आपस्तम्बगृह्यसूत्रम्

आपस्तम्बगृह्यसूत्रम्
अथ प्रथमः पटलः
प्रथमः खण्डः

अथ कर्माण्याचाराद्यानि गृह्यन्ते १
उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि २
यज्ञोपवीतिना ३
प्रदक्षिणम् ४
पुरस्तादुदग्वोपक्रमः ५
तथाऽपवर्गः ६
अपरपक्षे पित्र्याणि ७
प्राचीनावीतिना ८
प्रसव्यम् ९
दक्षिणतोऽपवर्गः १०
निमित्तावेक्षाणि नैमित्तिकानि ११
अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति १२
प्रागुदगग्रैर्वा १३
दक्षिणाग्रैः पित्र्येषु १४
दक्षिणाप्रागग्रैर्वा १५
उत्तरेणाग्निं दर्भान्त्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि १६
सकृदेव मनुष्यसंयुक्तानि १७
एकैकशः पितृसंयुक्तानि १८
पवित्रयोस्संस्कार आयामतः परीमाणं प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम् १९
अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य २०
ब्राहमणं दक्षिणतो दर्भेषु निषाद्य २१
आज्यं विलाप्यापरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलताऽवद्युत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान्प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय पवित्रे अनुप्रहृत्य २२
इत्यापस्तम्बीये गृह्यप्रश्ने प्रथमः खण्डः


द्वितीयः खण्डः
येन जुहोति तदग्नौ प्रतितप्य दर्भैः संमृज्य पुनः प्रतितप्य प्रोक्ष्य निधाय दर्भानद्भिस्संस्पृश्याग्नौ प्रहरति १
शम्याः परिध्यर्थे विवाहोपनयनसमावर्तनसीमन्तचौलगोदानप्रायश्चित्तेषु २
अग्निं परिषिञ्चत्यदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनमनुमतेऽमुमन्यस्वेति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनं देव सवितः प्रसुवेति समन्तम् ३
पैतृकेषु समन्तमेव तूष्णीम् ४
इध्ममाधायाघारावाघारयति दर्शपूर्णमासवत्तृष्णीम् ५
अथाज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे समं पूर्वेण ६
यथोपदेशं प्रधानाहुतीर्हुत्वा जयाभ्यातानान्राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्युपजुहोति यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टकृत्स्विष्टकृद्विद्वान्त्सर्वँ स्विष्टं सुहुतं करोतु स्वाहेति ७
पूर्ववत्परिषेचनमन्वमँ स्थाः प्रासावीरिति मन्त्रसन्नामः ८
लौकिकानां पाकयज्ञशब्दः ९
तत्र ब्राह्मणावेक्षो विधिः १०
द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृत्याचामति निर्लेढीति ११
सर्वऋतवो विवाहस्य शैशिरौ मासौ परिहाप्योत्तमं च नैदाघम् १२
सर्वाणि पुण्योक्तानि नक्षत्राणि १३
तथा मङ्गलानि १४
आवृतश्चास्त्रीभ्यः प्रतीयेरन् १५
इन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनन्दिताः १६
इत्यापस्तम्बीये गृह्यप्रश्ने द्वितीयः खण्डः


तृतीयः खण्डः
मघाभिर्गावो गृह्यन्ते १
फल्गुनीभ्यां व्यूह्यते २
यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात् प्रियैव भवति नेव तु पुनरागच्छतीति ब्राह्मणवेक्षो विधिः ३
इन्वकाशब्दो मृगशिरसि ४
निष्ट्याशब्दस्स्वातौ ५
विवाहे गौः ६
गृहेषु गौः ७
तया वरमतिथिवदर्हयेत् ८
योऽस्यापचितस्तमितरया ९
एतावद्गोरालम्भनमतिथिः पितरो विवाहश्च १०
सुप्तां रुन्दन्तीं निष्क्रान्तां वरणे परिवर्जयेत् ११
दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत् १२
नक्षत्रनामा नदीनामा वृक्षनामाच गर्हिताः १३
सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत् १४
शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति १५
नाना बीजानि संसृष्टानि वेद्याः पांसून् क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति १६
पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः १७
उत्तमं परिचक्षते १८
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत १९
बन्धुशीललक्षणसम्पन्नश्श्रुतवानरोग इति वरसम्पत् २०
यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिर्नेतरदाद्रियेतेत्येके २१
इत्यापस्तम्बीये गृह्यपक्षे तृतीयः खण्डः
समाप्तश्च प्रथमः पटलः

