सूत्र स्थान

प्रथमो दीर्घञ्जीवितीयाध्यायः
अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम् ३
ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः
जग्राह निखिलेनादावश्विनौ तु पुनस्ततः ४
अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम्
ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत् ५
विघ्नमूता यदारोगाः प्रादुर्भूताः शरीरिणाम्
तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् ६
तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः
समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे ७
अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः
आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः ८
अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ
पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्जलः ९
विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित्
गार्ग्यः शाण्डिल्यकौण्डिल्यौ वार्क्षिदेवलगालवौ १०
साङ्कृत्यो बैजवापिश्च कुशिको बादरायणः
बडिशः शरलोमा च काप्यकात्यायनावुभौ ११
काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ
शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च १२
शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः
वैखानसा बालखिल्यास्तथा चान्ये महर्षयः १३
ब्रह्मज्ञानस्य निधयो दयमस्य नियमस्य च
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः १४
सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम्
धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम् १५
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च
प्रादुर्भूतो मनुष्याणामन्तरायो महानयम् १६
कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः
अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा १७
स वक्ष्यति शमोपायं यथावदमरप्रभुः
कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम् १८
अहमर्थे नियुज्येयमत्रेति प्रथमं वचः
भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः १९
स शक्रभवनं गत्वा सुरर्षिगणमध्यगम्
ददर्श बलहन्तारं दीप्यमानमिवानलम् २०
सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम्
प्रोवाच विनयाद्धीमानृषीणां वाक्यमुत्तमम् २१
व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः
तद्ब्रूहि मे शमोपायं यथावदमरप्रभो २२
तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः
पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये २३
हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्
त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः २४
सोऽनन्तपारं त्रिस्कन्धामायुर्वेदं महामतिः
यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः २५
तेनायुरमितं लेभे भरद्वाजः सुखान्वितम्
ऋषिभ्योऽनधिकं तच्च शशंसानवशेषयन् २६
ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम्
दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः २७
महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा
सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च २८
समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः
लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् २९
अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः
शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया ३०
अग्निवेशश्च भेलश्च जतूकर्णः पराशरः
हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ३१
बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः
तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत् ३२
अथ भेलादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च
श्रावयामासुरात्रेयं सर्षिसङ्घं सुमेधसः ३३
श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम्
यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे ३४
सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः
साधु भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम् ३५
तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः
सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम् ३६
अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववानादयत्
नभसि स्निग्धगम्भीरो हर्षाद्भतैरुदीरितः ३७
शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः
निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः ३८
अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः
बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया ३९
तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः
भवाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे ४०
हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्
मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते ४१
शरीरेन्द्रियसत्त्वात्मसंयोगोधारि जीवितम्
नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते ४२
त्स्यायुषः पुण्यतमो वेदो वेदविदां मतः
वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितम् ४३
सर्वदा सर्वभावानं सामान्यं वृद्धिकारणम्
ह्रासहेतुर्विशेषश्च प्रवृत्तिरुभयस्य तु ४४
सामान्यमेकत्वकरं विशेषस्तु पृथक्त्वकृत्
तुल्यार्थता हि सामान्यं विशेषस्तु विपर्ययः ४५
सत्त्वमात्मा शरीरं च त्रयमेतत्त्रिदण्डवत्
लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम् ४६
स पुमांश्चेतमं तच्च तच्चाधिकरणं स्मृतम्
वेदस्यास्य तदर्थं हि वेदोऽयं संप्रकाशितः ४७
खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः
सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनम् ४८
सार्था गुर्वादयो बुद्धिः प्रयत्नान्ताः परादयः
गुणाः प्रोक्ताः प्रयत्नादि कर्म चेष्टितमुच्यते ४९
समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः
स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः ५०
यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्
तद्द्रव्यं समवायी तु निश्चेष्टः कारणं गुणः ५१
संयोगे च विभागे च कारणं द्रव्यमाश्रितम्
कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते ५२
इत्युक्तं कारणं कार्यं धातुसाम्यमिहोच्यते
धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम् ५३
कालबुद्धीनिन्द्रियार्थानां योगो मिथ्या न चाति च
द्ययाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रहः ५४
शरीरं सत्त्वसंज्ञं च व्याधीनामाश्रयो मतः
तथा सुखानां योगस्तु सुखानां कारणं समः ५५
निर्विकारः परस्त्वात्मा सत्त्वभूतगुणेन्द्रियैः
चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः ५६
वायुः पित्तं कफश्चोक्तः शारीरो दोषसंग्रहः
मानसः पुनरुद्दिष्टो रजश्च तम एव च ५७
प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः
मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः ५८
रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः
विपरीतगुणैर्द्रव्यैर्मारुतः संप्रशाम्यति ५९
सस्नेहमुष्णं तीक्ष्णं च द्रवमम्लं सरं कटु
विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति ६०
गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः ६१
विपरीतगुणैर्देशमात्राकालोपपादितैः
भेषजैर्विनिवर्तन्ते विकाराः साध्यसंमताः ६२
साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते
भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते ६३
रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा
निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ६४
स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च
कषायश्चेति षट्कोऽयं रसानां संग्रहः स्मृतः ४५
स्वाद्वम्ललवणा वायुं कषायस्वादुतिक्तकाः
जयन्ति पित्तं श्लेष्माणं कषायकटुतिक्तकाः ६६
किंचिद्दोषप्रशमनं किंचिद्धातुप्रदूषणम्
स्वस्थवृत्तौ मतं किंचित्त्रिविधं द्रव्यमुच्यते ६७
तत् पुनस्त्रिविधं प्रोक्तं जङ्गमौद्भिदपार्थिवम्
मधूनि गोरसाः पित्तं वसा मज्जासृगामिषम् ६८
विण्मूत्रचर्मरेतोऽस्थिस्नायुशृङ्गनखाः खुराः
जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः ६९
सुवर्णं समलाः पञ्च लोहाः ससिकताः सुधा
मनःशिलाले मणयो लवणं गैरिकाञ्जने ७०
भौममौषधमुद्दिष्टमौद्भिदं तु चतुर्विधम्
वनस्पतिस्तथा वीरुद्वानस्पत्यस्तथौषधिः ७१
फलैर्वनस्पतिः पुष्पैर्वानस्पत्यः फलैरपि
ओषध्यः फलपाकान्ताः प्रतानैर्वीरुधः स्मृताः ७२
मूलत्वक्सारनिर्यासनाडस्वरसपल्लवाः
क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः ७३
पत्राणि शुङ्गाः कन्दाश्च प्ररोहाश्चौद्भिदो गणः
मूलिन्यः षोडशैकोना कलिन्यो विंशतिः स्मृताः ७४
महास्नेहाश्च चत्वारः पञ्चैव लवणानि च
अष्टौ मूत्राणि संख्यातान्यष्टावेव पयांसि च ७५
शोधनार्थाश्च षड् वृक्षाः पुनर्वसुनिदर्शिताः
य एतान् वेत्ति संयोक्तुं विकारेषु स वेदवित् ७६
हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुडा
सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि ७७
ज्योतिष्मती च बिम्बी च शणपुष्पी विषाणिका
अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोडशी ८७
शणपुष्पी च बिम्बी च च्छर्दने हैमवत्यपि
श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने ७९
एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने
इत्युक्ता नामकर्मभ्यां मूलिन्यः फलिनीः शृणु ८०
शङ्खिन्यथ विडङ्गानि त्रपुषं मदनानि च
धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्
आनूपं स्थलजं चैव क्लीतकं द्विविदं स्मृतम् ८१
प्रकीर्या चोदकीर्या च प्रत्यक्पुष्पा तथाऽभया
अन्तःकोटरपुष्पी च हस्तिपर्ण्याश्च शारदम् ८२
कम्पिल्लकारग्वधयोः फलं यत् कुटजस्य च
धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम् ८३
मदनं कुटजं चैव त्रपुषं हस्तिपर्णिनी
एतानि वमने चैव योज्यान्यास्थापनेषु च ८४
नस्तः प्रच्छर्दने चैव प्रत्यक्पुष्पा विधीयते
दश यान्यवशिष्टानि तान्युक्तानि विरेचने ८५
नामकर्मभिरुक्तानि फलान्येकोनविंशतिः
सर्पिस्तैलं वसा मज्जा स्नेहो दिष्टश्चतुर्विधः ८६
पानाभ्यञ्जनबस्त्यर्थं नस्यार्थं चैव योगतः
स्नेहना जीवना वर्ण्या बलोपचयवर्धनाः ८७
स्नेहा ह्येते च विहिता वातपित्तकफापहाः
सौवर्चलं सैन्धवं च विडमौद्भिदमेव च ८८
सामुद्रेण सहैतानि पञ्च स्युर्लवणानि च
स्निग्धान्युष्णानि तीक्ष्णानि दीपनीयतमानि च ८९
आलेपनार्थे युज्यन्ते स्नेहस्वेदविधौ तथा
अधोभागोर्ध्वभागेषु निरूहेष्वनुवासने ९०
अभ्यञ्जने भोजनार्थे शिरसश्च विरेचने
शस्त्रकर्मणि वर्त्यर्थमञ्जनोत्सादनेषु च ९१
अजीर्णानाहयोर्वाते गुल्मे शूले तथोदरे
उक्तानि लवणान्यूर्ध्वं मूत्राण्यष्टौ निबोध मे ९२
मुख्यानि यानि दिष्टानि सर्वाण्यात्रेयशासने
अविमूत्रमजामूत्रं गोमूत्रं माहिषं च यत् ९३
हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च
उष्णं तीक्ष्णमथोऽरूक्षं कटुकं लवणान्वितम् ९४
मूत्रमुत्सादने युक्तं युक्तमालेपनेषु च
युक्तमास्थापने मूत्र युक्त चापि विरेचने ९५
स्वेदेष्वपि च तद्युक्तमानाहेष्वगदेषु च
उदरेष्वथ चार्शःसु गुल्मिकुष्टिकिलासिषु ९६
तद्युक्तमुपनाहेषु परिषेके तथैव च
दीपनीयं विषघ्नं च क्रिमिघ्नं चोपदिश्यते ९७
पाण्डुरोगोपसृष्टानामुत्तमं शर्म चोच्यते
श्लेष्माणं शमयेत् पीतं मारुतं चानुलोमयेत् ९८
कर्षेत् पित्तमधोभागमित्यस्मिन् गुणसंग्रहः
सामान्येन मयोक्तस्तु पृथक्त्वेन प्रवक्ष्यते ९९
अविमूत्रं सतिक्तं स्यात् स्निग्दंपित्ताविरोधि च
आजं कषायमधुरं पथ्यं दोषान्निहन्ति च १००
गव्यं समधुरं किंचिद्दोषघ्नं क्रिमिकुष्ठनुत्
कण्डूं च शमयेत् पीतं सम्यग्दोषोदरे हितम् १०१
अर्शःशोफोदरघ्नं तु सक्षारं माहिषं सरम्
हास्तिकं लवणं मूत्रं हितं तु क्रिमिकुष्ठिनाम् १०२
प्रशस्तं बद्धविण्मूत्रविषश्लेष्मामयार्शसाम्
सतिक्तं श्वासकासघ्नमर्शोघ्नं चौष्ट्रमुच्यते १०३
वाजिनां तिक्तकटुकं कुष्ठव्रणविषापहम्
खरमूत्रमपस्मारोन्मादग्रहविनाशनम् १०४
इतीहोक्तानि मूत्राणि यथासामर्थ्ययोगतः
अतः क्षीराणि वक्ष्यन्ते कर्म चैषां गुणाश्च येत् १०५
अविक्षीरमजाक्षीरं गोक्षीरं माहिषं च यत्
अष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा १०६
प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम्
प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम् १०७
जीवनीयं श्रमहरं श्वासकासनिबर्हणम्
हन्ति शोणितपित्तं च सन्धानं विहतस्य च १०८
सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा
तृष्णाघ्नं दीपनीयं च श्रेष्ठं क्षीणक्षतेषु च १०९
पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे
अतीसारे ज्वरे दाहे श्वयथौ च विशेषतः ११०
योनिशुक्रप्रदोषेषु मूत्रेष्वप्रचुरेषु च
पुरीषे ग्रथिते पथ्यं वातपित्तविकारिणाम् १११
नस्यालेपावगाहेषु वमनास्थापनेषु च
विरेचने स्नेहने च पयः सर्वत्र युज्यते ११२
यथाक्रमं क्षीरगुणानेकैकस्य पृथक् पृथक्
अन्नपानादिकेऽध्याये भूयो वक्ष्याम्यशेषतः ११३
अथापरे त्र्यो वृक्षाः पृथग्ये फलमूलिभिः
स्नुह्यर्काश्मन्तकास्तेषामिदं कर्म पृथक् पृथक् ११४
वमनेऽश्मन्तकं विद्यात् स्नुहीक्षीरं विरेचने
क्षीरमर्कस्य विज्ञेयं वमने सविरेचने ११५
इमांस्त्रीनपरान् वृक्षानाहुर्येषां हितास्त्वचः
पूतीकः कृष्णगन्धा च तिल्वकश्च तथा तरुः ११६
विरेचने प्रयोक्तव्यः पूतीकस्तिल्वकस्तथा
कृष्णगन्धा परीसर्पे शोथेष्वर्शःसु चोच्यते ११७
दद्रुविद्रधिगण्डेषु कुष्ठेष्वप्यलजीषु च
षड्वृक्षाञ्छोधनानेतानपि विद्याद्विचक्षणः ११८
इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च
मूत्रं क्षीराणि वृक्षाश्च षड् ये दिष्टपयस्त्वचः ११९
ओषधिर्नामरूपाभ्यां जानते ह्यजपा वने
अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः १२०
न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः
ओषधीनां परां प्राप्तिं कश्चिद्वेदितुमर्हति १२१
योगवित्त्वप्यरूपज्ञस्तासां तत्त्वविदुच्यते
किं पुनर्यो विजानीयादोषधीः सर्वथा भिषक् १२२
योगमासां तु यो विद्याद्देशकालोपपादितम्
पुरुषं पुरुषं वीक्ष्य स ज्ञेयो भिषगुत्तमः १२३
यथा विषं यथा शस्त्रं यथाग्निरशनिर्यथा
तथौषधमविज्ञातं विज्ञातममृतं यथा १२४
औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः
विज्ञातं चापि दुर्युक्तमनर्थायोपपद्यते १२५
योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्
भेषजं चापि दुर्युक्तं तीक्ष्णं संपद्यते विषम् १२६
तस्मान्न भिषजा युक्तं युक्तिबाह्येन भेषजम्
धीमता किंचिदादेयं जीवितारोग्यकाङ्क्षिणा १२७
कुर्यान्निपतितो मूर्ध्नि सशेषं वासवाशनिः
सशेषमातुरं कुर्यान्नत्वज्ञमपमौषधम् १२८
दुःखिताय शयानाय श्रद्दधानाय रोगिणे
यो भेषजमविज्ञाय प्राज्ञमानी प्रयच्छति १२९
त्यक्तधर्मस्य पापस्य मृत्युभूतस्य दुर्मतेः
नरो नरकपाती स्यात्तस्य संभाषणादपि १३०
वरमाशीविषविषं क्वथितं ताम्रमेव वा
पीतमत्यग्निसन्तप्ता भक्षिता वाऽप्ययोगुडाः १३१
नतु श्रुतवतां वेशं बिभ्रता शरणागतात्
गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात् १३२
भिषग्वुभूषुर्मतिमानतः स्वगुणसम्पदि
परं प्रयत्नमातिष्ठेत् प्राणदः स्याद्यथा नृणाम् १३३
तदेव युक्तं भैषज्यं यदारोग्याय कल्पते
स चैव भिषजां श्रेष्टो रोगेभ्यो यः प्रमोचयेत् १३४
सम्यक्प्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम्
सिद्धिराख्याति सर्वैश्च गुणैर्युक्तं भिषक्तमम् १३५
तत्र श्लोकाः--
आयुर्वेदागमो हेतुरागमस्य प्रवर्तनम्
सूत्राणस्याभ्यनुज्ञानमायुर्वेदस्य निर्णयः १३६
संपूर्णं कारणं कार्यमायुर्वेदप्रयोजनम्
हेतवश्चैव दोषाश्च भेषजं संग्रहेण च १३७
रसाः सप्रत्ययद्रव्यास्त्रिविधो द्रव्यसंग्रहः
मूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च १३८
मूत्रं क्षीराणि वृक्षाश्च षड् ये क्षीरत्वगाश्रयाः
कर्माणि चैषां सर्वेषां योगायोगगुणागुणाः १३९
वैद्यापवादो यत्रस्थाः सर्वे च भिषजां गुणाः
सर्वमेतत् समाख्यातं पूर्वाध्याये महर्षिणा १४०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने
दीर्घञ्जीवितीयो नाम प्रथमोऽध्यायः १

द्वितीयोऽपामार्गतण्डुलीयाध्यायः
अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अपामार्गस्य बीजानि पिप्पलीर्मरिचानि
विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि ३
अजाजीं चाजगन्धां च पीलून्येलां हरेणुकाम्
पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्ज्ञकौ ४
शिरीषबीजं लशुनं हरिद्रे लवणद्वयम्
ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने ५
गौरवे शिरसः शूले पीनसेऽर्धावभेदके
क्रिमिव्याधावपस्मारे घ्राणनाशे प्रमोहके ६
मदनं मधुकं निम्बं जीमूतं कृतवेधनम्
पिप्पलीकुटजेक्ष्वाकूण्येलां धामार्गवाणि च ७
उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये
वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन् ८
त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचां
कम्पिल्लकं गवाक्षीं च क्षीरिणीमुदकीर्यकाम् ९
पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च
पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत् १०
पाटलां चाग्निमन्थं च बिल्वं श्योनाकमेव च
काश्मर्यं शालपर्णीं च पृश्निपर्णीं निदिग्धिकाम् ११
बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम्
यवान् कुलत्थान् कोलानि गुडूचीं मदनानि च १२
पलाशं कत्तृणं चैव स्नेहांश्च लवणानि च
उदावर्त्ते विबन्धेषु युञ्ज्यादास्थापनेषु च १३
अत एवौषधगणान् संकल्पमनुवासनम्
मारुतघ्नमिति प्रोक्तः संग्रहः पाञ्चकर्मिकः १४
तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः
पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन् १५
मात्राकालाश्रया युक्तिः सिद्धिर्युक्तौ प्रतिष्ठिता
तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा १६
अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः
विविधानां विकाराणां तत्साध्यानां निवृत्तये १७
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
यवागूर्दीपनीया स्याच्छूलष्नी चोपसाधिता १८
दधित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता
पाचनी ग्राहिणी पेया सवाते पाञ्चमूलिकी १९
शालपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता
दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम् २०
पयस्यर्धोदके च्छागे ह्रीवेरोत्पलनागरैः
पेया रक्ततिसारघ्नी पृश्निपर्ण्या च साधिता २१
दद्यात् सातिविषां पेयां सामे साम्लां सनागराम्
श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम् २२
विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचने च
तक्रसिद्धा यवागूः स्यात् क्रिमिघ्नी ससुवर्चिका २३
मृद्वीका सारिवालाजपिप्पलीमधुनागरैः
पिपासाघ्नी विषघ्नी च सोमराजीविपाचिता २४
सिद्धा वराहनिर्यूहे यवागूर्बृंहणी मता
गवेधुकानां भृष्टानां कर्शनीया समाक्षिका २५
सर्पिष्मती बहुतिला स्नेहनी लवणान्विता
कुशामलकनिर्यूहे श्यामाकानां विरुक्षणी २६
दशमूलीशृता कासहिक्काश्वासकफापहा
यमके मदिरासिद्धा पक्काशयरुजापहा २७
शाकैर्मांसैस्तिलैर्माषैः सिद्धा वर्चो निरस्यति
जम्ब्वाम्रास्थिदधित्थाम्लबिल्वैः साङ्ग्राहिकी मता २८
क्षारचित्रकहिड्ग्वम्लवेतसैर्मेदिनी मता
अभयापिप्पलीमूलविश्वैर्वातानुलोमनी २९
तक्रसिद्धा यवागूः स्याद्घृतव्यापत्तिनाशिनी
तैलव्यापदि शस्ता स्यात्तक्रपिण्याकसाधिता ३०
गव्यमांसरसैः साम्ला विषमज्वरनाशिनी
कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता ३१
ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा
समाषविदला वृष्या घृतक्षीरोपसाधिता ३२
उपोदिकादधिभ्यां तु सिद्धा मदविनाशिनी
क्षुधं हन्यादपामार्गक्षीरगोधारसैः शृता ३३
त्त्रश्लोकः--
अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः
पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसंग्रहः ३४
पूर्वं मूलफलज्ञानहेतोरुक्तं यदौषधम्
पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः ३५
स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान्
भिषगौषधसंयोगैश्चिकित्सां कर्तुमर्हति ३६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽपामार्गतण्डुलीयो नाम
द्वितीयोऽध्यायः २

तृतीय आरग्वधीयाध्यायः
अथात आरग्वधीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
आर्ग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक् ३
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे
फणिज्ज्ञको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनः प्रवालाः ४
वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च
मनः शिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः ५
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेवपिष्टाः
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः ६
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदद्रु
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम् ७
कुष्ठं हरिद्रे सुरसंपटोलं निम्बाश्वगन्धे सुरदारुशिग्रू
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात् ८
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत
तेनास्य कण्डूः पिडकाः सकोंठाः कुष्ठानि शोफाश्च शमं व्रजन्ति ९
कुष्ठामृतासङ्गकटङ्कटेरी कासीसकम्पिल्लकमुस्तलोध्राः
सैगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक् १०
तैलाक्तगात्रस्य कृतानि चूर्णोन्येतानि दद्यादवचूर्णनार्थम्
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम् ११
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः
तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत्समनःशिलं स्यात् १२
रसाञ्जनं सप्रपुनाडबीजं युक्तं कपित्थस्य रसेन लेपः
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः १३
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्
त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात् १४
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन १५
पलाशनिदहिरसेन चापि कर्षोद्धृतान्याढकसंमितेन
दर्वीप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय १६
पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः
तैलाक्तगात्रस्य नरस्य कुष्ठा न्युद्व्रर्तयेदश्वहनच्छदैश्च १७
कोलं कुलत्थाः सुरदारुरास्ना माषातसीतैलफलानि कुष्ठम्
वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः १८
आनुपमत्स्यामिषवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात्
स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः १९
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठरे निहन्यात्
कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लमुशन्ति वाते २०
उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च
घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते २१
रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च
घृतं च सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः २२
वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च
नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः २३
प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च
शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च २४
रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला च
जीवन्तिमूलं सघृतं सतैलमालेपनं पार्श्वरुजासु कोष्णम् २५
शैवालपद्मोत्पलवेत्रतुङ्गप्रपौण्डरीकाण्यमृणाललोध्रम्
प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः २६
सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा
यवासमूलं कुशकाशयोश्च निर्वापणः स्याज्जलमेरका च २७
शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना
शीतं निहन्यादचिरात् प्रदेहो विषं शिरीषस्तु ससिन्धुवारः २८
शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः
पत्राम्बुलोध्रभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः २९
तत्र श्लोकः --
इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः
चूर्णप्रदेहान् विविधामयघ्ना नारग्वधीये जगतो हितार्थम् ३०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने
आरग्वधीयो नाम तृतीयोऽध्यायः ३

चतुर्थो षड्विरेचनशताश्रितीयाध्यायः
अथातः षड्विरेचनशताश्रितीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु षड् विरेचनशतानि भवन्ति षड् विरेचनाश्रयाः पञ्चकषाययोनयः पञ्चविधकषायकल्पनं पञ्चाशन्महाकषायाः पञ्चकषायशतानि इति संग्रहः ३
षड् विरेचनशतानि इति यदुक्तं तदिह संग्रहेणोदाहृत्य विस्तरेण कल्पोपनिषदि व्याख्यास्यामः त्रयस्त्रिंशद्योगशतं प्रणीतं फलेषु एकोनचत्वारिंशज्जीमूतकेषु योगाः पञ्चचत्वारिंशदिक्ष्वाकुषु धामार्गवः षष्टिधा भवति योगयुक्तः कुटजस्त्वष्टादशधा योगमेति कृतवेधनं षष्टिधा भवति योगयुक्तं श्यामात्रिवृद्योगशतं प्रणीतं दशापरे चात्र भवन्ति योगाः चतुरङ्गुलो द्वादशधा योगमेति लोध्रं विधौ षोडशयोगयुक्तं महावृक्षो भवति विंशतियोगयुक्तः एकोनचत्वारिंशत् सप्तलाशङ्खिन्योर्योगाः अष्टचत्वारिंशद्दन्तीद्रवन्त्योः इति षड्विरेचनशतानि ४
षड्विरेचनाश्रया इति क्षीरमूलत्वक्पत्रपुष्पफलानीति ५
पञ्च कषाययोनय इति मधुरकषायोऽम्लकषायःकटुकषायस्तिक्तकषायः कषायकषायश्चेति तन्त्रे संज्ञा ६
पञ्चविधं कषायकल्पनमिति तद्यथास्वरसः कल्कः शृतः शीतः फाण्टः कषाय इति यन्त्रनिष्पीडिताद् द्रव्याद्रसः स्वरस उच्यते यः पिण्डो रसपिष्टानां स कल्कः परिकीर्तितः वह्नौ तु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः द्रव्यादापोत्थितात्तोये प्रतप्ते निशि संस्थितात् कषायो योऽभिनिर्याति स शीतः समुदाहृतःक्षिप्त्वोष्णतोये मृदितं तत् फाण्टं परिकीर्तितम् तेषां यथापूर्वं बलाधिक्यम् अतः कषायकल्पना व्याधातुरबलापेक्षिणी न त्वेवं खलु सर्वाणि सर्वत्रोपयोगीनि भवन्ति ७
पञ्चाशन्महाकषाया इति यदुक्तं तदनुव्याख्यास्यामः १
तद्यथाजीवनीयो बृंहणीयो लेखनीयो भेदनीयः सन्धानीयो दीपनीय इति षट्कः कषायवर्गः २
बल्यो वर्ण्यः कण्ठ्यो हृद्य इति चतुष्कः कषायवर्गः ३
तृप्तिघ्नोऽर्शोध्नः कुष्ठघ्नः कण्डूघ्नः क्रिमिघ्नो विषघ्न इति षट्कः कषायवर्गः ४
स्तन्यजननः स्तन्यशोधनः शुक्रजननः शुक्रशोधन इति चतुष्कः कषायवर्गः ५
स्नेहोपगः स्वेदोपगः वमनोपगो विरेचनोपग आस्थापनोपगोऽनुवासनोपगःशिरोविरेचनोपग इति सप्तकः कषायवर्गः ६
छर्दिनिग्रहणस्तृष्णानिग्रहणो हिक्कानिग्रहण इति त्रिकः कषायवर्गः ७
पुरीषसंग्रहणीयः पुरीषविरजनीयो मूत्रसंग्रहणीयो मूत्रविरजनीयो मूत्रविरेचनीय इति पञ्चकः कषायवर्गः ८
कासहरः श्वासहरः शोथहरो ज्वरहरः श्रमहर इति पञ्चकः कषायवर्गः ९
दाहप्रशमनः शीतप्रशमन उदर्दप्रशमनोऽङ्गमर्दप्रशमनः शूलप्रशमन इति पञ्चकः कषायवर्गः १०
शोणितस्थापनो वेदनास्थापनः संज्ञास्थापनः प्रजास्थापनो वयःस्थापन इति पञ्चकः कषायवर्गःइति पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति तेषामेकैकस्मिन् महाकषाये दश दशावयविकान् कषायाननुव्याख्यास्यामः तान्येव पञ्च कषायशतानि भवन्ति ८ १
तद्यथा जीवकर्षभकौ मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपर्ण्यौ जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति २
क्षीरिणी राजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलीवाट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा इति दशेमानि बृंहणीयानि भवन्ति ३
मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकट्रोहिणीचित्रकचिरबिल्वहैमवत्य इति दशेमानि लेखनीयानि भवन्ति ४
सुवहार्कोरुबुकाग्निमुखीचित्राचित्रकचिरबिल्वशङ्खिनीशकुलादनीस्वर्णक्षीरिण्य इति दशेमानि भेदनीयानि भवन्ति ५
मधुकमधुपर्णीपृश्निपर्ण्यम्बष्ठकीसमङ्गामोचरसघातकीलोध्रप्रियङ्गुकट्फलानीति दशेमानि सन्धानीयानि भवन्ति ६
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदाभल्लातकास्थिहिङ्गु-निर्यासा इति दशेमानि दीपनीयानि भवन्ति इति षट्कः कषाय वर्गः ९ ७
ऐन्द्र्यृषभ्यतिरसर्ष्यप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिबला इति दशेमानि बल्यान भवन्ति ८
चन्दनतुङ्गपद्मकोशीरमधुकमञ्जिष्ठासारिवापयस्यासितालता इति दशेमानिवर्ण्यानि भवन्ति ९
सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहं सपादीबृहतीकण्टकारिकाइति दशेमानि कण्ठ्यानि भवन्ति १०
आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि भवन्ति इति चतुष्कः कषायवर्गः १० ११
नागरचव्यचित्रकविडङ्गमूर्वागुडूचीवचामुस्तपिप्पलीपटोलानीति दशेमानि तृप्तिघ्नानि भवन्ति १२
कुटजबिल्वचित्रकनागरातिविषाभयाधन्वयासकदारुहरिद्रावचाचव्यानीति दशेमान्यर्शोघ्नानि भवन्ति १३
खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकरवीरविडङ्गजातीप्रवालाइति दशेमानि कुष्ठघ्नानि भवन्ति १४
चन्दननलदकृतमालनक्तमालनिम्बकुटजसर्षपमधुकदारुहरिद्रामुस्तानीतिदशेमानि कण्डूघ्नानि भवन्ति १५
अक्षीवमरिचगण्डीरकेबुकविडङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रावृषपर्णिकाखुपर्णिका इति दशेमानि क्रिमिघ्नानि भवन्ति १६
हरिद्रामञ्जिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकतकशिरीषसिन्धुवारश्लेष्मातका इति दशेमानि विषघ्नानि भवन्ति इति षट्कः कषायवर्गः ११ १७
वीरणशालिषष्टिकेक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटकत्तृणमूलानीति दशेमानि स्तन्यजननानि भवन्ति १८
पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुरोहिणीसारिवा इति दशेमानि स्तन्यशोधनानि भवन्ति १९
जीवकर्षभककाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीमेदावृद्धरुहाजटिलाकुलिङ्गा इति दशेमानि शुक्रजननानि भवन्ति २०
कुष्ठैलवालुककट्फलसमुद्रफेनकदम्बनिर्यासेक्षुकाण्डेक्ष्विक्षुरकवसुकोशीराणीति दशेमानि शुक्रशोधनानि भवन्ति इति चतुष्कः कषायवर्गः १२ २१
मृद्वीकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकाकोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानि स्नेहीपगानि भवन्ति २२
शोभाञ्जनकैरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदराणीतिदशेमानि स्वेदोपगानि भवन्ति २३
मधुमधुककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पा इति दशेमानि वमनोपगानि भवन्ति २४
द्राक्षाकाश्मर्यपरुषकामयामलकबिभीतककुवलबदरकर्कन्धुपीलूनीति दशेमानि विरेचनोपगानि भवन्ति २५
त्रिवृद्बिल्वपिप्पलीकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानीति दशेमान्यास्थापनोपगानि भवन्ति २६
रास्नासुरदारुबिल्वमदनशतपुष्पावृश्चीरपुनर्नवाश्वदंष्ट्राग्निमन्थश्योनाका इति दशेमान्यनुवासनोपगानि भवन्ति २७
ज्योतिष्मतीक्षवक्मरिचपिप्पलीविडङ्गशिशुसर्षपापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शिरोविरेचनोपगानि भवन्ति इति सप्तकः कषायवर्गः १३ २८
जम्ब्वाम्रपल्लवमातुलुङ्गाम्लबदरदाडिमयवयष्टिकोशीरमृल्लाजा इति दशेमानि छर्दिनिग्रहणानि भवन्ति २९
नागरधन्वयवासकमुस्तपर्पटकचन्दनकिराततिक्तकगुडूचीह्रीवेरधान्यकपटोलानीति दशेमानि तृष्णानिग्रहणानि भवन्ति ३०
शटीपुष्करमूलबदरबीजकण्टकारिकाबृहतीबृक्षरुहाभयापिप्पलीदुरालभाकुलीरशृङ्ग्य इति दशेमानि हिक्कानिग्रहणानि भवन्ति इति त्रिकः कषायवर्गः १४ ३१
प्रियङ्ग्वनन्ताम्रास्थिकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणीति दशेमानि पुरीषसंग्रहणीयानि भवन्ति ३२
जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मलीश्रीवेष्टकभृष्टमृत्ययस्योत्पलतिलकणा इति दशेमानि पुरीषविरजनीयानि भवन्ति ३३
जम्ब्वाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकसोमवल्का इति दशेमानि मूत्रसंग्रहणीयानि भवन्ति ३४
पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गुधातकीपुष्पाणीति दशेमानि पूत्रविरजनीयानि भवन्ति ३५
वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुशकाशगुन्द्रेत्कटमूलानीति दशेमानि मूत्रविरेचनीयानि भवन्ति इति पञ्चकः कषायवर्गः १५ ३६
द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्ट कारिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कासहराणि भवन्ति ३७
शटीपुष्करमूलाम्लवेतसैलाहिङ्ग्वगुरुसुरसातामलकीजीवन्तीचण्डा इति दशेमानि श्वासहराणि भवन्ति ३८
पातलाग्निमन्थश्योनाकबिल्वकाश्मर्यकण्टकारिकाबृहतीशालपर्णीपृश्निपर्णीगोक्षुरका इति दशेमानि श्वयथुहरानि भवन्ति ३९
सारिवाशर्करापाठामञ्जिष्ठाद्राक्षापीलुपरुषकाभयामलकविभीतकानीति दशेमानि ज्वरहराणि भवन्ति ४०
द्राक्षाखर्जूरप्रियालवदरदाडिमफल्गुपरूषकेक्षुयवषष्टिका इति दशेमानि श्रमहराणि भवन्ति इति पञ्चकः कषायवर्गः १६ ४१
लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलोशीरसारिवागुडूचीह्रीवेराणीनि दशेमानि दाहप्रशमनानि भवन्ति ४२
तगरागुरुधान्यकशृङ्गवेरभूतीकवचाकण्टकार्यग्निमन्थश्योनाकपिप्पल्य इति दशेमानि शीतप्रशमनानि भवन्ति ४३
तिन्दुकप्रियालबदरखदिरकदरसप्तपर्णाश्वकर्णार्जुनासनारिमेदा इति दशेमान्युदर्दप्रशमनानि भवन्ति ४४
विदारीगन्धापृश्निपर्णीबृहतीकण्टकारिकैरण्डकाकोलीचन्दनोशीरैलामधुकानीति दशेमान्यङ्गमर्दप्रशमनानि भवन्ति ४५
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचाजमोदाजगन्धाजाजीगण्डीराणीति दशेमानी शूलप्रशमनानि भवन्ति इति पञ्चकः कषायवर्गः १७ ४६
मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रियङ्गुशर्करालाजा इति दशेमानि शोणितस्थापनानि भवन्ति ४७
शालकट्फलकदम्बपद्मकतुम्बमोचरसशिरीषवञ्जुलैलवालुकाशोका इति दशेमानि वेदनास्थापनानि भवन्ति ४८
हिङ्गुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीजटिलापलङ्कषाशोकरोहिण्य इति दशेमानि संज्ञास्थापनानि भवन्ति ४९
ऐन्द्रीब्राह्मीशतवीर्यासहस्रवीर्याऽमोघाऽव्यथाशिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्ता इति दशेमानि प्रजास्थापनानि भवन्ति ५०
अमृताऽभयाधात्रीमुक्ताश्वेताजीवन्त्यतिरसामण्डूकपर्णीस्थिरापुनर्नवा इति दशेमानि वयःस्थापनानि भवन्ति इति पञ्चकः कषायवर्गः १८
इति पञ्चकषायशतान्यभिसमस्य पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति १९
नहि विस्तरस्य प्रमाणमस्ति न चाप्यतिसंक्षेपोऽल्पबुद्धीनां सामर्थ्यायोपकल्पते तस्मादनतिसंक्षेपेणानतिविस्तरेण चोपदिष्टाः एतावन्तो ह्यलमल्पबुद्धीनां व्यवहाराय बुद्धिमतां च स्वालक्षण्यानुमानयुक्तिकुशलानामनुक्तार्थज्ञानायेति २०
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच नैतानि भगवन् पञ्च कषायशतानि पूर्यन्ते तानि तानि ह्येवाङ्गान्युपप्लवन्ते तेषु तेषु महाकषायेष्विति २१
तमुवाच भगवानात्रेयःनैतदेवं बुद्धिमता द्रष्टव्यमग्निवेश एकोऽपि ह्यनेकां संज्ञां लभते कार्यान्तराणि कुर्वन् तद्यथापुरुषो बहूनां कर्मणां करणे समर्थो भवति स यद्यत् कर्म करोति तस्य तस्य कर्मणः कर्तृकरणकार्यसंप्रयुक्तं तत्तद्गौणं नामविशेषं प्राप्नोति तद्वदौषधद्रव्यमपि द्रष्टव्यम्यदि चैकमेव किंचिद् द्रव्यमासादयामस्तथागुणयुक्तं यत् सर्वकर्मणां करणे समर्थं स्यात् कस्ततोऽन्यदिच्छेदुपधारयितुमुपदेष्टुं वा शिष्येभ्य इति २२
तत्र श्लोकाः--
यतो यावन्ति यैर्द्रव्यैर्विरेचनशतानि षट्
उक्तानि संग्रहेणेह तथैवैषां षडाश्रयाः २३
रसा लवणवर्ज्याश्च कषाय इति संज्ञिताः
तस्मात् पञ्चविधा योनिः कषायाणामुदाहृता २४
तथा कल्पनमप्येषामुक्तं पञ्चविधं पुनः
महतां च कषायाणां पञ्चाशत् परिकीर्तिता २५
पञ्च चापि कषायाणां शतान्युक्तानि भागशः
लक्षणार्थं प्रमाणं हि विस्तरस्य न विद्यते २६
न चालमतिसंक्षेपः सामर्थ्यायोपकल्पते
अल्पबुद्धेरयं तस्मान्नातिसंक्षेपविस्तरः २७
मन्दानां व्यवहाराय बुधानां बुद्धिवृद्धये
पञ्चाशत्को ह्ययं वर्गः कषायाणामुदाहृतः २८
तेषां कर्मसु बाह्येषु योगमाभ्यन्तरेषु च
संयोगं च प्रयोगं च यो वेद स भिषग्वरः २९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने षड्विरेचनशताश्रितीयो
नाम चतुर्थोऽध्यायः इति भेषजचतुष्कः

पञ्चमोऽध्यायः
अथातो मात्राशितीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
मात्राशी स्यात् आहारमात्रा पुनरग्निबलापेक्षिणी ३
यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य
मात्राप्रमाणं वेदितव्यं भवति ४
तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्वरादीन्याहारद्रव्याणि प्र कृतिलघून्यपि मात्रापेक्षीणि भवन्ति
तथा पिष्टेक्षुक्षीरविकृतितिलभाषानूपौदकपिशितादीन्याहारद्रव्याणि प्रकृति
गुरूण्यपि मात्रामेवापेक्षन्ते ५
न चैवमुक्ते द्रव्ये गुरुलाघवमकारणम् मन्येत लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति पृथ्वीसोमगुणबहुलीनीतराणि तस्मात् स्वगुणादपि लघून्यग्निसन्धुक्षणस्वभावान्यल्पदषाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि गुरूणि पुनर्नाग्निसन्धुक्षणस्वभावान्यसामन्यात् अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात् सैषा भवत्यग्निबलापेक्षिणी मात्रा ६
न च नापेक्षते द्रव्यं द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणा मुपदिश्यते लघूनामपि च नातिसौहित्यमग्नेर्युक्त्यर्थम् ७
मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युपयोक्ता रमवश्यमिति ८
भवन्ति चात्र
गुरु पिष्टमयं तस्मात्तण्डुलान् पृथुकानपि
न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः ९
वल्लूरं शुष्कशाकानि शालूकानि बिसानि च
नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत् १०
कूर्चिकांश्च किलाटांश्च शौकरं गव्यमाहिषे
मत्स्यान् दधि च माषांश्च यवकांश्च न शीलयेत् ११
षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान्
आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत् १२
तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते
अजातानां विकाराणामनुत्पत्तिकरं च यत् १३
अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम्
स्वस्थवृत्तिमभिप्रेत्य गुणतः संप्रवक्ष्यते १४
सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत्
पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम् १५
चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्
ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम् १६
दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम्
विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति १७
तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते
यथा हि कनकादीनां मलिनां विविधात्मनाम् १८
धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः
एवं नेत्रेषु मर्त्यानामञ्जनाश्च्योतनादिभिः १९
दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत्
हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम् २०
ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम्
ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम् २१
न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः
वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले २२
श्रीवेष्टकं शल्लकी च शुकबर्हमथापि च
पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम् २३
अङ्गुष्ठसंमितां कुर्यादष्टाङ्गुलसमां भिषक्
शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नरः २४
स्नेहाक्तामग्निसंप्लुष्टां पिबेत् प्रायोगिकीं सुखाम्
वसाघृतमधूच्छिष्टैर्युक्तियुक्तैर्वरौषधैः २५
वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत्
श्वेता ज्योतिष्मती चैव हरितालं मनःशिला २६
गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने
गौरवं शिरसः शूलं पीनसार्धावभेदकौ २७
कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः
दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः २८
पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः
हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे २९
श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका
खालित्यं पिञ्जरत्वं च केशानां पतनं तथा ३०
क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता
धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम् ३१
शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च
न च वातकफात्मानो बलिनोऽप्यूर्ध्वजत्रुजाः ३२
धूमवक्रकपानस्य व्याधयः स्युः शिरोगताः
प्रयोगपाने तस्याष्टौ कालाः संपरिकीर्तिताः ३३
वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते
स्नात्वा भुक्त्वा समुल्लिख्यक्षुत्वा दन्तान्निघृष्य च ३४
नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत्
तथा वातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः ३५
रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः
परं द्विकालपायी स्यादह्नः कालेषु बुद्धिमान् ३६
प्रयोगे स्नैहिके त्वेकं वैरेच्यं त्रिचतुः पिबेत्
हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः ३७
यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम्
बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम् ३८
अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान्
तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम् ३९
स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि
शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम् ४०
परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः
न विरिक्तः पिबेद् धूमं न कृते बस्तिकर्मणि ४१
न रक्ती न विषेणार्तौ न शोचन्न च गर्भिणी
न श्रमे न मदे नामे न पित्ते न प्रजागरे ४२
न मूर्च्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते
न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम् ४३
धूमं न भुक्त्वा दध्ना च न रूक्षः क्रद्ध एव च
न तालुशोषे तिमिरे शिरस्यभिहते न च ४४
न शङ्खके न रोहिण्यां न मेहे न मदात्यये
एषु धूममकालेषु मोहात् पिबति यो नरः ४५
रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात्
धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये ४६
घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत्
आस्येन धूमकवलान् पिबन् घ्राणेन नोद्वमेत् ४७
प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी
ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम् ४८
पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान्
चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने ४९
द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते
ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम् ५०
बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते
दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः ५१
नेन्द्रियं बधते धूमो मात्राकालनिषेवितः
यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत् ५२
कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्
अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत् ५३
स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्
तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते ५४
तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम्
शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते ५५
इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते
वर्षे वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत् ५६
प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले
नस्यकर्म यथाकालं यो यथोक्तं निषेवते ५७
न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते
न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः ५८
न च केशाः प्रमुच्यन्ते वर्धन्ते च विशेषतः
मन्यास्तम्भः शिरःशूलमर्दितं हनुसंग्रहः ५९
पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति
सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः ६०
नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्
मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् ६१
सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्
न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः ६२
जीर्यतश्चोत्तमाङ्गेषु जरा न लभते बलम्
चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम् ६३
प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्
ह्रीवेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम् ६४
जीवन्तीं पृश्निपर्णीं च सुरदारु शतावरीम्
हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम् ६५
विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि
तैलाद्दशगुणं शेषं कषायमवतारयेत् ६६
तेन तैलं कषायेण दशकृत्वो विपाचयेत्
अथास्य दशमे पाके समांशं छागलं पयः ६७
दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः
अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम् ६८
स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः
त्र्यहात्र्यहाच्च सप्ताहमेतत् कर्म समाचरेत् ६९
निवातोष्णसमाचारी हिताशी नियतेन्द्रियः
तैलमेतत्त्रिदोषघ्नमिन्द्रियाणां बलप्रदम् ७०
प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान्
आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम् ७१
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्
निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम् ७२
निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम्
करञ्जकरवीरार्कमालतीककुभासनाः ७३
शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः
सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च ७४
जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि च
जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च ७५
दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत्
धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता ७६
जातीकटुकपूगानां लवङ्गस्य फलानि च
कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा
तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च ७७
हन्वोर्बलं स्वरबलं वदनोपचयः परः
स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा ७८
न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्
न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च ७९
न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च
परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात् ८०
नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते
न खालित्यं न पालित्यं न केशाः प्रपतन्ति च ८१
बलं शिरःकपालानां विशेषेणाभिवर्धते
दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च ८२
इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम्
निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात् ८३
न कर्णरोगा वातोत्था न मन्याहनुसंग्रहः
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात् ८४
स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्
भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा ८५
तथा शरीरमभ्यङ्गाद् दृढं सुत्वक् च जायते
प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम् ८६
स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम्
त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः ८७
ना चाभिघाताभिहतं गारमभ्यङ्गसेविनः
विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित् ८८
सुस्पर्शोऽपचिताङ्गश्च बलवान् प्रियदर्शनः
भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च ८९
खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः
सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात् ९०
जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः
दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति ९१
न च स्याद्ग्रध्रसीवातः पादयोः स्फुटनं न च
न सिरास्नायुसंकोचः पादाभ्यङ्गेन पादयोः ९२
दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्
स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम् ९३
पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम्
शरीरबलसन्धानं स्नानमोजस्करं परम् ९४
काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्
श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम् ९५
वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्
सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम् ९६
धन्यं मङ्गल्यमायुष्यं श्रीमद्व्ययसनसूदनम्
हर्षणं काम्यमोजस्यं रत्नाभरणधारणम् ९७
मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्
पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः ९८
पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्
केशश्मश्रुनखादीनां कल्पनं संप्रसाधनम् ९९
चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्
बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम् १००
ईतेः प्रशमनं बल्यं गुप्त्यावरणशङ्करम्
घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते १०१
स्खलतः संप्रतिष्ठानं शत्रूणां च निषूदनम्
अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम् १०२
नगरी नगरस्येव रथस्येव रथी यथा
स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत् १०३
भवति चात्र--
वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः
शममध्ययनं चैव सुखमेवं समश्नुते १०४
तत्र श्लोकाः--
मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम्
द्रव्याणां गर्हितोऽभ्यासो येषां येषां च शस्यते १०५
अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना
धूमपानगुणाः कालाः पानमानं च यस्य यत् १०६
व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः
पेयो यथा यन्मयं च नेत्रं यस्य च यद्विधम् १०७
नस्यकर्मगुणा नस्तःकार्यं यच्च यथा यदा
भक्षयेदन्तपवनं यथा यद्यद्गुणं च यत् १०८
यदर्थं यानि चास्येन धार्याणि कवलग्रहे
तैलस्य ये गुणा दिष्टाः शिरस्तैलगुणाश्च ये १०९
कर्णतैले तथाऽभ्यङ्गे पादाभ्यङ्गेऽङ्गमार्जने
स्नाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे ११०
शौचे संहरणे लोम्नां पादत्रच्छरधारणे
गुणा माराशितीयेऽस्मिंस्तथोक्ता दण्डधारणे १११
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने मात्राशितीयो नाम
पञ्चमोऽध्यायः समाप्तः ५

