इन्द्रियस्थान

प्रथमोऽध्यायः
अथातो वर्णस्वरीयामन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलं चाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं च लाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च च्छाया च प्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चौत्पातिकं चातुरकुले भावावस्थान्तराणि च भेषजसंवृत्तिश्च भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैरायुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा ३
तत्र तु खल्वेषां परीक्ष्याणां कानिचित् पुरुषमनाश्रितानि कानिचिच्च पुरुषसंश्रयाणि तत्र यानि पुरुषमनाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत पुरुषसंश्रयाणि पुनः प्रकृतितो विकृतितश्च ४
तत्र प्रकृतिर्जातिप्रसक्ता च कुलप्रसक्ता च देशानुपातिनी च कालानुपातिनी च वयोऽनुपातिनी च प्रत्यात्मनियता चेति जातिकुलदेशकालवयःप्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भावविशेषा भवन्ति ५
विकृतिः पुनर्लक्षणनिमित्ता च लक्ष्यनिमित्ता च निमित्तानुरूपा च ६
तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात् लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति यानि हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति १
लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं निदानेषु २
निमित्तानुरूपा तु निमित्तार्थानुकारिणी या तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतलिङ्गानुरूपां यामायुषोऽन्तर्गतस्य ज्ञानार्थमुपदिशन्ति धीराः यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः इत्युद्देशः तं विस्तरेणानुव्याख्यास्यामः ७
तत्रादित एव वर्णाधिकारः तद्यथा--कृष्णः श्यामः श्यामावदातः अवदातश्चेति प्रकृतिवर्णाः शरीरस्य भवन्ति यांश्चापरानुपेक्षमाणो विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैःनीलश्यावताम्रहरितशुक्लाश्च वर्णाः शरीरस्य वैकारिका भवन्ति यांश्चापरानुपेक्षमाणो विद्यात् प्राग्विकृतानभूत्वोत्पन्नान् इति प्रकृतिविकृतिवर्णा भवन्त्युक्ताः शरीरस्य ८
तत्र प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे द्वावपि वर्णौ मर्यादाविभक्तौ दृष्ट्वा यद्येवं सव्यदक्षिणविभागेन यद्येवं पूर्वपश्चिमविभागेन यद्युत्तराधरविभागेन यद्यन्तर्बहिर्विभागेन आतुरस्यारिष्टमिति विद्यात् एवमेव वर्णभेदो मुखेऽप्यन्यत्र वर्तमानो मरणाय भवति ९
वर्णभेदेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः १०
तथा पिप्लुव्यङ्गतिलकालकपिडकानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्रप्रशस्तं विद्यात् ११
नखनयनवदनमूत्रपुरीषहस्तपादौष्ठादिष्वपि च वैकारिकोक्तानां वर्णानामन्यतमस्य प्रादुर्भावो हीनबलवर्णेन्द्रियेषु लक्षणमायुषः क्षयस्य भवति १२
यच्चान्यदपि किंचिद्वर्णवैकृतमभूतपूर्वं सहसोत्पद्येतानिमित्तमेव हीयमानस्यातुरस्य शश्वत् तदरिष्टमिति विद्यात् इति वर्णाधिकारः १३
स्वराधिकारस्तु--हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतजर्जरानुकाराः प्रकृतिस्वरा भवन्ति यांश्चापरानुपेक्षमाणोऽपि विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः एडककलग्रस्ताव्यक्तगद्गदक्षामदीनानुकीर्णास्त्वातुराणां स्वरा वैकारिका भवन्ति यांश्चापरानुपेक्षमाणोऽपि विद्यात् प्राग्विकृतानभूत्वोत्पन्नान् इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति १४
तत्र प्रकृतिवैकारिकाणां स्वराणामाश्वभिनिर्वृत्तिः स्वरानेकत्वमेकस्य चानेकत्वमप्रशस्तम् इति स्वराधिकारः १५
इति वर्णस्वराधिकारौ यथावदुक्तौ मुमूर्षतां लक्षणज्ञानार्थमिति १६
भवन्ति चात्र--
यस्य वैकारिको वर्णः शरीर उपपद्यते
अर्धे वा यदि वा कृत्स्ने निमित्तं न च नास्ति सः १७
नीलं वा यदि वा श्यावं ताम्रं वा यदि वाऽरुणम्
मुखार्धमन्यथा वर्णो मुखार्धेऽरिष्टमुच्यते १८
स्नेहो मुखार्धे सुव्यक्तो रौक्ष्यमर्धमुखे भृशम्
ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम् १९
