चतुर्थस्थानम्

अथ चतुर्थस्थानम्
प्रथमोऽध्यायः

आत्रेय उवाच
सर्षपस्य चतुर्थांशोऽणुः
चतुःसर्षपैर्माषः
चतुर्माषैर्वल्लः
चतुर्वल्लैः सुवर्णैः कर्षः
चतुःकर्षैः पलम्
चतुः पलैः कुडवः
चतुःकुडवैः प्रस्थः
चतुःप्रस्थैराढकः
चतुर्भिराढकैर्द्रोणः १
शुष्काणामौषधानाञ्च मानञ्च द्विगुणं भवेत्
आर्द्राणामथ सर्वेषां विज्ञातव्यस्तुलाविधिः २
सप्तभिर्यवशतैः साष्टषष्टिभिः पलं भवति ।
चतुर्भिः पलैः कुडवः ।
चतुर्भिः कुडवैः प्रस्थः ।
प्रस्थैश्चतुर्भिराढकः ।
चतुर्भिराढकैः कंसः ।
द्वेपले प्रसृतिर्भवेत् ३
मस्तुतैलारनालानां क्षीरमण्डगुड सिता
मधु मद्यं तथा द्राक्षा खर्जूरं गुग्गुलुस्तथा ४
रसोनलवणानाञ्च ग्रोक्तावर्द्धार्धमानकौ
बिडालपदिकामात्रं कर्षशब्दोऽभिधीयते ५
वटोदुम्बरमात्रेण पलमौदुम्बरं विदुः
चतुःपलं बिल्वमानं पलेद्वेऽञ्जलिरुच्यते ६
कुडवं चाञ्जलिद्वे च वक्ष्यमाणं महामते ७
चतुरंगुलविस्तारं चतुरंगुलमुन्नतम्
काष्ठजं मृन्मयं वापि कुडवं तं विनिर्दिशेत् ८
चतुःकुडवैः प्रस्थः स्याच्चतुःप्रस्थैस्तथाढकः
चतुराढकः स्याद्द्रोणो मानसंख्या प्रकीर्त्तिता ९
वमनं च विरेकञ्च प्रदद्यात्कर्षमात्रकम्
सन्तर्पणं पलमात्रं चूर्णं कर्षकमात्रकम् १०
क्षारमेव पलार्द्धे च कर्षं चैव हरीतकीम्
पलं रसोनकल्कञ्च पलं गुग्गुलुमेव च ११
पलञ्च सूरणं कल्कं दापयेच्च सुपण्डितः
अन्यानि चूर्णलोहानि कर्षमात्राणि दापयेत् १२
ज्ञात्वा देहबलं सम्यगुत्तमाधममध्यमम्
लेहं चूर्णं कषायं च दापयेद्विधिवत्सुधीः १३
इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने तुलामानविधिर्नाम
प्रथमोऽध्यायः १


द्वितीयोऽध्यायः
आत्रेय उवाच
पाकश्चतुर्विधः प्रोक्तस्तैलानां शृणु पुत्रक
खरचिक्कणमध्यस्तु विशोषी चापरो मतः १
दुग्धारनाल क्वाथश्च दधि वा शोषयत्यपि
न चार्द्रता चौषधानां निष्फेनौ विमलस्तु यः २
मञ्जिष्ठारससङ्काशो भवेत्सखरपाकगः
वातघ्नः सोऽपि विज्ञेयो मर्दनाभ्यञ्जने हितः ३
सफेनो मध्य पाकी च द्रवो भवति पिण्डितः
नातिफेनमफेनं वा मध्यपाकं विनिर्दिशेत् ४
बस्तौ पाने च शस्तञ्च त्रिदोषघ्नं भिषग्वर
सफेनश्चन्द्रभो यस्य भवेत्स्वस्थसमो द्रवः ५
स च चिक्कणकः पाको नस्ये प्रोक्तो हितः सदा ६
सधूमश्चातिदग्धश्च दग्धगन्धरसस्तथा
विज्ञेयो वातशोषी च वर्जितः सर्व कर्मसु ७
मर्दने खरपाकश्च बस्तौ चिक्कणपाकितः
बस्तौ पानेमध्यपाको विशोषी वर्जितस्तथा ८
पक्षे सिध्यति तैलञ्च सप्ताहे घृतमेव च
कषायः प्रहरेणापि पत्नेनैव प्रसाधयेत् ९
इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने तैलपाकविधिर्नाम द्वितीयोऽध्यायः २