षष्ठोऽध्यायः
अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते
यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम् ३
इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्
तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत् वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च ४
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति इतरे पुनरादाने सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्याययति शश्वत् अतो विसर्गः सौम्यः आदानं पुनराग्नेयं तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते ५
तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथाक्रमं रौक्ष्यमुत्पादयन्तो रूक्षान् रसांस्तिक्तकषायकटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति ६
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे शशिनि चाव्याहतबले माहेन्द्रसलिलप्रशान्तसन्तापे जगति अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति ७
भवति चात्र--
आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्
मध्ये मध्यबलं त्वन्ते श्रेष्ठमग्रे च निर्दिशेत् ८
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः ९
स यदा नेन्धनं युक्तं लभते देहजं तदा
रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति १०
तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान्
औदकानूपमांसानां मेद्यानामुपयोजयेत् ११
बिलेशयानां मांसानि प्रसहानां भृतानि च
भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः १२
गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्
हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते १३
अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्
भजेद्भमिगृहं चोष्णमुष्णं गर्भगृहं तथा १४
शीतेषु संवृतं सेव्यं यानं शयनमासनम्
प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम् १५
गुरूष्णवासा दिग्धाङ्गो गुरूणाऽगुरुणा सदा
शयने प्रमदां पीनां विशालोपचितस्तनीम् १६
आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः
प्रकामं च निषेवेत मैथुनं शिशिरागमे १७
वर्जयेदन्नपानानि वातलानि लघूनि च
प्रवातं प्रमिताहारमुदमन्थं हिमागमे १८
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्
रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम् १९
तस्माद्धैमान्तिकः सर्वः शिशिरे विधिरिष्यते
निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत् २०
कटुतिक्तकषायाणि वातलानि लघूनि च
वर्जयेदन्नपानानि शिशिरे शीतलानि च २१
वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून् २२
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्
गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत् २३
व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे २४
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः
शारभं शाशमैणेयं मांसं लावकपिञ्जलम् २५
भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा
वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम् २६
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम् २७
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः
घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति २८
मद्यमल्पं न वा पेयमथवा सुबहूदकम्
लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत् २९
दिवा शीतगृहे निद्रां निशि दन्द्रांशुशीतले
भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके ३०
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः
सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ३१
काननानि च शीतानि जलानि कुसुमानि च
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ३२
आदानदुर्बले देहे पक्ता भवति दुर्बलः
स वर्षास्वनिलादीनां दुषणैर्बाध्यते पुनः ३३
भूवाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः ३४
तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते
उदमन्थं दिवास्वप्नमवश्यायं नदीजलम् ३५
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्
पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत् ३६
व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि
विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये ३७
अग्निसंरक्षणवता यवगोधूमशालयः
पुराणा जाङ्गलैर्मांसैर्भोज्या युषैश्च संस्कृतैः ३८
पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा
माहेन्द्रं तप्तशीतं वा औपं सारसमेव वा ३९
प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत्
लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम् ४०
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति ४१
तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्
पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः ४२
लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान्
शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये ४३
तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्
धाराधरात्यये कार्यमातपस्य च वर्जनम् ४४
वसां तैलमवश्यायमौदकानूपमामिषम्
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत् ४५
दिवा सूर्यांशुसंतप्तं निशि चन्द्रांशुशीतलम्
कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम् ४६
हंसोदकमिति ख्यातं शारदं विमलं शुचि
स्नानपानावगाहेषु हितमम्बु यथाऽमृतम् ४७
शारदानि च माल्यानि वासांसि विमलानि च
शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः ४८
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्
उपशेते यदौचित्यादोकः सात्म्यं तदुच्यते ४९
देशानामामयानां च विपरीतगुणं गुणैः
सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च ५०
तत्र श्लोकः--
ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किंचन
तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च ५१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तस्याशितीयो नाम
षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातो नवेगान्धारणीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
न वेगान् धारयेद्धींआञ्जातान् मूत्रपुरीषयोः
न रेतसो न वातस्य न छर्द्याः क्षवथोर्न च ३
नोद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः
न वाष्पस्य न निद्राया निःश्वासस्य श्रमेण च ४
एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये
पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु ५
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
विनामो वंक्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ६
स्वेदावगाहनाभ्यङ्गान् सर्पिषश्चावपीडकम्
मूत्रे प्रतिहते कुर्यात्त्रिविधं बस्तिकर्म च ७
पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम्
पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते ८
स्वेदाभ्यङ्गावगाहाश्च वर्तयो बस्तिकर्म च
हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि च ९
मेढ्रे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा
भवेत् प्रतिहते शुक्रे विबधं मूत्रमेव च १०
तत्राभ्यङ्गोऽवगाहश्च मदिरा चरणायुधाः
शालिः पयो निरूहश्च शस्तं मैथुनमेव च ११
सङ्गो विण्मूत्रवातानामाध्मानं वेदना क्लमः
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् १२
स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च
पानानि बस्तयश्चैव शस्तं वातानुलोमनम् १३
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः
कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः १४
भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम्
रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते १५
मन्यास्तन्भः शिरःशूलमर्दितार्धावभेदकौ
इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात् १६
तत्रोर्ध्वजत्रुकेऽभ्यङ्गः स्वेदो धूमः सनावनः
हितं वातघ्नमाद्यं च घृतं चौत्तरभक्तिकम् १७
हिक्का श्वासोऽरुचिः कम्पो विबन्धो हृदयोरसोः
उद्गारनिग्रहात्तत्र हिक्कायास्तुल्यमौषधम् १८
विनामाक्षेपसंकोचाः सुप्तिः कम्पः प्रवेपनम्
जृम्भाया निग्रहात्तत्र सर्वं वातघ्नमौषधम् १९
कार्श्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिर्भ्रमः
क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघु भोजनम् २०
कण्ठास्यशोषो बाधिर्यं श्रमः सादो हृदि व्यथा
पिपासानिग्रहात्तत्र शीतं तर्पणमिष्यते २१
प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भ्रमः
बाष्पनिग्रहणात्तत्र स्वप्नो मद्यं प्रियाः कथाः २२
जृम्भाऽङ्गमर्दस्तन्द्रा च शिरोशोगोऽक्षिगौरवम्
निद्राविधारणातत्र स्वप्नः संवाहनानि च २३
गुल्महृद्रोगसंमोहाः श्रमनिःश्वासधारणात्
जायन्ते तत्र विश्रामो वातघ्न्यश्च क्रिया हिताः २४
वेगनिग्रहजा रोगा य एते परिकीर्तिताः
इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत् २५
इमांस्तु धारयेद्वेगान् हितार्थी प्रेत्य चेह च
साहसानामशस्तानां मनोवाक्कायकर्मणाम् २६
लोभशोकभयक्रोधमानवेगान् विधारयेत्
नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाश्च बुद्धिमान् २७
परुषस्यातिमात्रस्य सूचकस्यानृतस्य च
वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम् २८
देहप्रवृत्तिर्या काचिद्विद्यते परपीडया
स्त्रीभोगस्तेयहिंसाद्या तस्यावेगान्विधारयेत् २९
पुण्यशब्दो विपापत्वान्मनोवाक्कायकर्मणाम्
धर्मार्थकामान् पुरुषः सुखी भुङ्क्ते चिनोति च ३०
शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी
देहव्यायामसंख्याता मात्रया तां समाचरेत् ३१
लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ३२
श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः
अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते ३३
स्वेदागमः श्वासवृद्धिर्गात्राणां लाघवं तथा
हृदयाद्युपरोधश्च इति व्यायामलक्षणम् १
व्यायामहास्यभाष्याध्वग्राम्यधर्मप्रजागरान्
नोचितानपि सेवेत बुद्धिमानतिमात्रया ३४
एतानेवंविधांश्चान्यान् योऽतिमारं निषेवते
गजं सिंह इवाकर्षन् सहसा स विनश्यति ३५
अतिव्यवायभाराध्वकर्मभिश्चातिकर्शिताः
क्रोधशोकभयायासैः क्रान्ता ये चापि मानवाः १
बालवृद्धप्रवाताश्च ये चोच्चैर्बहुभाषकाः
ते वर्जयेयुर्व्यायामं क्षुधितास्तृषिताश्च ये २
उचितादहिताद्धीमान् क्रमशो विरमेन्नरः
हितं क्रमेण सेवेत क्रमश्चात्रोपदिश्यते ३६
प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत्
एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा ३७
क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः
सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च ३८
समपित्तानिलकफाः केचिद्गर्भादि मानवाः
दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा ३९
तेषामनातुराः पूर्वे वातलाद्याः सदातुराः
दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते ४०
विपरीतगुणस्तेषां स्वस्थवृतेर्विधिर्हितः
समसर्वरसं सात्म्यं समधातोः प्रशस्यते ४१
द्वे अधः सप्त शिरसि खानि स्वेदमुखानि च
मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः ४२
मलवृद्धिं गुरुतया लाघवान्मलसंक्षयम्
मलायनानां बुध्येत सङ्गोत्सर्गादतीव च ४३
तान् दोषलिङ्गैरादिश्य व्याधीन् साध्यानुपाचरेत्
व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन् ४४
विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे
जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत् ४५
माधवप्रथमे मासि नभस्यप्रथमे पुनः
सहस्यप्रथमे चैव हारयेद्दोषसंचयम् ४६
स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः
बस्तिकर्म ततः कुर्यान्नस्यकर्म च बुद्धिमान् ४७
यथाक्रमं यथायोग्यमत ऊर्ध्वं प्रयोजयेत्
रसायनानि सिद्धानि वृष्ययोगांश्च कालवित् ४८
रोगास्तथा न जायन्ते प्रकृतिस्थेषु धातुषु
धातवश्चाभिवर्धन्ते जरा मान्द्यमुपैति च ४९
विधिरेष विकाराणामनुत्पतौ निदर्शितः
निजानामितरेषां तु पृथगेवोपदेक्ष्यते ५०
ये भूतविषवाय्वग्निसंप्रहारादिसंभवाः
नृणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति ५१
ईर्ष्याशोकभयक्रोधमानद्वेषादयश्च ये
मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः ५२
त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः
देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम् ५३
आगन्तूनामनुत्पत्तावेष भार्गो निदर्शितः
प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः ५४
आप्तोपदेशप्रज्ञानं प्रतिपत्तिश्च कारणम्
विकाराणामनुत्पतावुत्पन्नानां च शान्तये ५५
पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः
मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः ५६
परापवादरतयश्चपला रिपुसेविनः
निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः ५७
बुधिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः
बृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः ५८
सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः
सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः ५९
आहाराचारचेष्टासु सुखार्थी प्रेत्य चेह च
परं प्रयत्नमातिष्ठेद्बुद्धिमान् हितसेवने ६०
न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम्
नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना ६१
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्
प्राप्नुयात्कामलां चोग्रां विधिं हित्वा दधिप्रियः ६२
तत्र श्लोकाः--
वेगा वेगसमुत्थाश्च रोगास्तेषां च भेषजम्
येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम् ६३
उचिते चाहिते वर्ज्ये सेव्ये चानुचिते क्रमः
यथाप्रकृति चाहारो मलायनगदौषधम् ६४
भविष्यतामनुत्पत्तौ रोगाणामौषधं च यत्
वर्ज्याः सेव्याश्च पुरुषा धीमताऽऽत्मसुखार्थिना ६५
विधिना दधि सेव्यं च येन यस्मातदत्रिजः
नवेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः ६६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयो नाम
सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथात इन्द्रियोपक्रमणीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु पञ्चेन्द्रियाणि पञ्चेन्द्रियद्रव्याणि पञ्चेन्द्रियाधिष्ठानानि पञ्चेन्द्रियार्थाःपञ्चेन्द्रियबुद्धयो भवन्ति इत्युक्तमिन्द्रियाधिकारे ३
अतीन्द्रियं पुनर्मनः सत्वसंज्ञकं चेतः इत्याहुरेके तदर्थात्मसंपदायत्तचेष्टं चेष्टाप्रत्ययभूतमिन्द्रियाणाम् ४
स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणाच्चानेकमेकस्मिन् पुरुषे सत्त्वं रजस्तमः सत्त्वगुणयोगाच्च न चानेकत्वं नह्येकं ह्येककालमनेकेषु प्रवर्तते तस्मान्नैककाला सर्वेन्द्रियप्रवृतिः ५
यद्गुणं चाभीक्ष्णं पुरुषमनुवर्तते सत्त्वं तत्सत्त्वमेवोपदिशन्ति मुनयो बाहुल्यानुशयात् ६
मनःपुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानि भवन्ति ७
तत्र चक्षुः श्रोत्रं घ्राणं रसनं स्पर्शनमिति पञ्चेन्द्रियाणि ८
पञ्चेन्द्रियद्रव्याणि खं वायुर्ज्योतिरापो भूरिति ९
पञ्चेन्द्रियाधिष्ठानानि अक्षिणी कर्णौ नासिके जिह्वा त्वक् चेति १०
पञ्चेन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः ११
पञ्चेन्द्रियबुद्धयः चक्षुर्बुद्ध्यादिकाः ताःपुनरिन्द्रियेन्द्रियार्थसत्त्वात्मसन्निकर्षजाः क्षणिका निश्चयात्मिकाश्च इत्येतत् पञ्चपञ्चकम् १२
मनो मनोर्थो बुद्धिरात्मा चेत्यध्यात्मद्रव्यगुणसंग्रहः शुभाशुभप्रवृत्तिनिवृत्तिहेतुश्च द्रव्याश्रितं च कर्म यदुच्यते क्रियेति १३
तत्रानुमानगम्यानां पञ्चमहाभूतविकारसमुदायात्मकानामपि सतामिन्द्रियाणां तेजश्चक्षुषि खं श्रोत्रे घ्राणे क्षितिः आपो रसने स्पर्शनेऽनिलो विशेषेणोपपद्यते तत्र यद्यदात्मकमिन्द्रियं विशेषात्तत्तदात्मकमेवार्थमनुगृह्णति तत्स्वभावाद्विभुत्वाच्च १४
तदर्थातियोगायोगमिथ्यायोगात् समनस्कमिन्द्रियं विकृतिमापद्यमानं यथास्वं बुद्ध्युपघाताय संपद्यते सामर्थ्ययोगात् पुनः प्रकृतिमापद्ममानं यथास्वं बुद्धिमाप्याययति १५
मनसस्तु चिन्त्यमर्थः तत्र मनसो मनोबुद्धेश्च त एव समानातिहीनमिथ्यायोगाः प्रकृतिविकृतिहेतवो भवन्ति १६
तत्रेन्द्रियाणां समनस्कानामनुपतप्तानामनुपतापाय प्रकृतिभावे प्रयतितव्यमेभिर्हेतुभिः तद्यथासात्म्येन्द्रियार्थसंयोगेन बुद्ध्या सम्यगवेक्ष्यावेक्ष्य कर्मणां सम्यक् प्रतिपादनेन देशकालात्मगुणविपरीतोपासनेन चेति तस्मादात्महितं चिकीर्षता सर्वेण सर्वं सर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठेयम् १७
तध्यनुतिष्ठन् युगपत् संपादयत्यर्थद्वयमारोग्यमिन्द्रियविजयं चेति तत् सद्वृत्तमखिलेनोपदेक्ष्यामोऽग्निवेश तद्यथादेवगोब्राह्मणगुरुवृद्धसिद्धाचार्यनर्चयेत् अग्निमुपचरेत् औषधीः प्रशस्ता धारयेत् द्वौ कालावुपस्पृशेत् मलायनेष्वभीक्ष्णं पादयोश्च वैमल्यमादध्यात् त्रिः पक्षस्य केशश्मश्रुलोमनखान् संहारयेत् नित्यमनुपहतवासाः सुमनाः सुगन्धिः स्यात् साधुवेशः प्रसिद्धकेशः मूर्धश्रोत्रघ्राणपादतैलनित्यः धूमपः पूर्वाभिभाषी सुमुखः दुर्गेष्वभ्युपपत्ता होता यष्टा दाता चतुष्पथानां नमस्कर्ता बलीनामुपहर्ता अतिथीनां पूजकः पितृभ्यः पिण्डदः काले हितमितमधुरार्थवादी वश्यात्मा धर्मात्मा हेतावीर्ष्युः फले नेर्ष्युः निश्चिन्तः निर्भीकः ह्रीमान् धीमान् महोत्साहः दक्षः क्षमावान् धार्मिकः आस्तिकः विनयबुद्धिविद्याभिजनवयोवृद्धसिद्धचार्याणामपासिता छत्री दण्डी मौली सोपानत्को युगमात्रदृग्विचरेत् मङ्गलाचारशीलः कुचेलास्थिकण्टकामेध्यकेशतुषोत्करभस्मकपालस्नानबलिभूमीनां परिहर्ता प्राक् श्रमाद् व्यायामवर्जी स्यात् सर्वप्राणिषु बन्धुभूतः स्यात् क्रुद्धानामनुनेता भीतानामाश्वासयिता दीनानामभ्युपपत्ता सत्यसंधः सामप्रधानः परपरुषवचनसहिष्णुः अमर्षघ्नः प्रशमगुणदर्शी रागद्वेषहेतूनां हन्ता च १८
नानृतं ब्रूयात् नान्यस्वमाददीत नान्यस्रियमभिलषेन्नान्यश्रियं नवैरं रोचयेत् न कुर्यात् पापं न पापेऽपि पापी स्यात् नान्यदोषान् ब्रूयात् नान्यरहस्यमागमयेन् नाधार्मिकैर्न नरेन्द्रद्विष्टैः सहासीत नोन्मत्तैर्न पतितैर्न भ्रूणहन्तृभिर्न क्षुद्रैर्न दुष्टैः न दुष्टयानान्यारोहेत न जानुसमं कठिनमासनमध्यासीत नानास्तीर्णमनुपहितमविशालमसमं वा शयनं प्रपद्येत न गिरिविषममस्तकेष्वनुचरेत् न द्रुममारोहेत् न जलोग्रवेगमवगाहेत न कूलच्छायामुपासीत नाग्न्युत्पातमभितश्चरेत् नोच्चैर्हसेत् न शब्दवन्तं मारुतं मुञ्चेत् नानावृतमुखो जृम्भां क्षवथुं हास्यं वा प्रवर्तयेत् न नासिकां कुष्णीयात् न दन्तान् विघट्टयेत् न नखान् वादयेत् नास्थीन्यभिहन्यात् न भूमिं विलिखेत् न छिन्द्यात्तृणं न लोष्टं मृद्गीयात् न विगुणमङ्गैश्चेष्टेत ज्योतींष्यनिष्टममेध्यमशस्तं च नाभिवीक्षेत न हुंकुर्याच्छवं न चैत्यध्वजगुरुपूज्याशस्तच्छायामाक्रामेत् न क्षपास्वमरसदनचैत्यचत्वरचतुष्पथोपवनश्मशानाघातनान्यासेवेत नैकः शून्यगृहं न चाटवीमनुप्रविशेत् न पापवृत्तान् स्त्रीमित्रभृत्यान् भजेत नोत्तमैर्विरुध्येत नावरानुपासीत न जिह्मं रोचयेत् नानार्यमाश्रयेत् न भयमुत्पादयेत् न साहसातिस्वप्नप्रजागरस्नानपानाशनानयासेवेत नोर्ध्वजानुश्चिरं तिष्ठेत् न व्यालानुपसर्पेन्न दंष्ट्रिणो न विषाणिनः पुरोवातातपावश्यायातिप्रवाताञ्जह्यत् कलिं नारभेत नासुनिभृतोऽग्निमुपासीत नोच्छिष्टः नाधः कृत्वा प्रतापयेत् नाविगतक्लमो नानाप्लुतवदनो न नग्न उपस्पृशेत् न स्नानशाट्या स्पृशेदुत्तमाङ्गं न केशाग्राण्यभिहन्यात् नोपस्पृश्य ते एव वाससी बिभृयात् नास्पृष्ट्वा रत्नाज्यपूज्यमङ्गलसुमनसोऽभिनिष्क्रामेत् न पूज्यमङ्गलान्यपसव्यं गच्चेन्नेतराण्यनुदक्षिणम् १९
नारत्नपाणिर्नास्नातो नोपहतवासा नाजपित्वा नाहुत्वा देवताभ्यो नानिरूप्यपितृभ्यो नादत्त्वा गुरुभ्यो नातिथिभ्यो नोपाश्रितेभ्यो नापुण्यगन्धो नामाली नाप्रक्षालितपाणिपादवदनो नाशुद्धमुखो नोदङ्मुखो न विमना नाभक्ताशिष्टाशुचिक्षुधितपरिचरो न पात्रीष्वमेध्यासु नादेशे नाकाले नाकीर्णे नादत्त्वाऽग्रमग्नये नाप्रोक्षितं प्रोक्षणोदकैर्न मन्त्रैरनभिमन्त्रितं न कुत्सयन्न कुत्सितं न प्रतिकूलोपहितमन्नमाददीत न पर्युषितमन्यत्र मांसहरितकशुष्कशाकफलभक्ष्येभ्यः नाशेषभुक् स्यादन्यत्र दधिमधुलवणसक्तुसर्पिर्भ्यः न नक्तं दधि भुञ्जीत न सक्तूनेकान्श्नीयान्न निशि न भुक्त्वा न बहून्न द्विर्नोदकान्तरितान् न छित्त्वा द्विजैर्भक्षयेत् २०
नानृजुः क्षुयान्नाद्यान्न शयीत न वेगितोऽन्यकार्यः स्यात् न वाय्वग्निसलिलसोमार्कद्विजगुरुप्रतिमुखं निष्ठीविका वात वर्चोमूत्राण्युत्सृजेत् न पन्थानमवमूत्रयेन्न जनवति नान्नकाले न जपहोमाध्ययनबलिमङ्गलक्रियासु श्लेष्मसिङ्घाणकं मुञ्चेत् २१
न स्त्रियमवजानीत नातिविश्रम्भयेत् न गुह्यमनुश्रावयेत् नाधिकुर्यात् न रजस्वलां नातुरां नामेध्यां नाशस्तां नानिष्टरूपाचारोपचारां नादक्षां नादक्षिणां नाकामां नान्यकामां नान्यस्त्रियं नान्ययोनिं नायोनौ न चैत्यचत्वरचतुष्पथोपवनश्मशानाघातनसलिलौषधिद्विजगुरुसुरालयेषु न सन्ध्योर्नातिथिषु नाशुचिर्नाजग्धभेषजो नाप्रणीतसङ्कल्पो नानुपस्थितप्रहर्षो नाभुक्तवान्नात्यशितो न विषमस्थो न मूत्रोच्चारपीडितो न श्रमव्यायामोपवासक्लमाभिहतो नारहसि व्यवायं गच्छेत् २२
न सतो न गुरून् परिवदेत् नाशुचिरभिचारकर्मचैत्यपूज्यपूजाध्ययनमभिनिर्वर्तयेत् २३
न विद्युत्स्वनार्तवीषु नाभ्युदितासु दिक्षु नाग्निसंप्लवे न भूमिकम्पे न महोत्सवे नोल्कापाते न महाग्रहोपगमने न नष्टचन्द्रायां तिथौ न सन्ध्ययोर्नामुखाद्गुरोर्नावपतितं नातिमात्रं न तान्तं न विस्वरं नानवस्थितपदं नातिद्रुतं न विलम्बितं नातिक्लीबं नात्युच्चैर्नातिनीचैः स्वरैरध्ययनमभ्यस्येत् २४
नातिसमयं जह्यात् न नियमं भिन्द्यात् न नक्तं नादेशे चरेत् न सन्ध्यास्वभ्यवहाराध्ययनस्त्रीस्वपनसेवी स्यात् न बालवृद्धलुब्धमूर्खक्लिष्टक्लीबैः सह सख्यं कुर्यात् न मद्यद्यूतवेश्याप्रसङ्गरुचिः स्यात् न गुह्यं विवृणुयात् न कञ्चिदवजानीयात् नाहंमानी स्यान्नादक्षो नादक्षिणो नासूयकः न ब्राह्मणान् परिवदेत् न गवां दण्डमुद्यच्छेत् न वृद्धान्न गुरून्न गणान्न नृपान् वाऽधिक्षिपेत् न चातिब्रूयात् न बान्धवानुरक्तकृच्छ्रद्वितीयगुह्यज्ञान् बहिष्कुर्यात् २५
नाधीरो नात्युच्छ्रितसत्त्वः स्यात् नाभृतभृत्यः नाविश्रब्धस्वजनः नैकः सुखी न दुःखशीलाचारोपचारः न सर्वविश्रम्भी न सर्वाभिशङ्की न सर्वकालविचारी २६
न कार्यकालमतिपातयेत् नापरीक्षितमभिनिविशेत् नेन्द्रियवशगः स्यात् न चञ्चलं मनोऽनुभ्रामयेत् न बुद्धीन्द्रियाणामतिभारमादध्यात् न चातिदीर्घसूत्री स्यात् न क्रोधहर्षावनुविदध्यात् न शोकमनुवसेत् न सिद्धावुत्सेकं यच्छेन्नासिद्धौ दैन्यं प्रकृतिमभीक्ष्णं स्मरेत् हेतुप्रभावनिश्चितः स्याद्धेत्वारम्भनित्यश्च न कृत्यमित्याश्वसेत् न वीर्यं जह्यात् नापवादमनुस्मरेत् २७
नाशुचिरुत्तमाज्याक्षततिलकुशसर्षपैरग्नि जुहुयादात्मानमाशीर्भिराशासानः अग्निर्मे नापगच्छेच्छरीराद्वायुर्मे प्राणानादधातु विष्णुर्मे बलमादधातु इन्द्रो मे वीर्यं शिवा मां प्रविशन्त्वाप आपोहिष्ठेत्यपः स्पृशेत् द्विः परिमृज्योष्टौ पादौ चाभ्युक्ष्य मूर्धनि खानि चोपस्पृशेदद्भिरात्मानं हृदयं शिरश्च २८
ब्रह्मचर्यज्ञानदानमैत्रीकारुण्यहर्षोपेक्षाप्रशमपरश्च स्यादिति २९
तत्र श्लोकाः --
पञ्चपञ्चकमुद्दिष्टं मनो हेतुचतुष्टयम्
इन्द्रियोपक्रमेऽध्याये सद्वृत्तमखिलेन च ३०
स्वस्थवृत्तं यथोद्दिष्टं यः सम्यगनुतिष्ठति
स समाः शतमव्याधिरायुषा न वियुज्यते ३१
नृलोकमापूरयते यशसा साधुसंमतः
धर्मार्थावेति भूतानां बन्धुतामुपगच्छति ३२
परान् सुकृतिनो लोकान् पुण्यकर्मा प्रपद्यते
तस्माद्बृत्तमनुष्ठेयमिदं सर्वेण सर्वदा ३३
यच्चान्यदपि किंचित् स्यादनुक्तमिह पूजितम्
वृत्तं तदपि चात्रेयः सदैवाभ्यनुमन्यते ३४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने इन्द्रियोपक्रमणीयो
नामाष्टमोऽध्यायः ७
इति स्वस्थचतुष्को द्वितीयः २

नवमोऽध्यायः
अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्
गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये ३
विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते
सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ४
चतुर्णां भिषगादीनां गस्तानां धातुवैकृते
प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते ५
श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता
दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम् ६
बहुता तत्रयोग्यत्वमनेकविधकल्पना
संपचेति चतुष्कोऽयं द्रव्याणां गुण उच्यते ७
उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि
शौचं चेति चतुष्कोऽयं गुणः परिचरे जने ८
स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च
ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः ९
कारणां षोडशगुणं सिद्धौ पादचतुष्टयम्
विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु १०
पक्तौ हि कारणं पक्तुर्यथा पात्रेन्धनानलाः
विजेतुर्विजये भूमिश्चमूः प्रहरणानि च ११
आतुराद्यास्तथा सिद्धौ पादाः कारणसंज्ञिताः
वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक् १२
मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा
नावहन्ति गुणं वैद्यादृते पादत्रयं तथा १३
गन्धर्वपुरवन्नाशं यद्विकाराः सुदारुणाः
यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः १४
सति पादत्रये ज्ञाज्ञौ भिषजावत्र कारणम्
वरमात्मा हुतोऽज्ञेन न चिकित्सा प्रवर्तिता १५
पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत्
नौर्मारुतवशेवाज्ञो भिषक् चरति कर्मसु १६
यदृच्छया समापन्नमुत्तार्य नियतायुषम्
भिषड्मानी निहन्त्याशु शतान्यनियतायुषाम् १७
तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने
भिषक् चतुष्टये युक्तः प्राणाभिसर उच्यते १८
हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे
ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः १९
शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये
पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थं विशोधयेत् २०
विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया
यस्यैते षड्गुणास्तस्य न साध्यमतिवर्तते २१
विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः
वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यतः २२
यस्य त्वेते गुणाः सर्वे सन्ति विद्यादयः शुभाः
स वैद्यशब्दं सद्भूतमर्हन् प्राणिसुखप्रदः २३
शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिरात्मनः
ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति २४
चिकित्सते त्रयः पादा यस्माद्वैद्यव्यपाश्रयः
तस्मात् प्रयत्नमातिष्टेद्भिषक् स्वगुणसंपदि २५
मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम्
प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति २६
तत्र श्लोकौ--
भिषग्जितं चतुष्पादं पादः पादश्चतुर्गुणः
भिषक् प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यद्गुणः २७
ज्ञानानि बुद्धिर्ब्राह्मी च भिषजां या चतुर्विधा
सर्वमेतच्चतुष्पादे खुड्डाके संप्रकाशितमिति २८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने खुड्डाकचतुष्पादो नाम
नवमोऽध्यायः ९

