काठकगृह्यसूत्र

काठकगृह्यसूत्र

उपनयनप्रभृति व्रतचारी स्यात् १ मार्गवासाः २ संहतकेशः ३ भैक्षाचार्यवृत्तिः ४ सशल्कदण्डः ५ सप्तमुञ्जां मेखलां धारयेत् ६ न मधुमांसे अश्नीयात् ७ क्षारलवणवर्जी ८ आचार्यस्याप्रतिकूलः ९ सर्वकार्यास्वतन्त्रः १० पूर्वोत्थायी जघन्यसंवेशी ११ यदेनमुपेयात्तदस्मै दद्यात् १२ बहूनां येन संयुक्तः १३ नास्य शय्यामाविशेत् १४ न रथमारुहेत् १५ न संवस्त्रयेत १६ सर्वाणि सांस्पर्शकानि स्त्रीभिः सह वर्जयेत् १७ न मुषितां प्रेक्षेत १८ न विहारार्थं जल्पेत् १९ न रुच्यर्थं किञ्चन धारयेत २० न स्नायात् २१ उदकं वाभ्युपेयात् २२ यदि स्नायाद्दण्ड इवाप्सु परिप्लवेत् २३ मुण्डो जटिलः शिखी वा २४ सायं प्रातः सन्ध्यामुपासीत २५ तिष्ठेत्पूर्वाम् २६ आसीतोत्तराम् २७ ॐ भूर्भुवः स्वरित्युक्त्वा तत्सवितुरिति सावित्रीमन्वाह २८ प्रागस्तमयान्निष्क्रम्य समिध आहरेद्धरिणीर्ब्रह्मवर्चसकाम इति श्रुतिः २९ सायं प्रातः सन्ध्यानिःसरणं भैक्षचरणमग्नीन्धनम् ३० सायमेवाग्निमिन्धीतेत्येके ३१ भैक्षस्याचरणे दोषः पावकस्यासमिन्धने सप्तरात्रमकृत्वैतदवकीर्णिव्रतं चरेत् ३२ १

विभूरसीत्यनुवाकेनाग्निमुपस्थायैधोऽसीति समिधमादधाति समिदिति द्वितीयामिदमहमिति तृतीयामिदमहमग्नाविति चतुर्थीम् १ तेजोऽसीत्यग्निमनुमन्त्रयते तेजो मयि धेहीत्यात्मानं शेषेणोपतिष्ठते २ ततः प्रातः प्रागुदयात् ३ द्वादश चतुर्विंशतिं षट्त्रिंशतमष्टाचत्वारिंशतं वा वर्षाणि यो ब्रह्मचर्यं चरति मलज्ञुरबलः कृशः सर्वं स विन्दते स्नात्वा यत्किंचिन्मनसेच्छत्येतेनैव धर्मेण साध्वधीते ४ २

छन्दस्यर्थान्बुद्ध्वा स्नास्यन्गां कारयेदाचार्यमर्हयेत् १ श्रोत्रियोऽन्यो वेदाध्यायी २ न तस्य स्नानम् ३ अथास्य स्नानम् ४ व्रजपरिहितं प्रपाद्य जटाश्मश्रुलोमनखमभिसंहार्यापो हि ष्ठेति तिसृभिः स्नायाद्धिरण्यवर्णा इति च द्वाभ्यां हिरण्यवर्णाः श्चुयाः पावका यासु जातः कश्यपो यास्विन्द्रः । या अग्निं गर्भं दधिरे विरूपास्ता न आपः शं स्योना भवन्तु । हिरण्यवर्णा श्चुयः पावका विचक्रमुर्हित्वावद्यमापः शतं पवित्रा वितता ह्यासां ताभिर्मा देवाः सविता पुनात्विति शं न इति च द्वाभ्याम् ५ द्यौस्ते पृष्ठमिति छत्रं धारयेत् ६ ग्न इति हिरण्यम् ७ प्रतिष्ठे स्थो देवते मा मा हिंसिष्टमिति वाराह्या उपानहौ प्रतिमुञ्चते ८ द्विवस्त्रोऽत ऊर्ध्वम् ९ तस्माच्छोभनं वासो भर्तव्यमिति श्रुतिः १० वैणवदण्डधारी नित्यं छत्रधार्यपन्थदायी ११ अदत्तहरणं प्रतिषिद्धम् १२ अपरया द्वारा निःसरणम् १३ मलवद्वाससा सह संभाषा १४ रजोवाससा सह शय्या १५ गुरोर्दुरुक्तवचनम् १६ अस्थाने स्मयनं सरणं गायनं नर्तनं तस्य चेक्षणम् १७ ३

अथातोऽष्टाचत्वारिंशत्संमितम् १ तत्र विधिविशेषः २ नियमेष्वाचार्यप्रधानः स्यात् ३ निलयार्थी यूनबद्धं न प्रविशेत् ४ अनिलयः स्यात् ५ अन्यत्र वृक्षाद्वाल्मीकाद्वा ६ निस्तान्तवमित्येके ७ यथोक्तमेकं तु वासः शाणी कुतपं वा ८ परिमितमुरः प्रमाणमुपरिजानु ९ चतुर्थकालपानभक्षः १० असञ्चयवान् ११ अहरहर्वा भैक्षमश्नीयात् १२ अहस्तिष्ठेद्रा त्रावासीत १३ उभयं मुनिव्रतः स्यात् १४ स्त्रीशूद्र पतितरभसरजस्वलैर्वा न संभाषेतेति च्यवनो भृगुः १५ द्वादशरात्रं वोभयत्र १६ अमावस्यां पौर्णमासीं च १७ पालाश्यः समिधो नित्याः परिधिवृक्षाणां वा १८ मेधां मह्यमिति पाणिमार्गं दत्त्वा त्रिषवणमहोरात्रमुदकोपस्पर्शनम् १९ नमो हमाय मोहमायेति चानुसवनम् । नमो हमाय मोहमायाग्नये वैश्वानराय तपाय तापसाय तपन्ताय विन्दवे विन्दाय वसुविन्दाय सर्वविन्दाय नमः पाराय सुपाराय पारयन्ताय नम ऊर्म्याय सूर्म्याय नमश्च्यवनाय भार्गवायेत्येता एव देवतास्तर्पयन्नुदकेन २० एष संवत्सरं चरित्वा विमलो विपापो भवति २१ सर्वेषां वेदानां चरितब्रह्मचर्यो यदि नान्यत्कुरुते २२ स तु खलु चरितब्रह्मचर्यो दश दश पुरुषान्पुनाति पूर्वापरानात्मानं चैकविंशं पंक्तिं च यावदनुपश्यति यस्यामुपविशति २३ समाप्त एतासामेव देवतानामन्नस्य जुहोति २४ धेनुर्दक्षिणा २५ ४

कृच्छ्रविधिं व्याख्यास्यामः १ देवासो यथाचरन्वसवो रुद्रा आदित्या मरुदङ्गिरसः पुरा २ स्त्रीशूद्रं नाभिभाषेत ३ नक्तमासीत संश्रितः ४ सर्वाण्यहानि तिष्ठेत् ५ ब्रह्मचारी ६ क्षपाशयः ७ मधुमांसलवणश्राद्धानि वर्जयेदविचारयन् ८ गवाजिनं शाणीचीरं कुतपं मार्गं वा वास उच्यते ९ सर्वाकुशलमोक्षाय मरुतोऽप्याचरंस्तथा १० त्र्यहं सायं त्र्यहं प्रातस्त्र्यहं भुञ्जीतायाचितम् । त्र्यहं नैव तु भुञ्जीतैतद्वसुभी रुद्रै रादित्यैश्चरितं व्रतम् ११ एष एवातिकृच्छ्रस्य विधिरेवं विधीयते १२ एतेष्वेव तु कालेष्वेकैकं पिण्डं प्राश्नीयात् १३ ५

तप्तकृच्छ्रं व्याख्यास्यामः १ त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत् । त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षः परं त्र्यहम् २ बृहस्पतेस्तु कूर्चस्य एष एव विधिः स्मृतः ३ यवागूं यावकं शाकं पयः सर्पिः कुशोदकम् । त्र्यहं त्र्यहं तु प्राश्नीयाद्वायुभक्षः परं त्र्यहम् ४ ६

अथ सान्तपनम् १ मरुतां होमो मरुतस्तर्पयेत् २ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ३ एतदेव त्रिरभ्यस्तं महासान्तपनं स्मृतम् ४ ७

अथात्र व्रतोपायनम् १ वसवो व्रतपतयो रुद्रा व्रतपतय आदित्या व्रतपतयो मरुदङ्गिरसो व्रतपतय इति व्रतमालभ्य वसूनद्भिस्तर्पयेत्प्रथमस्मिंस्त्रिरात्रे रुद्रा न्द्वितीय आदित्यांस्तृतीये मरुदङ्गिरसश्चतुर्थे २ आ मे गृहा इति द्वाभ्यां वसूनां स्थालीपाकस्य जुहोति ३ असङ्ख्यातेति दशभी रुद्रा णाम् ४ कदा चन स्तरीरसीति पञ्चभिरादित्यानाम् ५ सान्तपना इति षड्भिर्मरुद्गणानां त्वामग्ने अङ्गिरसो वायुरग्रेगा इति च ६ हव्यवाहमिति स्विष्टकृतम् ७ ८

वर्षासु श्रवणेनाध्यायानुपाकरोति १ स जुहोत्यप्वा नामासि तस्यास्ते जुष्टीयं गमेयमहमिद्धि पितुष्परि मेधामृतस्य जगृभ अहं सूर्य इवाजनि स्वाहा । रन्तिर्नामासि युक्तिर्नामासि योगो नामासीत्युत्तरास्तिस्रः । तस्यास्त इति सर्वत्रानुषजति २ युजे स्वाहोद्युजे स्वाहा युक्त्यै स्वाहा योगाय स्वाहेत्यन्तेवासिनां योगमिच्छन् ३ दधिक्राव्ण इति त्रिर्दधि भक्षयित्वा दर्भपाणिः सावित्रीं त्रिरन्वाहादितश्च त्रीननुवाकान्कस्त्वा युनक्तीति च ४ तस्यानध्यायः ५ न विद्योतमाने न स्तनयति ६ आकालिकं देवतुमुलं विद्युद्धन्वोल्का ७ आचारेणान्ये ८ अत्यक्षराः शब्दाः संततवलीकप्रस्रावः ९ अर्धपञ्चमान्मासानधीत्य पञ्चार्धषष्ठान्वोत्सृजत उत्सृजामहेऽध्यायान्प्रतिविश्वसन्तु छन्दांसि कस्त्वा विमुञ्चतीति च १० तस्यानध्यायोऽमावस्यां पक्षिणीं नाधीते ११ नात ऊर्ध्वमभ्रेषु १२ ९

अथोपनिषदर्हाः १ ब्रह्मचारी सुचरिती मेधावी कर्मकृद्धनदः प्रियो विद्यया वा विद्यामन्विच्छंस्तानि तीर्थानि ब्रह्मणः २ १०

