मा पाहि सुत्रामण्स्त्वादधानीति प्राश्नाति ५ दर्शपूर्णमासयोः परिस्तीर्णे विहारे तीर्थेन प्रपद्य दक्षिणत आहवनीयस्य सँ स्तीर्णमभिमन्त्रयतेअहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इति ६ सव्येन तृणं प्रच्छिद्य प्रत्यग्दक्षिणा निरस्यतिनिरस्तः परावसुः पाप्मनेति ७ इदमहमर्वाग्वसोः सदने सीदामि देवेन सवित्रा प्रसूत इत्यपः स्पृष्ट्वोपविशति ८ अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिः ॥ तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय ॥ सूर्यो दिवो यज्ञं पातु वायुरन्तरिक्षाद्यज्ञपतिं पात्वग्निर्मां पातु मानुषमिति जपति ९ आमन्त्रितोऽपः प्रणेष्यन्तमनुजानातिभूर्भुवः स्वः प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे स्वर्गे लोके यजमानोऽस्तु ॥ सप्तऋषीणाँ सुकृताँ यत्र लोकस्तत्रेमँ यज्ञँ यजमानाय धेहि ॥ देवस्य सवितुः प्रसवे बृहस्पतिप्रसूतः ॥ ॐ प्रणयेति १० अनामन्त्रितो हविः प्रोक्षिष्यन्तमनुजानात्यामन्त्रित उत्तरान्परिग्राहानिध्माबर्हिश्चानामन्त्रितः सामिधेनीप्रवरौ चामन्त्रित आश्रावणाय समिधे चप्रोक्ष यज्ञं बृहस्पते परिगृहाण वेदिं प्रोक्ष यज्ञं प्रजापतेऽनुब्रूहि यज्ञं प्रवृणीष्व यज्ञँ वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेभ्यः प्रजापते प्रतिष्ठ यज्ञमिति यथारूपम् ११ देवता वर्धय त्वमित्यनुषजेत् १२ व्याहृतीः पुरस्तात्प्रणवं चोपरिष्ठात् १३ अनूच्यमानासु सामिधेनीषु वाचँ यच्छेत्प्रयाजानुयाजेष्विज्यमानेषु प्रधानेषु च परिहृते प्राशित्र आ प्रस्थानात् १४ यदि वाचँ विसृजेत्इदँ विष्णुः ॥ अग्नाविष्णू ॥ पावका नः सरस्वती ॥ बृहस्पतिँ हवामह इति निगद्य वाचँ यच्छति १५ मार्जितेऽग्रेणाहवनीयं प्राशित्रमाह्रियमाणं प्रतीक्षतेमित्रस्य त्वा चक्षुषा प्रतीक्ष इति १६ प्रतीक्ष्य सावित्रेण प्रतिगृह्यादित्यास्त्वा पृष्ठे सादयामीति भूमौ प्रतिष्ठाप्य सुपर्णस्य त्वा गरुत्मतश्चक्षुषावेक्ष इत्यवेक्ष्याङ्गुष्ठेनोपमध्यमया च प्राश्नात्यनुपस्पृशन्दन्तान्अग्नेष्ट्वास्येन प्राश्नामीति । ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेति १७ प्राचीरप उत्सिच्याचामतिसत्येन त्वाभिजिघर्मीति हृदयदेशमभिमृशति । इन्द्र स्य त्वा जठरे दधामीति नाभिदेशम् १८ वाङ् म आसन् नसोः प्राणोऽक्ष्योश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजोऽरिष्टा विश्वाङ्गानि तनूर्मे तन्वा सहेति सर्वाणि गात्राणि १९ आहितामनुयाजसमिधमनुमन्त्रयतेएषा ते अग्ने समित्तया त्वँ वर्धस्व चाप्यायस्व वर्धिषीमहि च वयमा च प्यायिषीमहि च स्वाहेति २०
इतीष्टिसूत्रे पञ्चमं खण्डम् ॥
वासिष्ठः सोमे ब्रह्मा १ आसन्नेष्वग्नीषोमीय आज्येषु दक्षिणत आहवनीयस्यान्तर्वेदि मन्त्रोपवेशनं प्रातरनुवाककाले च २ न धिष्ण्यान्व्यवेयात् ३ तीर्थेन प्रपद्य प्रायश्चित्ताहुतयः पवमानान्वारम्भणं धिष्ण्योपस्थानमिति क्रियेत ४ आमन्त्रिते स्तोत्रानुज्ञानम्भूर्भुवः स्वर्देवस्य सवितुः प्रसवे बृहस्पते स्तुत रश्मिना क्षयाय क्षयं जिन्वेत्युत्तर उत्तरश्च स्तोमभागः ५ स्तुते ग्रहोपस्थानकलशोपस्थानान्तं कृत्वा सदः प्रविशत्यपरेण द्वारेण पश्चार्धेन विहारस्य द्वार्ये संमृश्य यथापूर्वे
उरुं नो लोकमनुनेषि विद्वांत्स्वर्विज्ज्योतिरभयँ स्वस्ति ।
ऋष्वा त इन्द्र स्थविरस्य बाहू उपस्थेयाम शरणा बृहन्ता ॥
इति प्रपद्य दक्षिणतो मैत्रावरुणधिष्ण्यस्य मन्त्रोपवेशनम् ६ पूर्वेण द्वारेण दक्षिणा यथेतं निष्क्रमणम् ७ विसमाप्ते सवनेऽपरेण ८ सवनसँ स्थासु यथाप्रसृप्तम् ९ स्तुतशस्त्रेष्वा वषट्काराद्वाचँ यच्छेदुपाकृते प्रातरनुवाक उपाँ श्वन्तर्यामयोर्होमाद्धोमात् १०
इतीष्टिसूत्रे षष्ठं खण्डम्
इति प्रथमोऽध्यायः
सर्वकामस्य दर्शपूर्णमासौ १ व्रतोपेते यजमाने
देवा गातुविदो गातुँ यज्ञाय विन्दत ।
मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम् ॥
इति जपित्वा शाखामाहरति । शमीशाखां पलाशशाखाँ वा वहुपलाशामप्रतिशुष्काग्रां प्राचीमुदीचीँ वाहानाम् २ इषे त्वेति छित्त्वा सुभूतायेति संनमति ३ इमां प्राचीमुदीचीमिषमूर्जमभि सँ स्कृतां बहुपर्णामशुष्काग्राँ हरामि पशुपामहमित्याहरति ४ तया सदर्भपिञ्जूलया षड् वत्सानपाकरोतिवायवः स्थेति ५ देवो व इत्येकैकाँ सँ स्पर्शयन्गाः प्रकालयति ६ आप्यायध्वमघ्न्या देवेभ्या इन्द्रा य भागमित्याप्यायति । महेन्द्रा येति महेन्द्र याजिनः ७
शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्रा य शरदो दुहानाः ।
रुद्र स्य हेतिः परि वो वृणक्तु ॥
इति व्रजन्तीरनुमन्त्रयते ८ पूषा वः परस्पा अदितिः प्रेर्त्वरीपा इन्द्रो वोऽध्यक्षोऽनष्टाः पुनरेतेति च ९ ध्रुवा अस्मिन्निति यजमानं प्रेक्षते गृहान्वाभिपर्यावर्तते १० यजमानस्य पशून्पाहीत्यग्निष्ठेऽनस्यग्न्यगारे वा पुरस्तात्प्रतीचीँ शाखामुपकर्षति ११ असिदं दात्रं पश्चाद्गार्हपत्यस्य सावित्रेणादत्तेऽश्वपरशुँ वादेवस्य त्वेति प्रभृतिनादद इत्यन्तेन १२ गोषदसीति गार्हपत्यं प्रेक्षते १३ प्रत्युष्टँ रक्ष इत्याहवनीये प्रतितप्योर्वन्तरिक्षँ वीहि ॥ प्रेयमगादिति प्राग्वोदग्वाभिप्रव्रज्य यतः कुतश्चिद्दर्भान्बर्हिराहरति १४ देवानां परिषूतमसीति परिषूय विष्णोः स्तुप इति स्तम्बं गृहीत्वातिसृष्टो गवां भाग इत्येकाँ श्नुष्टिं द्वे वा विसृजति १५ देवेभ्यस्त्वोर्ध्वबर्हिर्भ्य इत्यूर्ध्वमुन्मृज्य माधो मोपरि परुस्त ऋध्यासमिति दात्रमुपहृत्य विशाखानि प्रति लुनाति सावित्रेण दामीत्यन्तेन १६ प्रथमलूनँ संनखं प्रस्तरं कृत्वा पृथिव्याः संपृचः पाहीति तृणमन्तर्धाय सादयति १७ आच्छेत्ता ते मा रिषमिति प्रभूतं लूत्वा जपति १८ अतस्त्वं बर्हिरित्यालवानभिमृशति १९ सहस्रवल्शा इत्यात्मानं प्रत्यभिमृशति २० अपः स्पृष्ट्वायुपिता योनिति शुल्बं प्रतिधायादित्या रास्नासीत्यावेष्टयति त्रिधातु पञ्चधातु सप्तधातु वा २१ एवं धातुसंभरणास्तरणयोः २२ सुसंभृता त्वा संभरामीति शुल्बे बर्हिः संभरति २३ अलुभिता योनिरिति प्रस्तरमाधायेन्दाण्याः संनहनमित्यन्तावभिसमायच्छति २४ पूषा ते ग्रन्थिं ग्रथ्नात्विति ग्रन्थिं करोति २५ स ते मा स्थादिति पश्चात्प्राञ्चमुपकर्षति २६
आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः ।
बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभे ॥
इत्यारभ्येन्द्र स्य त्वा बाहुभ्यामुद्यच्छ इत्युद्यच्छति २७ बृहस्पतेर्मूर्ध्ना हरामीति शिरस्याधायोर्वन्तरिक्षँ वीहीति व्रजति २८ आदित्यास्त्वा पृष्ठे सादयामीति पश्चादाहवनीयस्य पारीधिदेशेऽनधः सादयित्वा देवंगममित्युपरि निदधाति २९ पालाशं खादिरँ वाष्टादशदारुमिध्मँ संनह्याति त्रीँ श्चपरिधीन्सहशल्कान्कार्ष्मर्यमयान्बिल्वपलाशखदिररोहीतकोदुम्बराणाँ वा ३० स्थविष्ठो मध्यमो वर्षीयानणीयान्दक्षिणार्ध्यो ह्रसिष्ठोऽणिष्ठ उत्तरार्ध्यः ३१
यत्कृष्णो रूपं कृत्वा प्राविशस्त्वँ वनस्पतीन् ।
ततस्त्वामेकविँ शतिधा संभरामि सुसंभृता ॥
इति संभृत्य यज्ञायुरनुसंचरानिति सहमूलैर्दर्भैः संनह्यति ३२ कृष्णोऽस्याखरेष्ठाः ॥ देवपुरश्चरस ऋध्यासं त्वेत्युपरि निदधाति ३३
इतीष्टिसूत्रे द्वितीयाध्याये प्रथमं खण्डम् ॥
दर्भाणाँ वेदं करोति वत्सज्ञुं पशुकामस्य त्रिवृतं ब्रह्मवर्चसकामस्य मूतकार्यमन्नाद्यकामस्य १ प्रसव्यँ शुल्बं कृत्वा वत्सज्ञुं निवेष्ट्य वेदाग्रे शुल्बं निधाय त्रिर्वेदशिरः संनह्यत्युत्तरमुत्तरं प्रदक्षिणम् २ प्रादेशमात्रे शुल्बात्परिवास्योत्करे मूलानि गमयति ३ अत्रैवामावास्यायाँ वेदिं करोति सर्वँ सद्यः पौर्णमास्याम् ४ शाखाया अन्तर्वेदि पलाशानि विशात्य मूलतः प्रच्छिद्यान्तर्वेदि न्यस्येदुपवेशं च कुर्वीत ५ शाखाया दर्भमयं पवित्रं करोत्यग्रन्थि त्रिवृदविदलम् ६ हुतेऽग्निहोत्रे परिसमूह्य परिस्तीर्योत्तरतो गार्हपत्यस्य पात्रेभ्यः सँ स्तीर्य द्वंद्वँ सांनाय्यपात्राणि प्रयुनक्ति दोहनं निदाने कुम्भीँ शाखापवित्रं च ७ बर्हिषः पवित्रे कुरुते समावप्रच्छिन्नप्रान्तौ दर्भौ प्रादेशमात्रौ ८ पवित्रे स्थो वैष्णवे इत्योषध्या छित्त्वा विष्णोर्मनसा पूते स्थ इत्यद्भिस्त्रिरुन्मृज्य प्रोक्षणीः सँ स्कुरुते ९ देवो वः सवितोत्पुनात्विति गायत्र्या त्रिः पच्छ उत्पूय देवीरापोऽग्रेगुव इत्यभिमन्त्र्य शुन्धध्वं दैव्याय कर्मण इति पात्राणि त्रिः प्रोक्षति १० उपसृष्टां मे प्रब्रूतात् ॥ विहारं च गां चोपसृष्टामन्तरेण मा संचारिषुरिति संप्रेष्यति ११ निष्टप्तँ रक्षो निष्टप्ता अरातय इति कुम्भीं निष्टप्य वसूनां पवित्रमसीति प्रागग्रं पवित्रमवदधाति १२ द्यौरसीत्यभिमन्त्र्य मातरिश्वनो घर्म इत्यधिश्रयति १३ अन्वारभ्य वाचँ यच्छति १४ न रिक्तमवसृजति १५ पोषाय त्वेति वत्समवसृज्यमानमनुमन्त्रयते १६ अयक्ष्मा वः प्रजया सँ सृजामि रायस्पोषेण बहुला भवन्त्विति संगच्छमाजाम् १७ अदित्या रास्नासीति निदीयमानाम् १८ ऊर्जस्वतीर्घृतवत्पिन्वमाना जीवा जीवन्तीरुप वः सदेमेत्युपसन्नम् १९
उत्सं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीँ स्वस्तये ।
तदिन्द्रा ग्नी जिन्वताँ सूनृतावत्तद्यजमानमपि स्वर्गे लोके दधातु ॥
इति धाराघोषम् २० दोग्धारं पृच्छति कामधुक्ष इति । अमूमिति नामादिशति २१ सा विश्वायुरस्त्वसाविति नामग्राहमनुमन्त्रयते । सा विश्वभूरिति द्वितीयाम् । सा विश्वकर्मेति तृतीयाम् २२ दुग्धमवनयति २३ तिस्रो यजुषा दोहयति तिस्रस्तूष्णीम् २४ तिसृषु दुग्धासु त्रिरुच्चैर्वाचँ विसृजते २५ बहु दुग्धीन्द्रा य देवेभ्यो हविरिति संप्रेष्यति । महेन्द्रा येति महेन्द्र याजिनः २६ विसृष्टवागनन्वारभ्योत्तरा दोहयति २७
संपृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः ।
पृञ्चतीः पयसा पयो मन्द्रा धनस्य सातये ॥
इति कुम्भ्याँ संक्षालनमानयति २८ हुतः स्तोक इति स्कन्नप्रायश्चित्तं जपति २९ वर्त्म कुर्वन्नुदगुद्वासयतिदँ ह गा दृँ ह गोपतिं मा ते यज्ञपती रिषदिति ३० शीबबुध्नं दध्नातनक्ति द्वयोरेकस्या वा दुग्धेन पूर्वेद्युर्निहितेन ३१ इन्द्रा य त्वा भागँ सोमेनातनच्मीत्यातनक्ति । महेन्द्रा येति महेन्द्र याजिनः ३२ यवागूरग्निहोत्रम् । तस्याः पिण्डं प्रतिनयतिअदस्तमसि विष्णवे त्वेति ३३ विष्णो हव्यँ रक्षस्वेति निधायापो जागृतेति सोदकेन पात्रेणामृन्मयेनापिदध्यात् ३४ यदि मृन्मयँ स्यात्तृणं काष्ठँ वावदध्यात् ३५ तेन धर्मेण प्रातर्दोहाय वत्सानपाकरोति ३६ सोमयाजिनोऽमावास्यायां नित्यँ संनयनँ यथाकाम्यसोमयाजिनः ३७ शुश्रुवान्ग्रामणी राजन्य इति गतश्रियः ३८ और्वो गौतमो भारद्वाज इति महेन्द्रँ यजेरन्गतश्रियश्च ३९ इतरे सँ वत्सरमिन्द्र मिष्ट्वाग्नये व्रतपतयेऽष्टाकपालं निरुप्य महेन्द्रँ यजेरन् ४०
इतीष्टिसूत्रे द्वितीयेऽध्याये द्वितीयं खण्डम् ॥
अमावास्यायामपराह्णे पिण्डपितृयज्ञाय प्राग्दक्षिणैकोल्मुकं प्रणयेत्
अपेतो यन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति ।
परापुरो निपुरो ये भरन्त्यग्निष्टान्लोकात्प्रणुदात्वस्मात् ॥
इति १ उत्तरतः प्रणीतस्य वेदिमुद्धन्ति स्फ्येन सकृत्पराचीनमपेतो यन्त्वसुरा ये पितृषद इति २ प्राग्दक्षिणाग्रैर्दक्षिणाग्निं परिस्तीर्य दक्षिणतोऽग्नेरेकैकं पात्राणि प्रयुनक्ति चरुं मेक्षणं पिण्डनिधानमुलूखलमुसलं कृष्णाजिनँ शूर्पम् ३ सकृदाछिन्नस्य बर्हिष एकपवित्रं कृत्वा तूष्णीं प्रोक्षाणीँ सँ स्कृत्य पात्राणि सकृत्प्रोक्षति ४ एकपवित्रमन्तर्धायाग्निष्ठादधि चरुणा व्रीहीन्निर्वपति पूरयित्वा निमृज्य कृष्णाजिनेऽध्यवहन्ति प्राग्दक्षिणमुखा परापावम् ५ सकृत्फलीकृतान्दक्षिणाग्नौ श्रपयति प्रसव्यमुदायावं जीवतण्डुलम् ६ शृतं प्रतिनयति ७ घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिघार्य दक्षिणत उद्वास्यैकस्फ्यायामासिच्य सकृदाछिन्नं प्रोक्षति ८ एकस्फ्यामास्तीर्य चरुं मेक्षणं पिण्डनिधानमित्येकैकं बर्हिष्यासादयति ९ परिश्रयत्यादित्यसकाशात् १० कशिपुँ सोपधानं पश्चादग्नेरास्तीर्य पितॄनावाहयतिएत पितर इति ११ यज्ञोपवीती मेक्षणेन तिस्र आहुतीर्जुहोतिसोमाय पितृमते स्वधा नमः ॥ यमायाङ्गिरस्वते स्वधा नमः ॥ अग्नये कव्यवाहनाय स्वधा नम इति दक्षिणां दक्षिणाम् १२ उदकलेपं मेक्षणमग्नावनुप्रहरति १३ यजमानोऽत ऊर्ध्वं परेतन पितर इति त्रिरपः परिषिञ्चति त्रिः पात्रं प्रतिपरिहरति १४ त्रीनुदकाञ्जलीन्निनयतिआचामन्तु पितर इति १५ बर्हिषि त्रीन्पिण्डान्निदधाति दक्षिणं दक्षिणम्एतत्ते मम म्पितरसाविति पितुर्नाम गृहीत्वैतत्ते मम पितामहासाविति पितामहस्यैतत्ते प्रपितामहासाविति प्रपितामहस्य १६ ये चात्र त्वामनु तेभ्यः स्वधेत्यनुषजेत् १७ एतत्तेऽमुष्य पितरेतत्तेऽमुष्य पितामहैतत्तेऽमुष्य प्रपितामहेति प्रवसति यजमानेऽध्वर्युः १८ यदि नामानि न जानीयात्स्वधा पितृभ्यः पृथिवीषद्भ्यः स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः स्वधा पितृभ्यो दिविषद्भ्य इति निदध्यात् १९ लुप्येत जीवत्पितुः पिण्डनिधानम् २० न जीवन्तमतिदद्यात् २१ जीवत्पितामहश्चेत्पितुरेकः पिण्डः २२ लेपः पित्रे २३ तथोदकमाञ्जनाभ्यञ्जने च २४ बर्हिषि लेपं निमार्ष्टियात्र पितरः स्वधा तया यूयँ यथाभागं मादयध्वमिति २५ अत्र पितरो मादयध्वमित्युदङ्ङावृत्या तमितोरासित्वा येह पितर ऊर्क्तस्यै वयं ज्योग्जीवन्तो भूयास्मेत्यमीमदन्त पितर इति परिश्रितं प्रपद्याञ्जनाक्ताः शलाकाः प्रतिपिण्डं निदधातिआङ्क्ष्वासावित्याञ्जनेनाभ्यङ्क्ष्वासावित्यभ्यञ्जनेन च २६ एषा युष्माकं पितर इत्यूर्णां दशाँ वा न्यस्यति । इमा अस्माकमित्यवशिष्टा अवेक्षते २७ लोमोत्तरवयसि न्यस्येत्अतो नः पितरोऽन्यन्मा योष्टेति २८ तेन धर्मेण परिषिच्य मार्जयन्तां पितरो मार्जयन्तां पितामहा मार्जयन्तां प्रपितामहा इति बर्हिषि त्रीनुदकाञ्जलीन्निनीय निह्नुतेऽञ्जलिं कृत्वा नमो व पितरो मन्यवे । नमो वः पितर इषे । नमो वः पितर ऊर्जे । नमो वः पितरः शुष्माय । नमो वः पितरो रसाय । नमो वः पितरो बलाय । नमो वः पितरो यज्जीवं तस्मै । नमो वः पितरो यद्घोरं तस्मै । स्वधा वः पितरो नमो नमो वः पितरः ॥ येऽत्र पितरः प्रेता युष्माँ स्तेऽनु य इह पितरो जीवा अस्माँ स्तेऽनु ॥ येऽत्र पितरः प्रेता यूयं तेषाँ वसिष्ठा भूयास्थ य इह पितरो जीवा अहं तेषाँ वसिष्ठो भूयासमिति २९ शेषमवजिघ्रेत् । आमयाव्यन्नाद्यकामो वा प्राश्नीयात् ३० प्रजापते न त्वदित्युत्तिष्ठति ३१ परेतनेति यजमानः प्रवाहणीं जपति ३२ उभौ मनस्वतीर्मनो न्वाहुवामह इति तिस्रः ३३
वयँ सोम व्रते तव मनस्तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि ॥
इति च । अक्षन्नमीमदन्तेति च ३४ प्राप्या ते अग्न इधामहीति गार्हपत्यमुपतिष्ठते ३५ मध्यमं पिण्डं पत्नी प्राश्नीयात्
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् ।
यथायं पुमान्स्यात् ॥
इति । इतरावग्नावनुप्रहरेद् ब्राह्मणो वाश्नीयादपो वा गमयेत् ३६ द्वे द्वे अभ्युक्ष्य पात्राणि प्रत्याहरति ३७ औपासनं गार्हपत्यदक्षिणाग्निस्थानीयं कृत्वाप्यनाहिताग्निः पिण्डपितृयज्ञं कुर्वीत ३८
इतीष्टिसूत्रे द्वितीयेऽध्याये तृतीयं खण्डम् ॥
प्रातर्हुतेऽग्निहोत्रे वेषाय वामिति पाणी प्रक्षाल्याग्नीन्परिस्तीर्य दक्षिणतो ब्रह्मयजमानाभ्याँ स्तीर्त्वा संततं पृष्ठ्याँ स्तृणाति गार्हपत्यादध्याहवनीयाद् यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामीति १ उत्तरतः पृष्ठ्यायाः पात्रेभ्यः सँ स्तीर्य द्वंद्वं पात्राणि प्रयुणक्ति स्फ्यं कपालान्यग्निहोत्रहवणीँ शूर्पं कृष्णाजिनँ शम्यामुलूखलमुसलं दृषदुपलं खादिरँ स्रुवं पालाशीं जुहूमाश्वत्थीमुपभृतँ वैकङ्कतीं ध्रुवाँ शमीमयीर्वारत्निमात्रीः २ वरणमयानि शिष्टानि पात्राणि ३ पात्रीमिडाचमसँ वेदँ वेदप्ररवान्कुटरुमाज्यस्थालीं चरुं प्राशित्रहरणं प्रणीतापात्रं पत्नीयोक्त्रं प्रातर्दौहिकानि ४ चमसेनापः प्रणयति । काँ स्येन ब्रह्मवर्चसकामस्य दोहनेन पशुकामस्य मृन्मयेन प्रतिष्ठाकामस्यायसेनाभिचरतः ५ वानस्पत्योऽसीति चमसमादाय देवेभ्यः शुन्धस्वेति चमसं प्रक्षालयति ६ पार्थिवमसि ॥ देवेभ्यः शुम्भस्वेतीतरान् ७ पश्चाद् गार्हपत्यस्य पवित्रान्तरापो गृह्णीते पृथिवीं मनसा ध्यायन्
यद्वो रेवती रेवत्यँ यद्वो हविष्या हविष्यम् ।
यद्व ओजो यच्च नृम्णं तँ व ऊर्मिं मधुमन्तं देवयज्यायै जुष्टं गृह्णामि ॥
इति ८ प्रोक्षणीर्धर्मैः सँ स्कृत्य ब्रह्मन्नपः प्रणेष्यामीत्यामन्त्र्यावधाय पवित्रे स्फ्येन सह प्रणयति समं प्राणैर्धारयमाणःको वः प्रणयति स वः प्रणयतु ॥ कस्मै वः प्रणयति तस्मै वः प्रणयतु ॥ बृहस्पतिर्वः प्रणयतु ॥ पोषाय त्वेति ९ उत्तरत आहवनीयस्य स्फ्येनोद्धत्य सादयतिको वो युनक्ति स वो युनक्तु ॥ कस्मै वो युनक्ति तस्मै वो युनक्तु ॥ बृहस्पतिर्वो युनक्तु ॥ विश्वेभ्यः कामेभ्यो देवयज्याया इति १० अध्वर्युयजमानौ वाचँ यच्छेतामा हविष्कृतः ११ परिस्तरणैः स्वाछाद्य पवित्रपाणिः पात्राणि संमृशतिसँ सीदन्तां दैवीर्विश इति १२ वानस्पत्यासीत्यग्निहोत्रहवणीमादत्ते १३ वर्षवृद्धमसीति शूर्पम् १४ उर्वन्तरिक्षँ वीहीति व्रजति १५ प्रत्युष्टँ रक्ष इत्याहवनीये प्रतितप्य यजमान हविर्निर्वप्स्यामीति यजमानमामन्त्रयते १६ यदि प्रवसेदग्ने निर्वप्स्यामीति ब्रूयात् १७ व्रीह्याग्रयणेनेष्ट्वा व्रीहिभिर्यजेता यवेभ्यो यवैर्वा व्रीहिभ्यः १८ पश्चादग्निष्टँ शकटँ योग्यकृतं छदिष्मत्सपरिणट्कम् १९ तस्मादधि निर्वपति २० पात्र्या वा स्फ्यमवधायानसान्मन्त्रान्जपन् २१ धूरसीति धुरमभिमृशति २२ देवानामसि वह्नितममित्युत्तरामीषामालभ्य जपति २३ विष्णोः क्रमोऽसीति पादमादधाति २४ अह्रुतमसीत्यारोहति २५ उरु वातायेत्यवसारयति २६ मित्रस्य वश्चऋक्षुषा प्रेक्ष इति हविष्यान्प्रेक्षते २७ अग्निहोत्रहवण्यामवधाय मुष्टिना निर्वपत्यग्निहोत्रहवण्याः शूर्पेदेवस्य व इत्यग्नये वो जुष्टान्निर्वपाम्यमुष्मै वो जुष्टानिति यथादेवतम् । त्रिर्यजुषा तूष्णीं चतुर्थम् २८ इदं देवानामिति निरुप्तानभिमृशति । इदमु नः सहेत्यवशिष्टान् २९ गोपीथाय त्वा रक्षायै त्वा नारात्या इति निरुप्तान् ३० दृँ हन्तां दुर्या इत्यवरोहति ३१ स्वाहा द्यावापृथिवीभ्यामिति स्कन्नप्रायश्चित्तं जपति ३२ निर्वरुणस्येति शकटं निष्क्रामयति ३३ स्वरभिव्यक्शमित्याकाशं प्रेक्षते ३४ ज्योतिर्वैश्वानरमित्याहवनीयम् ३५ उर्वन्तरिक्षमन्विहि ॥ अदित्यास्त्वोपस्थे सादयामीति पश्चाद् गार्हपत्यस्य सादयति ३६ अग्ने हव्यँ रक्षस्वेति पुर उपसादयति ३७ अनिर्मृष्टायामग्निहोत्रहवण्यां प्रोक्षणीँ सँ स्कृत्य हविष्यं प्रोक्षत्यनभिप्रोक्षन्नग्निम्अग्नये वो जुष्टान्प्रोक्षाम्यमुष्मै वो जुष्टानिति यथादेवतम् । त्रिर्यजुषा तूष्णीं चतुर्थम् ३८ पात्राणि च यद्वोऽशुद्ध आलेभ इति त्रिरुत्तानानि पर्यावर्त्य ३९ अदित्यास्त्वगसीति कृष्णाजिनमादायावधूतँ रक्ष इत्युत्करे त्रिरवधूनोत्युपरिष्टाद्ग्रीवमुदगाशसनम् ४० अदित्यास्त्वगसि प्रति त्वादित्यास्त्वग्वेत्त्विति ४१ पश्चादुत्करस्यास्तृणाति प्रत्यग्ग्रीवमुत्तरलोम प्रत्यग्भसदमभिभुजन् ४२ अनुत्सृजन्कृष्णाजिनमुलूखलमादधातिपृथुग्रावासीति ४३ न रिक्तमवसृजति ४४ अग्नेर्जिह्वासीति हविष्यान्वपति । त्रिर्यजुषा तूष्णीं चतुर्थम् ४५ बृहद्ग्रावासीति मुसलमादाय । ऊर्ध्वसूर्वानस्पत्य इति वा ४६ अपहतँ रक्षो हविष्कृदेहीत्यवहन्ति । अपहतोऽघशँ सो हविष्कृदेहीति द्वितीयम् । अपहता यातुधाना हविष्कृदेहीति तृतीयम् ४७ हविष्कृदागहीति राजन्यस्य हविष्कृदाद्र वेति वैश्यस्य ४८ पत्न्यवहन्ति ४९ कुटरुरसीत्याग्नीध्रः कुटरुमादायेषमावदेति दृषदमाहन्ति । ऊर्जमावदेति द्वितीयँ रायस्पोषमावदेत्युपलाम् ५० त्रिरेतेन धर्मेण ५१ वर्षवृद्धमसीति शूर्पमादत्ते ५२ वर्षवृद्धाः स्थेति हविष्यान्प्रेक्षते ५३ प्रति त्वा वर्षवृद्धँ वेत्त्वित्युद्वत ५४ परापूतँ रक्ष इत्युत्ते निष्पुनाति ५५ पुरोडाशकपाले तुषानोप्याधस्तात्कृष्णाजिनस्योपास्यतिप्रविद्धो रक्षसां भाग इति ५६ इदमहँ रक्षोऽवबाध इदमहँ रक्षोऽधमं तमो नयामीति पार्ष्ण्या तुषानवबाधते ५७ अपः स्पृष्ट्वा विविनक्तिदेवो वः सविता विविनक्तु विचा विविच्यध्वमिति ५८ विविक्तानावपति ५९ देवेभ्यः शुन्धध्वमिति त्रिः फलीकरोति ६० तेन धर्मेणानभिभुजन्कृष्णाजिनमास्तीर्य धिषणासि पार्वतीति दृषदमादधाति ६१ धिषणासि पार्वती प्रति त्वा पार्वती वेत्त्वित्युपलाम् ६२ अदित्याः स्कम्भोऽसीति शम्यामुपकर्षति पश्चादुदीचीनकुम्बाम् ६३ धान्यमसीत्यधिवपति त्रिर्यजुषा तूष्णीं चतुर्थम् ६४ प्राणाय त्वेति प्राचीमुपलां प्रकर्षत्यपानाय त्वेति प्रतीचीँ व्यानाय त्वेति मध्ये व्यवधारयति ६५ दीर्घामनु प्रसृतिमिति सँ स्थापयति ६६ मित्रस्य वश्चक्षुषावेक्ष इति पिष्टान्यवेक्षते ६७ देवो वः सविता हिरण्यपाणिरुपगृह्णात्वित्यवशीर्यमाणान्युपगृह्णाति ६८ दासी पिनष्टि पत्नी वा ६९ अणूनि कुरुतादिति संप्रेष्यति ७०
इतीष्टिसूत्रे द्वितीयेऽध्याये चतुर्थ खण्डम् ॥
इति द्वितीयोऽध्यायः
धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय गार्हपत्यादङ्गारौ निर्वर्तयतिअपाग्नेऽग्निमामादं जहीति १ निष्क्रव्यादं नुदस्वेत्यन्यतरं निरस्यति २ आग्ने देवयजनँ वहेति द्वितीयमवस्थाप्य तस्मिन्कपालमुपदधातिध्रुवमसि पृथिवीं दृँ हेति ३ अनभिसृजन्कपालमङ्गारमधिवर्तयतिनिर्दग्धँ रक्ष इति ४ धरुणमसीति पूर्वमुपदधाति । धर्त्रमसीति पूर्वार्धम् । धर्मासीति मध्यमाद्दक्षिणम् । चिदसीत्युत्तरम् । परिचिदसीति दक्षिणार्धात्पूर्वम् । विश्वासु दिक्षु सीदेत्यपरम् । सजातानस्मै यजमानाय परिवेशय सजाता इमँ यजमानं परिविशन्त्वित्युत्तरार्धात्पूर्वम् ५ अष्टाकपाल आग्नेयुअ एकादशकपाल ऐन्द्रा ग्न ऐन्द्र श्च ६ एतेन धर्मेणोत्तरस्मिन्नष्टावुपधाय चितः स्थ परिचितः स्थेति शेषमुपदधाति ७ वसूनाँ रुद्रा णामित्यङ्गारानध्यूह्य तप्ताभ्यश्चरुमधिश्रित्य प्रातर्दोहं दोहयति यथा सायंदोहम् ८ उदगग्रं पवित्रमवदधाति ९ शृतं करोति नातनक्ति १० उद्वास्य प्रातर्दोहं पिष्टानि सँ वपति निष्टप्योपवातायां पात्र्यां पवित्रे अवधाय वाग्यतो देवस्य व इत्यग्नये जुष्टान्सँ वपाम्यमुष्मै वो जुष्टानिति यथादेवतं त्रिर्यजुषा तूष्णीं चतुर्थम् ११ तप्ता अपो मदन्तीरुत्पूय हविरुत्पुनाति पच्छो गायत्र्या १२ आहरति स्रुवेण प्रणीतानां वेदमुपयामं कृत्वा १३ ताभिः सँ सृजतिक्समापा ओषधीभिरिति १४ अद्भिः परिप्रजाताः स्थ समद्भिः पृच्यध्वमिति मदन्तीभिः १५ सीदन्तु शिव इति संनयति १६ मखस्य शिरोऽसीति पिण्डमभिमन्त्र्य पूषा वाँ विश्ववेदा विभजतु यथाभागँ व्यावर्त्तेथामिति समौ करोति १७ इदमग्नेरित्याग्नेयमिदमग्नीषोमयोरित्यभिमन्त्र्य पौर्णमास्याम् १८ यथादेवतममावास्यायाम् १९ घर्मोऽसीत्यधिश्रयति २० उरु प्रथस्वेति प्रथयति यावत्कपालं कूर्मस्यानुरूपमश्वशफमात्रम् २१ सं ते तन्वा तन्वः पृच्यन्तामित्यविक्षारयन्लेपेन परिमार्ष्टि २२ दक्षिणत आज्यं निर्वपति २३ अदितिरसि नाछिन्नपत्रेत्याज्यस्थालीमादाय दक्षिणाग्नौ विलाप्य पवित्रान्तरा पृश्नेः पयोऽस्यग्रेगुवस्तस्य तेऽक्षीयमाणस्य पिन्वमानस्य जिन्वमानस्येष ऊर्जे जुष्टं निर्वपामि देवयज्याया इति २४ परि वाजपतिरित्याज्यँ हविश्च त्रिः पर्यग्नि करोति सह लेपेन २५ देवस्त्वा सविता श्रपयत्वित्युल्मुकेनाभिताप्याग्ने ब्रह्म गृह्णीष्वेत्युल्मुकमवसृज्य दर्भैस्त्वचं ग्राहयतिअग्निष्टे त्वचं मा हिँ सीदित्यनपोहन्ज्वालान् २६ सं ब्रह्मणा पृच्यस्वेति वेदेन सहाङ्गारं भस्माभ्यूहति २७ अविदहन्त श्रपयतेत्यङ्गारानभ्यूह्य वाचँ विसृजते २८ अन्तर्वेदि प्रागुदीचीः स्फ्येन तिस्रो लेखाः कृत्वा सु लेपं निनयत्यसँ सारयन् एकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहेति पर्यायैराहवनीयादुल्मुकेनाभिताप्य २९ वेदिं करोति ३० खादिरँ स्फ्यं भृष्टिलमादत्ते वित्रेण ३१ इन्द्र स्य बाहुरसीति दर्भेण संमृज्य पृथिव्या वर्मासीति पूर्वस्मिन्वेदितृतीये दर्भं निधाय स्फ्येन तिर्यक्छिनत्ति त्रिचतुर्थंपृथिवि देवयजनीति ३२ व्रजं गच्छ गोस्थानमिति तृणाग्रमादत्ते पाँ सूँ श्चाखात्वा ३३ वर्षतु ते पर्जन्य इति वेदिमवेक्षते ३४ बधान देव सवितरिति स्फ्येन सतृणान्पाँ सून्हरति ३५ उत्तरत आग्नीध्रस्तुषान्वेदमूलानीत्युत्करं परिगृह्णाति ३६
इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् ।
मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषेषु ॥
इति तस्य पाणिकोष्ठे निवपति ३७ योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यभिचरन् ३८ मा वः शिवा ओषधय इति द्वितीयम् ३९ द्र प्सस्त इति तृतीयम् ४० एतेन धर्मेण त्रिर्यजुषा हरति तूष्णीं चतुर्थम् ४१ अपबाढँ रक्षोऽपबाढोऽघशँ सोऽपबाढा यातुधाना इति स्फ्येनोत्करमपिधत्ते ४२ अग्रेण गार्हपत्यमपरेणाहवनीयँ स्फ्येन वेदिं परिगृह्णाति यजमानमात्रां प्राचीँ यथा हवीँ ष्यासन्नानि संभवेयुस्तावतीं तिरश्चीम् ४३ सत्यसदसीति पश्चार्धादुदीचीं लेखां लिखति । ऋतसदसीति दक्षिणार्धात्प्राचीम् । घर्मसदसीत्युत्तरार्धात्प्राचीम् ४४ खेयां प्रतिष्ठाकामस्य कुर्यात् ४५ अपररुमिति द्व्यङ्गुलं खात्वा स्फ्येन मूलान्युद्धत्योत्करे निवपति ४६ आहार्यपुरीषां पशुकामस्य कुर्यात् ४७