अथ द्वितीयः पटलः

चतुर्थः खण्डः
सुहृदस्समवेतान्मन्त्रवतो वरान्प्रहिणुयात् १
तानादितो द्वाभ्यामभिमन्त्रयेत २
स्वयं दृष्ट्वा तृतीयां जपेत् ३
चतुर्थ्या समीक्षेत ४
अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भ संगृह्योत्तरेण यजुषा तस्या भ्रुवोरन्तरँ संमृज्य प्राचीनं निरस्येत् ५
प्राप्ते निमित्त उत्तरां जपेत् ६
युग्मान्समवेतान् मन्त्रवत उत्तरयाऽद्भ्यः प्रहिणुयात् ७
उत्तरेण यजुषा तस्याश्शिरसि दर्भेण्वं निधाय तस्मिन्नुत्तरया दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य छिद्रे सुवर्णमुत्तरयान्तर्धायोत्तराभिः पञ्चभिस्स्नापयित्वोत्तरयाऽहतेन वाससाच्छाद्योत्तरया योक्त्रेण सन्नह्यति ८
अथैनामुत्तरया दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत उत्तरो वरः ९
अग्नेरुपसमाधानाद्याज्यभागान्तेऽथैनामादितो द्वाभ्यामभिमन्त्रयेत १०
अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानँ हस्तं गृह्णीयात् ११
यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् १२
यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि गृह्णाति १३
गृभ्णामि त इत्येताभिश्चतसृभिः १४
अथैनामुत्तेरणाग्निं दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमयत्येकमिष इति १५
सखेति सप्तमे पदे जपति १६
इत्यापस्तम्बीये गृह्यप्रश्ने चतुर्थः खण्डः

पञ्चमः खण्डः
प्राग्घोमात्प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यान्वारब्धायामुत्तरा आहुतीर्जुहोति सोमाय जनिविदे स्वाहेत्येतैः प्रतिमन्त्रम् १
अथैनामुत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयत्यातिष्ठेति २
अथास्या अञ्जलावुपस्तीर्य द्विर्लाजानोप्याभिघारयति ३
तस्यास्तोदर्यो लाजानावपतीत्येके ४
जुहोति यं नारीति ५
उत्तराभिस्तिसृभिः प्रदक्षिणमग्निं कृत्वाऽश्मानमास्थापयति यथा पुरस्तात् ६
होमश्चोत्तरया ७
पुनः परिक्रमणम् ८
आस्थापनम् ९
होमश्चोत्तरया १०
पुनः परिक्रमणम् ११
जयादि प्रतिपद्यते १२
परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य तां ततः प्र वा वाहयेत् प्र वा हारयेत् १३
समोप्यैतमग्निमनुहरन्ति १४
नित्यः १५
धार्यः १६
अनुगतो मन्थ्यः १७
श्रोत्रियागाराद्वाहार्यः १८
उपवासश्चान्य तरस्य भार्यायाः पत्युर्वा १९
अनुगतेऽपि वोत्तरया जुहुयान्नोपवसेत् २०
उत्तरा रथस्योत्तम्भनी २१
वाहावुत्तराभ्यां युनक्ति दक्षिणमग्रे २२
आरोहतीमुत्तराभिरभिमन्त्रयते २३
सूत्रे वर्त्मनोर्व्यवस्तृणात्त्युत्तरया नीलं दक्षिणस्यां लोहितमुत्तरस्याम् २४
ते उत्तराभिरभियाति २५
तीर्थस्थाणुचतुष्पथव्यतिक्रमे चोत्तरां जपेत् २६
इत्यापस्तम्बीये गृह्यप्रश्ने पञ्चमः खण्डः

षष्ठः खण्डः
नावमुत्तरयाऽनुमन्त्रयते १
न च नाव्याँस्तरती वधूः पश्येत् २
तीर्त्वोत्तरां जपेत् ३
श्मशानादिव्यतिक्रमे भाण्डे रथे वा रिष्टेऽग्नेरुपसमाधानाद्यज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं करोति ४
क्षीरिणामन्येषां वा लक्ष्मण्यानां वृक्षाणां नदीनां धन्वनां च व्यतिक्रम उत्तरे यथालिङ्गं जपेत् ५
गृहानुत्तरया सङ्काशयति ६
वाहावुत्तराभ्यां विमुञ्चति दक्षिणमग्रे ७
लोहितं चर्माऽऽनडुहं प्राचीनग्रीवमुत्तरलोम मध्येऽगारस्योत्तरयाऽऽस्तीर्य गृहान्प्रपादन्नुत्तरां वाचयति दक्षिणेन पदा ८
न च देहलीमभि तिष्ठति ९
उत्तरपूर्वे देशेऽगारस्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वोत्तरया चर्मण्युपविशत उत्तरो वरः । अथास्याः पुँस्वोर्जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलान्युत्तरेण यजुषा प्रदायोत्तरे जपित्वा वाचं यच्छत आ नक्षत्रेभ्यः ११
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति १२
इत्यापस्तम्बीये गृह्यप्रश्ने षष्ठः खण्डः
इति द्वितीयः पटलः