नवं नवावसानं समं समूलं समवस्रावं समवस्रुत्य वा यस्मात्प्रागुदीचीरापो निर्द्र वेयुः प्रत्यगुदीचीर्वा तस्मिन्प्राग्द्वारं दक्षिणद्वारं वा शरणं कारयेत् १ मध्यमायाः कर्ते प्रागग्रोदगग्रान्दर्भानास्तीर्य तेषु स्थूणामवदधाति ध्रुवां सिनोम्यमृतस्य पत्नीं क्षेमे तिष्ठ घृतमुक्षमाणा । तां त्वा स्थूणे सर्ववीराः सुवीरा अरिष्टवीरा इह संविशेम । इहैव स्थूणे अमृतेन रोहाश्ववतो गोमत्यमृतवती सूनृतावती । ऊर्जस्वती पयस्वती चास्मान्स्थूणे पयसाभ्यववृत्स्व । आ त्वा कुमारस्तरुण आ वत्सो जगता सह । आ त्वा परिस्रुतः कुम्भ आ दध्नः कलशैरयमिति २ प्राञ्चं वंशं समारोपयत्यृतेन स्थूणामधिरोह वंशोग्रो विराजन्नपसेध शत्रून् । अथा रयिं सर्ववीरा वयं त इति ३ उत्तरपूर्वं समाधानम् ४ ११

अमीवहा वास्तोष्पत इति चतसृभिर्वास्तोष्पतीयस्य स्थालीपाकस्येष्ट्वाथ वास्त्वाविशेत् अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः । वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवा नः । यत्त्वेमहि प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे । वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व । वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा न इति १ वंशोद्वीक्षणिकं ब्राह्मणान्भोजयेत् २ १२
इति लौगाक्षिसूत्रे गृह्यपञ्चिकायां प्रथमोऽध्यायः


अथ पाकयज्ञः १ चतुर्विधः पाकयज्ञो भवति हुतोऽहुतः प्रहुतः प्राशितश्चेति २ हुतो हुतानाम् ३ उपहारोऽहुतानाम् ४ पिण्डपितृयज्ञः प्रहुतानाम् ५ मधुपर्को ब्रह्मौदनश्च प्राशितानाम् ६ दर्शपूर्णमासप्रकृतयः पाकयज्ञाः ७ तेष्वावृदुपचारस्तूष्णीम् ८ अनर्थलुप्तम् ९ प्रयाजाभावाच्चोपभृत् १० १३

उदगयने भार्यां विन्देत १ कृत्तिकास्वातिपूर्वैरिति वरयेत् २ लक्षणिना लक्षणानि परीक्षयेत् ३ भागधेयमपि वा पिण्डैः परीक्षयेत् ४ वेद्याः सीताया ह्रदाद्गोष्ठादादेवनादादहनाच्चतुष्पथादिरिणात्संभार्यं नवमम् ५ ऋतमेव परमेष्ठ्यृतं नात्येति किञ्चन । ऋत इयं पृथिवी श्रिता सर्वमिदमियमसौ भूयादिति कन्याया नाम गृहीत्वा सर्वतः कृतलक्षणान्पिडान्पाणावादाय कुमार्या उपनामयेत् ६ एतेषामेकं गृहाणेति ब्रूयात् ७ पूर्वेषां चतुर्णामेकं गृह्णतीमुपयच्छेत् ८ संभार्यमपीत्येके ९ रोहिणीमृगशिरः श्रविष्ठा उत्तराणीत्युपयमे १० यद्वा पुण्योक्तम् ११ १४

अथ ब्रह्मदेयायाः प्रदानविधिं वक्ष्यामः १ श्द्धुपक्षस्य पुण्याहे पर्वणि वोदगग्रान्दर्भानास्तीर्य तेषूपविशतः प्राङ्मुखः प्रतिग्रहीता सामात्यः प्रत्यङ्मुखः प्रदाता २ मध्ये प्रागग्रोदगग्रान्दर्भानास्तीर्य तेषूदकं संनिधाय व्रीहियवानोप्य दक्षिणत उदङ्ङासीन ऋत्विगुपयमनं कारयेत् ३ समेतेष्वाह ददानीति प्रतिगृह्णामीति त्रिरावेदयते ४ एतद्वः सत्यमित्युक्त्वा समाना वः सं वो मनांसीत्यृत्विगुभौ समीक्षमाणो जपति ५ १५

अथ श्ल्कुदेयायाः १ हिरण्यं व्यतिहरतः २ प्रजाभ्यस्त्वेति प्रददाति ३ रायस्पोषाय त्वेति प्रतिगृह्णाति ४ कंसे हिरण्यं समुप्य हिरण्यवर्णा इति चतसृभिः समवमृशन्ते ५ १६

गौदानिकैर्मन्त्रैः कन्यामलंकृत्य चतुष्पादे भद्र पीठे प्राङासीनायाश्चतस्रोऽविधवा माता पिता च गुरुः सप्तमस्तां सहस्रच्छिद्रे ण पवित्रेण स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोतीन्द्रा य स्वाहेन्द्रा ण्यै स्वाहा कामाय स्वाहा भगाय स्वाहा ह्रियै स्वाहा श्रियै स्वाहा लक्ष्म्यै स्वाहा पुष्ट्यै स्वाहा विश्वावसवे गन्धर्वराजाय स्वाहेति १ नाडीं तूणवं मृदङ्गं पणवं सर्वाणि च वादित्राणि गन्धोदकेन समुपलिप्य कन्या प्रवादयते श्नुं वद दुन्दुभे सुप्रजास्त्वाय गोमुख प्रक्रीडयन्तु कन्याः सुमनस्यमानाः सहेन्द्रा ण्या कृतमङ्गला इति २ प्रतिसखि प्रक्रीडयत्येकमहर्द्वे वाहोरात्रे ३ १७

यज्ञियस्य वृक्षस्य प्रागायतां शाखां सकृदाच्छिन्नां सूत्रतन्तुना प्रच्छाद्य सावित्रेण कन्यायै प्रयच्छति १ या तेऽलक्ष्मीर्मातृमयी पितृमयी संक्रामणी सहजा वापि काचित् । तां तिष्येण सह देवतया निर्भजामि निर्णुदामि सा द्विषन्तं गच्छतु तिष्यबृहस्पतिभ्यां नमो नम इति २ तस्या उत्सर्गः स्थावरोदके श्चुऔ! वा देवतायतने ३ १८

अथातो हविष्यकल्पं व्याख्यास्यामः १ दशवार्षिकं ब्रह्मचर्यं कुमारीणां द्वादशवार्षिकं वा २ ब्रह्मचर्यान्ते गन्धर्वे देवकुले वा द्वावग्नी प्रज्वाल्य द्वौ पशू उपाकरोत्यर्यम्णे दक्षिणं प्राजापत्यमुत्तरम् ३ असंभवे त्वेकपशुः ४ तण्डुलैर्वा कुर्यात् ५ यथास्थानं पर्श्युथास्थानमवदानानि तथा हविः ६ अग्निं सोमं वरुणं मित्रमिन्द्रं बृहस्पतिं स्कन्दं रुद्रं वात्सीपुत्रं भगं भगनक्षत्राणि कालीं षष्ठीं भद्र कालीं पूषणं त्वष्टारं महिषिकां च गन्धाहुतिभिर्यजेत ७ १९

अथातो हविष्यपुण्याहः १ उदकान्तं गत्वा यथोपपत्ति वा पयसि स्थालीपाकं श्रपयित्वा सर्वगन्धैः फलोत्तरैः सशिरस्कां स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोतीन्द्रा णी वरुणानी गन्धर्वाण्युदकान्यग्निर्जीवपुत्रः प्रजापतिर्महाराजः स्कन्दोऽर्यमा भगः प्रजानक इति २ २०

यामेव द्वितीयां रात्रिं कन्यां विवाहयिष्यन्स्यात्तस्यां रात्र्यामतीते निशाकाले नवां स्थालीमाहृत्य पयसि स्थालीपाकं श्रपयित्वा सर्वगन्धैः फलोत्तरैः सशिरस्कां स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोत्यग्नये सोमाय मित्राय वरुणायेन्द्रा योदकाय भगायार्यम्णे पूष्णे त्वष्ट्रे राज्ञे प्रजापतय इति १ एता एव देवताः पुंसः कुम्भं वैश्रवणमीशानं च यजेत २ २१

चतस्रोऽष्टौ वाविधवाः शाकपिण्डीभिः स्त्रियोऽन्नेन च ब्राह्मणान्भोजयित्वा वीणागायिभिः सह संगायेयुरपि वा चतुरो नर्तनं कुर्यात् । क्रीडं वः शर्धो मारुतमनर्वाणं रथेश्भुं कण्वा अभिप्रगायतेति १ अक्षतसक्तूनामग्निं पुष्टिपतिं प्रजापतिं च यजेत अग्निना रयिमश्नवत्पोषमेव दिवे दिवे यशसं वीरवत्तमम् । प्रजापते न हि त्वदन्य इति च २ सर्वत्रोद्वाहकर्मस्वनादिष्टदेवतेष्वग्निं पुष्टिपतिं प्रजापतिं च यजेत ३ २२

अथ प्रास्थानिकम् १ तस्मिन्यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा पश्चाद्भगिनी सिचं गृह्णाति शस्त्रं गृहीत्वा २ पूषा मेति यान्ति यत्रोदकम् ३ शं नो देवीरित्युपस्पृश्य प्राची दिगिति यान्ति यथादिशम् ४ २३