इतीष्टिसूत्रे तृतीयेऽध्याये प्रथमं खण्डम्
इमां नरः कृणुत वेदिमेत्य देवेभ्यो जुष्टामदित्या उपस्थे ।
ताँ विश्वे देवा जुषन्त सवे रायस्पोषा यजमानँ सँ विशन्तु ॥
इति संमृष्टामाहवनीयलक्ष्म्यै प्राञ्चावँ सावुन्नयति प्रतीची श्रोणी प्रागुदक्प्रवणाँ संनतमध्यामन्तिकजघनाम् १ एतदन्तं पूर्वेद्युः करोति २ पाणी प्रक्षाल्य स्फद्यं प्रक्षालयत्यप्रतिमृशन्नग्रम् ३ वेदिमवोक्ष्य ब्रह्मन्नुत्तरं परिग्रहीष्यामीत्यामन्त्र्य परिगृह्णातिवसवस्त्वेति पश्चाद् रुद्रा स्त्वेति दक्षिणत आदित्यास्त्वेत्युत्तरतः ४ धा असि स्वधा असि ॥ उवीं चासि वस्वी चासि रन्ती चासि ॥ पुरा क्रूरस्येति च स्फत्थेन वेदिँ संमृज्यापरस्मिन्वेदितृतीये तिर्यञ्चँ स्फ्यँ स्तब्ध्वा प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं स्रुचश्च संमृड्ढि पत्नीँ संनह्याज्येनोदेहीति संप्रेष्यति ५ आग्नीध्रो यथाप्रेषितं करोति ६ प्रोक्षणीरभ्युत्पूर्यस्फ्याग्रेऽप उपनिनीयोदञ्चँ स्फ्यमवकृष्य स्फ्यस्यं वर्त्मन्सादयति ७ पुरासदनात्स्फ्यमुद्यच्छेत् ८ स्फ्येनोत्करमवहन्तिद्विषतो वधोऽसीति पुरस्तात्प्रत्यञ्चम् ९ अभ्युक्ष्य प्रत्यासादयति १० उत्तरत आहवनीयस्य दक्षिणमिध्ममुत्तरं बर्हिः ११ वेदप्ररवैः स्रुचः संमार्ष्टि चतुर्धा विभज्याविभज्य वा १२ आहवनीये गार्हपत्ये वा प्रत्युष्टँ रक्ष इति प्रतितप्याभ्यग्रे सपार्श्वाग्रैर्मुखानि मूलैर्दण्डान् १३ आयुः प्राणमिति सर्वतः स्रुवमग्नेष्ट्वा तेजिष्ठस्य तेजसा निष्टपामीति संमार्गं निष्टपति १४ चक्षुः श्रोत्रमिति जुहूमभ्यन्तरं प्राचीं प्रतीचीं बाह्यतः १५ वाचं पशूनित्युपभृतमभ्यन्तरं प्रतीचीं प्राचीं बाह्यतः १६ यज्ञं प्रजामिति सर्वतो ध्रुवाम् १७ अभ्युक्ष्य संमार्गानग्नावनुप्रहरति
दिवः शिल्पमवततं पृथिव्याः ककुभि श्रितम् ।
तेना सहस्रकाण्डेन द्विषन्तं तापयामसि ॥
द्विषन्नस्तप्यतां बहु मा न आगात्ताप्यौषधयः स्वाहा ॥
इति १८ अग्ने गृहपत उप मा ह्वयस्व देवानां पत्नीरुप मा ह्ययध्वमिति पत्नी गार्हपत्यमुपतिष्ठते । पत्नीलोकं चपत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिँ सीरिति १९
सुप्रजसस्त्वा वयँ सुपत्नीरुपसेदिम ।
अग्ने सपत्नदम्भनँ सुवीरासो अदाभ्यम् ॥
इति दक्षिणतः पश्चाद्गार्हपत्यस्योपविशति प्रभुज्य जानुनी २० योक्त्रेण पत्नी संनह्यतेऽन्तर्वस्त्रम्
आशासाना सौमनसं प्रजाँ सौभाग्यं तनूम् ।
अग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कम् ॥
इति २१ पूषा ते ग्रन्थिं प्रथ्नात्विति ग्रन्थिं करोति २२ स ते मा स्यादिति दक्षिणतो ग्रन्थिमंभ्यूहति २३ अपः स्पृष्ट्वा वेदेनाज्यमुपहरति २४ तदन्वारभ्याभिसंमील्यावेक्षतेअदब्धेन त्वा चक्षुषावेक्षे रायस्पोषाय सुप्रजास्त्वाय ॥ अदितिरिव सुपुत्रेन्द्रा णीवाविधवा सुप्रजाः प्रजया भूयासमिति २५ इदँ विष्णुरिति गार्हपत्यदक्षिणाग्न्योरधिश्रयति २६ तेजोऽसीति द्वितीयं पश्चाद्गार्हपत्यस्य २७ तेजोऽनुप्रच्यवस्वेति हरति २८ अग्नेष्टे हरो मा विनैदित्याहवनीयेऽधिश्रित्योत्तरतः प्रोक्षणीनाँ स्फ्यस्य वर्त्मन्सादयति २९ तेजोऽसीति पर्यायैस्त्रिराज्यमुत्पूयाप उत्पुनाति पच्छो गायत्र्या ३० अमृतमसीत्याज्यमवेक्षते ३१ अन्तर्वेद्याज्यानि स्रुवेण गृह्णाति वेदमन्तर्धाय पवित्रे अवधाय धामासीति गृह्णँ श्चतुर्जुह्वां गृह्णाति । अष्टौ गृह्णन्नुपभृति कनीयश्चतुर्ध्रुवायाम् ३२ भूयिष्ठं पञ्चमं पशुकामस्य ३३
इतीष्टिसूत्रे तृतीयेऽध्याये द्वितीयं खण्डम्
आपो रेभत पिपृत मध्वा समक्ता निषाद स्था यामन्वाहार्यमाणा इति प्रोक्षणीरभिमन्त्रयते । देवीरापः शुद्धा यूयमिति च १ ब्रह्मन्निध्मँ वेदिं बर्हिः प्रोक्षिष्यामीत्यामन्त्र्य विस्रस्येध्ममृते परिधिभ्यः प्रोक्षति २ कृष्णोऽस्याखरेष्ठ इतीध्मँ वेदिरसीति वेदिं बर्हिरसीति बर्हिस्त्रिस्त्रिः प्रोक्षति ३ देवंगममसीत्यन्तर्वेद्यासाद्य बर्हिस्त्रिः प्रोक्षतिदिवे त्वेत्यग्रमन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम् ४ अग्राण्युपपाय्य ग्रन्थिं परिषिच्य मूलान्युपसिञ्चत ५ ऊर्ग्भव बर्हिषद्भ्यः ॥ स्वा पितृभ्यो घर्मपावभ्य इति दक्षिणतो वेद्याः प्रोक्षणीशेषं निनीय पूषा ते ग्रन्थिँ विष्यत्विति ग्रन्थिँ विस्रस्य यजमाने प्राणापानौ दधामीति प्रस्तरे पवित्रे विसृज्य विष्णोः स्तुपोऽसीति प्रस्तरँ सहपवित्रमाहवनीयतोऽभिगृह्णात्यविधून्वन्नसंमार्गम् ६ अग्रेणाहवनीयं परिहृत्य दक्षिणतो ब्रह्मणे यजमानाय वा प्रयच्छतिप्राणापानाभ्यां त्वा सतनुं कृणोमीति ७ मयि प्राणापानाविति प्रतिगृह्णाति ८ दर्भानन्तर्धाय दक्षिणतः शुल्बँ स्तृणात्युत्तरमँ समभि स्तृणन्बर्हिःस्तरणमन्त्रेण ९ पश्चार्धादुदगग्रमपत्नीकस्य निदध्यात् १० उरु प्रथस्वेति स्तरणम् ११ पूर्वं पूर्वं धातुमपरमपरँ वा स्तृणाति १२ छादयन्मूलानि प्राचीनमन्तर्दधाति वेदिम् १३ प्रस्तरहस्तः परिधिभिराहवनीयं परिदधातिगन्धर्वोऽसीति पश्चार्ध्यमुदञ्चमिन्द्र स्य बाहुरसीति दक्षिणार्ध्यं प्राञ्चं मित्रावरुणौ त्वेत्युत्तरार्ध्यं प्राञ्चम् १४ अवकृष्याग्रतरमिध्मादूर्ध्वे समिधावादधातिनित्यहोतारं त्वेति । तूष्णीमुत्तराम् १५ सूर्यस्त्वा रश्मिभिरित्याहवनीयमुपस्थाय पुरस्तादप्रच्छिन्नप्रान्तौ दर्भावनन्तर्गर्भावुदगग्रौ बर्हिषि वितनोतिविश्वजनस्य विधृती स्थ इति १६ विधृत्योः प्रस्तरँ सादयति दक्षिणार्धे बर्हिषःवसूनाँ रुद्रा णामिति १७ द्यौरसीति प्रस्तरे जुहूम् १८ समं प्रस्तरमूलैर्दण्डं करोति १९ अन्तरिक्षमसीत्युत्तरामुपभृतमधस्ताद्विधृत्योः । पृथिव्यसीत्युत्तरां ध्रुवामुपरिष्टाद्विधृत्योः २० असँ स्पृष्टाः सादयत्यनूचीः २१ ऋषभोऽसीति दक्षिणतो जुह्वाः पूर्णस्रुवँ सादयति २२ ध्रवा असदन्नित्याज्यानि संमृशति २३ स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्प्लयामीति पात्र्यामुपस्तीर्याभिघार्य हवीँ ष्युद्वासयतिआर्द्रः पृथस्नुर्भुवनस्य गोपाः शृत उत्स्नातु जनिता मतीनामिति २४ सुरूपं त्वा वसुविदं म्पशूनां तेजसाग्नये त्वा जुष्टमभिघारयामीत्याग्नेयमभिघारयति यथादेवतमुत्तरम् २५ अनभिघ्नन्नपर्यावर्तयन्वेदेन प्रमृज्य पात्र्यामवदधाति २६ इरा भूतिः पृथिव्या रसो मोत्क्रमीदिति कपालान्यभिघार्य पुरोडाशावलंकरोति २७ तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन । तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मेन्द्रि येण वीर्येण । तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिः ॥ खमङ्क्ष्व त्वचमङ्क्ष्व सर्वमात्मानमङ्क्ष्वेति स्वक्तमनीकाशमनक्ति २८ अधस्तादुपाज्य दोहावलंकरोति
यस्त आत्मा पशुषु प्रविष्टो देवानाँ वेष्टामनु यो विचष्टे ।
आत्मन्वान्सोम घृतवानिहेहि स्वर्विन्द यजमानाय मह्यम् ॥
इति २९ पश्चात्स्रुचां प्रत्यग्दण्डां पात्रीमासादयत्यग्रेण स्रुचः कुम्भ्यौ संधाय दक्षिणस्याँ वेदिश्रोण्याँ शृतमुत्तरस्यां दध्यग्रेण स्रुचो वेदँ सादयति ३० वेद्यन्तान्परिस्तीर्य होतृषदनमास्तीर्याग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति ३१
इतीष्टिसूत्रे तृतीयेऽध्याये तृतीयं खण्डम्
प्रणवे प्रणवे समिधमादधात्यनुयाजसमिधमवशिष्य १ समिद्धमग्निं त्रिर्वेदेनोपवाजयत्यग्रं वेद्याः संमार्गम् २ ध्रुवायां पूर्णस्रुवमवनीय ध्नुवाया उपहत्योत्तरेण परिधिसंधिनान्ववहृत्य दक्षिणाप्राञ्चमाघारमाघारयतिप्राजापतये स्वाहेति मनसा ३ अग्नीत्परिधीँ श्चाग्निं च त्रिस्त्रिः संमृड्ढीति संप्रेष्यति ४ स्फ्येन संमार्ष्टीध्मसंनहनैश्च परिधीन् । ऋते स्फ्यादग्निमिध्मसंनहनैः संमार्ष्टिआजिं त्वाग्ने सरिष्यन्तँ सनिँ सनिष्यन्तँ वाजं जेष्यन्तं देवेभ्यो हव्यँ वक्ष्यन्तँ वाजिनं त्वा वाजजित्यायै संमार्ज्मि ॥ अग्ने वाजं जयेति ५ सप्रथा नम इति पुरस्ताज्जुहूपभृतोरञ्जलिं करोति ६ जुह्वेत्यग्निष्ट्वा ह्वयति देवान्यक्ष्यावो देवयज्यहा इति जुहूमादत्ते । उपभेदेहि देवस्त्वा सविता ह्वयति देवान्यक्ष्यावो देवयज्यया इत्युपभृतम् ७ सुयमे मे अद्य स्तमित्यभिमन्त्र्याग्नाविष्णू इत्यतिक्रामति ८ विष्णोः स्थामासीत्यवतिष्ठते ९ अन्तर्वेदि दक्षिणः पादो भवत्यवघ्र इव सव्यः १० अथाघारमाघारयतिऊर्ध्वो अध्वर इति प्रागुदञ्चँ संततमूर्ध्वँ स्वर्गकामस्य न्यञ्चं द्वेष्यस्य १२ असँ स्पर्शयन्स्रुचौ प्रत्यतिक्रामतिपाहि माग्ने दुश्चरितादा मा सुचरिताद्भजेति १३ जुह्वा ध्रुवां त्रिः समनक्ति
समक्तमग्निना हविः समक्तँ हविषा घृतम् ।
समन्तर्जिक्षमर्चिषा सं ज्योतिषा ज्योतिः ॥
इति १४ ध्रुवामभिघार्यायतने स्रुचौ सादयति १५ उन्नीतँ राय इति ध्रुवाया आज्यमुन्नयति सुवीराय स्वाहेति जुहूमाप्याययति १६ यज्ञेन यज्ञः संतत इति जुह्वा ध्रुवां प्रत्यभिघारयति १७ उत्तरतः प्रवरायावतिष्ठते । स्फ्यसंमार्गं पाणौ कृत्वापर आग्नीध्रो वेद्यास्तृणमव्यन्तमपादायाहक इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति ॥ यज्ञो यज्ञस्य ॥ विष्णोः स्थाने तिष्ठामि ॥ वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु ॥ वाचं प्रपद्ये ॥ भूर्भुवः स्वः ॥ ब्रह्मन्प्रवरायाश्रावयिष्यामीत्यामन्त्र्याश्राव्य प्रत्याश्रुत आहअग्निर्देवो दैव्यो होता देवान्यक्षद्विद्वाँ श्चिकित्वान्मनुष्वद्भरतवदमुवदमुवदिति १८ ऊर्ध्वानृषीन्मन्त्रकृतो यजमानस्य प्रवृणीते १९ पुरोहितप्रवरेनाब्राह्मणस्य २० ब्रह्मण्वदा च वक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावितार इति २१ होतुरुपाँ शु नामादिशति मानुष इत्युच्चैः २२ घृतवतीति संप्रेष्यति २३ स्रुचावादाय समिधो यजेति प्रथमे संप्रेष्यति यज यजेत्युत्तरान् २४ त्रीनिष्ट्वोपभृतोऽर्धं जुह्वामानीयोत्तरौ यजति २५ पञ्च प्रयाजानुत्तरेणाघारसंभेदँ समानत्र यजति २६ ध्रुवादीनि हवीँ ष्यभिघारयत्युपभृतमन्ततः २७ ज्योतिष्मत्याज्यभागौ यजत्याग्नेयमुत्तरार्धे सौम्यं दक्षिणार्धेऽग्रेणाघारसंभेदमतिक्रामम् २८ प्रधानाहुतीः पूर्वां पूर्वाँ सँ हिताम् २९ आग्नेयेन प्रचर्योपाँ शुयज्ञेन प्रचरति ३० उपाँ शु देवतामाहोच्चैरन्यत् ३१ साँ नाय्येन समानदेवतस्य दोहयोश्च समवदाय प्रचरति ३२ पुरस्तात्स्विष्टकृतः स्रुवेन पार्वणौ होमौ जुहोति
ऋषभँ वाजिनँ वयं पूर्णमासँ हवामहे ।
स नो दोहताँ सुवीरँ रायस्पोषँ सहस्रिणम् ॥
पूर्णमासाय सुराधसे स्वाहेति पौर्णमास्याम् ३३ अमावास्या सुभगा सुशेवा धेनुरिव पयो भूय आप्यायमाना ।
सा नो दोहताँ सुवीरँ रायस्पोषँ सहस्रिणम् ।
अमावास्यायै सुराधसे स्वाहा ॥
इत्यमावास्यायाम् ३४ उत्तरार्धपूर्वार्धेऽग्निँ स्विष्टकृतमसृजन्यजति ३५ आयतने स्रुचौ सादयति ३६
इतीष्टिसूत्रे तृतीयेऽध्याये चतुर्थं खण्डम् ॥
आग्नेयमध्यादधिहत्याङ्गुष्ठेनोपमध्यमया च यवमात्रं प्राशित्रमवद्यति १ अनुपस्तृणन्नभिघार्याग्रेणोत्तरँ वेद्यँ समप उपनिनीय व्यूह्यौषधीः सादयति २ सर्वेषाँ हविषां द्विर्द्विरिडाँ समवदाय सादयति ३ आग्नेयस्य दक्षिणार्धादवदाय पूर्वार्धादणुं दीर्घँ यजमानभागमवद्यति ४ मध्यात्संभिन्दन्द्वितीयामिडाम् ५ अग्रेण हवीँ षि पश्चार्धेन स्रुचः परिहृत्य प्रत्यङ्मुख आसीनो होत्र इडां प्रयच्छति ६ अग्रेण होतारमपरेणेडां दक्षिणातिक्रम्यानतिक्रम्य वा होतुरङ्गुलिपर्वणी अनक्त्यपरं पूर्वम् ७ इडाया होत्रेऽवान्तरेडाँ हस्तेऽवद्यति होता पूर्वमध्वर्युरुत्तरम् ८ अध्वर्युराग्नीध्रो ब्रह्मयजमानावित्यन्वारभन्ते ९ उपहूतायामिडायां दक्षिणतः परीतोत्तरतः परीतेति संप्रेष्यति १० यजमानपञ्चमा ऋत्विजो व्यतिक्रम्य भक्षयित्वेडां प्रस्तरे मार्जयन्ते
मनो ज्योतिर्जुषतामाज्यस्य विच्छिन्नँ यज्ञँ समिमं दधातु ।
बृहस्पतिस्तनुतामिमं नो यज्ञँ विश्वे देवा इह मादयन्ताम् ॥
इति ११ व्युद्दिष्टस्य द्वैधमाग्नीध्रभागं पृथक्पाण्योरवद्यतिउपहूता पृथिवी मातोप मां पृथिवी माता ह्वयतामग्निराग्नीध्रात्स्वाहा ॥ उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रात्स्वाहेत्युपहूय पृथिव्यास्त्वा दात्रा प्राश्नाम्यन्तरिक्षस्य त्वा दात्रा प्राश्नामि दिवस्त्वा दात्रा प्राश्नामि दिशां त्वा दात्रा प्राश्नामीति प्राश्नाति १२ वेदेन ब्रह्मभागयजमानभागावग्रेणाहवनीयं परिहृत्य दक्षिणतः प्राशित्रहरणेऽन्तर्वेदि ब्रह्मभागँ सादयत्यपरं बहिर्वेदि यजमानभागम् १३ अन्वाहार्यमनु हवीँ ष्युद्वासयति १४ अनुयाजसमिधमादायाहब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधीँ श्चाग्निं च सकृत्सत्कृसंमृड्ढीति संप्रेष्यति १५ इध्मसंनहनैः संमार्ष्टि आग्निं त्वाग्ने ससृवाँ सँ सनिँ ससनिवाँ सँ वाजँ जिगिवाँ सं देवेभ्यो हव्यमूहिवाँ सँ वाजिनं त्वा वाजजितँ संमार्ज्म्यग्ने वाजमजैषीरिति १६ विस्रस्याभ्युक्ष्य संमार्गानग्नावनुप्रहरति
यो भूतानामधिपती रुद्र स्तन्तिचरो वृषा ।
पशूनस्माकं मा हिँ सीरेतदस्तु हृतं तव स्वाहा ॥
इति १७ औपभृतं जुह्वामानीय त्रीननुयाजान्यजतिदेवान्यजेति प्रथमे यज यजेत्युत्तरौ १८ समिध्यपरमपरमिष्ट्वोत्तमेनेतरावनुसंभिद्यायतने स्रुचौ सादयति १९
इतीष्टिसूत्रे तृतीयेऽध्याये पञ्चमं खण्डम्
वाजस्य मेति जुहूँ सहप्रस्तरामुद्गृह्णाति । अथा सपत्नानिन्द्रो म इत्युपभृतमवगृह्णाति । उद्ग्राभश्चेति जुहूम् । निप्राभश्चेत्युपभृतम् । अथा सपत्नानिन्द्रा ग्नी म इति विषूची करोति १ अग्नेरुज्जितिमनूज्जेषमिति प्राचीं जुहूं प्रकर्षति २ देवस्तँ सविता प्रतिनुदतु यो अस्मान्द्वेष्टि यं च वयं द्विष्म इत्युपभृतं प्रतीचीं बहिर्वेदि निरस्यति ३ अभ्युक्ष्य प्रत्यासादयति ४ जुह्वा परिधीननक्तिवसुरसीति मध्यममुपावसुरिति दक्षिणँ विश्वावसुरित्युत्तरम् ५ संजानाथां द्यावापृथिवी इति बर्हिषि विधृती विसृज्य प्रस्तरमनक्तिपृथिव्यामङ्क्ष्वेति ध्रुवायां मूलमन्तरिक्षेऽङ्क्ष्वेत्युपभृति मध्यं दिव्यङ्क्ष्वेति जुह्वामग्रम् ६ प्रत्यवरोहैः पुनरक्त्वायुषे त्वेति प्रस्तरात्तृणमपादाय मूलैः प्रतिष्ठाप्य प्रस्तरमासीन आश्राव्य प्रत्याश्रुत आहइषिता दैव्या होतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति संप्रेष्यति ७ अस्यामृधेद्धोत्रायामित्युच्यमाने सहशाखं प्रस्तरमग्नावनुप्रहरति ८ अप्तुभी रिहाणा इति नियतं प्राञ्चमनुप्रहृत्यैनान्यवसृजति ९ अग्नीद्गमयेति संप्रेष्यति १० आग्नीध्रस्त्रिः पाणिना गमयति ११ अनुप्रहर सँ वदस्वेत्याग्नीध्रः संप्रेष्यति १२ अहीनः प्राण इत्युपाँ शु तृणमनुप्रहरति १३ एतदिति त्रिरङ्गुल्यानुदिशति १४ आयुर्धा अग्नेऽसीति यथारूपं गात्राणि संमृशति १५ ध्रुवासीति पृथिवीमभिमृश्यार्चिरालभ्य चक्षुषी आलभेत
पुनर्यमश्चक्षुरदात्पुनरग्निः पुनर्भगः ।
पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्योः ॥
इति १६ अपः स्पृष्ट्वा मध्यमं परिधिमन्वारभ्याहअगा३नग्नीदिति । अगन्नित्याग्नीध्रः । श्रावयेत्यध्वर्युः । श्रौषडित्याग्नीध्रः प्रत्याश्रावयति १७ स्वगा दैव्याहोतृभ्यः स्वस्तिर्मानुषेभ्यः शँ योर्ब्रूहीति संप्रेष्यति १८
यं पारधिं पर्यधत्था अग्ने देव पणिभिर्वीयमाणः ।
तं त एतमनु जोषं भरामि नेदेष युष्मदपचेतयातैः ॥
इति परिधीननुप्रहरति १९ उपकर्षत्युत्तरार्ध्यम् २० जुह्वामुपभृतमाधाय सँ स्रावभागाः स्थेति परिधीनभिहुत्य स्रुचौ विमुञ्चति २१ अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीति हविर्धानं च कस्तम्भदेशे स्रुचौ सादयति २२ घृताची यजमानस्य धुर्यौ पातामिति धुरोपकर्षति वेद्यँ सयोर्वा २३ न विमुक्ते बर्हिषि प्रत्यासादयति २४
इतीष्टिसूत्रे तृतीयेऽध्याये षष्ठं खण्डम् ॥
जुहूं वेदोपयाममध्वर्युरादाय प्रत्यक्क्रामति सहस्रुवामाज्यस्थालीँ होता स्फ्यमाग्नीध्रः १ गार्हपत्ये पत्नीः सँ याजयन्त्यपरो होता दक्षिणोऽध्वर्युरुत्तर आग्नीध्र पश्चार्धे होतुः पत्नी २ आसीना ध्वनः सना भवति ३ उत्तरार्धे सोमँ यजति दक्षिणार्धे त्वष्टारम् ४ परिश्रिते देवानां पत्नी राकाँ सिनीवालीमिति यजति ५ पुरस्ताद्देवपत्नीनां पशुकामस्य सिनीवालीँ यजत्युपरिष्टाद्रा काँ वीरकामस्य ६ सं पत्नी पत्येति पत्नीमन्वारभ्य स्रुवेण जुहोति
आरभेथामनुसँ रभेथाँ समानं पन्थामपथा घृतस्य ।
यद्वां परिविष्टँ यदग्नौ तस्य कॢप्त्यै दम्पती अनुसँ रभेथाँ स्वाहा ॥
इति ७ उत्तरार्धपूर्वार्धेऽग्निं गृहपतिम् ८ चतुरिडामवद्यति षट्कृत्वोऽग्नीधे ९ प्रत्यवरोहेणाङ्गुलिपर्वणी अनक्ति प्रत्यवरोहेणाग्नीध्र उपह्वयते १० व्याख्यातं भक्षणम् ११ इध्मपरिवासनान्युपसमाधाय दक्षिणाग्नौ चतुर्गृहीत आज्ये फलीकरणान्यावापं जुहोतिअग्नेऽदब्धायोऽदब्धमनो पाहि मा दिवः पाहि प्रसित्याः पाहि दुरिष्ट्याः पाहि दुरद्मन्या अविषं नः पितुं कृधि सुधीँ योनिँ सुषदां पृथिवीँ स्वाहेति १२ इन्द्रो पानस्यकेहमनसो वेशान्कृधि सुमनसः सजातान्स्वाहेति द्वितीयां ग्रामकामस्य १३
उलूखले मुसले यत्कपाल उपलायां दृषदि धारयिष्यति ।
अवप्रुषो विप्रुषः सँ यजामि विश्वे देवा हविरिदं जुषन्ताँ स्वाहा ॥
इति पिष्टलेपम् १४ या सरस्वती वेशयमनी ॥ या सरस्वती वेशभगीनेत्याज्याहुती १५ होता पत्न्यै वेदं प्रयच्छतिवेदोऽसि वित्तिरसि विदेयं प्रजाम् ॥ कर्मासि करणमसि क्रियासँ सुकृतम् ॥ सनिरसि सनितासि सनेयं पशूनिति त्रिः प्रतिमन्त्रमुपस्थ आस्यते १६
इमँ विष्यामि वरुणस्य ग्रन्थिँ यज्जग्रन्थ सविता सत्यधर्मा ।
ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टाहँ सह पत्या भूयासम् ॥
इति शुल्बँ विस्रस्य वेदमञ्जलिनाधस्ताद्योक्त्रमुपयच्छति १७ पूर्णपात्रे पत्नीँ वाचयति यथा याजमानम् १८ समायुषेत्यन्ततः पूर्णपात्रस्य जपति १९ प्रायश्चित्तहुतीर्जुहोतिइष्टेभ्यः स्वाहा । स्विष्टेभ्यः स्वाहा वषट् । अनिष्टेभ्यः स्वाहा भेषजम् । दुरिष्टेभ्यः स्वाहा । इष्ट्यै स्वाहा । स्विष्ट्यै स्वाहा । निष्कृत्यै स्वाहा । निष्कृत्यै दरिष्ट्यै स्वाहा । दुरार्द्ध्यै स्वाहा । दैवीभ्यस्तनूभ्यः स्वाहा । मानुषीभ्यः स्वाहा । अतिरिक्तं न्यूने जुहोमि स्वाहा । न्यूनमतिरिक्ते जुहोमि स्वाहा । समँ समे जुहोमि स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवः स्वः स्वाहेति । त्वं नो अग्ने ॥ स त्वं नो अग्ने ॥ मनो ज्योतिः ॥ त्रयस्त्रिँ शत्तन्तवः ॥ अयाश्चाग्नेऽसीति च ।
अश्रावितमत्याश्रावितँ वषट्कृतमवषट्कृतमननूक्तमत्यनूक्तं च यज्ञे ॥
अतिरिक्तं कर्मणो यच्च हीनमग्निष्टान् प्रयुजन्नेतु कल्प्लयन्स्वाहा ॥
इति ।
अनाज्ञातँ यदाज्ञातँ यज्ञस्य क्रियते मुथु ।
सर्वं तदग्ने कल्पय त्वँ हि वैत्थ यथायथँ स्वाहा ॥
इति ।
इष्टिश्च स्विष्टिश्च ये यज्ञमभिरक्षतः ।
प्रजामन्या नः पातु यज्ञमन्याभिरक्षतु स्वाहा ॥
इति ।
यन्नो गृहं भयमागादबुद्धँ यद्देवतः पितृतो यन्मनुष्यतः ।
अग्निर्यविष्ठः प्रणुदातु तद्भयँ शं नः प्रजाभ्यः शमु नः पशुभ्यः स्वाहा
इति २० आज्यस्थाल्या ध्रुवामाप्याययति
आप्यायतां ध्रुवा घृतेन यज्ञिया यज्ञं प्रति देवयद्भ्यः ।
सूर्याया ऊधोऽदितेरुपस्थ उरुधारा पृथिवी यज्ञे अस्मिन् ॥
इति तृतीयोऽध्यायः
पौर्णमास्याममावास्यायाँ वा वसन्ते ब्राह्मण आदधीत । ग्रीष्मे राजन्यः शरदि वैश्यो वर्षासु रथकारः १ सार्ववर्णिकँ शिशिरम् २ ऋतुनक्षत्रपर्वसंनिपात आदधीत ३ सर्वत्र सोमेन यक्ष्यमाणः ४ केशश्मश्रु वापयित्वा क्षौमे आछाद्यौपवत्समशनमश्नीतः ५ देवयजनस्य त्रीनुदीचो वँ शान्कृत्वाग्रेण मध्यमँ वँ शमपराह्णे प्राचीनप्रवण औपासनमाधायाभिजुहोति
प्र वेधसे कवये वेद्याय वचो वन्दारु पृषभाय वृष्णे ।
यतो भयमभयं तन्नो अस्त्वव देवानाँ यजे हेड्यानि स्वाहा ॥
इति कूष्माण्डैश्च ६ तस्मिन्निशायां ब्रह्मौदनँ श्रपयत्यानडुहे चर्मण्यवहत्य चतुःशरावं चतूर्षूदपात्रेषु पयसि वा जीवतण्डुलम् ७ उद्धृत्याभ्याज्यं कृत्वा तं चत्वार ऋत्विज आर्षेयाः सकृदवदाय प्राश्नन्ति ८ तेभ्यो वरं ददाति ९ शेषे तिस्रः समिधः प्रादेशमात्रीरुद्गृह्यादधाति चैत्र्यस्याश्वत्थस्य हरिणीः सहपलाशाः स्तिबिगवतीःप्र वो वाजा अभिद्यव इति गायत्रीभिर्ब्राह्मणस्य । आ त्वा जिघर्मि ॥ आ विश्वतः ॥ यस्ते अद्येति राजन्यस्य । सप्त ते अग्ने ॥ जनस्य गोपाः ॥ उपक्षरन्ति सिन्धव इति वैश्यस्य १० सँ वत्सरं ब्राह्मौदनिकं भृत्वाग्नीनादधीत । द्वादशरात्रं त्रिरात्रमेकरात्रँ वा ११ नानृतँ वदेन्न माँ समश्नीयान्न स्त्रियमुपेयान्नास्य वासः पल्पूलनेन पल्पूलयेयुर्नास्याग्निं गृहाद्धरेयुर्नान्यत आहरेयुर्न प्रयायान्नानुगच्छेत् १२ यदि प्रयायादनु वा गच्छेदोदनं चतुःशरावं पक्त्वा समिधः पुनरादध्यात् १३ यस्तँ श्वोऽग्निमाधास्यन् प्रजा अग्न इति निशायां कल्माषमजं बध्नाति १४ अरणिपाणिर्यजमनो जागर्ति १५
शल्कैरग्निमिन्धान उभौ लोकौ सनोम्यहम् ।
उभयोर्लोकयोरृध्नोमि मृत्युं तराम्यहम् ॥
इति शल्कैरग्निमिन्धीत १६ उपव्युषमरणी निष्टपति १७ अयं ते योनिरृत्विय इत्यरण्योरग्निँ समारोपयति । जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते ।
अग्निमश्वत्थादधि हव्यवाहँ शमीगर्भाज्जनयन्यो मयोभूः ॥
इति च १८
ऋत्वियवती स्थो अग्निरेतसौ रेतो धत्तं पुष्ट्यै प्रजननम् । तत्सत्यँ यद्वीरं बिभृतो वीरं जनयिष्यतस्ते मत्प्रातः प्रजनयिष्येते । ते मा प्रजाते प्रजनयिष्यतः प्रजया पशुभिर्ब्रह्मवर्चसेने त्यरणी अभिमन्त्र्य यजमानाय प्रयच्छति १९
मही विश्पत्नी सदनी ऋतस्यार्वाची एतं धरुणे रयीणाम् ।
अन्तर्वती जन्यं जातवेदसमध्वराणां जनयतं पुरोगाम् ॥
इति प्रतिगृह्णाति २० प्रतिगृह्य वाचँ यच्छतिअनृतात्सत्यमुपैमि मानुषाद्देवं दैवीँ वाचँ यच्छामीति २१ अनुगमयन्त्यग्निमुद्धरन्ति भस्म २२ ब्राह्मौदनिकलक्षणे गार्हपत्यमादधाति पुरस्तादाहवनीयमष्टसु प्रक्रमेषु ब्राह्मणस्यैकादशसु राजन्यस्य द्वादशसु वैश्यस्यापरिमिते वा २३ वितृतीयमात्रे दक्षिणाग्निं दक्षिणतः पुरस्ताद्गार्हपत्यस्य २४ आधानानुपूर्वेण संभारान्निवपत्यर्धानाहवनीयलक्षणेऽर्धानितरयोः २५
इत्याधाने चतुर्थेऽध्याये प्रथमं खण्डम्
उत्समुद्रा न्मधुमं ऊर्मिरागात्साम्राज्याय प्रतरं दधानः ।
अमी च ये मघवानो वयं चेषमूर्जं मधुमत्संभरेम ॥
इत्यौत्समुदकम् १
यत्पर्यपश्यत्सलिलस्य मध्य उर्व्या स्थानं जगतः प्रतिष्ठाम् ।
तत्पुष्करस्यायतनाद्विजातं पर्णं पृथिव्याः प्रथनँ हरामि ॥
इति पुष्करपर्णं निधाय
इयत्यग्र आसीदतो देवी प्रथमाना पृथग्यदिति वराहविहतम् २ वल्मीकवपां न्युप्योषान्निवप्स्यन्ध्यायतियददश्चन्द्र मसि कृष्णं तदिहास्त्विति ३
यददो दिवो यदिदं पृथिव्याः समानँ योनिमभिसंबभूवथुः ।
तस्य पृष्ठे सीदतु जातवेदाः शिवः प्रजाभ्य इह राये अस्तु ॥
इति निवपति ४
चन्द्र मग्निं चन्द्र रथँ हरिव्रतँ वैश्वानरमप्सुषदँ स्वर्विदम् ।
विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥
इति प्रवाहा सिकताः ५ शर्करा निवप्स्यन्द्वेष्यं मनसा ध्यायेत् ६
अदृँ हथाः शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्रः ।
इति निवपति ७
उदेह्यग्ने अधि मातुः पृथिव्या शिव आविश महतः सधस्तात् ।
आशुं त्वाजौ दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् ॥
इत्याखुकिरिं न्युप्य पिपीलिकाकिरिं गोष्ठात्करीषाणि लोहशकलान्यश्वत्थमुदुम्बरँ विकङ्कतँ शमीमशनिहतँ वृक्षं पलाशमिति न्युप्य संम्सृजति
सँ वः सृजामि हृदयानि वः ।
आत्मा वो अस्तु संप्रियः संप्रियास्तन्वो मम ॥
इति ८ प्रादुर्भूतेषु रश्मिषु गार्हपत्यं मथित्वा दधाति । उदितेऽनुदिते व्युदिते वा । उदित इतरौ ९ इतो यज्ञ इति गार्हपत्यलक्षणेऽरणी आधायारणिसंभारमभिमन्त्रितँ येन रुतेऽरणिगानितरयोर्दशहोत्रारणी समवदधाति १० चित्तिः स्रुगित्यनुवाकँ यजमानँ वाचयति ११ यो नो अग्निः ॥ मयि गृह्णामीति मथिष्यन्जपति १२ सहाग्नेऽग्निना जायस्व सह रय्या सह पोषेण सह प्रजया सह ब्रह्मवर्चसेनेति मन्थति १३ जातमभिप्राणितिप्रजापतेस्त्वा प्राणेनाभिप्राणिमि पूष्णः पोषेणेति १४ जाते वरं ददाति १५
अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिँ वीलुजम्भम् ।
दश स्वसारो अग्रुवः समीचीः पुमाँ सं जातमभिसँ रभन्ताम् ॥
इत्यादत्ते १६ उपास्यति ब्रह्मा दक्षिणत आसीन उत्तरतो हिरण्यशकलम् १७ अतिप्रयच्छति यजमानो द्वेष्याय रजतम् १८ यदि द्वेष्यो न विद्येतापविध्येत् १९ सर्वत्रोपासनातिप्रदानम् २० आधानमन्त्रान्निगद्योपस्थकृत आदधाति २१ आयं गौरिति सार्पराज्ञी २२
इत्याधाने चतुर्थेऽध्याये द्वितीयं खण्डम्
यत्पृथिव्या अनामृतँ संबभूव त्वे सचा ।
तदग्निरग्नये ददत्तस्मिन्नाधीयतामयम् ॥
इति प्रभृतिना तेन रुचा रुचमशीथा इत्यन्तेन भूर्भुवोऽङ्गिरसां त्वा देवानाँ व्रतेनादधानीत्याङ्गिरसो ब्राह्मण आदधीत । भृगूणां त्वेति भार्गवो भृग्वङ्गिरसां त्वेति भार्गवाङ्गिरस आदित्यानां त्वा देवानामित्यन्ये । अग्नेष्ट्वा देवस्येति च । इन्द्र स्य त्वेति राजन्यो मनोष्ट्वेति वैश्य ऋभूणां त्वेति रथकार आछदि त्वेति सर्वेषाम् १ उभावाधानमन्त्रानादधानीत्यध्वर्युरादध इति यजमानः २ ज्वलन्तमाधायेषे राये रमस्वेत्यभिमन्त्र्य सारस्वतौ त्वोत्सौ प्रावतामित्यन्तेनाग्ना आयूँ षि पवस इति तिसृभिस्तिस्र आश्वत्थीः समिध आदधाति ३ गार्हपत्याद्दक्षिणाग्निमादधाति ४ समयाध्वं गते त्वाहवनीये मथ्यमाहार्यँ वा ५ भ्रष्ट्रादन्नाद्यकामस्य ६ त्रिँ शद्धामेति सार्पराज्ञी ।