तिलकाः पिप्लवो व्यङ्गा राजयश्च पृथग्विधाः
आतुरस्याशु जायन्ते मुखे प्राणान् मुमुक्षतः २०
पुष्पाणि नखदन्तेषु पङ्को वा दन्तसंश्रितः
चूर्णको वाऽपि दन्तेषु लक्षणं मरणस्य तत् २१
ओष्ठयोः पादयोः पाण्योरक्ष्णोर्मूत्रपुरीषयोः
नखेष्वपि च वैवर्ण्यमेतत् क्षीणबलेऽन्तकृत् २२
यस्य नीलावुभावोष्ठो पक्वजाम्बवसन्निभौ
मुमूर्षुरिति तं विद्यान्नरो धीरो गतायुषम् २३
एको वा यदि वाऽनेको यस्य वैकारिकः स्वरः
सहसोत्पद्यते जन्तोर्हीयमानस्य नास्ति सः २४
यच्चान्यदपि किञ्चित् स्याद्वैकृतं स्वरवर्णयोः
बलमांसविहीनस्य तत् सर्वं मरणोदयम् २५
तत्र श्लोकः--
इति वर्णस्वरावुक्तौ लक्षणार्थं मुमूर्षताम्
यस्तौ सम्यग्विजानाति नायुर्ज्ञाने स मुह्यति २६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने वर्णस्वरीयमिन्द्रियं नाम
प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातः पुष्पितकमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः
तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः ३
अप्येवं तु भवेत् पुष्पं फलेनाननुबन्धि यत्
फलं चापि भवेत् किञ्चिद्यस्य पुष्पं न पूर्वजम् ४
न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते
मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम् ५
मिथ्यादृष्टमरिष्टाभमनरिष्टमजानता
अरिष्टं वाऽप्यसंबुद्धमेतत् प्रज्ञापराधजम् ६
ज्ञानसंबोधनार्थं तु लिङ्गैर्मरणपूर्वजैः
पुष्पितानुपदेक्ष्यामो नरान् बहुविधैर्बहून् ७
नानापुष्पोपमो गन्धो यस्य भाति दिवानिशम्
पुष्पितस्य वनस्येव नानाद्रुमलतावतः ८
तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः
स ना संवत्सराद्देहं जहातीति विनिश्चयः ९
एवमेकैकशः पुष्पैर्यस्य गन्धः समो भवेत्
इष्टैर्वा यदि वाऽनिष्टैः स च पुष्पित उच्यते १०
समासेनाशुभान् गन्धानेकत्वेनाथवा पुनः
आजिघ्रेद्यस्य गात्रेषु तं विद्यात् पुष्पितं भिषक् ११
आप्लुतानाप्लुते काये यस्य गन्धाः शुभाशुभाः
व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते १२
तद्यथा चन्दनं कुष्ठं तगरागुरुणी मधु
माल्यं मूत्रपुरीषे च मृतानि कुणपानि च १३
ये चान्ये विविधात्मानो गन्धा विविधयोनयः
तेऽप्यनेनानुमानेन विज्ञेया विकृतिं गताः १४
इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम्
वक्ष्यामो यदभिज्ञाय भिषङ्मरणमादिशेत् १५
वियोनिर्विदुरो गन्धो यस्य गात्रेषु जायते
इष्टो वा यदि वाऽनिष्टो न स जीवति तां समाम् १६
एतावद्गन्धविज्ञानं रसज्ञानमतः परम्
आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम् १७
यो रसः प्रकृतिस्थानां नराणां देहसंभवः
स एषां चरमे काले विकारं भजते द्वयम् १८
कश्चिदेवास्यवैरस्यमत्यर्थमुपपद्यते
स्वादुत्वमपरश्चापि विपुलं भजते रसः १९
तमनेनानुमानेन विद्याद्विकृतिमागतम्
मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात् २०
मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह
विरसादपसर्पन्ति जन्तोः कायान्मुमूर्षतः २१
अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः
अपि स्नातानुलिप्तस्य भृशमायान्ति सर्वशः २२
तत्र श्लोकः--
सामान्येन मयोक्तानि लिङ्गानि रसगन्धयोः
पुष्पितस्य नरस्यैतत्फलं मरणमादिशेत् २३
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पुष्पितकमिन्द्रियं नाम
द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
वर्णे स्वरे च गन्धे च रसे चोक्तं पृथक् पृथक् लिङ्गं मुमूर्षतां सम्यक् स्पर्शेष्वपि निबोधत ३
स्पर्शप्राधान्येनैवातुरस्यायुषः प्रमाणावशेषं जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत् परिमर्शयेद्वाऽन्येन परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्रावबोद्धव्या भवन्ति तद्यथा--सततं स्पन्दमानानां शरीरदेशानामस्पन्दनं नित्योष्मणां शीतीभावः मृदूनां दारुणत्वं श्लक्ष्णानां खरत्वं सतामसद्भावः सन्धीनां स्रंसभ्रंशच्यवनानि मांसशोणितयोर्वीतीभावः दारुणत्वं स्वेदानुबन्धः स्तम्भो वा यच्चान्यदपि किञ्चिदीदृशं स्पर्शानां लक्षणं भृशविकृतमनिमित्तं स्यात् इति लक्षणं स्पृश्यानां भावानामुक्तं समासेन ४