षडर्घ्यार्हा भवन्त्याचार्य ऋत्विग्राजा विवाह्यः प्रियः स्नातक इति १ अथैनमर्हयन्ति २ आदौ च कर्मणः ३ अर्घ्यमुदकं सौषधं दर्भा इति ४ कंसे चमसे वा दध्यासिच्य मधु च वर्षीयसापिधाय विष्टराभ्यां परिगृह्य पाद्यप्रथमैः प्रतिपद्यन्ते ५ मयि दोहोऽसि विराजो दोहः पाद्यायै विराजो दोहमशीयेत्याह्रियमाणमनुमन्त्रयते ६ विष्टरोऽसि मातरि सीदेति विष्टरमास्तीर्य तस्मिन्नुपविशति ७ विष्टर आसीनायैकैकं त्रिः प्राह ८ नैव भो इत्याह न मार्षेति ९ शं नो देवीरित्यपोऽभिमन्त्र्! य पाद्याभिः प्रक्षालयते दक्षिणं पादमवनेनिज इदमहमस्मिन्कुले ब्रह्मवर्चसं दधाम्युत्तरं पादमवनेनिज इदमहं मयि तेजो वीर्यमन्नाद्यं प्रजां पशून्ब्रह्मवर्चसं दधामीति १० आपोहिष्ठीयाभिरर्घ्यं परिगृह्य सावित्रेण मधुपर्कं विष्टरोऽस्यन्तरिक्षमधिविश्रयस्वेति विष्टरमवकृष्योरु त्वेत्यवसार्य तच्चक्षुरित्यवेक्ष्य पृथिव्यास्त्वेति विष्टरे निधाय मधु वात ऋतायत इति तिसृभिः प्रदेशिन्या प्रदक्षिणमालोडयति ११ वसवस्त्वाग्निराजानो भक्षयन्तु पितरस्त्वा यमराजानो भक्षयन्तु रुद्रा स्त्वा सोमराजानो भक्षयन्त्वादित्यास्त्वा वरुणराजानो भक्षयन्तु विश्वे त्वा देवा बृहस्पतिराजानो भक्षयन्त्विति प्रदक्षिणं प्रतिदिशं प्रतिमन्त्रं पात्रस्यान्तेषु लेपान्निमार्ष्टि १२ यन्मधुनो मधव्यस्य परमस्यान्नाद्यस्य परममन्नाद्यं रूपं तेनाहं मधुनो मधव्यस्य परमस्यान्नाद्यस्य परमोऽन्नादो मधव्यो भूयासं । त्रय्यै विद्यायै यशोऽसि श्रियै यशोऽसि यशसे ब्रह्मणो दीप्तिरसि सत्यश्रीर्यशः श्रीर्मयि श्रीः श्रीः श्रयतामिति मधुपर्कस्य चतुष्प्राश्नात्यङ्गुष्ठद्वितीयाभिः कनिष्ठया प्रथममेवमनुपूर्वं सर्वाभिस्तदवशिष्टं सुहृदे प्रयच्छति १३ आचामत्यमृतोपस्तरणमसीति १४ तस्मा असिपाणिर्गां प्राह १५ तां शास्ति मम चामुष्य च पाप्मानं जहि हतो मे पाप्मा पाप्मानं मे हतॐ कुरुतेति १६ चतुरो नानागोत्रान्ब्राह्मणान्भोजयेत् १७ एष आद्य उपायः १८ यद्युत्सृजेन्माता रुद्रा णामिति जपेत् । माता रुद्रा णां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धितृणमघ्न्ये विश्वदानीं पिब श्द्धुमुदकमाचरन्ती ओ३मुत्सृजत तृणान्यत्त्वित्युक्त्वा तामुत्सृष्टां पश्मुङ्गं वा १९ नामांसो मधुपर्कः स्यादिति ह विज्ञायते २० अपि वा घृतौदन एव स्यात् २१ २४
इति लौगाक्षिसूत्रे गृह्यपञ्चिकायां द्वितीयोऽध्यायः


अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् । समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवा इत्युदाहारं प्रहिणोति १ शमीशाखया सपलाशयापिधायाहरेत् २ एतासामेवापामुदकार्थान्कुर्वीत ३ शं न आपो धन्वन्याः शं नः सन्त्वनूप्याः । शं नः समुद्रि या आपः शमु नः सन्तु या इमा इत्यकेवलाभिरद्भिः स्नातां या अकृन्तन्या अवयन्या अतन्वत याश्च देवीरन्ताँ अभितोऽददन्त । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मतीदं परिधत्स्व वास इत्यहतं वासः परिधाप्याशासानेत्यन्तरतो मौञ्जेन दार्भेण योक्त्रेण वा संनह्यति । आशासाना सौमनसं प्रजां सौभाग्यं रयिम् । अग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कम् ४ प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् । यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति । पूषा त्वेता नयतु हस्तगृह्याश्विनौ त्वा प्रवहतां रथेन । गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमावदासि । मा विदन्परिपन्थिनो य आसीदन्ति दम्पती सुगेभिर्दुर्गमतीतामपद्रा न्त्वरातय इति उदानीय ५ उक्तं वाससः कर्म ६ आचारिकाणि ७ तूष्णीं निर्मन्थ्यं भ्राष्ट्रात्सान्तपनं यत्रदीप्यमानं वा बहिरग्निमुपसमाधाय परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं विलीनोत्पूतं कृत्वाघारादाज्यभागान्तं हुत्वापरेणाग्निमनो रथं वावस्थाप्य योगे योग इति युनक्ति दक्षिणमितरमुत्तरामितराम् ८ तूष्णीं विमुच्य खे रथस्य खेऽनसः खे युगस्य शतक्रतो अपालामिन्द्र स्त्रिष्पूत्वा करोतु सूर्यवर्चसमिति हिरण्यं निष्टर्क्यं बद्ध्वाध्यधि मूर्धनि दक्षिणस्मिन्युगतर्द्मन्यद्भिरवक्षारयते शं ते हिरण्यमिति । शं ते हिरण्यं शमु सन्त्यापः शं ते मेथी भवतु शं युगस्य तर्द्म । शं त आपः शतपवित्रा भवन्त्वेना पत्या तन्वा संसृजस्वेति ९ दक्षिणतः पुमान्भवति १० अथ जुहोत्यग्नये जनिविदे स्वाहा सोमाय जनिविदे स्वाहा गन्धर्वाय जनिविदे स्वाहा ११ आयुषः प्राणमिति सन्तनीर्जुहोति १२ जयाभ्यातानान्राष्ट्रभृतश्च १३ तानि यथोक्तम् १४ आधिपत्यानि जुहोति १५ आकूत्या इति त्रिभिस्त्वेत्यन्तैः १६ हिरण्यगर्भ इत्यष्टाभिः प्रत्यृचम् १७ भूः स्वाहेति महाव्याहृतिभिश्चतसृभिः १८ अग्न आयूंषीत्याग्निपावमानीभिश्च तिसृभिः १९ हुत्वा हुत्वा कन्याया मूर्धनि संपातानवनयेद्या ते पतिघ्नी तनूरपतिघ्नीं ते तां करोमि स्वाहा । या तेऽपुत्रिया तनूः पुत्रियां ते तां करोमि स्वाहा । या तेऽपशव्या तनूः पशव्यां ते तां करोमि स्वाहेति त्रिभिः २० उदगग्नेर्दर्भेषु प्राचीमवस्थाप्य शुचिः पुरस्तात्प्रत्यङ्ङुपयन्ता देवस्य ते सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णामीति हस्तं गृह्णाति दक्षिणमुत्तानं साङ्गुष्ठं नीचारिक्तमरिक्तेनैवं सव्यं सव्येन २१ गृभ्णामीति चतस्रो वरं वाचयति गृभ्णामि ते सुप्रजास्त्वाय हस्तौ मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः । तां पूषञ्शिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् । सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयोऽहं मनुष्यज इति २२ ततो गाथा वाचयति सरस्वति प्रेदमवेत्यनुवाकम् । उभावित्येके २३ यदि पृथक्तन्त्रं प्रदक्षिणमग्निमानीय तत्रैवोपवेश्य संस्थापयेत् २४ एककर्मणि तन्त्र उत्तरेणाग्निं प्रत्येत्य ततो विवाहः २५ य इमे द्यावापृथिवी इत्यादय उद्वाहे होमा जयप्रभृतयश्च नैककर्मणि तन्त्रे स्विष्टकृदाज्यभागौ च २६ पश्चादग्नेर्दर्भेषु सा त्वमसीति वाचयति । सा त्वमस्यमोऽहममोऽहमस्मि सा त्वं ता एहि विवहावहै पुंसे पुत्राय कर्तवे रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति २७ अग्निमभिदक्षिणमानीयेह्यश्मानमिति वरं दक्षिणेन पदाश्मानमास्थापयति । एह्यश्मानमातिष्ठाश्मेव त्वं स्थिरो भव । कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतमिति । आतिष्ठेममिति वधूम् । आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव । प्रमृणीहि दुवस्यवः सहस्व पृतन्यत इति २८ आज्यस्याञ्जलावुपस्तीर्येदं हविरित्यभिमृश्याथास्यै शमीलाजानावपति भ्राता ब्रह्मचारी वा २९ तानविच्छिन्दती जुहोत्यर्यमणं नु देवमिति अर्यमणं नु देवं कन्या अग्निमयक्षत । सोऽस्मान्देवो अर्यमा प्रेतो मुञ्चातु मामुष्य गृहेभ्यः स्वाहा ३० अग्निर्मा जनिमानिति वाचयति । अग्निर्मा जनिमाननया जनिमन्तं करोतु जीवपत्निर्भूयासम् ३१ इयं नारीति सर्वत्रानुषजति । इयं नार्युपब्रूते तोक्मान्यावपन्तिका । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो ममेति ३२ एवं द्विरुत्तरम् ३३ पर्ययणे पर्ययणे लाजहोमो याजमानं चाश्मानं चास्थापयति ३४ गन्धर्वं पतिवेदनमिति गन्धर्वं पतिवेदनं कन्या अग्निमयक्षत । सोऽस्मान्देवो गन्धर्वः प्रेतो मुञ्चातु मामुष्य गृहेभ्यः स्वाहा ३५ सोमो मा ज्ञातिमानिति वाचयति । सोमो मा ज्ञातिमाननया ज्ञातिमन्तं करोतु जीवपत्निर्भूयासम् ३६ त्र्यम्बकं यजामह इति । त्र्यम्बकं यजामहे सुगन्धिं पतिपोषणम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामुष्य गृहेभ्यः स्वाहा ३७ पूषा मा पश्मुआ!निति वाचयति । पूषा मा पश्मुआ!ननया पश्मुन्तं करोतु जीवपत्निर्भूयासम् ३८ शिष्टान्स्विष्टकृते जुहोति शूर्पेण कर्ता ३९ वरो दक्षिणा ४० तूष्णीं हस्तौ विमुच्य वि ते मुञ्चामीति संनहनम् ४१ उत्तरतोऽग्नेर्दर्भेषु प्राचीं प्रक्रामयत्येकमिषे द्वे ऊर्जे त्रीणि रायस्पोषाय चत्वारि मयोभवाय पञ्च प्रजाभ्यः षडृतुभ्यो दीर्घायुत्वाय सप्तमं सखा सप्तपदा भव सुमृडीका सवस्वति मा ते व्योम संदृशे विष्णुस्त्वान्वेत्वित्यनुषङ्गः ४२ तच्चक्षुरित्यादित्यमुपस्थापयति ४३ अस्तमितेऽग्निम् ४४ जीवन्तीं ध्रुवं स्वस्त्यात्रेयं दर्शयत्यरुन्धतीं च । एतेषामेकैकं पश्यसीत्याह पश्यामीति प्रत्याह ४५ सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतनेति वीक्षिताननुमन्त्रयते ४६ उदुत्तममिति प्रागुदीचीमावसथं यतीमनुमन्त्रयते यतो वा स्यात् । उदुत्तममारोहन्ती व्यस्यन्ती पृतन्यतः । मूर्धानं पत्युरारोह प्रजया च विराड् भव । इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु । दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि । सम्राज्ञी श्वश्रुए! भव सम्राज्ञी श्वश्वां भव । ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु स्नुषाणां श्वश्रुआ!णां च प्रजायाश्च धनस्य च । पतीनां देवराणां च सजातानां विराड्भवेति ४७ २५