दशमोऽध्यायः
अथातो महाचतुष्पादमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते यदुक्तं पूर्वाध्याये षोडशगुणमिति तद्भेषजं युक्तियुक्तमलमारोग्यायेति भगवान् पुनर्वसुरात्रेयः ३
नेति मैत्रेयः किं कारणं दृश्यन्ते ह्यातुराः केचिदुपकरणवन्तश्च परिचारकसंपन्नाश्चात्मवन्तश्च कुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः तथायुक्ताश्चापरे म्रियमाणाः तस्माद्भेषजमकिंचित्करं भवति तद्यथा श्वभ्रे सरसि च प्रसिक्तमल्पमुदकं नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिः प्रकीर्ण इति तथाऽपरे दृश्यन्तेऽनुपकरणाश्चापरिचारकाश्चानात्मवन्तश्चाकुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः तथायुक्ता म्रियमाणाश्चापरे यतश्च प्रतिकुर्वन् सिध्यति प्रतिकुर्वन् म्रियते अप्रतिकुर्वन् सिध्यति अप्रतिकुर्वन् म्रियते ततश्चिन्त्यते भेषजमभेषजेनाविशिष्टमिति ४
मैत्रेय मिथ्या चिन्त्यत इत्यात्रेयः किं कारणं ये ह्यातुराः षोडशगुणसमुदितेनानेन भेषजेनोपपद्यमाना म्रियन्त इत्युक्तं तदनुपपन्नं न हि भेषजसाध्यानां व्याधीनां भेषजमकारणं भवति ये पुनरातुराः केवलाद्भेषजादृते समुत्तिष्ठन्ते न तेषां संपूर्णभेषजोपपादनाय समुत्थानविशेषो नास्ति यथा हि पतितं पुरुषं स्मर्थमुत्थानायोत्थापयन् पुरुषो बलमस्योपादध्यात् स क्षिप्रतरमपरिक्लिष्ट एवोत्तिष्ठेत् तद्वत् संपूर्णभेषजोपलम्भादातुराः ये चातुराः केवलाद्भेषजादपि म्रियन्ते न च सर्व एव ते भेषजोपपन्नाः समुत्तिष्ठेरन् नहि सर्वे व्याधयो भवन्त्युपायसाध्याः न चोपायसाध्यानां व्याधीनामनुपायेन सिद्धिरस्ति न चासाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति न ह्यलं ज्ञानवान् भिषङ्मुमूर्षुमातुरमुत्थापयितुं परीक्ष्यकारिणो हि कुशला भवन्ति यथा हि योगज्ञोऽभ्यासनित्य इष्वासो धनुरादायेषुमस्यन्नातिविप्रकृष्टे महति काये नापराधवान् भवति संपादयति चेष्टकार्यं तथा भिषक् स्वगुणसंपन्न उपकरणवान् वीक्ष्य कर्मारभमाणः साध्यरोगमनपराधः संपादयत्येवातुरमारोग्येण तस्मान्न भेषजमभेषजेनाविशिष्टं भवति ५
इदं च नः प्रत्यक्षं यदनातुरेण भेषजेनातुरं चिकित्सामः क्षाममक्षामेण कृशं च दुर्बलमाप्याययामःस्थूलं मेदस्विनमपतर्पयामः शीतेनोष्णाभिभूतमुपचरामः शीताभिभूतमुष्णेन न्यूनान् धातून् पूरयामः व्यतिरिक्तान् ह्रासयामः व्याधीन् मूलविपर्ययेणोपचरन्तः सम्यक् प्रकृतौ स्थापयामः तेषां नस्तथा कुर्वतामयं भेषजसमुदायः कान्ततमो भवति ६
भवन्ति चात्र--
साध्यासाध्यविभागज्ञो ज्ञानपूर्वं चिकित्सकः
काले चारभते कर्म यत्तत् साधयति ध्रुवम् ७
अर्थविद्यायशोहानिमुपक्रोशमसंग्रहम्
प्राप्नुयान्नियतं वैद्यो योऽसाध्यं समुपाचरेत् ८
सुखसाध्यं मतं साध्यं कृच्छ्रसाध्यमथापि च
द्विविधं चाप्यसाध्यं स्याद्याप्यं यच्चानुपक्रमम् ९
साध्यानां त्रिविधश्चाल्पमध्यमोत्कृष्टतां प्रति
विकल्पो न त्वसाध्यानां नियतानां विकल्पना १०
हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य च
न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत् ११
न च कालगुणस्तुल्यो न देशो दुरुपक्रमः
गतिरेका नवत्वं च रोगस्योपद्रवो न च १२
दोषश्चैकः समुत्पतौ देहः सर्वौषधक्षमः
चतुष्पादोपपत्तिश्च सुखसाध्यस्य लक्षणम् १३
निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले
कालप्रकृतिदूष्याणां सामान्येऽन्यतमस्य च १४
गर्भिणी वृद्धबालानां नात्युपद्रवपीडितम्
शस्त्रक्षाराग्निकृत्यानामनवं कृच्छ्रदेशजम् १५
विद्यादेकपथं रोगं नातिपूर्णचतुष्पदम्
द्विपथं नातिकालं वा कृच्छ्रसाध्यं द्विदोषजम् १६
शेषत्वादायुषो याप्यमसाध्यं पथ्यसेवया
लब्धाल्पसुखमल्पेन हेतुनाऽऽशुप्रवर्तकम् १७
गम्भीरं बहुधातुस्थं मर्मसन्धिसमाश्रितम्
नित्यानुशायिनं रोगं दीर्घकालमवस्थितम् १८
विद्याद्द्विदोषजं तद्वत् प्रत्याख्येयं त्रिदोषजम्
क्रियापथमतिक्रान्तं सर्वमार्गानुसारिणम् १९
औत्सुक्यारतिसंमोहकरमिन्द्रियनाशनम्
दुर्बलस्य सुसंवृद्धं व्याधिं सारिष्टमेव च २०
भिषजा प्राक् परीक्ष्यैवं विकाराणां स्वलक्षणम्
पश्चात्कर्मसमारम्भः कार्यः साध्येषु धीमता २१
साध्यासाध्यविभागज्ञो यः सम्यक्प्रतिपत्तिमान्
न स मैत्रेयतुल्यानां मिथ्याबुद्धिं प्रकल्पयेत् २२
तत्र श्लोकौ--
इहौषधं पादगुणाः प्रभवो भेषजाश्रयः
आत्रेयमैत्रेयमती मतिद्वैविध्यनिश्चयः २३
चतुर्विधविकल्पाश्च व्याधयः स्वस्वलक्षणाः
उक्ता महाचतुष्पादे येष्वायत्तं भिषग्जितम् २४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महाचतुष्पादो नाम
दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातस्तिस्रैषणीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु पुरुषेणानुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितमिह चामुष्मिंश्च लोके समनुपश्यता तिस्र एषणाः पर्येष्टव्या भवन्ति तद्यथाप्राणैषणा धनैषणा परलोकैषणेति ३
आसां तु खल्वेषणानां प्राणैषणां तावत् पूर्वतरमापद्येत कस्मात् प्राणपरित्यागे हि सर्वत्यागः तस्यानुपालनंस्वस्थस्य स्वस्थवृत्तानुवृत्तिः आतुरस्यविकारप्रशमनेऽप्रमादः तदुभयमेतदुक्तं वक्ष्यते च तद्यथोक्तमनुवर्तमानः प्राणानुपालनाद्दीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति ४
अथ द्वितीयां धनैषणामापद्येत प्राणेभ्यो ह्यनन्तरं धनमेव पर्येष्टव्यं भवति न ह्यतः पापात् पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः तस्मादुपकरणानि पर्येष्टुंयतेत तत्रोपकरणोपायाननुव्याख्यास्यामः तद्यथाकृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि यानि चान्यान्यपि सतामविगर्हितानि कर्माणि वृतिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं तथा कुर्वन् दीर्घजीवितं जीवत्यनवमतः पुरुषो भवति इति द्वितीया धनैषणा व्याख्याता भवति ५
अथ तृतीयां परलोकैषणामापद्येत संशयश्चात्र कथं भविष्याम इतिश्च्युता नवेति कुतः पुनः संशय इति उच्यतेसन्ति ह्येके प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः सन्ति चागमप्रत्ययादेव पुनर्भवमिच्छन्ति श्रुतिभेदाच्चमातरं पितरं चैके मन्यन्ते जन्मकारणम् स्वभावं परनिर्माणं यदृच्छां चापरे जनाः इतिअतः संशयः किं नु खल्वस्ति पुनर्भवो न वेति ६
तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सां च कस्मात् प्रत्यक्षं ह्यल्पम् अनल्पमप्रत्यक्षमस्ति यदागमानुमानयुक्तिभिरुपलभ्यते यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते तान्येव सन्ति चाप्रत्यक्षाणि ७
सतां च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् करणदौर्बल्यान्मनोनवस्थानात् समानाभिहारादभिभवादतिसौक्ष्म्याच्च प्रत्यक्षानुपलब्धिः तस्मादपरीक्षितमेतदुच्यते प्रत्यक्षमेवास्ति नान्यदस्तीति ८
श्रुतयश्चैता न कारणं युक्तिविरोधात् आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि संचरेत् द्विविधं संचरेदात्मा सर्वो वाऽवयवेन वा ९
सर्वश्चेत् संचरेन्मातुः पितुर्वा मरणं भवेत्
निरन्तरं नावयवः कश्चित्सूक्ष्मस्य चात्मनः १०
बुद्धिर्मनश्च निर्णीते यथैवात्मा तथैव ते
येषां चैषा मतिस्तेषां योनिर्नास्ति चतुर्विधा ११
विद्यात् स्वाभाविकं षण्णां धातुनां यत् स्वलक्षणम्
संयोगे च वियोगे च तेषां कर्मैव कारणम् १२
अनादेश्चेतनाधातोर्नेष्यते परनिर्मितिः
पर आत्मा स चेद्धेतुरिष्टोऽस्तु परनिर्मितिः १३
न परीक्षा न परीक्ष्यं न कर्ता कारणं न च
न देवा नर्षयः सिद्धाः कर्म कर्मफलं न च १४
नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः
पातकेभ्यः परं चैतत् पातकं नास्तिकग्रहः १५
तस्मान्मतिं विमुच्यैताममार्गप्रसृतां बुधः
सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथम् १६
द्विविधमेव खलु सर्वं सच्चासच्च तस्य चतुर्विधा परीक्षा आप्तोपदेशः प्रत्यक्षम् अनुमानं युक्तिश्चेति १७
आप्तास्तावत्रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये येषां त्रिकालममलं ज्ञानमव्याहतं सदा १८
आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम्
सत्यं वक्ष्यन्ति ते तस्मादसत्यं नीरजस्तमाः १९
आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते
व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं सा निरुच्यते २०
प्रत्यक्षपूर्वं त्रिविधं त्रिकालं चानुमीयते
वह्निर्निगूढो धूमेन मैथुनं गर्भदर्शनात् २१
एवं व्यवस्यन्त्यतीतं बीजात् फलमनागतम्
दृष्ट्वा बीजात् फलं जातमिहैव सदृशं बुधाः २२
जलकर्षणबीजर्तुसंयोगात् सस्यसंभवः
युक्तिः षड्धातुसंयोगाद्गर्भाणां संभवस्तथा २३
मथ्यमन्थनमन्थानसंयोगादग्निसंभवः
युक्तियुक्ता चतुष्पादसंपद्व्याधिनिबर्हणी २४
बुद्धिः पश्यति या भावान् बहुकारणयोगजान्
युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया २५
एषा परीक्षा नास्त्यन्या यया सर्वं परीक्ष्यते
परीक्ष्यं सदसच्चैवं तया चास्ति पुनर्भवः २६
तत्राप्तागमस्तावद्वेदः यश्चान्योऽपिकश्चिद्वेदार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः स चाऽऽप्तागमः आप्तागमादुपलभ्यतेदानतपोयज्ञसत्याहिंसाब्रह्मचर्याण्यभ्युदयनिःश्रेयसकराणीति २७
न चानतिवृत्तसत्त्वदोषाणामदोषैरनुपुनर्भवो धर्मद्वारेषूपदिश्यते २८
धर्मद्वारावहितैश्च व्यपगतभयरागद्वेषलोभमोहमानैर्ब्रह्मपरैराप्तैः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः पूर्वैः पूर्वतरैर्महर्षिभिर्दिव्यचक्षुभिर्दृष्ट्वोपदिष्टः पुनर्भव इति व्यवस्येदेवम् २९
प्रत्यक्षमपि चोपलभ्यतेमातापित्रोर्विसदृशान्यपत्यानि तुल्यसंभवानां वर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः प्रवरावरकुलजन्म दास्यैश्वर्यं सुखासुखमायुः आयुषो वैषम्यम् इह कृतस्यावाप्तिः अशिक्षितानां च रुदितस्तनपानहासत्रासादीनां प्रवृत्तिः लक्षणोत्पत्तिः कर्मसादृश्ये फलविशेषः मेधा क्वचित् क्वचित् कर्मण्यमेधा जातिस्मरणम् इहागमनमितश्च्युतानामिति समदर्शने प्रियाप्रियत्वम् ३०
अत एवानुमीयतेयत्स्वकृतमपरिहार्यमविनाशि पौर्वदेहिकं दैवसंज्ञकमानुबन्धिकं कर्म तस्यैतत् फलम् इतश्चान्यद्भविष्यतीति फलाद्बीजमनुमीयते फलं च बिजात् ३१
युक्तिश्चैषाषड्धातुसमुदयाद्गर्भजन्म कर्तृकरणसंयोगात् क्रिया कृतस्य कर्मणः फलं नाकृतस्य नाङ्कुरोत्पत्तिरबीजात् कर्मसदृशं फलं नान्यस्माद्बीजादन्यस्योत्पत्तिः इति युक्तिः ३२
एवं प्रमाणैश्चतुर्भिरुपदिष्टे पुनर्भवे धर्मद्वारेष्ववधीयेत तद्यथा गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहवाङ्मानसे कर्मण्यक्लिष्टे देहेन्द्रियमनोर्थबुद्ध्यात्मपरीक्षायां मनःसमाधाविति यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं तथा कुर्वन्निह चैव यशो लभते प्रेत्य च स्वर्गम् इति तृतीया प्रलोकैषणा व्याख्याता भवति ३३
अथ खलु त्रय उपस्तम्भाः त्रिविधं बलं त्रीण्यायतनानि त्रयो रोगाः त्रयो रोगमार्गाः त्रिविधा भिषजः त्रिविधमौषधमिति ३४
त्रय उपस्तम्भा इतिआहारः स्वप्नो ब्रह्मचर्यमिति एभिस्त्रिभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोपचितमनुवर्तते यावदायुःसंस्कारात् संस्कारमहितमनुपसेवमानस्य य इहैवोपदेक्ष्यते ३५
त्रिविधं बलमिति सहसं कालजं युक्तिकृतं च सहजं यच्छरीरसत्त्वयोः प्राकृतं कालकृतमृतुविधागजं वयःकृतं च युक्तिकृतं पुनस्तद्यदाहारचेष्टायोगजम् ३६
त्रीण्यायतनानीतिअर्थानां कर्मणः कालस्य चातियोगायोगमिथ्यायोगाः तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः सर्वशोऽदर्शनमयोगः अतिश्लिष्टातिविप्रकृष्टरौद्रभैरवाद्भुतद्विष्टबीभत्सनविकृतवित्रासनादिरूपदर्शनं मिथ्यायोगः तथाऽतिमात्रस्तनितपटहोत्क्रुष्टादीनां शब्दानामतिमात्रं श्रवणमतियोगः सर्वशोऽश्रवणमयोगः परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः तथाऽतितीक्ष्णोग्राभिष्यन्दिनां गन्धानामतिमात्रं घ्राणमतियोगः सर्वशोऽघ्राणमयोगः पूतिद्विष्टामेध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं मिथ्यायोगः तथा रसानामत्यादानमतियोगः सर्वसोऽनादानमयोगः मिथ्यायोगो राशिवर्ज्येष्वाहारविधिविशेषायतनेषूपदेक्ष्यते तथाऽतिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्सादनादीनां चात्युपसेवनमतियोगः सर्वशोऽनुपसेवनमयोगः स्नानादीनां शीतोष्णादीनां च स्पृश्यानामनानुपूर्व्योपसेवनं विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयश्चेति मिथ्यायोगः ३७
तत्रैकं स्पर्श्नमिन्द्रियाणामिन्द्रियव्यापकं चेतः समवायि स्पर्शनव्याप्तेर्व्यापकमपि च चेतः तस्मात् सर्वेन्द्रियाणां व्यापकस्पर्शकृतो यो भावविशेषः सोऽयमनुपशयात् पञ्चविधिस्त्रिविधविकल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः सात्म्यार्थो ह्युपशयार्थः ३८
कर्म वाङ्मनःशरीरप्रवृत्तिः तत्र वाङ्मनःशरीरातिप्रवृत्तिरतियोगः सर्वशोऽप्रवृत्तिरयोगः वेगधारणोदीरणविषमस्खलनपतनाङ्गप्रणिधानाङ्गप्रदूषणप्रहारमर्दनप्राणोपरोधसंक्ले-शनादिः शारीरो मिथायोगः सूचकानृताकालकलहाप्रियाबद्धानुपचारपरुषवचनादिर्वाङ्मिथ्यायोगः भयशोकक्रोधलोभमोहमानेर्ष्यामिथ्यादर्शनादिर्मानसो मिथ्यायोगः ३९
संग्रहेण चातियोगायोगवर्जं कर्म वाङ्मनःशरीरजमहितमनुपदिष्टं यत्तच्च मिथ्यायोगं विद्यात् ४०
इति त्रिविधविकल्पं त्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत् ४१
शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः स कालः तत्रातिमात्रस्वलक्षणः कालः कालातियोगः हीनस्वलक्षणः कालः कालायोगः यथास्वलक्षणविपरीतलक्षणस्तु कालः कालमिथ्यायोगः कालः पुनः परिणाम उच्यते ४२
इत्यसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति त्रयस्रिविधविकल्पा
हेतवो विकाराणां समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति ४३
सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगान् समुपलभ्येते यथास्वयुक्त्यपेक्षिणौ हि भावाभावौ ४४
त्रयो रोगा इतिनिजागन्तुमानसाः तत्र निजः शारीरदोषसमुत्थः आगन्तुर्भूतविषवाय्वग्निसंप्रहारादिसमुत्थः मानसः पुनरिष्टस्य लाभाल्लाभाच्चानिष्टस्योपजायते ४५
तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्ध्या हिताहितमवेक्ष्यावेक्ष्य
धर्मार्थकामानामहितानामनुपसेवने हितानां चोपसेवने प्रयतितव्यं न ह्यन्तरेण लोके त्रयमेतन्मानसं किंचिन्निष्पद्यते सुखं वा दुःखं वा तस्मादेतच्चानुष्ठेयंतद्विद्यानां चोपसेवने प्रयतितव्यम् आत्मदेशकुलकालबलशक्तिज्ञाने थावच्चेति ४६
भवति चात्र--
मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम्
तद्विद्यासेवा विज्ञानमात्मादीनां च सर्वशः ४७
त्रयो रोगमार्गा इति--शाखा मर्मास्थिसन्धयः कोष्टश्च तत्र शाखा रक्तादयो धातवस्त्वक् च स बाह्यो रोगमार्गः मर्माणि पुनर्बस्तिहृदयमूर्धादीनि अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च स्नायुकण्डराः स मध्यमो रोगमार्गः कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयश्चेति पर्यायशब्दैस्तन्त्रे स रोगमार्ग आभ्यन्तरः ४८
तत्र गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः शाखानुसारिणो भवन्ति रोगाः पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयश्च मध्यममार्गानुसारिणो भवन्ति रोगाः ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः ४९
त्रिविधा भिषज इति--भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि ५०
वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः
लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः ५१
श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः
वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः ५२
प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः
जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितम् ५३
त्रिविधमौषधमिति--दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्वावजयश्च तत्र दैवव्यपाश्रयं--मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि युक्तिव्यपाश्रयं--पुनराहारौषधद्रव्याणां योजना सत्वावजयः--पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः ५४
शरीरदोषप्रकोपे खलुशरीरमेवाश्रित्य प्रायशास्त्रिविधमौषधमिच्छन्तिअन्तःपरिमार्जनं बहिःपरिमार्जनं शस्त्रप्रणिधानं चेति तत्रान्तःपरिमार्जनं यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन् प्रमार्ष्टि यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान् प्रमार्ष्टि तद्वहिःपरिमार्जनं शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति ५५
भवन्ति चात्र--
प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा
कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा ५६
बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते
उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः ५७
अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते
स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः ५८
न मूढो लभते संज्ञां तावद्यावन्न पीड्यते
पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे ५९
अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते
सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति ६०
तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम्
कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम् ६१
स त्रातारमनासाद्य बालस्त्यजति जीवितम्
गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा ६२
तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा
भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः ६३
तत्र श्लोकौ --
एषणाः समुपस्तम्भा बलं कारणमामयाः
तिस्रैषणीये मार्गाश्च भिषजो भेषजानि च ६४
त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता
भावा भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम् ६५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो
नामैकादशोऽध्यायः ११

द्वादशोऽध्यायः
अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
वातकलाकलाज्ञानमधितृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योऽन्यंकिंगुणो वायुः किमस्य प्रकोपणम् उपशमनानि वाऽस्य कानि कथं चैनमसङ्घातवन्तमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्यो वेति ३
अत्रोवाच कुशः साङ्कृत्यायनः--रूक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणा भवन्ति ४
तच्छ्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच एवमेतद्यथा भगवानाह एत एव वातगुणा भवन्ति स त्वेवंगुणैरेवंद्रव्यैरेवंप्रभावैश्च कर्मभिरभ्यस्यमानैर्वायुः प्रकोपमापद्यते समानगुणाभ्यासो हि धातूनां वृधिकारणमिति ५
तच्छ्रुत्वा वाक्यं काङ्कायनो बाह्लीकभिषगुवाच एवमेतद्यथा भगवानाह एतान्येव वातप्रकोपणानि भवन्ति अतो विपरीतानि वातस्य प्रशमनानि भवन्ति प्रकोपणविपर्ययो हि धातूनां प्रशमकारणमिति ६
तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच वमेतद्यथा भगवानाह एतान्येव वातप्रकोपप्रशमनानि भवन्ति यथा ह्येनमसङ्घातमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा तथाऽनुव्याख्यास्यामःवातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशदशुषिरकराणि शरीराणां तथाविधेषु शरीरेषु वायुराश्रयं गत्वाऽऽप्यायमानः प्रकोपमापद्यते वातप्रशमनानि पुनः स्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां तथाविधेषु शरीरेषु वायुरसज्यमानश्चरन् प्रशान्तिमापद्यते ७
तच्छ्रुत्वा बडिशवचनमवितथमृषिगणैरनुमतमुवाच वार्योविदो राजर्षि:एवमेतत् सर्वमनपवादं यथा भगवानाह यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिः शरीरेभ्यो वा भवन्ति तेषामवयवान् प्रत्यक्षानुमानोपदेशैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः वायुस्तन्त्रयन्त्रधरः प्राणोदानसमानव्यानापानात्मा प्रवर्तकश्चेष्टानामुच्चावचानां नियन्ता प्रणेता च मनसः सर्वेन्द्रियाणामुद्योजकः सर्वेन्द्रियार्थानामभिवोढा सर्वशरीरधातुव्यूहकरः सन्धानकरः शरीरस्य प्रवर्तको वाचः प्रकृतिः स्पर्शशब्दयोः श्रोत्रस्पर्शनयोर्मलं हर्षोत्साहयोर्योनिः समीरणोऽग्नेः दोषसंशोषणः क्षेप्ता बहिर्मलानां स्थूलाणुस्रोतसां भत्ता कर्ता गर्भाकृतीनाम् आयुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारैरुपतपति बलवर्णसुखायुषामुपघाताय मनो व्याहर्षयति सर्वेन्द्रियाण्युपहन्ति विनिहन्ति गर्भान् विकृतिमापादयत्यतिकालं वा धारयति भयशोकमोहदैन्यातिप्रलापाञ्जनयति प्राणांश्चोपरुणद्धि प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणीमानि भवन्ति तद्यथाधरणीधारणं ज्वलनौज्ज्वालनम् आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तानगतिविधानां सृष्टिश्च मेघानाम् अपां विसर्गः प्रवर्तनं स्रोतसां पुष्पफलानां चाभिनिर्वर्तनम् उद्भेदनं चौद्भिदानाम् ऋतूनां प्रविभागः विभागो धातूनां धातुमानसंस्थानव्यक्तिः बीजाभिसंस्कारः शस्याभिवर्धनमविक्लेदोपशोषणे अवैकारिकविकारश्चेति प्रकुपितस्य खल्वस्य लोकेषु चरतः कर्माणीमानि भवन्ति तद्यथाशिखरिशिखरावमथनम् उन्मथनमनोकहानाम् उत्पीडनं सागराणाम् उद्वर्तनं सरसां प्रतिसरणमापगानाम् आकम्पनं च भूमेः आधमनमम्बुदानां नीहारनिर्ह्रादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः व्यापादनं च षण्णामृतूनां शस्यानामसङ्घातः भूतानां चोपसर्गः भावानां चाभावकरणं चतुर्युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः स हि भगवान् प्रभवश्चाव्ययश्च भूतानां भावाभावकरः सुखासुखयोर्विधाता मृत्युः यमः नियन्ता प्रजापतिः अदितिः विश्वकर्मा विश्वरूपः सर्वगः सर्वतन्त्राणां विधाता भावानामणुः विभुः विष्णुः क्रान्ता लोकानां वायुरेव भगवानिति ८
तच्छ्रुत्वा वार्योविदवचो मरीचिरुवाचयद्यप्येवमेतत् किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्यमस्ति भिषग्विद्यायां भिषग्विद्यामधिकृत्येयं कथा प्रवृत्तेति ९
वार्योविद उवाच भिषक् पवनमतिबलमतिपरुषमतिशीघ्रकारिणमात्ययिकं चेन्नानुनिशम्येत् सहसा प्रकुपितमतिप्रयतः कथमग्रेऽभिरक्षितुमभिधास्यति प्रागेवैनमत्ययभयात् वायोर्यथार्था स्तुतिरपि भवत्यारोग्याय बलवर्णविवृद्धये वर्चस्वित्वायोपचयाय ज्ञानोपपत्तये परमायुः प्रकर्षाय चेति १०
मरीचिरुवाचअग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति तद्यथापक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमूष्मणः प्रकृतिविकृतिवर्णौ शौर्यं भयं क्रोधं हर्षं मोहं प्रसादमित्येवमादीनि चापराणि द्वन्द्वानीति ११
तच्छ्रुत्वा मरीचिवचः काप्य उवाचसोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति तद्यथा दार्ढ्यं शैथिल्यमुपचयं कार्श्यमुत्साहमालस्यं वृषतां क्लीबतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि द्वन्द्वानीति १२
तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाचसर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकवचनात् सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति सम्यगेवाचरिता धर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च लोके विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति ऋतवस्त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाल इति १३
तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्चेति १४
भवति चात्र--तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः १५
तत्र श्लोकौ--
गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत् पुनः
वायोश्चतर्विधं कर्म पृथक् च कफपित्तयोः १६
महर्षीणां मतिर्या या पुनर्वसुमतिश्च या
कलाकलीये वातस्य तत् सर्वं संप्रकाशितम् १७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने वातकलाकलीयो नाम
द्वादशोऽध्यायः समाप्तः १२
इति निर्देशचतुष्कः १३

त्रयोदशोऽध्यायः
अथातः स्नेहाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सांख्यैः संख्यातसंख्येयैः सहासीनं पुनर्वसुम्
जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम् ३
किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्
कालानुपाने के कस्य कति काश्च विचारणाः ४
कति मात्राः कथंमानाः का च केषूपदिश्यते
कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः ५
स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्
किं पानात् प्रथमं पीते जीर्णे किंच हिताहितम् ६
के मृदुक्ररकोष्ठाः का व्यापदः सिद्धयश्च काः
अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते ७
विचारणाः केषु योज्या विधिना केन तत् प्रभो
स्नेहस्यामितविज्ञानं ज्ञानमिच्छामि वेदितुम् ८
अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः
स्नेहानां द्विविधा सौम्य योनिः स्थावरजङ्गमा ९
तिलः प्रियालाभिषुकौ बिभीतकश्चित्राभयैरण्डमधूकसर्षपाः कुसुम्भबिल्वारुकमूलकातसीनिकोचकाक्षोडकरञ्जशिग्रुकाः १०
स्नेहाशयाः स्थावरसंज्ञितास्तथा स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः तेषां दधिक्षीरघृतामिषं वसा स्नेहेषु मज्जा च तथोपदिश्यते ११
सर्वेषां तैलजातानां तिलतैलं विशिष्यते
बलार्थे स्नेहने चाग्र्यमैरण्डं तुविरेचने १२
कटूष्णं तैलमैरण्डं वातश्लेष्महरं गुरु
कषायस्वादुतिक्तैश्च योजितं पित्तहन्त्रपि ११
सर्पिस्तैलं वसा मज्जा सर्वस्नेहोत्तमा मताः
एषु चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात् १३
घृतं पित्तानिलहरं रसशुक्रौजसां हितम्
निर्वापणं मृदुकरं स्वरवर्णप्रसादनम् १४
मारुतघ्नं न च श्लेष्मवर्धनं बलवर्धनम्
त्वच्यमुष्णं स्थिरकरं तैलं योनिविशोधनम् १५
विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि
पौरुषोपचये स्नेहे व्यायामे चेष्यते वसा १६
बलशुक्ररसश्लेष्ममेदोमज्जविवर्धनः
मज्जा विशेषतोऽस्थ्नां च बलकृत् स्नेहने हितः १७
सर्पिः शरदि पातव्यं वसा मज्जा च माधवे
तैलं प्रावृषि नात्युष्णशीते स्नेहं पिबेन्नरः १८
वातपित्ताधिको रात्रावुष्णे चापि पिबेन्नरः
श्लेष्माधिकोदिवा शीते पिबेच्चामलभास्करे १९
अत्युष्णे वा दिवा पीतो वातपित्ताधिकेन वा
मूर्च्छां पिपासामुन्मादं कामलां वा समीरयेत् २०
शीते रात्रौ पिबन् स्नेहं नरः श्लेष्माधिकोऽपि वा
आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति २१
जलमुष्णं घृते पेयं यूषस्तैलेऽनु शस्यते
वसामज्ज्ञोस्तु मण्डः स्यात् सर्वेषूष्णमथाम्बु वा २२
ओदनश्च विलेपी च रसो मांसं पयो दधि
यवागूः सूपशाकौ च यूषः काम्बलिकः खडः २३
सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च
भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः २४
गण्डूषः कर्णतैलं च नस्तःकर्णाक्षितर्पणम्
चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः २५
अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम्
स्नेहस्य स भिषग्दृष्टः कल्पः प्राथमकल्पिकः २६
रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः
षड्भिस्त्रिषष्टिधा संख्यां प्राप्नोत्येकश्च केवलः २७
एवमेताश्चतुःषष्टिः स्नेहानां प्रविचारणा
ओकर्तुव्याधिपुरुषान् प्रयोज्या जानता भवेत् २८
अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते
प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति २९
इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः
तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति ३०
प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः
पावकश्चोत्तमबलो येषां ये चोत्तमा बले ३१
गुल्मिनः सर्पदष्टाश्च विंसर्पोपहताश्च ये
उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च ३२
पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु
विकाराञ्छमयत्येषा शीघ्रं सम्यक्प्रयोजिता ३३
दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी
बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम् ३४
अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः
कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये ३५
नातिबह्वाशिनश्चैव मृदुकोष्ठास्तथैव च
पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले ३६
मात्रैषा मन्दविभ्रंशा न चातिबलहारिणी
सुखेन च स्नेहयति शोधनार्थे च युज्यते ३७
ये तु वृद्धाश्च ब्गालाश्च सुकुमाराः सुखोचिताः
रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये ३८
ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः
स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले ३९
परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी
वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते ४०
वातपित्तप्रकृतयो वातपितविकारिणः
चक्षुःकामाःक्षताःक्षीणा वृद्धा बालास्तथाऽबलाः ४१
आयुःप्रकर्षकामाश्च बलवर्णस्वरार्थिनः
पृष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये ४२
दीप्त्योजःस्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः
पिबेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः ४३
प्रवृद्धश्लेष्ममेदस्काश्चलस्थूलगलोदराः
वातव्याधिभिराविष्टा वातप्रकृतयश्च ये ४४
बलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम्
स्निग्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः ४५
कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः
पिबेयुः शीतले काले तैलं तैलोचिताश्च ये ४६
वातातपसहा ये च रूक्षा भाराध्वकर्शिताः
संशुष्करेतोरुधिरा निष्पीतकफमेदसः ४७
अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः
बलवान्मारुतो येषां खानि चावृत्य तिष्ठति ४८
महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः
तेषां स्नेहयितव्यानां वसापानं विधीयते ४९
दीप्ताग्नयः क्लेशसहा घस्मराः स्नेहसेविनः
वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः ५०
येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः
स्नेहनस्य प्रकर्षौ तु सप्तरात्रत्रिरात्रकौ ५१
स्वेद्याः शोधयितव्याश्च रूक्षा वातविकारिणः
व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्ये च चिन्तकाः ५२
संशोधनादृते येषां रूक्षणं संप्रवक्ष्यते
न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम् ५३
अभिष्यण्णाननगुदा नित्यमन्दाग्नयश्च ये
तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः ५४
अन्नद्विषश्छर्दयन्तो जठरामगरार्दिताः
दुर्बलाश्च प्रतान्ताश्च स्नेहग्लाना मदातुराः ५५
न स्नेह्या वर्तमानेषु न नस्तोबस्तिकर्मसु
स्नेहपानात् प्रजायन्ते तेषां रोगाः सुदारुणाः ५६
पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः
पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम् ५७
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्
मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते ५८
पाण्डुता गौरवं जाड्यं पुरीषस्याविपक्वता
तन्द्रीररुचिरुत्क्लेशः स्यादतिस्निग्धलक्षणम् ५९
द्रवोष्णमनभिष्यन्दि भोज्यमन्नं प्रमाणतः
नातिस्निग्धमसंकीर्णं श्वः स्नेहं पातुमिच्छता ६०
पिबेत् संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः
शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिबेन्नरः ६१
उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः
शकृन्मूत्रानिलोद्गारानुदीर्णांश्च न धारयेत् ६२
व्यायाममुच्चैर्वचनं क्रोधशोकौ हिमातपौ
वर्जयेदप्रवातं च सेवेत शयनासनम् ६३
स्नेहं पीत्वा नरः स्नेहं प्रतिभुञ्जान एव च
स्नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः ६४
मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया
स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः ६५
गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि
पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम् ६६
द्राक्षारसं पीलुरसं जलमुष्णमथापि वा
मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते ६७
विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन
भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला ६८
उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता
मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः ६९
उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्
भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा ७०
स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन् बली
स्नेहाग्निरुत्तमां तृष्णां सोपसर्गामुदीरयेत् ७१
नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि
स चेत् सुशीतं सलिलं नासादयति दह्यते
यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना ७२
अजीर्णे यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्भिषक्
शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नमुल्लिखेत् ७३
न सर्पिः केवलं पित्ते पेयं सामे विशेषतः
सर्वं ह्यनुरजेहेहं हत्वा संज्ञां च मारयेत् ७४
तन्द्रा सोत्क्लेश आनाहो ज्वरः स्तम्भो विसंज्ञता
कुष्ठानि कण्डूः पाण्डुत्वं शोफार्शांस्यरुचिस्तृषा ७५
जठरं ग्रहणीदोषः स्तैमित्यं वाक्यनिग्रहः
शूलमामप्रदोषाश्च जायन्ते स्नेहविभ्रमात् ७६
तत्रात्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम्
प्रति प्रति व्याधिबलं बुद्ध्वा स्रंसनमेव च ७७
तक्रारिष्टप्रयोगश्च रूक्षपानान्नसेवनम्
मूत्राणां त्रिफलायाश्च स्नेहव्यापतिभेषजम् ७८
अकाले चाहितश्चैव मारया न च योजितः
स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः ७९
स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्
स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम् ८०
एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्
स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत् ८१
स्नेहद्विषः स्नेहनित्या मृदुकोष्ठाश्च ये नराः
क्लेशासहा मद्यनित्यास्तेषामिष्टा विचारणा ८२
लावतैत्तिरमायूरहांसवाराहकौक्कुटाः
गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिताः ८३
यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः
दाडिमं दधि सव्योषं रससंयोगसंग्रहः ८४
स्नेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः
कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा ८५
फाणितं शृङ्गवेरं च तैलं च सुरया सह
पिबेद्रूक्षो भृतैर्मांसैर्जीर्णेऽश्नीयाच्च भोजनम् ८६
तैलं सुराया मण्डेन वसां मज्जानमेव वा
पिबन् सफाणितं क्षीरं नरः स्निह्यति वातिकः ८७
धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करं पयः
नरः स्निह्यति पीत्वा वा सरं दध्नः सफाणितम् ८८
पाञ्चप्रसृतिकी पेया पायसो माषमिश्रकः
क्षिरसिद्धौ बहुस्नेहः स्नेहयेदचिरान्नरम् ८९
सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृता
पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता ९०
शौकरो वा रसः स्निग्धः सर्पिर्लवणसंयुतः
पीतो द्विर्वासरे यत्नात् स्नेहयेदचिरान्नरम् १
ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान्
कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत् ९१
स्नेहैर्यथार्हं तान् सिद्धैः स्नेहयेदविकारिभिः
पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलयाऽपि वा ९२
द्राक्षामलकयूषाभ्यां दध्ना चाम्लेन साधयेत्
व्योषगर्भं भिषक् स्नेहं पीत्वा स्निह्यति तं नरः ९३
यवकोलकुलत्थानां रसाः क्षारः सुरा दधि
क्षीरसर्पिश्च तत् सिद्धं स्नेहनीयं घृतोत्तमम् ९४
तैलमज्जवसासर्पिर्बदरत्रिफलारसैः
योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत् ९५
गृह्णात्यम्बु यथा वस्त्रं प्रस्रवत्यधिकं यथा
यथाग्नि जीर्यति स्नेहस्तथा स्रवति चाधिकः ९६
यथा वाऽऽक्लेद्य मृत्पिण्डमासिक्तं त्वरया जलम्
स्रवति स्रंसते स्नेहस्तथा त्वरितसेवितः ९७
लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्
तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च ९८
स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्
स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत् ९९
तत्र श्लोकः--
स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा
यथाप्रश्नं भगवता व्याहृतं चान्द्रभागिना १००
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहाध्यायो नाम
त्रयोदशोऽध्यायः १३

चतुर्दशोऽध्यायः
अथातः स्वेदाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः
स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः ३
स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले
पुरीषमूत्ररेतांसि न सज्जन्ति कथंचन ४
शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः
नमयन्ति यथान्यायं किं पुनर्जीवतो नरान् ५
रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च
द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः ६
व्याधौ शीते शरीरे च महान् स्वेदो महाबले
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः ७
वातश्लेष्मणि वाते वा कफे वा स्वदे इष्यते
स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः ८
आमाशयगते वाते कफे पक्वाशयाश्रिते
रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च ९
वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा
मध्यमं वंक्षणौ शेषमङ्गावयवमिष्टतः १०
सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा
पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी ११
मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि
जलार्द्रैर्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत् १२
शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे
संजाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता १३
पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा
दाहः स्वराङ्गदौर्बल्यमतिस्विन्नस्य लक्षणम् १४
उक्तस्तस्याशितीये यो ग्रैष्मिकः सर्वशो विधिः
सोऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः १५
कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिनाम्
पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम् १६
विदग्धभ्रष्टब्रध्नानां विषमद्यविकारिणाम्
श्रान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहिनाम् १७
तृष्यतां क्षुधितानां च क्रुद्धानां शोचतामपि
कामल्युदरिणां चैव क्षतानामाढ्यरोगिणाम् १८
दुर्बलातिविशुष्काणामुपक्षीणौजसां तथा
भिषक् तैमिरिकाणां च न स्वेदमवतारयेत् १९
प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे
कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे २०
अर्दितैकाङ्गसर्वाङ्गपक्षाघाते विनामके
कोष्ठानाहविबन्धेषु मूत्राघाते विजृम्भके २१
पार्श्वपृष्ठकटीकुक्षिसंग्रहे गृध्रसीषु च
मूत्रकृच्छ्रे महत्त्वे च मुष्कयोरङ्गमर्दके २२
पादजानूरुजङ्घार्तिसंग्रहे श्वयथावपि
खल्लीष्वामेषु शीते च वेपथौ वातकण्टके २३
संकोचायामशूलेषु स्तम्भगौरवसुप्तिषु
सर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते २४
तिलमाषकुलत्थाम्लघृततैलामिषौदनैः
पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत् २५
गोखरोष्ट्रवराहाश्वशकृद्भिः सतुषैर्यवैः
सिकतापांशुपाषाणकरीषायसपूटकैः २६
श्लैष्मिकान् स्वेदयेद् पूर्वैर्वातिकान् समुपाचरेत्
द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि २७
भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च
विधूमाङ्गारतप्तेषु स्वभ्यक्तः स्विद्यते सुखम् २८
ग्राम्यानूपौदकं मांसं पयो वस्तशिरस्तथा
वराहमध्यपित्तासृक् स्नेहवत्तिलतण्डुलाः २९
इत्येतानि समुत्क्वाथ्य नाडीस्वेदं प्रयोजयेत्
देशकालविभागज्ञो युक्त्यपेक्षो भिषक्तमः ३०
वारुणामृतकैरण्डशिग्रुमूलकसर्षपैः
वासावंशकरञ्जार्कपत्रैरश्मन्तकस्य च ३१
शोभाञ्जनकसैरेयमालतीसुरसार्जकैः
पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत् ३२
भूतीकपञ्चमूलाभ्यां सुरया दधिमस्तुना
मूत्रैरम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत् ३३
एत एव च निर्यूहाः प्रयोज्या जलकोष्ठके
स्वेदनार्थं घृतक्षीरतैलकोष्ठांश्च कारयेत् ३४
गोधूमशकलैश्चूर्णैर्यवानाम्लसंयुतैः
सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते ३५
गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया
उभया कुष्ठतैलाभ्यां युक्तया चोपनाहयेत् ३६
चर्मभिश्चोपनद्धव्यः सलोमभिरपूतिभिः
उष्णवीर्यैरलाभे तु कौशेयाविकशाटकैः ३७
रात्रौ बद्धं दिवामुञ्चेन्मुञ्चेद्रात्रौ दिवा कृतम्
विदाहपरिहारार्थं स्यात् प्रकर्षस्तु शीतले ३८
सङ्करः प्रस्तरो नाडी परिषेकोऽवगाहनम्
जेन्ताकोश्मघनः कर्षूः कुटी भूः कुम्भिकैव च ३९
कूपो होलाक इत्येते स्वेदयन्ति त्रयोदश
तान् यथावत् प्रवक्ष्यामि सर्वानेवानुपूर्वशः ४०
तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं सङ्करस्वेद इति विद्यात् ४१
शूकशमीधान्यपुलाकानां वेशवारपायसकृशरोत्कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदे पञ्चाङ्गुलोरुबूकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्वगात्रस्य शयानस्योपस्वेदनं प्रस्तरस्वेद इति विद्यात् ४२
स्वेदनद्रव्याणां पुनर्मूलफलपत्रशुङ्गादीनां मृगशकुनपिशितशिरस्पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवणस्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां बाष्पमनुद्वमन्त्यामुत्क्वथितानां नाड्याशरेषीकावंशदलकरञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घया व्यामार्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्वा विनामितया वातडासिद्धस्नेहाभ्यक्तगात्रो बाष्पमुपहरेत् बाष्पो ह्यनृजुगामी विहतचण्डवेगस्त्वचमविदहन् सुखं स्वेदयतीति नाडीस्वेदः ४३
वातिकोत्तरवातिकानां पुनर्मूलादीनामुत्क्वाथैः सुखोष्णैः कुम्भीर्वर्षणिकाः प्रानाडीर्वा पूरयित्वा यथार्हसिद्धस्नेहभ्यक्तगात्रं वस्त्रावच्छन्नं परिषेचयेदिति परिषेकः ४४
वातहरोत्क्वाथक्षीरतैलघृतपिशितरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः ४५
अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत तत्र पूर्वस्यां दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमधुरमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौ वाऽरत्नीरुपक्रम्योदकात् प्राङ्मुखमुदङ्मुखं वाऽभिमुखतीर्थं कूटागारं कारयेत् उत्सेधविस्तारतः परमरत्नीः षोडश समन्तात् सुवृत्तं मृत्कर्मसंपन्नमनेकवातायनम् अस्य कूटागारस्यान्तः समन्ततो भित्तिमरत्निविस्तारोत्सेधां पिण्डिकां कारयेदाकपटात् मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्रं पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत् तं च खादिराणामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत् स यदा जानीयात् साघु दग्धानि काष्ठानि गतधूमान्यवतप्तं च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति तत्रैनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत् प्रवेशयंश्चैनमनुशिष्यात्सौम्य प्रविश कल्याणायारोग्याय चेति प्रविश्य चैनां पिण्डिकामधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः न च त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डिकैषा विमोक्तव्याऽऽप्राणोच्छ्वासात् भ्रश्यमानो ह्यतः पिण्डिकावकाशाद्द्वारमनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणाञ्जह्याः तस्मात् पिण्डिकामेनां न कथंचन मुञ्चेथाः त्वं यदा जानीयाःविगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेदपिच्छं सर्वस्रोतोविमुक्तं लधूभूतमपगतविबन्धस्तम्भसुप्तिवेदनागौरवमिति ततस्तां पिण्डिकामनुसरन् द्वारं प्रपद्येथाः निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकमुपस्पृशेथाः अपगतसन्तापक्लमस्तु मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीयाः इति जेन्ताकस्वेदः ४६
शयानस्य प्रमाणेन घनामश्ममयीं शिलाम्
तापयित्वा मारुतघ्नैर्दारुभिः संप्रदीपितैः ४७
व्यापोज्झ्य सर्वानङ्गारान् प्रोक्ष्य चैवोष्णवारिणा
तां शिलामथ कुर्वीत कौषेयाविकसंस्तराम् ४८
तस्यां स्वभ्यक्तसर्वाङ्गः स्वपन् स्विद्यति ना सुखम्
कौरवाजिनकौषेयप्रावाराद्यैः सुसंवृतः ४९
इत्युक्तोऽश्मधनस्वेदः कर्षूस्वेदः प्रवक्ष्यते
खानयेच्छयनस्याधः कर्षूं स्थानविभागवित् ५०
दीप्तैरधूमैरङ्गारैस्तां दर्षूं पूरयेत्ततः
तस्यामुपरि शय्यायां स्वपन् स्विद्यति ना सुखम् ५१
अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम्
घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः संप्रलेपयेत् ५२
कुटीमध्ये भिषक् शय्यांस्वास्तीर्णामुपकल्पयेत्
प्रावाराजिनकौशेयकुथकम्बलगोलकैः ५३
हसन्तिकाभिरङ्गारपूर्णाभिस्तां च सर्वशः
परिवार्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम् ५४
य एवाश्मघनस्वेदविधिर्भूमौ स एव तु
प्रशस्तायां निवातायां समायामुपदिश्यते ५५
कुम्भीं वाताहरक्वाथपूर्णां भूमौ निखानयेत्
अर्धभागं त्रिभागं वा शयनं तत्र चोपरि ५६
स्थापयेदासनं वाऽपि नातिसान्द्रपरिच्छदम्
अथ कुम्भ्यां सुसन्तप्तान् प्रक्षिपेदयसो गुडान् ५७
पाषाणान् वोष्मणा तेन तत्स्थः स्विद्यति ना सुखम्
सुसंवृताङ्गः स्वभ्यक्तः स्नेहैरनिलनाशनैः ५८
कूपं शयनविस्तारं द्विगुणं चापि वेधतः
देशे निवाते शस्ते च कुर्यादन्तः सुमार्जितम् ५९
हस्त्यश्वगोखरोष्ट्राणां करीषैर्दग्धपूरिते
स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तः स्विद्यति ना सुखम् ६०
धीतीकां तु करीषाणां यथोक्तानां प्रदीपयेत्
शयनान्तः प्रमाणेन शय्यामुपरि तत्र च ६१
सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत्
स्वबच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम् ६२
लोहाकस्वेद इत्येष सुखः प्रोक्तो महर्षिणा
इति त्रयोदशविधः स्वेदोऽग्निगुणसंश्रयः ६३
व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा
बहुपानं भयक्रोधावुपनाहाहवातपाः ६४
स्वेदयन्ति दशैतानि नरमग्निगुणादृते
इत्युक्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च ६५
एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च
इत्येतत्त्रिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्तितम् ६६
स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत्
तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः ६७
तत्र श्लोकाः--
स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः
यत्र देशे यथा योग्यो देशो रक्ष्यश्च यो यथा ६८
स्विन्नातिस्विन्नरूपाणि तथाऽतिस्विन्नभेषजम्
अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना ६९
त्रयोदशविधः स्वेदो विना दशविधोऽग्निना
संग्रहेण च षट् स्वेदाः स्वेदाध्याये निदर्शिताः ७०
स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्षिणा
शिष्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुः ७१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्वेदाध्यायो नाम
चतुर्दशोऽध्यायः १४