यदन्तरिक्षस्यानामृतँ संबभूव त्वे सचा ।
तदग्निरग्नये ददत्तस्मिन्नाधीयतामयम् ॥
भुव इति व्याहृतिः । यथर्ष्यध्वर्युरादधाति ७ गार्हपत्येऽग्निप्रणयनान्याधाय रथ्यमश्वं पुरस्तात्प्रत्यञ्चमवस्थाप्य तस्य दक्षिणकर्णे जपति
या वाजिन्नग्नेरिति ८ ओजसे बलाय त्वेत्यग्निमुद्यच्छति ९ शूर्पे पाँ सून्न्युप्याधस्तादुपयमनीरुपयच्छति १० प्राचीमनुप्रदिशमिति प्रणयति ११ अश्वमग्रतो नयति १२ कुल्फदघ्ने हरति जानुदघ्ने नाभिदघ्नेऽँ सदघ्ने कर्णदघ्ने १३ न कर्णदघ्नमत्युद्यच्छति १४ दक्षिणतो हरतो समं प्राणैर्धारयमाणः १५ समयाध्वे वरं ददाति १६ प्रणीयमाने दक्षिणतो ब्रह्मा धूर्गृहीतँ रथँ वर्तयति १७ यः सपत्नवान्भ्रातृव्यवान्वा स्यात्तस्य रथचक्रेण विहारं त्रिरनुपरिवर्तयेयुः १८ अभ्यस्थाँ विश्वा इति पुरस्तात्प्रत्यञ्चमश्वमाहवनीयलक्षणमाक्रामयति १९ न प्राञ्चमवसृजेत् २० तमनिधायैवेति ब्राह्मणव्याख्यातम् २१ अन्तश्चरतीति सार्पराज्ञी ।
यद्दिवोऽनामृतँ संबभूव त्वे सचा ।
तदग्निरग्नये ददत्तस्मिन्नाधीयतामयम् ॥
भूर्भुवः स्वरिति व्याहृतिर्यथर्ष्यग्ने हव्याय वोढव इत्यन्तेन २२ पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्पार्श्वतः पदस्याधेयेषे राये रमस्वेत्यभिमन्त्र्य सारस्वतौ त्वोत्सौ प्रावतामित्यन्तेनाश्वेनोपघ्रापयेत् २३ अरण्योर्निहितो जातवेदा इत्येतस्याँ साम गायेति ब्रूयादरण्योर्निहितयोः २४ अग्निं नरो दीधितिभिरित्येतस्याँ साम गायेति ब्रूयात्समवहितयोः २५ त्वेषस्ते भूम ऋण्वतीत्येतस्याँ साम गायेति ब्रूयाद्धूमे २६ अदर्शि गातुवित्तम इत्येतस्याँ साम गायेति ब्रूयाज्जाते २७ रथन्तरं गायति गार्हपत्य आधीयमाने २८ बृहदाहवनीय उद्ध्रियमाणे २९ वामदेव्यमाधीयमाने । यज्ञायज्ञियं च ३० निहिते वारवन्तीयँ वरणपाणिर्निहिते श्यैतम् ३१ पुरस्तात्सभाया आहवनीयात्सभ्यमग्निमादधाति ३२ तस्य पश्चाच्चतुःशतमक्षान्निवपति ३३ सभ्यात्पूर्वमावसथ्यम् ३४ अग्नेर्मन्व इत्यजँ विमुच्य वाचँ विसृज्य दक्षिणा ददाति ३५ अश्वँ वहिनं ब्रह्मणेऽध्वर्यवे वा ३६ अजमग्नीध उपबर्हणं च सर्वसूत्रम् ३७ क्षौममिदमध्वर्यवे ३८ पुरस्ताद्विहारस्यानड्वाहं धेनुं च पश्चात्परीत्य होत्रे ३९ द्विहायनीमथुनौ रथ इति सर्वेषामविनिर्दिष्टम् ४० षड्द्वादशचतुर्विँ शत्यपरिमितगवाँ संख्याविकल्पः ४१ अनृतवदनं ब्राह्मणोपवासनँ स्वकृत इरिणेऽवसानमन्तर्नाव्युदकाचमनमृबीसपक्वाशनं क्लिन्नकाष्ठाभ्याधानमिति वर्जयेत् ४२ अग्नीनुपतिष्ठते यजमानः ४३
इत्याधाने चतुर्थेऽध्याये तृतीयं खण्डम् ॥
पशून्मे शँ स्य पाहीत्याहवनीयं प्रजां मे नर्य पाहीति गार्हपत्यमन्नं मे बुध्य पाहीति दक्षिणाग्निँ सप्रथः सभां मे पाहीति सभ्यमहिर्बुध्न्य मन्त्रं मे पाहीत्यावसथ्यम् १ आहवनीये नानावृक्षीयाः समिध आदधातिताँ सवितुर्वरेण्यस्येति शमीमयीँ विधेम त इति वैकङ्कतीं प्रेद्धो अग्न इत्यौदुम्बरीम् २ या ते अग्ने पवमाना पशुषु प्रिया तनूर्या पृथिव्याँ याग्नौ या रथन्तरे या गायत्रे छन्दसीदं ते तामवरुन्द्धे तस्यै ते स्वाहा ॥ या ते अग्ने पावकाप्सु प्रिया तनूर्यान्तरिक्षे या वाते या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्द्धे तस्यै ते स्वाहा ॥ या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि या बृहति या स्तनयित्नौ या जागते छन्दसीदं ते तामवरुन्द्धे तस्यै ते स्वाहेति तिस्र आहुतीः ३ समुद्रा दूर्मिरिति तिसृभिस्तिस्रः शमीमयीर्घृताक्ताः समिध आदधाति ४ ये अग्नयः समनस इत्यौदुम्बरीमनक्ताम् ५ क्षुच्च सेदिश्च स्निहितिश्च सदान्वा चानामतिश्चानाहुतिश्च निरृतिरेतास्ते अग्ने तन्वो वर्तिमतीस्तास्तं गच्छन्तु यं द्विष्म इति द्वेष्यं मनसा ध्यायन्यजमानो जपति ६ चतुर्गृहीतमाज्यं पूर्णाहुतिमग्रेणाहवनीयं गत्वोदङ्ङावृत्य सप्त ते अग्न इति जुहोति ७ हुतायां धेनुं ददाति ८ ये अग्नयो दिव इति द्वितीयाम् ९ प्रतिपरीत्य सम्राट् च स्वराट् चेति पर्यायैराहवनीयमुपस्थायाग्नेयमष्टाकपालं निर्वपति १० उपसन्ने हविष्यप्रोक्षिते निषसाद धृतव्रत इति समूह्याक्षान्हिरण्यं निधाय मध्याधिदेवने राजन्यस्य जुहुयात् ११ गामस्य तदहः सभायाँ विदीव्येयुः १२ तत्र शतमक्षान्यजमानाय प्रयच्छति १३ तत्कृतँ विचिनुयात् १४ अहिँ सन्तः परूँ षि विशँ स्युः १५ ताँ सभासद्भ्य उपहरेत् १६ तया यदन्नं जयेत्तद्ब्राह्मणेभ्यो दद्यात् १७ उतो नोऽहिर्बुध्न्य इति सभावसथ्ययोर्जुहोति १८ प्र नूनं ब्रह्मणस्पतिरिति हिरण्यं निधाय मध्ये परिषदः १९ घर्मः शिर इति गार्हपत्यमुपतिष्ठतेऽर्कोज्योतिरिति दक्षिणाग्निँ वातः प्राण इत्याहवनीयम् २० अविषं नः पितुं पचेति सर्वत्रानुषजेत् २१ कल्पेतां द्यावापृथिवी इति कॢप्तिसामनसीभ्याँ विहारम् २२ समाप्येष्टिमग्नये पवमानायाष्टाकपालं निर्वपेत् २३ त्रिँ शन्मानँ हिरण्यं दक्षिणा २४ द्विहविषं द्वितीयमग्नये पावकायाग्नये च शुचयेऽष्टाकपालौ २५ त्रिँ शन्मानं पूर्वस्य दक्षिणा चत्वारिँ शन्मानमुत्तरस्य २६ चतुर्विँ शमुत्तमम् २७ आग्नावैष्णवमेकादशकपालं निर्वपेद्विष्णवे च शिपिविष्टाय त्र्युद्धौ घृते चरुमदित्यै घृते चरुमग्नीषोमीयमेकादशकपालम् २८ सद्यो निर्वपेद् द्वादशाहे संम्वत्सरे वा २९ सोमेनायक्ष्यमाणस्योत्तरासां तिसॄणाँ विकल्पः ३० फलीकृतानां पूषा व इति चरव्याँ स्तण्डुलानावपति ३१ ध्रुवमसीति प्रथमेन कपालमन्त्रेण चरुमुपदधाति ३२ मेक्षणेन द्वितीयाँ स्विष्टकृतः पञ्चावदानस्य चरोरवद्यति ३३ शँ य्वन्तेऽग्रेणाहवनीयमादित्यं ब्रह्मणे परिहरेयुः ३४ तं चत्वार ऋत्विज आर्षेया द्वौ द्वौ सह प्राश्नन्ति ३५ तेभ्यः साण्डँ वत्सतरं ददाति धेनुं च ३६ द्वादशरात्रमजस्रेष्वन्गिष्वाज्येनाग्निहोत्रं जुहुयात् ३७ पूर्वस्मिन्पर्वणीष्टिपशुबन्धानां कालः ३८ पौर्णमास्यारम्भणौ दर्शपूर्णमासौ ३९ पौर्णमास्यामादधानः पूर्वां पौर्णमासीमग्न्याधेयायोपवसेदुत्तरामन्वारम्भणीयायै पौर्णमासीं च ४० उपवसथेऽवारम्भणीयायाः सप्ताज्याहुतीर्जुहोति
निवेशनी संगमनी वसूनाँ विश्वा रूपाणि वसून्यावेशयन्ती ।
सहस्रपोषँ सुभगे रराणा सा न आगाद्वर्चसा संम्विदाना ॥
इति ।
अग्नीषोमौ प्रथमौ वीर्येण वसून्रुद्रा नादित्यानिह जिन्वताम् ।
माध्यँ हि पौर्णमास्यं जुषेतो ब्रह्मणा वृद्धौ सुकृतेन स्याताम् ।
अथास्मभ्यँ सर्ववीरँ रयिं नियच्छतम् ॥
इति पार्वणौ च होमौ । या सरस्वती वेशयमनी या सरस्वती वेशभगीनेति चतुर्होत्रा च मनसा ४१ आग्नावैष्णवमेकादशकपालं निर्वपेदग्नये च भगिनेऽष्टाकपालँ यः कामयेत भग्यन्नादः स्यामिति ४२ सरस्वत्यै चरुः सरस्वते द्वादशकपाल इति हवीँ षि ४३ पुरस्तात्स्विष्टकृतो जयैर्जुहोति ४४ आकूताय स्वाहाकूतये स्वाहेति द्वादश पर्यायाः ४५ प्रजापतिः प्रायच्छदिति त्रयोदशीम् ४६ अग्ने बलदेति चतुर्दशीँ यः कामयेत चित्रमस्यां जनतायाँ स्यामिति ४७ चित्रमस्यां भवति ४८ मिथुनौ गावौ दक्षिणा ४९
इत्याधाने चतुर्थेऽध्याये चतुर्थं खण्डम् ॥
इति चतुर्थोऽध्यायः
यस्य गार्हपत्याहवनीयावनुगतावभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं कुर्वीतात्मना वा यत्र विधुरत्वं नीयादरणिनाशे वा समारूढेष्वग्निषु नष्टाग्नेः १ उत्सादनीयामिष्टिं निर्वपत्यग्नये वैश्वानराय द्वादशकपालम् २ पुरस्तात्स्विष्टकृत उत्सादनीयान्होमान्जुहोतिया ते अग्ने उत्सीदतः पवमाना पशुषु प्रिया तनूस्तया सह पृथिवीमारोह गायत्रेण छन्दसा । या ते अग्ने उत्सीदतः पावकाप्सु प्रिया तनूस्तया सहान्तरिक्षमारोह त्रैष्टुभेन च छन्दसा । या ते अग्ने उत्सीदतः सूर्ये शुचिः प्रिया तनूस्तया सह दिवमारोह जागतेन च छन्दसेति ३ ज्वलत उत्साद्य संम्वत्सर आदधीत ४ रोहिण्यनूराधापुनर्वसुस्तेषामेकस्मिन्वर्षासु शरदि वा पर्वण्यादधीत ५ सर्वं पुनराधेये यथाग्न्याधेय इष्टिवर्गम् ६ संभारान्न्युप्योपोलपान्दर्भान्निवपति ७ सार्पराज्ञीभिर्गार्हपत्यं नित्येन चादधाति ८ आहितानुपोलपैर्दर्भैरग्नीन्समिन्द्धे यजमानःयत्त्वा क्रुद्धः परोवापेति गार्हपत्यँ यत्ते मन्युपरोप्तस्येति दक्षिणाग्निँ यत्ते भामेन विचकार ॥ पुनस्त्वादित्या इत्याहवनीयम् ९ पुरस्तात्पूर्णाहुतेः संततिहोमान्जुहोतित्रयस्त्रिँ शत्तन्तव इति पञ्चभिः पञ्चाहुतीः १० आग्नेयमष्टाकपालं निर्वपेत्पञ्चकपालँ वा ११ पुनरूर्जा निवर्तस्वेति पुरस्तात्प्रयाजानां जुहुयात् सह रय्या निवर्तस्वेत्युपरिष्टादनुयाजानाम् १२ अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्ने देवेऽग्नौ देवोऽग्निरिति विभक्तयः १३ तासाँ होता चतुर्षु प्रयाजेषु चतस्रो विदधाति द्वयोरनुयाजयोर्द्वे १४ सर्वमाग्नेयं कुर्वन्त्युपाँ श्वोत्तमादनुयाजात् १५ पुरस्तात्स्विष्टकृतः सलिलः सलीग इत्यादित्यनामानि जुहोति १६ पुनरुत्स्यूतँ वासो दक्षिणा पुनर्नवो रथः पुनरुत्सृष्टोऽनड्वान्शतमानँ हिरण्यम् १७ उभयीर्दक्षिणा ददाति १८ समाप्येष्टिमाग्निवारुणमेकादशकपालं निर्वपेत् १९ तृतीयाधेयेऽग्न्याधेयेऽग्निमाधायोपरिष्टात्पूर्णाहुतेरादित्यनामानि जुहोति २०
इति पुनराधाने पञ्चमेऽध्याये प्रथमं खण्डम्
सायं प्रातरग्निहोत्राय गार्हपत्यादाहवनीयं ज्वलन्तं प्रणयेत् १ गृह्णीयाद्वा नक्तम् २ वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीध्रेणैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामीत्युद्धरति ३
उद्धृत उद्धर पाप्मानं मा यदविद्वान्यच्च विद्वाँ श्चकार ।
अह्ना यदेनः कृतमस्ति पापँ सर्वस्मादुद्धृतो मा पाप्मनो मुञ्च तस्मात् ॥
इत्यपराह्णे । रात्र्या यदेनः कृतमस्तीति प्रातः ४
अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै ।
तेनाग्ने काममिमं जयामसि प्रजापतिर्यः प्रथमो जिगायाग्निमग्नौ स्वाहा ॥
इत्यपराह्णे । सूर्यमग्नौ स्वाहेति प्रातः ५ गतश्रियो नित्यधारणमाहवनीयस्य यथाकाम्यगतश्रियः ६ प्रदोषमग्निहोत्रं जुहुयान्नक्षत्रं दृष्ट्वानस्तमिते वा ७ व्युच्छन्त्यां प्रातर्व्युष्टायामुदितेऽनुदिते वा ८ सायमारम्भणमग्निहोत्रं प्रागपवर्गम् ९ अरत्निमात्री वैकङ्कत्यग्निहोत्रहवणी स्थाल्यार्यकृत्यूर्ध्वकपालाचक्रवृत्ता १० तस्यां दोहयति दक्षिणतोऽन्येन शूद्रा दुदीचीमवस्थाप्य ११ पूर्वौ स्तनौ ज्येष्ठस्य ज्यैष्ठिनेयस्य वा गतश्रियो वापरौ कनिष्ठस्य कानिष्ठिनेयस्य बुभूषतो वा । सर्वानितरेषाम् १२ अनुसंमृशति १३ अग्ने शुन्धस्वेत्याहवनीयं परिसमूहत्यग्ने गृहपते शुन्धस्वेति गार्हपत्यमग्ने वह्ने शुन्धस्वेति दक्षिणाग्निम् १४ अग्नीन्परिस्तीर्य यजमानाहृतं महान्तमिध्ममुपसमाधाय पर्युक्षेत्ऋतसत्याभ्यां त्वा पर्युक्षामीति सयँ सत्यऋताभ्यां त्वा पर्युक्षामीति प्रातः १५ संततामुदकधाराँ स्रावयति गार्हपत्यादध्याहवनीयात्यज्ञस्य संततिरसि यज्ञस्य त्वा संततये नयामीति १६ अपोढं जन्यं भयमपोढाः सेना अभीत्वरीरिति गार्हपत्यादुदीचोऽङ्गारानपोह्याधिश्रयति
इडायास्पदं घृतवच्चराचरमग्ने हविरिदं जुषस्व ।
ये ग्राम्याः पशवो ये चारण्यास्तेषाँ सर्वेषामिह पुष्टिरस्तु ॥
इति १७ उद्भवः स्थोदहं प्रजया पशुभिर्भूयासमिति ज्योतिषावेक्षते १८ हरस्ते मा विनैषमिति स्रुवेणोदबिन्दुं म्प्रतिनयति दध्याज्ययोः १९ तेन धर्मेण पुनरवोक्ष्यान्तरितँ रक्षोऽन्तरिता अरातय इति तृणेन त्रिः पर्यग्निं कृत्वा वर्त्म कुर्वन्नुदगुद्वासयतिघर्मोऽसि रायस्पोषवनिरिहोर्जँ श्रयस्वेति २० प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरित्यङ्गारान्प्रत्यूह्य निष्टप्तँ रक्षो निष्टप्ता अरातय इति स्रुवं निष्टप्य प्रणवमुक्त्वोन्नेष्यामीति यजमानँ सयमामन्त्रयत उन्नयामीति प्रातः २१ अग्नये च त्वा पृथिव्यै चोन्नयामि । वायवे च त्वान्तरिक्षाय चोन्नयामि । सूर्याय च त्वा दिवे चोन्नयामि । अद्भ्यश्च त्वौषधीभ्यश्चोन्नयामीति चतुरुन्नयति २२ चर्वान्पूर्णान्यथालाभँ वा २३ यं कामयेतानुज्येष्ठं प्रजया ऋध्नुयादिति ब्राह्मणव्याख्यातम् २४ उन्नीया होमाद्वाचँ यच्छेत् २५ पशून्मे यच्छेत्यभिहृत्य सादयति २६ दशहोत्राभिमृश्य सजूर्देवैः सायँ यावभिरिति सायमुन्नीतमभिमृशति सजूर्देवैः प्रातर्यावभिरिति प्रातः २७ इदं देवानामित्युन्नीतमभिमृशतीदमु नः सहेत्यवशिष्टम् २८ उर्वन्तरिक्षँ वीहीति समया गार्हपत्यँ हरति २९ स्वाहाग्नये वैश्वानराय स्वाहेति समयाध्वे नियच्छति ३० वायवे त्वेत्युद्यच्छति ३१ आयुर्मे यच्छेति पश्चादाहवनीयस्य दर्भेषु सादयति ३२ एषा ते अग्ने समिदित्याहवनीये प्रादेशमात्रीं पालाशीँ समिधमादधाति ३३ द्व्यङ्गुले ज्वलन्तीमभिजुहोतिभूर्भुवः स्वरग्निहोत्रँ होत्राग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायँ सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ३४ इषे त्वेत्यवाचीनँ सायं लेपमवमार्ष्ट्यूर्जे त्वेत्यूर्ध्वं प्रातः ३५ वर्चो मे यच्छेति सादयति ३६ ओषधीभ्यस्त्वेति दर्भेषु लेपं निमार्ष्टि ३७ प्रजापते पशून्मे पाहीति गार्हपत्यमवेक्षते ३८ पूर्वामसँ सक्तां भूयसीं द्वितीयामाहुतिं जुहोतिप्रजापतये स्वाहेति मनसा ३९ अनाभो मृड धूर्त इति त्रिरुदीचीँ स्रुचमुद्धरति ४० तेन धर्मेणोन्मृज्यावमृज्य वा प्रजां मे यच्छेति सादयति ४१ पितॄञ्जिन्वेति दक्षिणतः पृथिव्यां लेपं निमार्ष्टि ४२ अपः स्पृष्ट्वा पूषासीति द्विरङ्गुल्या प्राश्नाति ४३ न दतो गमयेत् ४४ उदग्दण्डया स्रुचान्तर्वेदि भक्षयति गर्भान्प्रीणातिगर्भेभ्यः स्वाहेति ४५ निरस्य लेपं परिस्तरणैः स्रुचं प्रक्षाल्योत्करं प्रदाय पूरयित्वा प्रागुदीचीमुत्सिञ्चति सर्पान्पिपीलिकाः प्रीणातिसर्पेभ्यः पिपीलिकाभ्यश्च स्वाहेति ४६ द्वितीयं पश्चादाहवनीयस्य
पृथिव्याममृतं जुहोमि स्वाहेति ४७ स्रुचं निष्टप्य हस्तमवधायोत्तरतो निदधाति सप्तऋषीन्प्रीणातिसप्तऋषिभ्यः स्वाहेति ४८ यथाकाम्यपरयोर्होमोऽग्ने गृहपते परिषद्य जुषस्व स्वाहेत्येकस्रुवँ विगृह्णाति दक्षिणाग्नौ चाग्नये पुष्टिपतये स्वाहेति प्राजापत्य उत्तरे ४९ अन्तर्वेदि प्रक्षालनं निनयति सर्पदेवजनान्प्रीणातिसर्पदेवजनेभ्यः स्वाहेति ५० दीदिहि दीदाय दीदिदाय स्वाहेति पर्यायैः सर्वेषु समिध आधाय तेन धर्मेण पर्युक्षति ५१
इति पुनराधाने पञ्चमेऽध्याये द्वितीयं खण्डम्
पयसा जुहुयात्पशुकामस्य यवाग्वा ग्रामकामस्याज्येन तेजस्कामस्य दध्नेन्द्रि यकामस्य तण्डुलैर्बलकामस्य १ द्वादशरात्रमाज्येन दध्ना द्वादशरात्रम् २ नित्यं पयो यवागुश्च ३ पयोऽभावे यवागुरशुष्का ४ द्वयोर्गवोः स्थाल्या दोहनेन च दोहयित्वा पशुकामस्य जुहुयात् ५ सजूर्जातवेदो दिवा पृथिव्या जुषाणो अस्य हविषो वीहि स्वाहेति जुहुयाद्यत्र रुद्रः पशूनभिमन्येत ६ आज्यमग्निहोत्रम् ७ यदि नारमेदग्ने दुःशीर्ततनो जुषस्व स्वाहेति जुहुयात् ८ यदि नारमेद् द्वादशरात्रँ सायँ सायं जुहुयात् ९ अनर्हतो राजन्यस्य पर्वस्वग्निहोत्रं जुहुयान्नान्तराले १० सायं प्रातरग्रं भक्तस्य ब्राह्मणकुलँ हरेदग्न्युपस्थान च वाचयेत् ११ संततमर्हतो जुहुयात् १२ सायं पत्न्यन्वास्ते न प्रातः १३ हिंकृत्य स्त्रियमुपेयात् १४ सूर्योढमतिथिं नापरुन्धीत १५ न सायमहुतेऽग्निहोत्रेऽश्नीयान्न प्रातः १६ वसन्ता शिशिरे कक्षं दहेत् १७
इति पुनराधाने पञ्चमेऽध्याये तृतीयं खण्डम्
अधिश्रितेऽग्निहोत्रे ममाग्ने वर्च इति चतसृभिर्वैहवीभिर्हस्ताववनेनिजीत पुरस्तादग्नीषोमीयाया उत्तराश्चतस्रो जपेत् १ विद्युदसि विद्य मे पाप्मानमित्यप उपस्पृश्य तिष्ठेत् २ उन्नीयमाने वाचँ यच्छति ३ अभ्युदाहृत उपविश्य दशहोत्राभिमृश्योत्तरामाहुतिमुपोत्थायोपप्रयन्तो अध्वरमिति प्रागुदङ्मुखश्चतुर्भिरनुवाकैराहवनीयमुपतिष्ठेत ४ अग्नीषोमीयया पूर्वपक्ष ऐन्द्रा ग्न्यापरपक्षे ५ अग्ना आयूँ षि पवस इ ति षड्भिराहवनीयं नित्यँ सँ वत्सरे सँ वत्सरे गार्हपत्यम् ६ अग्नेः समिदसीति पर्यायैराहवनीये समिध आदधाति ७ चित्रावसो स्वस्ति ते पारमशीयार्वाग्वसो स्वस्ति ते पारमशीयेति त्रिर्जपति । प्रातरुपस्थाने चाम्भः स्थाम्मो वो भक्षीयेति गृहानुपतिष्ठते ८ रेवती रमध्वमित्यन्तराग्नी तिष्ठन्जपति ९ सँ हितासि विश्वरूपेति वशामालभते वत्सँ वा १० उप त्वाग्ने दिवे दिव इति गार्हपत्यम् । अभ्यस्थाँ विश्वा इत्याहवनीयम् ११ ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गृहान्पशूनभिवीक्षते १२ इडाः स्थेति गामालभते भुवनमसीति वत्सम् १३ निम्रदोऽसीति ब्राह्मणव्याख्यातम् १४ प्राची दिगिति पर्यायैर्दिश उपतिष्ठते १५ अग्ने गृहपत इति गार्हपत्यँ यथा याजमाने १६ ज्योतिषे तन्तवे त्वेत्यन्तर्वेद्युपविश्याहवनीयेऽभ्याधाय वृष्टिरसि वृश्च मे पाप्मानमित्यप उपस्पृशेत् १७ प्रातरवनेगेन प्रातरुपतिष्ठेत १८ अपां पते योऽपां भागः स त एष इति प्रागुदञ्चमुदकाञ्जलिमुत्सिच्य प्रतिषिक्ता अरातय इति त्रिः प्रत्युक्षति १९ कालाय वामिति पाणी प्रक्षाल्येदमहं दुरद्मन्यां निष्प्लावयामीत्याचम्य निष्ठीवति २० भ्रातृव्याणाँ सपत्नानामिति पाणी प्रक्षालयते २१ इन्द्रि यवतीमद्येति यथारूपं गात्राणि संमृशति २२ अदो मा मा हासिष्टेति पाणी प्रक्षालयते २३ सूर्यपत्नीरित्यभिषिञ्चन्पुरुध्यवानो महिष इति च हुते चतस्रो वैहवीरुक्त्वा घर्मो जठरे इत्यनुवाकेनाहवनीयमुपतिष्ठेत २४ असौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्विति नामग्राहं पुत्रानन्वातयते २५ अग्नीन्समाधेहीत्याह प्रवत्स्यम् २६ भास्वत उपतिष्ठते । पशून्मे शँ श्य पाहीत्याहवनीयं प्रजां मे नर्य पाहीति गार्हपत्यमन्नं मे बुध्य पाहीति दक्षिणाग्निँ सप्रथः सभां मे पाहीति सभ्यमहिर्बुध्न्य मन्त्रं मे पाहीत्यावसथ्यम् २७ इमान्मे मित्रावरुणौ गृहान्गोपायतँ युवमित्यन्तराग्नी तिष्ठन्जपति २८
मम नाम प्रथमं जातवेदः पिता माता च दधतुर्न्वग्रे ।
तत्त्वं विभृहि पुनरा ममैतोस्तन्वाहमग्ने बिभराणि नाम ॥
इत्याहवनीयम् २९
मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्तः स्थुर्नो अरातयः ॥
यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
तमाहुतं नशीमहि ॥
इति व्रजति ३० सकाशे वाचँ यच्छत्यसकाशे विसृजते ३१ यथाकालमग्न्युपस्थानयाजमाने जपेत् ३२ प्रोष्य समिध आहरति ३३ असकाशे वाचँ यच्छति सकाशे विसृजते ३४ अग्नीन्समाधेहीत्याह । प्रोष्य भास्वत उपतिष्ठते ३५ अग्नेः समिदसीति पर्यायैः सर्वेषु समिध आधाय विश्वदानीमाभरन्तोऽनातुरेण मनसा ।
अग्ने मा ते प्रतिवेशा रिषाम ॥
इत्याहवनीयं पशून्मे शँ स्याजुगुप इति च । प्रजां मे नर्याजुगुप इति गार्हपत्यमन्नं म बुध्याजुगुप इति दक्षिणाग्निँ सप्रथः सभां मेऽजुगुपस्तां मे पुनर्देहीति सभ्यमहिर्बुध्न्य मन्त्रं मेऽजुगुपस्तं मे पुनर्देहीत्यावसथ्यम् ३६ इमान्मे मित्रावरुणौ गृहानजुगुपतँ युवमित्यन्तराग्नी तिष्ठन्जपति ३७
मम च नाम तव च जातवेदो वाससी इव विवसानौ चरावः ।
ते बिभृतो महसे जीवसे च यथायथं नौ तन्वौ जातवेदः ॥
इत्याहवनीयम् ३८ नव रात्रीः परार्धाः प्रोष्याहुतिं जुहोति
विश्वकर्मन्हविषा घृतेन विच्छिन्नँ यज्ञँ समिमं दधातु ।
या इष्टा उषसो याश्च याज्यास्ताः संदधामि मनसा घृतेन ॥
इति ३९ नव रात्रीः परार्धा उषित्वा सहगृहः प्रयास्यन्युक्तेषु चक्रावत्सु वास्तोष्पत्यं जुहोति ४० न हीनमन्वाहरेयुः ४१ अमीवहा वास्तोष्पते ॥ वास्तोष्पत इत्येताभ्यामाहुती हुत्वायं ते योनिरृत्विय इत्यरण्योरग्निँ समारोपयति गार्हपत्याहवनीयौ गतश्रियो गार्हपत्यमगतश्रियः ४२ दक्षिणाग्निर्यदि मथ्यः समारोपयेत् ४३ यद्यरण्योर्नाशमाशङ्केत सक्षेहि या ते यज्ञिया तनूस्तयेह्यारोहेत्यात्मनि विहारँ समारोपयति ४४ न सहाग्निरृते गृहेभ्यः प्रवसेत् ४५ नासंदह्यावक्षाणानि प्रयायात् ४६
उपावरोह जातवेदो देवेभ्यो हव्यँ वहतु प्रजानन् ।
आयुः प्रजाँ रयिमस्मासु धेह्यरिष्टो दीदिहि नो दुरोणे ।
इत्युपावरोह्य मन्थेत् ॥
इति पुनराधाने पञ्चमेऽध्याये चतुर्थं खण्डम् ॥
श्यामाकान्बुभुक्षमाणः पुराणानाँ व्रीहीणामाग्नेयमष्टाकपालं निर्वपेत्सौम्यं च श्यामाकं चरुम् १ बभ्रुः पिशङ्गो दक्षिणा वसनँ वा २ व्रीहीणामग्रपाकस्य यजते यवानां च ३ नानिष्ट्वाग्रायणेन नवस्याश्नीत ४ ऐन्द्रा ग्नमेकादशकपालं निर्वपेदाग्नेन्द्रँ वा ५ वैश्वदेवः पयसि चरुः श्यामाकश्चरुः । न यवाग्रायणे । द्यावापृथिवीय एककपाल इति हवीँ षि ६ पुरस्तात्स्विष्टकृतोऽज्यानीर्जुहोति
शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे ।
शतँ यो नः शरदोऽनयदिन्द्रो दुरितस्य पारँ स्वाहा ॥
ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति ।
तेषामज्यानीँ यतमो न आवहत्तस्मै नो देवाः परिदत्त सर्वे स्वाहा ॥
वसन्तो ग्रीष्मो मधुमन्ति वर्षाः रशद्धेमन्तः सुविते दधात नः ।
तेषाँ वयँ सुमतौ यज्ञियानां ज्योगजीता अहताः स्याम स्वाहा ॥
स्वस्ति सँ वत्सराय परिवत्सरायेदावत्सरायोद्वत्सराय कृणुता बृहन्नमः।
तेषाँ वयँ सुमतौ यज्ञियानां निवात एषामभये स्याम स्वाहा ॥
इयँ स्वस्ति सँ वत्सरीया परिवत्सरीयेदावत्सरीयोद्वत्सरीया ।
सा नः पिपर्त्वहृणीयमानेनाहेदहारमशीय स्वाहा ॥
इति । आ नः प्रजां जनयत्विति षष्ठी ७ इडां भक्षयति
भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा ।
स नो भयोभूः पितुराविवेश शिवस्तोकाय तन्वो न एधि ॥
इति व्रीहीणाम् ।
अग्निः प्राश्नातु प्रथमः स हि वेद यथा हविः ।
शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः ॥
इति श्यामाकानाम् ।
एतमु त्यं मधुना सँ युतँ यवँ सरस्वत्या अधि मनावचकृषुः ।
इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानवः ॥
इति यवानाम् ८ वत्सः प्रथमजो दक्षिणा वत्सः प्रथमजो दक्षिणा ९
इति पुनराधाने पञ्चमेऽध्याये पञ्चमं खण्डम्
इति पञ्चमोऽध्यायः
उदगयनस्याद्यन्तयोरैन्द्रा ग्नेन पशुना यजेत सँ वत्सरे सँ वत्सरे वा १ षड्ढोत्रा मनसा जुहोतिवाग्घोता दीक्षा पत्न्यापोऽध्वर्युर्वातोऽभिगरः प्राणो हविर्मनो ब्रह्मा तपसि जुहोमि स्वाहेति २ ग्रहेण द्वितीयाम्वाचस्पतेऽछिद्र या वाचाऽछिद्र या जुह्वा दिवि देवामृदँ होत्रामैरयँ स्वाहेति ३ आग्नावैष्णवमेकादशकपालं निर्वपति वैष्णवीँ वा पूर्णाहुतिम् ४ उरु विष्णो विक्रमस्वेति वैष्णव्या हुत्वा यूपमच्छैति बिल्वपलाशखदिररोहितकोदुम्बराणामेकम् ५ बैल्वं ब्रह्मवर्चसकामः कुर्वीत ६ पञ्चारत्न्यादिप्रमाणमनधिशाख्यमृजुमूर्ध्वशल्कमुपरिष्टादुपावनतं बहुपलाशशाखमप्रतिशुष्काग्रं प्राञ्चं प्रत्यञ्चँ वाहानम् ७ अत्यन्यानगामित्यभिमन्त्र्य विष्णवे त्वेत्याज्येन पर्यनक्ति ८ ओषधे त्रायस्वैनमिति दर्भमन्तर्दधाति ९ स्वधिते मैनँ हिँ सीरिति परशुना प्रहरति १० प्रथमशल्कमुपयम्य भूमिसमँ वृश्चति ११ यं त्वामयँ स्वधितिरिति प्राञ्चं प्रहापयति १२ वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति १३ सहस्रवल्शा इत्यात्मानं प्रत्यभिमृशति १४ अष्टाश्रिं तक्षति गोपुच्छमतष्टमूलम् १५ अग्रतोऽग्निष्ठां पृष्ठतः सूर्यस्थाम् १६ अग्रस्य चषालं पृथमात्रमष्टाश्रि मध्ये संगृहीतम् १७ इध्माबर्हिः संनह्य वेदं कृत्वा रथमात्रीँ वेदिं करोति शम्यामात्रीमुत्तरवेदिम् १८ यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वा सावित्रेणाभ्रिमादायाभ्रिरसि नारिरसीत्यभिमन्त्र्योत्तरत उत्तरवेद्यन्तात्प्रक्रममात्रे चात्वालं परिलिखतितप्तायनी मेऽसीति पर्यायैर्दिक्षु शम्यां निधायानुशम्यमभ्रथा व्यवलिखति १९ जानुदघ्नं चतुरश्रं खात्वोत्तरवेद्यै पाँ सून्हरति २० विदेरग्न इति खनति २१ अग्ने अङ्गिर इत्यवदाय वसवस्त्वा हरन्त्विति हरति २२ वित्स्व यज्ञपतेरिति पश्चाद्यूपावटस्य निवपति २३ एतेन धर्मेणोत्तराभ्यां पर्यायाभ्यां त्रिर्यजुषा हरति तूष्णीं चतुर्थम् २४ समानः खननो निवपनश्च २५ देवेभ्यः प्रथस्वेत्युत्तरवेदिं प्रथयति २६ देवेभ्यः कल्पयस्वेति कल्पयति २७ चतुरश्रामुत्तरवेद्यां प्रादेशमात्रीं नाभिं कृत्वा सिँ हीरसि महिषीरसीत्यभिमन्त्र्य देवेभ्यः शुन्धस्वेत्युत्तरवेदिं प्रोक्षति २८ देवेभ्यः शुम्भस्वेति सिकताभिः प्ररोचयति २९ अद्भिर्निःसारयति संततामुदकधाराँ स्रावयन्स्फ्येन वर्त्म कृत्वा समयोत्तरावसावापो रिप्रं निर्वहतेति ३० प्रोक्षणीः सँ स्कृत्योत्तरवेदिं प्रोक्षतिइन्द्र घोषास्त्वेति पर्यायैरनुपरिक्रामन् ३१ पितॄणां भागधेयीः स्थेति दक्षिणत उत्तरवेद्याः प्रोक्षणीशेषं निनीय पञ्चगृहीतेनाज्येनोत्तरवेदिँ व्याघारयति हिरण्यं निधायसिँ हीरसि सपत्नसाही स्वाहेति पर्यायैरक्ष्णया श्रोण्यँ सेषु ३२ मध्ये पञ्चमेन ३३ भूतेभ्यस्त्वेति त्रिरुदीचीँ स्रुचमुद्दिशति ३४ नाभ्यां पौतुद्र वान्परिधीन्परिदधाति प्रादेशमात्रान्विश्वायुरसीति पर्यायैः ३५ अवेरनाच्छिन्नस्तुकस्यान्तरा शृङ्गादूर्णास्तुकां केरुगुल्गुल्विति नाभ्याँ संभारान्निवपति ३६ अग्नेर्भस्मासीति पर्यायैर्विभ्राड् बृहदित्यान्तादनुवाकस्योत्तरवेदिमभिमृश्याहवनीयादग्निं प्रणयति ३७
इति पशुषु षष्ठेऽध्याये प्रथमं खण्डम् ॥
यत्ते पावक चकृमा कच्चिदागः पूर्वो यः सन्नपरो भवति ।