पुण्याहे युङ्क्ते । योगे योग इति युनक्ति १ अङ्कन्यङ्का अभितो रथं ये ध्वान्ता वाताग्रमभि ये संपतन्ति । दूरेहेतिः पतत्रिणी वाजिनीवांस्ते नोऽग्नयः प्रप्रयः पारयन्त्विति चक्रे अनुमन्त्रयते २ खे रथस्य खेऽनसः खे युगस्य च तर्द्मसु खे अक्षस्य खे अवदधामीति युगतर्द्मसु शमीशाखामवदधाति ३ सुकिंश्कुं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् । आरोह सूर्ये अमृतस्य योनिं स्योनं पत्ये वहतुं कृणुष्वेत्यारोपयते ४ मा विदन्परिपन्थिनः सुमङ्गलीरिति च प्रवाहयते ५ संकाशया विवहतं ब्रह्मणा गृहैरघोरेण चक्षुषा मैत्रेण । पर्याणद्धं विश्वरूपं यदस्याः स्योनं पतिभ्यः सविता कृणोतु तदिति वधूसंगमे ६ ये पथीनामिति चतुष्पथेषु जपतीमे चत्वार इति च ७ ये श्मशानेष्विति श्मशानेषु । ये श्मशानेषु पुण्यजनाः शावास्तेषु शेरते । अत्रैव ते रमन्तां मा वधूरन्ववेक्षतेति ८ ये वनेष्विति महावनं महावृक्षं दृष्ट्वा ९ इह रडिरिति क्रूरं दृष्ट्वा १० नमो अस्तु सर्पेभ्य इति सर्पान् ११ ये तीर्थानीति तीर्थे ता मन्दसानेति च । ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे । कृतं तीर्थं सुप्रमाणं श्भुस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् । अयं नो मह्याः पारं स्वस्ति नेषद्वनस्पतिः । सीरा नः सुतरा भव दीर्घायुत्वाय वर्चसे । अश्मन्वती रीयते संरभध्वमुत्तिष्ठत प्रचरता सखायः । अत्रा जहाम ये आसन्नशेवाः शिवान्वयमुत्तरेमाभि वाजानिति १२ २६

शं न इति नदीं तरति १ य ऋत इति रथाङ्गेऽवशीर्णे । य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता सन्धिं मघवा पुरूवसुर्निष्कर्ताविह्रुतं पुनरिति २ अपराह्णेऽधिवृक्षसूर्ये गृहानुपयायोर्जं बिभ्रतीति गृहान्प्रतिदृश्य जपति । ऊर्जं बिभ्रती वसुवनिः सुमेधा गृहानागां मोदमाना सुवर्चाः । अघोरेण चक्षुषाहं मैत्रेण गृहाणां पश्यन्ती वय उत्तिरामि । गृहाणामायुः प्र वयं तिराम गृहा अस्माकं प्रतिरन्त्वायुः । गृहानहं सुमनसः प्रपद्ये वीरघ्नी वीरपतिः सुशेव । इरां वहतो घृतमुक्षमाणांस्तेष्वहं सुमनाः संविशामि । येषां मध्येऽधिप्रवसन्नेति सौमनसं बहु । गृहानुपह्वयामहे ते नो जानन्तु जानतः । सूनृतावन्तः स्वधावन्त इरावन्तो ह सामदाः । अक्षुध्या अतृष्या गृहा मास्मद्बिभेतन । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु मे । उपहूता भूरिधनाः सखायः साधुसंमदाः । अरिष्टाः सर्वपुरुषा गृहा नः सन्तु सर्वदेति ३ २७

उलपराजीं स्तृणात्या शयनीयात् १ तया प्रविशति २ अध्याहिताग्निं सोदकं सौषधमावसथं प्रतिपद्यते ३ रोहिण्या मूलेन वा यद्वा पुण्योक्तमपरेणाग्निमानडुहे रोहिते चर्मण्युपविश्यापि वा दर्भेष्वेव जयप्रभृतिभिर्हुत्वाग्निरैतु प्रथम इति च । अग्निरैतु प्रथमो देवतानां सोऽस्याः प्रजां नयतु सर्वमायुः । तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं निरुन्ध्यात्स्वाहा । अग्निरिमां त्रायतां गार्हपत्यः सोऽस्याः प्रजां मुञ्चतु मृत्युपाशात् । अरिक्तोपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामियं स्वाहा । मा ते गृहे निशि घोर उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । जीवपुत्रा पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा । मा ते कुमारः स्तनधः प्रमायि मा त्वं विकेश्युर आवधिष्ठाः । स्तनं धयन्तं सविताभिरक्षत्वा वाससः परिधानाद्बृहस्पतिर्विश्वे देवा अभिरक्षन्तु नित्यं स्वाहा । अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि यास्यां भृशा तनूस्तामस्या नाशय स्वाहा । वायो प्रायश्चित्ते । सूर्य प्रायश्चित्ते । चन्द्र प्रायश्चित्ते । विष्णो प्रायश्चित्ते । विष्णो प्रायश्चित्ते । चन्द्र प्रायश्चित्ते । सूर्य प्रायश्चित्ते । वायो प्रायश्चित्ते । अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि यास्यां भृशा तनूस्तामस्या नाशय स्वाहा । त्र्! यायुषं जमदग्नेः कश्यपस्य त्र्! यायुषम् । यद्देवानां त्र्! यायुषं तन्मे अस्तु त्र्! यायुषमिति ४ आज्यस्यैकदेशे दध्यासिच्य दधिक्राव्ण इति त्रिर्दधि भक्षयित्वा माणवकायोत्सङ्ग इडामग्न इति फलानि प्रददाति ५ २८

तूष्णीमुपचरितं स्थालीपाकं श्रपयित्वा तस्याग्निमिष्ट्वा प्रजापतिं च शेषं प्राश्नीतः । अन्नमेव विवननमन्नं संवननं स्मृतम् । अन्नं पशूनां प्राणोऽन्नं ज्येष्ठं भिषक् स्मृतम् । अन्नमयेन मणिना प्राणसूत्रेण पृश्निना । सिनोमि सत्यग्रन्थिना हृदयं च मनश्च ते । सह वाचा मनो अस्तु सह चित्तं सह व्रतम् । चक्रमिवानडुहः पदं मामेवान्वेतु ते मनः । मां चैव पश्य सूर्यं च मा चान्येषु मनः कृथाः । चाक्रवाकं संवननं मम चामुष्याश्च भूयादिति १ २९

संवत्सरं ब्रह्मचर्यं चरतो द्वादश रात्रीः षट् तिस्र एकां वा १ तौ संविशतः २ अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । इह प्रजामिह रयिं रराणः प्रजायस्व प्रजया पुत्रकाम । अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋद्ध्यै नाधमानाम् । उप मामुच्चा युवतिर्बभूयाः प्रजायस्व प्रजया पुत्रकामे । प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिः सहसा न इन्द्रः । विश्वैर्देवैर्यज्ञियैः संविदानः पुंसां बहूनां मातरः स्याम । अहं गर्भमादधाम्योषधीष्वहं विश्वेषु भुवनेष्वन्तः । अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अवरीषु पुत्रानिति स्त्र्! यादिव्यत्यासं जपतः ३ एवमेवर्तौ प्रजाकामौ संविशतः ४ करदिति भसदमभिमृशति ५ भसदित्युपरिजननम् ६ बृहदिति जातम् ७ इति गर्भाधानम् ८ ३०

तृतीये गर्भमासे सीमन्तं कारयते १ श्द्धुपक्षस्य पुण्याहे पर्वणि वा यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा पश्चादग्नेर्दर्भेषु प्राङासीनायाः सर्वान्केशान्संप्रमुच्य प्रसाधयते यं सीमन्तमिति । यं सीमन्तं कङ्कतस्ते चकार यद्वा क्षुरः परिववर्ज वपंस्ते । स्त्रीषु रूपमश्विनौ तं निधत्तं पौंस्येनेमं संसृजतं वीर्येण । इन्द्रा णी चक्रे कङ्कतं स सीमन्तं विसर्पतु । पुनः पतिभ्यो जायां दा अग्ने प्रजया सह । पुनः पत्नीमग्निरदादायुषा सह वर्चसा । दीर्घायुरस्या यः पतिर्जीवाति शरदः शतमिति २ त्रिःश्येतया शलल्या शमीशाखया सपलाशया वा सीमन्तं विचिनोति यास्ते राक इति ३ अथास्याः पृथक्केशपक्षौ संनह्यति नीललोहितेन सूत्रेण नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यतामिति ४ यो गुरुस्तमर्हयेत् ५ एतदेव कुमारीणां सटोद्धरणमत्रैवानुलेपनम् ६ ३१

अथ पुंसवनम् १ भूयिष्ठगतेषु गर्भमासेषु त्रीन्स्थालीपाकाञ्श्रपयेदाग्नेयमैन्द्रं वैष्णवं च २ तेषां यथादेवतं जुहोति । अग्निस्तुविश्रवस्तममिन्द्र क्षत्रं प्र तद्विष्णुः । पुमानित्यभिजुहोति । पुमानग्निः पुमानिन्द्रः पुमान्विष्णुरजायत पुमांसं जनयेत्पुत्रं दशमे मासि सूतवे । येन जातेन विभुना जीवेम शरदः शतं पश्येम शरदः शतमिति तं नो मंहस्व शतिनं सहस्रिणं गोसनिमश्वसनिं वीरं स्वाहा ३ ३२

अथ सोष्यन्तीसवनम् १ विजनिष्यमाणाया अद्भिः पाणिं स्रवन्तं शिरस्याधाया हृदयादभिमृशेद्यथायं वातः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणावपद्यतामिति २ क्षिप्रमेव प्रजायते ३ ३३

पुत्रे जाते नाम धीयते १ घोषवदाद्यन्तरन्तस्थं चतुरक्षरम् २ यथोपपत्ति वा ३ अग्निमत्रानीय तस्मिन्नाज्यभागान्तं हुत्वा सहिरण्यकांस्ये संपातानवनयेद्धिरण्यगर्भः संवत्सरस्य प्रतिमां काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा प्रजापतये स्वाहा प्रजापते नहि त्वदन्य इति च द्वाभ्याम् ४ अग्नेरायुरसीति हिरण्येन मुखं मेध्यं कृत्वा पाणिना मुखमद्भिः संस्पृश्य प्रक्षाल्य स्तनावनुमन्त्रयते मधु वात ऋतायत इति तिसृभिः प्रत्यृचमुभा उत्तमया ५ हिरण्येन संपातान्संनिघृष्य मधु चेत्येके तन्मुखे कृत्वा प्रपाययत्यायुर्धय जरां धय सत्यं धय श्रियं धयोर्जं धय रायस्पोषं धय ब्रह्मवर्चसं धय ६ जीव शरदः शतं पश्य शरदः शतमिति मूर्धनि निघ्राप्य स्वस्त्ययनं वाचयति ७ ३४

सर्षपान्फलीकरणमिश्रान्दर्व्या जुहोति शण्डो मर्कोपवीतस्तौण्डुलेयः उलूखलश्चपलो नश्यतामितः स्वाहा । अनालिखन्नवलिखन्किंवदन्त उलूखलश्चपलो नश्यतामितः स्वाहा । हर्यक्ष्णः कुम्भिः शक्तिर्हन्ता चुपणीमुखश्चपलो नश्यतामितः स्वाहा । केशिनी श्वलोमिनी कवकेशावकाशिन्यपेतो नश्यतामितः स्वाहेति १ एवं सायंप्रातर्दशाहं जुहुयात् २ ३५