तद्व्यासतोऽनुव्याख्यास्यामः--तस्य चेत् परिमृश्यमानं पृथक्त्वेन पादजङ्घोरुस्फिगुदरपार्श्वपृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं स्विन्नं शीतं स्तब्धं दारुणं वीतमांसणोणितं वा स्यात् परासुरयं पुरुषो न चिरात् कालं मरिष्यतीति विद्यात् तस्य चेत् परिमृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षणगुदवृषणमेढ्रनाभ्यंसस्तनमणिकपर्शुकाहनुनासिकाकर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्यः स्कन्नानि वा स्युः परासुरयं पुरुषोऽचिरात् कालं मरिष्यतीति विद्यात् ५
तथाऽस्योच्छ्वासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीरालक्षयेत् तस्य चेदुच्छ्वासोऽतिदीर्घोऽतिह्रस्वो वा स्यात् परासुरिति विद्यात् तस्य चेन्मन्ये परिभृश्यमाने न स्पन्देयातां परासुरिति विद्यात् तस्य चेद्दन्ताः परिकीर्णाः श्वेता जातशर्कराः स्युः परासुरिति विद्यात् तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः परासुरिति विद्यात् तस्य चेच्चक्षुषी प्रकृतिहीने विकृतियुक्ते--अत्युत्पिण्डिते अतिप्रविष्टे अतिजिह्मे अतिविषमे अतिमुक्तबन्धने अतिप्रस्रुते सततोन्मिषिते सततनिमिषिते निमिषोन्मेषातिप्रवृत्ते विभ्रान्तदृष्टिके विपरीतदृष्टिके हीनदृष्टिके व्यस्तदृष्टिके नकुलान्धे कपोतान्धे अलातवर्णे कृष्णपीतनीलश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वा स्यातां तदा परासुरिति विद्यात् अथास्य केशलोमान्यायच्छेत् तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न चेद्वेदयेयुस्तं परासुरिति विद्यात् तस्य चेदुदरे सिराः प्रकाशेरञ् श्यावताम्रनीलहारिद्रशुक्ला वा स्युः परासुरिति विद्यात् तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बववर्णाः स्युः परासुरिति विद्यात्अथास्याङ्गुलीरायच्छेत् तस्य चेदङ्गुलय आयम्यमाना न स्फुटेयुः परासुरिति विद्यात् ६
तत्र श्लोकः--
एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते
आतुरे न स संमोहमायुर्ज्ञानस्य गच्छति ७
इत्यग्निवेशकृते तन्त्रे चर्रकप्रतिसंस्कृते इन्द्रियस्थाने परिमर्शनीयमिन्द्रियं
नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्
ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत ३
अनुमानात परीक्षेत दर्शनादीनि तत्त्वतः
अद्धा हि विदितं ज्ञानमिन्द्रियाणामतीन्द्रियम् ४
स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम्
आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत् ५
इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्
तदेव तु पुनर्भूयो विस्तरेण निबोधत ६
घनीभूतमिवाकाशमाकाशमिव मेदिनीम्
विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति ७
यस्य दर्शनमायाति मारुतोऽम्बरगोचरः
अग्निर्नायाति चादीप्तस्तस्यायुःक्षयमादिशेत् ८
जले सुविमले जालमजालावतते नरः
स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते ९
जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि च
अन्यद्वाऽप्यद्भुतं किञ्चिन्न स जीवितुमर्हति १०
योऽग्निं प्रकृतिवर्णस्थ नीलं पश्यति निष्प्रभम्
कृष्णं वा यदि वा शुक्लं निशां व्रजति सप्तमीम् ११
मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे
विद्युतो वा विना मेघैः पश्यन् मरणमृच्छति १२
मृन्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम्
आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति १३
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्
अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम् १४
नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम्
अग्निं वा निष्प्रभं रात्रो दृष्ट्वा मरणमृच्छति १५
प्रभावतः प्रभाहीनान्निष्प्रभांश्च प्रभावतः
नरा विलिङ्गान् पश्यन्ति भावान् भावाञ्जिहासवः १६
व्याकृतीनि विवर्णानि विसंख्योपगतानि च
विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः १७
यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति
तावुभौ पश्यतः क्षिप्रं यमक्षयमसंशयम् १८
अशब्दस्य च यः श्रोता शब्दान् यश्च न बुध्यते
द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता १९
संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः
न शृणोति गतासुं तं बुद्धिमान् परिवर्जयेत् २०
विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम्
न वा तान् सर्वशो विद्यात्तं विद्याद्विगतायुषम् २१
यो रसान्न विजानाति न वा जानाति तत्त्वतः
मुखपाकादृते पक्वं तमाहुः कुशला नरम् २२
उष्णाञ्छीतान् खराञ्छ्लक्ष्णान्मृदूनपि च दारुणान्
स्पृश्यान् स्पृष्ट्वा ततोऽन्यत्वं मुमूर्षुस्तेषु मन्यते २३
अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्
इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति २४
इन्द्रियाणामृते दृष्टेरिन्द्रियार्थानदोषजान्
नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीवति २५
स्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतम्
पश्यन्ति येऽसद्बहुशस्तेषां मरणमादिशेत् २६
तत्र श्लोकः--
एतदिन्द्रियविज्ञानं यः पश्यति यथातथम्
मरणं जीवितं चैव स भिषक् ज्ञातुमर्हति २७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने इन्द्रियानीकमिन्द्रियं
नाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक्
भिन्नाभिन्नानि वक्ष्यामो भिषजां ज्ञानवृद्धये ३
पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया
यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः ४
अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्
विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम् ५
पूर्वरूपैकदेशांस्तु वक्ष्यामोऽन्यान् सुदारुणान्
ये रोगाननुबध्नन्ति मृत्युर्यैरनुबध्यते ६
बलं च हीयते यस्य प्रतिश्यायश्च वर्धते
तस्य नागीप्रसक्तस्य शोषोऽन्तायोपजायते ७
श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम्
स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति ८
प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना
सुघोरं ज्वरमासाद्य जीवितं स विमुञ्चति ९
लाक्षारक्ताम्बराभं यः पश्यत्यम्वरमन्तिकात्
स रक्तपितमासाद्य तेनैवान्ताय नीयते १०
रक्तस्रग्रक्तसर्वाङ्गो रक्तवासा मुहुर्हसन्
यः स्वप्ने ह्रियते नार्या स रक्तं प्राप्य सीदति ११
शूलाटोपान्त्रकूजाश्च दौर्बल्यं चातिमात्रया
नखादिषु च वैवर्ण्यं गुल्मेनान्तकरो ग्रहः १२
लता कण्टकिनी यस्य दारुणा हृदि जायते
स्वप्ने गुल्मस्तमन्ताय क्रूरो विशति मानवम् १३
कायेऽल्पमपि संस्पृष्टं सुभृशं यस्य दीर्यते
क्षतानि च न रोहन्ति कुष्ठैर्मृत्युर्हिनस्ति तम् १४
नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमनर्चिषम्
पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैर्मरिष्यतः १५
स्नातानुलिप्तगात्रेऽपि यस्मिन् गृध्नन्ति मक्षिकाः
स प्रमेहेण संस्पर्शं प्राप्य तेनैव हन्यते १६
स्नेहं बहुविधं स्वप्ने चण्डालैः सह यः पिबेत्
बध्यते स प्रमेहेण स्पृश्यतेऽन्ताय मानवः १७
ध्यानायासौ तथोद्वेगो मोहश्चास्थानसंभवः
अरतिर्बलहानिश्च मृत्युरुन्मादपूर्वकः १८
आहारद्वेषिणं पश्यन् लुप्तचित्तमुदर्दितम्
विद्याद्धीरो मुमूर्षुं तमुन्मादेनातिपातिना १९
क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम्
मूर्च्छापिपासाबहुलं हन्त्युन्मादः शरीरिणम् २०
नृत्यन् रक्षोगणैः साकं यः स्वप्नेऽम्भसि सीदति
स प्राप्य भृशमुन्मादं याति लोकमतः परम् २१
असत्तमः पश्यति यः शृणोत्यप्यसतः स्वनान्
बहून् बहुविधान् जाग्रत्सोऽपस्मारेण बध्यते २२
मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम्
स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः २३
स्तभ्येते प्रतिबुद्धस्य हनू मन्ये तथाऽक्षिणी
यस्य तं बहिरायामो गृहीत्वा हन्त्यसंशयम् २४
शष्कुलीर्वाऽप्यपूपान् वा स्वप्ने खादति यो नरः
स चेत्तादृक् छर्दयति प्रतिबुद्धो न जीवति २५