घृतेनाग्ने तन्वँ वर्धयस्व मा मा हिँ सीरधिगतं पुरस्तात् ॥
इत्युद्यतेऽग्नावाहवनीये जुहोति १ अग्नये प्रणीयमानायानुब्रूहीति संप्रेष्यति २ उपयच्छत्युपयमनीः ३ ऊर्णावन्तमित्युच्यमाने
यज्ञः प्रत्यष्ठात्सुमतिः सुमेधा आ त्वा वसूनि पुरोधार्हन्ति ।
दीर्घमायुर्यजमानाय कृण्वन्नथामृतेन जरितारमङ्धि ॥
इति संभारेष्वध्वर्युरग्निँ सादयति ४ यस्मादधि प्रणयति तस्मिन्गार्हपत्यकर्माणि कुर्वीताग्निहोत्रं च जुहुयादौत्तरवेदिके ५ वरुणप्रघासेष्वग्निहोत्रं प्रणयनी पूर्णाहुतिरिति यथाग्न्याधेये ६ अतिमुक्तीर्जुहोति
अग्निर्यज्ञं नयतु प्रजानन्मैनँ यज्ञहनो विदन् ।
देवेभ्यो यज्ञं नयतात्प्र प्र यज्ञपतिं तिर स्वाहा ॥
इति । वायुः सूर्यो यज्ञं नयत्विति समानम् ७ प्रणीतेऽग्न्यन्वाधानँ व्रतोपायनम् ८ पाणिप्रक्षालनप्रभृति समानमा पात्रप्रयोगात् ९ एकादशकपालः पुरोडाशो द्वादशकपालो वा १० द्वे जुह्वे वसाहोमहवनी द्वितीया । द्वे उपभृतौ पृषदाज्यधानी द्वितीया । द्वे आज्यस्थाल्यौ । यूपशल्कम् । शूलम् । पशूखाम् । कार्ष्मर्यमय्यौ वपाश्रपण्यौ । द्विशृङ्गैकशृङ्गे । औदुम्बरमास्यदघ्नं मैत्रावरुणदण्डम् । दर्भाणाँ रशने द्विगुणां द्विव्यायामां त्रिगुणां त्रिव्यायामाँ सँ साद्य प्रोक्ष्य पात्राण्याज्यं निर्वपति दधि च ११ पृषदाज्यधूमैर्दधि सँ स्करोत्युपभृद्धर्मैः पृषदाज्यधानीं पात्राणि च पात्रधर्मैः द्वितीयानि १२ स्फ्यप्रक्षालनप्रभृति समानमाज्यग्रहेभ्यः १३ चतुरुपभृति गृहीत्वा पञ्चगृहीतं पृषदाज्यधान्यामाज्येन संनीय महीनां पयोऽसि विश्वेषां देवानां तनूरसि । ऋध्यासमद्य पृषतीनां ग्रहम् । पृषतीनां ग्रहोऽसि विष्णोर्हृदयमसीति पर्यायैः १४ सन्नेष्वाज्येषु यूपावटं परिलिखतिइदमहँ रक्षसो ग्रीवा अपिकृन्तामीति पूर्वस्य वेद्यन्तस्य मध्येऽर्धमन्तर्वेद्यर्धं बहिर्वेदि १५ उत्तरतश्चत्वालस्य शामित्रलक्षणमुद्धन्ति १६
इति पशुषु षष्ठेऽध्याये द्वितीयं खण्डम् ॥
यत्ते शोचिः परावधीत्तक्षा हस्तेन वास्या ।
आपस्तत्पावकाः शुन्धन्तु शुचयः शुचिम् ॥
इति स्नातँ यूपं तीर्थेनोपसाद्य तूष्णीकाँ यवमतीः प्रोक्षणीः सँ स्कृत्य यूपं प्रोक्षतिपृथिव्यै त्वेति मूलमन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रम् । शुन्धन्तां लोका इति यूपावटम् १ यवोऽसीति यवानवदधाति २ पितृषदनं त्वेति दर्भैरवस्तृणाति ३ स्वावेशोऽसीति प्रथमशल्कमवधाय घृतेन द्यावापृथिवी इति स्रुवेणाभिजुहोति ४ पुरस्तात्प्रत्यञ्चँ यजमानो यूपमनक्ति ५ यूपायाज्यमानायानुब्रूहीति संप्रेष्यति ६ आन्तमविच्छिन्नमनक्ति ७ देवस्त्वा सविता मध्वानाक्त्विति यूपाग्रमनक्ति । सर्वँ सहचषालमनक्तिइन्द्र स्य चषालमसीति ८ चषालं प्रतिमुच्य सुपिप्पला ओषधीरित्यङ्गुलिमात्रमूर्ध्वं चषालाद्यूपाग्रं कनीयो वा ९ यूपायोच्छ्रीयमाणायानुब्रूहीति संप्रेष्यति १० दिवमग्रेणोत्तभानेत्युच्छ्रयति ११ ता ते धामानीत्यवदधाति १२ विष्णोः कर्माणीत्यवस्थापयत्यग्निमभिमुखीमग्निष्ठाम् १३ न तष्टस्य निखनति १४ नातष्टस्याविः करोति १५ ब्रह्मवनिं त्वेति पाँ सुभिः परिवपति १६ ब्रह्म दृँ ह क्षत्रं दृँ हेति यजमानो मैत्रावरुणदण्डेन परिदृँ हयति १७ प्रोक्षणीशेषेण परिषिच्य तद्विष्णोरिति स्वरुरशनेन समुन्मार्ष्टि १८ दिवीव चक्षुराततमिति संमितमभिमन्त्रयते १९ त्रिवृता यूपं परिव्ययत्यग्रतो रशनायास्त्रिः परिहरणाय यूपायावशिष्य शेषं द्वैधँ संभुज्योत्तरतः सूर्यस्थाया नाभिमात्रे संभोगं प्रतिष्ठाप्य यूपाय परिवीयमाणायानुब्रूहीति संप्रेष्यति २० परिवीरसीति त्रिः परिव्ययत्युत्तरमुत्तरं प्रदक्षिणँ संभोगे रशनाग्रमतिहृत्य मूलतो निरायम्यान्तात्प्रवेष्टयति २१ श्रणीयसीँ स्थवीयस्युपकर्षति २२ यदि कामयेत वर्षेत्यर्जन्य इति २३ अञ्जनादि यजमानो यूपं नापरिवीतमवसृजति २४ दिवः सानूपेषेत्युत्तमे रशनगुणे स्वरुमुपकृष्याजमुपाकरोति श्वेतं लोहितं द्विरूपँ वा श्मश्रुलम् २५ कूटाकर्णकाणखण्डबण्डापन्नदन्त इति प्रतिषिद्धाः २६ उत्तरतो यूपस्य प्रत्यञ्चं पशुमवस्थाप्याहुती जुहोति २७
इति पशुषु षष्ठेऽध्याये तृतीयं खण्डम् ॥
प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः ।
ता अस्मै प्रतिवेदय चिकित्वमनुमन्यताम् ॥
इमं पशुं पशुपते तेऽद्य बध्नाम्यग्ने सलिलस्य मध्ये ।
अनुमन्यस्व सुयजा यजेह जुष्टं देवेभ्य इदमस्तु हव्यम् ॥
इति १ इषे त्वेति दर्भावादत्ते २ उपावीरसीति प्लक्षशाखाँ हरिणीं पलाशवतीम् ३ तया दर्भाभ्यां च पशुमुपाकरोतिउपो देवानिति ४ प्रत्यञ्चं पशुमनुमाष्टिअमुष्मै त्वा जुष्टमिति यथादेवतम् ५ अभिधानप्रोक्षणवपोत्खेदनाभिघारणेषु ६ पश्चान्मध्यमस्य परिधेरधिमन्थनँ शकलं प्रयुनक्तिअग्नेर्जनित्रमसीति वृषणौ स्थ इत्यप्रच्छिन्नप्रान्तौ दर्भौ ७ तयोरध्युर्वश्यसीत्युदक्कूलां प्रत्यक्प्रजननामधरारणिम् ८ आयुरसीत्याज्यस्थाल्यामुत्तरारणिमनक्ति संपादयति च ९ पुरूरवा असीत्यभिमन्त्र्य गायत्रमसीति पर्यायैस्त्रिरभिमथ्याग्नये मथ्यमानायानुब्रूहीति संप्रेष्यति १० अग्नये जातायेति जाते ११ अग्नये प्रह्रियमाणायेति प्रहरिष्यन् १२ अग्रेणोत्तरं परिधिमुत्तरेण वा परिधिसंधिनान्ववहृत्य भवतं नः समनसावित्यनुप्रहृत्याग्ना अग्निरिति स्रुवेणाभिजुहोति १३ सावित्रेण रशनामादाय बाहुं पशोर्मेध्यपाशेन परिहृत्य दक्षिणार्धशिरोऽक्ष्णया पाशेनाभिदधातिऋतस्य त्वा देवहविरिति १४ धर्षा मानुषा इति यूपे नियुनक्ति १५ प्रोक्षणीः सँ स्कृत्य पशुं प्रोक्षतिअद्भ्यस्त्वौषधीभ्य इति १६ अनु त्वा माता मन्यतामित्यभिमन्त्र्यापां पेरुरसीति पाययति १७ स्वात्तँ सद्धविरिति शेषेण सर्वत उपोक्ष्य संमृश्याज्यानि वेद्यन्तान्परिस्तीर्य होतृषदनानास्तीर्याग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति १८ स्रौचमाघार्य ध्रुवाँ समज्य पशुँ समनक्तिसं ते वायुरिति प्राणदेशँ सँ यजत्रैरङ्गानीति कुकुब्देशँ स यज्ञपतिराशिषेति भसद्वेशम् १९ प्रयाजेषु समिद्भ्यः प्रेष्येति प्रथमे संप्रेष्यति प्रेष्य प्रेष्येत्युत्तरान् २० चतुर्थे चतुर्थे समानयति २१ दशभिः प्रचर्य स्वरुँ स्वधितिधारां च जुह्वामक्त्वा स्वरुणा स्वधितिमन्तर्धाय पशोरन्तराशृङ्गमनक्तिघृतेनाक्तौ पशूँ स्त्रायेथामिति २२ आयतने स्रुचौ सादयति २३ आहवनीयादुल्मुकमुपयम्य पर्यग्नये क्रियमाणायानुब्रूहीति संप्रेष्यति २४ शामित्रं चात्वालँ पशुमाहवनीयँ यूपमाज्यानीत्याग्नीध्रस्त्रिः पर्यग्नि कृत्वाहवनीय उल्मुकमवसृज्य त्रिः प्रतिपर्येति २५ ये बध्यमानमिति पशुप्रमोचनीया जुहोति २६ रेवतीति वपाश्रपणीभ्यां पशुमन्वारभते यजमानश्च २७ तदेवोल्मुकमुपयम्याग्नीध्रोऽग्रतः प्रतिपद्येत २८ अन्वारभ्याश्रावयति २९ उल्मुकपाणिराग्नीध्रः प्रत्याश्रावयतिउपप्रेष्य होतर्हव्या देवेभ्य इति संप्रेष्यति ३० उरो अन्तरिक्षेत्यग्निमुखास्तीर्थेनोदञ्चो व्रजन्ति ३१ शामित्रलक्षणेऽग्निँ सादयति ३२ तस्मिन्पशुँ श्रपयति ३३ पश्चाच्छामित्रस्य याभ्यां दर्भाभ्यां पशुमुपाकरोति तयोरन्यतरमधस्तादुपास्यतिसमस्य तन्वा भवेति ३४ वर्षीयो वर्षीयस इति यजमानो जपति ३५
इति पशुषु षष्ठेऽध्याये चतुर्थं खण्डम् ॥
नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिः सह देवयानः ।
सम्यगायुर्यज्ञो यज्ञपतौ दधातु ॥
इति पर्यावृत्येह प्रजा विश्वरूपा रमन्तामिति पृषदाज्यमवेक्षते यजमानश्च १ प्रत्यक्शिरसमुदीचीनपादँ संज्ञपयन्ति २ स्वर्विदसीति यजमानः संज्ञप्यमानमनुमन्त्रयते ३ न वा एतन्म्रियस इत्यध्वर्युः ४
यत्पशुर्मायुमकृतोरो वा पड्भिराहते ।
अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वँ हसः ॥
इति संज्ञप्ते जुहोति ५ शमितार उपेतनेति संप्रेष्यति ६ पश्चात्पशुमिति पाशेषु प्रमुच्यमानेषु जपति ७ एकशृङ्गया पाशाँ श्चात्वालेऽनुप्रहरति ८ यो नो द्वेष्ट्यधरः स पद्यतामिति यद्यभिचरेत् ९ स्तम्बँ स्थाणुँ वापिदध्यात्
शतेन पाशैर्वरुणाभिधेहि मा ते मोच्यनृतवाङ् नृचक्षः ।
आस्तां जाल्म उदरँ स्रँ सयित्वा कोश इवाबन्ध्रः परिकृत्यमानः ॥
इति १० नमस्त आतानेति पत्न्यादित्यमुपतिष्ठते ११ अनर्वा प्रेहीत्येनामभ्युदानयते १२ देवीराप इत्यध्यधि चात्वालं पत्न्यपोऽवमर्शयति १३ ताभ्यः पत्नी पशोः प्राणान्प्रक्षालयत्यध्वयुर्वा १४ अन्यतरोऽभिषिञ्चेत् १५ वाचमस्य मा हिँ सीरिति यथारूपं गात्राणि संमृशति । यत्ते क्रूरँ यदास्थितमिति पूर्वश्चानुषजेत् १६ गात्राण्यस्य मा हिँ सीरिति ग्रीवाः पृष्ठदेशँ शमद्भ्य इति शेषेण सर्वतः १७ उत्तानं पर्यावृत्योपाकरणं दर्भमन्तर्दधाति १८ ओषधे त्रायस्वैनमिति दर्भमन्तर्दधाति १९ स्वधिते मैनँ हिँ सीरित्यनक्ततः स्वधितिना तिर्यगाछ्यति २० उपयच्छति तृणाग्रम् २१ लोहिताक्तं प्रत्यग्दक्षिणा निरस्यतिपृथिव्यै त्वा रक्षसां भागोऽसीति २२ इदमहँ रक्षोऽवबाध इदमहँ रक्षोऽधमं तमो नयामीति पार्ष्ण्या तृणमवबाधते २३ अपः स्पृष्ट्वेषे त्वेति वपामुत्खिदति २४ ऊर्जे त्वेति तनिष्ठ एकशृङ्गायोपतृणत्ति २५ देवेभ्यः शुन्धस्वेति वपां प्रक्षालयति २६ देवेभ्यः शुम्भस्वेति लोहितं प्रत्यूहति २७ घृतेन द्यावापृथिवी इति द्विशृङ्गां प्रच्छाद्योत्कृत्य नमः सूर्यस्य संदृश इत्यादित्यमुपस्थायोर्वन्तरिक्षँ वाहीति व्रजति २८ प्रत्युष्टँ रक्ष इति शामित्रे वपां प्रत्योषति २९
इति पशुषु षष्ठेऽध्याये पञ्चमं खण्डम् ॥
त्वामु ते दधिरे देवयन्तो हव्यवाहँ शृतं कर्तारमुत यज्ञियं च ।
अग्निः सुदक्षः सुतनर्ह भूत्वा देवेभ्यो हव्या वह जातवेदः ॥
इति स्रुवेणाभिघार्य स्तोकेभ्योऽनुब्रूहीति संप्रेष्यति १ श्येणीँ शृतां बर्हिष्यासादयतिसुपिप्पला ओषधीस्कृधीति २ वपाश्रपण्यौ विप्रमुच्योत्तमेन प्रयाजेन प्रचरति ३ स्वाहाकृतिभ्यः प्रेष्येति संप्रेष्यति ४ हुत्वा ध्रुवां पृषदाज्यँ वपामित्यभिघारयति ५ यथाकाम्याज्यभागयोर्होमः ६ सर्वहुतँ वपां जुहोति ७ अभितो वपाँ हिरण्यशकलाववद्यति ८ स्वाहा देवेभ्य इति पुरस्ताद्वपायाः स्रुवेण जुहोति विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टात् ९ इन्द्रा ग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहि । इन्द्रा ग्निभ्यां छागस्य वपाया मेदसः प्रेष्येति संप्रेष्यति १०
जातवेदो वपया गच्छ देवाँ स्त्वँ हि होता प्रथमो बभूव ।
घृतेनाग्ने तन्वँ वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥
इति वपाँ हुत्वा स्वाहोर्ध्वनभसमिति व्यत्यस्ते वपाश्रपण्यावनुप्रहरति प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् ११ संपातेनाभिहुत्यायतने स्रुचौ सादयति १२ चात्वाल आपोहिष्ठीयेन त्र्यृचेन मार्जयन्ते सहयजमानपत्नीकाः १३ अत्रैव मधुमन्थानां कालः १४ मुष्टिना शमिता वपोद्धरणमभिधायास्त आ वपाया होमात् १५ उखायां पशुँ श्रपयति शूले हृदयम् १६ न गुदं निर्व्लेषयेन्न वनिष्ठुम् १७ मेदो मूत उपनह्यति १८ ऊवध्यगोहं खात्वोवध्यं गूहति १९ व्रीहीणां पशुना समानदेवतं पशुपुरोडाशँ श्रपयति २० शृते पशौ पशुपुरोडाशेन प्रचरति २१ इन्द्रा ग्निभ्यां पुरोडाशस्यानुब्रूहि । इन्द्रा ग्निभ्यां पुरोडाशस्य प्रेष्येति संप्रेष्यति २२ अग्नयेऽनुब्रूहीति । अग्नये प्रेष्येति स्विष्टकृते २३ इडान्तं कृत्वा पृषदाज्यस्य स्रुवेणोपहत्य परैति २४ शृतँ हविः शमिता इति पृच्छति २५ शृतमिति शमिता प्रत्याह २६ समयाध्वे द्वितीयम् । प्राप्य तृतीयम् २७ उत्तरतोऽवस्थाय हृदयमवधाय जुष्टं देवेभ्य इत्यभिघार्य विवाजिनं कृत्वान्तरा यूपाहवनीयावतिहृत्य दक्षिणतः पञ्चहोत्रोपसादयति २८ जुहूपभृतोर्वसाहोमहवन्याँ समवत्तधान्यामित्युपस्तीर्य प्लक्षशाखायाँ हृदयमवधायाक्तयावन्मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति संप्रेष्यति २९
इति पशुषु षष्ठेऽध्याये षष्ठं खण्डम् ॥
हृदयस्य जिह्वायाः क्रोडस्य सव्यस्य कपिललाटस्य पार्श्वयोर्यक्नो वृक्कयोर्दक्षिणस्याः श्रोण्याः गुदतृतीयमिति द्विर्द्विरवदाय जुह्वामवद्यति १ त्रिधा गुदँ विच्छिद्यास्याणीयसोओ देवताभ्योऽवद्यति २ स्थविष्ठगुदस्योपयड्भ्यो निदधाति ३ दक्षिणस्य कपिललाटस्य पूर्वार्धान्मध्यमं गुदतृतीयँ सव्यायाः श्रोण्या जघनार्धात्सकृत्सकृदुपभृति स्विष्टकृते ४ यूषे मेदः परिप्लाव्य त्रैधँ विच्छिद्य जुहूपभृतौ प्रच्छादयति ५ शेषमिडायामभितो दैवतानि हिरण्यशकलाववद्यति ६ रेडसीति स्वधितिना वसाहोमं प्रयौति ७ प्रयुता द्वेषाँ सीति पार्श्वेनापस्त्वा समरिण्वन्निति गृहीत्वा पार्श्वेनापिदधाति ८ अनुसुँ षडिडामवद्यति वनिष्ठुँ सप्तमम् ९ क्लोमानं पुरीततमिति संकृत्य वर्धयित्वेडाँ यूषेणोपसिच्य प्रतिपरीत्य प्रचरति १० इन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहि । इन्द्रा ग्निभ्यां छागस्य हविषः प्रेष्येति संप्रेष्यति ११ घृतं घृतपावान इत्यर्धर्चे याज्याया वसाहोमं जुहोति १२ पृषदाज्येन सकृदेव तेन वनस्पतिँ यजति १३ वनस्पतयेऽनुब्रूहि । वनस्पतये प्रेष्येति संप्रेष्यति १४ वसामशेषेण दिशः प्रति यजति
दिशः स्वाहेति पर्यायैः प्रतिदिशम् १५ मध्ये पञ्चमेन पूर्वार्धे षष्ठेन १६ औपभृतं जुह्वामवनीय स्विष्टकृता प्रचरति १७ ऐन्द्रः प्राण इति यजमानः पशुँ संमृशत्यवदानवन्तम् १८ उपहूतायामिडायामध्यूध्नीँ होत्रे हरन्ति १९ वनिष्ठुमग्नीध आदधाति यथाग्नीध्रभा
गम् २० दक्षिणासन्मार्जनसंप्रेषमुक्त्वाग्नीदौपयजाङ्गारानाहरोपयष्टरुपसीदस्वेति संप्रेष्यति २१ शामित्रादाग्नीध्रोऽङ्गारान्पश्चार्धे वेद्या व्यूह्योपसमादधाति २२ उत्तरतो दक्षिणामुख उपविश्य तस्मिन्प्रतिप्रस्थातोपयजति गुदकाण्डमेकादशधा संभिन्दन्नवदाय वषट्कारान्तेष्वनुयाजानामेकैकँ हस्तेन जुहोति २३ समुद्रं गच्छ स्वाहेति पर्यायैरेकादश हुत्वा मनो हार्दिँ यच्छेति हृदयदेशमभिमृशति २४ ओषधीभ्यस्त्वेति दर्भेषु निमार्ष्टि २५ अपः स्पृष्ट्वा पृषदाज्येनानुयाजान्यजति २६ देवेभ्यः प्रेष्येति प्रथमे संप्रेष्यति प्रेष्येत्युत्तरान् २७ एकादशभिः प्रचर्य स्वरुं जुह्वां त्रिरुपरिष्ठात्त्रिरधस्तादक्त्वा दधाति दिवं ते धूमो गच्छत्विति २८ ऊर्ध्वँ स्वरुहोमात्प्रागनुदेशाद्यूपो नोपस्पृश्यः २९ सूक्तवाके सूक्ता प्रेष्येति संप्रेष्यति ३० जाघन्या पत्नीः सँ याजयत्युत्तानाया देवानां पत्नीभ्योऽवद्यतीडां चाग्नये गृहपतये चाग्नीधे च ३१ यज्ञं गच्छ स्वाहेति पर्यायैस्त्रीणि समिष्टयजूँ षि जुहोति ३२ पुरस्तान्नित्यस्य तृतीयः स्वाहाकारः पूर्णपात्रस्थाने ३३ शूलेनावभृथँ यन्ति ३४ परोगोष्ठँ यदार्द्र मनुदकमनौषधिकं च तस्मिन्शमितोपवपति ३५ शुगसि यं द्विष्मस्तमभिशोचेत्युपोप्यमानमनुमन्त्रयते ३६ धाम्नो धाम्नो राजन्नित्यान्तादनुवाकस्याध्यधिमार्जयित्वा समिधः कृत्वानपेक्षमाणाः प्रत्यायन्तिएधोऽस्येधिषीमहि स्वाहेत्याहवनीये समिधमादधाति ३७ समिदसि समेधिषीमहीति द्वितीयाम् ३८
इति षष्ठोऽध्यायः
तत्सत्यं तञ्शकेयं तेन शकेयं तेन राध्यासमिति यजमानो जपति ॥ चतुरो मासान्न माँ समश्नीयान्न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात्प्राङ् शेते ॥ मध्वश्नात्यृतौ भार्यामुपैति ॥ सर्वेष्वन्तरालव्रतानि वैश्वदेवोत्तराणि सहपञ्चसंचराणि ॥ पर्वाणि व्याख्यातानि ॥ विकारान्व्याख्यास्यामः ॥
इति चातुर्मास्ये सप्तमेऽध्याये प्रथमं खण्डम् ॥
चतुर्षु मासेषु वरुणप्रघासाः १ प्रतिप्रस्थतामिक्षायै मारुत्यै वत्सानपाकरोत्यध्वर्युर्वारुण्यै २ प्रतिप्रस्थातुः पयसि ३ पूर्वकर्माध्वर्योरारात् ४ पूर्वेद्युरग्निप्रणयनम् ५ वेदी कुरुत उत्तरामध्वर्युर्दक्षिणां प्रतिप्रस्थाता ६ असंभिन्ने समे ७ पृथमात्रमन्तरा ८ उत्तरस्यामुत्तरवेदिसंभारान्न्युप्याहवनीयादग्नी प्रणयतः ९ अग्निभ्यां प्रणीयमानाभ्यामनुब्रूहीति संप्रेष्यति १० अग्रेणोत्तराँ वेदिं प्रतिप्रस्थातान्तरा वेदी प्रतिप्रस्थाता ११ पात्राणि प्रयुनक्ति १२ अविनिर्देशे समानमुभयोः कर्म १३ यथा वैश्वदेवे हवीँ ष्योषधपात्राणि १४ आमन्त्रणादि प्राणीताः संप्रैषान्मारुतीवर्जं निर्मन्थ्यं प्रचरतिमिडामित्यध्वर्युरेव पत्नीसँ याजप्रभृति १५ समानो होता ब्रह्माग्नीध्रः उत्करः १६ पञ्च संचराण्यैन्द्रा ग्नो द्वादशकपालो मारुत्यामिक्षा वारुण्यामिक्षा काय एककपालो वाजिनमिति हवीँ षि १७ निरुप्तेषु प्रातप्रस्थाता तूष्णीको यवान्न्युप्यामपेषाणां करंभपात्राणि करोति प्रतिपुरुषँ यजमानस्यैकं चाङ्गुष्ठपर्वमात्राण्येकोद्धीनि १८ शमीपर्णैः पूरयित्वा शेषस्य मेषं च मेषीं च कुरुतः १९ निक्ताभिरूर्णाभिरावेष्ट्यः परःशतानि शमीपर्णानि घासं निवपतः २० उत्तरैः परिग्राहैः परिगृह्य दक्षिणस्या वेद्या उत्तरस्याः श्रोण्या अध्युत्तरस्या आ दक्षिणादँ सात्स्फ्येन वेदी संभिनत्ति २१ पृषदाज्ये गृह्णीतः सकृदुपस्तीर्य द्विर्दधि द्विरभिघारयेत् २२ उद्वासनवेलायामामिक्षयोः खर्जूरसक्तूनावपतः २३ मारुत्यां प्रतिप्रस्थाता मेषमवदधाति वारुण्यामध्वर्युर्मेषीम् २४ आसादयन्तौ विपरिहरतः २५ वारुणीनिष्काषं निदधाति २६ उत्तरस्मिन्नग्नौ संमृष्टेऽसंमृष्टे दक्षिणस्मिन्प्रतिप्रस्थाता पत्नीं पृच्छति कतिभिर्मिथुनमचर इति २७ सत्यँ विवाचयिषेत् २८ यान्निर्दिशेत्तान्वरुणो गृह्णात्विति ब्रूयात् २९ प्रघास्यान्हवामह इति करम्भपात्राण्यादाय यजमानः पत्नी चापरेण विहारमनुपरिक्रम्य पुरस्तात्प्रत्यञ्चौ तिष्ठन्तौ शिरस्याधाय दक्षिणस्मिन्नग्नौ शूर्पेण जुहुतः ३० मो षू ण इति यजमानः पुरोऽनुवाक्यां जपति ३१ यद् ग्राम इत्युभौ याज्यां निगद्य जुहुतः ३२ अक्रन्कर्मेति व्युत्क्रामन्तावनुमन्त्रयेते ३३ अध्वर्युर्वा जुहुयादन्वारभेयातामेतौ ३४ आज्यभागाभ्यां प्रचर्य स्रुक्पाणिः प्रतिप्रस्थाताकाङ्क्षति यावदध्वर्युरैन्द्रा ग्नषष्ठैः प्रचरति ३५ मारुत्याः प्रतिप्रस्थाता पूर्वेणावदानेन सह मेषीमवद्यति वारुण्या अध्वर्युरुत्तरेण सह मेषम् ३६ इडावत्सरीयाँ स्वस्तिमाशास इति यजमानो जपति ३७ मिथुनौ गावौ दक्षिणा ३८ समवनीय वाजिनं भक्षयत्युपास्ते प्रतिप्रस्थाता ३९ पत्नीसँ याजान्समिष्टयजुरध्वर्युर्जुहोति यथा पशुबन्धे ४० तूष्णीं प्रतिप्रस्थाता स्रुचँ विक्षारयति ४१ वारुणीनिष्काषेण तुषैश्चावभृथँ यन्ति यथा सोमे साम ऋजीषभक्षणँ स्नानमिति परिहाप्य ४२ निवर्तयते
यद् घर्मः पर्यावर्तयदन्तान्पृथिव्या अधि ।
अग्निस्तिग्मेनेति समानम् ४३
इति चातुर्मास्ये सप्तमेऽध्याये द्वितीयं खण्डम्
चतुर्षु मासेषु साकमेधाः १ पूर्वां पौर्णमासीमानीकवतायोपवसेदुत्तरां क्रैडिनीयाय २ अग्नयेऽनीकवते प्रातरष्टाकपालो मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुर्मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्धे सायमोदन इन्द्र स्य निष्काषः ३ यजुषा वत्सानपाकरोति ४ अपवित्रे दोहयति ५ नेध्माबर्हिः संनह्यति ६ नोपभृत्याज्यं गृह्णाति ७ ओदनस्य शरोनिष्काषं निदधाति ८ त्रीनोदनानुद्धृत्योत्पूतान्करोति ९ न सामिधेनीरन्वाह १० न प्रयाजान्यजति ११ आज्यभागाभ्यां प्रचर्यौदनानाँ सकृत्सकृत्समवदाय प्रचरति १२ इडान्ता भवति १३ अमात्येभ्य ओदनानुपहरन्ति १४ प्रतिवेशमोदनं पचति १५ तस्य पत्न्यश्नाति १६ आज्याभ्यज्य सुहिता वसन्ति १७ ओदनान्प्रतिवेशा पचन्ते गाश्च घ्नते १८ सवत्सा गावो वसन्ति १९ प्राचीनरात्रेऽभिवान्याया अग्निहोत्र्याश्च वत्सौ बध्नन्ति २० पुरा प्रातरग्निहोत्राद्गार्हपत्ये शरोनिष्काषपूर्णां दर्वीं परापतेत्यृषभमाह्वयते २१ यदृषभो न रूयाद् ब्रह्मा ब्रूयाज्जुहुधीति २२ मरुद्भ्यः क्रीडिभ्यः साकँ रश्मिभिः सप्तकपालं निर्वपेत्प्रचरेद्वा २३ महाहविषा यजते सोत्तरवेदिमग्निं प्रणीय २४ पञ्च संचराण्यैन्द्रा ग्नो द्वादशकपाल इन्द्रा य वृत्रघ्ने चरुर्वैश्वकर्मण एककपाल इति हवीँ षि २५ पुरस्तात्स्विष्टकृतोऽग्ने वेर्होत्रमित्यभिघारयति २६ ऋषभो दक्षिणा २७
इति चातुर्मास्ये सप्तमेऽध्याये तृतीयं खण्डम्
पितृयज्ञेऽग्रेण दक्षिणाग्निँ वेदिमुद्धरति १ अखाता भवति २ प्रागुदीचीनँ स्तम्बयजुर्हरति ३ समं चतुरश्रं परिश्रयति ४ उत्तरां प्रति वेदिश्रोणिं द्वारं कुर्वन्ति ५ एकोल्मुकं मध्ये वेद्याः सादयति ६ स आहवनीयः ७ वर्षीयो नित्याद्बर्हिरुपमूललूनँ वर्षीयानिध्मः ८ अग्रेण नित्यमाहवनीयमतिहारः ९ उत्तरतो वेद्याः पात्राणि प्रयुनक्ति १० दक्षिणतो निर्वपति ११ सोमाय पितृमते षट्कपालः पुरोडाशः पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्योऽग्निष्वात्तेभ्यो मन्थः १२ तूष्णी काँ स्त्र्यम्बकान्पुरोडाशानेककपालान्प्रतिपुरुषँ यजमानस्यैकाधिकान् १३ प्रोक्षणीस्तिग्रान्यवानवघ्नन्ति १४ दक्षिणार्धे गार्यपत्यस्य पुरोडाशँ श्रपयत्युत्तरार्धे त्र्यम्बकान् १५ दक्षिणाग्नौ यवान्भृज्जति १६ पेषणवेलायां धाना मन्त्रेण विभजति १७ अभिवान्यायाः पयसि मन्थं दोहन इक्षुशलाकया प्रसव्यमालोडयति १८ शलाकास्थं मन्थं करोति १९ चतुर्गृहीतान्याज्यान्यध्यधि गार्हपत्यं गृह्णाति २० तूष्णीं प्रस्तरमुद्धवमादत्ते २१ समन्तं बर्हिस्त्रिः स्तृणन्पर्येत्यया विष्ठेति २२ त्रिरस्तृणन्प्रतिपर्येति २३ एकैकमभ्युदाहरत्युदकुम्भमाज्येनाग्रतः परिषेचनाय २४ अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीति संप्रेष्यति २५ उशन्तस्त्वा हवामह इत्येका सामिधेनी २६ तस्यां तिरुक्तायाँ सकृदिध्ममादधाति २७ न होतारँ वृणीते नार्षेयम् २८ अपबर्हिषः प्रयाजान्यजति २९ आज्यभागाभ्यां प्रचर्य प्राचीनावीतानि कुर्वते ३० विपरिहरन्ति हवीँ षि ३१ विपरियन्त्यृत्विजः ३२ यथास्थानं जुहूः ३३ उपभृद्ध्रुवे दक्षिणे ३४ यथास्थानं पुरोडाशं दक्षिणा धाना मन्थं दक्षिणतः ३५ आग्नीध्रः प्रत्याश्रावयति ३६ अपरो यजमानः ३७ दक्षिणतोऽध्वर्युरवद्यति त्रिश्चतुरवदानस्य चतुः पञ्चावदानस्य ३८ उदङ्ङतिक्रामँ सोमाय पितृमतेऽनु स्वधेत्यनुवाचयति ३९ ओ स्वधेत्याश्रावयति ४० अस्तु स्वधेति प्रत्याश्रावयति ४१ सोमं पितृमन्तँ स्वधेति संप्रेष्यति ४२ स्वधा नम इति वषट्कारः ४३ दक्षिणामुखो दक्षिणार्धे जुहोति ४४ एतेन धर्मेण स्विष्टकृदन्तैः प्रचरति ४५ अग्निः कव्यवाहन इति स्विष्टकृत् ४६ मन्थादीनामिडामवद्यति ४७ ब्रह्माग्नीध्रो यजमान इत्यवघ्रेण भक्षयित्वेडाँ हविःशेषाँ श्च त्रीन्पिण्डान्कृत्वा स्रक्तिषु प्रसव्यं निदधाति यथा पिण्डपितृयज्ञ उत्तराँ श्रोणीं परिहाप्य ४८ तस्यां लेपान्निमार्ष्टि ४९ अत्र पितरो मादयध्वमित्युक्त्वा परेत्य सुसंदृशं त्वा वयमित्याहवनीयमुपतिष्ठन्ते ५० योजा न्विन्द्र ते हरोमिति प्रणवेन ताभ्यन्ते ५१ यदन्तरिक्षमिति गार्हपत्यम् ५२ अमीमदन्त पितर इति परिश्रितं प्रपद्याञ्जनाभ्यञ्जनदशानिहवनमिति कृत्वा प्रेतन पितर इति त्रिरपः परिषिञ्चन्पर्येति ५३ अया विष्ठेति त्रिरपरिषिञ्चन्प्रतिपर्येति ५४ अक्षन्नमीमदन्तेति पत्न्यग्निं मनस्वतीश्च प्रत्यायन्ति ५५ अग्ने तमद्याश्वमिति गार्हपत्यमुपतिष्ठते ५६ अपबर्हिषावनुयाजौ यजति देवौ यज यजेति संप्रेष्यति ५७ न पत्नीः सँ याजयन्ति न समिष्टयजुर्जुहोति ५८ समाप्येष्टिं प्रागुदञ्चस्त्र्यम्बकैर्यजन्ति ५९ मूते पुरोडाशानुपवपन्ति ६० एकोल्मुकं पराचीनं धूपायमानँ हरन्ति ६१ आखुं ते रुद्र पशुं करोमीत्याखुकिरौ पुरोडाशमेकमुपवपति ६२ एकोल्मुकं चतुष्पथ उपसमाधाय पुरोडाशानाँ सकृत्सकृत्समवदायारण्येन पलाशपर्णेन मध्यमेन जुहोतिएष ते रुद्र भाग इति ६३ अवाम्ब रुद्र मदिमहीति यजमानोऽमात्यैः सहाग्निं पर्येति ६४ पतिकामापि यायात् ६५ भगोऽसि भगस्येष इत्युदस्य प्रतिलभ्य यजमानाय समावपन्ति ६६ पतिकामापि वा ६७ त्रिरेतेन धर्मेण ६८ यथास्वमुपयामम् ६९ भेषजं गव इति द्वितीयं परियन्ति ७० त्र्यम्बकँ यजामह इति तृतीयम् ७१
सुगन्धिं पतिवेदनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥
इति पतिकामा ७२ यथाम्नातमितरे ७३ मूत उपनह्य वृक्ष आसजतिरुद्रै ष ते भाग इत्युभयतः ७४ अनपेक्षमाणाः प्रत्यायन्ति ७५ मार्जनँ समिदाधानमिति यथा पशुबन्धे ७६ प्राप्यादित्यं घृते चरुं निर्वपति ७७ क्रैडिनिप्रभृत्यादित्यान्तं प्रागस्तमयात्क्रियेत ६८ सँ स्थितायां पौर्णमासीँ सँ स्थाप्य निवर्तयते
योऽस्याः पृथिव्या अधि त्वचि निवर्तयत्योषधीः ।
अग्निस्तिग्मेनेति समानम् ७९
इति चातुर्मास्ये सप्तमेऽध्याये चतुर्थं खण्डम्
चतुर्षु मासेषु शुनासीर्यँ सद्यश्चतुरहे मासे वा १ पञ्च संचराणि वायव्या यवागूः प्रतिधुग्वेन्द्रा य शुनासीराय द्वादशकपालः सौर्य एककपाल इति हवीँ षि २ सीरं द्वादशयोगं दक्षिणोष्टारो वानड्वान्षड्योगँ सीरमुष्टारौ वानड्वाहौ ३ निवर्तयते
यत्र मासा अर्धमासा ऋतवः परिवत्सराः ।
येन तेन प्रजापतय ईजानः संनिवर्तयन् ।
तेनाहमस्मि ब्रह्मणा निवर्तयामि जीवसे ॥