अथ तृतीयः पटलः

सप्तमः खण्डः
अथैनामाग्नेयेन स्थालीपाकेन याजयति १
पत्न्यवहन्ति २
श्रपयित्वाभिघार्य प्राचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायाँ स्थालीपाकाज्जुहोति ३
सकृदुपस्तरणाभिघारणे द्विरवदानम् ४
अग्निर्देवता स्वाहाकारप्रदानः ५
अपि वा सकृदुपहत्य जुहुयात् ६
अग्निस्स्विष्टकृत् द्वितीयः ७
सकृदुपस्तरणावदाने द्विरभिघारणम् ८
मध्यात्पूर्वस्यावदानम् ९
मध्ये होमः १०
उत्तरार्धादुत्तरस्य ११
उत्तरार्धपूर्वार्धे होमः १२
लेपयोः प्रस्तरवत्तूष्णीं बर्हिरङ्त्त्वाग्नौ प्रहरति १३
सिद्धमुत्तरं परिषेचनम् १४
तेन सर्पिष्मता ब्राह्मणं भोजयेत् १५
योऽस्यापचितस्तस्मा ऋषभं ददाति १६
एवमत ऊर्ध्वं दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः १७
पूर्णपात्रस्तु दक्षिणेत्येके १८
सायं प्रातरत ऊर्ध्वं हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् १९
स्थालीपाकवद्दैवतम् २०
सौरी पूर्वाहुतिः प्रातरित्येके २१
उभयतः परिषेचनं यथा पुरस्तात् २२
पार्वणेनातोऽन्यानि कर्माणि व्याख्यातान्याचाराद्यानि गृह्यन्ते २३
यथोपदेशं देवताः २४
अग्निं स्विष्टकृतं चान्तरेण २५
अविकृतमातिथ्यम् २६
वैश्वदेवे विश्वे देवाः २७
पौर्णमास्यां पौर्णमासी यस्यां क्रियते २८
इत्यापस्तम्बीये गृह्यप्रश्ने सप्तमः खण्डः

अष्टमः खण्डः
उपाकरणे समापने च ऋषिर्यः प्रज्ञायते १
सदसस्पतिर्द्वितीयः २
स्त्रियाऽनुपेतेन क्षारलवणावरान्नसंसृष्टस्य च होमं परिचक्षते ३
यथोपदेशं काम्यानि बलयश्च ४
सर्वत्र स्वयं प्रज्वलितेऽग्नावुत्तराभ्यां सभिधावादध्यात् ५
आपन्माश्रीः श्रीर्मागादिति वा ६
एतदहर्विजानीयाद्यदहर्भार्यामावहते ७
त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च ८
तयोर्श्शय्यामन्तरेण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ९
तं चतुर्थ्याऽपररात्र उत्तराभ्यामुत्थाप्य प्रक्षाल्य निधायाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वाऽपरेणाग्निं प्राचीमुपवेश्य तस्याश्शिरस्याज्यशेषाद्व्याहृतिभिरोङ्कारचतुर्थाभिरानीयोत्तराभ्यां यथालिङ्गं मिथस्समीक्ष्योत्तरयाज्यशेषेण हृदयदेशौ संमृज्योत्तरास्तिस्रो जपित्वा शेषं समावेशने जपेत् १०
अन्यो वैनामभिमन्त्रयेत ११
यदा मलवद्वासाः स्यादथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि सँशास्ति यां मलवद्वासस मित्येतानि १२
रजसः प्रादुर्भावात्स्नातामृतुसमावेशने उत्तराभिरभिमन्त्रयेत १३
इत्यापस्तम्बीये गृह्यप्रश्ने अष्टमः खण्डः

नवमः खण्डः
चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ति १
अर्थप्राध्वस्य परिक्षवे परिकासने चाप उस्पृश्योत्तरे यथालिङ्गं जपेत् २
एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पतिं शकृद्रीति सिग्वातं शकुनिमिति ३
उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरं ब्रह्मचर्यं चरित्वा स्थालीपाकं श्रपयित्वाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायाँ स्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा तेन सर्पिष्मता युग्मान्द्व्यवरान् ब्राह्मणान्भोजयित्वा सिद्धिं वाचयीत ४
श्वस्तिष्येणेति त्रिस्सप्तैर्यवैः पाठां परिकिरति यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि इति ५
श्वोभूते उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया ६
वश्यो भवति ७
सपत्नीबाधनञ्च ८
एतेनैव कामेनोत्तरेणानुवाकेन सदादित्यमुपतिष्ठते ९
यक्ष्मगृहीतामन्यां वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर्यथालिङ्गमङ्गानि संमृश्य प्रतीचीनं निरस्येत् १०
वधूवास उत्तराभिरेतद्विदे दद्यात् ११
इत्यापस्तम्बीये गृह्यप्रश्ने नवमः खण्डः
समाप्तस्तृतीयः पटलः

अथ चतुर्थः पटलः

दशमः खण्डः
उपनयनं व्याख्यास्यामः १
बर्भाष्टमेषु ब्राह्मणमुपनयीत २
गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् ३
वसन्तो ग्रीष्मश्शरदित्यृतवो वर्णानुपूर्व्येण ४
ब्राह्मणान्भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वाऽनुवाकस्य प्रथमेन यजुषाऽपः संसृज्योष्णाश्शीतास्वानीयोत्तरया शिर उनत्ति ५
त्रींस्त्रीन् दर्भानन्तर्धायोत्तराभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं प्रवपति ६
वपन्तमुत्तरयानुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७
आनडुहे शकृत्पिण्डे यवान्निधाय तस्मिन्केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति ८
स्नातमग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाधाप्योत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयत्यातिष्ठेति ९
वासःसद्यःकृत्तोतमुत्तराभ्यामभिमन्त्र्योत्तराभिस्तिसृभिःपरिधाप्य परिहितमुत्तरयानुमन्त्रयते १०
मौञ्जीं मेखलां त्रिवृतां त्रिःप्रदक्षिणमुत्तराभ्यां परिवीयाजिनमुत्तरमुत्तरया ११
उत्तरेणाग्निं दर्भान्संस्तीर्य तेष्वेनमुत्तरयावस्थाप्योदकाञ्जलिमस्मा अञ्जलावानीयोत्तरया त्रिः प्रोक्ष्योत्तरैर्दक्षिणे हस्ते गृहीत्वोत्तरैर्देवताभ्यः परीदायोत्तरेण
यजुषोपनीय सुप्रजा इति दक्षिणे कर्णे जपति १२
इत्यापस्तम्बीये गृह्यप्रश्ने दशमः खण्डः