पञ्चदशोऽध्यायः
अथात उपकल्पनीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्यं वमनं विरेचनं वा पायतिउकामेन भिषजा प्रागेवौषधपानात् संभारा उपकल्पनीया भवन्ति सम्यक् चैव हि गच्छत्यौषधे प्रतिभोगार्थाः व्यापन्ने चौषधे व्यापदः परिसंख्याय प्रतीकारार्थाः न हि सन्निकृष्टे काले प्रादुर्भूतायामापदि सत्यपि क्रयाक्रये सुकरमाशु संभरणमौषधानां यथावदिति ३
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाचननु भगवन् आदावेव ज्ञानवता तथा प्रतिविधातव्यं यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा व्यापच्चासम्यक्प्रयोगमित्ता अथ सम्यगसम्यक् च समारब्धं कर्म सिद्ध्यति व्यापद्यते वाऽनियमेन तुल्यं भवति ज्ञानमज्ञानेनेति ४
तमुवाच भगवानात्रेयःशक्यं तथा प्रतिविधातुमस्माभिरस्मद्विधैर्वाप्यग्निवेश यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन तच्च प्रयोगसौष्ठवमुपदेष्टुं यथावत् न हि कश्चिदस्ति य एतदेवमुपदिष्टमुपधारयितुमुत्सहेत उपधार्य वा तथा प्रतिपत्तुं प्रयोक्तुं वा सूक्ष्माणि हि दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि यान्यनुचिन्त्यमानानि विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः तस्मादुभयमेतद्यथावदुपदेक्ष्यामःसम्यक्प्रयोगं चौषधानां व्यापन्नानां च व्यापत्साधनानि सिद्धिषुत्तरकालम् ५
इदानीं तावत् संभारान् विविधानपि समासेनोपदेक्ष्यामःतद्यथादृढं निवातं प्रवातैकदेशं सुखविचारमनुपत्यकं धूमातपजलरजसामनभिगमनीयमनिष्ठानां च शब्दस्पर्शरसरूपगन्धानां सोदपानोदूखलमुसलवर्चः स्थानस्नानभूमिमहानसं वास्तु विद्याकुशलः प्रशस्तं गृहमेव तावत् पूर्वमुपकल्पयेत् ६
ततः शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नानुपचारकुशलान् सर्वकर्मसु पर्यवदातान् सूपौदनपाचकस्नापकसंवाहकोत्थापकसंवेशकौषधपेषकांश्च परिचारकान् सर्वकर्मस्वप्रतिकूलान् तथा गीतवादित्रोल्लापकश्लोकगाथाख्यायिकेतिहासपुराणकुशलानभिप्रायज्ञाननुमतांश्च देशकालविदः पारिषद्यांश्च तथा लावकपिञ्जलशशहरिणैणकालपुच्छकमृगमातृकोरभ्रान् गां दोग्ध्रीं शीलवतीमनातुरां जीवद्वत्सां सुप्रतिविहिततृणशरणपानीयां पात्र्याचमनीयोदकोष्ठमणिकघटपिठरपर्योगकुम्भीकुम्भकुण्डशरावदर्वींक-टोदञ्चनपरिपचनमन्थानचर्मचेलसूत्रकार्पासोर्णादीनि च शयनासनादीनि चोपन्यस्तभृङ्गारप्रतिग्रहाणि सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानानि सोपाश्रयाणि संवेशनोपवेशनस्नेहस्वेदाभ्यङ्गप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासनशि-रोविरेचनमूत्रोच्चारकर्मणामुपचारसुखानि सुप्रक्षालितोपधानाश्च सुश्लक्ष्णखरमध्यमा दृषदः शस्त्राणि चोपकरणार्थानि धूमनेत्रं च बस्तिनेत्रं चोत्तरबस्तिकं च कुशहस्तकं च तुलां च मानभाण्डं च घृततैलवसामज्जक्षौद्रफाणितलवणेन्धनोदकमधुसीधुसुरासौवीरकतुषोदकमैरेयमेदकद-धिदधिमण्डोदस्विद्धान्याम्लमूत्राणि च तथा शालिषष्टिकमुद्गमाषयवतिलकुलत्थबदरमृद्वीकाकाश्मर्यपरूषकाभयामलकबिभीतकानि नानाविधानि च स्नेहस्वेदोपकरणानि द्रव्याणि तथैवोर्ध्वहरानुलोमिकोमयभाञ्जि संग्रहणीयदीपनीयपाचनीयोपशमनीयवातहरादिसमाख्यातानि चौषधानि यच्चान्यदपि किञ्चिद्व्यापदः परिसंख्याय प्रतीकारार्थमुपकरणं विद्या यच्च प्रतिभोगार्थं तत्तदुपकल्पयेत् ७
ततस्तं पुरुषं यथोक्ताभ्यां स्नेहस्वेदाभ्यां यथार्हमुपपादयेत् तं चेदस्मिन्नन्तरे मानसः शारीरो वा व्याधिः कश्चित्तीव्रतरः सहसाऽभ्यागच्छेतमेव तावदस्योपावर्तयितुं यतेत ततस्तमुपावर्त्य तावन्तमेवैनं कालं तथाविधेनैव कर्मणोपाचरेत् ८
ततस्तं पुरुषं स्नेहस्वेदोपपन्नमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःस्नातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तमिष्टे नक्षत्रतिथिकरणमुहूर्ते कारयित्वा ब्राह्मणान् स्वस्तिवाचनं प्रयुक्ताभिराशीर्भिरभिमन्त्रितां मधुमधुकसैन्धवफाणितोपहितां मदनफलकषायमात्रां पाययेत् ९
मदनफलकषायमात्राप्रमाणं तु खलु सर्वसंशोधनमात्राप्रमाणानि च प्रतिपुरुषमपेक्षितव्यानि भवन्ति यावद्धि यस्य संशोधनं पीतं वैकारिकदोषहरणायोपपद्यते न चातियोगायोगाय तावदस्य मात्राप्रमाणं वेदितव्यं भवति १०
पीतवन्तं तु खल्वेनं मुहूर्तमनुकांक्षेत तस्य यदा जानीयात् स्वेदप्रादुर्भावेण दोषं प्रविलयनमापद्यमानं लोमहर्षेण च स्थानेभ्यः प्रचलितं कुक्षिसमाध्मापनेन च कुक्षिमनुगतं हृल्लासास्यस्रवणाभ्यामपि चोर्ध्वमुखीभूतम् अथास्मै जानुसममसंबाधं सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानं सोपाश्रयमासनमुपवेष्टुं प्रयच्छेत् प्रतिग्रहांश्चोपचारयेत् ललाटप्रतिग्रहे पार्श्वोपग्रहणे नाभिप्रपीडने पृष्ठोन्मर्दने चानपत्रपणीयाः सुहृदोऽनुमताः प्रयतेरन् ११
अथैनमनुशिष्यात्विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीर्णानुदीरयन् किञ्चिदवनम्य ग्रीवामूर्ध्वशरीरमुपवेगमप्रवृत्तान् प्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलिभ्यामुत्पलकुमुदसौगन्धिकनालैर्वा कण्ठमभिस्पृशन् सुखं प्रवर्तयस्वेति स तथाविधं कुर्यात् ततोऽस्य वेगान् प्रतिग्रहगतानवेक्षेतावहितः वेगविशेषदर्शनाद्धि कुशलो योगायोगातियोगविशेषानुपलभेत वेगविशेषदर्शी पुनः कृत्यं यथार्हमवबुध्येत लक्षणेन तस्माद्वेगानवेक्षेतावहितः १२
तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति तद्यथा अप्रवृतिः कुतश्चित् केवलस्य वाऽप्यौषधस्य विभ्रंशो विबन्धो वेगानामयोगलक्षणानि भवन्ति काले प्रवृत्तिरनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं चावस्थानमिति योगलक्षणानि भवन्ति योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागो ज्ञेयः योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति तत्रातियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्आध्मानं परिकर्तिका परिस्रावो हृदयोपसरणमङ्गप्रहो जीवादानं विभ्रंशः स्तम्भः श्लमश्चेत्युपद्रवाः १३
योगेन तु खल्वेनं छर्दितवन्तमभिसमीक्ष्य सुप्रक्षालितपाणिपादास्यं मुहूर्तमाश्वास्य स्नैहिकवैरेचनिकोपशमनीयानां धूमानामन्यतमं सामर्थ्यतः पाययित्वा पुनरेवोदकमुपस्पर्शयेत् १४
उपस्पृष्टोदकं चैनं निवातमागारमनुप्रवेश्य संवेश्य चानुशिष्यात्उच्चैर्भाष्यमत्याशनमतिस्थानमतिचङ्क्रमणं क्रोधशोकहिमातपावश्यायातिप्रवातान् यानयानं ग्राम्यधर्ममस्वपनं निशि दिवा स्वप्नं विरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविषमभोजनवेगसन्धारणोदीरणमिति भावानेतान्मनसाऽप्यसेवमानः सर्वमहो गमयस्वेति स तथा कुर्यात् १५
अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्वपक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूं पाययेदग्निबलमभिसमीक्ष्य एवं द्वितीये तृतीये चान्नकाले चतुर्थे त्वन्नकाले तथाविधानामेव शालितण्डुलानामुत्स्विन्नां विलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत् एवं पञ्चमे षाष्ठे चान्नकाले सप्तमे त्वन्नकाले तथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत् एवमष्टमे नवमे चान्नकाले दशमे त्वन्नकाले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेन नातिसारवता भोजयेदुष्णोदकानुपानम् एवमेकादशे द्वादशे चान्नकाले अत ऊर्ध्वमन्नगुणान् क्रमेणोपमुञ्जानः सप्तरात्रेण प्रकृतिभोजनमागच्छेत् १६
अथैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्यानुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं कृतहोमबलिमङ्गलजपप्रायश्चित्तमिष्टे तिथिनक्षत्रकरणमुहूर्ते ब्राह्मणान् स्वस्तिवाचयित्वा त्रिवृत्कल्कमक्षमात्रं यथार्हालोडनप्रतिविनीतं पाययेत् प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च सम्यक् विरिक्तं चैनं वमनोक्तेन धूमवर्जेन विधिनोपपादयेदाबलवर्णप्रकृतिलाभात् बलवर्णोपपन्नं चैनमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरः स्नातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतमनुरूपालङ्कारालङ्कृतं सुहृदां दर्शयित्वा ज्ञातीनां दर्शयेत् अथैनं कामेष्ववसृजेत् १७
भवन्ति चात्र--अनेन विधिना राजा राजमात्रोऽथवा पुनः यस्य वा विपुलं द्रव्यं स संशोधनमर्हति १८
दरिद्रस्त्वापदं प्राप्य प्राप्तकालं विशोधनम्
पिबेत् काममसंभृत्य संभारानपि दुर्लभान् १९
न हि सर्वमनुष्याणां सन्ति सर्वे परिच्छदाः
न च रोगा न बाधन्ते दरिद्रानपि दारुणाः २०
यद्यच्छक्यं मनुष्येण कर्तुमौषधमापदि
तत्तत् सेव्यं यथाशक्ति वसनान्यशनानि च २१
मलापहं रोगहरं बलवर्णप्रसादनम्
पीत्वा संशोधनं सम्यगायुषा युज्यते चिरम् २२
तत्र श्लोकाः--
ईश्वराणां वसुमतां वमनं सविरेचनम्
संभारा ये यदर्थं च समानीय प्रयोजयेत् २३
यथा प्रयोज्या मात्रा या यदयोगस्य लक्षणम्
योगातियोगयोर्यच्च दोषा ये चाप्युपद्रवाः २४
यदसेव्यं विशुद्धेन यच्च संसर्जनक्रमः
तत् सर्वं कल्पनाध्याये व्याजहार पुनर्वसुः २५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने उपकल्पनीयो नाम
पञ्चदशोऽध्यायः १५

षोडशोऽध्यायः
अथातश्चिकित्साप्रभृतीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
चिकित्साप्राभृतो धीमान् शास्त्रवान् कर्मतत्परः
नरं विरेचयति यं स योगात् सुखमश्नुते ३
यं वैद्यमानी त्वबुधो विरेचयति मानवम्
सोऽतियोगादयोगाच्च मानवो दुःखमश्नुते ४
दौर्बल्यं लाघवं ग्लानिर्व्याधीनामणुता रुचिः
हृद्वर्णशुद्धिः क्षुत्तृष्णा काले वेगप्रवर्तनम् ५
बुद्धीन्द्रियमनःशुद्धिर्मारुतस्यानुलोमता
सम्यग्विरिक्तलिङ्गानि कायाग्नेश्चानुवर्तनम् ६
ष्ठीवनं हृदयाशुद्धिरुत्क्लेशः श्लेष्मपित्तयोः
आध्मानमरुचिश्छर्दिरदौर्बल्यमलाघवम् ७
जङ्घोरुसदनं तन्द्रा स्तैमित्यं पीनसागमः
लक्षणान्यविरिक्तानां मारुतस्य च निग्रहः ८
विट्पित्तकफवातानामागतानां यथाक्रमम्
परं स्रवति यद्रक्तं मेदोमांसोदकोपमम् ९
निःश्लेष्मपित्तमुदकं शोणितं कृष्णमेव वा
तृष्यतो मारुतार्तस्य सोऽतियोगः प्रमुह्यतः १०
वमनेऽतिकृते लिङ्गान्येतान्येव भवन्ति हि
ऊर्ध्वगा वातरोगाश्च वाग्ग्रहश्चाधिको भवेत् ११
चिकित्साप्राभृतं तस्मादुपेयाच्छरणं नरः
युञ्ज्याद् य एनमत्यन्तमायुषा च सुखेन च १२
अविपाकोऽरुचिः स्थौल्यं पाण्डुता गौरवं क्लमः
पिडकाकोठकण्डूनां सम्भवोऽरतिरेव च १३
आलस्यश्रमदौर्बल्यं दौर्गन्ध्यमवसादकः
श्लेष्मपित्तसमुत्क्लेशो निद्रानाशोऽतिनिद्रता १४
तन्द्रा क्लैब्यमबुद्धित्वमशस्तस्वप्नदर्शनम्
बलवर्णप्रणाशश्च तृप्यतो बृंहणैरपि १५
बहुदोषस्य लिङ्गानि तस्मै संशोधनं हितम्
ऊर्ध्वं चैवानुलोमं च यथादोषं यथाबलम् १६
एवं विशुद्धकोष्ठस्य कायाग्निरभिवर्धते
व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते १७
इन्द्रियाणि मनोबुद्धिर्वर्णश्चास्य प्रसीदति
बलं पुष्टिरपत्यं च वृषता चास्य जायते १८
जरां कृच्छ्रेण लभते चिरं जीवत्यनामयः
तस्मात् संशोधनं काले युक्तियुक्तं पिबेन्नरः १९
दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः
जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः २०
दोषाणां च द्रुमाणां च मूलेऽनुपहते सति
रोगाणां प्रसवानां च गतानामागतिर्ध्रुवा २१
भेषजक्षपिते पथ्यमाहारैरेव बृंहणम्
घृतमांसरसक्षीरहृद्ययूषोपसंहितैः २२
अभ्यङ्गोत्सादनैः स्नानैर्निरूहैः सानुवासनैः
तथा स लभते शर्म युज्यते चायुषा चिरम् २३
अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते
तैलं मधुरकैः सिद्धमथवाऽप्यनुवासनम् २४
यस्य त्वचोगस्तं स्निग्धं पुनः संशोधयेन्नरम्
मात्राकालबलापेक्षी स्मरन् पूर्वमनुक्रमम् २५
स्नेहने स्वेदने शुद्धौ रोगाः संसर्जने च ये
जायन्तेऽमार्गविहिते तेषां सिद्धिषु साधनम् २६
जायन्ते हेतुवैषम्याद्विषमा देहधातवः
हेतुसाम्यात् समास्तेषां स्वभावोपरमः सदा २७
प्रवृत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्
केचित्तत्रापि मन्यन्ते हेतुं हेतोरवर्तनम् २८
एवमुक्तार्थमाचार्यमग्निवेशोऽभ्यभाषत
स्वभावोपरमे कर्म चिकित्साप्राभृतस्य किम् २९
भेषजैर्विषमान् धातून् कान् समीकुरुते भिषक्
का वा चिकित्सा भगवन् किमर्थं वा प्रयुज्यते ३०
तच्छिष्यवचनं श्रुत्वा व्याजहार पुनर्वसुः
श्रूयतामत्र या सोम्य युक्तिर्दृष्टा महर्षिभिः ३१
न नाशकारणाभावाद्भावानां नाशकारणम्
ज्ञायते नित्यगस्येव कालस्यात्ययकारणम् ३२
शीघ्रगत्वाद्यथा भूतस्तथा भावो विपद्यते
निरोधे कारणं तस्य नास्ति नैवान्यथाक्रिया ३३
याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः
सा चिकित्सा विकाराणां कर्म तद्भिषजां स्मृतम् ३४
कथं शरीरे धातूनां वैषम्यं न भवेदिति
समानां चानुबन्धः स्यादित्यर्थं क्रियते क्रिया ३५
त्यागाद्विषमहेतूनां समानां चोपसेवनात्
विषमा नानुबध्नन्ति जायन्ते धातवः समाः ३६
समैस्तु हेतुभिर्यस्माद्धातून् संजनयेत् समान्
चिकित्साप्राभृतस्तस्माद्दाता देहसुखायुषाम् ३७
धर्मस्यार्थस्य कामस्य नृलोकस्योभयस्य च
दाता संपद्यते वैद्यो दानाद् देहसुखायुषाम् ३८
तत्र श्लोकाः--
चिकित्साप्राभृतगुणो दोषो यश्चेतराश्रयः
योगायोगातियोगानां लक्षणं शुद्धिसंश्रयम् ३९
बहुदोषस्य लिङ्गानि संशोधनगुणाश्च ये
चिकित्सासूत्रमात्रं च सिद्धिव्यापत्तिसंश्रयम् ४०
या च युक्तिश्चिकित्सायां यं चार्थं कुरुते भिषक्
चिकित्साप्राभृतेऽध्याये तत् सर्वमवदन्मुनिः ४१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने चिकित्साप्राभृतीयो नाम
षोडशोऽध्यायः १६
समाप्तः कल्पनाचतुष्कः ४

सप्तदशोऽध्यायः
अथातः कियन्तः शिरसीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम्
कति चाप्यनिलादीनां रोगा मानविकल्पजाः ३
क्षयाः कति सामाख्याताः पिडकाः कति चानघ
गतिः कतिविधा चोक्ता दोषाणां दोषसूदन ४
हुताशवेशस्य वचस्तच्छ्रुत्वा गुरुरब्रवीत्
पृष्टवानसि यत् सौम्य तन्मे शृणु सविस्तरम् ५
दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः
व्याधीनां द्व्यधिका षष्टिर्दोषमानविकल्पजा ६
दशाष्टौ च क्षयाः सप्त पिडका माधुमेहिकाः
दोषाणां त्रिविधा चोक्ता गतिर्विस्तरतः शृणु ७
संधारणाहिवास्वप्नाद्रात्रौ जागरणान्मदात्
उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात् ८
गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्
गुर्वम्लहरितादानादतिशीताम्बुसेवनात् ९
शिरोऽभिघातादुष्टामाद्रोदनाद्वाष्पनिग्रहात्
मेघागमान्मनस्तापाद्देशकालविपर्ययात् १०
वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति
ततः शिरसि जायन्ते रोगा विविधलक्षणाः ११
प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च
यदुतमाङ्गमङ्गानां शिरस्तदभिधीयते १२
अर्धावभेदको वा स्यात् सर्वं वा रुज्यते शिरः
प्रतिश्यायमुखनासाक्षिकर्णरोगशिरोभ्रमाः १३
अर्दितं शिरसः कम्पो गलमन्याहनुग्रहः
विविधाश्चापरे रोगा वातादिक्रिमिसंभवाः १४
पृथग्दिष्टास्तु ये पञ्च संग्रहे परमर्षिभिः
शिरोगदांस्ताञ्छृणु मे यथा स्वैर्हेतु लक्षणैः १५
उच्चैर्भाष्यातिभाष्याभ्यां तीक्ष्णपानात् प्रजागारात्
शीतमारुतसंस्पर्शाद्व्यवायाद्वेगनिग्रहात् १६
उपवासादभीघाताद्विरेकाद्वमनादति
बाष्पशोकभयत्रासाद्भारमार्गातिकर्शनात् १७
शिरोगताः सिरा वृद्धो वायुराविश्य कुप्यति
ततः शूलं महत्तस्य वातात् समुपजायते १८
निस्तुद्येते भृशं शङ्खौ घाटा संभिद्यते तथा
स भ्रूमध्यं ललाटं च तपतीवातिवेदनम् १९
वध्येते स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी
घूर्णतीव शिरः सर्वं संधिभ्य इव मुच्यते २०
स्फुरत्यति सिराजालं स्तभ्यते च शिरोधरा
स्निग्धोष्णमुपशेते च शिरोरोगेऽनिलात्मके २१
कट्वम्ललवणक्षारमद्यक्रोधातपानलैः
पित्तं शिरसि संदुष्टं शिरोरोगाय कल्पते २२
दह्येते रुज्यते तेन शिरः शीतं सुषूयते
दह्येते चक्षुषी तृष्णा भ्रमः स्वेदश्च जायते २३
आस्यासुखैः स्वप्नसुखैर्गुरुस्निग्धातिभोजनैः
श्लेष्मा शिरसि संदुष्टः शिरोरोगाय कल्पते २४
शिरो मन्दरुजं तेन सुप्तं स्तिमितभारिकम्
भवत्युत्पद्यते तन्द्रा तथाऽलस्यमरोचकः २५
वाताच्छूलं भ्रमः कम्पः पित्ताद्दाहो मदस्तृषा
कफाद्गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे २६
तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात्
क्लेदोऽसृक्कफमांसानां दोषलस्योपजायते २७
ततः शिरसि संक्लेदात् क्रिमयः पापकर्मणः
जनयन्ति शिरोरोगं जाता वीभत्सलक्षणम् २८
व्यधच्छेदरुजाकण्डूशो फदौर्गत्यदुःखितम्
क्रिमिरोगातुरम् विद्यात् क्रिमीणां दर्शनेन च २९
शोकोपवासव्यायामरूक्षशुष्काल्पभोजनैः
वायुराविश्य हृदयं जनयत्युत्तमां रुजम् ३०
वेपथुर्वेष्टनं स्तम्भः प्रमोहः शून्यता दरः
हृदि वातातुरे रूपं जीर्णे चात्यर्थवेदना ३१
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनैः
मद्यक्रोधातपैश्चाशु हृदि पित्तं प्रकुप्यति ३२
हृद्दाहस्तिक्तता वक्त्रे तिक्ताम्लोद्गिरणं क्लमः
तृष्णा मूर्च्छा भ्रमः स्वेदः पित्तहृद्रोगलक्षणम् ३३
अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम्
निद्रासुखं चाभ्यधिकं कफहृद्रोगकारणम् ३४
हृदयं कफहृद्रोगे सुप्तं स्तिमितभारिकम्
तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा ३५
हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः
हृद्रोगः कष्टदः कष्टसाध्य उक्तो महर्षिभिः
त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते ३६
तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते
मर्मैकदेशे संक्लेदं रसश्चास्योपगच्छति ३७
संक्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः
मर्मैकदेशे ते जाताः सर्पन्तो भक्षयन्ति च ३८
तद्युमानं स हृदयं सूचीभिरिव मन्यते
छिद्यमानं यथा शस्त्रैर्जातकण्डूं महारुजम् ३९
हृद्रोगं क्रिमिजं त्वेतैर्लिङ्गैर्बुद्ध्वा सुदारुणम्
त्वरेत जेतुं तं विद्वान् विकारं शीघ्रकारिणम् ४०
द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्
समैश्चैको विकारास्ते सन्निपातास्त्रयोदश ४१
संसर्गे नव षट् तेभ्य एकवृद्ध्या समैस्त्रयः
पृथक् त्रयश्च तैर्वृधैर्व्याधयः पञ्चविंशतिः ४२
यथा वृद्धैस्तथा क्षीणैर्दोषैः स्युः पञ्चविंशतिः
वृद्धिक्षयकृतश्चान्यो विकल्प उपदेक्ष्यते ४३
दृद्धिरेकस्य समता चैकस्यैकस्य संक्षयः
द्वन्द्ववृद्धिः क्षयश्चैकस्यैकवृद्धिर्द्वयोः क्षयः ४४
प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये
स्थानादादाय गात्रेषु यत्र यत्र विसर्पति ४५
तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः
गारदेशे भवत्यस्य श्रमो दौर्बल्यमेव च ४६
प्रकृतिस्थं कफं वायुः क्षीणे पित्ते यदा बली
कर्षेत् कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम् ४७
यदाऽनिलं प्रकृतिगं पित्तं कफपरिक्षये
संरुणद्धि तदा दाहः शूलं चास्योपजायते ४८
श्लेष्माणं हि समं पित्तं यदा वातपरिक्षये
सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरवं ज्वरम् ४९
प्रवृद्धो हि यदा श्लेष्मा पित्ते क्षीणे समीरणम्
रुन्ध्यात्तदा प्रकुर्वीत शीतकं गौरवं रुजम् ५०
समीरणे परिक्षीणे कफः पित्तं समत्वगम्
कुर्वीत सन्निरुन्धानो मृद्वग्नित्वं शिरोग्रहम् ५१
निद्रां तन्द्रां प्रलापं च हृदरोगं गात्रगौरवम्
नखादीनां च पीतत्वं ष्ठीवनं कफपित्तयोः ५२
हीनवातस्य तु श्लेष्मा पित्तेन सहितश्चरन्
करोत्यरोचकापाकौ सदनं गौरवं तथा ५३
हृल्लासमास्यस्रवणं पाण्डुतां दूयनं मदम्
विरेकस्य च वैषम्यं वैषम्यमनलस्य च ५४
हीनपित्तस्य तु श्लेष्मा मारुतेनोपसंहितः
स्तम्भं शैत्यं च तोदं च जनयत्यनवस्थितम् ५५
गौरवं मृदुतामग्नेर्भक्ताश्रद्धां प्रवेपनम्
नखादीनां च शुक्लत्वं गात्रपारुष्यमेव च ५६
मारुतस्तु कफे हीने पित्तं च कुपितं द्वयम्
करोति यानि लिङ्गानि शृणुतानि समासतः ५७
भ्रममुद्वेष्टनं तोदं दाहं स्फुटनवेपने
अङ्गमर्दं परीशोषं दूयनं धूपनं तथा ५८
वातपित्तक्षये श्लेष्मा स्रोतांस्यपिदधद्भृशम्
चेष्टाप्रणाशं मूर्च्छां च वाक्सङ्गं च करोति हि ५९
वातश्लेष्मक्षये पित्त देहौजः स्रंसयच्चरेत्
ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्च्छां क्रियाक्षयम् ६०
पित्तश्लेष्मक्षये वायुर्मर्माण्यतिनिपीडयन्
प्रणाशयति संज्ञां च वेपयत्यथवा नरम् ६१
दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्
क्षीणा जहति लिङ्गं स्वं समाः स्वं कर्म कुर्वते ६२
वातादीनां रसादीनां मलानामोजसस्तथा
क्षयास्तत्रानिलादीनामुक्तं संक्षीणलक्षणम् ६३
घट्टते सहते शब्दं नोच्चैर्द्रवति शूल्यते
हृदयं ताम्यति स्वल्पचेष्टस्यापि रसक्षये ६४
परुषा स्फुटिता म्लाना त्वग्रूक्षा रक्तसंक्षये
मांसक्षये विशेषेण स्फिग्ग्री वोदरशुष्कता ६५
सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव च
लक्षणं मेदसि क्षीणे तनुत्वं चोदरस्य च ६६
केशलोमनखश्मश्रुद्विजप्रपतनं श्रमः
ज्ञेयमस्थिक्षये लिङ्गं सन्धिशैथिल्यमेव च ६७
शीर्यन्त इव चास्थीनि दुर्बलानि लघूनि च
प्रततं वातरोगीणि क्षीणे मज्जनि देहिनाम् ६८
दौर्बल्यं मुखशोषश्च पाण्डुत्वं सदनं श्रमः
क्लैब्यं शुक्राविसर्गश्च क्षीणशुक्रस्य लक्षणम् ६९
क्षीणे शकृति चान्त्राणि पीडयन्निव मारुतः
रुक्षस्योन्नमयन् कुक्षिं तिर्यगूर्ध्वं गच्छति ७०
मूत्रक्षये मूत्रकृच्छ्रं मूत्रवैवर्ण्यमेव च
पिपासा बाधते चास्य मुखं च परिशुष्यति ७१
मलायनानि चान्यानि शून्यानि च लघूनि च
विशुष्काणि च लक्ष्यन्ते यथास्वं मलसंक्षये ७२
बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः
दुश्छायो दुर्मना रूक्षः क्षामश्चैवौजसः क्षये ७३
हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्
ओजः शरीरे संख्यातं तन्नाशान्ना विनश्यति ७४
प्रथमं जायते ह्योजः शरीरेऽस्मिञ्छरीरिणाम्
सर्पिर्वर्णं मधुरसं लाजगन्धि प्रजायते ७५
भ्रमरैः फलपुष्पेभ्यो यथा संभ्रियते मधु
तद्वदोजः स्वकर्मभ्यो गुणैः संभ्रियते नृणाम् १
व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम्
वातातपौ भयं शोको रूक्षपानं प्रजागरः ७६
कफशोणितशुक्राणां मलानां चातिवर्तनम्
कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः ७७
गुरुस्निग्धाम्ललवणान्यतिमात्रं समश्नताम्
नवमन्नं च पानं च निद्रामास्यासुखानि च ७८
त्यक्तव्यायामचिन्तानां संशोधनमकुर्वताम्
श्लेष्मा पितं च मेदश्च मांसं चातिप्रवर्धते ७९
तैरावृतगतिर्वायुरोज आदाय गच्छति
यदा बस्तिं तदा कृच्छ्रो मधुमेहः प्रवर्तते ८०
स मारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः
दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः ८१
उपेक्षयाऽस्य जायन्ते पिडकाः सप्त दारुणाः
मांसलेष्ववकाशेषु मर्मस्वपि च संधिषु ८२
शराविका कच्छपिका जालिनी सर्षपी तथा
अलजी विनताख्या च विद्रधी चेति सप्तमी ८३
अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुगन्विता
शराविका स्यात् पिडका शरावाकृतिसंस्थिता ८४
अवगाढार्तिनिस्तोदा महावास्तुपरिग्रहा
श्लक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता ८५
स्तब्धा सिराजालवती स्निग्धास्रावा महाशया
रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी ८६
पिडका नातिमहती क्षिप्रपाका महारुजा
सर्षपी सर्षपाभाभिः पिडकाभिश्चिता भवेत् ८७
दहति त्वचमुत्थाने तृष्णामोहज्वरप्रदा
विसर्पत्यनिशं दुःखाद्दहत्यग्निरिवालजी ८८
अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा
महती विनता नीला पिडका विनता मता ८९
विद्रधिं द्विविधामाहुर्बाह्यामाभ्यन्तरीं तथा
बाह्या त्वक्स्नायुमांसोत्था कण्डराभा महारुजा ९०
शीतकान्नविदाह्युष्णरूक्षशुष्कातिभोजनात्
विरुद्धाजीर्णसंक्लिष्टविषमासात्म्यभोजनात् ९१
व्यापन्नबहुमद्यत्वाद्वेगसंधारणाच्छ्रमात्
जिह्मव्यायामशयनादतिभाराध्वमैथुनात् ९२
अन्तःशरीरे मांसासृगाविशन्ति यदा मलाः
तदा संजायते ग्रन्थिर्गम्भीरस्थः सुदारुणः ९३
हृदये क्लोम्नि यकृति प्लीह्नि कुक्षौ च वृक्कयोः
नाभ्यां वंक्षणयोर्वाऽपि बस्तौ वा तीव्रवेदनः ९४
दुष्टरक्तातिमात्रत्वात् स वै शीघ्रं विदह्यते
ततः शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते ९५
व्यधच्छेदभ्रमानाहशब्दस्फुरणसर्पणैः
वातिकीं पैत्तिकीं तृष्णादाहमोहमदज्वरैः ९६
जृम्भोत्क्लेशारुचिस्तम्भशीतकैःश्लैष्मिकींविदुः
सर्वासु च महच्छूलं विद्रधीषूपजायते ९७
शस्त्रास्त्रैर्भिद्यत इव चोल्मुकैरिव दह्यते
विद्रधी व्यम्लता यातावृश्चिकैरिव दश्यते ९८
तनु रूक्षारुणं श्यावं फेनिलं वातविद्रधी
तिलमाषकुलत्थोदसन्निभं पित्तविद्रधी ९९
श्लैष्मिकी स्रवति श्वेतं पिच्छिलं बहलं बहु
लक्षणं सर्वमेवैतद्भजते सान्निपातिकी १००
अथासां विद्रधीनां साध्यासाध्यत्वविशेषज्ञानार्थं स्थानकृतं लिङ्गविशेषमुपदेक्ष्यामः--तत्र प्रधानमर्मजायां विद्रध्यां हृद्घट्टनतमकप्रमोहकासश्वासाः क्लोमजायां पिपासामुखशोषगलग्रहाः यकृज्जायां श्वासः प्लीहजायामुच्छ्वासोपरोधः कुक्षिजायां कुक्षिपार्श्वान्तरांसशूलं वृक्कजायां पृष्ठकटिग्रहः नाभिजायां हिक्का वंक्षणजायां सक्थिसादः बस्तिजायां कृच्छ्रपूतिमूत्रवर्चस्त्वं चेति १०१
पक्वप्रभिन्नासूर्ध्वजासु मुखात् स्रावः स्रवति अधोजासु गुदात् उभयतस्तु नाभिजासु १०२
आसां हृन्नाभिबस्तिजाः परिपक्वाः सान्निपातिकी च मरणाय शेषाः पुनः कुशलमाशुप्रतिकारिणं चिकित्सकमासाद्योपशाम्यन्ति तस्मादचिरोत्थितां विद्रधीं शस्त्रसर्पविद्युदग्नितुल्यां स्नेहविरेचनैराश्वेवोपक्रमेत् सर्वशो गुल्मवच्चेति १०३
भवन्ति चात्र--
विना प्रमेहमप्येता जायन्ते दुष्टमेदसः
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः १०४
शराविका कच्छपिका जालिनी चेति दुःसहाः
जायन्ते ता ह्यतिबलाः प्रभूतश्लेष्ममेदसः १०५
सर्षपी चालजी चैव विनता विद्रधी च याः
साध्याः पित्तोल्बणास्तास्तु संभवन्त्यल्पमेदसः १०६
मर्मस्वंसे गुदे पाण्योः स्तने सन्धिषु पादयोः
जायन्ते यस्य पिडिकाः स प्रमेही न जीवति १०७
तथाऽन्याः पिडकाः सन्ति रक्तपीतासितारुणाः
पाण्डुराः पाण्डुवर्णाश्च भस्माभामेचकप्रभाः १०८
मृद्व्यश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथाऽपराः
मन्दवेगा महावेगाः स्वल्पशूला महारुजः १०९
ता बुद्ध्वा मारुतादीनां यथास्वैर्हेतुलक्षणैः
ब्रूयादुपचरेच्चाशु प्रागुपद्रवदर्शनात् ११०
तृट्श्वासमांससंकोथमोहहिक्कामदज्वराः
वीसर्पमर्मसंरोधाः पिडाकानामुपद्रवाः १११
क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः
ऊर्ध्वं चाधश्च तिर्यक्च विज्ञेया त्रिविधाऽपरा ११२
त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु
इत्युक्ता विधिभेदेन दोषाणां त्रिविधा गतिः ११३
चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्
भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु ११४
गतिः कालकृता चेषा चयाद्या पुनरुच्यते
गतिश्च द्विविधा दृष्टा प्राकृती वैकृती च या ११५
पित्तादेवोष्मणः पक्तिर्नराणामुपजायते
तच्च पित्तं प्रकुपितं विकारान् कुरुते बहून् ११६
प्राकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते
स चैवौजः स्मृतः काये स च पाप्मोपदिश्यते ११७
सर्वा हि चेष्टा वातेन स प्राणः प्राणिनां स्मृतः
तेनैव रोगा जायन्ते तेन चैवोपरुध्यते ११८
नित्यं सन्निहितामित्रं समीक्ष्यात्मानमात्मवान्
नित्यं युक्तः परिचरेदिच्छेन्नायुरनित्वरम् ११९
तत्र श्लोकौ--
शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः
क्षयाः सपिडकाश्चोक्ता दोषाणां गतिरेव च १२०
कियन्तःशिरसीयेऽस्मिन्नध्याये तत्त्वदर्शिना
ज्ञानार्थं भिषजां चैव प्रजानां च हितैषिणा १२१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने कियन्तःशिरसीयो नाम
सप्तदशोऽध्यायः १७

अष्टादशोऽध्यायः
अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः ते पुनर्द्विविधा निजागन्तु भेदेन ॥ ३
तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडना-दिभिर्वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां सविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते ४
ते पुनर्यथास्वं हेतुव्यञ्जनैरादावुपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः बन्धमन्त्रागदप्रलेपप्रतापनिर्वापणादिभिश्चोपक्रमैरुपक्रम्यमाणाः प्रशान्तिमापद्यन्ते ५
निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयो-गान्मिथ्यासंसर्जनाद्वा छर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविका-रातिकर्शनैर्वा कुष्ठकण्डूपिडकादिभिर्वा छर्दिक्षवथूद्गारशुक्रवातमूरपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वा सहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्यमन्दकविरूढनवशूकश-मीधान्यानूपौदकपिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिर्भक्षणाद्गर्भसंपीडनादा-मगर्भप्रपतनात् प्रजातानां च मिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति इत्युक्तः सामान्यो हेतुः ६
अयं त्वत्र विशेषः शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोफं जनयति स क्षिप्रोत्थानप्रशमो भवति श्यामारुणवर्णः प्रकृतिवर्णो वा चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इव भिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपिलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते संकुच्यत आयम्यत इवेति वातशोथः १
उष्णतीक्ष्णकटुकक्षारलवणाम्लजीर्णभोजनैरग्न्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्मांसशोणितान्यभिभूय शोथं जनयति स क्षिप्रोत्थानप्रशमो भवति कृष्णपीतनीलताम्रावभास उष्णो मृदुः कपिलताम्ररोमा उष्यते दूयते धूप्यते ऊष्मायते स्विद्यते क्लिद्यते न च स्पर्शमुष्णं च सुषूयत इति पित्तशोथः २
गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामदिभिश्च श्लेष्मा प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोथं जनयति स कृच्छ्रोत्थानप्रशमो भवति पाण्डुश्वेतावभासो गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहश्चेति श्लेष्मशोथः ३
यथास्वकारणाकृतिसंसर्गाद्द्विदोषजास्त्रयः शोथा भवन्ति यथास्वकारणाकृतिसन्निपातात् सान्निपातिक एकः एवं सप्तविधो भेदः ७
प्रकृतिभिस्ताभिस्ताभिर्भिद्यमानो द्विविधस्त्रिविधश्चतुर्विधः सप्तविधोऽष्टविधश्च उपलभ्यते पुनश्चैक एवोत्सेधसामान्यात् ८
भवन्ति चात्र--
शूयन्ते यस्य गात्राणि स्वपन्तीव रुजन्ति च
पीडितान्युन्नमन्त्याशु वातशोथं तमादिशेत् ९
यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति
स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् स च वातिकः १०
यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते
स्विद्यति क्लिद्यते गन्धी स पैत्तः श्वयथुः स्मृतः ११
यः पीतनेत्रवक्त्रत्वक् पूर्वं मध्यात् प्रशूयते
तनुत्वक् चातिसारी च पित्तशोथः च उच्यते १२
शीतः सक्तगतिर्यस्तु कण्डूमान् पाण्डुरेव च
निपीडितो नोन्नमति श्वयथुः सकफात्मकः १३
यस्य शस्त्रकुशच्छिन्नाच्छोणितं न प्रवर्तते
कृच्छ्रेण पिच्छा स्रवति स चापि कफसंभवः १४
निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः
सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः १५
यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत्
जन्तोः स च सुकष्टः स्यात् प्रसृतः स्रीमुखाच्च यः १६
यश्चापि गुह्यप्रभवः स्त्रिया वा पुरुषस्य वा
स च कष्टतमो ज्ञेयो यस्य च स्युरुपद्रवाः १७
छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च
सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसंग्रहः १८
यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते
आशु संजनयेच्छोथं जायतेऽस्योपजिह्विका १९
यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते
आशु संजनयेच्छोफं करोति गलशुण्डिकाम् २०
यस्य श्लेष्मा प्रकुपितो गलबाह्येऽवतिष्ठते
शनैः संजनयेच्छोफं गलगण्डोऽस्य जायते २१
यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः
आशु संजनयेच्छोफं जायतेऽस्य गलग्रहः २२
यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति
शोफं सरागं जनयेद्विसर्पस्तस्य जायते २३
यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते
शोथं सरागं जनयेत् पिडका तस्य जायते २४
यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति
तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते २५
यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते
श्वयथुः शङ्खको नाम दारुणस्तस्य जायते २६
यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते
ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते २७
वातः प्लीहानमुद्धय कुपितो यस्य तिष्ठति
शनैः परिकुदन् पार्श्वं प्लीहा तस्याभिवर्धते २८
तस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते
शोफं सशूलं जनयन् गुल्मस्तस्योपजायते २९
यस्य वायुः प्रकुपितः शोफशूलकरश्चरन्
वङ्क्षणाद्वृषणौ याति वृद्धिस्तस्योपजायते ३०
यस्य वातः प्रकुपितस्त्वङ्मांसान्तरमाश्रितः
शोथं संजनयेत् कुक्षावुदरं तस्य जायते ३१
यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति
नाधो व्रजति नाप्यूर्ध्वमानाहस्तस्य जायते ३२
रोगाश्चोत्सेधसामान्यदधिमांसार्बुदादयः
विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसंग्रहे ३३
वातपित्तकफा यस्य युगपत् कुपितास्त्रयः
जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः ३४
जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः
तं शीघ्रकारिणं रोगं रोहिणीति विनिर्दिशेत् ३५
त्रिरात्रं प्रमं तस्य जन्तोर्भवति जीवितम्
कुशलेन त्वनुक्रान्तः क्षिप्रं संपद्यते सुखी ३६
सन्ति ह्येवंविधा रोगाः साध्या दारुणसंमताः
ये हन्युरनुपक्रान्ता मिथ्याचारेन वा पुनः ३७
साध्याश्चाप्यपरे सन्ति व्याधयो मृदुसंमताः
यत्नायत्नकृतं येषु कर्म सिध्यत्यसंशयम् ३८
असाध्याश्चापरे सन्ति व्याधयो याप्यसंज्ञिताः
सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत् ३९
सन्ति चाप्यपरे रोगा येषु कर्म न सिध्यति
अपि यत्नकृतं बालैर्न तान् विद्वानुपाचरेत् ४०
साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः
मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः ४१
त एवापरिसंख्येया भिद्यमाना भवन्ति हि
रुजावर्णसमुत्थानसंस्थाननामभिः ४२
व्यवस्थाकरणं तेषां यथास्थूलेषु संग्रहः
तथा प्रकृतिसामान्यं विकारेषूपदिश्यते ४३
विकारनामाकुशलो न जिह्रीयात् कदाचन
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः ४४
स एव कुपितो दोषः समुत्थानविशेषतः
स्थानान्तरगतश्चैव जनयत्यामयान् बहून् ४५
तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च
समुत्थानविशेषांश्च बुद्ध्वा कर्म समाचरेत् ४६
यो ह्येतत्त्रितयं ज्ञात्वा कर्माण्यारभते भिषक्
ज्ञानपूर्वं यथान्यायं स कर्मसु न मुह्यति ४७
नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः
विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः ४८
उत्साहोच्छ्वासनिःश्वासचेष्टा धातुगतिः समा
समो मोक्षो गतिमतां वायोः कर्माविकारजम् ४९
दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम्
प्रभा प्रसादो मेधा च पित्तकर्माविकारजम् ५०
स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम्
क्षमा धृतिरलोभश्च कफकर्माविकारजम् ५१
वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते
कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम् ५२
दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्
दोषाणां प्रकृतिर्हानिर्वृद्धिश्चैवं परीक्ष्यते ५३
तत्र श्लोकाः--
संख्यां निमित्तं रूपाणि शोथानां साध्यतां न च
तेषां तेषां विकाराणां शोथांस्तांस्तांश्च पूर्वजान् ५४
विधिभेदं विकाराणां त्रिविधं बोध्यसंग्रहम्
प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु ५५
वीतमोहरजोदोषलोभमानमदस्पृहः
व्याख्यातवांस्त्रिशोथीये शोगाध्याये पुनर्वसुः ५६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने त्रिशोथीयो
नामाष्टादशोऽध्यायः १८