दशम्यां तस्मिन्नेवाग्नौ पयसि स्थालीपाकं श्रपयित्वा सर्वगन्धैः फलोत्तरैः सशिरस्कं स्नापयित्वाहतेन वाससा प्रच्छाद्य स्थालीपाकस्य जुहोति कया नश्चित्र इति द्वाभ्यां कया तच्छृण्वे प्रजापतये स्वाहा प्रजापतये नहि त्वदन्य इति च द्वाभ्याम् १ अग्नेरायुरसीति तुल्यमा ललाटाभिमर्शनात् २ तदेव नाम धीयते ३ अन्यदित्येके ४ प्राक् स्विष्टकृतः कांस्ये पूतमाज्यमासिच्य हिरण्यं चाबन्धनीयमग्नेरायुरित्यवधाय तस्य जुहोतीन्द्र स्य प्राण इति पञ्चभिः ५ प्राक् संस्थितयजुषो ब्रह्मा घृते हिरण्यमवपद्यते सर्वे च ऋत्विजो यदसर्प इति ६ पावमानेनेत्युद्धृत्य देवा आयुष्मन्त इति यजमानाय प्रयच्छति ७ तत्पिबति निरवधयेद्धिरण्याद्घृतम् ८ प्रक्षाल्येममग्न इति हिरण्यमाबध्नाति ९ तस्य ललाटमभिमृश्याश्विनोः प्राण इति जपति १० अङ्गादङ्गात्संभवसि हृदयादभि जायसे । आत्मा वै पुत्रनामासि जीव शरदः शतं पश्य शरदः शतमिति मूर्धनि निघ्राप्य स्वस्त्ययनं वाचयति ११ एवमत ऊर्ध्वं विप्रोष्यैवं मासि मासि स्थालीपाकस्येष्ट्वा जातकर्मणा वाज्यस्यैवं संवत्सरम् १२ मांसं तु नाश्नीतः १३ समाप्ते संवत्सरेऽजाविभ्यां वाग्निधान्वन्तरी इष्ट्वा सर्पिष्मदन्नं ब्राह्मणान्भोजयेत् १४ ३६

तृतीयेऽर्धमासे दर्शनमादित्यस्य १ पुण्याहे पर्वणि वोदिते त्वादित्ये रथचक्रमात्रं स्थण्डिलमुपलिप्य तस्मिन्यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा तरणिर्दिवो रुक्म उदुत्यं चित्रं देवानामित्याज्यस्य जुहोति २ मित्रो जनान्प्र स मित्रेति स्थालीपाकस्य ३ अभ्यावर्तस्वेति कुमारमभ्युदानयन्ति ४ द्रष्ट्रेनमइत्युपस्थानमादित्यस्यादृश्रन्नस्येति च ५ सर्पिष्मदन्नं ब्राह्मणान्भोजयेत् ६ ३७

एवं चन्द्र दर्शनम् १ मक्षू धाता भूयो जात इति द्वाभ्यामाज्येन चतुर्गृहीतेनाज्यभागान्ते जुहोति २ आप्यायस्व सं ते पयांसीति द्वाभ्यां स्थालीपाकस्य ३ नवो नव इत्युपस्थानम् ४ प्रकाशो दक्षिणा ५ ३८

षष्ठे मासेऽन्नप्राशनं दन्तेषु वा जातेषु १ सर्वाणि हविष्यान्नानि संयूय । आयुर्दा देव घृतप्रतीक इति हुत्वान्नपते अन्नस्येत्येतयैव कुमारमन्नं प्राशयेत् २ ३९

तृतीयस्य वर्षस्य भूयिष्ठगते चूडाः कारयते १ दक्षिणतः कपूजा वसिष्ठानाम् २ उभयतोऽत्रिकश्यपानाम् ३ मुण्डा भृगवः ४ पञ्चचूडा अङ्गिरसः ५ वाजिमेके ६ मङ्गलार्थं शिखिनोऽन्ये ७ यथाकुलधर्मं वा ८ श्द्धुपक्षस्य पुण्याहे पर्वणि वा यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा । आयमगात्सविता क्षुरेणोष्णेन वाय उदकेन एहि । आदित्या रुद्रा वसवः सचेतसः सोमस्य राज्ञो वपत प्रचेतस इत्युष्णा अपोऽभिमन्त्रयते ९ उष्णाश्च शीताश्च समेत्य सर्वा बृहस्पतिः सविता सत्यधर्मा तदनुमन्यताम् । आर्ददानव इत्यभ्युन्देत् । आर्द्र दानवः स्थ जीवदानवः स्थोन्दतीरिहैनमवताप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इति १० दक्षिणे केशान्त ओषधे त्रायस्वेति दर्भमन्तर्धाय स्वधित इति क्षुरेणाभिनिधाय येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमद्यायुष्माञ्जरदष्टिर्यथासदयमसौ । येन धाता बृहस्पतेरग्नेरिन्द्र स्य चायुषेऽवपत् । तेनास्यायुषे वप सुश्लोक्याय स्वस्तये । येन पूषा प्रजापतेरग्नेः सूर्यस्य चायुषेऽवपत् । तेनास्यायुषे वप सुश्लोक्याय स्वस्तये । येन भूयश्च रात्री ज्योक्पश्या च सूर्यम् । तेनास्यायुषे वप सुश्लोक्याय स्वस्तय इति प्रदक्षिणं प्रतिदिशं प्रतिमन्त्रं दर्भक्षुरकर्म ११ यत्क्षुरेण वर्तयता सुपेशसा वप्तर्वपसि केशान् । शुन्धि शिरो मास्यायुः प्रमोषीरिति लौहायसं क्षुरं केशवापाय प्रयच्छति १२ मा ते केशाननुगात्तेज एतत्तथा धाता दधातु ते । तुभ्यमिन्द्रो बृहस्पतिः सविता वर्च आदधुरिति प्रपततोऽनुमन्त्रयते १३ सुहृत्परिग्राह्यानुप्यमानान्हरितगोमये समवचिनोति १४ उप्त्वाय राज्ञो वरुणस्य केशान्सोमो धाता सविता विष्णुरग्निः । तेभ्यो निधानं बहुधान्वविन्दन्नन्तरा द्यावापृथिवी अवस्युरिति प्रागुदीचीं ह्रियमाणाननुमन्त्रयते १५ अरिक्ते पर्याश्रेषयत इति श्रुतिः १६ कर्त्रे वरं ददाति १७ पक्ष्मगुणं तिलपेशलं केशवापाय प्रयच्छति १८ सर्पिष्मदन्नं ब्राह्मणान्भोजयेत् १९ ४०