इति । अग्निस्तिग्मेनेति समानम् ४ वैश्वदेवेनैव यजेत पशुकामः सहस्रं पशून्प्राप्योत्तरैः ५ शुनासीर्येण ग्रामकामोऽन्नाद्यकामो वृष्टिकामः ह्पशुकामः स्वर्गकामो वा ६ उदकमन्ववसाय तस्योदकार्थान्कुर्वीत ७ साँ वत्सरीकाणि ८ अत्र पञ्च सँ वत्सराण्येतेन धर्मेण फाल्गुनारम्भणान्फाल्गुनीसमापनाँ स्त्रीन्सँ वत्सरानिष्ट्वा चैत्र्यारम्भणौ चैत्रीसमापनौ द्वौ यजेत ९ अथ पशुमन्ति १० वैश्वदेवे सन्नेषु हविःषु यूपाय वैश्वदेवं पशुमुपाकरोति ११ यथाकालमविप्रतिषिद्धान् १२ पशुना चातुर्मास्यकान्धर्मान्करोति १३ समानं पशुकर्मोत्तमात्प्रयाजात् १४ उत्तमेन प्रयाजेन प्रचरति १५ ध्रुवादीनि हवीँ ष्यभिघारयति १६ सहामिक्षावपामभिघारयति १७ आज्यभागाभ्यां प्रचर्य हविर्भिः प्रचरति १८ सहामिक्षावपेन प्रचरति १९ वपायाः संप्रैषाः २० पुरस्तात्स्विष्टकृतः पशुपुरोडाशेन प्रचरति २१ सहस्विष्टकृत्प्रैषवन्त्सहेडा २२ समानमान्तात्पशुकर्म २३ एतेनोत्तराणि सहपञ्चसंचराणि पर्वाणि व्याख्यातानि २४ विकारान्व्याख्यास्यामः २५ वरुणप्रघासेषूभयत्र यूपौ २६ मारुतं प्रतिप्रस्थाता पशुमुपाकरोति वारुणमध्वर्युः २७ प्रतिप्रस्थातुः पशौ पूर्वं कार्माध्वर्योरारात् २८ प्रतिप्रस्थातामिक्षावपेन पूर्वं प्रचरति २९ समानमुभयोः कर्म ३० एका मनोता ३१ प्रतिप्रस्थाता पशुना पूर्वं प्रचरति ३२ पशुवर्जमध्वर्योः संप्रैषाः ३३ समानेडा ३४ साकमेधेष्विन्द्रा य वृत्रघ्ने पशुः ३५ वायवे नित्युत्वते शुनासीर्ये ३६ समानमन्यत्समानमन्यत् ३७
इति चातुर्मास्ये सप्तमेऽध्याये पञ्चमं खण्डम्
इति सप्तमोऽध्यायः
अथ वाराहश्रौतसूत्रे चयनम्
प्राकृतीषु सँ स्थासु षोडशिवर्जमग्निमुत्तरवेद्यां चिन्वीत १ सावित्रनाचिकेतो वानग्निर्वोत्तरवेदिं चिन्वीत सत्त्राहीनेषु २ तं चेष्यमाणोऽमावास्यायामुपनीय हविर्जुहूं प्रथमँ संमृज्यास्तगृहीतेनाज्येन युञ्जानः प्रथममिति सावित्राण्यूर्ध्वस्तिष्ठन्जुहोत्यृचा स्तोममिति द्वितीयां पूर्णाहुतिं पूर्णाम् ३ वैणवीमभ्रिं कल्माषीँ सुषिराँ सावित्रप्रभृतिभिरादत्ते फलग्रहेर्वा वृक्षस्य ४ इमामगृभ्णन्नित्यश्वाभिधानीमादाय प्रतूर्तँ वाजिन्नित्यश्वमभिदधाति ५ युञ्जाथाँ रासभँ युवमित्युत्तरं गर्दभम् ६ योगे योग इत्यश्वपूर्वा वल्मीकामभियन्ति ७ अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति पुरुषमायान्तमनुमन्त्रयते येन संगच्छेत ८ तमिति निर्दिशति ९ आगत्य वाज्यध्वानमिति मृदं प्राप्य जपति १० आक्रम्य वाजिन्नित्यश्वेन मृदमाक्रमयति ११ यं द्विष्यात्तं ब्रूयादमुमभितिष्ठेति १२ द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठमभिमृशति १३ उत्क्राम ॥ उदक्रमीदित्युत्क्रान्ते जपति १४ आ त्वा जिघर्मीति पदे हिरण्यं निधायाभिजुहोति १५ परि वाजपतिरित्यभ्र्या पदं परिलिखति १६ देवस्य त्वेति खनति १७ अपां पृष्ठमसीति पुष्करपर्णमाहरति १८ शर्म च स्थ इति कृष्णाजिनं च पुष्करपर्णं च सँ स्तृणाति १९ व्यचस्वती संम्वसेथामित्युत्तरलोम कृष्णाजिनमधस्तादधिपुष्करपर्णे २० तयोर्मृदँ संभरति पुरीष्योऽसीति यजुरुत्तराभिर्गायत्रीभिर्ब्राह्मणस्योत्तराभिस्त्रिष्टुब्भी राजन्यस्योत्तराभिर्जगतीभिर्वैश्यस्य २१ सर्वत्र यजुः २२ यं कामयेत ऋध्नुयादिति तस्य गायत्रीभिश्च त्रिष्टुब्भिश्चाष्टभिश्च संभरेत् २३ अयं ते योनिरृत्विय इति संभृतमभिमृश्यापो देवीरिति स्फ्येन खनति २४ वल्मीकवपामाधाय सुजातो ज्योतिषति मौञ्जेन दाम्नोपनह्यत्यर्कमयेण वा २५ उदु तिष्ठ स्वध्वरेत्युद्यच्छति २६ सजातो गर्भ इति हरति २७ स्थिरो भव वीड्वङ्ग इति गर्दभ आदधाति २८ भरन्नग्निमिति यन्ति २९ ओषधयः प्रतिगृभ्णीतेति परिस्तृणाति ३० दर्भेषु सादयति ३१ वि पाजसेति विस्रँ सयति । वि ते मुञ्चामीति च ३२ आपो हि ष्ठेत्यद्भिरुपसृजैत् ३३ अजलोमभिः कृष्णाजिनलोमभिरर्मकपालैः शर्कराभिः सिकताभिर्वेण्वङ्गारैरिति लोमवर्जं चूर्णकृतैर्मित्रः सँ सृज्येति सँ सृजति ३४ सँ सृष्टासो ग्वा पत्नी करोति ३५ मखस्य शिरोऽसीति पिण्डमभिमन्त्र्य वसवस्त्वा कृण्वन्त्विति त्र्युद्धिं चतुरश्रां करोति ३६ उत्तमे तृतीयेऽदित्या रास्नासीति रास्नां करोति ३७ अश्रीणाँ रास्नायाश्च समवाये स्तनौ कृत्वादितिष्टे बिलं गृभ्णात्विति द्वारं करोति ३८ कृत्वाय सा महीमित्यभिमन्त्र्य सिकतासु विषजति ३९ शेषस्याषाढां त्र्यालिखितामिष्टकां करोति ४० शुष्कामुखाँ वसवस्त्वा धूपयन्त्वित्यश्वशकेन गार्हपत्ये धूपयति ४१ अदितिष्ट्वेति गर्तं खात्वा देवानां त्वा पत्नीरित्यवदधाति ४२ तूष्णीमुखां पचनेन पर्युक्ष्य धिषणा त्वा देवीत्यग्निना समिन्द्धे ४३ ग्नास्त्वा देवीरिति पच्यमानामनुमन्त्रयते । मित्रैतां त उखां परिददाम्यभित्त्या एषा मा भेदीति च ४४ मित्रस्य चर्षणीधृत इत्यागामम् ४५ देवस्त्वा सवितोद्वपत्विति पक्वामुद्वपति ४६ उत्तिष्ठ बृहती भवेत्युच्छ्रयति ४७ मित्रैतां त इत्यभिमन्त्र्य वसवस्त्वाच्छृन्दन्त्वित्यजक्षीरेणाच्छृणत्ति चतुः ४८ वैश्यस्य राजन्यबन्धोर्वा शिर आहरतीषुहतस्याशनिहतस्य वा ४९ सप्त माषानुपन्युप्य यमगाथा गायति
योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी ।
यमं भङ्गश्रवो गाय यो राजानपरोध्यः ॥
यमं गाय भङ्गश्रवो यो राजानपरोध्यः ।
अहरहर्नयमानो गामश्वं पुरुषँ यमः ॥
वैवस्वतो न तृप्यति सुराया इव दुर्मदः ।
येनापो नद्यो धन्वानि येन द्यौरुग्रा पृथिवी च दृढा ॥
इति ५० वल्मीकवपाँ सप्तधा वितृण्णाँ शिरसः स्थाने प्रतिनिदधाति ५१
अयँ योऽसि यस्य त इदँ शिर एतेन त्वँ शीर्षण्वानेधि ।
इदमस्माकं भुजे भोग्याय भूयात् ॥
इति शिर आददीत ५२
इति चयने प्रथमेऽध्याये प्रथमं खण्डम् ॥
हिरण्यकेशान्सुधुरान्हिरण्याक्षानयःशफान् ।
अश्वाननश्वतो दानँ यमो राजाधितिष्ठति ॥
इत्याहरति १ पूर्वमुख्याहृतिः २ पौर्णमास्यां पञ्च पशूनालभतेऽश्वमृषभँ वृष्णिं बस्तं प्राजापत्यं तूपरमिति मुष्करान् ३ उपाकरोतिअग्निभ्यः कामाय जुष्टमिति ४ वैश्वानरीयो द्वादशकपालः पशुपुरोडाशः ५ चतुर्विँ शतिँ सामिधेनीः पराचीरन्वाह ६ एकादश नित्या उपेमसृक्षीति तिस्रः समास्त्वाग्न इति दश ७ अमुत्रभूयादित्यामयाविनः ८
राये अग्ने महे त्वा दानाय समिधीमहि ।
ईडिष्वा हि महि वृषन्नग्ने होत्राय पृथिवीम् ॥
इत्यनामयाविनः ९ हिरण्यगर्भ इत्याघारः १० ऊर्ध्वा अस्य समिध इत्याप्रीः ११ पुरुषशिरसा सह पर्यग्नि कृत्वा तान्पर्यग्निकृतानुत्सृज्य प्राजापत्यवर्जँ शिराँ सि प्रच्छिद्य यस्माद्ध्रदादिष्टकाः करिष्यन्स्यात्तस्मिन्शरीराणि न्यस्य बह्व्या मृदा शिराँ सि प्रलिप्य प्राजापत्येन तन्त्रँ सँ स्थापयन्ति १२ यद्येतान्नालभेत वायवे नियुत्वते श्वेतं तूपरमजमालभेत १३ प्राजापत्यो द्वादशकपालः पशुपुरोडाशः १४ समानमन्यत् १५ आग्नावैष्णव एकादशकपाल आदित्येभ्यो घृते चरुरग्नये च वैश्वानराय द्वादशकपाल इति दीक्षणीया १६ समानमा दीक्षाहुतिभ्यः पूर्णाहुतिवर्जम् १७ आध्वरिकीर्हुत्वाकूतमग्निमिति षडाग्निकीर्जुहोति १८ अन्ततः पूर्णाहुतिः १९ पुरस्ताद्वाचोयमस्याहवनीय उखां प्रवृणक्तिमा सु भित्था इति २० जातमवदध्यादित्याम्नातानि काम्यानि २१ आयन्नग्नौ समिध आदधाति द्र् वन्न इति क्रुमुकं घृताक्तम् २२ प्रजाते प्रस्या अधि संम्वत इत्यौदुम्बरीम् २३ परमस्याः परावत इति वैकङ्कतीम् २४ यदग्ने यानि कानि चेति पञ्चभिः पञ्चौदुम्बरीरपरशुवृक्णाः २५ ये जनेषु मलिम्लव इति वैकङ्कतीम् २६ दँ ष्ट्राभ्यामित्याश्वत्थीम् २७ यो अस्मभ्यमरातीयादिति तैल्वकीँ यद्यभिचरति २८ उदेषां बाहून् ॥ सँ शितं म इत्यौदुम्बर्याँ यजमानँ वाचयति २९ ब्रह्म क्षत्रमित्यनादिष्टवृक्षाम् ३० उख्ये भ्रियमाणे वृष्टिकामस्य याः सौरी रश्मिवतीस्तासां तिसृभिस्तिस्र आश्वत्थीः समिध आदध्याद् भ्राजस्वतीभिः सौरीभिरवृष्टिकामस्य ३१ यदि पशुपतिरभिमन्येत भिषग्वतीभिराग्नेयीभिः ३२ यदि नश्येदग्नेऽभ्यावर्तिन् ॥ अग्नेऽङ्किरः ॥ पुनरूर्जा ॥ सह रय्येत्युपतिष्ठते ३३ सौवर्णँ रुक्मं पाशवन्तमेकविँ शतिनिर्बाधम् ३४
इति चयने प्रथमेऽध्याये द्वितीयं खण्डम्
दृशानो रुक्म इत्युपरिष्टान्निर्बाधं प्रतिमुञ्चते १ नक्तोषासेति कृष्णाजिनम् २ सुपर्णोऽसि गरुत्मानित्यभ्युद्यच्छति ३ प्रादेशमात्रपादारत्निमात्रशीर्ष्ण्या मौञ्जशिक्यौदुम्वर्यासन्दी फलकास्तीर्णा ४ तस्याँ षडुद्यावं मौञ्जशिक्यमवधाय
मातेव पुत्रं पृथिवी पुरीष्यमग्निँ स्वे योनौ बिभर्तूखाम् ।
ताँ विश्वैर्देवैरृतुभिः सँ विदानः प्रजापतिर्विश्वकर्मा युनक्तु ॥
इत्यादधाति ५ विश्वा रूपाणीति शिक्यपाशं प्रतिमुञ्चते ६ नक्तोषासेति कृष्णाजिनम् ७ सुपर्णोऽसि गरुत्मानित्युख्यमुद्गच्छन्नुपरिनाभि विपरिवर्तयति ८ विष्णोः क्रमोऽसीति पर्यायैर्यजमानश्चतुरः क्रमान्क्रामति ९ अक्रन्ददग्निरिति क्रमाणां पारे जपति १० दक्षिणावर्ततेअग्नेऽभ्यावर्तिन्निति ११ आ त्वा हार्षमित्यावृत्य जपति १२ उदुत्तममिति शिक्यपाशमुन्मुञ्चते १३ अग्रे बृहन्नुषसामित्युन्मुच्य जपति १४ हँ सः शुचिषदित्यादधाति १५ सन्नवतीभिरुपतिष्ठते । दिवस्परीति च वात्सप्रेण १६ रुक्मप्रतिमोचनादि वत्सप्रान्तँ यजमानः करोति १७ अनुगमयत्याहवनीयम् १८ मुष्टिकरणाद्याध्वरिकेण दीक्षोपायो व्याख्यातः १९ व्यत्यासं क्रमणँ वात्सप्रेण करोति पूर्वेद्युः क्रामत्युत्तरेद्युर्वात्सप्रम् २० येन देवा ज्योतिषेत्यहरहर्घृताक्ताँ समिधमादधाति २१ अन्नषत इति व्रतकालेष्वन्नाक्ताम् २२ समिधाग्निमिति चानक्ताम् २३ गायत्र्या ब्राह्मणस्यादध्यात् प्र प्रायमग्निरिति त्रिष्टुभा राजन्यस्य द्वाभ्यां गायत्रीभ्याँ वैश्यस्य २४ प्रयास्यन्ननसि विहारमादधाति २५ उदु त्वा विश्वे देवा इत्यग्निमुद्यच्छति २६ हँ सः शुचिषदित्यादधाति २७ सन्नवतीभिरुपतिष्ठते २८ प्रेदग्न इति प्रयापयति २९ अक्रन्ददग्निरिति सर्जदभिमन्त्रयते ३० यद्युखा भस्मना प्रतिपूर्येतेष्टकासु कार्यम् ३१ पुरीषे पशुकामः कुर्वीत ३२ अप्सु यायावरः प्रवपेत् ३३ आपो देवीरिति प्रथयति ३४ प्रसद्य भस्मना ॥ पुनरासद्येति भस्ममुष्टी प्रत्यावपति ३५ पुनरूर्जा ॥ सह रय्येति निवृत्य बोधा मे अस्येत्युपतिष्ठते ३६
इति चयने प्रथमेऽध्याये तृतीयं खण्डम्
दीक्षितस्येष्टकाः कुर्वन्त्यदीक्षितस्य वा १ न त्वेवानालब्धप्राजापत्यस्य २ मृन्मयीस्त्र्यालिखिताश्चतुरश्रा दक्षिणावृतः सव्यावृत ऋजुलेखाश्च निर्मन्थ्येन लोहिनीः पचन्त्यन्वाहार्यपचनेन वा ३ समाप्तासु दीक्षासु क्रमवात्सप्रे ४ तस्या एतत्तिनति देवयजनमध्यवस्यति ५ आहवनीयदेशे गार्हपत्यं चिनोति ६ मण्डलं चतुरश्रँ वा व्यायाममात्रँ विमायोद्धत्याद्भिरवोक्ष्य यो नो अग्निः ॥ मयि गृह्णामीति जपति ७ चितः स्थ परिचितः स्थेत्येकविँ शत्या शर्कराभिः परिश्रयति ८ अग्नेर्भस्मासीति सिकता निवपति ९ संज्ञानमसीत्यूषान्न्युप्य व्यूहति १० अयँ सो अग्निरिति प्रभृतिभिश्चतस्रो मध्ये प्राचीरुपदधाति ११ इडामग्ने ॥ अयं ते योनिरृत्विय इति द्वे समीची पुरस्ताच्चिदसि तया देवतयाङ्गिरस्वद्ध्रवासीदेति १२ परिचिदसीति द्वे समीची पश्चात् १३ त्रयोदश च लोकंपृणाः १४ पृष्टो दिवीति चात्वालदेशात्पुरीषमाहृत्य व्यूहति १५ एवँ सर्वाश्चिनोति १६ पञ्चचितिकं प्रथमं त्रिचितिकं द्वितीयमेकचितिकं तृतीयम् । सर्वत्र वैकचितिकम् १७ संचिते समितँ संकल्पेथामित्युख्यं निवपति १८ मातेव पुत्रमिति शिक्यादुखाँ विमुञ्चते १९ न रिक्तामवेक्षते २० प्रत्यग्दक्षिणा नैरृतीभिर्यन्ति २१ यदस्य पार इति शिक्यमादत्ते २२ तिस्रस्तुषपक्वाः कृष्णा इष्टकाः स्वकृत इरिणेऽसुन्वन्तमिति तिसृभिः परां परामुपदधाति २३ न तयादेवतं करोति २४ यं ते देवीति शिक्यमधिवपति २५ रुक्मसूत्रमासन्दीमिति निधाय यदस्य पारे रजस इत्यपः परिषिञ्चन्पर्येति २६ भूत्यै नम इत्युक्त्वा निवृत्य
शं नो देवीरभिष्ट्य आपो भवन्तु पीतये ।
शँ योरभिस्रवन्तु नः ॥
इति परोगोष्ठं मार्जयन्ते २७ अनपेक्षमाणाः प्रत्यायन्ति २८ निवेशन इति गार्हपत्यमुपतिष्ठन्ते २९ येन देवा ज्योतिषेत्याहवनीयँ यजमानः समिन्द्धे ३० प्रायणीयाप्रभृति समानमोपसद्भ्यः ३१ पूर्वाह्णिकीमुपसदं कृत्वा यूपं छित्त्वा वेदिं कृत्वाग्निँ विदधाति सप्तपुरुषं त्रीन्प्राचश्चतुरस्तिर्यक् ३२ पुरुषमात्राणि पक्षपुच्छानि भवन्ति ३३ आत्मा चतुःपुरुषो भवति ३४ अरत्निं पक्षयोरत्युपदधाति ३५ प्रादेशमात्रं पुच्छे वितस्तिँ वा ३६ प्रजापतिष्ट्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति विहितस्य मध्यँ विमृश्य सजूरब्द इति दर्भस्तम्बे हिरण्ये च मध्येऽग्निं जुहोति ३७ द्वादशयुक्तेन सीरेणाग्निं कृषति षड्युक्तेन वा ३८
इति चयने प्रथमेऽध्याये चतुर्थं खण्डम्
सँ घरत्रा दधातन निराहावान्कृणोतन ।
सिञ्चामहा अवटमुद्रि णँ वयँ विश्वाहाजस्रमक्षितम् ॥
निष्कृताहावमवटँ सुवरत्रँ सुषेचनम् ।
उद्रि णँ सिञ्चे अक्षितम् ॥
इति युगवरत्राणि संबध्नाति १ पूषा युनक्त्विति युनक्ति २ लाङ्गलं पवीरवमिति कृषति ३ पुच्छादधि शिरः शिरस्तः पुच्छं पुच्छतः शिरस्तिस्रः सीताः संपादयति ४ एतेन धर्मेण दक्षिणावर्तो दक्षिणस्मात्पक्षादुत्तरमुत्तरस्याः श्रोण्या दक्षिणमँ सं दक्षिणस्या उत्तरम् ५ द्वादश सीताः संपाद्य प्राच उत्सृजन्तिविमुच्यध्वमघ्न्या इति ६ विसृज्याध्वर्यवे वैकर्षणान्ददाति ७ कृष्टे सर्वान्नानि यवाँ श्च मधूद्युतान्वपतिया ओषधय इति चतुर्दशभिः ८ यस्य न वपेत्तन्मनसा ध्यायेत् ९ तस्येध्मेऽपि कुर्यात् १० ये वनस्पतीनामाप्तफलास्तेषामग्नीषोमीयायेध्मे संनह्येत् ११ शिष्टान्मनसा ध्यायेत् १२ व्युत्कृष्टो लोष्टादिस्तेभ्यो यथाहृतां मध्याय संभरतिमा नो हिँ सीदिति चतसृभिः १३ यां जनतां क्षुध्यन्तीमिच्छेत्तां प्रतीषमूर्जमित्युक्त्वाददीत १४ यथा मन्येत तस्यां निहनिष्यतीत्येवमुपक्रमेत १५ कामं कामदुघे धुक्ष्वेति लोष्टान्कृष्टां चाभिमृशति १६ व्याघारणान्तामुत्तरवेदिं करोति १७ अग्निरुत्तरवेदिः १८ एतेन धर्मेणापरिमिताभिः शर्कराभिरग्निं परिश्रयति १९
वज्रं कृणुध्वँ स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि ।
पुरः कृणुध्वमयसीरधृष्टा मा वः सुस्रोच्चमसो दृँ हत तम् ॥
परि त्रिविष्टपध्वरँ यात्यग्नी रथीरिव ।
आ देवेषु प्रयो दधत् ॥
परि वाजपतिरिति परिश्रितमभिमन्त्र्याग्ने तव श्रवो वय इति सिकता निवपति २० संज्ञानमसीत्यूषान्न्युप्याप्यायस्व ॥ सं ते पयाँ सीति व्यूहति २१ सीतामध्ये कुम्भेष्टका उपदधाति षट् कुम्भा द्वे द्वे कृषं च कृष्णी च चतस्रोऽपचतः स्वयमातृण्णालोके द्वे दिक्षु समन्या यन्तीति यजुषो षट् २२ प्रथमयाद्भिः पूरयित्वोत्तराभिर्द्वादशोपधाय द्वाभ्यामुपतिष्ठेत २३ दिवि श्रयस्वेति नैवारं चरुं पयसि शृतमुपदधाति २४
इति चयने प्रथमेऽध्याये पञ्चमं खण्डम्
सूददोहसा सह लोकंपृणाः सर्वेष्टकासु तया देवतया करोति १ शीर्षाव्यवसेस्थाप्यय इति लोको मध्ये स्वयमातृण्णालोकः २ वर्जयेत्कृष्णां भिन्नामलक्ष्मीमिति ३ दक्षिणावृद्भिर्दक्षिणं पुच्छमुपदधाति सव्यावृद्भिरुत्तरमृजुलेखाभिर्दोषम् ४ अग्रेणाहवनीयमानडुहे चर्मणि मुख्याश्चितीनामासाद्य संप्रेष्यतिचित्यग्निभ्य इत्युपाँ शु प्रणीयमानेभ्योऽनुब्रूहीत्युच्चैः ५ प्राचीमनु प्रदिशमिति प्रणयति ६ अश्वपूर्वा यन्ति ७ उत्तरं पुच्छाप्ययं प्रत्याक्रम्यैन्द्र सानसिँ रयिमित्याक्रमनमुपदधाति ८ पुरस्तात्प्राचीनास्तेन स्वयमातृण्णालोकमभ्यस्थाँ विश्वा इत्याक्रमयति ९ प्राञ्चं प्रक्रमय्य प्रत्यञ्चमभ्यावर्तयति १० तपो योनिरसीति पदे पुष्करपर्णमुपदधात्यपां पृष्ठमसीति च ११ अधस्तान्नाभिपुष्करपर्णे रुक्मं ब्रह्म जज्ञानमिति पश्चात्पाशमधस्तान्निर्बाधँ सादयति १२ कृणुष्व पाज इति पञ्चभिरक्ष्णया व्याघारयति १३ हिरण्यगर्भ इति रुक्मे सौवर्णं पुरुषमुत्तानमुपदधाति १४ द्र प्सश्चस्कन्देत्यभिमन्त्र्य नमोऽस्तु सर्पेभ्य इति तिसृभिरनुदिशति व्याघारयति च यथा रुक्मम् १५ अयमग्निः सहस्रिण इति स्रुचं कार्ष्मर्यमयीं घृतस्य पूर्णां दक्षिणतः सादयति भुवो यज्ञस्येति दध्न औदुम्बरीमुत्तरतः १६ तेजोऽसीति हिरण्येष्टकाँ शर्कराँ स्वयमातृण्णामश्वेनोपघ्राप्य भूर्भुवः स्वरित्यभिमन्त्र्य ध्रुवासि धरुणेति चाविदुषा सह ब्राह्मणेन प्रजापतिष्ट्वा सादयत्विति पुरुषे सादयति १७ पुरुषस्यास्ये छिद्रं करोति १८ भूरिति प्राचीमुदूहेदिति ब्राह्मणव्याख्यातम् १९ चित्तिं जुहोमीत्यातृण्णे जुहोति २० पृथिवीमाक्रमिषमिति यजमानँ वाचयति २१ यजमानोऽविदुषे वरं ददात्यविद्वानध्वर्यवे २२ यास्ते अग्न आद्रा र्योनयैति कुलायिनीम् २३ काण्डात्काण्डादिति दूर्वेष्टकां लोष्टं दूर्वामिश्रँ सँ सृष्टँ स्वयमातृण्णायाः २४ यास्ते अग्ने सूर्ये रुच इति वामभृतँ हिरण्यशकलावध्यूह्य २५ विराड् ज्योतिरधारयद्भूरसि भुवनस्य रेत इति रेतःसिचम् २६ स्वराड् ज्योतिरधारयद्भूरसि भुवनस्य रेत इति द्वितीयाम् २७ सम्राड् ज्योतिरधारयदिति तृतीयाम् २८ प्रथमायां चितौ यून उपदध्यान्मध्यमायाँ विवयसो विहृता स्थविरस्य २९ पुत्री चिन्वीतेति द्वयोर्ब्राह्मणम् ३० बृहस्पतिष्ट्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् ३१ उदपुरा नामासीति मण्डलामवदध्यात् ३२ ऋतव्या उपदधातिमधुश्च माधवश्चेति पर्यायैर्द्वे द्वे चित्यां चित्यां चतस्रो मध्यमायाम् ३३ द्वे द्वे पर्यायेणाग्नेरन्तः श्लेषोऽसीत्यनुषजेत् ३४ घर्मेष्टका उपधायाषाढासीत्यषाढाम् ३५ कूर्मं कच्छपं मत्स्यं दध्ना मधुना घृतेन मधु वाता ऋतायत इति तिसृभिः समाज्यापां त्वा गह्मंत्सादयामीत्यभिमन्त्र्य मही द्यौरिति पुरस्तात्प्रत्यञ्चँ सादयति ३६ औदुम्बरमुलूखलमुसलं प्रादेशमात्रं चतुःस्रक्ति ३७
इति चयने प्रथमेऽध्याये षष्ठं खण्डम्
यच्चिद्धि त्वं गृहे गृह उलूखलक युज्यसे ।
इह द्युमत्तमँ वद जयतामिव दुन्दुभिः ॥
इति व्रीहीनवहत्य सहव्रीह्युपदधातिइदँ विष्णुरिति दक्षिणतः पुरस्तात्स्वयमातृण्णायाः १ उखाँ सिकताभिः पूरयति दध्ना मधुना घृतेन वाअग्ने युक्ष्वा हि ये तव ॥ युक्ष्वा हि देवहूतमानिति सँ हिताभ्यामभिजुहोति २ विषाद्य नक्तोषासा ॥ स्युता देवेभिरित्यादत्ते ३ पृथिवि पृथिव्याँ सीदेति सादयत्युत्तरतः पुरस्तात्स्वयमातृण्णाया यावत्युलूखलम् ४ समित्स्रवन्तीति दध्ना मधुमिश्रेण शिराँ सि पूरयित्वा छिद्रे षु हिरण्यशकलानप्यस्यतिऋचे त्वेति दक्षिणस्मिन्कर्णच्छिद्रे रुचे त्वेति सव्ये भासे त्वेति दक्षिणस्मिन्नक्षिच्छिद्रे ज्योतिषे त्वेति सव्येऽभूदिदमिति दक्षिणस्मिन्नासिकाछिद्रे ऽग्नेर्वैश्वानरस्येति सव्येऽग्निस्तेजसेत्यास्ये रुक्मो वर्चसेत्यवकर्तने ५ सहस्रदा असीति पुरुषशिरोऽभिमन्त्र्यादित्यं गर्भमित्युखायामुत्तानमुपदधाति पश्चादवकर्तनतः ६ चित्रं देवानामित्यर्धर्चाभ्यामक्षिच्छिद्र योर्हुत्वा पश्चात्पुरुषशिरसः पुरुषचितिमुपदधाति पुरुषस्य प्रतिमाम् ७ मा छन्द इति द्वादश पर्यायाः ८ तेषां तिस्रस्तिस्र एकैकेन ९ तेन छन्दसेत्यनुषजेत् १० वातस्य जूतिमिति पूर्वार्धेऽश्वशिर उत्तराभिस्तिसृभिर्यथासमाम्नातमिम्तराणि पश्चार्धे गोशिरो दक्षिणार्धेऽविशिर उत्तरार्धे शिरः ११ इमं मा हिँ सीरिति पञ्चभिरुत्सर्गैरुपधानानुपूर्वेणोपतिष्ठेत १२ यद्येकँ स्यादनुपरिहारमुपदध्याल्लोकान्वोपतिष्ठेतोत्सर्गैश्च १३ उत्तरमँ सँ स्वयमातृण्णायान्तरेण संचरेदँ सशिराँ सित्वँ यविष्ठेति संम्वत्सरीं जपति १४ सर्पशिर उत्तरस्मिन्नँ स उपधाय नमोऽस्तु सर्पेभ्य इति तिसृभिरनुदिशति १५ अपां त्वेमन्त्सादयामीति पञ्चदशापस्याः पञ्च पञ्चाभित उपदधाति १६ छन्दस्याः पञ्चोत्तरतः १७ अयं पुरोभूरिति पञ्चाशतं प्राणभृतः पञ्चभिः पर्यायैर्दश दशैकेन १८ प्रथमं दशवर्गं पुरस्तादुपदधात्यथ द्वितीयं पश्चात्तृतीयं दक्षिणतश्चतुर्थमुत्तरतो मध्ये पञ्चमम् १९ आयुषे प्राणः संततः प्राणापानँ संतन्विति पञ्चाशतँ सँ यतो दशभिः पर्यायैः पञ्च पञ्चैकेन २० प्राची दिगित्यतिमात्रा यथा प्राणभृतः पञ्चाशतमुपधाय व्रतमुपदधाति २१
इति चयने प्रथमेऽध्याये सप्तमं खण्डम्
सम्यच्च प्रचेताश्चाग्नेः सोमस्य सूर्यस्य ते तेऽधिपतयस्ते यं द्विष्मो यश्च ओ द्वेष्टि तमेषां जम्भे दधामि ॥
उग्रा च भीमा च पितॄणाँ यमस्येन्द्र स्य ते तेऽधिपतयस्ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ॥
प्राची च प्रतीची च वसूनाँ रुद्रा णामादित्यानां ते तेऽधिपतयस्ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ॥
यन्त्री च यमनी च मित्रावरुणयोर्मित्रस्य धातुस्ते तेऽधिपतयस्ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ॥
ध्रुवा च पृथिवी च सवितुर्मरुताँ वरुनस्य ते तेऽधिपतयस्ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ॥
उर्वी चाधिपत्नी च बृहस्पतेर्विश्वेषां देवानां ते तेऽधिपतयस्ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दधामि ॥
इति वैश्वदेवीः प्रथमा व्रतस्य १ प्राच्या त्वा दिशा सादयामीति पञ्चात्मेष्टका एकैकां लोकेषु २ इन्द्रो दधिचो अस्थभिरिति दशाथर्वशिरो नव पूर्वार्ध एकां मध्ये ३ तिस्रो गायत्रीः पुरस्तादायाहि सुषुमा हि त इति ४ रथन्तरं द्वे द्वे तिस्रः कृत्वोपदधाति
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥
न त्वावं अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥
इति रथन्तरम् ५ द्वे द्वे चित्यामुपदधाति ६
त्वामग्ने वृषभं चेकितानं पुनर्युवानं जनयन्नुपागाम् ।
अस्थूरि नौ गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सँ शिशाधि ॥
इत्यृषभमुपधाय लोकंपृणया चितिँ संछादयति ७ चित्यां चित्याँ हिरण्यशकलमप्यस्यति ८ अश्वँ श्यावमालभते ९ पृष्टो दिवीति चात्वालात्पुरीषमतिहृत्य व्यूहति १० अग्निहोमचितिहोमान्जुहोति ११ अग्ने कह्येति पञ्चाग्निहोमाः १२ या ते इषुरिति सर्वत्रानुषजेत् १३ तेषामेकैकेन चित्यां चित्यां जुहोति १४ यो अप्स्वन्तरग्निरिति पञ्च चितिहोमाः १५
अग्ने देवं इहावह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ॥
अगन्म महा नमसा यविष्ठँ यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुँ रोदसी अन्तरुर्वी स्वाहुतँ विश्वतः प्रत्यञ्चम् ॥
मेधाकारँ विदथस्य प्रसाधनमग्निँ होतारं परिभूतमं मतिम् ।
त्वामर्थस्य हविषः समानमित्त्वां महो वृणते नान्यं त्वत् ॥
मनुष्वत्त्वा निधीमहि मनुष्वत्समिधीमहि ।
अग्ने मनुष्वदङ्गिरो देवान्देवयते यज ॥
अग्निर्हि वाजिनँ विशे ददाति विश्वचर्षणिः ।
अग्नी राये स्वाभुवँ स प्रीतो याति वीर्यमिषँ स्तोतृभ्य आभर ॥
इति पञ्च १६ तासामेकैकया चितिं चितिमभिमृशत्यग्ने धामानीति च १७ व्रतप्रभृत्यभिमर्शनान्तँ सर्वचितिषु १८ अनूपसदमग्निं चिन्वन्ति चिन्वन्ति १९
इति चयने प्रथमेऽध्यायेऽष्टमं खण्डम्
इति प्रथमोऽध्यायः
अश्वँ श्वेतमालभन्चितीरुपदधाति १ ध्रुवक्षितिरिति पञ्चाश्विनीर्लोकेषु २ उपधायर्तव्या उपदधाति पञ्च पञ्चोत्तराः सजूर्देवैरिति पर्यायैः ३ सजूरृतुभिरिति पुरस्तात्पर्यायाणामनुषजेत्सजूर्देवैर्वयुनाधैरित्युपरिष्टात् ४ प्राणं मे पाहीत्यृतव्यासु वायव्या अनूपदधीतापः पिन्वेति वायव्यास्वपस्याः क्षत्रँ वय इत्यपस्यासुतपश्चाच्चतस्रः पुरस्तादुपधायोत्तरैः पर्यायैः पञ्च पञ्चाभित उपदधाति ५ व्याख्याताः सार्वचितिकाः ६ तृतीयामुपदधाति ७ इन्द्रा ग्नी अव्यथमामामिति स्वयमातृण्णामभिमन्त्र्य विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ॥ अन्तरिक्षँ ग्रच्छेति सादयति ८ नात्राविद्वान्न वरदानम् ९ अन्तरिक्षमाक्रमिषमिति यजमानँ वाचयति १० ज्योतिरसि ज्योतिर्मे यच्छेति हिरण्येष्टकाँ राज्ञ्यसि प्राची दिगिति पञ्च दिश्या लोकेषूपधाय रेतःसिचँ रेतःसिचौ वा विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषमपराजिता नामासीति मण्डलाँ सादयति ११ आयुर्मे पाहीति दश पुरस्तादुपधायोत्तरैः पर्यायैर्द्वादश द्वादशाभित उपदधाति १२ मूर्धासि राडिति सप्त पुरस्ताद्यन्त्री राडिति सप्त पश्चात् १३ समीचीरक्ष्णया द्वेष्यस्य १४ व्याख्याताः सार्वचितिकाः १५ चतुर्थीमुपदधाति १६ आशुस्त्रिवृदिति पुरस्ताद्व्योमा सप्तदश इति दक्षिणतो भान्तः पञ्चदश इत्युत्तरतो धरुण एकविँ श इति पश्चात्प्रतूर्तिरष्टादश इति षोडश शेषेणोपधायर्तव्ये उपधायैकया स्तुवतेति सप्तदश सृष्टीरुपधाय ऋतूनां पत्नीति पञ्चदश व्युष्टीरुपदधाति १७ व्याख्याताः सार्वचितिकाः १८ पञ्चमीमुपदधाति १९ अग्ने जातानिति पश्चाच्चतुश्चत्वारिँ शी स्तोम इत्युत्तरतोऽग्नेः पुरीषमिति मध्ये २० चत्वारिँ शतमेवश्छन्द इति प्रथमं दशवर्गं पुरस्तादुपदधात्यथ द्वितीयं पश्चात्तृतीयं दक्षिणतश्चतुर्थमुत्तरतः २१ रश्मिना क्षयाय क्षयं जिन्वेति त्रयस्त्रिँ शतँ स्तोमभागाँ श्चतुरः सप्त वर्गान्दक्षिणत उपधाय पञ्च लोकेषूपदधाति २२ राज्ञ्यसि प्राची दिगिति पञ्च नाकसदो लोकेषु २३ अयं पुरो हरिकेशं इति पञ्चचूडाः पञ्च नाकसत्स्वध्युपदधाति पश्चात्प्राचीमुत्तमाम् २४ पुरोवातसनिरसीति पञ्च वृष्टिसनयो लोकेषु सँ यान्यावुपधायाम्बा च बुला चेति षोडश २५ येना ऋषय इति त्रिभिरनुवाकैरेकत्रिँ शतममृतम् २६ तपो योनिरित्यष्टौ ऋचा त्वा छन्दसा सादयामीति च २७ दूतँ वो विश्ववेदसमिति पञ्च २८ छन्दश्चितिमुपदधातिअयमग्निः सहस्रिण इति तिस्रो गायत्रीः पुरस्तात् २९ तिस्रस्तिस्रोऽभित उपदधाति । त्रिष्टुब्भिर्दक्षिणतः । जगतीभिः पश्चात् । अनुष्टुब्भिरुत्तरतः ३० पङ्क्तिभिः पुरस्तादुपदधाति । बृहतीभिर्दक्षिणतः । उष्णिग्भिः पश्चात् । ककुब्भिरुत्तरतः ३१
इति चयने द्वितीयेऽध्याये प्रथमं खण्डम् ॥
भद्रो नो अग्निराहुतो भद्रा रातिः सुभगो भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥
भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
येना समत्सु सासहि ॥
येना समत्सु सासह्यव स्थिरा तनुहि भूरि शर्धताम् ।
वनेमा ते अभिष्टिभिः ॥
इति १ विराजः प्रेद्धो अग्ने ॥ इमो अग्न इति ।