एकोनविंशोऽध्यायः
अथातोऽष्टोदरीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खल्वष्टावुदराणि अष्टौ मूत्राघाताः अष्टौ क्षीरदोषाः अष्टौ रेतोदोषाः सप्त कुष्ठानि सप्त पिडकाः सप्त वीसर्पाः षडतीसाराः षडुदावर्ताः पञ्च गुल्माः पञ्च प्लीहदोषाः पञ्च कासाः पञ्च श्वासाः पञ्च हिक्काः पञ्च तृष्णाः पञ्च छर्दयः पञ्च भक्तस्यानशनस्थानानि पञ्च शिरोरोगाः पञ्च हृद्रोगाः पञ्च पाण्डुरोगाः पञ्चोन्मादाः चत्वारोऽपस्माराः चत्वारोऽक्षिरोगाः चत्वारः कर्णरोगाः चत्वारः प्रतिश्यायाः चत्वारो मुखरोगाः चत्वारो ग्रहणीदोषाः चत्वारो मदाः चत्वारो मूर्च्छायाः चत्वारः शोषाः चत्वारि क्लैब्यानि त्रयः शोफाः त्रीणि किलासानि त्रिविधं लोहितपित्तं द्वौ ज्वरौ द्वौ व्रणौ द्वावायामौ द्वे गृध्रस्यौ द्वे कामले द्विविधमामं द्विविधं वातरक्तं द्विविधान्यर्शांसि एक ऊरुस्तम्भः एकः संन्यासः एको महागदः विंशतिः क्रिमिजातयः विंशतिः प्रमेहाः विंशतिर्योनिव्यापदः इत्यष्टचत्वारिंशद्रोगाधिकरणान्यस्मिन् संग्रहे समुद्दिष्टानि ३
अष्टावुदराणीति वातपित्तकफसन्निपातप्लीहबद्धच्छिद्रदकोदराणि अष्टौ मूत्राघाता इति वातपित्तकफसन्निपाताश्मरीशर्कराशुक्रशोणितजाः अष्टौ क्षीरदोषा इति वैवर्ण्यं वैगन्ध्यं वैरस्यं पैच्छिल्यं फेनसङ्घातो रौक्ष्यं गौरवमतिस्नेहश्च अष्टौ रेतोदोषा इति तनु शुष्कं फेनिलमश्वेतं पूत्यतिपिच्छलमन्यधातूपहितमवसादि च १
सप्त कुष्ठानीति कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणानि सप्त पिडका इति शराविका कच्छपिका जालिनी सर्षप्यलजी विनता विद्रधी च सप्त विसर्पा इति वातपित्तकफाग्निकर्दमकग्रन्थिसन्निपाताख्याः २
षडतीसारा इति वातपित्तकफसन्निपातभयशोकजाः षडुदावर्ता इति वातमूत्रपुरीषशुक्रच्छर्दिक्षवथुजाः ३
पञ्च गुल्मा इति वातपित्तकफसन्निपातशोणितजाः पञ्च प्लीहदोषा इति गुल्मैर्व्याख्याताः पञ्च कासा इति वातपित्तकफक्षतक्षयजाः पञ्च श्वासा इति महोर्ध्वच्छिन्नतमकक्षुद्राः पञ्च हिक्का इति महती गम्भीरा व्यपेता क्षुद्राऽन्नजा च पञ्च तृष्णा इति वातपित्तामक्षयोपसंसर्गात्मिकाः पञ्च छर्दय इति द्विष्टार्थसंयोगजा वातपित्तकफसन्निपातोद्रेकोत्थाश्च पञ्च भक्तस्यानशनस्थानामीति वातपित्तकफसन्निपातद्वेषाः पञ्च शिरोरोगा इति पूर्वोद्देशमभिसमस्य वातपित्तकफसन्निपातक्रिमिजाः पञ्च हृद्रोगा इति शिरोरोगैर्व्याख्याताः पञ्च पाण्डुरोगा इति वातपित्तकफसन्निपातमृद्भक्षणजाः पञ्चोन्मादा इति वातपित्तकफसन्निपातागन्तुनिमित्ताः ४
चत्वारोऽपस्मारा इति वातपित्तकफसन्निपातनिमित्ताः चत्वारोऽक्षिरोगाश्चत्वारः कर्णरोगाश्चत्वारः प्रतिश्यायाश्चत्वारो मुखरोगाश्चत्वारो ग्रहणीदोषाश्चत्वारो मदाश्चत्वारो मूर्च्छाया इत्यपस्मारैर्व्याख्याताः चत्वारः शोषा इति साहससन्धारणक्षयविषमाशनजाः चत्वारि क्लैब्यानीति बीजोपघाताद्ध्वजभङ्गाज्जरायाः शुक्रक्षयाच्च ५
त्रयः शोथा इति वातपित्तश्लेष्मनिमित्ताः त्रीणि किलासानीति रक्तताम्रशुक्लानि त्रिविधं लोहितपित्तमिति ऊर्ध्वभागमधोभागमुभयभागं च ६
द्वौ ज्वराविति उष्णाभिप्रायः शीतसमुत्थश्च शीताभिप्रायश्चोष्णसमुत्थः द्वौ व्रणाविति निजश्चागन्तुजश्च द्वावायामाविति बाह्यश्चाभ्यन्तरश्च द्वे गृध्रस्याविति वाताद्वातकफाच्च द्वे कामले इति कोष्ठाश्रया शाखाश्रया च द्विविधमाममिति अलसको विसूचिका च द्विविधं वातरक्तमिति गम्भीरमुत्तानं च द्विविधान्यर्शांसीति शुष्काण्यार्द्राणि च ७
एक ऊरुस्तम्भ इत्यामत्रिदोषसमुत्थः एकः संन्यास इति त्रिदोषात्मको मनःशरीराधिष्ठानः एको महागद इति अतत्त्वाभिनिवेशः ८
विंशतिः कृमिजातय इति यूका पिपीलिकाश्चेति द्विविधा बहिर्मलजाः केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बरा जन्तुमातरश्चेति षट् शोणितजाः अन्त्रादा उदरावेष्टा हृदयादाश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश्चेति पञ्च पुरीषजाः विंशतिः प्रमेहा इत्युदकमेहश्चेक्षुबालिकारसमेहश्च सान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्मेहश्च सिकतामेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति चत्वारो वातनिमित्ताः इति विंशतिः प्रमेहाः विंशतिर्योनिव्यापद इति वातिकी पैत्तिकी श्लैष्मिकी सान्निपातिकी चेति चतस्रो दोषजाः दोषदूष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः षोडश निर्दिश्यन्ते तद्यथा रक्तयोनिश्चारजस्का चाचरणा चातिचरणा च प्राक्चरणा चोपप्लुता च परिप्लुता चोदावर्तिनी च कर्णिनी च पुत्रघ्नी चान्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्ढयोनिश्च महायोनिश्चेति विंशतिर्योनिव्यापदो भवन्ति ९
केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति ४
सर्व एव निजा विकारा नान्यत्र वातपित्तकफेभ्यो निर्वर्तन्तेयथाहिशकुनिःसर्वं दिवसमपि परिपतन् स्वां छायां नातिवर्तते तथा स्वधातुवैषम्यनिमित्ताः सर्वे विकारा वातपित्तकफान्नातिवर्तन्ते वातपित्तश्लेष्माणां पुनः स्थानसंस्थानप्रकृतिविशेषानभिसमीक्ष्य तदात्मकानपि च सर्वविकारांस्तानेवोपदिशन्ति बुद्धिमन्तः ५
भवतश्चात्र--
स्वधातुवैषम्यनिमित्तजा ये विकारसंघा बहवः शरीरे न ते पृथक् पित्तकफानिलेभ्य आगन्तवस्त्वेव ततो विशिष्टाः ६
आगन्तुरन्वेति निजं विकारं निजस्तथाऽऽगन्तुमपि प्रवृद्धः तत्रानुबन्धं प्रकृतिं च सम्यग् ज्ञात्वा ततः कर्म समारभेत ७
तत्र श्लोकौ--
विंशकाश्चैककाश्चैव त्रिकाश्चोक्तास्त्रयस्त्रयः
द्विकाश्चाष्टौ चतुष्काश्च दश द्वादश पञ्चकाः ८
चत्वारश्चाष्टका वर्गाः षट्कौ द्वौ सप्तकास्त्रयः
अष्टोदरीये रोगाणां रोगाध्याये प्रकाशिताः ९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टोदरीयो
नामोनविंशोऽध्यायः १९

विंशोऽध्यायः
अथातो महारोगाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
चत्वारो रोगा भवन्ति--आगन्तुवातपित्तश्लेष्मनिमित्ताः तेषां चतुर्णामपि रोगाणां रोगत्वमेकविधं भवति रुक्सामान्यात् द्विविधा पुनः प्रकृतिरेषाम् आगन्तुनिजविभागात् द्विविधं चैषामधिष्ठानं मनःशरीरविशेषात् विकाराः पुनरपरिसंख्येयाः प्रकृत्यधिष्ठानलिङ्गायतनविकल्पविशेषपरिसंख्येयत्वात् ॥ ३
मुखानि तु खल्वागन्तोर्नखदशनपतनाभिचाराभिशापाभिषाङ्गाभिघात-व्यधबन्धनवेष्टनपीडनरज्जुदहनशस्त्राशनिभूतोपसर्गादीनि निजस्य तु मुखं वातपित्तश्लेष्मणां वैषम्यम् ४
द्वयोस्तु खल्वागन्तुनिजयोः प्रेरणमसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति ५
सर्वेऽपि तु खल्वेतेऽभिप्रवृधाश्चत्वारो रोगाः परस्परमनुबध्नन्ति न चान्योन्येन सह सन्देहमापद्यन्ते ६
आगन्तुर्हि व्यथापूर्वं समुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति निजे तु वातपित्तश्लेष्माणः पूर्वं वैषम्यमापद्यन्ते जघन्यं व्यथामभिनिर्वर्तयन्ति ७
तेषां त्रायाणामपि दोषाणां शरीरे स्थानविभाग उपदेक्ष्यते तद्यथा--बस्तिः पुरीषाधानं कटिः सक्थिनी पादावस्थीनि पक्वाशयश्च वातस्थानानि तत्रापि पक्वाशयो विशेषेण घातस्थानं स्वेदो रसो लसीका रुधिरमामाशयश्च पित्तस्थानानि तत्राप्यामाशयो विशेषेण पित्तस्थानम् उरः शिरो ग्रीवा पर्वाण्यामाशयो मेदश्च श्लेष्मस्थानानि तत्राप्युरो विशेषेण श्लेष्मस्थानम् ८
सर्वशरीरचरास्तु वातपित्तश्लेष्माणः सर्वस्मिञ्छरीरे कुपिताकुपिताः शुभाशुभानि कुर्वन्ति--प्रकृतिभूताः शुभान्युपचयबलवर्णप्रसादादीनि अशुभानि पुनर्विकृतिमापन्ना विकारसंज्ञकानि ९
तत्र विकाराः सामान्यजाः नानात्मजाश्च तत्र सामान्यजाः पूर्वमष्टोदरीये व्याख्याताः नानात्मजांस्त्विहाध्यायेऽनुव्याख्यास्यामः तद्यथा--अशीतिर्वातविकाराः चत्वारिंशत् पित्तविकाराः विंशतिः श्लेष्मविकाराः १०
तत्रादौ वातविकाराननुव्याख्यास्यामः तद्यथा--नखभेदश्च विपादिका च पादशूलं च पादभ्रंशश्च पादसुप्तता च वातखुड्डता च गुल्फग्रहश्च पिण्डिकोद्वेष्टनं च गृध्रसी च जानुभेदश्च जानुविश्लेषश्च ऊरुस्तम्भश्च ऊरुसादश्च पाङ्गुल्यं च गुदभ्रंशश्च गुदार्तिश्च वृषणाक्षेपश्च शेफस्तम्भश्च वङ्क्षणानाहश्च श्रोणिभेदश्च विड्भेदश्च उदावर्तश्च खञ्जत्वं च कुब्जत्वं च वामनत्वं च त्रिकग्रहश्च पृष्ठग्रहश्च पार्श्वावमर्दश्च उदरावेष्टश्च हृन्माहेश्च हृद्द्रवश्च वक्ष उद्घर्षश्च वक्ष उपरोधश्च वक्षस्तोदश्च बाहुशोषश्च ग्रीवास्तम्भश्च मन्यास्तम्भश्च कण्ठोद्धवंसश्च हनुभेदश्च ओष्ठभेदश्च अक्षिभेदश्च दन्तभेदश्च दन्तशैथिल्यं च मूकत्वं च वाक्सङ्गश्च कषायास्यता च मुखशोषश्च अरसज्ञता च घ्राणनाशश्च कर्णशूलं च अशब्दश्रवणं च उच्चैःश्रुतिश्च बाधिर्यं च वर्त्मस्तम्भश्च वर्त्मसङ्कोचश्च तिमिरं च अक्षिशूलं च अक्षिव्युदासश्च भ्रूव्युदासश्च शङ्खभेदश्च ललाटभेदश्च शिरोरुक् च केशभूमिस्फुटनं च अर्दितं च एकाङ्गरोगश्च सर्वाङ्गरोगश्च पक्षवधश्च आक्षेपकश्च दण्डकश्च तमश्च भ्रमश्च वेपथुश्च जृम्भा च हिक्का च विषादश्च अतिप्रलापश्च रौक्ष्यं च पारुष्यं च श्यावारुणावभासता च अस्वप्नश्च अनवस्थितचित्तत्वं च इत्यशीतिर्वातविकारा वातविकाराणामपरिसंख्येयानामाविष्कृततमा व्याख्याताः ११
सर्वेष्वपि खल्वेतेषु वातविकारेषूक्तेष्वन्येषु चानुक्तेषु वायोरिदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं यदुपलभ्य तदवयवं वा विमुक्तसन्देहा वातविकारमेवाध्यवस्यन्ति कुशलाः तद्यथा रौक्ष्यं शैत्यं लाघवं वैशद्यं गतिरमूर्तत्वमनवस्थितत्वं चेति वायोरात्मरूपाणि एवंविधत्वाच्च वायोः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः तद्यथा--स्रंसभ्रं सव्याससङ्गभेदसादहर्षतर्षकम्पवर्तचालतोदव्यथाचेष्टादीनि तथा खरपरुषविशदसुषिरारुणवर्णकषायविरसमु-खत्वशोषशूलसुप्तिसङ्कोचनस्तम्भनखञ्जक्षतादीनि च वायोः कर्माणि तैरन्वितं वातविकारमेवाध्यवस्येत् १२
तं मधुराम्ललवणस्निग्धोष्णैरुपक्रमैरुपक्रमेत स्नेहस्वेदास्थापनानुवासननस्तःकर्मभोजनाभ्यङ्गोत्सादनपरिषेकादिभिर्वातहरैर्मात्रां कालं च प्रमाणीकृत्य तत्रास्थापनानुवासनं तु खलु सर्वत्रोपक्रमेभ्यो वाते प्रधानतमं मन्यते भिषजः तद्ध्यादित एव पक्वाशयमनुप्रविश्य केवलं वैकारिकं वातमूलं छिनत्ति तत्रावजिंतेऽपि वाते शरीरान्तर्गताः वातविकाराः प्रशान्तिमापद्यन्ते यथा वनस्पतेर्मूले छिन्ने स्कन्धशाखाप्ररोहकुसुमफलपलाशादीनां नियतो विनाशस्तद्वत् १३
पित्तविकारांश्चत्वारिंशतमत ऊर्ध्वमनुव्याख्यास्यामः--ओषश्च प्लोषश्च दाहश्च दवथुश्च धूमकश्च अम्लकश्च विदाहश्च अन्तर्दाहश्च अंसदाहश्च ऊष्माधिक्यं च अतिस्वेदश्च अङ्गस्वेदश्च अङ्गगन्धश्च अङ्गावदरणं च शोणितक्लेदश्च मांसक्लेदश्च त्वग्दाहश्च मांसदाहश्च त्वगवदरणं च चर्मदलनं च रक्तकोठश्च रक्तविस्फोटश्च रक्तपित्तं च रक्तमण्डलानि च हरितत्वं च हारिद्रत्वं च नीलिका च कक्षा च कामला च तिक्तास्यता च लोहितगन्धास्य ता च पूतिमुखता च तृष्णाधिक्यं च अतृप्तिश्च आस्यविपाकश्च गलपाकश्च अक्षिपाकश्च गुदपाकश्च मेढ्रपाकश्च जीवादानं च तमः प्रवेशश्च हरितहारिद्रनेत्रमूत्रवर्चस्त्वं च इति चत्वारिंशत्पित्तविकाराः पित्तविकाराणामपरिसंख्येयानामाविष्कृततमा व्याख्याताः १४
सर्वेष्वपि खल्वेतेषु पितविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं यदुपलभ्य तदवयवं वा विमुक्तसंदेहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः तद्यथा--औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जो गन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि एवंविधत्वाच्च पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः तद्यथादाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागायथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्य कर्माणि तैरन्वितं पित्तविकारमेवाध्यवस्येत् १५
तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत स्नेहविरेकप्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैर्मात्रां कालं च प्रमाणीकृत्य विरेचनं तु सर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैकारिकं पित्तमूलमपकर्षति तत्रावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्तिमापद्यन्ते यथाऽग्नौ व्यपोढे केवलमग्निगृहं शीतीभवति तद्वत् १६
श्लेष्मविकारांश्च विंशतिमत ऊर्ध्वं व्याख्यास्यामः तद्यथा--तृप्तिश्च तन्द्रा च निद्राधिक्यं च स्तैमित्यं च गुरुगात्रता च आलस्यं च मुखमाधुर्यं च मुखस्रावश्च श्लेष्मोद्गिरणं च मलस्याधिक्यं च बलासकश्च अपक्तिश्च हृदयोपलेपश्च कण्ठोपलेपश्च धमनीप्रतिचयश्च गलगण्डश्च अतिस्थौल्यं च शीताग्निता च उदर्दश्च श्वेतावभासता च श्वेतमूरनेत्रवर्चस्त्वं च इति विंशतिः श्लेष्मविकाराः श्लेष्मविकाराणामपरिसंख्येयानामाविष्कृततमा व्याख्याता भवन्ति १७
सर्वेष्वपि खल्वेतेषु श्लेष्मविकारेषूक्तेष्वन्येषु चानुक्तेषु श्लेष्मण इदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं यदुपलभ्य तदवयवं वा विमुक्तसंदेहाः श्लेष्मविकारमेवाध्यवस्यन्ति कुशलाः तद्यथा--स्नेहशैत्यशौक्ल्यगौरवमाधुर्यस्थैर्यपैच्छिल्यमात्स्नर्यानि श्लेष्मण आत्मरूपाणि एवंविधत्वाच्च श्लेष्मणः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः तद्यथा--श्वैत्यशैत्यकण्डूस्यैर्यगौरवस्नेहसुप्तिक्लेदोपदेहबन्धमाधुर्यचिरकारित्वानि श्लेष्मणः कर्माणि तैरन्वितं श्लेष्मविकारमेवाध्यवस्येत् ॥ १८
तं कटुकतिक्तकषायतीक्ष्णोष्णरूक्षैरुपक्रमैरुपक्रमेत स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैर्मात्रां कालं च प्रमाणीकृत्य वमनं तु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः तद्ध्यादित एवामाशयमनुप्रविश्योरोगतं केवलं वैकारिकं श्लेष्ममूलमूर्ध्वमुत्क्षिपति तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिमापद्यन्ते यथा भिन्ने केदारसेतौ शालियवषष्टिकादीन्यनभिष्यन्द्यमानान्यम्भसा प्रशोषमापद्यन्ते तद्वदिति १९
भवन्ति चात्र--
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्
ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत् २०
यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्
अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया २१
तस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः
देशकालप्रमाणज्ञस्तस्य सिद्धिरसंशयम् २२
तत्र श्लोकाः--
संग्रहः प्रकृतिर्देशो विकारमुखमीरणम्
भसन्देहोऽनुबन्धश्च रोगाणां संप्रकाशितः २३
दोषस्थानानि रोगाणां गणा नानात्मजाश्च ये
रूपं पृथक् च दोषाणां कर्म चापरिणामि यत् २४
पृथक्त्वेन च दोषाणां निर्दिष्टाः समुपक्रमाः
सम्यङ्महति रोगाणामध्याये तत्त्वदर्शिना २५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महारोगाध्यायो नाम
विंशोऽध्यायः २०
समाप्तो रोगचतुष्कः ५

एकविंशोऽध्यायः
अथातोऽष्टौनिन्दतीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु शरीरमधिकृत्याष्टौ पुरुषा निन्दता भवन्ति तद्यथा--अतिदीर्घश्च अतिह्रस्वश्च अतिलोमा च अलोमा च अतिकृष्णश्च अतिगौरश्च अतिस्थूलश्च अतिकृशश्चेति ३
अत्रातिस्थूलकृशयोर्भूय एवापरे निन्दतविशेषा भवन्ति अतिस्थूलस्य तावदायुषो ह्रासो जवोपरोधः कृच्छ्रव्यवायता दौर्बल्यं दौर्गन्ध्यं स्वेदाबाधः क्षुदतिमात्रं पिपासातियोगश्चेति भवन्त्यष्टौ दोषाः तदतिस्थौल्यमतिसंपूरणाद्गुरुमधुरशीतस्निग्धोपयोगादव्यायामा-दव्यवायाद्दिवास्वप्नाद्धर्षनित्यत्वादचिन्तनाद्वीजस्वभावाचोपजायते तस्य ह्यतिमात्रमेदस्विनो मेद एवोपचीयते न तथेतरे धातवः तस्मादस्यायुषो ह्रासः शैथिल्यात् सौकुमार्याद्गुरुत्वाच्च मेदसो जवोपरोधः शुक्राबहुत्वान्मेदसाऽऽवृतमार्गत्वाच्च कृच्छ्रव्यवायता हौर्बल्यमसमत्वाद्धातूनां दौर्गन्ध्यं मेदोदोषान्मेदसः स्वभावात् स्वेदनत्वाच्च मेदसः श्लेष्मसंसर्गाद्विष्यन्दित्वाद्बहुत्वाद्गुरुत्वाद्व्यायामासहत्वाच्च स्वेदाबाधः तीक्ष्णाग्नित्वात् प्रभूतकोष्ठवायुत्वाच्च क्षुदतिमात्रं पिपासातियोगश्चेति ४
भवन्ति चात्र--
मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः
चरन् संधुक्षयत्यग्निमाहारं शोषयत्यपि ५
तस्मात् स शीघ्रं जरयत्याहारं चातिकांक्षति
विकारांश्चाश्नुते घोरान् कांश्चित्कालव्यतिक्रमात् ६
एतावुपद्रवकरौ विशेषादग्निमारुतौ
एतौ हि दहतः स्थूलं वनदावो वनं यथा ७
मेदस्यतीव संवृधे सहसैवानिलादयः
विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम् ८
मेदोमांसातिवृधत्वाच्चलस्फिगुदरस्तनः
अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ९
इति मेदस्विनो दोषा हेतवो रूपमेव च
निर्दिष्टं वक्ष्यते वाच्यमतिकार्श्ये त्वतः परम् १०
सेवा रूक्षान्नपानानां लङ्घनं प्रमिताशनम्
क्रियातियोगः शोकश्च वेगनिद्राविनिग्रहः ११
रूक्षस्योद्वर्तनं स्नानस्याभ्यासः प्रकृतिर्जरा
विकारानुशयः क्रोधः कुर्वन्त्यतिकृशं नरम् १२
व्यायाममतिसौहित्यं क्षुत्पिपासामयौषधम्
कृशो न सहते तद्वदतिशीतोष्णमैथुनम् १३
प्लीहा कासः क्षयः श्वासो गुल्मोऽर्शांस्युदराणि च
कृशं प्रायोऽभिधावन्ति रोगाश्च ग्रहणीगताः १४
शुष्कस्फिगुदरग्रीवो धमनीजालसन्ततः
त्वगस्थिशेषोऽतिकृशः स्थूलपर्वा नरो मतः १५
सततं व्याधितावेतावतिस्थूलकृशौ नरौ
सततं चोपचर्यौ हि कर्शनैर्बृंहणैरपि १६
स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ हि तौ
यद्युभौ व्याधिरागच्छेत् स्थूलमेवातिपीडयेत् १७
सममांसप्रमाणस्तु समसंहननो नरः
दृढेन्द्रियो विकाराणां न बलेनाभिभूयते १८
क्षुत्पिपासातपसहः शीतव्यायामसंसहः
समपक्ता समजरः सममांसचयो मतः १९
गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति
कृशानां बृंहणार्थं च लघु संतर्पणं च यत् २०
वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च
रूक्षोष्णा बस्तयस्तीक्ष्णा रूक्षाण्युद्वर्तनानि च २१
गुडूचीभद्रमुस्तानां प्रयोगस्त्रैफलस्तथा
तक्रारिष्टप्रयोगश्च प्रयोगो माक्षिकस्य च २२
विडङ्गं नागरं क्षारः काललोहरजो मधु
यवामलकचूर्णं च प्रयोगः श्रेष्ठ उच्यते २३
बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुतः
शिलाजतुप्रयोगश्च साग्निमन्थरसः परः २४
प्रशातिका प्रियङ्गुश्च श्यामाका यवका यवाः
जूर्णाह्वा कोद्रवा मुद्गाः कुलत्थाश्चकमुद्गकाः २५
आढकीनां च बीजानि पटोलामलकैः सह
भोजनार्थं प्रयोज्यानि पानं चानु मधूदकम् २६
अरिष्टांश्चानुपानार्थे मेदोमांसकफापहान्
अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत् २७
प्रजागरं व्यवायं च व्यायामं चिन्तनानि च
स्थौल्यमिच्छन् परिस्यक्तुं क्रमेणाभिप्रवर्धयेत् २८
स्वप्नो हर्षः सुखा शय्या मनसो निर्वृतिः शमः
चिन्ताव्यवायव्यायामविरामः प्रियदर्शनम् २९
नवान्नानि नवं मद्यं ग्राम्यानूपौदका रसाः
संस्कृतानि च मांसानि दधि सर्पिः पयांसि च ३०
इक्षवः शालयो माषा गोधूमा गुडवैकृतम्
बस्तयः स्निग्धमधुरास्तैलाभ्यङ्गश्च सर्वदा ३१
स्निग्धमुद्वर्तनं स्नानं गन्धमाल्यनिषेवणम्
शुक्लं वासो यथाकालं दोषाणामवसेचनम् ३२
रसायनानां वृष्याणां योगानामुपसेवनम्
हत्वाऽतिकार्श्यमाधत्ते नृणामुपचयं परम् ३३
अचिन्तनाच्च कार्याणां ध्रुवं संतर्पणेन च
स्वप्नप्रसङ्गाच्च नरो वराह इव पुष्यति ३४
यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः
विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः ३५
निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्
वृषता क्लीवता ज्ञानमज्ञानं जीवितं न च ३६
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता
सुखायुषी पराकुर्यात् कालरात्रिरिवापरा ३७
सैव युक्ता पुनर्युङ्क्ते निद्रा देहं सुखायुषा
पुरुषं योगिनं सिद्ध्या सत्या बुद्धिरिवागता ३८
गीताध्ययनमद्यस्रीकर्मभाराध्वकर्शिताः
अजीर्णिनः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः ३९
तृष्णातीसारशूलार्ताः श्वासिनो हिक्किनः कृशाः
पतिताभिहितोन्मत्ताः क्लान्ता यानप्रजागरैः ४०
क्रोधशोकभयक्लान्ता दिवास्वप्नोचिताश्च ये
सर्व एते दिवास्वप्नं सेवेरन् सार्वकालिकम् ४१
धातुसाम्यं तथा ह्येषां बलं चाप्युपजायते
श्लेष्मा पुष्णाति चाङ्गानि स्थैर्यं भवति चायुषः ४२
ग्रीष्मे त्वादानरूक्षाणां वर्धमाने च मारुते
रात्रीणां चातिसंक्षेपाद्दिवास्वप्नः प्रशस्यते ४३
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः
श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते ४४
मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः
दूषीविषार्ताश्च दिवा न शयीरन् कदाचन ४५
हलीमकः शिरःशूलं स्तैर्मित्यं गुरुगात्रता
अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च ४६
शोफारोचकहृल्लासपीनसार्धावभेदकाः
कोठारुः पिडकाः कण्डूस्तन्द्रा कासो गलामयाः ४७
स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः
इन्द्रियाणामसामर्थ्यं विषवेगप्रवर्तनम् ४८
भवेन्नृणां दिवास्वप्नस्याहितस्य निषेवणात्
तस्माद्धिताहितं स्वप्नं बुद्ध्वा स्वप्यात् सुखं बुधः ४९
रारौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम् ५०
देहवृत्तौ यथाऽऽहारस्तथा स्वप्नः सुखो मतः
स्वप्नाहारसमुथे च स्थौल्यकार्श्ये विशेषतः ५१
अभ्यङ्गोत्सादनं स्नानं ग्राम्यानूपौदका रसाः
शाल्यन्नं सदधि क्षीरं स्नेहो मद्यं मनःसुखम् ५२
मनसोऽनुगुणा गन्धाः शब्दाः संवाहनानि च
चक्षुषोस्तर्पणं लेपः शिरसो वदनस्य च ५३
स्वास्तीर्णं शयनं वेश्म सुखं कालस्तथोचितः
आनयन्त्यचिरान्निद्रां प्रनष्टा या निमित्ततः ५४
कायस्य शिरसश्चैव विरेकश्छर्दनं भयम्
चिन्ता क्रोधस्तथा धूमो व्यायामो रक्तमोक्षणम् ५५
उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः
निद्राप्रसङ्गमहितं वारयन्ति समुत्थितम् ५६
एत एव च विज्ञेया निद्रानाशस्य हेतवः
कार्यं कालो विकारश्च प्रकृतिर्वायुरेव च ५७
तमोभवा श्लेष्मसमुद्भवा च मनःशरीरश्रमसंभवा च
आगन्तुकी व्याध्यनुवर्तिनी च रारिस्वभावप्रभवा च निद्रा ५८
रात्रिस्वभावप्रभवा मता या तां भूतधात्रीं प्रवदन्ति तज्ज्ञाः
तमोभवामाहुरघस्य मूलं शेषाः पुनर्व्याधिषु निर्दिशन्ति ५९
यत्र श्लोकाः--
निन्दिताः पुरुषास्तेषां यौ विशेषेण निन्दतौ
निन्दिते कारणं दोषास्तयोर्निन्दितभेषजम् ६०
येभ्यो यदा हिता निद्रा येभ्यश्चाप्यहिता यदा
अतिनिद्रायानिद्राय भेषजं यद्भवा च सा ६१
या या यथाप्रभावा च निद्रा तत् सर्वमत्रिजः
अष्टौनिन्दितसंख्याते व्याजहार पुनर्वसुः ६२
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टौनिन्दितीयो
नामैकविंशतितमोऽध्यायः २१

द्वाविंशोऽध्यायः
अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
तपःस्वाध्यायनिरतानात्रेयः शिष्यसत्तमान्
षडग्निवेशप्रमुखानुक्तवान् परिचोदयन् ३
लङ्घनं बृंहणं काले रूक्षणं स्नेहनं तथा
स्वेदनं स्तम्भनं चैव जानीते यः स वै भिषक् ४
तमुक्तवन्तमात्रेयमग्निवेश उवाच ह ५
भगवल्लँङ्घनं किंस्विल्लङ्घनीयाश्च कीदृशाः
बृंहणं बृंहणीयाश्च रूक्षणीयाश्च रूक्षणम् ६
के स्नेहाः स्नेहनीयाश्च स्वेदाः स्वेद्याश्च के मताः
स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद्गुरो ७
लङ्घनप्रभृतीनां च षण्णामेषां समासतः
कृताकृतातिवृतानां लक्षणं वक्तुमर्हसि ८
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्
यत् किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ९
बृहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम्
रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्तद्धि रूक्षणम् १०
स्नेहनं स्नेहविष्यन्दमार्दवक्लेदकारकम्
स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम् ११
स्तम्भनं स्तम्भयति यद्गतिमन्तं चलं ध्रुवम्
लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम् १२
कठिनं चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम्
गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम् १३
प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणमुच्यते
रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम् १४
प्रायशः कठिनं चैव यद्द्रव्यं तद्धि रूक्षणम्
द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम्
प्रायो मन्दं मृदु च यद्द्रव्यं तत्स्नेहनं मतम् १५
उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम्
द्रव्यं गुरु च यत् प्रायस्तद्धि स्वेदनमुच्यते १६
शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम्
यद्द्रव्यं लघु चोद्दिष्टं प्रायस्तत् स्तम्भनं स्मृतम् १७
चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ
पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् १८
प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः
बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः १९
येषां मध्यबला रोगाः कफपित्तसमुत्थिताः
वम्यतीसारहृद्रोगविसूच्यलसकज्वराः २०
विबन्धगौरवोद्गारहृल्लासारोचकादयः
पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत् २१
एत एव यथोद्दिष्टा येषामल्पबला गदाः
पिपासानिग्रहैस्तेषामुपवासैश्च ताञ्जयेत् २२
रोगाञ्जयेन्मध्यबलान् व्यायामातपमारुतैः
बलिनां इं पुनर्येषां रोगाणामवरं बलम् २३
त्वग्दोषिणां प्रमीढानां स्निग्धाभिस्यन्दिबृंहिणाम्
शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् २४
अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम्
मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते २५
क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः
स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः २६
शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये
तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः २७
स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः
शर्कराक्षीरसर्पींषि सर्वेषां विद्धि बृंहणम् २८
कटुतिक्तकषायाणां सेवनं स्त्रीष्वसंयमः
खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम् २९
अभिष्यण्णा महादोषा मर्मस्था व्याधयश्च ये
ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः ३०
स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः
स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम् ३१
द्रवं तन्वसरं यावच्छीतीरकरणमौषधम्
स्वादु तिक्तं कषायं च स्तम्भनं सर्वमेव तत् ३२
पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः
विषस्वेदातियोगार्ताः स्तम्भनीया निदर्शिताः ३३
वातमूत्रपुरीषाणां विसर्गे गारलाघवे
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते ३४
स्वेदे जाते रुचौ चैव क्षुत्पिपासासहोदये
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ३५
पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ३६
मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि
देहाग्निबलनाशश्च लङ्घनेऽतिकृते भवेत् ३७
बलं पृष्ट्युपलम्भश्च कार्श्यदोषविवर्जनम्
लक्षणं बृंहिते स्थौल्यमति चात्यर्थबृंहिते ३८
कृतातिकृतलिङ्गं यल्लिङ्घिते तद्धि रूक्षिते
स्तम्भितः स्याद्बले लब्धे यथोक्तैश्चामयैर्जितैः ३९
श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसंग्रहः
हृद्वर्चोनिग्रहश्च स्यादतिस्तम्भितलक्षणम् ४०
लक्षणं चाकृतानां स्यात् षण्णामेषां समासतः
तदौषधानां धातूनामशमो वृद्धिरेव च ४१
इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः
साध्यानां साधने सिद्धा मात्राकालानुरोधिनः ४२
भवति चात्र--
दोषाणां बहुसंसर्गात् सङ्कीर्यन्ते ह्युपक्रमाः
षट्त्वं तु नातिवर्तन्ते त्रित्वं वातादयो यथा ४३
तत्र श्लोकाः --
इत्यस्मिल्लँङ्घनाध्याये व्याख्याताः षडुपक्रमाः
यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते ४४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने लङ्घनबृंहणीयो नाम
द्वाविंशोऽध्यायः २२

त्रयोविंशोऽध्यायः
अथातः संतर्पणीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
संतर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः
नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः ३
गोरसैर्गौडिकैश्चान्नैः पैष्टिकैश्चातिमात्रशः
चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः ४
रोगास्तस्योपजायन्ते संतर्पणनिमित्तजाः
प्रमेहपिडकाकोठकण्डूपाण्ड्वामयज्वराः ५
कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रमरोचकः
तन्द्रा क्लैव्यमतिस्थौल्यमालस्यं गुरुगात्रता ६
इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः
शोफाश्चैवंविधाश्चान्ये शीघ्रमप्रतिकुर्वतः ७
शस्तमुल्लेखनं तत्र विरेको रक्तमोक्षणम्
व्यायामश्चोपवासश्च धूमाश्च स्वेदनानि च ८
सक्षौद्रश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम्
चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः ९
त्रिफलारग्वधं पाठां सप्तपर्णं सवत्सकम्
मुस्तं समदनं निम्बं जलेनोत्क्वथितं पिबेत् १०
तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम्
मात्राकालप्रयुक्तेन संतर्पणसमुत्थिताः ११
मुस्तमारग्वधः पाठा त्रिफला देवदारु च
श्वदंष्ट्रा खदिरो निम्बो हृरिद्रे त्वक्च वत्सकात् १२
रसमेषां यथादोषं प्रातः प्रातः पिबन्नरः
संतर्पणकृतैः सर्वैर्व्याधिभिः संप्रमुच्यते १३
एभिश्चोद्वर्तनोद्घर्षस्नानयोगोपयोजितैः
त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः १४
कुष्ठं गोमेदको हिङ्गु क्रौञ्चास्थि त्र्यूषणं वचा
वृषकैले श्वदंष्ट्रा च खराह्वा चाश्मभेदकः १५
तक्रेण दधिमण्डेन बदराम्लरसेन वा
मूत्रकृच्छ्रं प्रमेहं च पीतमेतद्व्यपोहति १६
तक्राभयाप्रयोगैश्च त्रिफलायास्तथैव च
अरिष्टानां प्रयोगैश्च यान्ति मेहादयः शमम् १७
त्र्यूषणं त्रिफला क्षौद्रं क्रिमिघ्नमजमोदकः
मन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः १८
व्योषं विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम्
वृहत्यौ द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम् १९
हिङ्गु केबुकमूलानि यवानीधान्यचित्रकान्
सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत् २०
चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः
सक्तूनां षोडशगुणो भागः संतर्पणं पिबेत् २१
प्रयोगादस्य शाम्यन्ति रोगाः संतर्पणोत्थिताः
प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः २२
प्लीहा पाण्ड्वामयः शोफो मूत्रकृच्छ्रमरोचकः
हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः २३
क्रिमयो ग्रहणीदोषाः श्वैत्र्यं स्थौल्यमतीव च
नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते २४
व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः
संतर्पणकृतैर्दोषैः स्थौल्यं मुक्त्वा विमुच्यते २५
उक्तं संतर्पणोत्थानामपतर्पणमौषधम्
वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः २६
देहाग्निबलवर्णौजःशुक्रमांसपरिक्षयः
ज्वरः कासानुबन्धश्च पार्श्वशूलमरोचकः २७
श्रोत्रदौर्बल्यमुन्मादः प्रलापो हृदयव्यथा
विण्मूत्रसंग्रहः शूलं जङ्घोरुत्रिकसंश्रयम् २८
पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः
ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात् २९
तेषां संतर्पणं तज्ज्ञैः पुनराख्यातमौषधम्
यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ३०
सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते
नर्ते संतर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति ३१
देहाग्निदोषभैषज्यमात्राकालानुवर्तिना
कार्यमत्वरमाणेन भेषजं चिरदुर्बले ३२
हिता मांसरसास्तस्मै पयांसि च घृतानि च
स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये ३३
ज्वरकासप्रसक्ताणां कृशानां मूत्रकृच्छ्रिणाम्
तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः ३४
शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः
सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते ३५
सक्तवो मदिरा क्षौद्रं सर्करा चेति तर्पणम्
पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम् ३६
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्
तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत् ३७
मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः
परूषकैः सामलकैर्युक्तो मद्यविकारनुत् ३८
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः ३९
तत्र श्लोकः--
सन्तर्पणोत्था ये रोगा रोगा ये चापतर्पणात्
सन्तर्पणीये तेऽध्याये सौषधाः परिकीर्तिताः ४०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने सन्तर्पणीयो नाम
त्रयोविंशोऽध्यायः २३

चतुर्विंशोऽध्यायः
अथातो विधिशोणितीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
विधिना शोणितं जातं शुद्धं भवति देहिनाम्
देशकालौकसात्म्यानां विधिर्यः संप्रकाशितः ३
तद्विशुधं हि रुधिरं बलवर्णसुखायुषा
युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते ४
प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः
तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च ५
कुलत्थमाषनिष्पावतिलतैलनिषेवणैः
पिण्डालुमूलकादीनां हरितानां च सर्वशः ६
जलजानूपबैलानां प्रसहानां च सेवनात्
दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च ७
विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च
भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च ८
अत्यादानं तथा क्रोधं भजतां चातपानलौ
छर्दिवेगप्रतीघातात् काले चानवसेचनात् ९
श्रमाभिघातसंतापैरजीर्णाध्यशनैस्तथा
शरत्कालस्वभावाच्च शोणितं सन्प्रदुष्यति १०
ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः
मुखपाकोऽक्षिरागश्च पूतिघ्रानास्यगन्धिता ११
गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः
विद्रधी रक्तमेहश्च प्रदरो वातशोणितम् १२
वैवर्ण्यमग्निशादश्च पिपासा गुरुगात्रता
संतापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक् १३
विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः
क्रोधप्रचुरता बुद्धेः संमोहो लवणास्यता १४
स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः
तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम् १५
कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः
विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः १६
शीतोष्णस्रिग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः
सम्यक् साध्या न सिध्यन्ति रक्तजांस्तान् विभावयेत् १७
कुर्याछोणितरोगेषु रक्तपितहरीं क्रियाम्
विरेकमुपवासं च स्रावणं शोणितस्य च १८
बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा
रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा १९
अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु
पित्तात् पीतासितं रक्तं स्त्यायत्यौष्ण्याच्चिरेण च २०
ईषत्पाण्डु कफाद्दुष्टं पिञ्छिलं तन्तुमद्घनम्
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् २१
तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्
गुञ्जाफलसवर्णं च विशुद्धं विद्धि शोणितम् २२
नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्
तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषेण च रक्षितव्यः २३
प्रसन्नवर्णोन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तवेगम्
सुखान्वितं तु पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति २४
यदा तु रक्तवाहीनि रससंज्ञावहानि च
पृथक्पृथक् समस्ता वा स्रोतांसि कुपिता मलाः २५
मलिनाहारशीलस्य रजोमोहावृतात्मनः
प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा २६
मदमूर्च्छायसंन्यासास्तेषां विद्याद्विचक्षणः
यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु २७
दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते
मनो बिक्षोभयञ्जन्तोः संज्ञां संमोहयेत्तदा २८
पित्तमेवं कफश्चैवं मनो विक्षोभयन्नृणाम्
संज्ञां नयत्याकुलतां विशेषश्चार वक्ष्यते २९
सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम्
विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम् ३०
सक्रोधपरुषाभाषं संप्रहारकलिप्रियम्
विद्यात् पितमदाविष्टं रक्तपीतासिताकृतिम् ३१
स्वल्पासंबद्धवचनं तन्द्रालस्यसमन्वितम्
विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम् ३२
सर्वाण्येतानि रूपाणि सन्निपातकृते मदे
जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः ३३
यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः
सर्व एते मदा नर्ते वातपित्तकफत्रयात् ३४
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्
पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ३५
बेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च
कार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसंभवे ३६
रक्तं हरितवर्णं वा वियत् पीतमथापि वा
पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते ३७
सपिपासः ससंतापो रक्तपीताकुलेक्षणः
संभिन्नवर्चाः पीताभो मूर्च्छाये पित्तसंभवे ३८
मेघसङ्काशमाकाशमावृतं वा तमोघनैः
पश्यंस्तमः प्रबिशति चिराच्च प्रतिबुध्यते ३९
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा
सप्रसेकः सहृल्लासो मूर्च्छाये कफसंभवे ४०
सर्वाकृतिः सन्निपातादपस्मार इवागतः
स जन्तुं पातयत्याशु विना बीभत्सवेष्टितैः ४१
दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्
स्वयमेवोपशाम्यन्ति संन्यासो नौषधैर्विना ४२
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः
संन्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः ४३
स ना संन्याससंन्यस्तः काष्टीभूतो मृतोपमः
प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्यः फलाः क्रियाः ४४
दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः
गृह्णीयातलमप्राप्तं तथा संन्यासपीडितम् ४५
अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ४६
लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च
आत्मगुप्तावघर्षश्च हितं तस्यावबोधने ४७
संमूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च
प्रभूतकटुयुक्तानि तस्यास्ये गालयेन्मुहुः ४८
मातुलुङ्गरसं तद्वन्महौषधसमायुतम्
तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकैः ४९
हिङ्गूषणसमायुक्तं यावत् संज्ञाप्रबोधनम्
प्रबुद्धसंञ्जमन्नैश्च लघुभिस्तमुपाचरेत् ५०
विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव च
पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनैः ५१
स्रंसनोल्लेखनैर्धूमैरञ्जनैः कवलग्रहैः
शोणितस्यावसेकैश्च व्यायामोद्घर्षणैस्तथा ५२
प्रबुद्धसंज्ञं मतिमाननुबन्धमुपक्रमेत्
तस्य संरक्षितव्यं हि मनः प्रलयहेतुतः ५३
स्नेहस्वेदोपपन्नानां यथादोषं यथाबलम्
पञ्च कर्माणि कुर्वीत मूर्च्छायेषु मदेषु च ५४
अष्टाविंशत्यौषधस्य तथा तिक्तस्य सर्पिषः
प्रयोगः शस्यते तद्वन्महतः षट्पलस्य वा ५५
त्रिफलायाः प्रयोगो वा सघृतक्षौद्रशर्करः
शिलाजतुप्रयोगो वा प्रयोगः पयसोऽपि वा ५६
पिप्पलीनां प्रयोगो वा पयसा चित्रकस्य वा
रसायनानां कौम्भस्य सर्पिषो वा प्रशस्यते ५७
रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि
सेवनान्मदमूर्च्छायाः प्रशाम्यन्ति शरीरिणाम् ५८
तत्र श्लोकौ--
विशुद्धं चाविशुद्धं च शोणितं तस्य हेतवः
रक्तप्रदोषजा रोगास्तेषु रोगेषु चौषधम् ५९
मद्मूर्च्छायसंन्यासहेतुलक्षणभेषजम्
विधिशोणितकेऽध्याये सर्वमेतत् प्रकाशितम् ६०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने विधिशोणितीयो नाम
चतुर्विंशोऽध्यायः २४
समाप्तो योजनाचतुष्कः ६