एकादशः खण्डः
ब्रह्मचर्यमागामिति कुमार आह १
प्रष्टं परस्य प्रतिवचनं कुमारस्य २
शेषं परो जपति ३
प्रत्यगाशिषं चैनं वाचयति ४
उक्तमाज्यभागान्तम् ५
अत्रैनमुत्तरा आहुतीर्हावयित्वा जयादि प्रतिपद्यते ६
परिषेचनान्तं कृत्वापरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन्नुत्तरेण यजुषोपनेतोपविशति ७
पुरस्तात् प्रत्यङ्ङासीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादमन्वारभ्याह सावित्रीं भो अनुब्रूहि इति ८
तस्मा अन्वाह तत्सवितुरिति ९
पच्छोऽर्धर्चशस्ततस्सर्वाम् १०
व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथार्धर्चयोरुत्तमां कृष्स्नायाम् ११
कुमार उत्तरेण मन्त्रेणोत्तरमोष्टमुपस्पृशते १२
कर्णावुत्तरेण १३
दण्डमुत्तरेणाऽऽदत्ते १४
पालाशो दण्डो ब्राह्मणस्य नैय्यग्रोधस्स्कन्धजोऽवाङ्ग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य १५
वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति १६
स्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्त्वोदायुषेत्युत्थाप्योत्तरैरादित्यमुपतिष्ठते १७
यं कामयेत नायमाच्छिद्येतेति तमुत्तरया दक्षिणे हस्ते गृह्णीयात् १८
त्र्यहमेतमग्निं धारयन्ति १९
क्षारलवणवर्जनं च २०
परि त्वेति परिमृज्य तस्मिन्नुत्तरैर्मन्त्रैस्समिध आदध्यात् २१
एवमन्यस्मिन्नपि सदारण्यादेधानाहृत्य २२
उत्तरया सँशास्ति २३
वासश्चतुर्थीमुत्तरयादत्तेऽन्यत्परिधाप्य २४
इत्यापस्तम्बीये गृह्यप्रश्ने एकादशः खण्डः
चतुर्थः पटलः समाप्तः

अथोपाकर्मोत्सर्जनपटलः
अथात उपाकरणोत्सर्जने व्याख्यास्यामः १
श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाऽध्यायोपाकर्म २
अग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धेषु काण्डऋषिभ्यो जुहोति सदसस्पतये सावित्र्या ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो वेदाहुतीनामुपरिष्टात्सदसस्पतिमित्येके ३
परिषेचनान्तं कृत्वा त्रीननुवाकानादितोऽधीयीरन् ४
प्रथमोत्तमावनुवाकौ वा ५
त्र्यहमेकाहं वा क्षम्याधीयीरन् ६
अथोपाकरणमध्यायः ७
तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
प्राचीमुदीचीं वा सगणो दिशमुपनिष्क्रम्य यत्रापः पुरस्तात्सुखाः सुखावगाहा अवकिन्यः शङ्खिन्यः तासामन्तं गत्वाऽभिषेकान्कृत्वा सुरभिमत्याब्लिङ्गा
भिर्वारुणीभिर्हिरण्यवर्णाभिः पावमनीभिरिति मार्जयित्वान्तर्जलगतोऽघमर्षणेन त्रीन्प्राणायामान् धारयित्वोत्तीर्याचम्योपोत्थाय दर्भानन्योन्यस्मै सम्प्रदाय शुचौ देशे प्राक्कूलैर्दर्भैरासनानि कल्पयन्ति ९
ब्रह्मणे प्रजापतये वृहस्पतयेऽग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यस्संवत्सराय इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वरुणाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यो भृगुभ्योऽङ्गिरोभ्य इति देवगणानाम् १०
अथर्षयःविश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः सप्तर्षिभ्यः कल्पयित्वा दक्षिणतोऽगस्त्याय कल्पयन्ति ११
ततो यावदेकवैद्यन्तैः कल्पयन्ति १२
प्राचीनावीतानि कृत्वा दक्षिणतो वैशम्पायनाय पैङ्गये तित्तिरये उखायात्रेयाय पदाकाराय कौण्डिन्याय वृत्तिकाराय बौधायनाय प्रवचनकाराय आपस्तम्बाय सूत्रकाराय भरद्वाजाय सूत्रकाराय सत्याषाढाय हिरण्यकेशाय आचार्येभ्य ऊर्ध्वरेतोभ्य एकपत्नीभ्यो वानप्रस्थेभ्यः कल्पयामीति १३
अथ यथास्वं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च पृथक् १४
यज्ञोपवीतानि कृत्वा तेष्वेव देशेषु तथैवानुपूर्व्या तैरेव नामभिर्देवानृषींश्च तर्पयन्ति वैशम्पायनप्रभृतींस्तु मातुः प्रपितामहपर्यन्तान्प्राचीनावीतिनस्तर्पयन्ति अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति १५
अभिप्यन्ते वान्योन्यम् १६
यज्ञोपवीतानि कृत्वा त्रीनादितोऽनुवाकानधीयीरन् १७
काण्डादीन्प्रथमोत्तमौ वा १८
काण्डात्काण्डात्प्ररोहन्तीतिद्वाभ्यामुपोदके दूर्वा रोपयन्ति १९
अपः प्रगाह्योदधिं कुर्वन्ति २०
सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति २१
उद्गाह्यातमितोराजिं धावन्ति २२
प्रत्येत्याभिदानानि सक्तुभिरोदनेनेति ब्राह्मणान् भोजयित्वा वाचयति २३
एवं पारायणसमाप्तौ च काण्डादि दूर्वारोपणोदधिधावनवर्जम् २४
प्रत्येत्य ब्राह्मणभोजनादि कर्म प्रतिपद्यते २५
एवमेवाद्भिरहरहर्देवानृषीन्पितॄंश्च तर्पयेत् २६
इत्युपाकर्मोत्सर्जनपटलः