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
दूरे दृशं गृहपतिमथर्युम् ॥
इति २ अग्ने तमद्येति दक्षिणतः । अग्निँ होतारं मन्य इत्यतिच्छन्दसः पश्चात् ३ त्वं नो अग्ने ॥ स त्वं नो अग्ने ॥ तं त्वा शोचिष्ठ दीदिवः ॥ अधा ह्यग्ने ॥ एवा ह्यग्न इति द्विपदा उत्तरतः ४ रेतःसिचमुपधाय परमेष्ठी त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् ५ अधिद्यौर्नामासीति मण्डलाम् ६ ऋतव्ये उपधाय तमुपदधाति ७ यवा अयवा इति सप्त ८ पृथिव्यसि जन्मनेति पञ्चभिरनुवाकैरेकोनासप्ततिः ९ या देव्यसीष्टक इति पुरस्तात्पर्यायाणामनुषजेदुपशीवरीत्युपरिष्टात् १० ऋचे त्वा । रुचे त्वा । द्युते त्वा । भासे त्वा । ज्योतिषे त्वेति पञ्चभिर्घृतपिण्डान् ११
पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय ।
तस्यां देवाय सँ विशत्युत्तमे नाक इह मादयताम् ॥
इति पौर्णमासीम् १२ कृत्तिका नक्षत्रमिति नक्षत्रेष्टकाः पुरस्तात्प्रतीचीरूनात्रिँ शतम् । अग्ने रुचः स्थेत्यनुषजेत् १३ पुरस्ताद्विशाखस्यामावास्या सुभगेत्यमावास्यामुपरिष्टाद्भरणीनां पौर्णमासीममावास्यां च १४ ऋषभमुपधाय लोकंपृणया चितिँ संछादयति १५ स्वरसि स्वर्मे यच्छेति हिरण्येष्टकाम् १६ परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीमिति स्वयमातृण्णामध्वर्युः प्रोथदश्व इति विकर्णीँ शर्करां प्रतिप्रस्थाता युगपदुपधत्तः १७ दिवमाक्रमिषमिति यजमानँ वाचयति १८ न स्वयमातृण्णामुपवपति १९ पुरीषप्रभृति समानम् २० जानुदघ्नं प्रथमं चिन्वानश्चिन्वीत नाभिदघ्नं द्वितीयं चुबुकदघ्नं तृतीयं ततो न ज्यायाँ सम् २१ साहस्रं प्रथमं द्विसाहस्रं द्वितीयं त्रिसाहस्रं तृतीयम् २२ संचितँ सहस्रेण हिरण्यशकलैः प्रोक्षति पञ्चधा विभज्य
सहस्रस्य मासीति पर्यायैः २३ साहस्रोऽसि सहस्राय त्वेत्यनुषजेत् २४
इति चयने द्वितीयेऽध्याये द्वितीयं खण्डम्
वसवस्त्वा रुद्रैः पश्चात्पान्त्विति घृतेन प्रोक्षति पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्नुत्तरैः पर्यायैरनुक्रामन् १
नितानस्त्वा मारुतो मरुद्भिरुत्तरतः पातु ॥
आदित्यास्त्वा पुरस्ताद्विश्वैर्देवैः पान्तु ॥
पितरस्त्वा यमराजानः पितृभिर्दक्षिणतः पान्तु ॥
देवेन्द्र स्त्वेन्द्र ज्येष्ठा वरुणराजानोऽधस्ताच्चोपरिष्टाच्च पान्तु ॥
इति मध्ये २ इमा मे अग्ना इष्टका धेनवः सन्त्वित्यभिमन्त्र्य शतरुद्रि यं जुहोत्यर्कपर्णेनाजक्षीरेण गवीधुकासक्तून्कृत्वा षड्ढा विभज्योत्तरापरस्यामिष्टकायामुदङ् तिष्ठन्नात्यद्वोहन्नग्निं नमस्ते रुद्र मन्यव इति प्रभृतिना नमः सेनाभ्यः सेनानीभ्यश्च वो नम इत्यन्तेन जानुदघ्ने ३ नमो रथिभ्य इतिप्रभृतिना नमो मेध्याय च विद्युत्याय चेत्यन्तेन नाभिदघ्ने ४ नमो वर्ष्याय चावर्ष्याय चेति प्रभृतिना प्रत्यवरोहेभ्यस्तृतीयमास्यदघ्ने ५ नमो अस्तु रुद्रे भ्यो ये दिवीति त्रीन्प्रत्यवरोहान् ६ आस्यदघ्नादीन्यजमानँ वाचयन्तेषु देशेषु जुहोति ७ असंचरेऽर्कपर्णं न्यस्यति । यं द्विष्यात्तस्य पशूनाँ संचरे न्यस्येदिति ब्राह्मणव्याख्यातम् ८ गावीधुकं चरुं पयसि शृतमुपदधाति तस्यामेवेष्टकायाँ
यो रुद्रो ऽप्सु योऽग्नौ य ओषधीषु ।
यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्रा य नमोऽस्तु देवाय ॥
इति ९ तिसृधन्वमयाचितो ब्राह्मणाय ददाति १० अश्मन्नूर्जमित्युदकुम्भेनाग्निं त्रिः परिषिच्य त्रिः प्रतिपर्येति ११ यद्यभिचरेदेतदेव यजुरिति ब्राह्मणव्याख्यातम् १२ आग्नेयपावमान्यां गायत्रं गायति शिरसि रथन्तरं दक्षिणस्मिन्पक्षे । बृहदुत्तरस्मिन् । वामदेव्यं दक्षिणस्याँ श्रोण्याम् । पुच्छे यज्ञायज्ञियम् । प्रजापतेर्हृदयमनृचमपिपक्षे १३ अर्क्यैः सामभिरर्कं परिष्टुवन्ति १४ स्तुतँ होतानुशँ सति १५ इष्टो यज्ञो भृगुभिरित्याग्निकँ समिष्टयजुर्यजमानँ वाचयति १६ अवकाँ वेतसशाखां मण्डूकमिति वँ शे प्रबध्य समुद्र स्य त्वावकयेति सप्तभिरग्निं परिकर्षति १७ प्राणो माण्डुके १८ विकर्षणँ संलुप्योत्करे न्यस्यति १९ कृष्णाजिनस्योपानहौ प्रतिमुच्य नमस्ते हरस इत्यारोहति २० पञ्चगृहीत आज्ये पञ्च हिरण्यशकलान्प्रास्य स्वयमातृण्णां पञ्च कृत्वोऽक्ष्णया व्याघारयतिद्रुषदे वडिति पर्यायैः २१ द्वाभ्यामुत्तमं मध्ये २२ दध्ना मधुमिश्रेणाग्निँ व्यवोक्षतिअन्नपत इति दर्भगुरुमुष्टिना २३ प्राणदा इत्यवरोहति २४ व्यवोक्षणान्तं कृत्वोत्तमे प्रवर्ग्यानुवाक्येन गणेन पश्चार्धे चतुर्थमीदृङ् चेति पञ्चमीमीदृक्षास इति षष्ठीमिन्द्रं दैवीर्विश इति सप्तमीम् २५ यदि कामयेत विशा क्षत्रँ हन्यामिति ब्राह्मणव्याख्यातम् २६
इति चयने द्वितीयेऽध्याये तृतीयं खण्डम्
वसोर्धारां जुहोति १ संमुद्रा दूर्मिरिति सूक्तेन घृतमभिमन्त्र्यौदुम्बर्या महत्या स्रुचा पश्चाच्चमसः स्रुक्पात्रेण संछादितस्य मृदाहितायामाद्यं चमस आसिञ्चति २ वैश्वानरीये धारां पातयत्यग्नाविष्णू सजोषसेति जपित्वा विच्छिन्नाम् ३ वाजश्च म इति पञ्चानुवाकान्यजमानँ वाचयति ४ एका च तिस्रश्चा त्रयस्त्रिँ शतश्चतस्रश्चाष्टौ चेति चतुरभ्यासेनाष्टाचत्वारिँ शतः । धेनुश्चानड्वाँ श्चेत्युक्त्वायुर्यज्ञेन कल्पत इति प्रभृतिना स्वर्मूर्धा स्वाहा वैयशनः स्वाहा व्यशनान्त्यः स्वाहान्त्यो भौवनः स्वाहा भुवनस्य पतयेऽधिपतये स्वाहेति स्वर्देवा अगामामृता अभूम प्रजापतेः प्रजा अभूम स्वाहेत्यन्तेन धारा ५ अग्नौ स्रुचमनुप्रहरति ६ यदाज्यमुच्छिष्यते तस्मिँ श्चतुःशरावमोदनं पक्त्वा मध्यतःकारिभ्यो ददाति चतस्रश्च धेनूः ७ वाजप्रसव्यं जुहोतिवाजाय स्वाहेति त्रयोदशाहुतीः ८ सर्वाणि ग्राम्याण्यारण्यान्याज्येन प्रयुत्यौदुम्बरेण स्रुवेण जुहोतिअग्ने अच्छा वदेह न इत्यष्टौ विश्वे नो अद्येति षट् ९ हुत्वा हुत्वा पात्र्याँ संपातानवनयत्यभिषेकाय १० अग्रेणाभिषिञ्चत्यासन्द्यां कृष्णाजिने ब्रह्मवर्चसकामं बस्ताजिने पशुकामम् ११ देवस्य त्वेति बृहस्पतिमिति ब्राह्मणमिन्द्र मिति राजन्यं भवमिति वैश्यम् १२ द्वादशगृहीतेन राष्ट्रभृतो जुहोतिऋताषाडिति षड्भिः पर्यायैर्द्वे पर्यायेण । स न इदं ब्रह्म क्षत्रं पात्वित्यनुषजेत् १३ अमृडय इति राजन्यस्योत्तमां कुर्यात्प्रजापतिः परमेष्ठीति वैश्यस्य १४ स नो भुवनस्य पत इति रथमुखे दश १५ प्रक्षालितशिरसँ रथमध्यग्निं धारयन्ति १६ प्रत्यङ्मुखे प्रथमं द्वे द्वे दिक्ष्वनुपरिहारं पश्चात्प्राङ्मुखे द्वितीयम् १७ ततो हुत्वाध्वर्योरावसथँ हरन्ति १८ तं दक्षिणायाः काले यजमानोऽनुदिशति १९ त्रीन्वातहोमानञ्जलिना परिग्राहं जुहोतिसमुद्रो ऽसि नभस्वानिति पर्यायैः २० पृष्ठ्याबर्हिःप्रभूति समानमा धिष्ण्यान्निवपति २१ उपेष्विष्टका दधाति वैहवीरावर्तयन् २२ अश्मनवमा आग्नीध्र एकविँ शतिँ होत्रिय एकादश ब्राह्मणाच्छंस्ये षण्मार्जालीयेऽष्टाष्टावितरेषु २३ अग्नीषोमीयस्य पशुपुरोडाशमग्नये गृहपतय इत्यष्टौ देवस्वाँ हवीँ ष्यनुनिर्वपति सर्वपृष्ठ्यां चाग्नये गायत्रायेति दशहविषम् २४
इति चयने द्वितीयेऽध्याये चतुर्थं खण्डम्
श्वो भूते परिधीन्परिधायाग्निँ युनज्मीति दक्षिणं पक्षमभिमृशतीमौ ते पक्षावित्युत्तरमिन्दुर्दक्ष इत्यात्मानम् १ एकयूप ऐकादशिनानुपाकरोति यद्येकाहो भवति २ हिरण्यस्थालँ शतमानस्य मधुनः पूर्णं दक्षिणाभिः सहातिहरन्ति मन्त्रवर्गम् ३ तच्चित्रं देवानामिति यजमानोऽवेक्ष्याश्वेनावघ्राप्य ब्राह्मणाय ददाति ४ पुरस्ताद्यज्ञायज्ञियस्य द्विओ मूर्धासीत्यप्सुमतीभ्यामग्निँ संमृशति ५
इमँ स्तनं मधुमन्तं धयापां प्रपीनमग्ने सलिलस्य मध्ये ।
उत्सं जुषस्व मधुमन्तमूर्मिँ समुद्र्यँ सदनमाविवेश स्वाहा ॥
इति परिधिविमोकमभिजुहोति । वि ते मुञ्चामीति च ६ समारोपयन्यास्ते अग्ने ॥ या वो देवाः ॥ रुचं नो धेहि ॥ तत्त्वायामीत्याहुतीर्जुहोति समीची नामासीति द्वे मधुश्च ॥ स्वयं कृण्वान इति पञ्चभिराज्यँ हिरण्यगर्भ इत्यष्टौ हुत्वा प्रत्यवरोहति
पुनर्मनः पुनरायुर्ना आगात्पुनः प्राणः पुनराकूतमागात् ।
पुनश्चक्षुः पुनः श्रोत्रं म आगात् ॥
वैश्वानरोऽदब्धस्तनूपा अपबाधतां दुरितानि विश्वा ।
उरुशँ स मा ना आयुः प्र मोषीः ॥
इति ७ दीक्षया त्वापं तपसा त्वापँ सत्यया त्वापँ वशया त्वापमवमृथेन त्वापमिति यजमानोऽग्निमुपतिष्ठते ८ अग्निं चित्वा न रामामुपेयाद् द्वितीयं चित्वा नान्यस्य भार्यां तृतीयं चित्वा न कांचन ९ यद्युपेयान्मैत्रावरुण्यामिक्षया यजेत १० अग्निं चित्वा मैत्रावरुण्यामिक्षया यजेत सौत्रामण्या वा ११ अग्निचिद्वसोत्मीभयार्त पापं कीर्तयेन्न कंचन प्रत्यवरोहेत् १२ सँ वत्सरं न वर्षति धावेद्यावज्जीवँ वा १३
येऽग्नयः पुरीषिण आविष्टाः पृथिवीमनु ।
तेषामसि त्वमुत्तमः प्र नो जीवातवे सुव ॥
इति प्रोष्य स्वाग्निमुपतिष्ठतेउप त्वाग्ने दिवे दिव इति तृचेनान्येषाम् १४ यदि चित्वा प्रयायाद्यमनन्तरँ सोममाहरेत्तस्मिन्पुनश्चितिमुपदधाति १५ अष्टौ नानामन्त्राः १६ सँ स्थितयोः पूर्वाह्णिक्योः प्रवर्ग्योपसदोर्येना ऋषय इत्यष्टावुपदधात्यष्टौ च लोकंपृणाः १७ पृष्टो दिवीति चात्वालात्पुरीषमतिहृत्य व्यूहति १८ समानमन्यत् १९ प्रथमं चिन्वानो मध्यमायां चितावुपदधाति स्तोमा नानामन्त्राः प्राग्लोकंपृणायाः २० द्वितीयं चिन्वान उत्तमायां प्राग्लोकंपृणायाः २१ यद्यग्निचिदनग्निचित्यँ सोममाहरेदकविँ शतिमुपदधीताष्टौ नानामन्त्रास्त्रयोदश च लोकंपृणाः २२ अयं ते योनिरृत्विय इत्यग्निँ संमृशति २३ यदि तापश्चितमाहरेत्सँ वत्सरं दीक्षितो भवति संम्वत्सरमुउपसद्भिश्चरति २४ पुरस्तादुपसदामाग्नेयमष्टाकपालं निर्वपेदैन्द्र मेकादशकपालम् २५ दाशतयैस्त्वाग्नेयैः सूक्तैः प्रतिसूक्तमिष्टका उपदधाति २६ अभिजिद्विश्वजिद्वा सँ स्था ब्राह्मणव्याख्याता ब्राह्मणव्याख्याता २७
इति चयने द्वितीयेऽध्याये पञ्चमं खण्डम्
इति द्वितीयोऽध्यायः
अथ वाराहश्रौतसूत्रे वाजपेयादिकम्
ब्राह्मणो राजन्यो वा शरदि वाजपेयेन यजेत १ षोडशिकी राजक्रयणी २ सप्तदश दीक्षास्तिस्र उपसदः ३ कृते वरे दक्षिणस्य हविर्धानस्य पश्चादक्षमुपयामेभ्यः खरं करोति ४ हविर्धानगते सोमे सुरां द्रो णँ वालमित्यपरेण द्वारेण प्रपादयति ५ प्रतिप्रस्थातुः सुरायाः कर्म ६ खादिरश्चतुरस्रो यूपः सप्तदशारत्निः ७ गोधूमपिष्टानां चषालँ समँ यूपाग्रेण ८ रशनास्थाने सप्तदशभिर्वसाभिर्वेष्टयति ९ श्वो भूते वाजपेयसँ स्था १० देव सवितरिति सवनमुखेषु जुहोति ११ हिरण्यस्रज ऋत्विजः सोमैः प्रचरन्ति १२ आग्रयणस्थालीं प्रयुज्य पञ्च खादिराणि वायव्यानि पात्राणि प्रयुनक्ति १३ षोडशिपत्रां प्रयुज्य सप्तदश खादिराणि वायव्यानि सप्तदश मार्त्तिकानुपयामान् १४ अतिपाव्यमाने द्रो णे वालँ वितत्य सुरामतिपावयतिपुनातु ते परिस्रुतमिति १५ आग्रायणं गृहीत्वा पञ्चैन्द्रा नतिग्राह्यान्गृह्णातिउपयामगृहीतोऽसि द्रुषदं त्वेति पर्यायैः कुविदङ्गेति सप्तदश प्राजापत्यानयाविष्ठेति सप्तदश सुराग्रहान् १६ पूर्वोऽध्वर्युर्गृह्णाति १७ पुरोऽक्षमध्वर्युः सोमग्रहान्सादयति पश्चादक्षं प्रतिप्रस्थाता सुरोपयामान् १८ व्यत्यासं गृह्णीतः १९ पशूनुपाकरोत्याग्नेयमजमैन्द्रा ग्नमजमैन्द्रँ वृष्णिँ सारस्वतीं मेषीँ सारस्वतं मेषं मारुतीं पृश्निँ वशाँ सप्तदश प्राजापत्यान्श्यामाँ स्तूपरानजानेकरूपान्सारस्वतीं मेषीमपन्नदतीम् २० पर्यग्निकृतानामाग्नेयप्रभृतीनां चतुर्णाँ वपाभिः प्रचरन्तीतरान्परिशायन्ति २१ माध्यन्दिनीयान्सवनीयाननु नैवारं चरुं निर्वपति बार्हस्पत्यँ सप्तदशशरावम् २२ औदुम्बर्या स्रुचा त्रिर्यजुषा तूष्णीं चतुर्थं पयसि शृतं पात्र्यामुद्धृत्य चात्वालेऽवदधाति २३ दक्षिणाकाले दक्षिणतः पुरस्तात्प्राग्वँ शस्य वाजस्य नु प्रसव इति रथमुपावहरति २४ अप्स्वन्तरमृतमित्यश्वान्स्नपयन्ति २५ वायुर्वा त्वेति युनक्ति २६ अपां नपादाशुहेमन्निति रराटानि प्रतिमार्ष्टि २७ प्रष्टिवाहिनँ रथँ युञ्जन्ति तूष्णीँ षोडशेतरान् २८ सप्तदश ददाति सप्तदश हस्तिनः सप्तदश दासीर्निष्ककण्ठीः सप्तदश गवां शतानि दश सप्तदशानि प्रकृतीनाँ युक्तं दक्षिणानाम् २९ रथाँ स्तीर्थान्तेऽवस्थापयन्ति ३० माहेन्द्र काले वेदिस्रक्तिषु दुन्दुभीनवघ्नन्ति ३१ रथाक्षं चात्वाले निघ्नन्ति ३२ तस्मिन्रथचक्रं मुञ्चत्यौदुम्बरँ सप्तदशारम् ३३ सप्तदशोषपुटानश्वत्थपर्णेषूपनद्धाँ श्चतुरश्चतुरः पञ्चैकस्मिन् ३४ उत्तरतः पुरस्तात्सप्तदशस्विषुक्षेपेष्वौदुम्बरीं काष्ठां निघ्नन्ति ३५ प्रस्तुते माहेन्द्र स्य स्तोत्रे देवस्य सवितुरिति ब्रह्मा रथचक्रँ सर्पति ३६ आरुह्य वाजसाम गायति ३७ चक्रमावेष्टयति ३८ विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि विष्णोर्विक्रमणमसीति पर्यायैर्यजमानस्त्रीन्क्रमान्क्रमते रथाय व्रजन् ३९ देवस्य वयमिति यजुर्युक्तमारोहति ४० अग्निरेकाक्षरामित्युज्जितीर्यजमानँ वाचयति ४१ वाजिनौ वाजजिताविति युग्यौ नैवारमवघ्रापयति ४२ उत्तरेण पर्यायेण प्रप्रोथेषु लेपान्निमार्ष्टि ४३ अवरोहति यजमानः ४४ राजभव्यः पुत्रः प्रतिहित आजिं धावति ४५
इति वाजपेये प्रथमेऽध्याये प्रथमं खण्डम्
अङ्कौ न्यङ्कावभितो रथँ ये ध्वान्ता वाता अग्रमभि ये संपतन्ति ।
दूरेहेतिः पतत्री वाजिनीवाँ स्ते नो अग्नयः पप्रयः पारयन्तु ॥
इति चक्रमभिमन्त्रयते १ अश्वाजनि वाजिनि वाजेषु वाजिनीवत्यश्वान्समत्सु चोदयेति काशामादायार्वासि सप्तिरसीत्यश्वान्संक्षिपति २ विश इतराः प्रेष्टानारोहन्ति ३ तैः सहाजिं धावति ४ वाजँ वाजिनो जयतेति यजुषा ५ चतसृभिर्धावति ६ रथा आवर्तन्ते । प्रदक्षिणं काष्ठां कृत्वायन्ति ७ आ मा वाजस्येत्येतयातेषु जुहोति ८ प्रतिरथं कृष्णलान्याहरन्ति ९ हिरण्यस्थालँ शतमानस्य मधुनः पूर्णं ब्रह्मणे १० इन्द्रा य वाचँ वदतेति दुन्दुभीनाघ्नन्ति ११ इयँ वः सा सत्येतीन्द्रा य वाचँ विमुच्यध्वमिति रथविमोचनीयं जुहोति १२ तेन धर्मेण युग्यौ नैवारमवघ्रापयति १३ दर्भमयँ वासः पत्नी परिधत्ते तार्प्यँ यजमानः क्षौमँ यूषे सर्पिषि वा पर्यस्तम् १४ स्वो रोहावेति यजमानः पत्नीमामन्त्रयत एहीति पत्नी तैरेतेन धर्मेण १५ अहं नावुभयो रोक्ष्यामीत्युक्त्वायुर्यज्ञेन कल्पत इति यजमानो यूपमारोहति १६ अन्नाय त्वा वाजाय त्वेति विश ऊषपुटैर्यजमानमर्पयन्ति पुरस्तात्प्रत्यञ्चम् १७ यो यः पर्येति तं तमभिपर्यावर्तेत १८ स्वर्देवा अगामेत्यूर्वाव्यधिस्त्रिनयति १९ अग्ने अच्छा वदेह न इति सप्तभिरन्नहोमान्जुहोति २० अग्नया एकाक्षराय छन्दसे स्वाहेत्यनुवाकशेषेण यजमानमवरोहयति २१ इयं ते राण्मित्रस्य यन्तासि यमनो धर्तासि धरुणो रय्यै पोषाय कृष्यै क्षेमायेत्यवरोहन्तमनुमन्त्रयते २२ कृष्णाजिनमासन्द्यामास्तृणाति बस्ताजिने रुक्मँ शतमानम् । तेजोऽसीति रुक्मे पादमादधाति पुष्टिरसि प्रजननमसीति बस्ताजिने २३ दिवं प्रोष्ठनीमारोह तामारुह्य प्रपश्यैकराण्मनुष्याणामित्यारोहन्तमनुमन्त्रयते २४ तेन धर्मेण परिषिञ्चति २५ अत्रैवास्य श्वेतं छत्रं धारयन्त्याजिशरेण वा २६ परिधानीयाँ संपाद्य माहेन्द्रे ण प्रचरत्यैन्द्रै श्चातिग्राह्यैः २७ उपाकृते ब्रह्मसाम्निन् सरस्वतीप्रभृतीनाँ वपाः सँ स्कुर्वन्ति २८ प्रायाजिकस्याशेषेणाभिघारयति २९ ब्राह्मणाच्छँ सिचमसैः प्रचर्य सहप्राजापत्यमपन्नदत्या वपया प्रचर्य नैवारेण प्रचर्य पशुपुरोडाशैः प्रचरति ३० सहस्विष्टकृदिडं नैवारस्य पशुपुरोडाशानां च ३१ पशुकाल इतरैः पशुभिः प्रचरति ३२ वनस्पतिस्विष्टकृदिडमिति परिशाययन्ति ३३ षोडशिचमसैः प्रचर्यं होतृचमसमुख्यान्वाजपेयचमसानुन्नयति ३४ स्तुतशस्त्रवन्तः ३५ संपृचः स्थ सं मा भद्रे ण पृङ्क्तेति प्राङ्ध्वर्युः सोमग्रहैरुद्द्रवति । विपृचः स्थ वि मा पाप्मना पृङ्क्तेति प्रत्यङ् प्रतिप्रस्थाता सुराग्रहैः ३६ पश्चाद्धविर्धानस्य निदधाति ३७ ग्रहचमसैः प्रचरन्ति ३८ उपोद्यच्छन्ति सुरोपयामान् ३९ भक्षयन्ति चमसान् ४० उपरि स्थापयन्ति ग्रहान् ४१ सारस्वतप्रभृतिभिर्मूर्ध्नि प्रचरन्ति ४२ सहस्विष्टकृदिडं पूर्वेषां च ४३ उपहृतायामिडायाँ वशाया यान्यवदानीयान्यङ्गानि तान्यृत्विग्भ्यो हरन्ति सोमग्रहाँ श्च यान्यनवदानीयानि तान्याजिसृग्भ्यः सुरोपयामाँ श्च पर्याक्ताजनीनां प्रतिहितः प्रस्तन्ति ४४ न वाजपेययाजी कंचन प्रत्यवरोहेन्न प्रत्युत्तिष्ठेत् ४५ यदि प्रत्यवरोहेत्प्रत्युत्तिष्ठेद्वा बृहस्पतिसवेन यजेतेन्द्र सवेन राजन्यः ४६ सम्राडित्येनमाचक्षीरन् ४७
इति वाजपेये प्रथमेऽध्याये द्वितीयं खण्डम्
इति प्रथमोऽध्यायः
इष्टिप्रथमयज्ञानां द्वादशाहेऽहीनस्यापि वा सत्त्रे गृहपतिरेवेष्टप्रथमयज्ञः १ ब्राह्मणानाँ सप्तदशानाँ सतामेको गृहपतिः षोडश ऋत्विजो यजमानाश्चैव कर्ण्याश्च २ एकप्रभृतीनां त्रय सँ सृतोहिनोदंकिता याजयन्ति ३ अन्नँ हि तेन ४ सावित्राणि होष्यन्तो गृहपतेरग्निष्वग्नीन्संनिवपन्ते ब्रह्मा होताध्वर्युरुद्गाता तत्पुरुषाश्चैतेनानुपूर्वेण ५ भवतं नः समनसाविति जपति यो निवपति येन येनायँ हुत्वाधिनिवपन्ते ६ पञ्चपशूनाँ यक्ष्यमाणानामेकोऽग्निः ७ तेभिरिष्ट्वा विनिवपन्ते ८ दीक्षिष्यमाणाः संनिवपन्ते ९ चैत्रपक्षस्य सप्तम्यां दीक्षान्ते १० द्वादश दीक्षा द्वादशोपसदोऽमावास्याँ यजनीयेऽहनि वा ११ गृहपतिमुख्यान्मध्यतःकारिणोऽध्वर्युर्दीक्षयते प्रतिप्रस्थाता पत्नीः १२ अध्वर्युमुख्यानर्धिनः प्रतिप्रस्थाता नेष्टाः पत्नीः १३ प्रतिप्रस्थातृमुख्यान्तृतीयिनो नेष्टोन्नेता पत्नीः १४ नेष्ट्टमुख्यान्पादिन उन्नेता १५ स एव पत्नीः १६ अदीक्षित उन्नेतारमध्युन्दनेन समेत्य पर्यञ्जनेन समीयात् १७ एवँ समानजातीयेन तृणान्तर्धानेन सर्वाननुक्रामति १८ दीक्षिता इमे ब्राह्मणा इति सर्वानावेदयति १९ नामगोत्राण्युक्त्वा त इन्द्रा ग्निभ्यां दीक्षां प्राहुरित्याह २० प्रवरणवेलायाँ सकृदाश्राव्य सर्वान्वृणीते । समार्षेयाणाँ समाननामधेयानां च सकृद्वचनम् २१ कर्मणोऽविप्रतिषिद्धेन सर्वे याजमानं कुर्वन्ति पराङ् गृहपतिरेव यथा यूपाञ्जनमग्निमन्थनमग्निपरिमाणँ याज्येति २२ दीक्षिताः सर्वतो यजमाना इति गमयन्ति २३ एकँ रुक्मँ सर्वे प्रतिमुञ्चन्ति तिव्यपासं च क्रमान्क्रामन्ति २४ बहुँ राजानं क्रीणाति २५ षोडशिकी राजक्रयणी २६ अतिग्राह्याणां प्रयुक्तेऽग्रायणे पात्रप्रयोजनं प्रातःसवने ग्रहणं च माहेन्द्र मनु होमः २७ प्रायणीयोऽतिरात्रः प्रथमसँ स्था २८ द्वादशभागँ राज्ञोऽवहरति २९ नित्येन मित्वा
वायुरसि प्राणो नाम सवितुराधिपत्येऽपानं मे दाः ॥
चक्षुरसि श्रोत्रं नाम धातुराधिपत्य आयुर्मे दाः ॥
रूपमसि वर्णो नाम बृहस्पतेराधिपत्ये प्रजां मे दाः ॥
ऋतमसि सत्यं नामेन्द्र स्याधिपत्ये क्षत्रं मे दाः ॥
भूतमसि भव्यं नाम विश्वेषां देवानामाधिपत्येऽपामोषधीनां गर्भं धाः॥
ऋतस्य त्वा व्योमन ऋतस्य त्वा विभूमन ऋतस्य त्वा विधर्मण ऋतस्य त्वा ज्योतिष इति दश सप्त त्रयः ३० तासु द्वाभ्यां मिमीते । द्वितीयं नित्येन मित्वायं पुरो भूरिति पञ्चमी ३१ प्राणग्रहपर्यायाणां प्रथमेन मिमीतेप्रजापतिगृहीतेन त्वया प्राणं गृह्णामीत्येतेन धर्मेण व्यत्यासं प्रायणीयोदयनीययोर्दशमे चाहनि ३२ यथाकालमुत्तरस्मिन्नहनि वत्सानपाकरोति ३३ अदक्षिणानि सत्त्राणि ३४ द्वादशशतं दक्षिणा अहन्यहन्यहीने ३५ सत्त्रे तु दाक्षिणौ होमौ हुत्वाहरहः कृष्णाजिनानि धूत्वा दक्षिणापथेन व्रजन्तिइदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकायामृतत्वाय ददामीति ३६ पत्नीसँ याजान्तान्यहान्योत्तरस्मादह्नः ३७ पुरस्ताद्यज्ञायज्ञियस्य वसतीवरीर्गृह्णाति ३८ हारियोजनातिप्रैषप्रेषित आग्नीध्रस्तिष्ठन्सुत्यामावेदयतिइन्द्रा ग्निभ्याँ श्व सुत्यां प्रब्रवीमि मित्रावरुणाभ्याँ विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमेभ्यः सोमपेभ्यो ब्रह्मन्वाचँ यच्छेति ३९ ब्रह्मा वाचँ यच्छत्या वसतीवरीणां परिहरणात् ४० अन्वहं पृष्ठ्यँ षडहमुपयन्ति ४१ वसतीवरीः परिहृत्य त्रिवृतमग्निष्टोममुपयन्ति रथन्तरपृष्ठम् ४२ माहेन्द्र काले रथँ शब्दवन्तं बहिर्वेदि दक्षिणतो व्यतिवर्तयन्ति ४३ श्वो भूते पञ्चदश उक्थ्यो बृहत्पृष्ठः ४४ माहेन्द्र काले दुन्दुभिमाघ्नन्ति ४५ श्वो भूते सप्तदश उक्थ्यो वैरूपपृष्ठः ४६ माहेन्द्र स्य स्तोत्रमुपाकरिष्यन्विधुमुद्गात्रे प्रयच्छति ४७ श्वो भूत एकविँ शः षोडशी वैराजपृष्ठः ४८ अग्ना आयूँ षि पवस इत्याग्नेयमतिग्राह्यं गृह्णाति ४९ माहेन्द्र स्य स्तोत्रमुपाकरिष्यन्नरणिशकलमुद्गात्रे प्रयच्छति ५० उद्गातुरूरावग्निं मन्थन्ति ५१ समाप्ते स्तोत्रेऽध्वर्युर्भवतं नः समनसावित्यनुप्रहृत्य प्रेद्धो अग्न इत्यभिजुहोति ५२ न्यूङ्ख्यमूर्ध्वं भवति ५३ अग्नेश्च त्वा ब्रह्मणश्चेत्यतिग्राह्यँ हुत्वाग्न आयुष्करेति भक्षयति ५४ मयि मेधां मयि प्रजां मध्यग्निस्तेजो दधात्वित्यात्मानं प्रत्यभिमृशति ५५ मयीन्द्र ओजो दधातु मयि सूर्यो भ्राजो दधात्वित्युत्तरयोः ५६ श्वो भूते त्रिणव उक्थ्यः शाक्वरपृष्ठः ५७ ओजस्तदस्य तित्विष इत्यैन्द्र मतिग्राह्यं गृह्णाति ५८ माहेन्द्र स्य स्तोत्रमुपाकरिष्यन्तोयावकमुद्गात्रे प्रयच्छति ५९ इन्द्र स्य च त्वा क्षत्रस्य चेत्यतिग्राह्यँ हुत्वेन्द्रौ जस्करेति भक्षयति ६० श्वो भूते त्रयस्त्रिँ श उक्थ्यो रैवतपृष्ठः ६१ अदृश्रन्नस्य केतव इति सौर्यमतिग्राह्यं गृह्णाति ६२ ऋतव्यापात्रेण स्वयमृतुभँ हख्यवधानंति यजत्यध्वर्युः ६३ यजत्युक्तेऽध्वर्युर्यजते ६४
इति द्वादशाहे द्वितीयेऽध्याये प्रथमं खण्डम्
ये यजामहे ॥ अश्विनाध्वर्यू आध्वर्यवात् ॥ ऋतुना सोमं पिबतम्॥
अश्विना पिबतं नूनं दीद्यग्नी शुचिवन्ता ।
ऋतुना यज्ञवाहसा ॥
इति समूढेषु १ अव्यूढे सलिलं गातृष्णुयं द्वितीयं कुर्वीत २ माहेन्द्र स्य काले प्रसदसि वत्सगवाँ साँ वाशिनं कुर्वीत ३ सूर्यस्य च त्वौषधीनां त्वेत्यतिग्राह्यं हुत्वा सूर्य भ्राजस्करेति भक्षयति ४ तृतीय सवने वालखिल्यान्मैत्रावरुणो विहरतिवृषाकपिं ब्राह्मणाछँ सी शँ सेत्येवयामरुतमच्छावाकः शिक्ये प्रतिगरः ५ समाप्तेऽहनि वाचँ यच्छत्या रसप्राशनात् ६ दीक्षिताः प्राश्नन्ति मधु ७ अहीने दीक्षितः ८ सँ स्थिते पृष्ठ्यषडहे छन्दोमानुपयन्ति ९ त्रीण्युक्थ्यानि १० बृहत्पृष्ठावभितो मध्ये रथन्तरपृष्ठः ११ रथन्तरपृष्ठश्चतुर्थः १२ अविवाक्यं नाम स्मरन्ति १३ प्रन्यतिशिल्पे बर्ह्मा गृहपतिरुपद्र ष्टा वा चित्रतया तु या वाहिरक्षरँ व्यञ्जनैस्तानि होता परोक्षमनुष्टुभँ संपादयेत् १४ समाप्तेऽहन्याहवनीयमुपतिष्ठन्ते
अयँ सहस्रमनवे दृशः कवीनां मतिर्ज्योतिर्विधर्म ।
ब्रध्नः समीचीरुषसः समीरयत् ॥
अरेपसः सचेतसः स्वसरे मन्युमन्ताश्चिता गौगौः ॥
इ ति १५ निधनमुपयन्ति १६ हविर्धाने मानसं ग्रहं गृह्णातिपृथिव्या पात्रेण समुद्रँ रसामनुपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति १७ स्तुतशस्त्रवान्भवति १८ आसादनभक्षणं मनसा कुर्वीत १९ परिधानीयाँ संपाद्याभिमुखो होतारमुपविशति २० आमन्त्रयते होताअध्वर्यो बर्ह्म वदिष्याव उच्चैस्तराँ होतरित्यध्वर्युः २१ चित्तिः स्रुगध्वर्यो होता चित्तमाज्यमध्वर्युरामन्त्रयते होतर्ब्रह्म वदिष्याव इत्युच्चैस्तरां तथाध्वर्यो इति तिष्ठति २२ ओ श्रावयेति चतुरक्षरम् । अस्तु श्रौषडिति चतुरक्षम् । यजेति द्व्यक्षरम् । ये यजामह इति पञ्चाक्षरम् । द्व्यक्षरो वषट्कारः । एष वै होतः प्रजापतिः सप्तदशः २३ उपयथा होता येषाँ वै होतः प्रजापतिः सप्तदशो यज्ञेऽन्वायत्तः २४ यद्यनुवाक्याया एति यदि याज्याया अतश्चेदेव नैति । नास्य यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठति २५ अरात्स्म होतरिति २६ एतेन धर्मेण चतुर्होतॄनाचष्टे २७
अर्वाञ्चमद्य यथ्यं नृवाहणँ रथँ युञ्जाथामिह वाँ विमोचनम् ।
पृङ्क्तँ हवीँ षि मधुना हि कं गतमथा सोमं पिबतँ वाजिनीवसू ॥
इति गृहपते यजेत्युक्ते गृहपतिर्यजतिये यजामहे ॥ अग्निं गृहपतिं गार्हपत्यात् ॥ सुगृहपतिस्त्वयाग्नेऽयँ सुन्वन्यजमानः स्यात्सुगृहपतिस्त्वमनेन सुन्वता यजमानेन ॥ अग्निर्गृहपतिर्गार्हपत्यादृतुना सोमं पिबतु गार्हपत्येऽनु समृतुना ॥ अयँ हि गौरसि ॥ देवायते यजेति समूढेष्वव्यूढे गायति २८ यदि त्वाद्यपतेभ्यश्च त्वर्यति नैषाँ यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठति २९ अरात्स्म होतरित्यन्तमुच्चैरोमध्वर्यो तथाध्वर्यो इति प्रतिचारः ३० ग्रहेण प्रचर्य ग्रहशेषं प्रजापतिपीतं भक्षयन्ति ३१ तार्तीयसवनिको भक्षमन्त्रः ३२ यत्समीक्षते स उपहवः ३३ उप स्वजा वरुणमित्यौदुम्बरीमन्वारभन्ते ३४ वागैतु वागुपैतु वाक्समेतूप मैतु वाक् ॥ भूर्भुवः स्वरित्यन्वारभ्य वाचँ यच्छन्त्याधिवृक्षसूर्यादा वा नक्षत्रदर्शनात् ३५ वाचँ विसृज्याग्नीध्रीयमुपतिष्ठन्ते
युवं तमिन्द्रा पर्वता पुरोयुधा यो नः पृतन्यादप तं तमिद्धतँ वज्रेण तं तमिद्धतम् ।
दूरे चत्ताय छन्त्सद्गहनँ यदिनक्षत् ।
अस्माकँ शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट शिश्वतः ॥