पञ्चविंशोऽध्यायः
अथातो यज्जःपुरुषियमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
पुरा प्रत्यक्षधर्माणं भगवन्तं पुनर्वसुम्
समेतानां महर्षीणां प्रादुरासीदियं कथा ३
आत्मेन्द्रियमनोर्थानां योऽयं पुरुषसंज्ञकः
राशिरस्यामयानां च प्रागुत्पत्तिविनिश्चये ४
तदन्तरं काशिपतिर्वामको वाक्यमर्थवित्
ब्याजहारर्षिसमितिमुपसृत्याभिवाद्य च ५
किन्नुभोः पुरुषो यज्जस्तज्जास्तस्यामयाः स्मृताः
न वेत्युक्ते नरेन्द्रेण प्रोवाचर्षीन् पुनर्वसुः ६
सर्व एवामितज्ञानविज्ञानच्छिन्नसंशयाः
भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम् ७
पारीक्षिस्तत्परीक्ष्याग्रे मौद्गल्यो वाक्यमब्रवीत्
आत्मजः पुरुषो रोगाश्चात्मजाः कारणं हि सः ८
स चिनोथ्युपभुङ्क्ते च कर्म कर्मफलानि च
नह्यृते चेतनाधातोः प्रवृत्तिः सुखधुखयोः ९
शरलोमा तु नेत्याह न ह्यात्माऽऽत्मानमात्मना
योजयेद्व्याधिभिर्दुःखैर्दुःखद्वेषी कदाचन १०
रजस्तमोभ्यां तु मनः परीतं सत्त्वसंज्ञकम्
शरीरस्य समुत्पत्तौ विकाराणां च कारणम् ११
वार्योदिवस्तु नेत्याह न ह्येकं कारणं मनः
नर्ते शरीराच्छारीररोगा न मनसः स्थितिः १२
रसजानि तु भूतानि व्याधयश्च पृथग्विधाः
आपो हि रसवत्यस्ताः स्मृता निर्वृत्तिहेतवः १३
हिरण्याक्षस्तु नेत्याह न ह्यात्मा रसजः स्मृतः
नातीन्द्रियं मनः सन्ति रोगाः शब्दादिजास्तथा १४
षट्धातुजस्तु पुरुषो रोगाः षट्धातुजास्तथा
राशिः षड्धातुजो ह्येष सांख्यैराद्यैः प्रकीर्तितः १५
तथा ब्रुवाणं कुशिकमाह तन्नेति कौशिकः
कस्मान्मातापितृभ्यां हि विना षड्धातुजो भवेत् १६
पुरुषः पुरुषाद्गौर्गोरश्वादश्वः प्रजायते
पित्र्या मेहादयश्चोक्ता रोगास्तावत्र कारणम् १७
भद्रकाप्यस्तु नेत्याय नह्यन्धोऽन्धात् प्रजायते
मातापित्रोरपि च ते प्रागुत्पत्तिर्न युज्यते १८
कर्मजस्तु मतो जन्तुः कर्मजास्तस्य चामयाः
नह्यृते कर्मणो जन्म रोगाणां पुरुषस्य वा १९
भरद्वाजस्तु नेत्याह कर्ता पूर्वं हि कर्मणः
दृष्टं न चाकृतं कर्म यस्य स्यात् पुरुषः फलम् २०
भावहेतुः स्वभावस्तु व्याधीनां पुरुषस्य च
खरद्रवचलोष्णत्वं तेजोन्तानां यथैव हि २१
काङ्कायनस्तु नेत्याह न ह्यारम्भफलं भवेत्
भवेत् स्वभावाद्भावानामसिद्धिः सिद्धिरेव वा २२
स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापतिः
चेतनाचेतनस्यास्य जगतः सुखदुःखयोः २३
तन्नेति भिक्षुरात्रेयो न ह्यपत्यं प्रजापतिः
प्रजाहितैषी सततं दुःखैर्युञ्ज्यादसाधुवत् २४
कालजस्त्वेव पुरुषः कालजास्तस्य चामयाः
जगत् कालवशं सर्वं कालः सर्वत्र कारणम् २५
तथर्षीणां विवदतामुवाचेदं पुनर्वसुः
मैवं वोचत तत्त्वं हि दुष्प्रापं पक्षसंश्रयात् २६
वादान् सप्रतिवादान् हि वदन्तो निश्चितानिव
पक्षान्तं नैव गच्छन्ति तिलपीडकवद्गतौ २७
मुक्त्वैवं वादसङ्घट्टमध्यात्ममनुचिन्त्यताम्
नाविधूते तमःस्कन्धे ज्ञेये ज्ञानं प्रवर्तते २८
येषामेव हि भावानां संपत् संजनयेन्नरम्
तेषामेव विपद्व्याधीन्विविधान्समुदीरयेत् २९
अथात्रेयस्य भगवतो वचनमनुनिशस्य पुनरेव वामकः काशिपतिरुवाचभगवन्तमात्रेयं--भगवन् संपन्निमित्तजस्य पुरुषस्य विपिन्नमित्तजानां चरोगाणां किमभिवृद्धिकारणमिति ३०
तमुवाच भगवानात्रेयः--हिताहारोपयोग एकएव पुरुषवृद्धिकरो भवति अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति ३१
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच कथमयि भगवन् हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे हितसमाख्यातानामाहारजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषु विपरीतकारित्वमुपलभामह इति ३२
तमुवाच भगवानात्रेयः--यदाहारजातमग्निवेश समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि विपरीतं त्वहितमिति इत्येतद्धिताहितलक्षणमनपवादं भवति ३३
एवंवादिनं च भगवन्तमात्रेयमग्निवेश उवाच भगवन् न त्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति ३४
तमुवाच भगवानात्रेयः--येषां हि विदितमाहारतत्वमग्निवेश गुणतो द्रव्यतःकर्मतः सर्वावयवशश्च मात्रादयो भावाः त एतदेवमुपदिष्टं विज्ञातुमुत्सहन्ते यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति तथैतदुपदेक्ष्यामो मात्रादीन् भावानुदाहरन्तः तेषां हि बहुविधविकल्पा भवन्ति आहारविधिविशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्यास्यामः ३५
तद्यथा--आहारत्वमाहारस्यैकविधमर्थाभेदात् स पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात् द्विविध प्रभावः हिताहितोदर्कविशेषात् चतुर्विधोपयोगः पानाशनभक्ष्यलेह्योपयोगात् षडास्वादः रसभेदतः षड्विधत्वात् विंशतिगुणः गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशद-पि्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात् अपरिसंख्येयविकल्पः द्रव्यसंयोगकरणबाहुल्यात् ३६
तस्य खलु ये ये विकारावयवा भूयिष्ठमुपयुज्यन्ते भूयिष्ठकल्पानां च मनुष्याणां प्रकृत्यैव हिततमाश्चाहिततमाश्च तांस्तान् यथावदुपदेक्ष्यामः ३७
तद्यथा--लोहितशालय शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमा भवन्ति मुद्गाः शमीधान्यानाम् आन्तरिक्षमुदकानां सैन्धवं लवणानां जीवन्तीशाकं शाकानाम् ऐणेयं मृगमांसानां लावः पक्षिणां गोधा विलेशयानां रोहितो मत्स्यानां गव्यं सर्पिः सर्पिषां गोक्षीरं क्षीराणां तिलतैलं स्थावरजातानां स्नेहानां वराहवसा आनूपमृगवसानां चुलुकीवसा मत्स्यवसानां पाकहंसवसा जलचरविहङ्गवसानां कुक्कुटवसा विष्किरशकुनिवसानां अजमेदः शाखादमेदसां शृङ्गवेरं कन्दानां मृद्वीका फलानां शर्करेक्षुविकाराणाम् इति प्रकृत्यैव हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति ३८
अहिततमानप्युपदेक्ष्यामः--यवकाः शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा भवन्ति माषाः शमीधान्यानां वर्षानादेयमुदकानाम् ऊषरं लवणानां सर्षपशाकं शाकानां गोमांसं मृगमांसानां काणकपोतः पक्षिणां भेको बिलेशयानां चिलिचिमो मत्स्यानाम् अविकं सर्पिः सर्पिषाम् अविक्षीरं क्षीराणां कुसुम्भस्नेहः स्थावरस्नेहानां महिषवसा आनूपमृगवसानां कुम्भीरवसा मत्स्यवसानां काकमङ्गुवसा जलचरविहङ्गवसानां चटकवसा विष्किरशकुविसानां हस्तिमेदः शाखादमेदसां निकुचं फलानामालुकं कन्दानां फाणितमिक्षुविकाराणाम् इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति इति हिताहितावयवो व्याख्यात आहारविकाराणाम् ३९
अतो भूयः कर्मौषधानां च प्राधान्यतः सानुबन्धानि द्रव्याण्यनुव्याख्यास्यामः तद्यथा--अन्नं वृत्तिकराणां श्रेष्ठम् उदकमाश्वासकराणां सुरा श्रमहराणां क्षीरं जीवनीयानां मांसं बृंहणीयानां रसस्तर्पणीयानां लवणमन्नद्रव्यरुचिकराणाम् अम्लं हृद्यानां कुक्कुटो बल्यानां नक्ररेतो वृष्याणां मधु श्लेष्मपित्तप्रशमनानां सर्पिर्वातपित्तप्रशमनानां तैलं वातश्लेष्मप्रशमनानां वमनं श्लेष्महरानां विरेचनं पित्तहराणां वस्तिर्वातहराणां स्वेदो मार्दवकराणां व्यायामः स्थैर्यकराणां क्षारः पुंस्त्वोपघातिनां तिन्दुकमनन्नद्रव्यरुचिकराणाम् आमं कपित्थमकण्ठ्यनाम् आविकं सर्पिरहृद्यानाम् अजाक्षीरं शोषघ्नस्तन्यसात्म्यरक्तसांग्रहिकरक्तपित्तप्रशमनानाम् अविक्षीरं श्लेष्मपित्तजनानां महिषीक्षीरं स्वप्नजननानां मन्दकं दध्यभिष्यन्दकराणां गवेधुकान्नं कर्शनीयानाम् उद्दालकान्नं विरूक्षणीयानाम् इक्षुर्मूत्रजननानां यवाः पुरीषजननानां जाम्बवं वातजननानां शष्कुल्यः श्लेष्मपित्तजननानां कुलत्था अम्लपित्तजननानां माषाः श्लेष्मपित्तजननानां मदनफलं वमनास्थापनानुवासनोपयोगिनां त्रिवृत् सुखविरेचनानां चतुरङ्गुलो मृदुविरेचनानां स्नुक्पयस्तीक्ष्णविरेचननां प्रत्यक्पुष्पाशिरोविरेचनानां विडङ्गं क्रिमिघ्नानां शिरीषो विषघ्नानां खदिरः कुष्ठघ्नानां रास्ना वातहराणाम् आमलकं वयः स्थापनानां हरीतकी पथ्यानामेरण्डमूलं वृष्यवातहराणां पिप्पलीमूलं दीपनीयपाचनीयानाहप्रशमनानां चित्रकमूलं दीपनीय पाचनीयगुदशोथार्शःशूलहराणां पुष्करमूलं हिक्काश्वासकासपार्श्वशूलहराणां मुस्तं सांग्राहिकदीपनीयपाचनीयानाम् उदीच्यं निर्वापणदीपनीयपाचनीयच्छर्द्यतीसारहराणां कट्वङ्गं सांग्राहिकपाचनीयदीपनीयानाम् अनन्ता सांग्राहिकरक्तपित्तप्रशमनानाममृता सांग्राहिकवातहरदीपनीयश्लेष्मशोणितविबन्धप्रशमनानां बिल्वं सांग्राहिकदीपनीयवातकफप्रशमनानाम् अतिविषा दीपनीयपाचनीयसांग्राहिकसर्वदोषहराणाम् उत्पलकुमुदपद्मकिञ्जल्कः सांग्राहिकरक्तपित्तप्रशमनानां दुरालभा पित्तश्लेष्मप्रशमनानां गन्धप्रियङ्गुः शोणितपित्तश्लेष्मप्रशमनानां कुटजत्वक् श्लेष्मपित्तरक्तसांग्राहिकोपशोषणानां काश्मर्यफलं रक्तसांग्राहिकरक्तपित्तप्रशमनानां पृश्निपर्णी सांग्राहिकवातहरदीपनीय वृष्याणां विदारिगन्धा वृष्यसर्वदोषहराणां बला सांग्राहिकबल्यवातहराणां गोक्षुरको मूत्रकृच्छ्रानिलहराणां हिङ्गुनिर्यासश्छेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम् अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातश्लेष्महराणां यावशूकः स्रंसनीयपाचनीयार्शोघ्नानां तक्राभ्यासो ग्रहणीदोषशोफार्शोघृतव्यापत्प्रशमनानां क्रव्यान्मांसरसाभ्यासो ग्रहणीदोषशोषार्शोघ्नानां क्षीरघृताभ्यासो रसायनानां समघृतसक्तुप्राशाभ्यासो बृष्योदावर्तहराणां तैलगण्डूषाभ्यासो दन्तबलरुचिकराणां चन्दनं दुर्गन्धहरदाहनिर्वापणलेपनानां रास्नागुरुणी शीतापनयनप्रलेपनानां लामज्जकोशीरं दाहत्वग्दोषस्वेदापनयनप्रलेपनानां कुष्टं वातहराभ्यङ्गोपनाहोपयोगिनां मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवर्ण्यविरजनीयरोपणीयानां वायुः प्राणसंज्ञाप्रदानहेतूनाम् अग्निरामस्तम्भशीतशूलोद्वेपनप्रशमनानां जलं स्तम्भनीयानां मृद्भृष्टलोष्ट्रनिर्वापितमुदकं तृष्णाच्छर्द्यतियोगप्रशमनानाम् अतिमात्राशनमामप्रदोषहेतूनां यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां कालभोजनमारोग्यकराणां तृप्तिराहारगुणानां वेगसन्धारणमनारोग्यकराणां मद्यं सौमनस्यजननानां मद्याक्षेपोधीधृतिस्मृतिहराणां गुरुभोजनं दुर्विपाककराणाम् एकाशनभोजनं सुखपरिणामकराणां स्त्रीष्वतिप्रसङ्गः शोष कराणां शुक्रवेगनिग्रहः षाण्ड्यकराणां पराघातनमन्नाश्रद्धाजननानाम् अनशनमायुषोह्रासकराणां प्रमिताशनं कर्शनीयानाम् अजीर्णाध्यशनं ग्रहणीदूषणानां विषमाशनमग्निवैषम्यकराणां विरुद्धवीर्याशनं निन्दितव्याधिकराणां प्रशमः पथ्यानां आयासः सर्वापथ्यानां मिथ्यायोगो व्याधिकराणां रजस्वलाभिगमनमलक्ष्मीमुखानां ब्रह्मचर्यमायुष्याणां परदाराभिगमनमनायुष्याणां सङ्कल्पो बृष्याणां दौर्मनस्यमवृष्याणां अयथाबलमारम्भः प्राणोपरोधिनां विषादो रोगवर्धनानां स्नानं श्रमहराणां हर्षः प्रीणनानां शोकः शोषणानां निवृत्तिः पुष्टिकराणां पुष्टिः स्वप्नकराणाम् अतिस्वप्नस्तन्द्राकराणां सर्वरसाभ्यासो बलकराणाम् एकरसाभ्यासो दौर्बल्यकराणां गर्भशल्यमाहार्याणाम् अजीर्णर्मुद्घार्याणां बालो मृदुभेषजीयानां वृद्धोयाप्यानां गर्भिणी तीक्ष्णौषधव्यवायव्यायामवर्जनीयानां सौमनस्यं गर्भधारणानां सन्निपातो दुश्चिकित्स्यानाम् आमविषमचिकित्स्यानां ज्वरो रोगाणां कुष्ठं दीर्घरोगानां राजयक्ष्मा रोगसमूहानां प्रमेहोऽनुषङ्गिणां जलौकसोऽनुशस्त्राणां बस्तिस्तन्त्राणां हिमवानौषधिभूमीनां सोम ओषधीनां मरुभूमिरारोग्यदेशानाम् अनूपोऽहितदेशानाम् निर्देशकारित्वमातुरगुणानां भिषक् चिकित्साङ्गानां नास्तिको वर्ज्यानां लौल्यं क्लेशकराणाम् अनिर्देशकारित्वमरिष्टानां अनिर्वेदो वार्तलक्षणानां वैद्यसमूहो निःसंशयकराणां योगो वैद्यगुणानां विज्ञानमौषधीनां शास्त्रसहितस्तर्कः साधनानां संप्रतिपत्तिः कालज्ञानप्रयोजनानाम् अव्यवसायः कालातिपत्तिहेतूनां दृष्टकर्मता निःसंशयकराणाम् असमर्थता भयकराणां तद्विद्यसंभाषा बुद्धिवर्धनानाम् आचार्यः शास्त्राधिगमहेतूनाम् आयुर्वेदोऽमृतानां सद्वचनमनुष्टेयानाम् असद्ग्रहणं सर्वाहितानां सर्वसन्न्यासः सुखानामिति ४०
भवन्ति चात्र--
अग्र्याणां शतमुद्दिष्टं यद्द्विपञ्चाशदुत्तरम्
अलमेतद्विकाराणां विघातायोपदिश्यते ४१
समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम्
ज्यायस्त्वं कार्यकर्तृत्वे वरत्वं चाप्युदाहृतम् ४२
वातपित्तकफानां च यद्यत् प्रशमने हितम्
प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम् ४३
एतन्निशम्य निपुणं चिकित्सां संप्रयोजयेत्
एवं कुर्वन् सदा वैद्यो धर्मकामौ समश्नुते ४४
पथ्यं पथोऽनपेतं यद्यच्चोक्तं मनसः प्रियम्
यच्चाप्रियमपथ्यं च नियतं तन्न लक्षयेत् ४५
मात्राकालक्रियाभूमिदेहदोषगुणान्तरम्
प्राप्य तत्तद्धि दृश्यन्ते ते ते भावास्तथा तथा ४६
तस्मात् स्वभावो निर्दिष्टस्तथा मात्रादिराश्रयः
तदपेक्ष्योभयं कर्म प्रयोज्यं सिद्धिमिच्छता ४७
तदात्रेयस्य भगवतो वचनमनुनिशम्य पुनरपि भगवन्तमात्रेयमग्निवेश उवाच--यथोद्देशमभिनिर्दिष्टः केवलोऽयमर्थो भगवता श्रुतश्चास्माभिः आसवद्रव्याणामिदानीमनपवादं लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति ४८
तमुवाच भगवानात्रेयः -- धान्यफलमूलसारपुष्पकाण्डपत्रत्वचो भवन्त्यासवयोनयोऽग्निवेश संग्रहेणाष्टौ शर्करानवमीकाः तास्वेव द्रव्यसंयोगकरणतोऽपरिसंख्येयासु यथापथ्यतमानामासवानां चतुरशीतिं निबोध तद्यथासुरासौवीरतुषोदकमैरेयमेदकधान्याम्लाः षड् धान्यासवा भवन्ति मृद्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूषकाभयाम-लकमृगलिण्डिकाजाम्बवकपित्थकुवलबदरकर्कन्घुपीलुप्रियालपनसन्यग्रोधा-श्वत्थप्लक्षकपीतनोदुम्बराजमोदशृङ्गाटकशङ्खिनीफलासवाः षड्विंशतिर्भवन्ति विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरीश्यामात्रिवृद्दन्तीद्र-वन्तीबिल्वोरुबूकचित्रकमूलैरेकादश मूलासवा भवन्ति शालप्रियकाश्वकर्णचन्दनस्यन्दनखदिकरदरसप्तपर्णार्जुनासनारिमेदतिन्दु-ककिणिहीशमीशुक्तिशिंशपाशिरीषवञ्जलधन्वनमधूकैः सारासवा विंशतिर्भवन्ति पद्मोत्पलनलिकुमुदसौगन्धिकपुण्डरीकशतपत्रमधूकप्रियङ्गुधातकीपुष्पैर्दश पुष्पासवा भवन्ति इक्षुकाण्डेक्ष्विक्षुवालिकापुण्ड्रकचतुर्थाः काण्डासवा भवन्ति पटोलताडकपत्रासवौ द्वौ भवतः तिल्वकलोध्रैलवालुकक्रमुकचतुर्थास्त्वगासवा भवन्ति शर्करासव एक एवेति एवमेषामासवानां चतुरशीतिः परस्परेणासंसृष्टानामासवद्रव्याणामुपनिर्दिष्टा भवति एषामासवानामासुतत्वादासवसंज्ञा द्रव्यसंयोगविभागविस्तारस्त्वेषां बहुविधकल्पः संस्कारश्च यथास्वं संयोगसंस्कारसंस्कृता ह्यासवाः स्वं कर्म कुर्वन्ति संयोगसंस्कारदेशकालमात्रादयश्च भावास्तेषां तेषामासवानां ते ते समुपदिश्यन्ते तत्तत्कार्यमभिसमीक्ष्येति ४९
भवति चात्र--
मनःशरीराग्निबलप्रदानामस्वप्नशोकारुचिनाशनानाम्
संहर्षणानां प्रवरासवाना मशीतिरुक्ता चतुरुत्तरैषा ५०
तत्र श्लोकः--
शरीररोगप्रकृतौ मतानि तत्त्वेन चाहारविनिश्चयं च
उवाच यज्जःह् पुरुषादिकेऽस्मिन् मुनिस्तथाग्र्याणि वरासवांश्च ५१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने यज्जःपुरुषीयो नाम
पञ्चविंशोऽध्यायः २५

षड्विंशोऽध्यायः
अथात आत्रेयभद्रकाप्यीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
आत्रेयो भद्रकाप्यश्च शाकुन्तेयस्तथैव च
पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः ३
यः कुमारशिरा नाम भरद्वाजः स चानघः
श्रीमान् वार्योविदश्चैव राजा मतिमतां वरः ४
निमिश्च राजा वैदेहो वडिशश्च महामतिः
काङ्कायनश्च बाह्लीको बाह्लीकभिषजां वरः ५
एते श्रुतवयोवृद्धा जितात्मानो महर्षयः
वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः ६
तेषां तत्रोपविष्टानामियमर्थवती कथा
बभूवार्थविदां सम्यग्रसाहारविनिश्चये ७
एक एव रस इत्युवाच भद्रकाप्यः यं पञ्चानामिन्द्रियार्थानामन्यतमंजिह्वावैषयिकं भावमाचक्षते कुशलाः स पुनरुदकादनन्य इति द्वौ रसाविति शाकुन्तेयो ब्राह्मणः छेदनीय उपशमनीयश्चेति त्रयो रसा इति पूर्णाक्षो मौद्गल्यः छेदनीयोपशमनीयसाधारणा इति चत्वारो रसा इति हिरण्याक्षः कौशिकः स्वादुर्हितश्च स्वादुरहितश्चास्वादुर्हितश्चास्वादुरहितश्चेति पञ्च रसा इति कुमारशिरा भरद्वाजः भौमौदकाग्नेयवायव्यान्तरिक्षाः षड्रसा इति वार्योविदो राजर्षिः गुरुलघुशीतोष्णस्निग्धरूक्षाः सप्त रसा इति निमिर्वैदेहः मधुराम्ललवणकटुतिक्तकषायक्षाराः अष्टौ रसा इति बडिशो धामार्गवः मधुराम्ललवणकटुतिक्तकषायक्षाराव्यक्ताः अपरिसंख्येया रसा इति काङ्कायनो बाह्लीकभिषक् आश्रयगुणकर्मसंस्वादविशेषाणामपरिसंख्येयत्वात् ८
षडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुः मधुराम्ललवणकटुतिक्तकषायाः तेषां षण्णां रसानां योनिरुदकं छेदनोपशमने द्वे कर्मणी तयोर्मिश्रीभावात् साधारणत्वं स्वाद्वस्वादुता भक्तिः हिताहितौ प्रभावौ पञ्चमहाभूतविकारास्त्वाश्रयाः प्रकृतिविकृतिविचारदेशकालवशाः तेष्वाश्रयेषु द्रव्यसंज्ञकेषु गुणा गुरुलघुशोतोष्णस्निग्धरूक्षाद्याः क्षरणात् क्षारः नासौ रसः द्रव्यं तदनेकरससमुत्पन्नमनेकरसं कटुकलवणभूयिष्ठमनेकेन्द्रियार्थसमन्वितं करणाभ्निर्वृत्तम् अव्यक्तीभावस्तु खलु रसानां प्रकृतौ भवत्यनुरसेऽनुरससमन्विते वा द्रव्ये अपरिसंख्येयत्वं पुनस्तेषामाश्रयादीनां भावानां विशेषापरिसंख्येयत्वान्न युक्तम् एकैकोऽपि ह्येषामाश्रयादीनां भावानां विशेषानाश्रयते विशेषापरिसंख्येयत्वात् न च तस्मादन्यत्वमुपपद्यते परस्परसंसृष्टभूयिष्ठत्वान्न चैषामभिनिर्वृत्तेर्गुणप्रकृतीनामपरिसंख्येयत्वं भवति तस्मान्न संसृष्टानां रसानां कर्मोपदिशन्ति बुद्धिमन्तः तच्चैव कारणमपेक्षमाणाः षण्णां रसानां परस्परेणासंसृष्टानां लक्षणपृथक्त्मुपदेक्ष्यामः ९
अग्रे तु तावद्द्रव्यभेदमभिप्रेत्य किंचिदभिधास्यामः सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे तच्चेतनावदचेनं च तस्य गुणाः शब्दादयो गुर्वादयश्च द्रवान्ताः कर्म पञ्चविधमुक्तं वमनादि १०
तत्र द्रव्याणि गुरुखकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि तान्युपचयसङ्घातगौरवस्थैर्यकराणि द्रवस्निग्धशीतमन्दमृदुपिच्छिलरसगुणबहुलान्याप्यानि तान्युपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि उष्णतीक्ष्णसूक्ष्मलघुरूक्षविशदरूपगुणबहुलान्याग्नेयानि तानि दाहपाकप्रभाप्रकाशवर्णकराणि लघुशीतरूक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि तानि रौक्ष्यग्लानि विचारवैशद्यलाघवकराणि मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणबहुलान्याकाशात्मकानि तानि मार्दवसौषिर्यलाघवकराणि ११
अनेनोपदेशेन नानौषधिभूतं जगति किंचिद्द्रव्यमुपलभ्यते तां तां युक्तिमर्थं च तं तमभिप्रेत्य १२
न तु केवलं गुणप्रभावादेव द्रव्याणि कार्मुकाणि भवन्ति द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाद्द्रव्यगुणप्रभावाच्च तस्मिंस्तस्मिन् काले तत्तदधिकरणमासाद्य तां तां च युक्तिमर्थं च तं तमभिप्रेत्य यत् कुर्वन्ति तत् कर्म येन कुर्वन्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरणं यदा कुर्वन्ति स कालः यथा कुर्वन्ति स उपायः यत् साधयन्ति तत् फलम् १३
भेदश्चैषां त्रिषष्टिविधविकल्पो द्रव्यदेशकालप्रभावाद्भवति तमुपदेक्ष्यामः १४
स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक्
यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि तु १५
पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत्
मधुरस्य तथाऽम्लस्य लवणस्य कटोस्तथा १६
त्रिरसानि यथासंख्यं द्रव्याण्युक्तानि विंशतिः
वक्ष्यन्ते तु चतुष्केण द्रव्याणि दश पञ्च च १७
स्वाद्वम्लौ सहितौ योगं लवणाद्यैः पृथग्गतौ
योगं शेषैः पृथग्यातश्चतुष्करससंख्यया १८
सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक्
युक्तौ शेषैः पृथग्योगं यातः स्वादूषणौ तथा १९
कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक्
यातः शेषैः पृथग्योगं शेषैरम्लकटू तथा २०
युज्यते तु कषायेण सतिक्तौ लवणोषणौ
षट् तु पञ्चरसान्याहुरेकैकस्यापवर्जनात् २१
षट् चैवैकरसानि स्युरेकं षड्रसमेव तु
इति त्रिषष्टिर्द्रव्याणां निर्दिष्टा रससंख्यया २२
रिषष्टिः स्यात्त्वसंख्येया रसानुरसकल्पनात्
रसास्तरतमाभ्यां तां संख्यामतिपतन्ति हि २३
संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा
रसानां तत्र योग्यत्वात् कल्पिता रसचिन्तकैः २४
क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित्
दोषौषधादीन् संचिन्त्य भिषजा सिद्धिमिच्छता २५
द्रव्याणि द्विरसादीनि सम्युक्तांश्च रसान् बुधाः
रसानेकैकशो वाऽपि कल्पयन्ति गदान् प्रति २६
यः स्याद्रसविकल्पज्ञः स्याच्च दोषविकल्पवित्
न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिषु २७
व्यक्तः शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते
विपर्ययेणानुरसो रसो नास्ति हि सप्तमः २८
परापरत्वे युक्तिश्च संख्या संयोग एव च
विभागश्च पृथक्त्वं च परिमाणमथापि च २९
संस्कारोऽभ्यास इत्येते गुणाज्ञेयाः परादयः
सिद्ध्युपायाश्चिकित्साया लक्षणैस्तान् प्रचक्ष्महे ३०
देशकालवयोमानपाकवीर्यरसादिषु
परापरत्वे युक्तिश्च योजना या तु युज्यते ३१
संख्या स्याद्गणितं योगः सह संयोग उच्यते
द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च ३२
विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः
पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता ३३
परिमाणं पुनर्मानं संस्कारः करणं मतम्
भावाभ्यसनमभ्यासः शीलनं सततक्रिया ३४
इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः
चिकित्सा यैरविदितैर्न यथावत् प्रवर्तते ३५
गुणा गुणाश्रया नोक्तास्तस्माद्रसगुणान् भिषक्
विद्याद्द्रव्यगुणान् कर्तुरभिप्रायाः पृथग्विधाः ३६
अतश्च बुद्ध्वा देशकालान्तराणि च
तन्त्रकर्तुरभिप्रायानुपायांश्चार्थमादिशेत् ३७
षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम्
षट् पञ्चभूतप्रभवाः संख्याताश्च यथा रसाः ३८
सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृतिशीता लघ्व्यश्चाव्यक्तरसाश्च तास्त्वन्तरिक्षाद्भ्राश्यमाना भ्रष्टाश्च पञ्चमहाभूतगुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति तासु मूर्तिषु षडभिमूर्च्छन्ति रसाः ३९
तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः पृथिव्यग्निभूयिष्ठत्वादम्लः सलिलाग्निभूयिष्ठत्वाल्लवणः वाय्वग्निभूयिष्ठत्वात् कटुकः वाय्वाकाशातिरिक्तत्वात्तिक्तः पवनपृथिव्यतिरेकात् कषाय इति एवमेषां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः षडृतु कत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेषः ४०
तत्राग्निमारुतात्मका रसाः प्रायेणोर्ध्वभाजः लाघवादुत्प्लवनत्वाच्च वायोरूर्ध्वज्वलनत्वाच्च वह्नेः सलिलपृथिव्यात्मकास्तु प्रायेणाधोभाजः पृथिव्या गुरुत्वान्निम्नगत्वाच्चोदकस्य व्यामिश्रात्मकाः पुनरुभयोभाजः ४१
तत्र मधुरोरसः शरीरसात्म्याद्रसरुधिरमांसमेदोस्थिमज्जौजःशुक्राभिवर्धन आयुष्यः षडिन्द्रियप्रसादनो बलवर्णकरः पितविषमारुतघ्नस्तृष्णादाहप्रशमनस्त्वच्यः केश्यः कण्ठ्यो बल्यः प्रीणनो जीवनस्तर्पणो बृंहणः स्थैर्यकरः क्षीणक्षतसन्धानकरो घ्राणमुखकण्ठौष्ठजिह्वाप्रह्लादनो मूर्च्छाप्रशमनः षट्पदपिपीलिकानामिष्टतमः स्निग्धः शीतो गुरुश्च स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाषमग्नेर्दौर्बल्यमास्यकण्ठयोर्मांसाभिवृद्धिं श्वासकासप्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्यवमथुसंज्ञास्वरप्रणाशगलगण्ड-गण्डमालाश्लीपदगलशोफबस्बिधमनीगलोपलेपाक्ष्यामयाभिष्यन्दानित्येवंप्रभृतीन् कफजान् विकारानुपजनयति १
अम्लो रसो भक्तं रोचयति अग्निं दीपयति देहं बृंहयति ऊर्जयति मनो ब्रोधयति इन्द्रियाणि दृढीकरोति बलं वर्धयति वातमनुलोमयति हृदयं तर्पयति आस्यमास्रावयति भुक्तमपकर्षयति क्लेदयति जरयति प्रीणयति लगुरुष्णः स्निधश्च स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति तर्षयति संमीलयत्यक्षिणी संवेजयति लोमानि कफं विलापयति पित्तमभिवर्धयति रक्तं दूषयति मांसं विदहति कायं शिथिलीकरोति क्षीणक्षतकृशदुर्बलानां श्वयथुमापादयति अपि च क्षताभिहतदष्टदग्धभग्नशूनप्रछुतावमूत्रितपरि-सर्पितमर्दितच्छिन्नभिन्नविश्लिष्टोद्विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयं च २
लवणो रसः पाचनः क्लेदनो दीपनश्च्यावनश्छेदनो भेदनस्तीक्ष्णः सरो विकास्यधःस्रंस्यवकाशकरो वातहरः स्तम्भबन्धसङ्घातविधमनः सर्वरसप्रत्यनीकभूतः आस्यमास्रावयति कफं विष्यन्दयति मार्गान् विशोधयति शर्वशरीरावयवान् मृदूकरोति रोचयत्याहारम् आहारयोगी नात्यर्थं गुरुः स्निग्ध उष्णश्च स एवंगुणोऽप्येक एवात्यर्थपयुज्यमानः पित्तं कोपयति रक्तं वर्धयति तर्षयति मूर्च्छयति तापयति दारयति कुष्णाति मांसानि प्रगालयति कुष्ठानि विषं वर्धयति शोफान् स्फोटयति दन्तांश्च्यावयति पुंस्त्वमुपहन्ति इन्द्रियाण्युपरुणाद्धि वलिपलितखालित्यमापादयति अपि च लोहितपित्ताम्लपित्तवीसर्पवातरक्तविचर्चिकेन्द्रलुप्तप्रभृतीन्विकारानुपजनयति ३
कटुको रसो वक्त्रं शोधयति अग्निं दीपयति भुक्तं शोषयति घ्राणमास्रावयति चक्षुर्विरेचयति स्फुटीकरोतीन्द्रियाणि अलसकश्वयथूपचयोदर्दाभिष्यन्दस्नेहस्वेदक्लेदमलानुपहन्ति रोचयत्यशनं कण्डूर्विनाशयति व्रणानवसादयति क्रिमीन् हिनस्ति मांसं विलिखति शोणितसङ्घातं भिनत्ति बन्धांश्छिनत्ति मार्गान् विवृणोति श्लेष्माणं शमयति लघुरुष्णो रूक्षश्च स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पुंस्त्वमुपहन्ति रसवीर्यप्रभावान्मोहयन्ति ग्लापयति सादयति कर्शयति मूर्च्छयति नमयति तमयति भ्रमयति कण्ठं परिदहति शरीरतापमुपजनयति बलं क्षिणोति तृष्णां जनयति अपि च वाय्वग्निगुणबाहुल्याद्भ्रमदवथुकम्पतोदभेदैश्चरणभुजपार्श्वपृष्ठप्रभृतिषु मारुतजान् विकारानुपजनयति ४
तिक्तो रसः स्वयमरोचिष्णुरप्यरोचकघ्नो विषघ्नः क्रिमिघ्नो मूर्च्छादाहकण्डूकुष्ठतृष्णाप्रशमनस्त्वङ्मांसयोः स्थिरीकरणो ज्वरघ्नो दीपनः पाचनः स्तन्यशोधनो लेखनः क्लेदमेदोवसामज्जलसीकापूयस्वेदमूत्रपुरीषपित्तश्लेष्मोपशोषणो रूक्षः शीतो लघुश्च स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात्खरविषदस्वभावाच्च रसरुधिरमांसमेदोस्थिमज्जशुक्राण्युच्छोषयति स्रोतसां खरत्वमुपपादयति बलमादत्ते कर्शयति ग्लपयति मोहयति भ्रमयति वदनमुपशोषयति अपरांश्च वातविकारानुपजनयति ५
कषायो रसः संशमनः संग्राही सन्धानकरः पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोऽलघुश्च स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमान आस्यं शोषयति हृदयं पीडयति उदरमाध्मापयति वाचं निगृह्णाति स्रोतांस्यववध्नाति श्यावत्वमापादयति पुंस्त्वमुपहन्ति विष्टभ्य जरां गच्छति वातमूत्रपुरीषरेतांस्यवगृह्णाति कर्शयति ग्लपयति तर्षयति स्तम्भयति खरविशदरूक्षत्वात् पक्षवधग्रहापतानकार्दितप्रभृतींश्च वात विकारानुपजनयति ४३
इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः सम्यगुपयुज्यमाना उपकाराय भवन्त्यध्यात्मलोकस्य अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति ४४
भवन्ति चात्र--
शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः
तयोरम्लं यदुष्णं च यद्द्रव्यं कटुकं तयोः ४५
तेषां रसोपदेशेन निर्देश्यो गुणसंग्रहः
वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते ४६
यथा पयो यथा सर्पिर्यथा वा चव्यचित्रकौ
एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक् ४७
मधुरं किंचिदुष्णं स्यात् कषायं तिक्तमेव च
यथा महत्पञ्चमूलं यथाऽब्जानूपमामिषम् ४८
लवणं सैन्धवं नोष्णमम्लमामलकं तथा
अर्कागुरुगुडूचीनां तिक्तानामुष्णमुच्यते ४९
किंचिदम्लं हि संग्राहि किंचिदम्लं भिनत्ति च
यथा कपित्थं संग्राहि भेदि चामलकं तथा ५०
पिप्पली नाग्रं वृष्यं कटु चावृष्यमुच्यते
कषायः स्तम्भनः शीतः सोऽभयायामतोऽन्यथा ५१
तस्माद्रसोपदेशेन न सर्वं द्रव्यामादिशेत्
दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम् ५२
रौक्ष्यात् कषायो रूक्षाणामुत्तमो मध्यमः कटुः
तिक्तोऽवरस्तथोष्णानामुष्णत्वाल्लवणः परः ५३
मध्योऽम्लः कटुकश्चान्त्यः स्निग्धानां मधुरः परः
मध्योऽम्लो लवणश्चान्त्यो रसः स्नेहान्निरुच्यते ५४
मध्योत्कृष्टावराः शैत्यात् कषायस्वादुतिक्तकाः
स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः ५५
अम्लात् कटुस्ततस्तिक्तो लघुत्वादुत्तमोत्तमः
केचिल्लघूनामवरमिच्छन्ति लवणं रसम् ५६
गौरवे लाघवे चैव सोऽवरस्तूभयोरपि
परं चातो विपाकानां लक्षणं संप्रवक्ष्यते ५७
कटुतिक्तकषायाणां विपाकः प्रायशः कटुः
अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ५८
मधुरो लवणाम्लौ च स्निग्धभावात्त्रयो रसाः
वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः ५९
कटुतिक्तकषायास्तु रूक्षभावात्त्रयो रसा
दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम् ६०
शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः
मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः ६१
पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः
तेषां गुरुः स्यान्मधुरः कटुकाम्लावतोऽन्यथा ६२
विपाकलक्षणस्याल्पमध्यभूयिष्ठातां प्रति
द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत् ६३
मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम्
वीर्यमष्टविधं केचित् केचिद्द्विविधमास्थिताः ६४
शीतोष्णमिति वीर्यं तु क्रियते येन या क्रिया
नावीर्यं कुरुते किंचित् सर्वा वीर्यकृता क्रिया ६५
रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया
वीर्यं यावदधीवासान्निपाताच्चोपलभ्यते ६६
रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते
विशेषः कर्मणा चैव प्रभावस्तस्य स स्मृतः ६७
कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः
तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम् ६८
विषं विषघ्नमुक्तं यत् प्रभावस्तत्र कारणम्
ऊर्ध्वानुलोमिकं यच्च तत् प्रभावप्रभावितम् ६९
मणीनां धारणीयानां कर्म यद्विविधात्मकम्
तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ७०
सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः
किंचिद्रसेन कुरुते कर्म वीर्येण चापरम् ७१
द्रव्यं गुणेन पाकेन प्रभावेण च किंचन
रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति ७२
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्
षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम् ७३
स्नेहनप्रीणनाह्लादमार्दवैरुपलभ्यते
मुखस्थो मधुरश्चास्यं व्याप्नुवँल्लिम्पतीव च ७४
दन्तहर्षान्मुखास्रावात् स्वेदनान्मुखबोधनात्
विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत् ७५
प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे
यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च ७६
संवेजयेद्यो रसनां निपाते तुदतीव च
विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः ७७
प्रतिहन्ति निपाते यो रसनं स्वदते न च
स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः ७८
वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः
बध्नातीव च यः कण्ठं कषायः स विकास्यपि ७९
एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच--भगवन् श्रुतमेतदवितथमर्थसंपद्युक्तं भगवतो यथावद्द्रव्यगुणकर्माधिकारे वचः परं त्वाहारविकाराणां वैरोधिकानां लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति ८०
तमुवाच भगवानात्रेयः--देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते परस्परगुणविरुद्धानि कानिचित् कानिचित् संयोगात् संस्कारादपराणि देशकालमात्रादिभिश्चापराणि तथा स्वभावादपराणि ८१
तत्र यान्याहारमधिकृत्य भुयिष्ठमुपयुज्यन्ते तेषामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्यामःन मत्स्यान् पयसा सहाभ्यवहरेत् उभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च ८२
तन्निशम्यात्रेयवचवमनु भद्रकाप्योऽग्निवेशमुवाच--सर्वानेव मत्स्यान् पयसा सहाभ्यवहरेदन्यत्रैकस्माच्चिलिचिमात् स पुनः शकली लोहितनयनः सर्वतो लोहितराजी रोहिताकारः प्रायो भूमौ चरति तं चेत् पयसा सहाभ्यवहरेन्निःसंशयं शोणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणंप्राप्नुयादिति ८३
नेति भगवानात्रेयः--सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं स हि महाभिष्यन्दित्वात् स्थूललक्षणतरानेतान् व्याधीनुपजनयत्यामविषमुदीरयति च ग्राम्यानूपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैर्विरूढधान्यैर्वा नैकध्यमद्यात् तन्मूलं हि बाधिर्यान्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यमथवा मरणमाप्नोति न पौष्करं रोहिणीकं शाकं कपोतान् वा सर्षपतैलभ्रष्टान्मधुपयोभ्यां सहाभ्यवहरेत् तन्मूलं हि शोणिताभिष्यन्दधमनीप्रविचयापस्मारशङ्खकगलगण्डरोहिणीनामन्यतमं प्राप्नोत्यथवा मरणमिति न मूलकलशुनकृष्णगन्धार्जकसुरसादीनि भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात् न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम् एतद्धि मरणायाथवा बलवर्णतेजोवीर्योपपरोधायालघुव्याधये षाण्ढ्याय चेति तदेव निकुचं पक्वं न माषसूपगुडसर्पिर्भिः सहोपयोज्यं वैरोधिकत्वात् तथाऽऽम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठबदरकोशाम्रभव्यजाम्बवक-पित्थतिन्तिडीकपारावताक्षोडपनसनालिकेरदाडिमामलकान्येवंप्रकाराणि चान्यानि द्रव्याणि सर्वं चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम् तथा कङ्गुवनकमकुष्ठककुलत्थमाषनिष्पावाः पयसा सह विरुद्धाः पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोपयति हारिद्रकःसर्षपतैलभृष्टो विरुद्धः पित्तं चातिकोपयति पायसो मन्थानुपानो विरुद्धः श्लेष्माणं चातिकोपयति उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य बलाका वारुण्या सह कुल्माषैरपि विरुद्धा सैव शूकरवसापरिभृष्टा सद्यो व्यापादयति मयूरमांसमेरण्डसीसकावसक्तमेरण्डाग्निप्लुष्टमेरण्डतैलयुक्तं सद्यो व्यापादयति हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय मधु चोष्णमुष्णार्तस्य च मधु मरणाय मधुसर्पिषी समधृते मधु वारि चान्तरिक्षं समधृतं मधु पुष्करबीजं मधु पीत्वोष्णोदकं भल्लातकोष्णोदकं तक्रसिद्धः कम्पिल्लकः पर्युषिता काकमाची अङ्गारशूल्यो भासश्चेति विरुद्धानि इत्येतद्यथाप्रश्नमभिनिर्दिष्टं भवतीति ८४
भवन्ति चात्र श्लोकाः--
यत् किञ्चिद्दोषमास्राव्य न निर्हरति कायतः
आहारजातं तत् सर्वमहितायोपपद्यते ८५
यच्चापि देशकालाग्निमात्रासात्म्यानिलादिभिः
संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि ८६
परिहारोपचाराभ्यां पाकात् संयोगतोऽपि च
विरुद्धं तच्च न हितं हृत्संपद्विधिभिश्च यत् ८७
विरुद्धं देशतस्तावद्रूक्षतीक्ष्णादि धन्वनि
आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते ८८
कालतोऽपि विरुद्धं यच्छीतरुक्षादिसेवनम्
शीते काले तथोष्णे च कटुकोष्णादिसेवनम् ८९
विरुद्धमनले तद्वदन्नपानं चतुर्विधे
मधुसर्पिः समधृतं मारया तद्विरुध्यते ९०
कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम्
यत्तत् सात्म्यविरुद्धं तु विरुद्धं त्वनिलादिभिः ९१
या समानगुणाभ्यासविरुद्धान्नौषधक्रिया
संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत् ९२
एरण्डसीसकासक्तं शिखिमांसं यथैव हि
विरुद्धं वीर्यतो ज्ञेयं वीर्यतः शीतलात्मकम् ९३
तत् संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते
क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम् ९४
मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु
एतत् कोष्ठविरुद्धं तु विरुद्धं स्यादवस्थया ९५
श्रमव्यवायव्यायामसक्तस्यानिलकोपनम्
निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम् ९६
यच्चात्नुसृज्य विण्मूत्रं भुङ्क्ते यश्चाबुभुक्षितः
तच्च क्रमविरुद्धं स्याद्यच्चातिक्षुद्वशानुगः ९७
परिहारविरुद्धं तु वराहादीन्निषेव्य यत्
सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते ९८
विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम्
अपक्वतण्डुलात्यर्थपक्वदग्धं च यद्भवेत्
संयोगतो विरुद्धं तद्यथाऽम्लं पयसा सह ९९
अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते
संपद्विरुद्धं तद्विद्यादसंजातरसं तु यत् १००
अतिक्रान्तरसं वाऽपि विपन्नरसमेव वा
ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत्
तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम् १०१
षाण्ढ्यान्ध्यवीसर्पदकोदराणां विस्फोटकोन्मादभगन्दराणाम्
मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव १०२
किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम्
सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति हेतुम् १०३
एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामिमे भावाः प्रतिकारा भवन्ति तद्यथा--वमनं विरेचनं च तद्विरोधिनां च द्रवाणां संशमनार्थमुपयोगः तथाविधैश्च द्रव्यैः पूर्वमभिसंस्कारः शरीरस्येति १०४
भवतश्चात्र--
विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम्
वमनं शमनं चैव पूर्वं वा हितसेवनम् १०५
सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च
स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् १०६
तत्र श्लोकाः--
मतिरासीन्महर्षीणां या या रसविनिश्चये
द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया १०७
कारणं रससंख्याया रसानुरसलक्षणम्
परादीनां गुणानां च लक्षणानि पृथक्पृथक् १०८
पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना
ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसाः १०९
षण्णां रसानां षट्त्वे च सविभक्ता विभक्तयः
उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि ११०
प्रवरावरमध्यत्वं रसानां गौरवादिषु
पाकप्रभावयोर्लिङ्गं वीर्यसंख्याविनिश्चयः १११
षण्णामास्वाद्यमानानां रसानां यत् स्वलक्षणम्
यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत् ११२
वैरोधिकनिमित्तानां व्याधीनामौषधं च यत्
आत्रेयभद्रकाप्यीये तत् सर्वमवदन्मुनिः ११३
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयो नाम
षड्विंशोऽध्यायः २६