अथ पञ्चमः पटलः
द्वादशः खण्डः
वेदमधीत्य स्नास्यन्प्रागुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपिधायास्ते १
नैनमेतदहरादित्योऽभितपेत् २
मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाधायापरेणाग्निं कट एरकायां वोपविश्योत्तरया क्षुरमभिमन्त्र्योत्तरेण यजुषा वप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात्समानम् ३
जघनार्धे व्रजस्योपविश्य विस्नस्य मेखलां ब्रह्मचारिणे प्रयच्छति ४
तां स उत्तरेण यजुषोदौम्बरमूले दर्भस्तम्बे वोपगूहति ५
एवं विहिताभिरेवाद्भिरुत्तराभिष्षड्भिस्स्नात्वोत्तरयोदुम्बरेण दतो धावते ६
स्नानीयोच्छादितस्स्नातः ७
उत्तरेन यजुषाऽहतमन्तरं वासः परिधाय सार्वसुरभिणा चन्दनेनोत्तरैर्देशताभ्यः प्रदायोत्तरयानुलिप्य मणिं सौवर्णं सोपधानं सूत्रोतमुत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्योत्तरया ग्रीवास्वाबध्यैवमेव बादरं मणिं मन्त्रवर्जं सव्ये पाणावाबध्याहतमुत्तरं वासो रेवतीस्त्वेति समानम् ८
तस्य दशायां प्रवर्तौ प्रबध्य दर्व्यामाधायाज्येनाभ्यानायन्नुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ९
परिषेचनान्तं कृत्वताभिरेव दक्षिणे कर्ण आबध्नीतैताभिस्सव्ये १०
एवमुत्तरैर्यथालिङ्गं स्रजश्शिरस्याञ्जनमादर्शावेक्षणमुपानहौ छत्रं दण्डमिति ११
वाचं यच्छत्यानक्षत्रेभ्यः १२
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तरेणार्धर्चेन दिश उपस्थायोत्तरेण नक्षत्राणि चन्द्रमसमिति १३
रातिना सम्भाष्य यथार्थं गच्छति १४
इत्यापस्तम्बीये गृह्यप्रश्ने द्वादशः खण्डः

त्रयोदशः खण्डः
अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति १
यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात् २
एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च ३
आपः पाद्या इति प्राह ४
उत्तरयाऽभिमन्त्र्य दक्षिणं पादं पूर्वं ब्राह्मणाय प्रयच्छेत्सव्यँ शूद्राय ५
प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषात्मानं प्रत्यभिमृशेत् ६
कूर्चाभ्यां परिगृह्य मृन्मयेनार्हणीया आप इति प्राह ७
उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत् ८
शेषं पुरस्तान्निनीयमानमुत्तरयाऽनुमन्त्रयते ९
दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य मधुपर्क इति प्राह १०
त्रिवृतमेके घृतं च ११
पाङ्क्तमेके धानास्सक्तूंश्च १२
उत्तराभ्यामभिमन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत् १३
प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय १४
गौरिति गां प्राह १५
उत्तरयाभिमन्त्र्य तस्यै वपाँ श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति १६
यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजतेत्युच्चैः १७
अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्य ॐ कल्पयते त्युच्चैः १८
आचार्यायर्त्विजे श्वशुराय राज्ञ इति
परिसंवत्सरादुपतिष्ठद्भ्य एतत्कार्यम् १९
सकृत्प्रवक्त्रे चित्राय २०
इत्यापस्तम्बीये गृह्यप्रश्ने त्रयोदशः खण्डः
पञ्चमश्च पटलः समाप्तः