इति श्वो भूत उदयनीयोऽतिरात्रः ३६ स प्रायणीयेन व्याख्यातः ३७ होता कर्माणि कुरुते ३८ समूढं चेदैन्द्र वायवाग्रौ प्रायणीयोदयनीयौ दशमं चाहः । इतरेषां नवानामैन्द्र वायवाग्रं प्रथममहः । अथ शुक्राग्रमथाग्रायणाग्रमिति त्रिरभ्यस्य ३९ व्यूढस्यैन्द्र वायवाग्रौ प्रायणीयोदयनीयौ । इतरेषां दशानामैन्द्र वायवाग्रं प्रथममहः । अथ द्वे आग्रायणाग्रे अथैन्द्र वायवाग्रमथ द्वे शुक्राग्रे अथाग्रायणमथ द्वे ऐन्द्र वायवाग्रे ४० व्यूढस्यैतस्मिन्पृष्ठ्ये षडहे ४१ छन्दोगानां जगत्यः प्रातःसवनं भजन्ते गायत्र्यो माध्यन्दिनं त्रिष्टुभस्तृतीयसवनम् । छन्दोभिरव्यूहेनानुष्टुभः प्रातःसवनं भजन्ते जगत्यो माध्यन्दिनं गायत्र्यस्तृतीयसवनम् ४२ पवमानाभिमन्त्रणं भक्षणमिति यथाछन्दः ४३ कृष्णशीर्षाग्नेय इत्यैकादशिनाः ४४ तानन्वहँ विहृतानालभन्ते ४५ अजमाग्नेयमुदयनीयः ४६ उदवसानीयाभिरिष्ट्वा ज्योतिष्टोमैः पृष्ठशमनीयैरतिरात्रैर्यजेरन् ४७ पृष्ठव्यसने पृथगवसानीयाभिरिष्ट्वा ज्योतिष्ठोमेन यजेरन् ४८ द्वादशाहेन सत्त्राहीना व्याख्याताः ४९
इति द्वादशाहे द्वितीयेऽध्याये द्वितीयं खण्डम्
गवामयनम् १ पौर्णमास्याश्चतुरहे पुरस्ताद्दीक्षन्ते २ तामिस्रस्याष्टम्यामृत्विग्भ्योऽग्निष्टोमस्य पञ्चम्यां प्रसवः ३ समानः प्रायणीयः ४ उक्थ्यो द्वितीयमहरग्निष्टोमो वा ५ अन्वहमभिप्लवँ षडहमुपयन्ति ६ ज्योतिरग्निष्टोमो रथन्तरपृष्ठो गौरुक्थ्यो बृहत्पृष्ठ आयुरुक्थ्यो रथन्तरपृष्ठः पुनर्गोआयुषी ज्योतिरग्निष्टोमो रथन्तरपृष्ठ एव ७ चतुरोऽभिप्लवानुपयन्ति ८ पृष्ठ्यः । स मासः ९ ताँ श्चतुरो मासानुपयन्ति १० त्रयोऽभिप्लवाः पृष्ठ्योऽभिजित्स्वरसामान उक्थ्या वाग्निष्टोमा वा ११ तेष्ववृत्ता संततिः १२ अतिग्राह्यं गृह्णाति १३ उपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्य इति गृहीत्वाद्भ्य ओषधीभ्यः स्वाहेति प्रथमेऽहनि जुहोति १४ ओषधीभ्यस्त्वा प्रजाभ्य इति गृहीत्वौषधीभ्यः प्रजाभ्यः स्वाहेति द्वितीये १५ प्रजाभ्यस्त्वा प्रजापतय इति गृहीत्वा प्रजाभ्यः प्रजापतये स्वाहेति तृतीये १६ स मासः । स पूर्वः १७ श्वो भूते विषुवान्दिवाकीर्त्योऽग्निष्टोमः १८ उदिते प्रातरनुवाकमुपाकरोति १९ अवृत्तान्संततीन्गृहीत्वोदु त्यं जातवेदसमिति स्तोत्र आदित्यँ वृत्तान्संततीन्गृहीत्वा वाचस्पतिमिति वैश्वकर्मणमिति २० आदित्यँ श्वो भूते वैश्वकर्मणँ व्यत्यासं गृह्णात्या महाव्रतात् २१ उभे महाव्रते २२ सौर्यँ श्वेतमजँ सवनीयं तन्त्रमुपालम्भमारभेरन् २३ प्रागस्तमयादहः सँ स्थापयन्ति २४ वैश्वकर्मणं महीमू सु मातरमित्याहन्यम् २५ सूर्यो देव इत्यस्तमिते जुहोति २६ पृष्ठ्याभिप्लवान्मासाँ स्त्वावृत्तानुत्तरस्मिन्पक्ष उपयन्ति २७ विषुवतमुपेत्यावृत्ताँ श्च स्वरसाम्न उपयन्ति २८ विश्वजितं पृष्ठ्यं त्रीनभिप्लवान् २९ चतुरो मासानुपयन्ति ३० त्रीनभिप्लवानायुर्गौर्दशाहो महाव्रतमिति द्विसंभार्यताम् ३१ एकसंभार्यता हविनामृद्धौ विश्वजितैः पञ्च मासानुपेत्य द्वावुपप्लवावायुर्गौर्दशाहो महाव्रतमुपयन्ति तेन त्वावृत्तान्सरसानुपयन्ति ३२ विभजितं पृष्ठ्यं त्रीनभिप्लवाँ श्चतुरो मासानुपेत्यैन्द्र वायवः शुक्र आग्रायण इति ग्रहाग्राणि नैकमावर्तँ षण्मासान् ३३ अथ शुक्राग्रे द्वे विषुवान् ३४ आवृत्योत्तरस्मिन्नुपक्रामम् ३५ अपि वा यथा पृष्ठे प्रतिकृतो यथाभिप्लवे स्वरसाम च ३६ शेषे यथादिष्टम् ३७ आग्नेयाय सवन ऐन्द्रा ग्नौ ३८ अपि वा विहृतानैकादशिनानावर्तमा दशरात्रस्य चतुर्थादह्नः ३९ वैष्णवँ वामनं चतुर्थेऽहन्यैन्द्रा ग्नं पञ्चमे । वैश्वदेवँ षष्ठे । द्यावापृथिव्यं प्रथमे छन्दोमे । तस्याश्वतरवत्सँ वायवे नियुत्वते द्वितीये । अविँवशामुत्तमे । मैत्रावरुणीँ वशामविवाक्ये । प्राजापत्यं तूपरं महाव्रते ४० अपि वा प्रायणीयोदयनीययोर्विभक्तानैकादशिनानालभेरन्नैन्द्रा ग्नानन्तरा ४१
इति द्वादशाहे द्वितीयेऽध्याये तृतीयं खण्डम्
यद्युत्सर्गिणामयनं कुर्युर्द्वितीयस्य मासस्य प्रथममहरुत्सृजेरन्नपि चोत्तरेषां मासानां प्रथमान्याभिप्लविकान्यर्धमासेभ्यस्त्रयोऽभिप्लवास्तेषां मध्यमस्य प्रथममेकसंभार्ये द्वयोरभिप्लवयोः १ अपि वा यदहः पूर्णमास्यमामावास्यँ वा तदहरुत्सृजेरन् २ श्व उत्स्रष्टास्मह इतीन्द्रा य वत्सानुपाकुर्वन्ति ३ श्वो भूते प्राजापत्यं पशुमालभेरन् ४ तस्य वपोपर्याग्नेयेनाष्टाकपालेन सवनीयेनाष्टाकपालेन वैश्वदेवेन वारुणेन्द्रे णेति प्रचरति ५ माध्यन्दिनस्य सवनस्य स्थाने पशुपुरोडाशैः प्रचर्यैकादशकपालेन सवनीयेनैकादशकपालेन मरुत्वतीयेनैकादशकपालेन वारुणेन्द्रे णेति प्रचरति ६ तृतीयसवनस्य स्थाने पशुना प्रचर्य सवनीयेन द्वादशकपालेन वैश्वदेवेन द्वादशकपालेन चरुणाग्निमारुतेनेति प्रचरति ७ पृषदाज्येन चरित्वा पत्नीः सँ याजयन्ति ८ अनुसवनमेके पयः समामनन्ति प्रतिधुक् प्रातःसवने शृतं माध्यन्दिने दधि तृतीये सवने ९ यदि दीक्षासु प्रदीक्षितारितितस्ते विहारं कृत्वा दण्डप्रदानान्तेऽग्निमभ्यस्य वाग्यतमवेदयेद्यद्याग्नीध्रीये प्रणीतौ यदीक्षेतान्तरितँ श्वो विहारं करोति क्रयँ वेदिसदो हविर्धानँ सोमप्रणयनमिति परिहासं न्युपाथ याज्ञाग्नी पार्श्वतः शालामुखीयस्याहवनीयं प्रतिष्ठाप्य तस्मादौत्तरवेदिकं प्रणये दाग्नीध्रीयँ यद्यस्याग्नीध्रीयमाहवनीयशेषँ शालामुखीयेन सँ सृजत्यग्निभ्यां प्रणीयमानाभ्यामनुब्रूहीति संप्रेष्यत्यग्निभ्यामग्निँ सँ सृजति सर्वत्र समानशीलसुतपासुपह्येत ॥
इति द्वादशाहे द्वितीयेऽध्याये उत्सर्गिणां चतुर्थं खण्डम्
अग्निष्टोमँ व्रतपृष्ठं महाव्रतम् १ उदिते प्रातरनुवाकमुपाकरोति २ दधिग्रहेण प्रचर्यादाभ्यं दधिग्रहपात्रेण गृह्णातिअग्नये त्वा प्रवृहामीति पर्यायैः ३ त्रीनँ शून्प्रवृह्य निग्राभ्याणामपत्यानामँ शून्चतुराधूनोतिरेशीनां त्वा पत्मन्नाधूनोमीति द्वाभ्यां पर्यायाभ्याम् ४ अग्निः प्रातरिति गृह्णाति । उपयामगृहीतोऽसि शुक्रं त्वा शुक्रायेति च ५ आ समुद्रा इत्युत्तिष्ठति ६ वसूनामाधीताविति जुहोति ७ उशिक्त्वं देव सोमेति पर्यायैरशुष्कानँ शूनप्यम्यति ८ गौरिवीतमुद्गाता गायति पुरस्तादुपाँ श्वभिषवस्याँ शूनादत्ते ग्रहपात्रे ९ वरं दत्त्वा सकृदभिषुत्य सकृद् गृह्णात्यभिप्राणन् १० पराचीनेन प्राणतेति ब्राह्मणव्याख्यातम् ११ अव्यवानं गृह्णाति जुहोति च १२ यदि व्यवान्याद्धिरण्यमभि व्यवान्यात् १३ कया नश्चित्र आभुवदिति मनसा प्रजापतय इति गृहीत्वा दधन्वे वा यदीमन्विति जुहोति १४
आ नः प्राण एतु परावत आन्तरिक्षाद्दिवस्परि ।
आयुः पृथिव्या अधि ॥
अमृतमसि ॥ प्राणाय त्वेति हिरण्यमभि व्यनेयात् ।
इन्द्रा ग्नी मे वर्चः कुणुताँ वर्चः सोमो वातो बृहस्पतिः ।
वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना ॥
इत्युदकँ स्पृशति १५ वासोऽधीवासश्चतस्रो धेनूर्द्वादश वा हिरण्यं चैतेषामेकं दानम् १६ अँ शावदाभ्ये च सर्वयज्ञेषु १७ भ्रातृव्यवतादाभ्यो ग्रहीतव्यः सत्त्रे साहस्रे सर्ववेदसे सर्वस्तोमे सर्वपृष्ठे विश्वजिति वाजपेये राजसूयेऽश्वमेधे तेषु बुभूषता १८ अतिग्राह्यान्गृह्णातिउपयामगृहीतोऽसीन्द्रा य त्वार्कवते जुष्टं गृह्णामीत्यनुषजेत् १९ इन्द्र मिद्गाथिन इति पूर्वार्धे । अभि त्वा शूर नोनुम इति दक्षिणार्धे । त्वामिद्धि हवामह इत्युत्तरार्धे ।
इमा नु कं भुवना सिषधेमेन्द्र श्च विश्वे च देवाः ।
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ॥
इति पश्चार्धे ।
तदिदास भुवनेषु ज्येष्ठँ यतो जज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो निरिणाति शत्रूननु यँ विश्वे मदन्त्यूमाः ॥
इति मध्यमे २० वृष्टिग्रहं गृह्णाति मार्त्तिके चतुष्टने
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्चुतं घृतमिव सुपूतमृस्य नः पतयो मृडयन्तु ॥
इति उदीरयता मरुतः ॥ सुत्रामाणम् ॥ महीमु षु मातरमिति चतुः प्रत्यृचमदित्यै त्वेति चतुर्थं जुष्टं गृह्णामीत्यनुषजेत् २१ वैजुषननुपृष्ठ्यामतिग्राह्यान्वैश्वकर्मणादित्यौ सारस्वतवैष्णवाविति गृह्णाति २२ महेन्द्र स्य स्तोत्र औदुम्बरीमासन्दीमुद्गातारोहति २३ औदुम्बरीं कुर्वीतयद्या २४ वाणँ शततन्तुं मौञ्जिर्ग्रन्थिभिरध्वर्युरुद्गात्रे प्रयच्छति २५ अध्वर्युरन्यश्चैकष्वंदिष्टं तृत्यं मासपूजादधाज्युदुलिकापिष्टेकाः काण्डवीणाश्च २६ वेदिस्रक्तिषु दुन्दुभीनाघ्नन्ति २७ भूमिदुन्दुभिः पञ्चमः पश्चादाग्नीध्रीयस्य सवनीयस्य चर्मणापिहितः २८ तस्य पुच्छेन वादयन्ति २९ पुरस्तादाग्नीध्रीयस्यान्तर्वेदि ब्रह्मचारी बहिर्वेदि पुँ श्चली ३० सा ब्रह्मचारिणमाहअनार्यकर्मन्नवकीर्णिन्दुश्चरितिन्निति ३१ धिक्त्वा जाल्मि पुँ श्चलि परस्यार्यजनस्य मार्जनीति ब्रह्मचारी प्रत्याह ३२ अन्तर्वेद्यभिगरो बहिर्वेद्यपगरः ३३ नारात्सुरिमे सत्त्रिण इत्याहापगर ओरसः केशान्प्ररोह्य पशून्पिष्ट्वा पवमाना दग्नलोकमभ्यर्चन्त आसिषतेति ३४ अरात्सुरिमे सत्त्रिण इत्याहाभिगरस्तपस्विनो वरकॢप्तिनो जयप्ररोहापक्सुपयन्तः स्वर्गलोकमभ्यर्चन्त आसिषतेति ३५ परिश्रयति मिथुनचारिभ्यां दक्षिणापरां प्रति वेदिश्रोणिं बहिर्वेदि ३६ तौ मिथुनँ संभवतः ३७ अग्रेण मार्जालीयँ शूद्रा र्यौ चर्ममण्डले व्यायच्छेते कृष्णशुक्लसँ हते कृकदावरेऽभ्यन्तरतः पार्श्वे ३८ अन्तर्वेद्यार्यो बहिर्वेदि शूद्र आहइम उद्वासीकारिण इमे दुर्भूतमक्रन्निति । इमेऽरात्सुरिमे सुभूतमक्रन्नित्याहार्यः ३९ संजित्य प्रसदस्यध्यस्यत्युपरिष्टाच्छुक्लमवस्तात्कृकदम् ४० मार्जालीयान्ते कुम्भीभ्यः प्रयच्छति ४१ परियन्ति चतस्रः षडष्टौ वा दास्यश्चतुः प्रत्यृचम्
गावः सुरभयो नित्यं गावो गुग्गुलगन्धयः ।
गावो घृतस्य मातरस्ता इह सन्तु भूयस्यः ॥
इदं मध्विदं मध्विति पादान्निघ्नन्ति ४२
ननु गावो मागीरस्य गङ्गाया उदकं पपुः ।
पपुः सरस्वत्या नद्यास्ताः प्राचीश्चोज्जगाहिरे ॥
एता वयं प्लवामहे शम्याः प्रतरतामिव ।
निकीर्य तुभ्यं मध्य आकर्ष्ये कार्ष्यो यथा ॥
यदा राघटी वदतो ग्राम्यमनिरसाकसैजनस्य ।
भद्रे मे वतँ राज्ञे राज्ञः परिक्षितः ।
कर्मग्रामोऽवरुन्द्धेतानड्वाँ स्तप्यते वहन् ॥
इति ४३ परीत्य मार्जालीयँ यथार्थं गच्छन्ति ४४ उत्तरतस्तीर्थस्य वाशं चर्म वधायोपकल्पयति ४५ दक्षिणतः संजानप्रपावधाः क्षत्रिया रथेषु कवचिनः संनद्धा विध्यन्ति ४६ विहारं त्रिषतं पर्यायन्ति ४७ सारथयो भवन्ति ४८ मध्ये ग्रीवासु भसदोऽग्रँ वा प्रतिदिशमिषूनस्त्वायन्ति ४९ प्राप्तानर्हन्ति ५० स्तोत्रान्ते शब्दाः शाम्यन्ति ५१ औदुम्बरं प्लेङ्खँ होतारोहति ५२ औदुम्बरं फलकमपादमध्वर्युः ५३ तस्मिन्प्रतिगृणाति ५४ एकं महच्छस्त्रं परःशतँ शँ सति ५५ परिधानीयाँ संपाद्य मध्यमैक्येग्रहानमसवनयति ५६ त्वे क्रतुमपि वृञ्जन्ति विश्व इति पूर्वार्धस्य द्विर्यदेते त्रिर्भवन्त्यूमा इति दक्षिणार्धस्य स्वादीः स्वादीयः स्वादुना सृजा समित्युत्तरार्धस्यात ऊ षु मधुना मधुनाभियोधीति पश्चार्धस्य विग्रहमुपशये पर्यासिच्य महेन्द्रे ण प्रचरत्यतिग्राह्यश्च ५७ ग्रहान्समवनीय सर्वे भक्षयन्तिमहस्ते भक्षयामि यशस्ते भक्षयामि स्तोमं ते भक्षयाम्यन्नाद्यं ते भक्षयामि प्रजां मे भक्षयामि प्रतिष्ठां भक्षयामीति ५८ प्रागस्तमयादहः सँ स्थापयन्ति ५९ सूर्यो देव इत्यस्तमिते जुहोति ६०
इति द्वादशाहे द्वितीयेऽध्याये महाव्रतं पञ्चमं खण्डम्
एकादशिन्यां प्रतिपशु यूपाँ श्छिन्दन्ति १ उपशयं द्वादशं पात्नीवतं त्रयोदशम् २ एका यूपाहुतिः ३ पृथगास्वनीया ४ जोषणेन समेत्य पर्यञ्जनेन समीयात् ५ एवँ समानजातीयेन सर्वाननुक्रामति पशूँ श्च ६ अग्नीषोमीयकाले यूपानुच्छ्रयत्यपि वाग्निष्ठं श्वो भूत इ तरान् ७ अग्रेणाहवनीयं परिलिखति ८ दक्षिणमग्निष्ठात्परिलिख्योत्तरं परिलिखति ९ एतेन धर्मेण व्यत्यासम् १० उदगपवर्गा यूपा दक्षिणापवर्गाः पशवः ११ स्फ्येन परिलिखति १२ रथाक्षमात्राणि यूपान्तरालानि १३ तिरश्चान्तँ संमिनोति १४ एवँ संमिता भवन्ति १५ अञ्जनादि परिव्ययणान्तमग्निष्ठान्तँ संमिनोति १६ यदि श्वो भूते समानम् १७ अथ चेत्पूर्वेद्युरञ्जनेन समेत्योच्छ्रयणेन समीयात् १८ समस्याग्निष्ठस्य रशने परिव्ययतीतरेषां च द्वे द्वे २९ समासे समाग्निष्ठे परिष्वत्यभि वा ता वसत्यग्निष्ठवर्जम् २० यं कामयेत पितृलोक ऋध्नुयादिति ब्राह्मणव्याख्यातम् २१ दक्षिणस्मात्पक्षाद्दक्षिणतः प्राञ्चमुपशयं निदधातिइदमहममुमामुष्यायणममुष्याः पुत्रमिन्द्र पाशेनाभिनँ स्यामीति यूपँ रशनयाभिनँ स्यति २२ इदमहममुमामुष्यायणममुष्याः पुत्रमिन्द्र वज्रेणाभिनिदधामीति यूयाग्रँ स्वरुणाभिनिदधाति २३ तूष्णीमनभिचरतः २४ समान्मिनुयात्प्रतिष्ठाकामस्य २५ त्रीन्मध्यतः समान्पशुकामस्य २६ व्यतिषजेदितरान् २७ अग्निष्ठँ वर्षिष्ठमिन्द्रि यकामस्य ग्रहशेषाँ श्च संमिम्नोति २८ यौ ताभ्यामनन्तरौ तावग्निष्ठस्य समौ २९ एद्यंतानात्संमिनोत्यग्निष्ठाँ ह्रसीयस इतरान् यदि कामयेत जीयसी स्यादबलीयः क्षत्रमिति ये दक्षिणतोऽग्निष्ठात्तान्वर्षीयसः कुर्यात् ३० उन्नताँ संमिनोति ३१ आश्विनं गृहीत्वा यूपात्सनाद्यग्निष्ठदैवं दायँ रशने द्वे द्वे समे एकैकं परिवीय कृष्णशीर्षमाग्नेयमग्निष्ठे मेषीँ सारस्वतीमुत्तरस्मिन्सौम्यं बभ्रुं दक्षिणस्मिन् ३२ व्यतिषजेदितरान् ३३ श्यामः पौष्णः शितिपृष्ठो बर्हस्पत्यः पिशङ्गो वैश्वदेवो वृष्णिरैन्द्रः कल्माषो मारुतः सँ हित ऐन्द्रा ग्नोऽधोरामः सावित्रः पेत्वो वारुणः ३४ वारुणं दक्षिणार्ध्यम् ३५ उपशयाय पशुं निर्दिशत्यारण्यम् ३६ सुगलस्तेऽयं पशुरिति वा ३७ यं द्विष्यात्तं ब्रूयादसौ ते पशुरिति ३८ षामत्राहे मित्राहे द्वयोर्द्विषड्बहुषु बहुवती ३९ अमुमिति यत्र स्यात्तत्र बहुत्वं निगमयेत ४० ये पश्वभिधायिनः शब्दाः पश्वङ्गान्युभिपता पिता माता भ्राता सखेति व्यूहति ४१ हविर्बर्हिर्वाङ्मनः प्राणश्चक्षुः श्रोत्रं त्वगसुरुन्मेति ४२ अपाकरणौ द्वौ दर्भावेका शाखा ४३ प्रतिपशु शस्त्रँ वपाश्रपणी ४४ सर्वानन्वारभ्य शामित्रं नयन्ति प्रतिपश्वध्वर्यवोऽन्वारम्भेण वपोद्धरणे वपाश्रपणे च सकृदादित्योपस्थानं प्रव्रजनमन्त्रश्च ४५ एकव्यं पाशाननुप्रहरति तृणाग्राणि वपाश्रपणीः स्वरूँ श्च ४६ एकः पशुपुरोडाशः समानदेवतेषु प्रतिपशु नानादेवतेषु ४७ आवर्तते मनोता ४८ एकादश जुहूरुत्पाद्यावदानेनानुक्रम्य चरणेनानुक्रामति ४९ यद्येका जुहूर्भवति प्रतिदेवतं पशुभिः प्रचरति ५० एकस्मिन्नर्धर्चे सर्वेषाँ याज्याया वसाहोमं जुहोति ५१ समा सिच्य दिग्घोमम् ५२ ततो वनेप्ठ्वा ५३ गुदादीनां जाघनीनाँ सर्वेषां प्रधानम् ५४ अनुबन्ध्याया हुतायाँ वपायामग्रेण शालामुखीयं प्राग्वँशे पात्नीवतँ संमिनोति ५५ पौर्णमासिकी वेदिः ५६ पाशुकान्याज्यानि ५७ अधानाभिमचषालम् ५८ अनवस्तीर्णो यूपावटः ५९ तस्मिन्साण्डं त्वाष्ट्रँ सकलमुपाकरोति ६० आवेदनवेलायां त्वष्टारँ वनस्पतिं चावाहयति पर्यग्निकृतमुत्सृज्य यावन्ति पशोरवदानानि तावत्कृत्व आज्यस्यावदायाप्रैषं त्वष्टारँ वनस्पतिं च यजति ६१ अपि वा पर्यग्निकरणान्तं करोति ६२
इति द्वादशाहे द्वितीयेऽध्याये एकादशिनीयं षष्ठं खण्डम्
सौत्रामणिँ सोमवामिनः सोमाभिव्यजनस्य राजसूयेनाभिषिषिचानस्य भूतिकामस्य ज्योगामयाविनोऽन्नाद्यकामस्य पशुकामस्य भ्रातृव्यवतोऽभिशस्यमानस्य वा १ सीसेन क्लीबाच्छष्पानि कृष्णेन तसरपक्ष्मणा सोमविक्रयिणो वा क्रीणाति २ गार्हपत्य ओदनँ श्रपयित्वा लाजान्सँ सृज्या तोक्मं नग्नहुर्लाजा मासरमिति ३ स्वाद्वीं त्वा स्वादुनेति शष्पैः सुराँ संम्सृजति ४ सोमोऽस्य अश्विभ्यां पचस्वेति ककुभ्यां समवदधाति ५ तिस्रो रात्रीः सँ हिता वसति ६ तिसॄणां पारे पशुबन्धः ७ प्रणीतेऽग्नौ दक्षिणतोऽग्नेर्दक्षिणस्मिन्वेद्यँ से प्रणयत्यपि वा पर्यग्निकरणान्तं कृत्वा तदेवोल्मुकमुपसमादध्यात् ८ तस्य शेषं पशुश्रपणँ हरेयुः ९ सन्नेष्वाज्येषु सुरामभ्युदानयन्ति १० ब्राह्मणस्य मूर्धन्सादयित्वा द्रो णे वालँ वितत्य सुरामतिपावयतिपुनातु ते परिस्रुतमिति ११ प्रत्यक्सोम इति सोमातिपवितस्य १२ अग्रेण दक्षिणाग्निँ सिकतानां खरः १३ तस्मिन्पालाशमाश्वत्थमौदुम्बरं नैयग्रोधमिति पात्राणि १४ तेषु कुविदङ्गेति सुराग्रहान्गृह्णात्युपयामगृहीतोऽस्यच्छिद्रां त्वाछिद्रे णेत्याश्विनं गृहीत्वा कुवलसक्तुभिः श्रीणाति १५ सिँ हावध्वर्युर्ध्यायति १६ सारस्वतं द्वितीयं प्रतिप्रस्थाता १७ कर्कन्धुसक्तुभिर्व्याघ्रलोमैश्च श्रीणाति १८ व्याघ्रौ प्रतिप्रस्थाता ध्यायति १९ इन्द्रा य सुत्राम्णे तृतीयँ यजमानः २० बदरसक्तुभिः श्रीणाति २१ वृकौ यजमानो ध्यायति २२ एष ते योनिरमुषै त्वेत्यायतने यथास्थानँ सादयति २३ यूपँ संमीय पशूनुपाकरोत्याश्विनमजँ सारस्वतीं मेषीमैन्द्रँ वृषभँ वृष्णिँ वा २४ बार्हस्पत्यं चतुर्थँ सोमातिपवितस्य २५ इन्द्रा य सुत्राम्ण एकादशकपालः सवित्रेऽष्टाकपालो वारुणो यवमयश्चरुरिति पशुपुरोडाशान्निरुप्य ग्रहैः प्रचरति २६ आश्विनमध्वर्युरादत्ते सारस्वतं प्रतिप्रस्थातैन्द्रँ यजमानः २७ अश्विभ्याँ सरस्वत्या इन्द्रा य सुत्राम्णे सोमानामनुब्रूहि ॥ अश्विभ्याँ सरस्वत्या इन्द्रा य सुत्राम्णे सोमान्प्रस्थितान्प्रेष्येति संप्रेष्यति २८ वषट्कृतानुवषट्कृते हुत्वाभिषेकाभिग्रहणादि पशूनां च वसया क्षत्रस्य योनिरसीति सार्येण धिमास्तमासन्दीमास्तीर्य दक्षिणत आहवनीयस्य निदधातिस्योनासि सुषदेति २९ सुषदामासीदेत्यारोहन्तमनुमन्त्रयते ३० निषसाद धृतव्रत इति रूढाय व्याघ्रविष्टदिवेतिँ चाभिषिच्यमानँ साम गायत्यैन्द्र्यां बृहत्याम्सँ श्रवसे विश्रवसे सत्यश्रवसे श्रवस इति । निधनमुपयन्ति ३१ साम गायति द्विर्वा स्वाहाकरोति ३२ देवस्य त्वेत्यभिषेकमादाय त्रया देवा इति यजमानमीक्षमाणो जुहोति ३३ प्रथमास्त्वा द्वितीयैरित्यभिषिञ्चति ३४ भूः स्वाहेत्याहवनीय आहुतिं जुहोति यथा राजसूये ३५ शिरो मे श्रीरिति यथारूपं गात्राणि संमृशति ३६ लोमानि प्रयतिरिति पूर्णाहुतिं जुहोति ३७ जङ्घाभ्यां पद्भ्यामित्यवरोहति ३८ द्वात्रिँ शतं गा ददाति वडवाँ श्च सकिशोरान् ३९ यद्देवा देवहेडनमिति तिसृभिरवभृथमेष्यन्नाहुतिं जुहोति ४० धाम्नो धाम्नः ॥ यद्ग्राम इति मार्जयते ४१ पवित्रमसीत्यवभृथे स्नात्वोद्वयं तमसस्परीत्यादित्यमुपस्थायापो अद्यान्वचारिषमिति समिध आहरन्ति ४२ एधोऽस्येधिषीमहीति समिदाधानः ४३ समावृतदिति पूर्णाहुतिं जुहोति ४४
यदापिपेष मातरं पुत्रः प्रमुदितो धयन् ।
एतत्ते अग्ने अनृणो भवाम्यहतौ पितरौ मया ॥
सुरावन्तमित्युत्तरस्मिन्नग्नौ पयोग्रहान्जुह्वति ४५ यस्ते रस इति दक्षिणस्मिन्सुराग्रहान् ४६ समवनीयाध्वर्युः प्रतिप्रस्थाताग्नीध्र इत्याश्विनं भक्षयन्ति ब्रह्मा होता मैत्रावरुण इति सारस्वतमैन्द्रँ यजमानः ४७ यमश्विना नमुचेरिति पयोग्रहान्भक्षयन्ति ४८ यदत्र शिष्टमिति सुराग्रहान्समवनीय दक्षिणस्मादग्नेर्दक्षिणा त्रीनङ्गारानुदूह्य सुचर्याभिजुहोतिपितृभ्यः स्वधायिभ्यः स्वधा नमः ॥ पितामहेभ्यः स्वधायिभ्यः स्वधा नमः ॥ प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नम इति ४९ अक्षन्पितरः ॥ अमीमदन्त पितरः ॥ पितरः शुन्धध्वमित्यपो निनयति ५० तेन धर्मेण सुराँ विक्षारयति वालमन्तर्धायोर्णासूत्रँ वात्वँ सोम प्रचिकित इति द्वादश पुनन्तु मा पितर इति द्वादश चतस्रोऽन्यासांतश्रोण्यासाँ व्यत्यासमृत्विजः सर्वे स्रवन्तीमनुमन्त्रयन्ते ५१ ऐन्द्र स्यावदानैः प्रथमं प्रचरति जघन्यमाश्विनस्य ५२ पशुपुरोडाशैः प्रचर्य पशुभिः प्रचरति ५३ पुर्स्तात्स्विष्टकृतो रसं जुहोति द्वात्रिँ शता शृङ्गशफैः सीसेन तन्त्रमिति षोडश द्वयोर्द्विग्राहमेकैकँ वा जुहोति ५४ हुत्वा पात्र्याँ संपातानवनयति ५५ अभिरोति सँ स्कृतामन्वहंपरीतो षिञ्चता सुतमिति पयसा परिषिञ्चत्त्येकस्या दुग्धेन प्रथमायाँ व्युष्टायां द्वयोर्द्वितीयस्याम् ५६ अदित्यै घृते चरुरैन्द्र श्च प्रथमँ व्युदानयति ५७ न मूर्धनि सादयति ५८ तेन धर्मेण सुरामतिपाव्य ब्रह्म क्षत्रमित्यूर्णासूत्रेण पयोऽतिपावयति ५९ तथावेक्षते ६० द्वे द्वे वायव्ये ६१ तेषु कुविदङ्गेति पयोग्रहान्गृह्णातिउपयामगृहीतोऽस्यच्छिद्रां त्वाछिद्रे णेति यथादेवतम् ६२ व्रीहिसक्तुभिराश्विनँ श्रीणाति यवसक्तुभिः सारस्वतं गोधूमसक्तुभिरैन्द्रँ श्यामाकसक्तुभिरुपवाकसक्तुभिरितरान् ६३ श्येनपत्रेण परिमार्जनम् ६४ एष ते योनिस्तेजसे त्वेति प्रथमँ सादयति वीर्याय त्वेति द्वितीयं बलाय त्वेति तृतीयम् ६५ नाना हि वामिति सुराग्रहान्गृह्णातिउपयामगृहीतोऽस्याश्विनं तेज इति प्रथमँ सारस्वतँ वीर्यमिति द्वितीयमैन्द्रं बलमिति तृतीयम् ६६ एष ते योनिर्मोदाय त्वेति प्रथमँ सादयत्यानन्दाय त्वेति द्वितीयं महसे त्वेति तृतीयम् ६७ सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते ६८ ते पशवो बार्हस्पत्यवर्जम् ६९ त्वग्रस्थाश्विनोऽजः ७० ते पशुपुरोडाशाः ७१ ते ग्रहैः प्रचरन्ति द्वाभ्यां द्वाभ्यामेकैकः ७२ समानः संप्रैषः ७३ आश्विनस्य सारस्वतेन यजति सारस्वतीमैन्द्र स्याश्विनेन ७४ समवनीय होताध्वर्युः परिक्रीतौ यदत्र शिष्टमिति भक्षयतः ७५ यदि न भक्षयतां द्वे स्रुती इति वल्मीकवपायामवनयेदग्नौ विक्षारयेत ब्राह्मणो वा प्राश्नीयाद्यजमानो वा स्वयं भक्षयेत् ७६ ये भक्षयन्त इति तिसृभिस्तिस्र आहुतीर्जुहोति ७७ कुम्भीँ शतातृण्णामध्यधि दक्षिणमग्निं कृत्वा तस्याँ सुराँ विक्षारयति हिरण्यमन्तर्धाय ७८ त्वँ सोम प्रचिकित इति तासां तिसृभिस्तिसृभिरेकैकोऽनुमन्त्रयते पुरस्तादध्वर्युर्दक्षिणतो ब्रह्मा पश्चाद्धोतोत्तरत आग्नीध्रः ७९ पितरो मादयन्ताँ व्यशेम देवहितँ यदायुरिति सर्वे स्रवन्तीमनुमन्त्रयन्ते ८० ऐन्द्र स्यावदानैः प्रथमं चरति जघन्यमाश्विनस्य ८१ पशुभिः प्रचर्य पशुपुरोडाशैः प्रचरति ८२ सहस्विष्टकृदिडं पशूनां पशुपुरोडाशानां च ८३ ऋषभो दक्षिणा सृत्वरी च वडबा ८४ सँ स्थिते मासरैः शूलैश्चावभृथँ यन्ति यथा वरुणप्रघासेषु ८५ मासराणि पुरोडाशस्थाने ८६ चरुणा प्रचर्य हृदयशूलानुपचरन्ति ८७
इति द्वादशाहे द्वितीयेऽध्याये सौत्रामण्यां सप्तमं खण्डम्
कौकिल्यां ते कामा ये पूर्वस्यामन्ये च तेजस्कामस्य वीर्यकामस्य बलकामस्य नर्याणि त्रीणि १ तेन धर्मेण सुराँ सँ स्क २
यदापितेष मातरं पुत्रः प्रमुदितो धयन् ।
एतत्ते अग्ने अनृणो भवाम्यहतौ पितरौ मया ॥
अनृणो देवानामनृणः पितॄणां मनुष्याणामनृणो भवामि यदक्षवृत्तँ सँ स्करादीष्ट सर्वस्मादनृणो भवामीति हुत्वेष्टिं निर्वपति ३ अदित्यै घृते चरुः ४ सँ स्थितायामिन्द्रा य वयोधसे पशुरृषभो दक्षिणा धेनुरदित्या ५ वत्सं पूर्वस्यां ददाति मातरमुत्तरस्याम् ६ प्रथमोऽनुवाकः प्रथमस्य पशुबन्धस्याप्रीः ७ आ चर्षणिप्रा इति षडर्चँ याज्यानुवाक्याः ८ द्वितीयोऽनुवाकः प्रयाजप्रैषाः ९ तृतीय आप्रीः १० चतुर्थस्य तिस्रो वपायास्तिस्रः पशुपुरोडाशानाम् ११ तासां प्रथमामनूच्य मध्यमया यजेन्मध्यमामनूच्योत्तमया यजेदुत्तमामनूच्य प्रथमया यजेदिति व्यतिषजेत् १२ अवदानेषु सप्तमः १३ ग्रहाणामनुवाक्या उत्तरः प्रैषा उत्तरा याज्योत्तरास्तिस्रोऽवदानानामुत्तमः स्विष्टकृतः पञ्चमोऽनुयाजप्रैषा वायोधसस्य कवाद्वायो वसां प्रैषानधीमहि १४ तस्योत्तमस्त्वाप्रीरुत्तमो याज्यानुवाक्या उत्तमो याज्यानुवाक्या १५
इति द्वादशाहे द्वितीयेऽध्याये अष्टमं खण्डम्
समाप्तं द्वादशाहम्
इति द्वितीयोऽध्यायः
राज्ञो राजसूयः १ अग्निष्टोमेनेष्ट्वा चैत्र्यां पौर्णमास्याँ सप्तरात्रस्य पुरस्तादिष्टिं निर्वपति २ अनुमत्या अष्टाकपालं निर्वपति ३ ये प्रत्यञ्चः शम्यामतिशीयन्ते तन्नैरृतमेककपालम् ४ उभौ सह शृतौ कुर्वन्ति ५ नैरृतेन पूर्वेण प्रचरन्ति ६ वीहि स्वाहाहुतिं जुषाण इति गार्हपत्ये हुत्वा दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय विस्रँ सिकायाः काण्डाभ्यां नैरृतं जुहोत्यङ्गुष्ठाभ्याँ वाजुषाणा निरृतिर्वेतु स्वाहेति ७ वासः कृष्णं भिन्नान्तं दक्षिणा ८ स्वाहा मनो य इदं चकारेति गार्हपत्ये हुत्वानुमतेन प्रचरन्ति ९ धेनुर्दक्षिणा १० अथ य उदञ्चः शम्यामतिशीयन्ते तानुदङ् परेत्य वल्मीकवपामुद्रुज्य शुक्त्याभिजुहोतिइदमहममुष्यामुष्यायणस्य क्षेत्रियमवयज इति ११ तेनैव लोष्टेनापिदधातिइदमहमुष्यामुष्यायणस्य क्षेत्रियमपिदधामीति १२ श्वो भूत आदित्येभ्यो भुवद्वद्भ्य इति घृते चरुः १३ पञ्चाग्रायणषष्ठ्यै सरस्वत्यै चरुः सरस्वते द्वादशकपाल इति मिथुनौ गावौ दक्षिणा १४ सँ वत्सरं चातुर्मास्यैर्यथाविहितमिष्ट्वेन्द्र तुरीयेण यजेत १५ सायं पञ्चेध्मीयेन १६ अपां न्ययनादपामार्गानाहरन्ति १७ तान्त्सक्तून्कृत्वा दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय पर्णमयेन स्रुवेण जुहोतिदेवस्य त्वेति १८ हतँ रक्षोऽवधिष्म रक्ष इति हुत्वानुनिगदति १९ वासो दक्षिणा २० आहवनीयं चतुर्धा प्रतिदिशँ व्यूहति मध्ये पञ्चमम् २१ ये देवाः पुरःसद इति पर्यायैर्जुहोति मध्ये पञ्चमेन २२ इदमहँ रक्षोऽभिसमूहामीति समूह्याग्नये पुरःसदे स्वाहेति पर्यायैः प्रदक्षिणं जुहोति मध्ये च २३ रथः पञ्चवाही दक्षिणा २४ आभिरिष्टिभिर्यजतेऽनुमत्यै चरुरिति पञ्च देविकाहवीँ षि २५ मध्ये चरुं धात्रे निर्वपत्यन्ते वा २६ पशुकामँ याजयेदिति ब्राह्मणव्याख्यातम् २७ अन्तराणि त्रीणि सह हवीँ षि पूर्वं त्रिषँ युक्तम् २८ अन्तराणि त्रीणि द्वितीयम् २९ अग्नीषोमीय एकादशकपाल इन्द्रा सोमीय एकादशकपालः सौम्यश्चरुर्बभ्रुर्दक्षिणेति तृतीयम् ३० तैरिष्ट्वाग्नये वैश्वानराय द्वादशकपालो वारुणश्च यवमयश्चरुः प्रादेशमात्रः ३१ हिरण्यमश्वश्च दक्षिणा ३२ यो ज्योतामयावी वध्येत ३३ बार्हस्पत्यश्च रुर्ब्रह्मणो गृह इत्येकादश रत्निहवीँ षि ३४ महिष्या गृहे प्रचर्य भागश्चरुर्वसिन्या गृहे विचित्तगर्भा पष्ठौही दक्षिणा ३५ नैरृतश्चरुर्निर्विष्टतानां त्वार्याद्या परिवंद्यताया गृहेऽङ्गुष्ठपर्वमात्रँ श्रपयित्वा स्वकृत इरिणे क्प्रदरे वा जुहोति ३६ भागधातिकं भागदुघमित्याचक्षते ३७ तस्य गृहे प्रचर्याध्वने स्वाहेति छाणुश्चतेस्य गृहे जुहोति ३८ यथासमाम्नातमितरैर्नाममन्त्रैः प्रचरति ३९ इन्द्रा याँ होमुच इति द्विविधे ४० मैत्राबार्हस्पत्यमभिषेचनीयस्य दीक्षणीया ४१ स्वयँ रुग्णाया अश्वत्थशाखायाः पात्रं भवति ४२ तस्मिन्श्वेतायाः श्वेतवत्साया दुग्धं भवति ४३ तत्स्वयं मूर्छति ४४ स्वयं मथ्यते ४५ स्वयँ विलीनमाज्यं भवति ४६ अर्धँ वेद्याः कुर्वन्त्यर्धँ स्वयंकृतम् ४७ अर्धं बर्हिषो दात्यर्धँ स्वयंदिनम् ४८ अर्धमिध्मस्य छिनत्त्यर्धँ स्वयमावपनम् ४९ मित्राय जुष्टं बृहस्पतये जुष्टमिति निर्वपन्ति ५० ये क्षोदिष्ठास्तण्डुलास्तं बार्हस्पत्यं चरुँ शृतं कुर्वन्ति ५१ तत्र तत्पात्रमपिधायाज्यमासिच्य ये स्थविष्ठास्तण्डुलास्तानावपन्ति ५२ उभौ सह शृतौ कुर्वन्ति ५३ मैत्रानुत्तराधरौ श्रपयन्ति ५४ मैत्रेण पूर्वेण प्रचरन्ति ५५ अश्वो मैत्रस्य दक्षिणा शितिपृष्ठो बार्हस्पत्यस्य सा वा श्वेता श्वेतवत्सा ५६ यस्य राष्ट्रँ शिथिरमिव स्यात्तमेतेन याजयेन्मैत्राबार्हस्पत्येन ५७ पयसि वा सह मैत्रावरुणीमामिक्षाँ सँ स्कुर्वन्ति ५८ सारस्वत्यो वसतीवर्यो भार्गवो होता दशपेये ५९ अग्नीषोमीयस्य पुरोडाशमन्वग्नये गृहपतय इत्यष्टौ देवस्वो हवीँ षि निर्वपति सर्वपृष्ठां चाग्नये गायत्रायेति दशहविषम् ६०