सप्तविंशोऽध्यायः
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इष्टवर्णगन्धरसस्पर्शं विधिविहितमन्नपानं प्राणिनां प्राणिसंज्ञकानां प्राणमाचक्षते कुशलाः प्रत्यक्षफलदर्शनात् तदिन्धना ह्यन्तरग्नेः स्थितिः तत् सत्त्वमूर्जयति तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरं यथोक्तमुपसेव्यमानं विपरीतमहिताय संपद्यते ३
तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखिलेनोपदेक्ष्यामोऽग्निवेश तत् स्वभावादुदकं क्लेदयति लवणं विष्यन्दयति क्षारः पाचयति मधु संदधाति सर्पिः स्नेहयति क्षीरं जीवयति मांसं वृंहयति रसः प्रीणयति सुरा जर्जरीकरोति शीधुरवधमति द्राक्षासवो दीपयति फाणितमाचिनोति दधि शोफं जनयति पिण्याकशाकं ग्लपयति प्रभूतान्तर्मलो माषसूपः दृष्टिशुखघ्नः क्षारः प्रायः पित्तलमम्लमन्यत्र दाडिमामलकात् प्रायः श्लेष्मलं मधुरमन्यत्र मधुनः पुराणाच्च शालिषष्टिकयवगोधूमात् प्रायस्तिक्तं वातलमवृष्यं चान्यत्र व्शेत्राग्रामृतापटोलपत्रात् प्रायः कटुकं वातलमवृष्यं चान्यत्र पिप्पलीविश्वभेषजात् ४
परमतो वर्गसंग्रहेणाहारद्रव्याण्यनुव्याख्यास्यामः ५
शूकधान्यशमीधान्यमांसशाकफलाश्रयान्
वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान् ६
दश द्वौ चापरो वर्गौ कृतान्नाहारयोगिनाम्
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे ७
अथ शूकधान्यवर्गः --
रक्तशालिर्महाशालिः कलमः शकुनाहृतः
तूर्णको दीर्घशूकश्च गौरः पाण्डुकलाङ्गुलौ ८
सुगन्धको लोहवालः सारिवाख्यः प्रमोदकः
पतङ्गस्तपनीयश्च ये चान्ये शालयः शुभाः ९
शीता रसे विपाके च मधुराश्चाल्पमारुताः
बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रमूत्रलाः १०
रक्तशालिर्वरस्तेषां तृष्णाघ्नस्त्रिमलापहः
महांस्तस्यानु कलमस्तस्याप्यनु ततः परे ११
यवका हायनाः पांसुवाप्यनैषधकादयः
शालीनां शालयः कुर्वन्त्यनुकारं गुणागुणैः १२
शीतः स्निग्धोऽगुरुः स्वादुस्त्रिदोषघ्नः स्थिरात्मकः
षष्टिकः प्रवरो गौरः कृष्णगौरस्ततोऽनु च १३
वरकोद्दालकौ चीनशारदोज्ज्वलदर्दुराः
गन्धनाः कुरुविन्दाश्च षष्टिकाल्पान्तरा गुणैः १४
मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः
बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः १५
सकोरदूषः श्यामाकः कषायमधुरो लघुः
वातलः कफपित्तघ्नः शीतः संग्राहिशोषणः १६
हस्तिश्यामाकनीवारतोयपर्णीगवेधुकाः
प्रशान्तिकाम्भः श्यामाकलौहित्याणुप्रियङ्गवः १७
मुकुन्दो झिण्टिगर्मूटी वरुका वरकास्तथा
शिबिरोत्कटजूर्णाह्वाः श्यामाकसदृशा गुणैः १८
रूक्षः शीतोऽगुरुः स्वादुर्बहुवातशकृद्यवः
स्थैर्यकृत् सकषायश्च बल्यः श्लेष्मविकारनुत् १९
रूक्षः कषायानुरसो मधुरः कफपित्तहा
मेदःक्रिमिविषघ्नश्च बल्यो वेणुयवो मतः २०
सन्धानकृद्वातहरो गोधूमः स्वादुशीतलः
जीवनो बृंहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः २१
नान्दीमुखी मधूली च मधुरस्निग्धशीतले
इत्ययं शूकधान्यानां पूर्वो वर्गः समाप्यते २२
अथ शमीधान्यवर्गः--
कषायमधुरो रूक्षः शीतः पाके कटुर्लघुः
विशदः श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः २३
वृष्यः परं वातहरः स्निग्धोष्णो मधुरो गुरुः
बल्यो बहुमलः पुंस्त्वं माषः शीघ्रं ददाति च २४
राजमाषः सरो रुच्यः कफशुक्राम्लपित्तनुत्
तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः २५
उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः
कुलत्था ग्राहिणः कासहिक्वाश्वासार्शसां हिताः २६
मधुरा मधुराः पाके ग्राहिणो रूक्षशीतलाः
मकुष्ठकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु २७
चणकाश्च मसूराश्च खण्डिकाः सहरेणवः
लघवः शीतमधुराः सकषाया विरूक्षणाः २८
पित्तश्लेष्मणि शस्यन्ते सूपेष्वालेपनेषु च
तेषां मसूरः संग्राही कलायो वातलः परम् २९
स्निग्धोष्णो मधुरस्तिक्तः कषायः कटुकस्तिलः
त्वच्यः केश्यश्च बल्यश्च वातघ्नः कफपित्तकृत् ३०
मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः
सस्नेहा बलिभिर्भोज्या विविधाः शिम्बिजातयः ३१
शिम्बी रूक्षा कषाया च कोष्ठे वातप्रकोपिनी
न च वृष्या न चक्षुष्या विष्टभ्य च विपच्यते ३२
आढकी कफपित्तघ्नी वातला कफवातनुत्
अवल्गुजः सैडगजो निष्पावा वातपित्तलाः ३३
काकाण्डोमात्मगुप्तानां माषवत् फलमादिशेत्
द्वितीयोऽयं शमीधान्यवर्गः प्रोक्तो महर्षिणा ३४
अथ मांसवर्गः--
गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः
वृको व्याघ्रस्तरक्षुश्च बभ्रुमार्जारमूषिकाः ३५
लोपाको जम्बुकः श्येनो वान्तादश्चाषवायसौ
शशघ्नी मधुहा भासो गृध्रोलूककुलिङ्गकाः ३६
घूमिका कुररश्चेति प्रसहा मृगपक्षिणः
श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुलीमृगः ३७
कूर्चिका चिल्लटो भेको गोधा शल्लकगण्डकौ
कदली नकुलः श्वाविदिति भूमिशयाः स्मृताः ३८
सृमरश्चमरः खङ्गो महिषो गवयो गजः
न्यङ्कुर्वराहश्चानूपा मृगाः सर्वे रुरुस्तथा ३९
कूर्मः कर्कटको मत्स्यः शिशुमारस्तिमिङ्गिलः
शुक्तिशङ्खोद्रकुम्भीरचुलुकीमकरादयः ४०
इति वारिशयाः प्रोक्ता वक्ष्यन्ते वारिचारिणः
हंसः क्रौञ्चो बलाका च बकः कारण्डवः प्लवः ४१
शरारिः पुष्कराह्वश्च केशरी मणितुण्डकः
मृगालकण्ठो मद्गुश्च कादम्बः काकतुण्डकः ४२
उत्क्रोशः पुण्डरीकाक्षो मेघरावोऽम्बुकुक्कुटी
आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः ४३
रोहिणी कामकाली च सारसो रक्तशीर्षकः
चक्रवाकस्तथाऽन्ये च खगाः सन्त्यम्बुचारिणः ४४
पृषतः शरभो रामः श्वदंष्ट्रो मृगमातृका
शशोरणौ कुरङ्गश्च गोकर्णः कोट्टकारकः ४५
चारुष्को हरिणैणौ च शम्बरः कालपुच्छकः
ऋष्यश्च वरपोतश्च विज्ञेया जाङ्गला मृगाः ४६
लावो वर्तीरकश्चैव वार्तीकः सकपिञ्जलः
चकोरश्चोपचक्रश्च कुक्कुभो रक्तवर्त्मकः ४७
लावाद्या विष्किरास्त्वेते वक्ष्यन्ते वर्तकादयः
वर्तक्रो वर्तिका चैव बर्ही तितिरिकुक्कुटौ ४८
कङ्कशारपदेन्द्राभगोनर्दगिरिवर्तकाः
क्रकरोऽवकरश्चैव वारडश्चेति विष्किराः ४९
शतपत्रो भृङ्गराजः कोयष्टिर्जीवञ्जीवकः
कैरातः कोकिलोऽत्यूहो गोपापुत्रः प्रियात्मजः ५०
लट्टा लट्टषकी बभ्रुर्वटहा डिण्डिमानकः
जटी दुन्दुभिपाक्कारलोहपृष्ठकुलिङ्गकाः ५१
कपोतशुकशारङ्गाश्चिरटीकङ्कुयष्टिकाः
सारिका कलविङ्कश्च चटकोऽङ्गारचूडकः ५२
पारावतःपाण्डविक इत्युक्ताः प्रतुदा द्विजाः
प्रसह्य भक्षयन्तीति प्रसहास्तेन संज्ञिताः ५३
भूशया बिलवासित्वादानूपानूपसंश्रयात्
जले निवासाज्जलजा जलेचर्याज्जलेचराः ५४
स्थलजा जाङ्गलाः प्रोक्ता मृगा जाङ्गलचारिणः
विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः ५५
योनिरष्टविधा त्वेषा मांसानां परिकीर्तिता
प्रसहा भूशयानूपवारिजा वारिचारिणः ५६
गुरूष्णस्निग्धमधुरा बलोपचयवर्धनाः
बृष्याः परं वातहराः कफपित्तविवर्धनाः ५७
हिता व्यायामनित्येभ्यो नरा दीप्ताग्नयश्च ये
प्रसहानां विशेषेण मांसं मांसाशिनां भिषक् ५८
जीर्णार्शोग्रहणीदोषशोषार्तानां प्रयोजयेत्
लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः ५९
लघवः शीतमधुराः सकषाया हिता नृणाम्
पित्तोतरे वातमध्ये सन्निपाते कफानुगे ६०
विष्किरा वर्तकाद्यास्तु प्रसहाल्पान्तरा गुणैः
नातिशीतगुरुस्निग्धं मांसमाजमदोषलम् ६१
शरीरधातुसामान्यादनभिष्यन्दि वृंहणम्
मांसं मधुरशीतत्वाद्गुरु बृंहणमाविकम् ६२
योनावजाविके मिश्रगोचरत्वादनिश्चिते
सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक् ६३
केषांचिद्गुणवैशेष्याद्विशेष उपदेक्ष्यते
दर्शनश्रोत्रशोधाग्निवयोवर्णस्वरायुषाम् ६४
बर्ही हिततमो बल्यो वातघ्नो मांसशुक्रलः
गुरूष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः ६५
बृंहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः
स्निग्धाश्चोष्णाश्च वृष्याश्च बृंहणाः स्वरबोधनाः ६६
बल्याः परं वातहराःस्वेदनाश्चरणायुधाः
गुरूष्णो मधुरो नातिधन्वानूपनिषेवणात् ६७
तित्तिरिः संजयेच्छीघ्रं त्रीन् दोषाननिलोल्बणान्
पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः ६८
मन्दवातेषु शस्यन्ते शैत्यमाघुर्यलाघवात्
लावाःकषायमधुरा लघवोऽग्निविवर्धनाः ६९
सन्निपातप्रशमनाः कटुकाश्च विपाकतः
गोधा विपाके मधुरा कषायकटुका रसे ७०
वातपित्तप्रशमनी बृंहणी बलवर्धनी
शल्लको मधुराम्लश्च विपाके कटुकः स्मृतः ७१
वातपित्तकफघ्नश्च कासश्वासहरस्तथा
कषायविशदाः शीता रक्तपित्तनिबर्हणाः ७२
विपाके मधुराश्चैव कपोता गृहवासिनः
तेभ्यो लघुतराः किंचित् कपोता वनवासिनः ७३
शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते
शुकमांसं कषायाम्लं विपाके रुक्षशीतलम् ७४
शोषकासक्षयहितं संग्राहि लघु दीपनम्
चटका मधुराः स्निग्धा बलशुक्रविवर्धनाः ७५
सन्निपातप्रशमनाः शमना मारुतस्य च
कषायो विशदो रुक्षः शीतः पाके कटुर्लघुः ७६
शशः स्वादुः प्रशस्तश्च संनिपातेऽनिलावरे
मधुरा मधुराः पाके त्रिदोषशमनाः शिवाः ७७
लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः
स्नेहनं बृहणं वृष्यं श्रमघ्नमनिलापहम् ७८
वराहपिशितं बल्यं रोचनं स्वेदनं गुरु
गव्यं केवलवातेषु पीनसे विषमज्वरे ७९
शुष्ककासश्रमात्यग्निमांसक्षयहितं च तत्
स्निग्धोष्णं मधुरं वृष्यं माहिषं गुरुतर्पणम् ८०
दार्ढ्यं बृहत्त्वमुत्साहं स्वप्नं च जनयत्यपि
गुरूष्णा मधुरा बल्या बृंहणाः पवनापहाः ८१
मत्स्याः स्निग्धाश्च वृष्याश्च बहुदोपाः प्रकीर्तिताः
शैवालशष्पभोजित्वात्स्वप्नस्य च विवर्जनात् ८२
रोहितो दीपनीयश्च लघुपाको महाबलः
वर्ण्यो वातहरो वृष्यश्चक्षुष्यो बलवर्धनः ८३
मेधास्मृतिकरः पथ्यः शोषघ्नः कूर्म उच्यते
खङ्गमांसमभिष्यन्दि बलकृन्मधुरं स्मृतम् ८४
स्नेहनं बृंहणं वर्ण्यं श्रमघ्नमनिलापहम्
धार्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि ८५
चटकानां च यानि स्युरण्डानि च हितानि च
क्षीणरेतःसु कासेषु हृद्रोगेषु क्षतेषु च ८६
मधुराण्यविदाहीनि सद्योबलकराणि च
शरीरर्बृंहणे नान्यत् खाद्यं मांसाद्विशिष्यते ८७
इति वर्गस्तृतीयोऽयं मांसानां परिकीर्तितः
अथ शाकवर्गः--
पाठाशुषाशटीशाकं वास्तुकं सुनिषण्णकम् ८८
विद्याद्ग्राहि त्रिदोषघ्नं भिन्नवर्चस्तु वास्तुकम्
त्रिदोषशमनी वृष्या काकमाची रसायनी ८९
नात्युष्णशीतवीर्या च भेदिनी कुष्ठनाशिनी
राजक्षवकशाकं तु त्रिदोषशमनं लघु ९०
ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम्
कालशाकं तु कटुकं दीपनं गरशोफजित ९१
लघूष्णं वातलं रूक्षं कालायं शाकमुच्यते
दीपनी चोष्णवीर्या च ग्राहिणी कफमारूते ९२
प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा
मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धनी ९३
बृष्या स्निग्धा च शीता च मदघ्नी चाप्युपोदिका
रूक्षो मदविषघ्नश्च प्रशस्तो रक्तपित्तिनाम् ९४
मधुरो मधुरः पाके शीतलस्तण्डुलीयकः
मग्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम् ९५
कर्कोटकावल्गुजकौ पटोलं शकुलादनी
वृषपुष्पाणि शार्ङ्गेष्टा केम्बूकं सकठिल्लकम् ९६
नाडी कलायं गोजिह्रा वार्ताकं तिलपर्णिका
कौलकं कार्कशं नैम्बं शाकं पार्पटकं च यत् ९७
कफपित्तहरं तिक्तं शीतं कटु विपच्यते
सर्वाणि सूप्यशाकानि फज्जी चिल्ली कुतुम्बकः ९८
आलुकानि च सर्वाणि सपत्राणि कुटिज्जरम्
शणशाल्मलिपुष्पाणि कर्वुदारः सुवर्चला ९९
निष्पावः कोविदारश्च पत्तुरश्चच्चपर्णिका
कुमारजीवो लोट्टाकः पालङ्क्या मारिषस्तथा १००
कलम्बनालिकासूर्यः कुसुम्भवृकधूमकौ
लक्ष्मणा च प्रपुन्नाडो नलिनीका कुठेरकः १०१
लोणिका यवशाकं च कुष्माण्डकमवल्गुजम्
यातुकः शालकल्याणी रिपर्णी पीलुपर्णिका १०२
शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति
मधुरं शीतवीर्यं च पुरीषस्य च भेदनम् १०३
स्विन्नं निष्पीडितरसं स्नेहाढ्यं तत् प्रशस्यते
शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः १०४
पुष्पं ग्राहि प्रज्ञस्तं च रक्तपित्ते विशेषतः
न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः १०५
कषायाः स्तम्भनाः शीता हिताः पिततिसारिणाम्
वायुं वत्सादनी हन्यात् कफं गण्डीरचित्रकौ १०६
श्रेयसी बिल्वपर्णी च बिल्वपत्रं तु वातनुत्
भण्डी शतावरीशाकं बला जीवन्तिकं च यत् १०७
पर्वण्याः पर्वपुष्प्याश्च वातपित्तहरं स्मृतम्
लघु भिन्नशकृत्तिक्तं लाङ्गलक्युरुबूकयोः १०८
तिलवेतसशाकं च शाकं पञ्चाङ्गुलस्य च
वातलं कटुतिक्ताम्लमधोमार्गप्रवर्तनम् १०९
रूक्षाम्लमुष्णं कौसुम्भं कफन्घ्नं पित्तवर्धनम्
त्रपुसैर्वारुकं स्वादु गुरु विष्टम्भि शीतलम् ११०
मुखप्रियं च रूक्षं च मूत्रलं त्रपुसं त्वति
एर्वारुकं च संपक्कं दाहतृष्णाक्लमार्तिनुत् १११
वर्चौभेदीन्यलाबूनि रूक्षशीतगुरूणि च
चिर्भटैर्वारुके तद्वद्वर्चोभेदहिते तु ते ११२
सक्षारं पक्ककूष्माण्डं मधुराम्लं तथा लघु
सृष्टमूत्रपुरीषं च सर्वदोषनिबर्हणम् ११३
केलूटं च कदम्बं च नदीमाषकमैन्दुकम्
विशदं गुरु शीतं च समभिष्यन्दि चोच्यते ११४
उत्पलानि कषायाणि रक्तपित्तहराणि च
तथा तालप्रलम्बं स्यादुरःक्षतरुजापहम् ११५
खर्जूरं तालशस्यं च रक्तपित्तक्षयापहम्
तरूटबिसशालूकक्रौञ्चादनकशेरुकम् ११६
शृङ्गाटकाङ्कलोड्यं च गुरु विष्टम्भि शीतलम्
कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः ११७
शीताः स्वादुकषायास्तु कफमारुतकोपनाः
कषायमीषद्विष्टम्भि रक्तपित्तहरं स्मृतम् ११८
पौष्करं तु भवेद्बीजं मधुरं रसपाकयोः
बल्यः शीतो गुरुः स्निग्धस्तर्पणो बृंहणात्मकः ११९
वातपित्तहरः स्वादुर्वृष्यो मुञ्जातकः परम्
जीवनो बृंहणो वृष्यः कण्ठ्यः शस्तो रसायने १२०
विदारिकन्दो बल्यश्च मूत्रलः स्वादुशीतलः
अम्लिकायाः स्मृतः कन्दो ग्रहण्यर्शोहितो लघुः १२१
नात्युष्णः कफवातघ्नो ग्राही शस्तो मदात्यये
त्रिदोषं बद्धविण्मूत्रं सार्षपं शाकमुच्यते १२२
तद्वत् स्याद्रक्तनालस्य रूक्षमम्लं विशेषतः
तद्वत् पिण्डाल्कं विद्यात् कन्दत्वाच्च मुखप्रियम्
सर्पच्छत्रकवर्ज्यास्तु बह्व्योऽन्याश्छत्रजातयः १२३
शीताः पीनसकर्त्र्यश्च मधुरा गुर्व्य एव च
चतुर्थः शाकवर्गोऽयं पत्रकन्दफलाश्रयः १२४
अथ फलवर्गः--
तृष्णादाहज्वरश्वासरक्तपित्तक्षतक्षयान्
वातपित्तमुदावर्तं स्वरभेदं मदात्ययम् १२५
तिक्तास्यतामास्यशोषं कासं चाशु व्यपोहति
मृद्वीका बृंहणी वृष्या मधुरा स्निग्धशीतला १२६
मधुरं बृंहणं वृष्यं खर्जूरं गुरु शीतलम्
क्षयेऽभिघाते दाहे च वातपित्ते च तद्घितम् १२७
तर्पणं बृंहणं फल्गु गुरु विष्टम्भि शीतलम्
परूषकं मधुकं च वातपित्ते च शस्यते १२८
मधुरं बृंहणं बल्यमाम्रातं तर्पणं गुरु
सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति १२९
तालशस्यानि सिद्धानि नारिकेलफलानि च
बृंहानस्निग्धशीतानि बल्यानि मधुराणि च १३०
मधुराम्लकषायं च विष्टम्भि गुरु शीतलम्
पित्तश्लेष्मकरं भव्यं ग्राहि वक्त्रविशोधनम् १३१
अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च
पित्तश्लेष्मप्रकोपीणि कर्कन्धुनिकुचान्यपि १३२
नात्युष्णं गुरु संपक्वं स्वादुप्रायं मुखप्रियम्
बृंहणं जीर्यति क्षिप्रं नातिदोषलमारुकम् १३३
द्विद्विधं शीतमुष्णं च मधुरं चाम्लमेव च
गुरु पारावतं ज्ञेयमरुच्यत्यग्निवाशनम् १३४
भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते
तथैवाल्पान्तरगुणं तूदमम्लं परूषकात् १३५
कषायमधुरं टङ्कं वातलं गुरु शीतलम्
कपित्थमामं कण्ठघ्नं विषघ्नं ग्राहि वातलम् १३६
मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम्
परिपक्वं च दोषघ्नं विषघ्नं ग्राहि गुर्वपि १३७
बिल्वं तु दुर्जुरं पक्वं दोषलं पूतिमारुतम्
स्निग्धोष्णतीक्ष्णं तद्वालं दीपनं कफवातजित् १३८
रक्तपित्तकरं बालमापूर्णं पित्तवर्धनम्
पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम् १३९
कषायमधुरप्रायं गुरु विष्टम्भि शीतलम्
जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम् १४०
बदरं मधुरं स्निग्धं भेदनं वातपित्तजित्
तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते १४१
कषायमधुरं शीतं ग्राहि सिम्बतिकाफलम्
गाङ्गेरुकी करीरं च बिम्वी तोदनधन्वनम् १४२
मधुरं सकषायं च शीतं पित्तकफाप्रहम्
संपक्वं पनसं मोचं राजादनफलानि च १४३
स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च
कषायविशदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् १४४
अवदंशक्षमं हृद्यं वातलं लवलाफलम्
नीपं शताह्वकं पीलु तृणशून्यं विकङ्कतम् १४५
प्राचीनामलकं चैव दोषघ्नं गरहारि च
ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित् १४६
तिन्दुकं कफपित्तघ्नं कषायं मधुरं लघु
विद्यादामलके सर्वान् रसांल्लवणवर्जितान् १४७
रूक्षं स्वादु कषायाम्लं कफपित्तहरं परम्
रसासृङ्मांसमेदोजान्दोषान् हन्ति बिभीतकम् १४८
स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम्
अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम् १४९
स्निग्धोष्णं दाडिमं हृद्यं कफपित्ताविरोधि च
रूक्षाम्लं दाडिमं यत्तु तत् पित्तानिलकोपनम् १५०
मधुरं पित्तनुत्तेषां पूर्वं दाडिममुत्तमम्
वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मणि शस्यते १५१
अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः
गुणैस्तैरेव संयुक्तं भेदनं त्वम्लवेतसम् १५२
शूलेऽरुचौ विबन्धे च मन्देऽग्नौ मद्यविप्लवे
हिक्काश्वासे च कासे च वम्यां वर्चोगदेषु च १५३
वातश्लेष्मसमुत्थेषु सर्वेष्वेवोपदिश्यते
केसरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा १५४
रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः
कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः १५५
मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम्
दुर्जरं वातशमनं नागरङ्गफलं गुरु १५६
वातामाभिषुकाक्षोटमुकूलकनिकोचकाः
गुरूष्णस्निग्धमधुराः सोरुमाणा बलप्रदाः १५७
वातघ्ना बृंहणा वृष्याः कफपित्ताभिबर्धनाः
प्रियालमेषां सदृशं विद्यादौष्ण्यं विना गुणैः १५८
श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु
श्लेष्मलं गुरु विष्टम्भि चाङ्कोटफलमग्निजित् १५९
गुरूष्णं मधुरं रूक्षं केशघ्नं च शमीफलम्
विष्टम्भयति कारञ्जं वातश्लेष्माविरोधि च १६०
आम्रातकं दन्तशठमम्लं सकरमर्दकम्
रक्तपित्तकरं विद्यादैरावतकमेव च १६१
वातघ्नं दीपनं चैव वार्ताकं कटु तिक्तकम्
वातलं कफपित्तघ्नं विद्यात् पर्पटकीफलम् १६२
पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षिकीफलम्
मधुराण्यम्लपाकीनि पित्तश्लेष्महराणि च १६३
अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च
कषायमधुराम्लानि वातलानि गुरूणि च १६४
भल्लातकास्थ्यग्निसमं तन्मांसं स्वादु शीतलम्
पञ्चमः फल्वर्गोऽयमुक्तः प्रायोपयोगिकः १६५
अथ हरितवर्गः --
रोचनं दीपनं वृष्यमार्द्रकं विश्वभेषजम्
वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते १६६
रोचनो दीपनस्तीक्ष्णः सुगन्धिर्मुखशोधनः
जम्बीरः कफवातघ्नः क्रिमिघ्नो भक्तपाचनः १६७
बालं दोषहरं बृद्धं त्रिदोषं मारुतापहम्
स्निग्धसिद्धं विशुष्कं तु मूलकं कफवातजित् १६८
हिक्काकासविषश्वासपार्श्वशूलविनाशनः
पित्तकृत् कफवातघ्नः सुरसः पूतिगधन्हा १६९
यवानी चार्जकश्चैव शिग्रुशालेयमृष्टकम्
हृद्यान्यास्वादनीयानि पित्तमुत्क्लेशयन्ति च १७०
गण्डीरो जलपिप्पल्यस्तुम्बरुः शृङ्गवेरिका
तीक्ष्णोष्णकटुरूक्षाणि कफवातहराणि च १७१
पुंस्त्वघ्नः कटुरूक्षोष्णो भूस्तृणो वक्रशोधनः
खराह्वा कफवातघ्नी बस्तिरोगरुजापहा १७२
धान्याकं चाजगन्धा च सुमुखश्चेति रोचनाः
सुगन्धा नातिकटुका दोषानुत्क्लेशयन्ति च १७३
ग्राही गृञ्जनकस्तीक्ष्णो वातश्लेष्मार्शसां हितः
स्वेदनेऽभ्यवहारे च योजयेत्तमपित्तिनाम् १७४
श्लेष्मलो मारुतघ्नश्च पलाण्डुर्न च पित्तनुत्
आहारयोगी बल्यश्च गुरुवृष्योऽथ रोचनः १७५
क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः
स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः १७६
शुष्काणि कफवातघ्नान्येतान्येषां फलानि च
हरितानामयं चैष षष्ठो वर्गः समाप्यते १७७
अथ मद्यवर्गः--
प्रकृत्या मद्यमम्लोष्णमम्लं चोक्तं विपाकतः
सर्वं सामान्यतस्तस्य विशेष उपदेक्ष्यते १७८
कृशानां सक्तमूत्राणां ग्रहण्यर्शोविकारिणाम्
सुरा प्रशस्ता वातघ्नी स्तन्यरक्तक्षयेषु च १७९
हिक्काश्वाशप्रतिश्यायकासवर्चोग्रहारुचौ
वम्यानाहविबन्धेषु वातघ्नी मदिरा हिता १८०
शूलप्रवाहिकाटोपकफवातार्शसां हितः
जगलो ग्राहिरूक्षोष्णः शोफघ्नो भक्तपाचनः १८१
शोषार्शोग्रहणीदोषपाण्डुरोगारुचिज्वरान्
हन्त्यरिष्टः कफकृतान् रोगान्रोचनदीपनः १८२
मुखप्रियः सुखमदः सुगन्धिर्बस्तिरोगनुत्
जरणीयः परिणतो हृद्यो वर्ण्यश्च शार्करः १८३
रोचनो दीपनो हृद्यः शोषशोफार्शसां हितः
स्नेहश्लेष्मविकारघ्नो वर्ण्यः पक्वरसो मतः १८४
जरणीयो विबन्धघ्नः स्वरवर्णविशोधनः
लेखनः शीतरसिको हितः शोफोदरार्शसाम् १८५
सृष्टभिन्नशकृद्वातो गौडस्तर्पणदीपनः
पाण्डुरोगव्रणहिता दीपनी चाक्षिकी मता १८६
सुरासवस्तीव्रमदो वातघ्नो वदनप्रियः
छेदी मध्वासवस्तीक्ष्णो मैरेयो मधुरो गुरुः १८७
धातक्याऽभिषुतो हृद्यो रूक्षो रोचनदीपनः
माध्वीकवन्न चात्युष्णो मृद्वीकेक्षुरसासवः १८८
रोचनं दीपनं हृद्यं बल्यं पित्ताविरोधि च
विबन्धघ्नं कफघ्नं च मधु लघ्वल्पमारुतम् १८९
सुरा समण्डा रूक्षोष्णा यवानां वातपित्तला
गुर्वी जीर्यति विष्टभ्य श्लेष्मला तु मधूलिका १९०
दीपनं जरणियं च हृत्पाण्डुक्रिमिरोगनुत्
ग्रहण्यर्शोहितं भेदि सौवीरकतुषोदकम् १९१
दाहज्वरापहं स्पर्शात् पानाद्वातकफापहम्
विबन्धघ्नमवस्रंसि दीपनं चाम्लकाञ्जिकम् १९२
प्रायशोऽभिनवं मद्यं गुरुदोषसमीरणम्
स्रोतसां शोधनं जीर्णं दीपनं लघु रोचनम् १९३
हर्षणं प्रीणनं मद्यं भयशोकश्रमापहम्
प्रागल्भ्यवीर्यप्रतिभातुष्टिपुष्टिबलप्रदम् १९४
सात्त्विकैर्विधिवद्युक्त्या पीतं स्यादमृतं यथा
वर्गोऽयं सप्तमो मद्यमधिकृत्य प्रकीर्तितः १९५
अथ जलवर्गः--
जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात्
तत् पतत् पतितं चैव देशकालावपेक्षते १९६
खात् पतत् सोमवाय्वर्कैः स्पृष्टं कालानुवर्तिभिः
शीतोष्णस्निग्धरूक्षाद्यैर्यथासन्नं महीगुणैः १९७
शीतं शुचि शिवं मृष्टं विमलं लघु षड्गुणम्
प्रकृत्या दिव्यमुदकं भ्रष्टं पात्रमपेक्षते १९८
श्वेते कषायं भवति पाण्डरे स्यात्तु तित्तकम्
कपिले क्षारसंसृष्टमूषरे लवणान्वितम् १९९
कटु पर्वतविस्तारे मधुरं कृष्णमृत्तिके
एतत् षाड्गुण्यमाख्यातं महीस्थस्य जलस्य हि
तथाऽव्यक्तरसं विद्यादैन्दं कारं हिमं च यत् २००
यदन्तरीक्षात् पततीन्द्रसृष्टं चोक्तैश्च पात्रैः परिगृह्यतेऽम्भः
तदैन्द्रमित्येव वदन्ति धीरा नरेन्द्रपेयं सलिलं प्रधानम् २०१
ईषत्कषायमधुरं सुसूक्ष्मं विशदं लघु
अरूक्षमनभिष्यन्दि सर्वं पानीयमुत्तमम् २०२
गुर्वभिष्यन्दि पानीयं वार्षिकं मधुरं नवम्
तनु लध्वनभिष्यन्दि प्रायः शरदि वर्षति २०३
तत्तु ये सुकुमाराः स्युः स्निग्धभूयिष्ठभोजनाः
तेषां भोज्ये च भक्ष्ये च लेह्ये पेये च शस्यते २०४
हेमन्ते सलिलं म्निग्धं वृष्यं बलहितं गुरु
किंचित्ततो लघुतरं शिशिरे कफवातजित् २०५
कषायमधुरं रूक्षं विद्याद्वासन्तिकं जलम्
ग्रैष्मिकं त्वनभिष्यन्दि जलमित्येव निश्चयः
ऋतावृताविहाख्याताः सर्व एवाम्भसो गुणाः २०६
विभ्रान्तेषु तु कालेषु यत् प्रयच्छन्ति तोयदाः
सलिलं तत्तु दोषाय युज्यते नात्र संशयः २०७
राजभी राजमात्रैश्व सुकुमारैञ्च मानवैः
सुगृहीताः शरद्यापः प्रयोक्तव्या विशेषतः २०८
नद्यः पाषाणविच्छन्नविक्षुब्धाभिहतोदकाः
हिमवत्प्रभवाः पथ्याः पुण्याः देवर्षिसेविताः २०९
नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः
मलयप्रभवा याश्च जलं तास्वमृतोपमम् २१०
पश्चिमाभिमुखा याश्च पथ्यास्ता निर्मलोदकाः
प्रायो मृदुवहा गुर्व्यो याश्च पूर्वसमुद्रगा २११
पारियात्रभवा याश्च विन्ध्यसह्यभवाश्च याः
शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च २१२
वसुधाकीटसर्पाखुमलसंदूषितोदकाः
वर्षाजलवहा नद्यः सर्वदोषसमीरणाः २१३
वापीकूपतडागोरत्ससरःप्रस्रवणादिषु
आनूपशैलधन्वानां गुणदोषौर्विभावयेत् २१४
पिच्छिलं क्रिमिलं क्लिन्नं पर्णशैवालकर्दमैः
विवर्णं विरसं सान्द्रं दुर्गन्धं न हितं जलम् २१५
विस्रं त्रिदोषं लवणमम्बु यद्वरुणालयम्
इत्यम्बुवर्गः प्रोक्तोऽयमष्टमः सुविनिश्चितः २१६
अथ गोरसवर्गः--
स्वादु शीतं मृदु स्निग्धं बहलं श्लक्ष्णपिच्छिलम्
गुरु मन्दं प्रसन्नं च गब्यं दशगुणं पयः २१७
तदेवंगुणमेवौजः सामान्यादभिवर्धयेत्
प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम् २१८
महिषीणां गुरुतरं गव्याच्छीततरं पयः
स्नेहान्यूनमनिद्राय हितमत्यग्नये च तत् २१९
रूक्षोष्णं क्षीरमुष्ट्रीणामीषत्सलवणं लघु
शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम् २२०
बल्यं स्थैर्यकरं सर्वमुष्णं चैकशफं पयः
साम्लं सलवणं रूक्षं शाखावातहरं लघु २२१
छागं कषायमधुरं शीतं ग्राहि पयो लघु
रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम् २२२
हिक्काश्वासकरं तूष्णं पित्तश्लेष्मलमाविकम्
हस्तिनीनां पयो बल्यं गुरु स्थैर्यकरं परम् २२३
जीवनं बृंहणं सात्म्यं स्नेहनं मानुषं पयः
नावनं रक्तपित्ते च तर्पणं चाक्षिशूलिनाम् २२४
रोचनं दीपनं वृष्यं स्नेहनं बलवर्धनम्
पाकेऽम्लमुष्णं वातघ्नं मङ्गलं बृंहणं दधि २२५
पीनसे चातिसारे च शीतके विषमज्वरे
अरुचौ मूत्रकृच्छ्रे च कार्श्ये च दधि शस्यते २२६
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम्
रक्तपित्तकफोत्थेषु विकारेष्वहितं च तत् २२७
त्रिदोषं मन्दकं जातं वातघ्नं दधि शुक्रलः
सरः श्लेष्मानिलघ्नस्तु मण्डः स्रोतोविशोधनः २२८
शोफार्शोग्रहणीदोषमूत्रग्रहोदरारुचौ
स्नेहव्यापदि पाण्डुत्वे तक्रं दद्याद्गरेषु च २२९
संग्राहि दीपनं हृद्यं नवनीतं नवोद्धतम्
ग्रहण्यर्शोविकारघ्नमर्दितारुचिनाशनम् २३०
स्मृतिबुद्ध्यग्निशुक्रौजः कफमेदोविवर्धनम्
वातापित्तविषोन्मादशोषालक्ष्मीज्वरापहम् २३१
सर्वस्नेहोत्तमं शीतं मधुरं रसपाकयोः
सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत् २३२
मदापस्मारमूर्च्छायशोषोन्मादगरज्वरान्
योनिकर्णशिरःशूलं घृतं जीर्णमपोहति २३३
सर्पींष्यजाविमहिषीक्षीरवत् स्वानि निर्दिशेत्
पीयूषो मोरटं चैव किलाटाविविधाश्च ये २३४
दीप्तग्नीनामनिद्राणां सर्व एव सुखप्रदाः
गुरवस्तर्पणा वृष्या बृंहणाः पवनापहाः २३५
विशदा गुरवो रूक्षा ग्राहिणस्तक्रपिण्डकाः
गोरसानामयं वर्गो नवमः परिकीर्तितः २३६
अथेक्षुवर्गः--
वृष्यः शीतः सरः स्निग्धो बृंहणो मधुरो रसः
श्लेष्मलो भक्षितस्येक्षोर्यान्रिकस्तु विदह्यते २३७
शैत्यात् प्रसादान्माधुर्यात् पौण्ड्रकाद्वंशकोऽवरः
प्रभूतक्रिमिमज्जासृङ्मेदोमांसकरो गुडः २३८
क्षुद्रो गुडश्चतुर्भागत्रिभागार्धावशेषितः
रसो गुरुर्यथापूर्वं धौतः स्वल्पमलो गुडः २३९
ततोमत्स्यण्डिकाखण्डशर्करा विमलाः परम्
यथा यथैषां वैमल्यं भवेच्छैत्यं तथा तथा २४०
वृष्या क्षीणक्षतहिता सस्नेहा गुडशर्करा
कषायमधुरा शीता सतिक्ता यासशर्करा २४१
रूक्षा वम्यतिसारघ्नी च्छेदनी मधुशर्करा
तृष्णासृक्पित्तदाहेषु प्रशस्ताः सर्वशर्कराः २४२
माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः
माक्षिकं प्रवरं तेषां विशेषाद्भ्रामरं गुरु २४३
माक्षिकं तैलवर्णं स्याद्घृतवर्णं तु पौत्तिकम्
क्षौद्रं कपिलवर्णं स्याच्छ्वेतं भ्रामरमुच्यते २४४
वातलं गुरु शीतं च रक्तपित्तकफापहम्
सन्धातृ च्छेदनं रूक्षं कषायं मधुरं मधु २४५
हन्यान्मधूष्णमुष्णार्तमथवा सविषानयात्
गुरुरूक्षकषायत्वाच्छैत्याच्चाल्पं हितं मधु २४६
नातः कष्टतमं किंचिन्मध्वामात्तद्घि मानवम्
उपक्रमविरोधित्वात् सद्यो हन्याद्यथा विषम् २४७
आमे सोष्णा क्रिया कार्या सा भध्वामे विरुध्यते
मध्वामं दारुणं तस्मात् सद्यो हन्याद्यथा विषम् २४८
नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु
इतीक्षुविकृतिप्रायो वर्गोऽयं दशमो मतः २४९
क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा
स्वेदाग्निजननी पेया वातवर्चोनुमोलनी २५०
तर्पणी ग्राहिणी लघ्वी हृद्या चापि विलेपिका
मण्डस्तु दीपयत्यग्निं वातं चाप्यनुलोमयेत् २५१
मृदूकरोति स्रोतांसि स्वेदंसंजनयत्यपि
लङ्घितानां विरिक्तानां जीर्णे स्नेहे च तृष्यताम् २५२
दीपनत्वाल्लघुत्वाच्च मण्डः स्यात् प्राणधारणः
लाजपेया श्रमघ्नी तु क्षामकण्ठस्य देहिनः २५३
तृष्णातीसारशमनो धातुसाम्यकरः शिवः
लाजमण्डोऽग्निजननो दाहमूर्च्छानिवारणः २५४
मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम्
देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः २५५
क्षुत्पिपासापहः पथ्यः शुद्धानां च मलापहः
शृतः पिप्पलिशुण्ठीभ्यां युक्तोलाजाम्लदाडिमैः २५६
कषायमधुराः शीता लघवो लाजसक्तवः
सुधौतः प्रस्रुतः स्विन्नः संतप्तश्चौदनो लघुः २५७
भृष्टतण्डुलमिच्छन्ति गरश्लेष्मामयेष्वपि
अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः २५८
मांसशाकवसातैलघृतमज्जफलौदनाः
बल्याः संतर्पणा हृद्या गुरुवो बृंहयन्ति च २५९
तद्वन्माषतिलक्षीरमुद्गसंयोगसाधिताः
कुल्मासा गुरवो रूक्षा वातला भिन्नवर्चसः २६०
स्विन्नभक्ष्यास्तु ये केचित् सौप्यगौधूमयाविकाः
भिषकू तेषां यथाद्रव्यमादिशेद्गुरुलाघवम् २६१
अकृतं कृतयूषं च तनुं सांस्कारिकं रसम्
सूपमम्लमनम्लं च गुरुं विद्याद्यथोत्तरम् २६२
सक्तवो वातला रूक्षा बहुवर्चोनुलोमिनः
तर्पयन्ति नरं सद्यः पीताः सद्योबलाश्च ते २६३
मधुरा लघवः शीताः सक्तवः शालिसंभवाः
ग्राहिणो रक्तपित्तघ्नास्तृष्णाच्छर्दिज्वरापहाः २६४
हन्याद्व्याधीन् यवापूपो यावको वाट्य एव च
उदावर्तप्रतिश्यायकासमेहगलग्रहान् २६५
धानासंज्ञास्तु ये भक्ष्याः प्रायस्ते लेखनात्मकाः
शुष्कत्वात्तर्पणाश्चैव विष्टम्भित्वाच्च दुर्जराः २६६
विरूढधानाः शष्कुल्यो मधुक्रोडाः सपिण्डकाः
पूपाः पूपलिकाद्याश्र गुरवः पैष्टिकाः परम् २६७
फलमांशवसाशाकपललक्षौद्रसंस्कृताः
भक्ष्या वृष्याश्च बल्याश्च गुरवो बृंहणात्मकाः २६८
वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः
गुरवस्तर्पणा गृष्याः क्षीरेक्षुरसपूपकाः २६९
सगुडाः सतिलाश्चैव सक्षीरक्षौद्रशर्कराः
भक्ष्या वृष्याश्च बल्याश्च परं तु गुरवः स्मृताः २७०
सस्नेहः स्नेहसिद्धाश्च भक्ष्या विविधलक्षणाः
गुरवस्तर्पणा वृष्या हृद्या गौधूमिका मताः २७१
संस्काराल्लघवः सन्ति भक्ष्या गौधूमपैष्टिकाः
धानापर्पटपूपाद्यास्तान् बुद्ध्वा निर्दिशेत्तथा २७२
पृथुका गुरवो बल्या भक्षयेदल्पशस्तु तान्
यावा विष्टभ्य जीर्यन्ति सरसा भिन्नवर्चसः २७३
सूप्यान्निविकृता भक्ष्या वातला रूक्षशीतलाः
सकटुस्नेहलवणानल्पशो भक्षयेत्तु तान् २७४
मृदुपाकाश्च ये भक्ष्याः स्थूलांश्च कठिनाश्च ये
गुरवस्ते व्यतिक्रान्तपाकाः पुष्टिबलप्रदाः २७५
द्रव्यसंयोगसंस्कारं द्रव्यमानं पृथक् तथा
भक्ष्याणामादिशेद्बुद्ध्वा यथास्वं गुरुलाघवम् २७६
नानाद्रव्यैः समायुक्तः पक्वामक्लिन्नभर्जितैः
विमर्दको गुरुर्हृद्यो वृष्यो बलवतां हितः २७७
रसाला बृंहणी वॄष्या स्निग्धा बल्या रुचिप्रदा
स्नेहनं तर्पणं हृद्यं वातघ्नं सगुडं दधि २७८
द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पानकम्
परूषकाणां क्षौद्रस्य यच्चेक्षुविकृतिं प्रति २७९
तेषां कट्वम्लसंयोगान् पानकानां पृथक् पृथक्
द्रव्यं मानं च विज्ञाय गुणकर्माणि चादिशेत् २८०
कट्वम्लस्वादुलवणा लघवो रागषाडवाः
मुखप्रियाश्च हृद्याश्च दीपना भक्तरोचनाः २८१
आम्रामलकलेहाश्च बृंहणा बलवर्धनाः
रोचनास्तर्पणाश्चोक्ताः स्नेहमाधुर्यगौरवात् २८२
बुद्ध्वा संयोगसंस्कारं द्रव्यमानं च तच्छ्रितम्
गुणकर्माणि लेहानां तेषां तेषां तथा वदेत् २८३
रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्
कन्दमूलफलाद्यं च तद्वद्विद्यात्तदासुतम् २८४
शिण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु
विद्याद्वर्गं कृतान्नानामेकादशतमं भिषक् २८५
अथ आहारयोनिवर्गः
कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च
पित्तलं बद्धविण्मूत्रं न च श्लेष्माभिवर्धनम् २८६
वातघ्नेषूत्तमं बल्यं त्वच्यं मेधाग्निवर्धनम्
तैलं संयोगसंस्कारात् सर्वरोगापहं मतम् २८७
तैलप्रयोगादजरा निर्विकारा जितश्रमाः
आसन्नतिबलाः संख्ये दैत्याधिपतयः पुरा २८८
ऐरण्डतैलं मधुरं गुरु श्लेष्माभिवर्धनम्
वातासृग्गुल्महृद्रोगजीर्णज्वरहरं परम् २८९
कटूष्णं सार्षपं तैलं रक्तपित्तप्रदूषणम्
कफशुक्रानिलहरं कण्डूकोठविनाशनम् २९०
प्रियालतैलं मधुरं गुरु श्लेष्माभिवर्धनम्
हितमिच्छन्ति नात्यौष्ण्यात्संयोगे वातपित्तयोः २९१
आतस्यं मधुराम्लं तु विपाके कटुकं तथा
उष्णवीर्यं हितं वाते रक्तपित्तप्रकोपणम् २९२
कुसुम्मतैलमुष्णं च विपाके कटुकं गुरु
विदाहि च विशेषेण सर्वदोषप्रकोपणम् २९३
फलानां यानि चान्यानि तैलान्याहारसंविधौ
युज्यन्ते गुणकर्मभ्यां तानि ब्रूयाद्यथाफलम् २९४
मधुरो बृंहणो वृष्यो बल्यो मज्जा तथा वसा
यथासत्त्वं तु शैत्योष्णे वसामज्ज्ञोर्विनिर्दिशेत् २९५
सस्नेहं दीपनं वृष्यमुष्णं वातकफापहम्
विपाके मधुरं हृद्यं रोचनं विश्वभेषजम् २९६
श्लेष्मला मधुरा चार्द्रा गुर्वी स्निग्धा च पिप्पली
सा शुष्का कफवातघ्नी कुटूष्णा वृष्यसंमता २९७
नात्यर्थमुष्णं मरिचमवृष्यं लघु रोचनम्
छेदित्वाच्छोषणत्वाच्च दीपनं कफवातजित् २९८
वातश्लेष्मविबन्धघ्नं कटूष्णं दीपनं लघु
हिङ्गु शूलप्रशमनं विद्यात् पाचनरोचनम् २९९
रोचनं दीपनं वृष्यं चक्षुष्यमविदाहि च
त्रिदोषघ्नं समधुरं सैन्धवं लवणोत्तमम् ३००
सौक्ष्म्यादौष्ण्याल्लघुत्वाच्च सौगन्ध्याच्च रुचिप्रदम्
सौवर्चलं विबन्धघ्नं हृद्यमुद्गारशोधि च ३०१
तैक्ष्ण्यादौष्ण्याद्व्यवायित्वाद्दिपनं शूलनाशनम्
ऊर्ध्वं चाधश्च वातानामानुलोम्यकरं बिडम् ३०२
सतिक्तकटु सक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्
न काललवणे गन्धः सौवर्चलगुणाश्च ते ३०३
सामुद्रकं समधुरं सतिक्तं कटु पांशुजम्
रोचनं लवणं सर्वं पाकि स्रंस्यनिलापहम् ३०४
हृत्पाण्डुग्रहणीरोगप्लीहानाहगलग्रहान्
कासं कफजमर्शांसि यावशूको व्यपोहति ३०५
तीष्णोष्णो लघुरूक्षश्च क्लेदी पक्ता विदारणः
दाहनो दीपनश्छेत्ता सर्वः क्षारोऽग्निसन्निभिः ३०६
कारवी कुञ्चिकाऽजाजी यवानी धान्यतुम्बरु
रोचनं दीपनं वातकफदौर्गन्ध्यनाशम् ३०७
आहारयोगिनां भक्तिनिश्चयो न तु विद्यते
समाप्तो द्वादशश्चायं वर्ग आहारयोगिनाम् ३०८
शूकधान्यं शमीधान्यं समातीतं प्रशस्यते
पुराणं प्रायशो रूक्षं प्रायेणाभिनवं गुरु ३०९
यद्यदागच्छति क्षिप्रं तत्तल्लुघुतरं स्मृतम्
निस्तुषं युक्तिभृष्टं च सूप्यं लघु विपच्यते ३१०
मृतं कृशं चातिमेद्यं वृद्धं बालं विषैर्हतम्
अगोचरभृतं व्यालसूदितं मांमुत्सृजेत् ३११
अतोऽन्यथा हितं मांसं बृंहणं बलवर्धनम्
प्रीणनः सर्वभूतानां हृद्यो मांसरसः परम् ३१२
शुष्यतां व्याधिमुक्तानां कृशानां क्षीणरेतसाम्
बलवर्णार्थिनां चैव रसं विद्याद्यथामृतम् ३१३
सर्वरोगप्रशमनं यथास्वं विहितं रसम्
विद्यात् स्वर्यं बलकरं वयोबुद्धीन्द्रियायुषां ३१४
व्यायमनित्याः स्त्रीनित्या मद्यनित्यश्च ये नराः
नित्यं मांसरसाहारा नातुराः स्युर्न दुर्बलाः ३१५
क्रिमिवातातपहतं शुष्कं जीर्णमनार्तवम्
शाकं निःस्नेहसिद्धं च वर्ज्यं यच्चापरिस्रुतम् ३१६
पुराणमामं संक्लिष्टं क्रिमिव्यालहिमातपैः
अदेशकालजं क्लिन्नं यत्स्यात्फलमसाधु तत् ३१७
हरितानां यथाशाकं निर्देशः साधनादृते
मद्याम्बुगोरसादीनां स्वे स्वे वर्गे विनिश्चयः ३१८
यदाहारगुणैः पानं विपरीतं तदिष्यते
अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च ३१९
आसवानां समुद्दिष्टामशीतिं चतुरुत्तराम्
जलं पेयमपेयं च परीक्ष्यानुपिबेद्धितम् ३२०
स्निग्धोष्णं मारुते शस्तं पित्ते मधुरशीतलम्
कफेऽनुपानं रूक्षोष्णं क्षये मांसरसः परम् ३२१
उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः
क्लान्तानामनुपानार्थं पयः पथ्यं यथाऽमृतम् ३२२
सुरा कृशानां पुष्ट्यर्थमनुपानं विधीयते
कार्श्यार्थं स्थूलदेहानामनु शस्तं मधूदकम् ३२३
अल्पाग्नीनामनिद्राणां तन्द्राशोकभयक्लमैः
मद्यमांसोचितानां च मद्यमेवानुशस्यते ३२४
अथानुपानकर्मगुणान् प्रवक्ष्यामःअनुपानं तर्पयति प्रीणयति ऊर्जयति बृंहयति पर्यामिमभिनिर्वर्तयति भुक्तमवसादयति अन्नसङ्घातं भिनत्ति मार्दवमापादयति क्लेदयति जरयति सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयतीति ३२५
भवति चात्र--
अनुपानं हितं युक्तं तर्पयत्याशु मानवम्
सुखं पचति चाहारमायुषे च बलाय च ३२६
नोर्ध्वाङ्गमारुताविष्टा न हिक्काश्वासकासिनः
न गीतभाष्याध्ययनप्रसक्ता नोरसि क्षताः ३२७
पिबेयुरुदकं भुक्त्वा तद्धि कण्ठोरसि स्थितम्
स्नेहमाहारजं हत्वां भूयो दोषाय कल्पते ३२८
अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः
द्रव्याणि न हि निर्देष्टुं शक्यं कार्त्स्न्येन नामभिः ३२९
यथा नानौषधं किंचिद्देशजानां वचो यथा
द्रव्यं तत्तत्तथा वाच्यमनुक्तमिह यद्भवेत् ३३०
चरः शरीरावयवाः स्वभावो धातवः क्रिया
लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ३३१
चरोऽनूपजलाकाशधन्वाद्यो भक्ष्यसंविधिः
जलजानूपजाश्चैव जलानूपचराश्च ये ३३२
गुरुभक्ष्याश्च ये सत्त्वाः सर्वे ते गुरवः स्मृताः
लघुभक्ष्यास्तु लघवो धन्वजा धन्वचारिणः ३३३
शरीरावयवाः सक्थिशिरः स्कन्धादयस्तथा
सक्थिमांसाद्गुरुः स्कन्धस्ततः क्रोडस्ततः शिरः ३३४
बृषणौ चर्म मेढ्रं च श्रोणी वृक्कौ यकृद्गुरुम्
मांसाद्गुरुतरं विद्याद्यथास्वं मध्यमस्थि च ३३५
स्वभावाल्लघवो मुद्गास्तथा लावकपिञ्जलाः
स्वभाद्गुरवो माषा वराहमहिषास्तथा ३३६
धातूनां शोणितादीनां गुरुं विद्याद्यथोत्तरम्
अलसेभ्यो विशिष्यन्ते प्राणिनो ये बहुक्रियाः ३३७
गौरवं लिङ्गसामान्ये पुंसां स्त्रीणां तु लाघवम्
महाप्रमाणा गुरवः स्वजातौ लघवोऽन्यथा ३३८
गुरूणां लाघवं विद्यात् संस्कारात् सविपर्ययम्
व्रीहेर्लाजा यथा च स्युः सक्त्नां सिद्धपिण्डिकाः ३३९
अल्पादाने गुरूणां च लघूनां चातिसेवने
मात्रा कारणमुद्दिष्टं द्रव्याणां गुरुलाघवे ३४०
गुरूणामल्पमादेयं लघूनां तृप्तिरिष्यते
मात्रां द्रव्याण्यपेक्षन्ते मात्रा चाग्निमपेक्षते ३४१
बलमारोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः
अन्नपानेन्धनैश्चाग्निर्ज्वलति व्येति चान्यथा ३४२
गुरुलाघवचिन्तेयं प्रायेणाल्पबलान् प्रति
मन्दक्रियाननारोग्यान् सुकुमारान्सुखोचितान् ३४३
दीप्ताग्नयः खराहाराः कर्मनित्या महोदराः
ये नराः प्रति तांश्चिन्त्यं नावश्यं गुरुलाघवम् ३४४
हिताभिर्जुहुयान्नित्यमन्तरग्निं समाहितः
अन्नपानसमिद्भिर्ना मात्राकालौ विचारयन् ३४५
आहिताग्निः सदा पथ्यान्यन्तरग्नौ जुहोति यः
दिवसे दिवसे ब्रह्म जपत्यथ ददाति च ३४६
नरं निःश्रेयसे युक्तं सात्म्यज्ञं पानभोजने
भजन्ते नामयाः केचिद्भाविनोऽप्यन्तरादृते ३४७
षटित्रिंशतं सहस्राणि रात्रीणां हितभोजनः
जीवत्यनातुरो जन्तुर्जितात्मा संमतः सताम् ३४८
प्राणाः प्राणभृतामन्नमन्नं लोकोऽभिधावति
वर्णः प्रसादः सौस्वर्यं जीवितं प्रतिभा सुखम् ३४९
तुष्टिः पुष्टिर्बलं मेधा सर्वमन्ने प्रतिष्ठितम्
लौकिकं कर्म यद्वृत्तौ स्वर्गतौ यच्च वैदिकम् ३५०
कर्मापवर्गे यच्चोक्तं तच्चाप्यन्ने प्रतिष्ठितम्
तत्र श्लोकः--
अन्नपानगुणाः साग्र्या वर्गा द्वादश निश्चिताः ३५१
सगुणान्यनुपानानि गुरुलाघवसंग्रहः
अन्नपानविधावुक्तं तत् परीक्ष्यं विशेषतः ३५२
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽन्नपानविधिर्नाम
सप्तविंशोऽध्यायः २७