अथ षष्ठः पटलः
चतुर्दशः खण्डः
सीमन्तोन्नयनं प्रश्ने गर्भे चतुर्थे मासि १
ब्राह्मणान्भोजयित्वाशिषो वाचयित्वाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते २
परिषेचनान्तं कृत्वापरेणाग्निं प्राचीनमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैश्शलालुग्लप्सेनेत्यूर्ध्वं सीमन्तमुन्नयति व्याहृतीभिरुत्तराभ्यां च गायतमिति वीणागायिनौ संशास्ति ४
उत्तरयोः पूर्वा साल्वानां व्राह्मणानामितरा ५
नदीनिर्देशश्च यस्यां वसन्ति ६
यवान्विरूढानाबध्य वाचं यच्छत्यानक्षत्रेभ्यः ७
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य वत्समन्वारभ्य व्याहृतीश्च जपित्वा वाचं विसृजेत् ८
पुँसवनं व्यक्ते गर्भे तिष्येण ९
न्यग्रोधस्य या प्राच्युदीची वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि १०
अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाऽङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपि नयति ११
पुमांसं जनयति १२
क्षिप्रं सुवनम् १३
अनाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्य पत्तस्तूर्यन्तीं निधाय मूर्धञ्छोष्यन्तीमुत्तरेण यजुषाऽभिमृश्यैताभिरद्भिरुत्तराभिरवोक्षेत् १४
यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् १५
इत्यापस्तम्बीये गृह्यप्रश्ने चतुर्दशः खण्डः
पञ्चदशः खण्डः
जातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायोत्तराभ्यामाभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापः १
नक्षत्रनाम च निर्दिशति २
तद्रहस्यं भवति ३
मधु घृतमिति संसृज्य तस्मिन् दर्भेण हिरण्यं निष्टर्क्यं बध्वावदायोत्तरैर्मन्त्रैः कुमारं प्राशयित्वोत्तराभिः पञ्चभिस्स्नापयित्वा दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्कारचतुर्थाभिः कुमारं प्राशयित्वाद्भिश्शेषं संसृज्य गोष्ठे निनयेत् ४
उत्तरया मातुरुपस्थ आधायोत्तरया दक्षिणं स्तनं प्रतिधाप्योत्तराभ्यां पृथिवीमभिमृश्योत्तरेण यजुषा संविष्टम् ५
उत्तरेण यजुषा शिरस्य उदकुम्भं निधाय सर्षपान्फलीकरणमिश्रानञ्जलिनोत्तरैस्त्रिस्त्रिप्रतिस्वाहाकारं हुत्वा संशास्ति प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति ६
एवमहरहरानिर्दशतायाः ७
दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ८
द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं दीर्घाभिनिष्ठानान्तं घोषवदाद्यन्तरन्तस्थम् ९
अपि वा यस्मिन्स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् १०
अयुजाक्षरं कुमार्याः ११
प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्ण उत्तरान्मन्त्रान् जपेत् १२
कुमारीमुत्तरेण यजुषाऽभिमन्त्रयते १३
इत्यापस्तम्बीये गृह्यप्रश्ने पञ्चदशः खण्डः

षोडशः खण्डः
जन्मनोऽधि षष्ठे मासि ब्राह्मणान्भोजयित्वाशिषो वाचयित्वा दधि मधु घृतमोदनमिति संसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् १
तैत्तिरेण माँसेनेत्येके २
जन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोः ३
ब्राह्मणानां भोजनमुपायनवत् ४
सीमन्तवदग्नेरुपसमाधानादि ५
अपरेणाग्निं प्राञ्चमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैः शलालुग्लप्सेनेति तूष्णीं केशान्विनीय यथर्षि शिखा निदधाति ६
यथा वैषां कुलधर्मः स्यात् ७
अपाँ संसर्जनाद्याकेशनिधानात्समानम् ८
क्षुरँ प्रक्षाल्य निदधाति ९
तेन त्र्यहं कर्मनिवृत्तिः १०
वरं ददाति ११
एवं गोदानमन्यस्मिन्नपि नक्षत्रे षोडशे वर्षे १२
अग्निगोदानो वा स्यात् १३
संवत्सरं गोदानव्रतमेक उपदिशन्ति १४
एतावन्नाना सर्वान्
केशान्वापयते १५
उदकोपस्पर्शनमिति छन्दोगाः १६
इत्यापस्तम्बीये गृह्यप्रश्ने षोडशः खण्डः
षष्ठश्च पटलः समाप्तः

अथ सप्तमः पटलः

सप्तदशः खण्डः
दक्षिणाप्रत्यक्प्रवणमगरावकाशमुद्धत्य पलाशेन शमीमयेन वोदूहेनैतामेव दिशमुत्तरयोदूहति १
एवं त्रिः २
कॢप्तमुचरयाभिमृश्य प्रदक्षिणं स्थूणागर्तान्खानयित्वाऽभ्यन्तरं पाँसूनुदुप्योत्तराभ्यां दक्षिणं द्वारस्थूणामवदधाति ३
एवमितराम् ४
यथाखातमितरा अन्ववधाय वँशमाधीयमानमुत्तरेण यजुषाऽभिमन्त्रयते ५
सम्मितमुत्तरैर्यथालिङ्गम् ६
पालाशं शमीमयं वेध्ममादीप्योत्तरयर्चाऽग्निमुद्धृत्योत्तरेण यजुषाऽगारं प्रपाद्योत्तरपूर्वदेशेऽगारस्योत्तरयाऽग्निं प्रतिष्ठापयति ७
तस्माद्दक्षिणमुदधानायतनं भवति ८
तस्मिन्विषूचीनाग्रान्दर्भान्संस्तीर्य तेषूत्तरया व्रीहियवान्न्युप्य तत्रोदधानं प्रतिष्ठापयति ९
तस्मिन्नुत्तरेण यजुषा चतुर उदकुम्भानानयति १०
दीर्घमुत्तरयाऽनुमन्त्रयते ११
अग्नेरुपसमाधानाद्याज्यभागान्ते उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते १२
परिषेचनान्तं कृत्वोत्तरेण यजुषोदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान्भोजयेदपूपैस्सक्तुभिरोदनेनेति १३
इत्यापस्तम्बीये गृह्यप्रश्ने सप्तदशः खण्डः