इति लौगाक्षिसूत्रे गृह्यपञ्चिकायां तृतीयोऽध्यायः

सप्तमे वर्षे ब्राह्मणस्योपायनम् १ नवमे राजन्यस्य २ एकादशे वैश्यस्य ३ आ षोडशाद्ब्राह्मणस्यानतिक्रम आ द्वाविंशाद्रा जन्यस्या चतुर्विंशाद्वैश्यस्य ४ स्नातोप्तकेशे यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चक्रतुस्त्वापसस्त्वा व्यतन्वत धियोऽवयन्नव ग्ना अमृजन् । सहस्रमन्ताँ अभितोऽददन्ताशीतीर्मध्यमवयन्नु नारीरित्यहतं वासोऽभिमन्त्रयते ५ देवीर्देवाय परिधे सवित्रे परिधत्त वर्चस इमं शतायुषं कृणुत जीवसे कमिति परिधापयति ६ जरां गच्छ परिधत्स्व वासोऽभूरापीवानभिशस्तिपावा । शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व । परीमं सोमं तेजसे महे श्रोत्राय दध्मसि । यथैनं जरसं नयज्ज्योक्छ्रोत्राय जागरज्ज्योक्छ्रोत्रेऽधि जागरदिति ब्राह्मणस्य । परीममिन्द्र मोजसे महे क्षत्राय दध्मसि । यथैनं जरसं नयज्ज्योक्क्षत्राय जागरज्ज्योक्क्षत्रेऽधि जागरदिति राजन्यस्य । परीमं मनुमायुषे महे पोषाय दध्मसि । यथैनं जरसं नयज्ज्योक्पोषाय जागरज्ज्योक्पोषेऽधि जागरदिति वैश्यस्य । परीदं वासोऽधिथाः स्वस्तये भवापीवानभिशस्तिपावा । शतं च जीव शरदः सुवीरो वसूनि चोग्रो विभजस्व जीवन्निति परिहितवाससमनुमन्त्रयते योगे योगे युवा सुवासा इति चैताभ्याम् ७ अग्निमभिदक्षिणमानीय एह्यश्मानमातिष्ठाश्मेव त्वं स्थिरो भव । कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतमिति दक्षिणेन पदाश्मानमास्थापयति ८ मम व्रते हृदयं ते ददामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्यमिति नाभिदेशादूर्ध्वं पाणिनोन्मार्ष्टि ९ दधिक्राव्ण इति त्रिर्दधि भक्षयित्वा ब्रह्मचर्यमागामुप मा नयस्वॐ भूर्भुवः स्वरिति वाचयति १० इयं दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमाभजन्ती सुखा देवी सुभगा मेखलेयम् । ऋतस्य गोप्त्री तपस्तरुत्री घ्नती रक्षः सहमाना अरातिम् । सा नः समन्तमनुपरेहि भद्रे भर्तारस्ते मेखले मा रिषाम । श्रद्धाया दुहिता तपसोऽधि जाता स्वसर्षीणां मन्त्रकृतां बभूव । सा मा मेखले परिरेरिहस्व मयि धेहि तप इन्द्रि यं चेति वाचयन्मेखलामाबध्नीते ११ मौञ्जीं त्रिवृतं ब्राह्मणाय प्रयच्छति मौर्वीं धनुर्ज्यां राजन्याय सौत्रीं वैश्याय १२ चित्तस्य समोऽसि दैव्यो ग्रन्थिरसि मा विस्रंस इति ग्रन्थिं कृत्वा मित्रस्य चक्षुर्धरुणं बलाय तेजो यशस्वि स्थविरं समृद्धम् । अनाहनस्यं वसनं चरिष्णु परीदं वाज्यजिनं दधेऽयमिति वाचयन्नैणेयं चर्म ब्राह्मणाय प्रयच्छति वैयाघ्रं राजन्याय रौरवं वैश्याय १३ तच्चक्षुरित्यादित्यमुपस्थापयति १४ को नामासीत्युक्तेऽभिवादने प्रोक्तेऽसा अहं भो इति प्रत्याह १५ देवस्य ते सवितु प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसा उपनयेऽसौ । सविता ते हस्तमग्रहीदग्निराचार्यस्तव । कस्त्वा कमुपनयेऽसौ काय त्वा परिददामि । कस्य ब्रह्मचार्यसि । प्राणस्य ब्रह्मचार्यस्मीति प्रत्याह १६ प्रजापतये त्वा परिददामि । देवाय त्वा सवित्रे परिददामि । बृहस्पतये त्वा परिददाम्यसौ । देव सवितरेष ते ब्रह्मचारी तं गोपायस्व दीर्घायुः स मा मृत । अग्निपुत्रैष ते । वायुपुत्रैष ते । सूर्यपुत्रैष ते । विष्णुपुत्रैष ते । ब्रह्मपुत्रैष ते ब्रह्मचारी तं गोपायस्व दीर्घायुः स मा मृत । ब्रह्मचार्यसि । अपोऽशान । कर्म कुरु । दिवा मा सुषुप्सीः । वाचं यच्छ १७ मेधां मह्यमिति वाचयति । मेधां मह्यमङ्गिरसो मेधां सप्तर्षयो ददुः । मेधामग्निश्च वायुश्च मेधां धाता ददातु मे । मेधां मे वरुणो राजा मेधामग्निर्ददातु मे । मेधामिन्द्र श्च सूर्यश्च मेधां देवी सरस्वती । या मेधा अप्सरःसु गन्धर्वेषु च यन्मनः । दैवी मनुष्ये या मेधा सा मामाविशतादिह । शरीरं मे विचक्षणं वाङ्मे मधुमद्दुहे । निशामितं निशामये मयि श्रुतम् । यन्मेऽनूक्तं तद्र मतां शकेयं यदनुब्रुवे । प्रियाः श्रुतस्य भूयास्म मेधया संविधीमहि । अवृधमहमवृधस्त्वमसौ सोम्य प्राणस्त्वं मे गोपाय ब्रह्मण आणी स्थ श्रुतं मे मा प्रहासीदिति १८ एताभिरेव चतसृभिरनुप्रवचनीयाञ्जुहुयाद्यजुषोत्तमां छन्दोभ्यः स्वाहेति क्रतुनामधेयेन यथोपाचरितः क्रतुर्भवत्येवं सर्वाणि वेदोक्तानि १९ पश्चादग्नेर्दर्भेषु प्राङासीनः प्रत्यङ्ङासीनाय तत्सवितुरिति सावित्रीं त्रिरन्वाह पच्छोऽर्धर्चशः सर्वामन्ततो यश्च मेधाकामः स्यात् २० पालाशमेकसरं दण्डं नवनीतेनाभ्यज्य तस्य छायायां वाचयति सुश्रवः सुश्रवा असि यथा त्वं सुश्रवा अस्येवं मा सुश्रवः सौश्रवसं कुरु । यथा त्वं सुश्रवो देवानां वेदस्य निधिगोपोऽस्येवमहं ब्राह्मणानां ब्रह्मणो वेदस्य निधिगोपो भूयासमिति २१ पालाशं दण्डं ब्राह्मणाय प्रयछत्याश्वत्थं राजन्याय नैयग्रोधं वैश्याय २२ स्मृतं च म इति वाचयति । स्मृतं च मेऽस्मृतं च मे तन्मे उभयव्रतम् । निन्दा च मे अनिन्दा च मे तन्मे उभयव्रतम् । विद्या च मे अविद्या च मे तन्मे उभयव्रतम् । श्रद्धा च मे अश्रद्धा च मे तन्मे उभयव्रतम् । सत्यं च मे अनृतं च मे तन्मे उभयव्रतम् । मृतं च मे अमृतं च मे तन्मे उभयव्रतम् । श्रुतं च मे अश्रुतं च मे तन्मे उभयव्रतम् । व्रतं च मे अव्रतं च मे तन्मे उभयव्रतम् । यद्ब्राह्मणस्य ब्रह्मणि व्रतं यदग्नेः सेन्द्र स्य सप्रजापतिकस्य सर्षिकस्य सपितृकस्य समनुष्यस्य समनुष्यराजन्यस्य सगन्धर्वाप्सरोजनस्कस्य ससर्पेतरजनस्कस्य सौषधिवनस्पतिकस्य सह ग्राम्यैः पशुभिरारण्यैश्च साकाशस्य सप्रकाशस्य सातीकाशस्य सानूकाशस्य सह यन्म आत्मन आत्मनि व्रतं तन्मे सर्वव्रतम् । इदमहमग्नौ समिधमभ्यादधाम्यग्ने सर्वव्रतो भवामि २३ अधीते हैतेषां वेदानामेकं द्वौ त्रीन्सर्वान्वा यमेवं विद्वानुपनयत इति श्रुतिः २४ कर्त्रे वरं ददाति २५ अहःशेषं स्थापयेत् २६ व्याख्यातं ब्रह्मचर्यम् २७ ४१

त्रैविद्यकम् १ आचार्यस्य विधिः २ यो वेदमधीते पुरस्ताच्चोपरिष्टाच्चांहोमुग्भिः समिधोऽभ्यादध्यात् ३ उक्तं व्रतोपायनविमोचनम् ४ ४२

अथातश्चातुर्हौतृकम् १ ब्रह्मचारिकल्पेन व्रतमुपैति २ संवत्सरमष्टौ मासांश्चतुरो मासान्वा ३ श्द्धुपक्षस्य पुण्याहे पर्वणि वा यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा पूर्वेणाग्निं दर्भस्तम्भं निहत्य ब्राह्मणं दक्षिणत उपवेश्य हिरण्यवर्णा इति चतसृभिः समिधोऽभ्यादध्यात् ४ नित्ये व्रतोपायने ब्राह्मणा व्रतपतय इति चतुर्थम् ५ अथ व्रतहोमांश्चतुर्गृहीतैश्चतुर्होतृभिराज्येन तेजस्कामो यावकेन पश्कुआ!मोऽन्नाद्येन वीर्यकामः पयसि स्थालीपाकं श्रपयित्वा ब्रह्मवर्चसकामः ६ मनसैकैकं हुतमनुमन्त्रयते ७ यद्वेदव्रतं तदत्र व्रतम् ८ विकाराननुक्रमिष्यामो न चतुर्भिः सहासीत न चतुर्णां समक्षं भुञ्जीत न चतुर्भिः सह भुञ्जीतैकतमो वा ९ एवमपवर्गे १० वास आचार्याय ददाति वरं दक्षिणत आसीनाय ११ ४३

षोडशे वर्षे गोदानमग्नौ वा समाप्ते १ तद्व्याख्यातं जातकर्मणा २ दर्भेष्वासीनं दर्भानध्यधिकृत्य हिरण्यं चाभिषिञ्चत्यग्निकीभिर्वा राजसूयिकीभिर्वा या आपो दिव्या इति द्वाभ्याम् ३ एवं राजानं सावीर्हि देवेति चानुवाकेन यथोक्तमक्रत्वज्यानिम् ४ सर्वान्नं हविष्यं क्षीरोदकाभ्यां पितुं नु स्तोषम् इत्यादिनानुवाकेन संयूय तस्यौडुम्बरेण स्रुवेण जुहोति वाजस्य नु प्रसव इति च चतुर्दशभिः ५ यस्य न जुहुयात्तदाग्नीषोमीयस्येध्मेऽपि प्रोक्षेच्छेष उदकमासिच्य तेनाभिशिञ्चति ६ ४४

अथैकाग्नेः समाधानम् १ परमेष्ठिमरणे पुत्रस्याग्निसमाधानम् २ सर्वानुपवासयेत् ३ तमग्निं प्रज्वालयेदाकालमुपव्युषम् ४ माषकणमन्थेनौदुम्बरेण कंसेनाग्निं शमयेद्धिरण्यपाणिं सवितारं वायुमिन्द्रं प्रजापतिम् । देवाँ अङ्गिरसो हवामह इमं क्रव्यादं शमयन्त्वग्निमिति ५ काशानामूते कटे भस्म समोप्य प्रस्थापयेत् क्रव्यादमग्निं प्रहिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः । इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन्निति ६ निर्दग्धमिति दक्षिणापरस्यां दिशि चतुष्पथे निधायोपधानं सीसं च तस्मिन्नध्यधिमार्जयन्ते सीसे मलिम्लुचामहे शीर्ष्णा चोपबर्हणे । क्रव्यादः समया मृष्ट्वा तं प्रेत सुदानव इति ७ अपास्मदेत्विति चतसृभिरुपस्थाय शं नो देवीरित्युपस्पृश्य प्रतीपमायन्तः पदानि लोभयन्ते नडैर्वेतसशाखया वा मृत्योः पदं लोभयन्त इति । मृत्योः पदं लोभयन्तो यदीमो द्रा घीय आयुः प्रतरं दधानाः । आप्यायमानाः प्रजया धनेन श्द्धुआः! पूता भवत यज्ञियास इति ८ अत्रैव शाखां निदध्युः ९ अनड्वाहं पुरस्कृत्य व्रजन्त्यनड्वाहं प्लवमिति । अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितानि विश्वा । आरोहत सवितुर्नावं हिरण्मयीं षड्भिरूर्मिभिरमृतत्वं तरेमेति १० प्रत्यागतानक्षतधूममुपस्पर्श्य गवाग्निना च प्रदक्षिणमग्निं त्रिः परियन्ति परीमे गामनेषतेति । परीमे गामनेषत पर्यग्निमहृषत । देवेष्वक्रत श्रवः क इमाँ आदधर्षतीति ११ उदपात्रेऽश्मानं हिरण्यं चावधायाथैनानभिमर्शयन्तेऽश्मन्वतीरिति । अश्मन्वती रीयते संरभध्वमुत्तिष्ठत प्रचरता सखायः । अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजानिति १२ ४५

शुचिर्भूतः पितृभ्यो दद्यात् १ औपवस्त्रं भुक्त्वा कुतश्चिदग्निमानीय तं जागरयीतोपशयीत च २ उपकाश उपशान्ते भस्मोद्धृत्य ३ पार्थिवान्संभारान्पूर्वया न्युप्य ४ उत्तरया व्यूह्य ५ तमपरेण यथोत्पादितमुत्पाद्य ६ जानुदघ्नं धारयित्वादधाति भूर्भुवरङ्गिरसामिति पूर्वेण सुगार्हपत्य इति च । सुगार्हपत्यो विनुदन्नरातीरुषामुषां श्रेयसीं श्रेयसीं नः । दीर्घायुत्वाय शतशारदायाधीयस्व महते सौभगायेति ७ सहिरण्या वानस्पत्याः समिध आधाय ८ तुल्येन पूर्णाहुती हुत्वाग्नेयेन स्थालीपाकेन पश्नुआ! वा यजेत ९ गौर्वासः कंसो हिरण्यं च दक्षिणा १० ४६