एतानि पूर्वरूपाणि यः सम्यगवबुध्यते
स एषामनुबन्धं च फलं च ज्ञातुमर्हति २६
इमांश्चाप्यपरान् स्वप्नान् दारुणानुपलक्षयेत्
व्याधितानां विनाशाय क्लेशाय महतेऽपि वा २७
यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः
वयांसि च विलीयन्ते स्वप्ने मौण्ड्यमियाच्च यः २८
गृध्रोलूकश्वकाकाद्यैः स्वप्ने यः परिवार्यते
रक्षःप्रेतपिशाचस्त्रीचण्डालद्रविडान्ध्रकैः २९
वंशवेत्रलतापाशतृणकण्टकसङ्कटे
संसज्जति हि यः स्वप्ने यो गच्छन् प्रपतत्यपि ३०
भूमो पांशूपधानायां वल्मीके वाऽथ भस्मनि
श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि ३१
कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते
स्वप्ने मज्जति शीघ्रेण स्रोतसा ह्रियते च यः ३२
स्नेहपानं तथाऽभ्यङ्गः प्रच्छर्दनविरेचने
हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ ३३
उपानद्युगनाशश्च प्रपातः पादचर्मणोः
हर्षः स्वप्ने प्रकुपितैः पितृभिश्चावभर्त्सनम् ३४
दन्तचन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम्
पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा ३५
रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम्
गुहान्धकारसंबाधं स्वप्ने यः प्रविशत्यपि ३६
रक्तमाली हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्
दारुणामटवीं स्वप्ने कपियुक्तेन याति वा ३७
काषायिणामसौम्यानां नग्नानां दण्डधारिणाम्
कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम् ३८
कृष्णा पापा निराचारा दीर्घकेशनखस्तनी
बिरागमाल्यवसना स्वप्ने कालनिशा मता ३९
एत्येते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्
अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते ४०
मनोवहानां पूर्णत्वाद्दोषैरतिबलैस्त्रिभिः
स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे ४१
नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा
इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा ४२
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा
भाविकं दोषजं चैव स्वप्नं सप्तविधं विदुः ४३
तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत्
दिवास्वप्नमतिह्रस्वमतिदीर्घं च बुद्धिमान् ४४
दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो भवेत्
स स्वपेद्यं पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः ४५
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः
पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम् ४६
तत्र श्लोकः--
पूर्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान्
न स मोहादसाध्येषु कर्माण्यारभते भिषक् ४७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पूर्वरूपीयमिन्द्रियं नाम
पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
कतमानि शरीराणि व्याधिमन्ति महामुने
यानि वैद्यः परिहरेद्येषु कर्म न सिध्यति ३
इत्यात्रेयोऽग्निवेशेन प्रश्नं पृष्टः सुदुर्वचम्
आचचक्षे यथा तस्मै भगवांस्तन्निबोधत ४
यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्
अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति ५
बलं च हीयते शीघ्रं तृष्णा चातिप्रवर्धते
जायते हृदि शूलं च तं भिषक् परिवर्जयेत् ६
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते
न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशासनम् ७
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्
व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम् ८
आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्
विशतो विजहत्येनं प्राणा नातिचिरान्नरम् ९
ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः
बलमांसविहीनस्य यथा प्रेतस्तथैव सः १०
यस्य मूत्रं पुरीषं च ग्रथितं संप्रवर्तते
निरूष्मणो जठरिणः श्वसनो न स जीवति ११
श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति
जातिसङ्घं स संक्लेश्य तेन रोगेण हन्यते १२