अष्टादशः खण्डः
श्वग्रहगृहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कंसं किङ्किणिं वा ह्रादयन्नद्वारेण सभां प्रपाद्य सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेधूत्तानं निपात्य दध्ना लवणमिश्रेणाञ्जलिनोत्तरैरवोक्षेत्प्रातर्मध्यन्दिने सायम् १
अगदो भवति २
शङ्खिनं कुमारं तपोयुक्त उत्तराभ्यामभिमन्त्र्योत्तरयोदकुम्भेन शिरस्तोऽवनयेत्प्रातर्मध्यन्दिने सायम् ३
अगदो भवति ४
श्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाकः ५
पार्वणवदाज्यभागान्ते स्थालीपाकाद्धुत्वाञ्जलिनोत्तरैः प्रतिमन्त्रं किशुकानि जुहोति ६
उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः ७
आज्याहुतीरुत्तराः ८
जयादि प्रतिपद्यते ९
परिषेचनान्तं कृत्वा वाग्यतस्संभारानादाय प्राचीमुदीचीं वा दिशमुपनिष्क्रम्यस्थण्डिलं कल्पयित्वा तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो लेखा लिखित्वाऽद्भिरुपनिनीय तासूत्तरया सक्तून्निवपति १०
तूष्णीं सम्पुष्का धाना लाजानाञ्जनाभ्यञ्जने स्थगरोशीरमिति ११
उत्तरैरुपस्थायापः परिषिच्याप्रतीक्षस्तूष्णीमेत्या पश्वेत पदेत्याभ्यामुदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य
ब्राह्मणान्भोजयेत् १२
इत्यापस्तम्बीये गृह्यप्रश्नेऽष्टादशः खण्डः
एकोनविंशः खण्डः
धानाः कुमारान् प्राशयन्ति १
एवमत ऊर्ध्वं यदशनीयस्य सक्तूनां वैतं बलिं हरेदामार्गशीर्ष्याः २
मार्गशीर्ष्यां पौर्णमास्यामस्तमिते स्थालीपाकः ३
अहार्षमिति बलिमन्त्रस्य सन्नामः ४
अत्रैनमुत्सृजति ५
अनाहिताग्नेराग्रयणम् ६
नवानां स्थालीपाकं श्रपयित्वाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यो हुत्वा तण्डुलानां मुखं पूरयित्वा गीर्त्वाचम्यौदनपिण्डं संवृत्त्योत्तरेण यजुषागारस्तूप उद्विद्धेत् ७
हेमन्तप्रत्यवरोहणम् ८
उत्तरेण यजुषा प्रत्यवरुह्योत्तरैर्दक्षिणैः पार्श्वैः नवस्वस्तरे संविशन्ति ९
दक्षिणतः पितोत्तरा मौतवमवशिष्टानां ज्येष्ठोज्येष्ठोऽनन्तरः १०
संहायोत्तराभ्यां पृथिवीमभिमृशन्ति ११
एवं संवेशनादि त्रिः १२
ईशानाय स्थालीपाकं श्रपयित्वा क्षैत्रपत्यं च प्राचीमुदीचीं वा दिशमुपतिष्क्रम्य स्थण्डिलं कल्पयित्वाऽग्नेरुपसमाधानादि १३
अपरेणाग्निं द्वे कुटी कृत्वा १४
इत्यापस्तम्बीये गृह्यप्रश्ने एकोनविंशः खण्डः

विंशः खण्डः
उत्तरया दक्षिणस्यामीशानमावाहयति १
लौकिक्या वाचोत्तरस्यां मीढुषीम् २
मध्ये जयन्तम् ३
यथोढमुदकानि प्रदाय त्रीनोदनान्कल्पयित्वाग्निमभ्यानीयोत्तरैरुपस्पर्शयित्वा उत्तरैर्यथास्वमोदनेभ्यो हुत्वा सर्वतस्समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् । उत्तरेण यजुषोपस्थायोत्तरैस्सहोदनानि पर्णान्येकैकेन द्वे द्वे दत्त्वा देवसेनाभ्यो दशोत्तराभ्यः ५
पूर्ववदुत्तरैः ६
ओनपिण्डं संवृत्य पर्णपुटेऽवधायोत्तरेण यजुषा वृक्ष आसजति ७
अत्र रुद्रान् जपेत् ८
प्रथमोत्तमौ वा ९
अभित एतमग्निं गास्स्थापयति यथैता धूमः प्राप्नुयात् १०
ता गन्धैर्दर्भग्रुमुष्टिनावोक्षति वृषाणमेवाग्रे ११
गवां मर्गेऽनग्नौ क्षेत्रस्य पतिं जयते १२
ईशानवदावाहनम् १३
चतुर्षु सप्तसु वा पर्णेषु नामादेशं दधाति १४
क्षिप्रं यजेत पाको देवः १५
उत्तराभ्यामुपतिष्ठते १६
स्थालीपाकं ब्राह्मणान्भोजयेत् १७
क्षैत्रपत्यं प्राश्नन्ति ये सनाभयो भवन्ति १८
यथा वैषां कुलधर्मस्स्यात् १९
इत्यापस्तम्बीये गृह्यप्रश्ने विंशः खण्डः