एष औपसदोऽग्निर्वैवाहनो वा १ तस्मिन्पाकयज्ञाः २ तेषामुक्तमुपसमाधानम् ३ यथाचरितं च पवित्रसंस्करणाज्यनिर्वपणग्रहणाधिश्रयणोत्पवनमवेक्षणं च ४ प्रागाज्यभागाभ्यामुक्ता आघारौ ५ युक्तः पुरस्तादिति पञ्चभिराज्यस्य जुहोति ६ आयुषः प्राणमिति सन्तनीर्जुहोति ७ जयाभ्यातानान्राष्ट्रभृतश्च ८ वार्त्राघ्नावाज्यभागौ ९ स्विष्टकृदाज्यभागा अन्तरेणावापः १० नामधेयेन देवतां यजेत तद्देवतया वर्चाग्नेयीं वोहेदग्नीषोमीयामैन्द्रा ग्नीं वा द्विदेवतेषु वैश्वदेवीं बहुदेवतेषु ११ ऋतुतिथिनक्षत्रदेवताश्च यजेत १२ प्राक् स्विष्टकृत उपहोम इह गावोऽयं यज्ञ आ नः प्रजां । धूर्भिरुपधूर्भिश्च हुत्वेडामग्न इति स्विष्टकृतम् १३ त्वं नो अग्न इति द्वाभ्यां जुहुयादया भूरिति च सर्वप्रायश्चितानि मनो ज्योतिरिति सप्तभिः १४ परिस्तरणान्यनुप्रहरेन्नानुप्रहरेदित्येके १५ एवं सर्वा देवताश्चेज्यानि च १६ ४७

षडाहुतं प्रतिपदि पुत्रकामो ब्रह्मणाग्निः संविदान इति षड्भिराज्यस्य जुहोत्युत्तराभिः षड्भिः स्थालीपाकस्य १ सौविष्टकृते त्रयोदशीम् २ ४८

नक्षत्रयज्ञेषु नक्षत्रदेवतानामृचस्ताभिर्यजेत । अग्निर्मूर्धा हिरण्यगर्भो मरुतो यन्मृडा नो रुद्र सुत्रामाणं तव श्रिये नमो अस्तु सर्पेभ्य आहं पितॄन्सदा सुगो ये ते अर्यमंस्तत्सवितुर्य इमे द्यावापृथिवी वायुरग्रेगा इन्द्रा ग्नी रोचना मित्रो जनानिन्द्रः सुत्रामा यं ते देवी शं नो देवीर्विश्वे देवा ब्रह्म जज्ञानं वषट् ते विष्ण आ मे गृहा इमं मे वरुणोपप्रागादहिरिव भोगैः पूषा गा अन्वेतु नः प्र वां दंसांसि यमो दाधारेति प्रत्यृचम् १ ४९

अथोपहारः १ यथाचरितमन्नं साधयित्वा सावित्रेण देवतायै बलिं हरेत् २ यथाचारं जपः ३ उक्तः शेषः ४ ५०

अथ पश्कुल्प उक्तः १ पूर्वेण शाखां निहत्य २ तस्मिंस्तूष्णीं सर्वं यन्न लुप्तार्थम् ३ देवताहोमवर्जम् ४ प्रागाज्यभागाभ्यां दर्भेण पश्मुपाकरोति प्रोक्षति पाययति पर्यग्निं करोति ५ घृतमवघ्राप्यापाव्या जुहोति ६ उल्मुकं हरति ७ दर्भमास्तृणाति ८ तस्मिन्यथोक्तं संज्ञापयन्ति ९ संज्ञप्ते यथोक्तमद्भिः प्राणायतनानि स्नापयति १० उत्खिद्य वपां शाखां विशाखां च प्रच्छाद्य चरमेऽङ्गारे वपां निगृह्यान्तरा शाखाग्नी हृत्वाभिघार्य श्रपयति ११ शृतां दर्भेषूदगग्रेषु निधायाज्यभागपरिवप्यौ हुत्वा वपां देवताया उपनामयेदुप्यपरिवप्यौ हुत्वा सदर्भे वपाश्रपण्या अग्ना अनुप्रहृत्यापोहिष्ठीयाभिर्मार्जयित्वोक्तान्यवदानानि प्राक् स्विष्टकृतो देवतायै बलिं हरेत् १२ यथाचारं जप उक्तः शेषः १३ ५१

अथ शूलगवः १ सर्वेभ्यः कामेभ्यः २ शरदि वसन्ते वा ३ अनियमः स्यादित्येके ४ गवां मध्य उत्तरतो ग्रामस्य वेद्याकृतिं कृत्वा शाखाभिः परिवार्यातष्टं यूपं तूष्णीमुच्छ्रयन्ति ५ तमपरेण यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा भवाय शर्वायेशानायेश्वराय पश्पुतयेऽधिपतय इति गामुपाकरोति पशुं वा ६ प्रतिनाम प्रतिद्र व्यं प्रत्यनुवाकमिति षट् पुरोडाशानेककपालांस्तूष्णीमुपचरिताञ्श्रपयित्वा प्राक् स्विष्टकृतः षड्लोहितबलीन्पात्रेषु दर्भेषु वा कल्पयित्वा नमस्ते रुद्र मन्यव इति षड्भिरनुवाकैरुपतिष्ठत ईशानं त्वा श्श्रुमेति च सर्वत्रानुषजति ७ प्रभूतान्ब्राह्मणान्भोजयन्ति ८ नापक्वं ग्रामं प्रवेशयन्ति ९ शिष्टं भूमावर्पयन्ति सचर्म १० अनपेक्षमाणा आयान्ति ११ ५२

औपसदेऽग्नौ सायं प्रातरग्निहोत्रदेवताभ्यो जुहुयात् १ पर्वणि भार्यामुपवास्य दर्शपूर्णमासदेवताभ्यो जुहुयात् २ नवस्याग्रायणदेवताभ्योऽज्यानीभिरभिजुहुयात् ३ स्विष्टकृदनुमन्त्रणमुक्तं प्राशनं च ४ ५३

वैश्वदेवस्य सिद्धस्य सर्वतोऽग्र्यस्य जुहोत्यग्नये सोमाय मित्राय वरुणायेन्द्रा येन्द्रा ग्निभ्यां विश्वेभ्यो देवेभ्यः प्रजापतयेऽनुमत्यै धान्वन्तरये वास्तोष्पतयेऽग्नये स्विष्टकृते च १ तक्षोपतक्षाभ्यामित्यभितः २ पूर्वेणाग्निमम्बा नामासीति सप्त ३ गृह्याभ्यो नन्दिनि सुभगे सुमङ्गलि भद्रं करीति स्रक्तिष्वभिदक्षिणम् ४ स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश्चेति ५ धर्माधर्मयोर्द्वारे मृत्यवे च ६ उदधाने वरुणाय ७ विष्णव इत्युलूखले ८ मरुद्भ्य इति दृषदि ९ उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश्चेति १० इन्द्रा येन्द्र पुरुषेभ्य इति पूर्वार्धे ११ यमाय यमपुरुषेभ्य इति दक्षिणार्धे १२ वरुणाय वरुणपुरुषेभ्य इति पश्चार्धे १३ सोमाय सोमपुरुषेभ्य इत्युत्तरार्धे १४ ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये १५ ऊर्ध्वमाकाशाय १६ स्थण्डिले दिवाचरेभ्यो भूतेभ्य इति दिवा १७ नक्तंचरेभ्यो भूतेभ्य इति नक्तम् १८ शेषं पितृभ्यः पिण्डान्निदधाति १९ उदकलशमुपनिधाय स्वस्त्ययनं वाचयति २० ५४
इति लौगाक्षिसूत्रे गृह्यपञ्चिकायां चतुर्थोऽध्यायः


अथार्तवस्वस्त्ययनानि १ श्रावण्यां चत्वारि हवींष्यासादयेदपूपं स्थालीपाकं धानाः सक्तूनुभयमक्षतानाम् २ वषट् ते विष्ण इत्यपूपस्य जुहोति रात्री व्यख्यदिति स्थालीपाकस्य नमो अस्तु सर्पेभ्य इति धानानां ये वाद इति सक्तूनाम् ३ येषु वा यातुधाना इति दर्व्यावटेषु सक्तूनाम् ४ उभयत्राखुराजाय बलिं हरेदाद्यन्तयोर्वा ५ ५५

आयूतिके कपोते भयार्ते सक्तुषु भस्मनि वा पदं दृष्ट्वा देवः कपोत इत्यष्टर्चेन स्थालीपाकस्य जुहोति १ परीमे गामनेषतेति गां परिणयन्ति २ सा दक्षिणा ३ ५६

आश्वयुज्यामश्वान्महयन्ति सर्वाणि च वाहनानि १ उत्तरतो ग्रामस्य वेद्याकृतिं कृत्वा शाखाभिः परिवार्याहतैश्च वासोभिः सर्वरसैर्घटान्पूरयित्वा दिक्षु निदध्यात्सर्वबीजैश्च पात्राण्यवान्तरदिक्षु २ तमपरेण यथोक्तमुपसमाधाय जयप्रभृतिभिर्हुत्वा तिस्रो देवता यजेत वरुणमग्निमश्विनावाश्वयुजीं च ३ इज्यमानेऽश्वान्योजयन्ति सर्वाणि च वाहनानि ४ प्रदक्षिणं देवयजनं कवचिनः त्रिः परियन्ति ५ प्रहर्षान्कुर्वन्ति ६ इष्टे यथार्थं संप्रयान्ति ७ गौर्वासः कंसो हिरण्यं च दक्षिणा ८ रसा बीजानि वासांसि ९ ५७

अथ गोमतां विधिः १ इह प्रजा यासामूधः पृषदश्वा घृतप्रतीक इति पृषातकस्य जुहोति २ अम्भः स्थेति लवणमभिमन्त्र्! य गोभ्यो दद्यात् ३ रौद्री भिरभिजुहुयान्नित्याभिश्च ४ दधिक्राव्ण इति पृषातकस्य प्राश्नाति ५ उपसृष्टा गावो वसन्ति ६ ५८

अथ वृषोत्सर्गः १ कार्त्तिक्यां पौर्णमास्यां रेवत्यां वाश्वयुज्यस्य गवां मध्ये सुषमिद्धमग्निं कृत्वा पौष्णं चरुं पयसि श्रपयित्वा पूषा गा अन्वेतु न इति पौष्णस्य जुहोति २ इह रडिरिति हुत्वा ३ रुद्रा ञ्जपित्वा ४ जीववत्सायाः पयस्विन्याः पुत्रमेकरूपं द्विरूपं वा यो वा यूथं छादयेद्यूथे च तेजस्वितमः स्यात्तमलंकृत्य चतस्रोऽष्टौ वा वत्सतर्यस्ताश्चालंकृत्यैतं युवानं पतिं वो ददाम्यनेन क्रीडन्तीश्चरथ प्रियेण । मा हास्महि प्रजया मा तनूभिर्मा राधाम द्विषते सोम राजन्निति ५ तस्य दक्षिणे कर्णे पिता वत्सानामिति जपित्वोत्सृज्य प्राचीमुदीचीं वा दिशं प्रकालयित्वा सह वत्सतरीभिः सर्पिष्मदन्नं ब्राह्मणान्भोजयेत् ६ ५९