इति राजसूये तृतीयेऽध्याये प्रथमं खण्डम्
पुरस्तात्स्विष्टकृतः सविता त्वा प्रसवानामिति हस्तमन्वारभ्य जपत्यमुष्याः पुत्रमिति यस्याः पुत्रो भवत्यमुष्याँ विशीति यस्या विशो राजा भवति १ अत्रैवावेदनु क्रमक्रमणमनु मन्त्रानित्यधीयते २ उक्थ्योऽभिषेचनीयसँ स्था ३ माध्यन्दिनीयान्सवनीयाननु मारुतमेकविँ शतिकपालं निर्वपति ४ शुक्रज्योतिश्चेति पर्यायै कपालान्युपदधाति ५ द्वात्रिँ शतँ सहस्राणि चतुस्त्रिँ शतमयुतँ वा ददाति ६ माहेन्द्र काल आग्नीध्रे पवित्राणि गृह्णाति ७ देवीरापो अपां नपादित्यपोऽभिजुहोति ८ उत्तरोत्तरैः पर्यायैर्होमग्रहाणि सर्वत्र ९ वृषोर्मिरसीति प्रतीपसारणीनाम् १० वृषसेनोऽसीत्यन्वीपसारणीनाम् ११ अपां पतिरसीति नदस्य १२ अप्रहावरीः स्थेत्यनुपदासीनाँ स्थावराणाम् १३ परिवाहिणीः स्थेति नीवाहस्य १४ ओजस्विनीः स्थेत्यतीर्थे प्रवहन्तीनाम् १५ मान्दाः स्थेति कूप्यानाम् १६ व्रजक्षितः स्थेति स्थावराणाम् १७ सूर्यवर्चसः स्थेति या आतपति वर्षति १८ सूर्यत्वचसः स्थेति यासु परिदृश्यते १९ मरुतामोजः स्थेत्यपृष्ठे २० वशाः स्थेति प्रुष्वाणाम् २१ शक्वरीः स्थेति गोमूत्रस्य २२ विश्वभृतः स्थेति पयसः २३ जनभृत इति घृतस्य २४ अपामोषधीनामिति मधुनः २५ षोडश गृहीत्वा देवीरापो मधुमतीरिति सँ सृजति २६ अनाधृष्टाः सीदतेत्यन्तरा होतुर्धिष्ण्यं ब्राह्मणाच्छँ सिनश्च सादयति २७ अपो देवीरित्यभिमन्त्र्यानिभृष्टमसीति शतकृष्णलँ रुक्मँ शतातृण्णमादाय तेन सह शुक्रा वः शुक्रेण पुनामीति पूयोवावदितोऽनुषजत्यस्थो गायत्र्या त्री रुक्मेणोत्पूय पालाशमाश्वत्थमौदुम्बरं नैयग्रोधमिति पात्राणि तेषु राजसूया इत्यपो व्यानयति २८ रुद्र यत्त इति शेषमाग्नीध्रीये हुत्वा सोमा इन्द्र इति यजमानमामन्त्रयते २९ क्षत्रस्य योनिरसीति तार्प्यँ यजमानः परिधत्ते क्षत्रस्योल्बमसीति क्षौमँ सँ शुद्धं क्षत्रस्य नाभिरसीत्युष्णीषम् ३० मधुतोक्ममिश्रमाशयति ३१ पञ्चाशता दक्षिणमक्ष्याङ्क्त एकपञ्चाशता वामम् ३२ अभ्यक्तमुदकँ स्पर्शयति ३३ अवित्तोऽग्निरित्यावेदयति ३४ अमुष्याः पुत्र इति व्याख्यातम् ३५ एष ते जनते राजेत्यनुदिशति जनतायै ३६ सोमोऽस्माकं ब्राह्मणानाँ राजेत्युपाँ शु जपति ३७ इन्द्र स्य वज्रोऽसीति यजमानाय धनुः प्रयच्छति ३८ शत्रुबाधनाः स्थेति त्रित्वशुमृदुसुखाम्बाणवतः ३९ तान्पात प्राञ्चमित्यभिमन्त्र्य मित्रोऽसीति दक्षिणं बाहुमुद्यच्छति वरुणोऽसीति सव्यम् ४० हिरण्यवर्णमुषस इत्युद्यतबाहुं तिष्ठन्तमभिमन्त्रयते ४१ समाप्रतिष्ठन्तमन्वभिधावन्दिश उपतिष्ठतेसमिधमातिष्ठेति पर्यायैः ४२ सोमस्य त्विषिरसीति व्याघ्रचर्म विवेष्ट्यासन्द्यामास्तृणाति ४३ प्रत्यस्तं नमुचेः शिर इति बहिर्वेदि सते सीसं पण्डगाय प्रत्यस्यति ४४ अवेष्टा दन्दशूका इति लोहितायसं केशवापाय ४५ मृत्योः पाहीति रजतँ रुक्ममधस्ताद्व्याघ्रचर्म व्यपोहति दिदिवः पाहीति हरितँ रुक्ममुपरिष्टादध्यूहति ४६ अग्नये स्वाहेति पर्यायैर्द्वादश पार्थानि हुत्वा मारुतस्य दैवतेन प्रचरति ४७ सोमस्य त्वा द्युम्नेनेत्येनमासन्द्यामूर्ध्वबाहुं तिष्ठन्तमभिषिञ्चति पालाशेन ब्राह्मण आश्वत्थेन वैश्य औदुम्बरेण भ्रातृव्यो यो जन्यो मित्रँ स नैयग्रोधेन ४८ रुक्मं प्रत्यञ्चँ सिञ्चति ४९ पालाशे शेषान्समवनीय कृष्णविषाणया वासाँ सि विस्रस्येन्द्र स्य योनिरसीति वास उपादत्ते ५० समाववृत्रन्निति समुन्मार्ष्टि ५१ इन्द्र स्य वज्रोऽसीति रथमुपावहरति ५२ मित्रावरुणयोस्त्वेति युनक्ति ५३ विष्णोः क्रमोऽसीति रथमाक्रामति ५४ मरुतां प्रसवे जयेत्यारुह्य जपति ५५
इति राजसूये तृतीयेऽध्याये द्वितीयं खण्डम्
असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।
बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥
इति त्रिष्टुभा ब्रह्मान्वेति १ सृत्वा राजन्यं जिनाति २ तस्मै तामिषुमस्यति ३ तदस्यामोघायास्तमभूत् ४ आप्तं मन इति वृत्तं परिगृह्य याति ५ एष वज्र इति पत्न्यै धन्वार्त्निं प्रयच्छति ६ उपददाति ७ इयदसीति राजतँ रुक्ममभिमृशति युङ्ङसीति हरितमूर्गसीत्यौदुम्बरम् ८ मित्रोऽसीति दक्षिणं बाहुमवहरति वरुणोऽसीति सव्यम् ९ सदसीति हस्तावामिक्षायाम् १० पशूनां मन्युरसि तदेव मे मन्युर्भूयात् ॥ नमो मात्रे पृथिव्या इति वाराही उपानहा अभ्यवरोहति ११ प्रति त्यन्नाम राज्यमधायीति निमृष्टे १२ तणाधीता समासन्दीमास्थाय दक्षिणत आहवनीयस्य निदधाति स्योनासि सुषदेति १३ विष्णोः क्रान्तमसीत्यासन्द्यै क्रामति १४ स्योनमासीद सुषदामासीदेत्यारोहन्तमनुमन्त्रयते निषसाद धृतव्रत इत्यारूढम् १५ अग्नये स्वाहेति रथविमोचनीयं जुहोति १६ हँ सः शुचिषदित्यादधाति १७ सह सारथिना रथमादधाति १८ आहितादवरोहति १९ ब्रह्माँ स्त्वं ब्रह्मासीति यजमानोऽध्वर्युमामन्त्रयते ब्रह्माणँ होतारमुद्गातारम् २० सवितासि सत्यसव इति पर्यायैः प्रत्याहुः २१ एष वज्र इति ब्रह्मा स्फ्यँ राज्ञे प्रयच्छति राजा प्रतिहिताय प्रतिहितः सेनान्ये सेनानी संग्रहीत्रे संग्रहीता सूताय सूतो ग्रामण्ये ग्रामणीरक्षावापाय २२ तेन स्फ्येनाधिदेवनं कुर्वन्ति २३ तत्र पष्ठौहीँ विदीव्यन्ते ब्राह्मणो राजन्यो वैश्यः शूद्रः २४ ओदनँ राजा प्रतिश्रावयति २५ ब्राह्मणश्चतुःशतमक्षानपच्छिद्योद्भिन्नँ राज्ञ इति राज्ञे प्रयच्छति २६ तद्रा जा कृतँ विचिनोति २७ ततः पञ्चाक्षान्प्रयच्छन्नाहदिशो अभ्यभूदयमिति २८ क्षेत्रं ददाति २९ वरँ वृणीते ३० मङ्गल्यनाम्नो ह्वयतिसुश्लोकाः सुमङ्गलाः सत्यराजान इति ३१ ऋचो गाथाश्च होता शँ सति हिरण्यकूर्च आसीनः ३२ हिरण्यकूर्चे हिरण्यकशिपुनि वासीनोऽध्वर्युः प्रतिगृणातिओमित्यृक्षु तथेति गाथासु ३३ परिधानीयाँ संपाद्य मैत्रावरुण्यामिक्षया प्रचरति ३४ सहस्विष्टकृदिडं मारुतस्य च ३५ अत्रैव रुक्मौ ददाति ३६ अभिषेकशेषं गार्हपत्य इति प्रतिहितस्य वयँ स्याम पतयो रयीणामिति जपित्वा ३७ समानमावभृथात् ३८
इति राजसूये तृतीयेऽध्याये तृतीयं खण्डम्
अपां नप्त्रे स्वाहेत्यपान्तेऽवभृथे जुहोत्यूर्जो नप्त्र इति दर्भस्तम्बे वल्मीकवपायाँ वाग्नये गृहपतय इति गार्हपत्ये १ ऐन्द्री सूतवशानुबन्ध्या २ नैवारः पशुपुरोडाशः ३ पात्रीस्थाने सूनाया अधि चतुष्पद्या निर्वपति ४ पश्चात्प्राग्वँ शस्य विहारँ विहृत्य सावित्रोऽष्टाकपाल इतिप्रभृतयः सप्त सँ सृपः ५ ताभिरन्वहँ यजते ६ पूर्वस्याः पूर्वोऽपरस्या गार्हपत्यः ७ प्राग्वँ शे त्वाष्ट्रः ८ तस्मिन्सँ स्थिते दशपेयाय दीक्षते ९ न केशश्मश्रु वपति १० अप्सुदीक्षा श्वेतान्द्वादश पुण्डरीकाँ श्च यजमानो बधीते ११ सद्यो जातँ विसृजति १२ सद्यो राजानं क्रीणाति दशभिः साण्डैर्वत्सतरैर्नित्यैश्च १३ पुरस्तादुपसदामाग्नेयमष्टाकपालं निर्वपेन्मध्ये सौम्यमुपरिष्टाद्वैष्णवम् १४ अग्निष्टोमो दशपेयसँ स्था १५ शतं ब्राह्मणाः सोमं पिबन्ति दश दशैकैकं चमसम् १६ दश पृच्छति कस्ते पितामहः कस्ते पितामह इति स्त्रियश्च १७ येषां दशसु न मीमाँ सेरँ स्त ऋत्विजो यसर्पिणश्च पिवा किं ब्राह्मणस्येत्युक्त्वा प्रसर्पति १८ दक्षिणाकाले रुक्मो होतुः स्रगुद्गातुः प्रावेषा अध्वर्योरिति ब्राह्मणव्याख्यातम् १९ साण्डस्त्रिवत्सो ग्रावस्तुतो वत्सतर्युन्नेतुरजः सुब्रह्मण्यस्य २० न प्रसर्पकेभ्यो ददाति २१ श्रायन्तीयं ब्रह्मसाम २२ अभिषेचनीयदशपेयौ वत्सतरापवर्गौ २३ पूर्णमास्या यजनीयेऽहन्यभिषेचनीयाय दीक्षते २४ द्वादश मासान्दीक्षितो भवति २५ उपसत्सु नाश्नाति २६ तिस्र उपसदः २७ चतुर्थ्याँ सौम्यमहः २८ तदहः सँ सृपां प्रथमां दशम्यामुत्तमाम् २९ सा प्रथमा दशाहानि यस्योपसदः ३० त्रयोदश्याँ सौम्यमहस्तदहर्दिशामवेष्टिभिः ३१ वैष्णवादुत्तराणि पञ्च हवीँ षि ३२ तत्र ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिँ हुत्वाभिघारयेत् ३३ अन्नकामो यजेतेति ब्राह्मणव्याख्यातम् ३४ सायं पूर्वाः प्रयुज उत्तराणि हवीँ षि ३५ दक्षिणो रथवाहनवाहो दक्षिणा ३६ षडुत्तराणि प्रातः ३७ सव्यो रथवाहनवाहो दक्षिणा ३८ पौर्णमास्यामग्निहोत्रं जुहोति ३९ सँ वत्सरमग्निहोत्रँ हुत्वा केशवपनीयाय दीक्षते ४० प्रतीचीनस्तोमोऽतिरात्रः षोडशिकः सँ स्था ४१ अनुबन्ध्यायाँ हुतायामग्निचयवद्दक्षिणस्याँ वेदिश्रोण्यामासन्द्यामासीनस्य ये केशिनः प्रथमे सत्त्रमासतेति प्रवपति ४२ तस्मिन्सँ स्थिते पशुबन्धेन यजते ४३ मारुती पृश्निः पष्ठौही गर्भिण्यादित्याजा मलिहा गर्भिणी ४४ सवित्रे प्रसवित्र इति सत्यदूतास्त्रीणि हवीँ षि ४५ दण्ड उपानहौ शुष्कदृतिरिति दक्षिणा दूताय प्रयच्छति ४६ पशुबन्धेन यो यजते योऽस्य सद्यन्तजातीयो राजा तस्मै प्रहिणोतिअभ्यषिक्षि राजाभूम् ॥ अस्म्यहमह इति ४७ व्युष्टिद्विरात्रेण यजते ४८ अग्निष्टोमः प्रथममहरायुरतिरात्र उत्तरम् ४९ क्षत्रस्य धृतिमाग्निष्टोमेनेष्टिभिर्यजेतर्देविकाभिर्देवसूभिर्वैशानरवारुण्या सौत्रामण्या सौत्रामण्या ५०
इति राजसूये तृतीयेऽध्याये चतुर्थं खण्डम्
इति तृतीयोऽध्यायः
इति राजसूयः समाप्तः
राजा विजित्याश्वमेधेन यजेत १ पुण्यनामधेयं देवयजनमध्यवस्यति २ ऋषभस्तूपरः सर्वरूपः ३ तेन प्राजापत्येन ४ यदत्यामन्तं गिरिरिददाय परिवहेयुस्तत्र यजेत ५ अमावास्यायां ब्रह्मौदनँ श्रपयति पूर्वस्याम् ६ उत्तरस्यां पर्यग्नि कृत्वा केशश्मश्रु वापयित्वाहतँ वास आछाद्याहवनीये वैतसं कटमुपसमाधाय नमस्कारैरुपतिष्ठेत द्र ष्ट्रे नम उपद्र ष्ट्रे नमः ख्यात्रे नम इत्युपस्थानान्यधीयते ७ हिरण्यगर्भ इत्यष्टौ पूर्णाहुतीर्हुत्वास्तमयमनु वाचँ यच्छति ८ रात्रीँ वाग्यतो भवति ९ अपदातीनृत्विजः समानयन्ति १० चतुष्टयीष्वप्सु ब्रह्मौदनँ श्रपयति ११ तं महर्त्विजः प्राश्नन्ति १२ तेभ्यः शतमानं ददाति १३ द्वादशारत्निँ रशनां त्रयोदशारत्निँ वा मौञ्जीं दर्भमयीँ वा ब्रह्मौदने पर्यस्तामिमामगृभ्णन्नित्य श्वाभिधानीमादायाभिधा असीत्यश्वमभि निदधाति कृष्णपिशङ्गं त्रिहायणँ सोमपँ सोमपयोः पुत्रम् १४ स्वगा त्वा देवेभ्य इति ब्रह्माणमामन्त्रयते १५ तं बधान देवेभ्य इति ब्रह्मा प्रत्याह १६ शतैः सह प्रोक्षति पुरस्तादध्वर्युर्दक्षिणतो ब्रह्मा पश्चाद्धोतोत्तरत उद्गाताभिषेक्याणाँ राजपुत्राणाँ शतैः सहाध्वर्यू राज्ञां ब्रह्मा सूतग्रामणीनाँ होता क्षत्तृसंगृहीतॄणामुद्गाता १७ प्रजापतये त्वा जुष्टं प्रोक्षामीति पर्यायैः १८ सर्वे पञ्चमेन १९ यः पितुरनुजायाः पुत्रः पुरस्तादश्वं तीर्थाय नयति मातुरनुजायाः पुत्रः स पश्चादन्वेति २० सैध्रकं मुसलमादाय पौँ श्चलेयः पश्चादन्वेति २१ अनुनयन्ति श्वानं चतुरक्षम् २२ तीर्थान्ते पदतोऽभ्यश्वस्य नयति २३ यो अर्वन्तं जिघाँ सतीति पौँ श्चलेयो मुसलेन श्वानँ हन्ति २४ परो मर्तः परः श्वेति श्वानमश्वस्याधस्पदमपप्लावयति २५ उत्क्रामन्तमश्वमैषीकेणोदूहेनोदूहति २६ वेतसशाखानुबद्धा भवति २७ अग्नये स्वाहेत्यनुवाकमावर्तयन्नश्वं मार्जयन्त्यश्वस्तोक्याभिः २८ विभूर्मात्रेत्यश्वमवसृजति २९ देवा आशापाला इति परिददाति ३० शतं तल्प्या राजपुत्राः कवचिनोऽनिवर्तयन्तोऽश्वँ रक्षन्ति त्रिदशानुपरिक्षिणः कृत्वा ३१ यद्यश्वस्य तासां च शङ्केताग्नयेऽँ होमुच इति मृगारेष्टिमश्वस्य वेरे निर्वपति ३२ पुरस्तात्स्विष्टकृतो हिंकाराय स्वाहेत्यनुवाकेनाश्वचरितां जुहोति ३३ सावित्रोऽष्टाकपालः पूर्वाह्णे सवित्रे प्रसवित्र एकादशकपालो मध्यन्दिने सवित्र आसवित्र द्वादशकपालोऽपराह्णे ३४ सँ स्थितासु परिप्लवमाचष्टे होता हिरण्यफलक आसीनः ३५ हिरण्यफलके कशिपुनि वासीनोऽध्वर्युः प्रतिगृणाति
ओमित्यृक्षु तथेति गाथासु ३६ परिधानीयाँ संपाद्य ब्राह्मणो वीणागाथी गायतीत्यददा इत्ययजथा इत्यदः कल्पमकरोदिति मिश्रास्तिस्रो गाथाः ३७ सायं जुहोतीह धृतिरिति पर्यायैः ३८ राजन्यो वीणागाथी गायतीत्ययुध्यथा इत्यमुँ संग्राममजयत् ॥ अदो वीर्यमकरोदिति मिश्रास्तिस्रो गाथाः ३९ इष्टिप्रभृतिगाथाश्च ४० सकृदश्वचरितां जुहोतीष्टिरेव ब्राह्मणगानं च ४१ एकादशे मासि सावित्रं प्रत्युखासंभरणं क्रियेतामावास्यायाः सँ वत्सरः ४२ तमासमाप्यति ज्योत्स्नस्य यद्रा त्रं त्रिभिः सावित्रमिति जुहोति ४३ वीणागाथिभ्याँ शते ददात्यनसी च युक्ते ४४ सप्तम्यामसंप्राहत्याश्ववायाँ वडबायाँ सप्तम्यां पञ्च पशुनेष्ट्वा षष्ठ्यां दीक्षते ४५ त्रैधातव्यानितिरात्रस्य दीक्षणीया ४६ समानमा दीक्षाहुतिभ्यो भुञ्जीत ४७ चतस्र आध्वरिकीः सप्ताहं जुहोति काय स्वाहेति चार्धानुवाकस्य मिश्रमिश्रानन्वहं पूर्णाहुतिवर्जम् ४८ आध्वरिकीर्हुत्वाकूतमग्निमिति षडाग्निकीर्जुहोति शेषं चाश्वमेधिकीनामन्ते पूर्णाहुतीनाम् ४९ आ ब्रह्मन्निति ब्रह्मैषां प्रवर्त्यमानमनुमन्त्रयते ५० पौर्णमासी प्रथमा दीक्षाणामेकादशी वापरपक्षस्य चतस्रोऽवशिष्यन्ते ५१ ता उपसदोऽष्टौ चोत्तरस्य पक्षस्य नयमदशमैकादशमिति सौम्यान्यहानि ५२ त्रिस्तावा वेदिः ५३ एकविँ शतिर्यूपा राज्जुदालोऽग्निष्ठ एकविँ शत्यरत्निः पौतुद्र वावभितः ५४ इतरेषाँ वा षट् पालाशान्षड्बैल्वान्संमिनोति यथैकादशिना ५५ अग्नीषोमीयस्य पशुपुरोडाशमन्वग्नये गृहपतय इत्यष्टौ देवस्वो हवीँ षि निर्वपति सर्वपृष्ठां चाग्नये गायत्रायेति दशहविषम् ५६
इत्यश्वमेधे चतुर्थेऽध्याये प्रथमं खण्डम् ॥
अग्निष्टोमः प्रथमा सँ स्था १ पत्नीसँ याजान्ते सँ स्थितेऽस्तमितेऽन्नानि प्रजुह्वति २ यद्यसँ स्थिमत्युभौ चेदेकादशः सँ स्थापयेदेकदेशोऽन्नानि जुहुयात् ३ सकलाथो जाना कुसुमसर्पिः पयोगुडान्मृष्टशान्तिकरणानि पृथुकानि मध्वापमिति खादिरैः स्रुवैः प्रत्यन्नं जुहुयात् ४ आ ब्रह्मन्नित्यनुवाकेनाज्यँ सर्वमितरैः ५ एकस्मै स्वाहा द्वाभ्याँ स्वाहेत्यैकोनशताद् द्वाभ्याँ स्वाहा त्रिभ्यः स्वाहेत्यैकशतादयुग्भिराज्यं जुह्वति युग्मैरन्नानि ६ एतेन धर्मेणारभ्य माष्ट्राभ्यो नाभ्य उपक्रमेतानवस्थेदश्वो दशभ्यः स्वाहा विँ शतये स्वाहेति दशाभ्यासेना पञ्चाशतः ७ पञ्चाशत्प्रभृत्याज्यं जुह्वति पञ्चाशते स्वाहा शताय स्वाहा द्वाभ्याँ स्वाहेति शताभ्यासेना सहस्रात् ८ सहस्राभ्यासेनायुतात् ९ अयुताभ्यासेना १० प्रयुताय स्वाहा नियुताय स्वाहा परार्धाय स्वाहा धेनवत्सते स्वाहा विवस्वते स्वाहा ॥ व्युच्छन्त्यै स्वाहा व्युच्छन्त्याम् । व्युष्ट्यै स्वाहा व्युष्टायाम् । उदेष्यते स्वाहोदेष्यत्युद्यते स्वाहोद्यत्युदिताय स्वाहोदिते । सर्वस्मै स्वाहा स्वर्गाय स्वाहेत्यन्ततो हुत्वातिरिक्तमन्नमश्वाय निदधाति ११ उक्थ्यः शाक्वरपृष्ठो मध्यममहः १२ उपाँ श्वन्तर्यामयोः पात्रे प्रयुज्य महिम्नोः पात्रे प्रयुनक्ति सौवर्णराजते १३ आग्रायणस्थालीं प्रयुज्य प्राजापत्याद्यपात्रं प्रयुनक्ति १४ उपाँ श्वन्तर्यामौ गृहीत्वा महिमानौ गृह्णाति हिरण्यगर्भ इति द्वाभ्याम् १५ रुक्मप्रतिहितेनाद्येन तमानयति १६
इत्यश्वमेधे चतुर्थेऽध्याये द्वितीयं खण्डम्
ज्योतिर्यज्ञस्य पवते मधु घृतं पिता देवानां जनिता विभूवसुः ।
तस्यादधातु रत्नँ स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रि यो रसः ॥
इत्यश्वस्य ग्रीवासु रुक्मं प्रतिमुच्य श्येनोऽसि गायत्र इति पवमानानुमन्त्रणेनाश्वस्य पुच्छमन्वारभन्ते १ अग्निर्वृत्राणि जङ्घनदिति पवमानँ यन्त्यास्तावं प्राञ्चः २ उद्गातारमपरुणद्धिउद्गातर्निष्केण त्वा शतपलेनापरुणध्मीति ३ तमपरुध्यर्त्विजोऽपरुन्धन्ति ४ अश्वायोपरुन्धन्ति वडबाः ५ संक्रन्दयत्यश्ववडबम् ६ अश्वेनास्तावमाक्रमयन्ति ७ अश्वाक्रान्त आर्चिष्यानुपयच्छन्ति ८ उद्गातारमुपह्वयतेउद्गातर्निष्केण त्वा शतपलेनोपह्वयामीमां देवतामुद्गायन्तीमनूद्गायेति ९ स्तुते शतमानमुद्गात्रे ददाति १० सोपशयान्यूपान्संमीय पशूनुपाकरोति ११ अश्वस्तूपरो गोमृगस्ते प्राजापत्या अग्निष्ठे १२ कृष्णग्रीव आग्नेयो ललाट इत्यश्वे पर्यङ्ग्याः १३ सौर्ययामौ श्वेतश्च कृष्णश्च पार्श्वयोः १४ सौर्यँ श्वेतमुत्तरतो यामं कृष्णं दक्षिणतः १५ वायव्यः श्वेतः पुच्छा इन्द्रा य स्वपस्याय वेहद्वैष्णव इति १६ बभ्रुररुणबभ्रुरित्यनुवाकैर्यथादेवतमुपाकरोति जानपदीभिः संज्ञाभिः प्रतियज्ञाँ शे वत्सवत्या इति समान्तरानु वः किहा इति वाकैनां पुँ ससृष्टा इति वैकथितामुत्सृष्टा १७ त्र्यवय इत्यर्धहायना दित्यवाह इति द्विहायना न्यँ वाहयति भ्रापराग्न्यव्यय इति त्रिहायनाः १८ तुर्यवाह इति चतुर्हायनाः १९ पष्ठवाह इति पञ्चवर्षाः २० धूम्रा वसन्तायेत्यनुवाकाभ्यामन्वहं पशुबन्धैरिष्ट्वा सोमानामाहरेत २१ वसन्ताय कपिञ्जलानित्येकविँ शत्यनुवाकैरारण्यानुपाकरोति कुम्भेषु पन्नगानौषजलजरासु हस्तिनः पञ्जरेषु नखिनो दँ ष्ट्रिणश्च २२ यूपेषु ग्राम्यान्पशुन्नियुनक्त्यन्तरालेष्वारण्यान्धारयन्ति २३ वेतसशाखया प्राजापत्यानुपकरोति प्लक्षशाखाग्रेणेतरान् २४ युञ्जन्ति ब्रध्नमित्यश्वँ युनक्ति २५ युञ्जन्त्यस्य काम्येति रथँ युनक्ति २६ केतुं कृण्वन्निति ध्वजमुपकर्षति २७ जीमूतस्येवेति वर्माध्यूहते २८ धन्वना गा इति धनुरादत्ते २९ वक्ष्यन्तीवेति ज्यामभिमन्त्रयते ३० ते आचरन्तीति धनोरार्त्नीम् ३१ बहूनां पितेतीषुधिम् ३२ रथे तिष्ठन्निति सारथिम् ३३ तीव्रान्घोषानित्यश्वान् ३४ वनस्पते वीड्वङ्ग इत्यारोहति ३५ स्वादुषँ सद इत्यारुह्य जपति ३६ अहिरिवेति तलं बद्ध्वा जपति ३७ काशामादायार्वासि सप्तिरसीत्यश्वान्संक्षिपति ३८ आश्वासयति ३९ दुन्दुभीनाघ्नन्त्यामूरजेति ४० यद्वातोऽप इत्यश्वेनापोऽवगाहेत ४१ एतँ स्तोतरित्यावर्तयति ४२ वि ते मुञ्चामीति विमुञ्चति ४३ पत्न्योऽभ्यञ्जन्तिवसवस्त्वाञ्जन्त्विति कासाम्बवेन महिषी रुद्रा स्त्वाञ्जन्त्विति गौल्गुलवेन वावातादित्यास्त्वाञ्जन्त्विति मौस्तफाटेन परिवृक्ती ४४ त्रिसहस्रं मणीन्लोमस्ववयवेषु ग्रथ्नन्ति ४५ भूरिति हरितान्महिष्यभिषेकार्हराजपुत्राणां दुहितृशतेन सह ४६ भुव इति रजतान्वावाताराज्ञां दुहितृशतेन सह ४७ स्वरिति शङ्खमयान्परिवृक्ती सूतग्रामणीनां दुहितृशतेन सह ४८ लाभ्यस्त्वेस्वेनातमापयति ४९ होता च ब्रह्मा च ब्रह्मोद्यँ वदतो दक्षिणत आहवनीयस्य ब्रह्मोत्तरतो होता ५० कः स्विदेकाकी चरतीति पृच्छति सूर्य एकाकी चरतीति प्रत्याह ५१
इत्यश्वमेधे चतुर्थेऽध्याये तृतीयं खण्डम्
पृच्छामि त्वा परमन्तं म्पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम् ।
पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमँ व्योम ॥
इति ।
इयँ वेदिः परो अन्तः पृथिव्या अयँ यज्ञो भुवनस्य नाभिः ।
अयँ सोमो वृष्णो अश्वस्य रेतो ब्रह्मायँ वाचः परमँ व्योम ॥
इति प्रत्याह १ का स्विदासीत्पूर्वचित्तिरिति पृच्छति । द्यौरासीत्पूर्वचित्तिरिति प्रत्याह २ अन्यतरः पृच्छत्यन्यतरः प्रत्याह ३ समानमोपपायनात् ४ यद्यश्वो न पिबेत्तं ब्रूयात्
अग्निः पशुरासीत् । तमालभन्त । तेनायजन्त । स इमं लोकमजयद्यस्मिन्नग्निः । स ते लोको भविष्यति यदि पास्यसि । तस्मात्त्वान्तरेष्यामि यदि न पास्यसि ॥
वायुः पशुरासीत् । तमालभन्त तेनायजन्त । सोऽन्तरिक्षं लोकमजयद्यस्मिन्वायुः । स ते लोको भविष्यति यदि पास्यसि । तस्मात्त्वान्तरेष्यामि यदि न पास्यसि ॥
आदित्यः पशुरासीत् । तमालभन्त । तेनायजन्त । सोऽमुं लोकमजयद्यस्मिन्नादित्यः । स ते लोको भविष्यति यदि पास्यसि । तस्मात्त्वान्तरेष्यामि यदि न पास्यसि ॥
इति ५ पर्यग्निकृतानुत्सृजन्त्यारण्यान्ग्राम्याँ श्च पुरुषाँ श्च ६ शामित्रायाश्वस्य नीयमानस्य पौष्णमजमग्रतो नयन्ति ७ अधस्ताद्दर्भमास्यति ८ वासो हिरण्यरुक्मे तार्प्येणाश्वँ संज्ञपयन्ति श्यामूलेन वा ९ स्पन्द्ययेतरान् १० प्राणाय स्वाहेति संज्ञप्यमानेषु जुहोति ११ अम्ब्यम्बिक इति महिषीं पत्न्य उदानयन्ति १२ सव्यान्ग्रन्थान्कृत्वा नव कृत्वः पशून्प्रसव्यं परियन्तिगणानां त्वा गणपतिँ हवामह इति पर्यायैर्वसो ममेत्यनुषजति १३ आहमजानीति महिष्यनुपरिविष्यति १४ तौ सहेति पादान्प्रसारयन्स्वर्गे लोके प्रोर्णुवातामित्यहतेन वाससा पादतोदशेन प्रच्छाद्य वृषा वामश्व इति सँ हितप्रजननयोः पत्नीँ यजमानोऽनुमन्त्रयते १५ ऊर्ध्वामेनामुञ्श्रापयेति महिषीं पत्न्य उदानयन्ति १६ गायत्री त्रिष्टुबिति पर्यायैः शूचीभिरसिपथान्कल्पयति द्वाभ्यां द्वाभ्यामेकैका हरिणीभिर्महिषी रजताभिर्वावाता लोहमयीभिः परिवृक्त्यसंलभनायाशाल्मीपिष्टैरवलिप्य १७ वपाभिः प्रचरन्ति सह प्राजापत्यानाँ सहेतरेषाम् १८ नाश्वस्य वपा भवति १९ चन्द्रं नाम मेदः २० तदस्य वपास्थाने २१ प्रजापतये हयस्य छागस्य गोमृगस्य चन्द्र वपानां मेदस इति प्राजापत्यानाँ संप्रैषः । विश्वेभ्यो देवेभ्यश्छागानामुष्ट्राणां मेषाणाँ वपानां मेदस इतीतरेषाम् २२ अभितो वपा महिमानौ जुहोति २३ हुत्वा परिवप्यौ परिवाप्यमानाभ्याँ सूकरविकर्तमश्वं निकृन्तति २४ तस्य पवमानो लोहितँ श्रपयति २५ दक्षिणाकाले काममात्रा दक्षिणा ददाति २६ यदि कामान्नापयेदिषुष्टं ब्राह्मणानामन्नं दद्याद्भूमिपुरुषवर्जं प्राच्यां दिश्यध्वर्यवे दक्षिणस्यां ब्रह्मणे प्रतीच्याँ होत्र उदीच्यामुद्गात्रे २७
इत्यश्वमेधे चतुर्थेऽध्याये चतुर्थं खण्डम्
प्रात्यँ सिँ हचर्मण्यभिषिञ्चन्त्यृषभचर्माध्यधि धारयन्तिसहस्रशीर्षा पुरुष इति शतकृष्णलँ रुक्मँ शतातृण्णमुपरिष्टाद्दधाति हिरण्यगर्भ इति पूर्वासाँ सप्तानां प्रथमानां पुरस्तादपानभृत इत्युपरिष्टान्मासनामानि हुत्वा प्रातर्हस्तं गृह्णाति ५ जागतान्विष्णुक्रमान्क्रामति ६ प्राजापत्यं चरुशेषं पालाशपात्रेष्वासिच्य मध्यतःकारिणोऽभिषिञ्चन्ति ७ वि रक्षो वि मृधो जहीति मुखँ विमृष्टे ८ प्रचरणकाल उत्तरत आहवनीयस्य वैतसे कटऽश्वस्यावद्यति तैजने दक्षिणतोऽन्येषां पशूनाम् ९ पुरस्तादाहवनीये वैतसं कटमास्तीर्य तस्मिन्प्राजापत्यान्संचिनोति प्राञ्चमश्वं प्राञ्चं तूपरं प्रत्यञ्चं गोमृगमिति १० शादं दद्भिः स्वाहावकान्दन्तमूलैः स्वाहेति पर्यायैर्द्यावापृथिवी वर्तोभ्यामित्येतस्य पुरस्तादरण्येऽनुवाक्येन गणेन जुहोति ११ उदुह्य जांवुकं पूषणँ वनिष्ठुना ॥ मा नो मित्रः ॥ समिद्धो अञ्जन्निति त्रिभिरनुवाकैराहुतीर्जुहोति १२ द्विपदाभिरन्ततो हुत्वा स्विष्टकृतं प्रत्यश्वलोहितं जुहोतिअग्नये स्विष्टकृते स्वाहेति गोमृगकण्ठेनाश्वशफेन चरुणा १३ सर्वस्तोमोऽतिरात्र उत्तममहः १४ ऐकादशिनानालभते १५ समानमावभृथात् १६ आवभृथके कर्मणि कृते शुक्लस्य खलतेर्विक्लिधस्य पिङ्गाक्षजटिलगांभवस्यावभृथमवसृप्तस्य मूर्धनि जुहोतिजम्बुकाय स्वाहा ब्रह्महत्यायै स्वाहेति १७ नव सौरीर्वशा श्वेता अनुबन्ध्याः १८ तासाँ वपासु हूयमानासु प्रतिवातं पापकृतस्तिष्ठेताध्वर्युः पापान्मुच्यते १९ पापाद्वासवपाश्वँ सत्वाप्ल तस्मिन्साण्डं त्वाष्ट्रँ सकिकिदीविविदीगयमित्युपाकरोति २० सोदवसनीये सँ स्थिते पशुबन्धेन यजते २१ त्रिशाखो यूपोऽष्टाश्रयः शाखापृथुकपालानि तन्त्रँ स्वरुरपहरति २२ त्वैतानां प्रथमः कालकमेविवभ्रुस्तं मध्यमे विशाखयूप आश्विनमालभेत २३ तयोर्द्वितीयस्तं भौमं दक्षिणार्धे २४ यस्तृतीयस्तमूर्ज उत्तरार्धे २५ पशूनां पुरोडाशमनु मृगारेष्टिं निर्वपति २६ सहस्विष्टकृदिडं मृगारेष्टिपशुपुरोडाशानां च २७ तस्मिन्सँ स्थिते द्वादश ब्रह्मौदनान्श्रपयति २८ तान्महर्त्विजः प्राश्नन्ति २९ तेभ्यो द्वादश द्वादश रुक्मान्ददाति ३० संतिष्ठतेऽश्वमेधः ३१ तरति मृत्युं तरति पाप्मानं तरति ब्रह्महत्याँ योऽश्वमेधेन यजते यश्चैव देविकाप्रभृतिभिरिष्टिभिर्यजते यजते ३२
इत्यश्वमेधे चतुर्थेऽध्याये पञ्चमं खण्डम्
इति चतुर्थोऽध्यायः
Reference:
Caland, W., and Vira, Raghu, eds., VŒrŒhaêrautaSªtra being the main ritualistic sªtra of the MaitrŒyaö´ êŒkhŒ, (Delhi: Meharchand Lachhmandas, 1971).