अथाष्टमः पटलः

एकविंशः खण्डः
मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः १
शुचीन्मन्त्रवतो यो निगोत्रमन्त्रासम्बन्धानयुग्माँस्त्र्यवराननर्थावेक्षो भोजयेत् २
अन्नस्योत्तराभिर्जुहोति ३
आज्याहुतीरुत्तराः ४
एतद्वा विपरीतम् ५
सर्वमुत्तरैरभिमृशेत् ६
कॢप्तान्वा प्रतिपूरुषम् ७
उत्तरेण यजुषोपस्पर्शयित्वा ८
भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य द्वैधं दक्षिणाग्रान्दर्भान्संस्तीर्य तेषूत्तरैरपो दत्त्वोत्तरैर्दक्षिणापवर्गान्पिण्डान्दत्त्वा पूर्ववदुत्तरैरपो दत्त्वोत्तरैरुपस्थायोत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य न्युब्ज्य पात्राण्युत्तरं यजुरनवानं त्र्यवरार्ध्य मावर्तयित्वा प्रोक्ष्यपात्राणि द्वन्द्वमभ्युदाहृत्य सर्वतस्समवदायोत्तरेण यजुषाशेषस्य ग्रासवरार्ध्यं प्राश्नीयात् । या माध्याः ह्पौर्णमास्या उपरिष्टाद्व्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते १०
तस्यास्सायमौपकार्यम् ११
अपूपं चतुश्शरावं श्रपयति १२
अष्टाकपाल इत्येके १३
इत्यापस्तम्बीये गृह्यप्रश्ने एकविंशः खण्डः

द्वाविंशः खण्डः
पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति १
सिद्धश्शेषस्तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति २
श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति ३
तूष्णीं पञ्चाज्याहुतीर्हुत्वा तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ४
माँसोदनमुत्तराभिः ५
पिष्टान्नमुत्तरया ६
आज्याहुतीरुत्तराः ७
स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् ८
अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति ९
अथैतदपरं दध्न एवाञ्जलिना जुहोति ययाऽपूपम् १०
अत एव यथार्थं मासं शिष्ट्वा श्वोभूतेऽन्वष्टकाम् ११
तस्या मासिश्राद्धेन कल्पो व्याख्यातः १२
सनिमित्वोत्तरान् जपित्वाऽर्थं ब्रूयात् १३
रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया रथचक्रे अभिमृशति पक्षसी वा १४
उत्तरेण यजुषाऽधिरुह्योत्तरया प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थं यायात् १५
अश्वमुत्तरैरारोहेत् १६
हस्तिनमुत्तरया १७
ताभ्याँ रेषणे पूर्ववत्पृथिवीमभि
मृशेत् १८
संवादमेष्यन्सव्येन पाणिना छत्रं दण्डञ्चादत्ते १९
इत्यापस्तम्बीये गृह्यप्रश्ने द्वाविंशः खण्डः

त्रयोविंशः खण्डः
दक्षिणेन फलीकरणमुष्टिमुत्तरया हुत्वा गत्वोत्तरां जपेत् १
क्रुद्धमुत्तराभ्यामभिमन्त्रयेत विक्रोधो भवति २
असंभवेप्सुः परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वोत्तरया सुप्तायास्सम्बाध उपवपेत् ३
सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षालयीत ४
सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात्तत उत्तरया जुहुयात् ५
यं कामयेत नायं मच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत् ६
येन पथा दासकर्मकराः पलायेरन्तस्मिन्निण्वान्युपसमाधायोत्तरा आहुतीर्जुहुयात् । यद्येनं वृक्षात्फलमभिनिपतेद्वयो वाऽभिविक्षिपेदवर्षतर्क्ये वा बिन्दुरभिनिपतेत्तदुत्तरैर्यथालिङ्गं प्रक्षालयीत ८
आगारस्थूणाविरोहणे मधुन उपवेशने कुप्वां कपोतपददर्शनेऽमात्यानां
शरीररेषणेऽन्येषु चाद्भुतोत्पातेष्वमावास्यायां निशायां यत्रापां न शृणुयात्तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ९
परिषेचनान्तं कृत्वाऽभिमृतेभ्य उत्तरया दक्षिणतोऽश्मानं म्परिधिं दधाति १०
इत्यापस्तम्बीये गृह्यप्रश्ने त्रयोविंशः खण्डः
समाप्तस्तथाऽष्टमश्च पटलः
समाप्तोऽयमापस्तम्बगृह्यसूत्रम्