आग्रहायण्यामेतान्येव चत्वारि हवींष्यासादयेद्यानि श्रावण्यां यवमयस्त्वपूपः १ एवा वन्दस्वेत्यपूपस्य जुहोति २ उप ते गा इति स्थालीपाकस्य ३ उक्तं धानासक्तूनाम् ४ अव ते हेड इति वारुणीभिरभिजुहुयान्नित्याभिश्च त्वामग्ने वृषभं चेकितानं संवत्सरस्य प्रतिमामिति च ५ उदग्दशमास्तरणमास्तीर्य शिरस्त उदकं निधाय व्रीहियवानोप्यापोहिष्ठीयाभिः शय्यामभ्युक्ष्य त्रातारमिन्द्र मिति शमीशाखया शय्यां निर्मार्ष्टि ६ ऐन्द्रा ग्नं वर्मेत्यहतं वासः परिधाय स्योना पृथिवीति दक्षिणेन पार्श्वेण संविशति ज्योतिष्मतीत्यन्तेन ७ अभ्युक्षणादिसंवेशनान्तमेवं द्विरुत्तरम् ८ चैत्र्यामुद्रो हणमुपरिशय्या नात्र स्थालीपाको न शाखया निर्मार्ष्टि ९ ६०

तिस्रोऽष्टका पितृदेवत्याः १ ऊर्ध्वमाग्रहायण्यास्त्रयस्तामिस्रास्तेष्वष्टमीष्वष्टकायज्ञाः २ प्रथमां शाकेन द्वितीयां मांसेन तृतीयामपूपैः ३ ऋतूनां पत्नीति षड् द्वे द्वे स्थालीपाकस्य जुहोति ४ देवा ग्रावाण इति सर्वत्र तृतीया ५ इयमेवेत्यनुवाकेन पञ्चभिः पञ्चभिरभिजुहुयात् ६ ६१

गवा चेदष्टका स्यात्पश्नुआ! वा तदुक्तम् १ वह वपामिति वपां जुहुयात् २ पेश्योऽवदानस्थानेऽङ्गारिणीः कुर्यात् ३ यथाकामं मज्जुका ४ ये समाना इति द्वाभ्यां स्थालीपाकस्य पेशीनां च जुहोति ५ स्विष्टकृद्धर्मेण वहान्नं वह मांसं जातवेदः पितृभ्य इति जुहुयात् ६ ६२

हविरर्हानुपवेश्य १ पितॄनावाहयिष्यामीत्युक्त्वा २ अपयन्त्वसुरा इति द्वाभ्यां तिलैः सर्वतोऽवकीर्य ३ एत पितर आगच्छत पितर आ मे यन्त्वन्तर्दधे पर्वतैरिति जपित्वा ४ यास्तिष्ठन्त्यमृता वाग्यन्मे मातेत्ययुग्भ्यः पाद्यमानीय ५ उदकानि चानयेदेताभिरेव ६ आदित्या रुद्रा वसव इत्येतान्समीक्ष्य ७ अग्नौ करवाणीत्युक्त्वा ८ अग्निं परिस्तीर्य सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इत्यग्नौ हुत्वा ९ ये मामकाः पितर एतद्वः पितरोऽयं यज्ञ इति तिसृभिः कल्पितान्नमभिमृशति १० एषा व ऊर्गामासु पक्वमिति क्षीरं घृतं वासिच्य ११ अमुष्मै स्वधा नमोऽमुष्मै स्वधा नम इति यथालिङ्गमनुमन्त्र्य भोजयेत् १२ प्राश्नन्तु भवन्त इत्युक्त्वा यन्मे प्रकामादिति भुञ्जानान्समीक्ष्याहोरात्रैर्यद्वः क्रव्यात्स्वधां वहध्वमिति चैताभिः १३ पृथिवी दर्विरिति निपरणं कुर्यात् १४ येऽत्र पितरः प्रेता इति वासांसि निदध्यात् १५ ऊर्जं वहन्तीरित्यपः परिषिच्य १६ मा मे क्षेष्ठेति सतृणमन्नमभ्युक्ष्य १७ विषदमन्नमानीय कच्चित्संपन्नं भो इति उक्त्वा तृप्यन्तु भवन्त इत्युक्त्वा १८ तृप्तानाचामयित्वा यन्मे राम इति प्रदक्षिणं कृत्वा १९ प्रत्येत्याभिरमन्तु भवन्त इत्युक्त्वा देवाश्च पितरश्चेत्यनुवाकशेषेणोपतिष्ठते २० ६३

द्वितीयस्य प्रथमोद्धृतं हविष्यैरुपसिच्य १ आवाहनादि सिद्धं संप्रदानम् २ पूर्वेण निपरणं व्याख्यातम् ३ ६४

प्रातरन्वष्टक्यम् १ एतेनैव धर्मेण संप्रदाय निपरणं कुर्यात् २ षट् कर्षूः कुर्याद्दक्षिणायताः पूर्वापराः प्रादेशमात्रीश्चतुरङ्गुलपृथ्वीस्तावदन्तरास्तावदवखाताः ३ तासां दक्षिणतः खराः ४ तेष्वग्नीन्विहृत्यावोक्ष्य कर्षूर्दक्षिणाग्रान्दर्भानास्तीर्य ५ पिण्डपितृयज्ञावृता पूर्वासु तिसृषु निधाय मज्जानमुपनिनीय दुग्धेनाभितः परिषिच्य ये चात्र रसाः स्युरेतद्भवद्भ्य इत्युक्त्वा तृप्यन्तु भवन्त इत्युक्त्वा ६ एवमपरासु स्त्रीभ्यो दद्यान्मज्जवर्जं सुरां तूपनिनीय मन्थेनाभितः परिषिच्य ये चात्र रसाः स्युरेतद्भवतीभ्य इत्युक्त्वा तृप्यन्तु भवत्य इत्युक्त्वा ७ प्रेष्याः पिण्डान्भक्षयेयुर्निषादा वाग्नौ वाप्सु वा ब्राह्मणान्वा भोजयेत् ८ ६५

अथ प्रथमश्राद्धस्याष्टकया धर्मो व्याख्यातः १ एकवन्मन्त्रानूहेत् २ पेश्यः प्रातरित्यनियमः ३ तिस्रः कर्षूः कुर्यात्त्रिष्वग्निषु कृत्वैकैकं पिण्डमुत्सृज्य प्रथमामन्नस्य पूरयेद्दधिमध्विति द्वितीयां घृतमांसमिति तृतीयाम् ४ एवं मासि मासि ५ एवं सांवत्सरिकम् ६ चतुर्थं पिण्डमुत्सृज्य त्रैधं कृत्वा पिण्डेषु निदध्यात्संसृजतु त्वा पृथिवी वायुरग्निः प्रजापतिः संसृज्यध्वं पूर्वेभिः पितृभिः सह । समाना वः सं वो मनांसीति ७ एवमुदकानि ८ ६६

अथेतरस्य श्राद्धस्याष्टकया धर्मो व्याख्यातः १ प्रथमेन पञ्चकेन २ आवाहनादि सिद्धं संप्रदानम् ३ पूर्वेण निपरणं व्याख्यातम् ४ ६७

अथेतरस्य पश्श्रुआ!द्धस्याष्टकया धर्मो व्याख्यातः १ मध्यमेन पञ्चकेन २ आवाहनादि सिद्धं संप्रदानम् ३ पूर्वेण निपरणं व्याख्यातम् ४ ६८

अथेतरस्य मासिमासिश्राद्धस्याष्टकया धर्मो व्याख्यातः १ उत्तमेन पञ्चकेन २ आवाहनादि सिद्धं संप्रदानम् ३ पूर्वेण निपरणं व्याख्यातम् ४ ६९

अथ फाल्गुन्यां तैलापूपस्य जुहोति १ अर्यमा देवता ये ते अर्यमन्निति २ अथेन्द्रा ण्याः ३ प्रससाहिष इति तुण्डिलस्य जुहोति ४ गोलका रुद्र देवत्याः ५ अदितिर्द्यौरदितिरिन्द्रा णी पत्येत्योदनयोः शाकपललाक्तयोः ६ ७०

गावो भग इति द्वाभ्यां गोयज्ञस्य १ सीरा युञ्जन्तीति तिसृभिरायोजनीयस्य २ प्रथमोत्तमाभ्यां युनक्ति ३ मध्यमया फालम् ४ श्नुं सुफाला इति प्रदक्षिणं द्वे कृषति ५ लाङ्गलं पवीरवमित्यपरे द्वे ६ घृतेन सीतेति सीतायज्ञस्य ७ या ओषधय इति बीजवपनीयस्य ८ विमुच्यध्वमिति विमोचनीयस्य ९ त्रातारमिन्द्र मिति द्वे पर्ययणस्य १० एवं प्रथमोद्वपनस्य ११ उदुत्तमं मुमुग्ध्युदुत्तमं वरुणेति वरुणयज्ञस्य १२ सं वरत्रान्हिरण्यकोशमवटमिति कूपयज्ञस्य १३ प्र वां दंसांसीति मण्डपानाम् १४ देवेभ्यो वनस्पत इति वनस्पतियज्ञस्य १५ वनस्पते वीड्वङ्ग इति रथयज्ञस्य १६ धन्वना गा इति द्वाभ्यां धनुर्यज्ञस्य १७ रात्री व्यख्यदिति द्वाभ्यां रात्रियज्ञस्य १८ ७१

समुपहतेऽद्भुते वा शान्त्यै शमीं शमुकं शाम्यवाकमश्वत्थप्लक्षन्यग्रोधोदुम्बरं दूर्वां च प्राचीनप्रसृतानि षड् दर्भपिञ्जूलानि सुमनसश्चापामार्गं सर्वबीजानि सीतालोष्टं गोमयं हिरण्यं वल्मीकवपां चाद्भिः संसृजति सं वः सृजामीति द्वाभ्याम् १ या ओषधय इत्यनुवाकेन संयूयापास्मदेत्विति चतसृभिः संप्रोक्षणम् २ देवाद्भुतेषु यन्नो भयमित्यष्टर्चेन स्थालीपाकस्य जुहोति यद्देवा देवहेडनमिति तिसृभिर्भद्रं कर्णेभिरिति चतसृभिरैन्द्रा ग्नं वर्मेति च ३ उक्तं संप्रोक्षणम् ४ धूर्भिरुपधूर्भिश्च हुत्वा पुनः संप्रोक्षणम् ५ ७२

राका होलाके १ इन्द्रा णीमासु नारिष्विति कुमारीणां यज्ञं यजेत् २ देवता अप्रज्ञायमाना आग्नेय्या यजेद्वैश्वदेव्या वा ३ स्वस्तिपुण्येष्वनादेशे त्रिकाः ४ महाव्याहृतयोऽष्टर्चं चात्र कल्पयति । अग्निर्मूर्धेति चतस्र उपप्रयन्तो अध्वरमिति द्वे कदा चन स्तरीरसीति द्वे धुरश्चोपधुरश्चोपधुरश्च ५ ७३

इति लौगाक्षिसूत्रे गृह्यपञ्चिकायां पञ्चमोऽध्यायः

Credits
Sources: The KŒÿhakag¨hyasªtra with extracts from three commentaries, an appendix and indexes, edited for the first time by Dr. Willem Caland, Lahore 1925
(same as DayŒnanda MahŒvidyŒlaya Saµsk¨ta GranthamŒlŒ, 9) Typescript: Prepared by Konrad Klaus Conversion to Devanagari using Vedapad Software by Ralph Bunker
Formatted for Maharishi University of Management Vedic Literature Collection