अष्टाविंशोऽध्यायः
अथातो विविधाशितपीतीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं कालवदनवस्थितसर्वधातुपाकमनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातूनूर्जयति च धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते ३
तत्राहारप्रसादाख्यो रसः किट्टं च मलाख्यमभिनिर्वर्तते किट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश्चावयवाः पुष्यन्ति पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियव्याणि धातुप्रसादसंज्ञकानि शरीरसन्धिवन्धपिच्छादयश्चावयवाः ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःशरीरम् एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयतः निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयत्यारोग्याय किट्टं च मलानामेवमेव स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश्चोपचर्यमाणा मलाः शरीरधातुसाम्यकराः समुपलभ्यन्ते ४
तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि तानि यथाविभागेन यथास्वं हातूनापूरयन्ति एवमिदं शरीरमशितपीतलीढखादितप्रभवम्अशितपीतलीढखादितप्रभवाश्चास्मिञ् शरीरे व्याधयो भवन्ति हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति ५
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच दृश्यन्ते हि भगवन् हितसमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चागदाश्च तथैवाहितसमाख्यातम् एवं दृष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामह इति ६
तमुवाच भगवानात्रेयः--न हिताहारोपयोगिनामग्निवेश तन्निमित्ता व्याधयो जायन्ते न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः तद्यथा--कालविपर्ययः प्रज्ञापराधः शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरूषमशुभेनोपपादयन्ति तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते व्याधिमन्तः अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः न हि सर्वाण्यपथ्यानि तुल्यदोषाणि न च सर्वे दोषास्तुल्यबलाः न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद्भूयस्तरमपथ्यं संपद्यते स एव दोषः संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्च संपद्यते शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्यसात्म्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि च भवन्त्यव्याधिसहानि विपरीतानि पुनर्व्याधिसहानिएभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति त एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता व्याधिविशेषानभिनिर्वर्त न्त्यग्निवेश ७
तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः संभवन्ति तांस्तान् यथावदनुव्याख्यास्यामः ८
अश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता
हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः ९
पाण्डुत्वं स्रोतसां रोधः क्लैव्यं सादः कृशाङ्गता
नाशोऽग्नेरयथाकालं वलयः पलितानि च १०
रसप्रदोषजा रोगा वक्ष्यन्ते रक्तदोषजाः
कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः ११
गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः
नीलिका कामला व्यङ्गः पिप्लवस्तिलकालकाः १२
दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम्
रक्तप्रदोषाज्जायन्ते शृणु मांसप्रदोषजान् १३
अधिमांसार्बुदं कीलं गलशालूकशुण्डिके
पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः १४
विद्यान्मांसाश्रयान् मेदःसंश्रयांस्तु प्रचक्ष्महे
निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च १५
अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता
केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः १६
रुक् पर्वणां भ्रमो मूर्च्छा दर्शनं तमसस्तथा
अरुषां स्थूलमूलानां पर्वजानां च दर्शनम् १७
मज्जप्रदोषात् शुक्रस्य दोषात् क्लैब्यमहर्षणम्
रोगि वा क्लीबमल्पायुविरूपं वा प्रजायते १८
न चास्य जायते गर्भः पतति प्रस्रवत्यपि
शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम् १९
इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः
उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते २०
स्नायौ सिराकाण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम्
स्तम्भसंकोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः २१
मलानाश्रित्य कुपिता भेदशोषप्रदूषणम्
दोषा मलानां कुर्वन्ति सङ्गोत्सर्गावतीव च २२
विविधादशितात् पीतादहिताल्लीढखादितात्
भवन्त्येते मनुष्याणां विकारा य उदाहृताः २३
तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा
हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः २४
रसजानां विकाराणां सर्वं लङ्घनमौषधम्
विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम् २५
मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च
अष्टौनिन्द्रितिकेऽध्याये मेदोजानां चिकित्सितम् २६
अस्थ्याश्रयाणा व्याधीनां पञ्चकर्माणि भेषजम्
बस्तयः क्षीरसर्पींषि तिक्तकोपहितानि च २७
मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम्
अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया २८
शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते
स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके २९
नवेगान्धारणेऽध्याये चिकित्सासंग्रहः कृतः
मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित् ३०
व्यायामादूष्मणस्तैक्ष्ण्याद्धितस्यानवचारणात्
कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मारुतस्य च ३१
तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः
नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः ३२
वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात्
शाखा मुक्त्वा मलाः कोष्टं यान्ति वायोश्च निग्रहात् ३३
अजातानामनुत्पत्तौ जातानां विनिवृत्तये
रोगाणां यो विधिर्दृष्टः सुखार्थी तं समाचरेत् ३४
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः
ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः ३५
हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः
रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः ३६
श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम्
वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम् ३७
लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम्
तन्मूला बहवो यन्ति रोगाः शारीरमानसाः ३८
प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते
संधारयति वेगांश्च सेवते साहसानि च ३९
तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते
रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते ४०
न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्
परीक्ष्य हितमश्नीयाद्देहो ह्याहारसंभवः ४१
आहारस्य विधावष्टौविशेषा हेतुसंज्ञकाः
शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत् ४२
परिहार्याण्यपथ्यानि सदा परिहरन्नरः
भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः ४३
यत्तु रोगसमुत्थानमशक्यमिह केनचित्
परिहर्तुं न तत् प्राप्य शोचितव्यं मनीषिभिः ४४
तत्र श्लोकाः--
आहारसंभवं वस्तु रोगाश्चाहारसंभवाः
हिताहितविशेषाच्च विशेषः सुखदुःखयोः ४५
सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः
विशेषो रोगसङ्घाश्च धातुजा ये पृथक्पृथक् ४६
तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च
दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च ४७
प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत्
विविधाशितपीतीये तत् सर्वं संप्रकाशितम् ४८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो
नामाष्टाविंशोऽध्यायः २८
इत्यन्नपानचतुष्कः ७

ऊनत्रिंशोध्यायः
अथातो दशप्राणायतनीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः
शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम् ३
तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयान्
जानीते यः स वै विद्वान् प्राणाभिसर उच्यते ४
द्विविधास्तु खलु ग्भिषजो भवन्त्यग्निवेश प्राणानामेकेऽभिसरा हन्तारो रोगाणां रोगाणामेकेऽभिसरा हन्तारः प्राणानामिति ५
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाचभगवंस्ते कथमस्माभिर्वेदितव्याभवेयुरिति ६
भगवानुवाच--य इमे कुलीनाः पर्यवदातश्रुताः परिदृष्टकर्माणो दक्षाः शुचयो जितहस्ता जितात्मानः सर्वोपकरणवन्तः सर्वेन्द्रियोपपन्नाः प्रकृतिज्ञाः प्रतिपत्तिज्ञाश्च ते ज्ञेयाः प्राणानामभिसरा हन्तारो रोगाणां तथाविधा हि केवले शरीरज्ञाने शरीराभिनिर्वृत्तिज्ञाने प्रकृतिविकारज्ञाने च निःसंशयाः सुखसाध्यकृच्छ्रसाध्ययाप्यप्रत्याख्येयानां च रोगाणां समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषज्ञाने व्यपगतसंदेहाः त्रिविधस्यायुर्वेदसूत्रस्य ससंग्रहव्याकरणस्य सत्रिविधौषधग्रामस्य प्रवक्तारः पञत्रिंशतो मूलफलानां चतुर्णां च स्नेहानां पञ्चानां च लवणानामष्टानां च मूत्राणामष्टानां च क्षीराणां क्षीरत्वग्वृक्षाणां च षण्णां शिरोविरेचनादेश्च पञ्चकर्माश्रयस्यौषधगणस्याष्टाविंशतेश्च यवागूनां द्वात्रिंशतश्चर्णप्रदेहानां षण्णां च विरेचनशतानां पञ्चानां च कषायशतानां प्रयोक्तारः स्वस्थवृत्तविहितभोजनपाननियमस्थानचङ्क्रमणशयनासनमात्रा-द्रव्याञ्जनधूमनावनाभ्यञ्जनपरिमार्जनवेगाविधारणविधार-णव्यायामसात्म्येन्द्रियपरीक्षोपक्रमणसद्वृत्तकुशलाः चतुष्पादोपगृहीते च भेषजे षोडशकले सविनिश्चये सत्रिपर्येषणे सवातकलाकलज्ञाने व्यपगतसन्देहाः चतुर्विधस्य च स्नेहस्य चतुर्विंशत्युपनयस्योपकल्पनीयस्य चतुःषष्टिपर्यन्तस्य च व्यवस्थापयितारः बहुविधविधानयुक्तानां च स्नेह्यस्वेद्यवम्यविरेच्यविविधौषधोपचाराणां च कुशलाः शिरोरोगादेर्दोषांशविकल्पजस्य च व्याधिसंग्रहस्य सक्षयपिडकाविद्रधेस्त्रयाणां च शोफानां बहुविधशोफानुबन्धानामष्टचत्वारिंशतश्च रोगाधिकरणानां चत्वारिंशदुत्तरस्य च नानात्मजस्य व्याधिशतस्य तथा विगर्हितातिस्थूलातिकृशानां सहेतुलक्षणोपक्रमाणां स्वप्नस्य च हिताहितस्यास्वप्नातिस्वप्नस्य च सहेतूपक्रमस्य षण्णां च लङ्घनादीनामुपक्रमाणां संतर्पणापतर्पणजानां च रोगाणां सरूप्रशमनानां शोणितजानां च व्याधीनां मदमूर्च्छायसंन्यासानां च सकारणरूपौषधोपचाराणां कुशलाः कुशलाश्चाहारविधिविनिश्चयस्य प्रकृत्या हिताहितानामाहारविकाराणामग्र्यसंग्रहस्यासवानां च चतुरशीतेर्द्रव्यगुणकर्मविनिश्चयस्य रसानुरससंश्रयस्य सविकल्पवैरोधिकस्य द्वादशवर्गाश्रयस्य चान्नपानस्य सगुणप्रभावस्य सानुपानगुणस्य नवविधस्यार्थसंग्रहस्याहारगतेश्च हिताहितोपयोगविशेषात्मकस्य च शुभाशुभविशेषस्य धात्वाश्रयाणां च रोगाणां सौषधसंग्रहाणां दशानां च प्राणायतनाना यं च वक्ष्याम्यर्थेदशमहामूलीये त्रिंशत्तमाध्याये तत्र च कृत्स्नस्य तन्त्रोद्देशलक्षणस्य तन्त्रस्य च ग्रहणधारणविज्ञानप्रयोगकर्मकार्यकालकर्तृकरणकुशलाः कुशलाश्च स्मृतिमतिशास्त्रयुक्तिज्ञानस्यात्मनः शीलगुणैरविसंवादनेन च संपादनेन सर्वप्राणिषु चेतसो मैत्रस्य मातापितृभ्रातृबन्धुवत् एवंयुक्ता भवन्त्यग्निवेश प्राणानामभिसरा हन्तारो रोगाणामिति ७
अतो विपरीता रोगाणामभिसरा हन्तारः प्राणानां भिषक्छद्मप्रतिच्छन्नाः कण्टकभूता लोकस्य प्रतिरूपकसधर्माणो राज्ञां प्रमादाच्चरन्ति राष्ट्राणि ८
तेषामिदं विशेषविज्ञानं भवति अत्यर्थं वैद्यवेशेन श्लाघमाना विशिखान्तरमनुचरन्ति कर्मलोभात् श्रुत्वा च कस्यचिदातुर्यमभितः परिपतन्ति संश्रवणे चास्यात्मनो बैद्यगुणानुद्यैर्वदन्ति यश्चास्य वैद्यः प्रतिकर्म करोति तस्य च दोषान्मुहुर्महुरुदाहरन्ति आतुरमित्राणि च प्रहर्षणोपजापोपसेवादिभिरिच्छन्त्यात्मीकर्तुं स्वल्पेच्छुतां चात्मनः ख्यापयन्ति कर्म चासाद्य मुहुर्मुहुरवलोकयन्ति दाक्ष्येणाज्ञानमात्मनः प्रच्छादयितुकामाः व्याधिं चापावर्तयितुमशक्नुवतो व्याधितमेवानुपकरणमपरिचारकमनात्मवन्तमुपदिशन्ति अन्तगतं चैनमभिसमीक्ष्यान्यमाश्रयन्ति देशमपदेशमात्मनः कृत्वा प्राकृतजनसन्निपाते चात्मनः कौशलमकुशलवद्वर्णयन्ति अधीरवच्च धैर्यमपवदन्ति धीराणां विद्वज्जनसन्निपातं चाभिसमीक्ष्य प्रतिभयमिव कान्तारमध्वगाः परिहरन्ति दूरात् यश्चैषां कश्चित् सूत्रावयवो भवत्युपयुक्तस्तमप्रकृते प्रकृतान्तरे वा सततमुदाहरन्ति न चानुयोगमिच्छन्त्यनुयोक्तुं वा मृत्योरिव चानुयोगादुद्विजन्ते न चैषामाचार्यः शिष्यः सब्रह्मचारी वैवादिको वा कश्चित् प्रज्ञायत इति ९
भवन्ति चात्र--
भिषक्छद्म प्रविश्यैवं व्याधितांस्तर्कयन्ति ये
वीतंसमिव संश्रित्य वने शाकुन्तिका द्विजान् १०
श्रुतदृष्टक्रियाकालमात्राज्ञानबहिष्कृताः
वर्जनीया हि ते मृत्योश्चरन्त्यनुचरा भुवि ११
वृत्तिहेतोर्भिषङ्मानपूर्णान् मूर्खविशारदान्
वर्जयेदातुरो विद्वान् सर्पास्ते पीतमारुताः १२
ये तु शास्त्रविदो दक्षाः शुचयः कर्मकोविदाः
जितहस्ता जितात्मानस्तेभ्यो नित्यं कृतं नमः १३
तत्र श्लोकः--
दशप्राणायतनिके श्लोकस्थानार्थसंग्रहः
द्विविधा भिषजश्चोक्ताः प्राणस्यायतनानि च १४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंकृते श्लोकस्थाने दशप्राणायतनीयो
नामोनत्रिंशोऽध्यायः २९

त्रिंशोऽध्यायः
अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अर्थे दश महामूलाः समासक्ता महाफलाः
महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः ३
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम् ४
प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते
गोपानसीनामागारकर्णिकेवार्थचिन्तकैः ५
तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति
यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम् ६
तत् परस्यौजसः स्थानं तत्र चैतन्यसंग्रहः
हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः ७
तेन मूलेन महता महामूला मता दश
ओजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः ८
येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः
यदृते सर्वभूतानां जीवितं नावतिष्ठते ९
यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः
संवर्तमानं हृदयं समाविशति यत् पुरा १०
यस्य नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम्
यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः ११
तत्फला बहुधा वा ताः फलन्तीव महाफलाः
ध्मानाद्धमन्यः स्त्रवणात् स्त्रोतांसि सरणात्सराः १२
तन्महत् ता महामूलास्तच्चौजः परिरक्षता
परिहार्या विशेषेण मनसो दुःखहेतवः १३
हृद्यं यत् स्याद्यदौजस्यं स्रोतसां यत् प्रसादनम्
तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च १४
अथ खल्वेकं प्राणवर्धनानामुत्कृष्टतममेकं बलवर्धनामेकं बृंहणानामेकं नन्दनानामेकं हर्षणानामेकमयनानामिति तत्राहिंसा प्राणिनां प्राणिनां प्राणवर्धनानामुत्कृष्टतमं वीर्यं वलवर्धनानां विद्या बृंहणानाम् इन्द्रियजयो नन्दनानां तत्त्वावबोधो हर्षणानां ब्रह्मचर्यमयनानाम्मिति एवमायुर्वेदविदो मन्यन्ते १५
तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्याः तत्राह--कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्चोक्तानि भन्तीति १६
अत्रोच्यते--तन्त्रमार्षं कार्त्स्न्येन यथाम्नायमुच्यमानं वाक्यशो भवत्युक्तम् १७
बुद्ध्या सम्यगनुप्रविश्यार्थतत्त्वं वाग्भिर्व्याससमासप्रतिज्ञाहेतूदाहरणोपनयनिग-मनयुक्ताभिस्त्रिविधशिष्यबुद्धिगम्याभिरुच्यमानं वाक्यार्थशो भवत्युक्तम् १८
तन्त्रनियतानामर्थदुर्गाणां पुनर्विभावनैरुक्तमर्थावयवशो भवत्युक्तम् १९
तत्र चेत् प्रष्टारः स्युः चतुर्णामृक्सामयजुरथर्ववेदानां कं वेदमुपदिशन्त्यायुर्वेदविदः किमायुः कस्मादायुर्वेदः किमर्थमायुर्वेदः शाश्वतोऽशाश्वतो वा कति कानि चास्याङ्गानि कैश्चायमध्येतव्यः किमर्थं च इति २०
तत्र भिषजा पृष्टेनैवं चतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे भक्तिरादेश्या वेदो ह्याथर्वणो दानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह चिकित्सा चायुषो हितायोपदिश्यते २१
वेदं चोपदिश्यायुर्वाच्यं तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थः २२
तदायुर्वेदयतीत्यायुर्वेदः कथमिति चेत् उच्यतेस्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणातश्च यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः तत्रायुष्याण्यनाष्युयाणि च द्रव्यगुणकर्माणि केवलेनोपदेक्ष्यन्ते तन्त्रेण २३
तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशः पौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते असुखमतो विपर्ययेण हितैषिणः पुनर्भूप्तानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसंपूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनः सुनियतरागरेषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुं चावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते अहितमतो विपर्ययेण २४
प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः अयमस्मात् क्षणान्मुहूर्ताद्दिवसात्त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति तत्र स्वभावः प्रवृत्तेरुपरमो मरणमनित्यता निरोध इत्येकोऽर्थः इत्यायुषः प्रमाणम् अतो विपरीतमप्रमाणमरिष्टाधिकारे देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणमायुर्वेदे २५
प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च २६
सोऽयमायुर्वेदः शाश्वतो निर्दिश्यते अनादित्वात् स्वभावसंसिद्धलक्षणत्वात् भावस्वभावनित्यत्वाच्च न हि नाभुत् कदाचिदायुषः सन्तानोबुद्धिसन्तानो वा शाश्वतश्चायुषो वेदिताअनादि च सुखदुःखं सद्रव्यहेतुलक्षणमपरापरयोगात् एष चार्थसंग्रहो विभाव्यते आयुर्वेदलक्षणमिति गुरुलघुशीतोष्णस्निग्धरूक्षादीनां द्रव्याणां सामान्यविशेषाभ्यां वृद्धिह्रासौ यथोक्तं--गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनां एवमेवेतरेषामिति एष भावस्वभावो नित्यः स्वलक्षणं च द्रव्याणां पृथिव्यादीनां सन्ति तु द्रव्याणि दुणाश्च नित्या नित्याः नह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते अन्यत्रावबोधोपदेशाभ्याम् एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिशन्त्येके स्वाभाविकं चास्य लक्षणमकृतकं यदुक्तमिहाद्येऽध्याये च यथाअग्नेरौष्ण्यम् अपां द्रवत्वम् भावस्वभावनित्यत्वमपि चास्य यथोक्तं--गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामिति २७
तस्यायुर्वेदस्याङ्गान्यष्टौ तद्यथा कायचिकित्सा शालाक्यं शल्यापहर्तृकं विषगरवैरोधिकप्रशमनं भूतविद्या कोमारभृत्यकं रसायनं वाजीकरणमिति २८
स चाध्येतव्यो ब्राह्मणराजन्यवैश्यैः तत्रानुग्रहार्थं प्राणिनां ब्राह्मणैःआरक्षार्थं राजन्यैःवृत्त्यर्थं वैश्यैः सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सर्वैः तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने प्रयत्नवान् भवति यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा सोऽस्य परो धर्मः या पुनरीश्वराणां वसुमतां वा सकाशात् सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा सोऽस्यार्थः यत् पुनरस्य विद्वद्ग्रहणयशः शरण्यत्वं च या च संमानशुश्रूषा यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य
कामः इति यथाप्रश्नमुक्तमशेषेण २९
अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति--तन्त्रं तन्त्रार्थान् स्थानं स्थानार्थान् अध्यायम् अध्यायार्थान् प्रश्नं प्रश्नार्थांश्चेति पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति ३०
तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमिप्यनर्थान्तरम् ३१
तन्त्रार्थः पुनः स्वलक्षणैरुपदिष्टः स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्चयाद्दशप्रकरणः तानि च प्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण ३२
तन्त्रस्यास्याष्टौ स्थानानि तद्यथा--श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि तत्र त्रिंशदध्यायकं श्लोकस्थानम् अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि द्वादशकमिन्द्रियाणां त्रिशकं चिकित्सितानां द्वादशके कल्पसिद्धिस्थाने भवतः ३३
भवति चात्र--
द्वे त्रिंशके द्वादशकं त्रयं च त्रीण्यष्टकान्येषु समाप्तिरुक्ता
श्लोकौषधारिष्टविकल्पसिद्धिनिदानमानाश्रयसंज्ञकेषु ३४
स्वे स्वे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते
सविंशध्यायशतं शृणु नामक्रमागतम् ३५
दीर्घञ्जीवोऽप्यपामार्गतण्डुलारग्वधादिकौ
षड्विरेकाश्रयश्चेति चतुष्को भेषजाश्रयः ३६
मात्रातस्याशितीयौ च नवेगान्धारणं तथा
इन्द्रियोपक्रमश्चेति चत्वारः स्वास्थ्यवृत्तिकाः ३७
खुड्डाकश्च चतुष्पादो महांस्तिस्रैषणस्तथा
सह वातकलाख्येन विद्यान्नैर्देशिकान् बुधः ३८
स्रेहनस्वेदनाध्यायावुभौ यश्चोपकल्पनः
चिकित्साप्राभृतश्चैव सवं एव प्रकल्पनः ३९
कियन्तः शिरसीयश्च त्रिशोफाष्टोदरादिकौ
रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम् ४०
अष्टौनिन्दितसंख्यातस्तथा लङ्घनतर्पणे
विधिशोणितिकश्चैव व्याख्यातास्तत्र योजनाः ४१
यज्जःपुरुषसंख्यातो भद्रकाप्यान्नपानिकौ
विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चयाः ४२
दशप्राणायतनिकस्तथाऽर्थेदशमूलिकः
द्वावेतौ प्राणदेहार्थौ प्रोक्तौ वैद्यगुणाश्रयौ ४३
औषधस्वस्थनिर्देशकल्पनारोगयोजनाः
चतुष्काःषट् क्रमेणोक्ताःसप्तमश्चान्नपानिकः ४४
द्वौ चान्त्यौ संग्रहाध्यायाविति त्रिंशकमर्थवत्
श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् ४५
चतुष्काणां महार्थानां स्थानेऽस्मिन् संग्रहः कृतः
श्लोकार्थः संग्रहार्थश्च श्लोकस्थानमतः स्मृतम् ४६
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः
शोषोन्मादनिदाने च स्यादपस्मारिणां च यत् ४७
इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते
रसेषु न्रिविधो कुक्षौ ध्वंसे जनपदस्य च ४८
त्रिविधे रोग विज्ञाने स्रोतःस्वपि च वर्तने
रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते ४९
अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा
कतिधापुरुषीयं च गोत्रेणातुल्यमेव च ५०
खुड्डिका महती चैव गर्भावक्रान्तिरुच्यते
पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चितौ ५१
शरीरसंख्या सूत्रं च जातेरष्टममुच्यते
इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना ५२
वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्शनः
चतुर्थ इन्द्रियानीकः पञ्चमः पूर्वरूपिकः ५३
कतमानि शरीरीयः पन्नरूपोऽप्यवाक्शिराः
यस्यश्यावनिमित्तश्च सद्योमरण एव च ५४
अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान्
द्वादशाध्यायकं स्थानमिन्द्रियाणामिति स्मृतम् ५५
अमयामलकीयं च प्राणकामीयमेव च
करप्रचितकं वेदसमुत्थानं रसायनम् ५६
संयोगशरमूलीयमासिक्तक्षीरकं तथा
माषपर्णभृतीयं च पुमान् जातबलादिकम् ५७
चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते
रसायनमिति ज्ञेयं वाजीकरणमेव च ५८
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः
शोषोन्मादेऽप्यपस्मारे क्षतशोथोदरार्शसाम् ५९
ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम्
छर्दिवीसर्पतृष्णानां विषमद्यविकारयोः ६०
द्विव्रणीयं त्रिमर्मीयमूरुस्तम्भिकमेव च
वातरोगे वातरक्ते योनिव्यापत्सु चैव यत् ६१
त्रिंशच्चिकित्सितान्युक्तानि अतः कल्पान् प्रचक्ष्महे
फलजीमूतकेक्ष्वाकुकल्पो धामार्गवस्य च ६२
पञ्चमो वत्सकस्योक्तः पष्ठश्च कृतवेधने
श्यामात्रिवृतयोः कल्पस्तथैव चतुरङ्गले ६३
तिल्वकस्य सुधायाश्च सप्तलाशाङ्खिनीषु च
दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते ६४
कल्पना पञ्चकर्माख्या बस्तिसूत्री तथैव च
स्नेहव्यापदिकी सिद्धिर्नेत्रव्यापदिकी तथा ६५
सिद्धिः शीधनयोश्चैव बस्तिसिद्धिस्तथैव च
प्रासृती मर्मसंख्याता सिद्धिर्बस्त्याश्रया च या ६६
फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तर संज्ञिता
सिद्धयो द्वादशैवैतास्तन्त्रं चात्र समाप्यते ६७
स्वे स्वे स्थाने तथाऽध्याये चाध्यायार्थः प्रवक्ष्यते
तं ब्रूयात् सर्वतः सर्वं यथास्वं ह्यर्थसंग्रहात् ६८
पृच्छा यन्त्राद्यथाम्नायं विधिना प्रश्न उच्चते
प्रश्नार्थो युक्तिमांस्तस्य तन्त्रणैवार्थनिश्चयः ६९
निरुक्तं तन्त्रणात्तन्त्रं स्थानमर्थप्रतिष्ठया
अधिकृत्यार्थमध्यायनामसंज्ञा प्रतिष्ठिता ७०
इति सर्वं यथाप्रश्नमष्टकं संप्रकाशितम्
कार्त्स्न्येन चोक्तस्तन्त्रस्य संग्रहः सुविनिश्चितः ७१
सन्ति पाल्लविकोत्पाताः संक्षोभं जनयन्ति ये
वर्तकानामिवोत्पाताः सहसैवाविभाविताः ७२
तस्मात्तान् पूर्वसंजल्पे सर्वत्राष्टकमादिशेत्
परावरपरीक्षार्थं तत्र शास्त्रविदां बलम् ७३
शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिकाः
भ्रमन्त्यल्पबलास्तन्त्रे ज्याशब्देनेव वतकाः ७४
पशुः पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते
स सत्यं वृकमासाद्यं प्रकृतिं भजते पशुः ७५
तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौखर्यसाधनः
स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते ७६
बभ्रुर्गूढ इवोर्णाभिरबुद्धिरबहुश्रुतः
किं वै वक्ष्यति संजल्पे कुण्डभेदी जडो यथा ७७
सद्वृत्तैर्न विगृह्णीयात् भिषगल्पश्रुतैरपि
हन्यात् प्रश्नाष्टकेनादावितरांस्त्वाप्तमानिनः ७८
दम्भिनो मुखरा ह्यज्ञाः प्रभूताबद्धभाषिणः
प्रायः प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः ७९
तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रितः
स्वल्पधारज्ञमुखरान्मर्षयेन्न विवादिनः ८०
परो भूतेष्वनुक्रोश स्तत्वज्ञाने परा दया
येषां तेषामसद्वादनिग्रहे निरता मतिः ८१
असत्पक्षाक्षणित्वार्तिदम्भपारुष्यसाधनाः
भवन्त्यनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः ८२
तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्
प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्तमाः ८३
समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम्
सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम् ८४
इदमेवमुदारार्थमज्ञानां न प्रकाशकम्
शास्त्रं दृष्टि प्रणष्टानां यथैवादित्यमण्डलम् ८५
तत्रश्लोकाः--
अर्थे दशमहामूलाः संज्ञा चासां यथा कृता
अयनान्ताः षडग्र्याश्च रूपं वेदविदां च यत् ८६
सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः
यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः ८७
अर्थे दशमहामूले सर्वमेतत् प्रकाशितम्
संग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः ८८
यथा सुमनसां सूत्रं संग्रहार्थं विधीयते
संग्रहार्थं तथाऽर्थानामृषिणा संग्रहः कृतः ८९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थदशमहामूलीयो नाम
त्रिंशोऽध्यायः ३०
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते
इयताऽवधिना सर्वं सूत्रस्थानं समाप्यते ९०
इति सूत्रस्थान समाप्ता