तृतीयोऽध्यायः
आत्रेय उवाच
चतुरंगुलां वेणुमयीं नाडीं प्रतिलक्षणं कृत्वा तया बस्तिप्रतिकर्म कुर्यात् १
नातिचोष्णे च काले च न शीते न च भोजिते
न च निद्रालौ मूत्रार्त्ते विष्ठार्त्ते न च वेद भाक् २
निरूहं बस्तिकर्म च कारयेत्तं निरस्य च ३
आदौ मूत्रविष्ठोत्सर्गं कृत्वा गुदं प्रक्षाल्य नातिशिथिलशय्यायां शाययित्वा
वामाङ्गे वामपादं दक्षिणाङ्गे दक्षिणपादञ्च सङ्कोच्य जङ्घोपरि संस्थाप्यं
गुदाभ्यन्तरे द्व्यंगुलमात्रां नाडीं सञ्चारयेत्सुधीः ।
ततः शनैः शनैर्बस्ति निष्पीड्य द्विपलपरिमिततैलेन निरूहं कुर्यात् ।
निरूहानन्तरं शनैः शनैरुत्तानं शाययित्वा ऊर्ध्वीकृत्वा च पश्चात्सङ्कोच्य
पाणिभिः पञ्चवारान्स्फिक्पिण्डांस्त्रोटयेत् ।
ततः स्वस्थं कृत्वा क्षणेनापि आमाशयं मलस्थानं बोधयति ।
बस्त्युदरवातान्दोषान्निवारयति ।
पण्णितास्तं बस्तिनिरूहं तद्बस्तिकर्म च विदुः ४
इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने निरूहबस्तिकर्मविधिर्नाम तृतीयोऽध्यायः ३


चतुर्थोऽध्यायः
स्वेदः सप्तविधिः प्रोक्तो लोष्टस्वेदो बाष्पस्वेदोऽग्निज्वालास्वेदः घटीस्वेदो जलस्वेदः फलस्वेदो वालुकास्वेदश्च ।
न तैलेन विना स्वेदं कदाचिदपि कारयेत् ।
तैलेनाभ्यञ्जयेत्स्वेदं स भवेद्गुणकारकः १
तीव्रज्वरे दाहशोषे तथातीसारपीडिते
मूर्च्छाभ्रमदाहार्त्ते च विषे स्वेदं न कारयेत् २
शूलशोफातुरे वाते शीतश्लेष्मातुरेषु च
एतेषां शस्यते स्वेदो नराणां सुखदायकः ३
इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने स्वेदनविधिर्नाम चतुर्थोऽध्यायः ४


पञ्चमोऽध्यायः
रक्तावसेचनं चतुर्भिः प्रकारैर्भवति ।
शिराविरेचनेनापि अलाबुभिस्तथैव च ।
श्लक्ष्णशृङ्गैर्जलौकाभी रक्तञ्च स्रावयेद् बुधः १
पूर्वाह्णे चापराह्णे च नात्युष्णे नातिशीतले
यवागूपरिपीतस्य शोणितं मोक्षयेद्भिषक् २
शिरोरोगेषु सर्वेषु नासामध्यपुटे तथा
असृजं रेचयेद्यत्नात्सर्वदा भिषगुत्तमः ३
ललाटमध्ये भ्रुवोरुपरिष्टादंगुलद्वयं त्यक्त्वा शिरां रेचयेत् ।
वाह्वोः कूर्परमध्ये शिरां बन्धयेत् ।
मणिबन्धसन्धौ अंगुष्ठमूलचतुष्टयमंगुलञ्च विहाय शिरां बन्धयेत् ।
नातिपाश्च चतुरंगुलं विहाय शिरां बन्धयेत् ।
घुण्टिकां शिरां पादे बन्धयेत् ।
अपरमपि ग्रन्थविस्तारभयान्नोक्तम् ।
अलाबुशृङ्गै रक्तावसेचनं सर्वैरपि ज्ञातव्यम् ४
सकृष्णं फेनिलं श्यामं रक्तं तद्वातदोषजम्
सर्वलक्षणसम्पन्नं विज्ञेयं तत्त्रिदोषजम् ५
इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने रक्तावसेचनविधिर्नाम पञ्चमोऽध्यायः ५


षष्ठोऽध्यायः
आत्रेय उवाच
जलौकाश्चतुर्विधाः प्रोक्ता इन्द्रायुधारोहिणी कालिकाधूम्रा चेति १
नीलवर्णा पार्श्वरक्ता तीक्ष्णमुखी गम्भीरनिर्मलोदके पाषाणसन्धौ च प्रविशति
तया विद्रध्युदरदाहशोफमूर्च्छाविषाद्युपद्रवयति २
नीलवर्णा पार्श्वपीता शङ्कुमुखी पद्मनाले प्रविशति
तया विद्रधिविसर्पशोफाद्युपद्रवयति ३
कृष्णा कालिका मत्स्याशये दूरे त्याज्या ४
धूम्रा कपोतमहिषवर्णा पीतोदरी अर्द्धचन्द्रमुखी कर्दमे कलुषोदके प्रविशति
सा रक्तावसेचनयोग्यानिरुपद्रवा च ५
अवस्थानं काञ्जिकेन प्रक्षाल्य नवनीतेन म्रक्षयित्वा उष्णोदकेन प्रक्षालयेत्
पश्चात् तत्र जलौकावचारणीया ६
जलौका रक्तपूर्णापश्चात् पातिता ।
तस्या मुखं लवणेन मूत्रेण वा प्रक्षालयेत् ।
अथवा शनैर्गोस्तनवद्दुह्यते ।
पुनर्नवनीतेन मुखमालिप्यावचारणीया ।
दुष्टरक्ते विनिर्गते दंशं काञ्जिकेन प्रक्षाल्य घृतमधुनाभ्यज्य वस्त्रेण बध्नीयात् ७
इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थ सूत्रस्थाने जलौकावचारविधिर्नाम षष्ठोऽध्यायः ६
इति सूत्रस्थानं समाप्तम्