श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके
सीदतश्चाप्युभे जङ्घे तं भिषक् परिवर्जयेत् १३
शूनहस्तं शूनपादं शूनगुह्योदरं नरम्
हीनवर्णबलाहारमौषधैर्नोपपादयेत् १४
उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः
सततं च्यवते यस्य दूरात्तं परिवर्जयेत् १५
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः
क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता १६
त्रयः प्रकुपिता यस्य दोषाः कष्टाभिलक्षिताः
कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम् १७
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये
दुर्बलस्य विशेषेण नरस्यान्ताय जायते १८
पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः
डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता १९
हनुमन्याग्रहस्तृष्णा वलह्रासोऽतिमात्रया
प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत् २०
ताम्यत्यायच्छते शर्म न किञ्चिदपि विन्दति
क्षीणमांसबलाहारो मुमूर्षुरचिरान्नरः २१
विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम्
वर्धन्ते दारुणा रोगाः शीघ्रं शीघ्रं स हन्यते २२
बलं विज्ञानमारोग्यं ग्रहणी मांसशोणितम्
एतानि यस्य क्षीयन्ते क्षिप्रं क्षिप्रं स हन्यते २३
आरोग्यं हीयते यस्य प्रकृतिः परिहीयते
सहसा सहसा तस्य मृत्युर्हरति जीवितम् ॥ २४
तत्र श्लोकः--
इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्
न ह्येषु धीराः पश्यन्ति सिद्धिं काञ्चिदुपक्रमात् २५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने कतमानिशरीरीयमिन्द्रियं
नाम षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
दृष्ट्यां यस्य विजानीयात् पन्नरूपां कुमारिकाम्
प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम् ३
ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि
अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव सः ४
छिन्ना भिन्नाऽऽकुला च्छाया हीना वाऽप्यधिकाऽपि वा
नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिरा च या ५
एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः
सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजाः ६
संस्थानेन प्रमाणेन वर्णेन प्रभया तथा
छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः ७
संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा
मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम् ८
प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु
छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया ९
खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः
नाभसी निर्मला नीला सस्नेहा सप्रभेव च १०
रूक्षा श्यावारुणा या तु वायवी सा हतप्रभा
विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया ११
शुद्धवैदूर्यविमला सुस्निग्धा चाम्भसी मता
स्थिरा स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी १२
वायवी गर्हिता त्वासां चतस्रः स्युः सुखोदयाः
वायवी तु विनाशाय क्लेशाय महतेऽपि वा १३
स्यात्तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता
रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता १४
तासां याः स्युर्विकासिन्यः स्निग्धाश्च विपुलाश्च याः
ताः शुभा रूक्षमलिनाः संक्षिप्ताश्चाशुभोदयाः १५
वर्णमाक्रामति च्छाया भास्तु वर्णप्रकाशिनी
आसन्ना लक्ष्यते च्छाया भाः प्रकृष्टा प्रकाशते १६
नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्नयन्ति तु
नृणां शभाशुभोत्पत्तिं काले छायाप्रभाश्रयाः १७
कामलाऽक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता
संत्रासश्चोष्णगात्रत्वं यस्य तं परिवर्जयेत् १८
उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः
मुहुर्मुहुर्न सप्ताहं स जीवति विकत्थनः १९
संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः
व्यापन्ना ग्रहणी प्रायः सोऽर्धमासं न जीवति २०
उपरुद्धस्य रोगेण कर्शितस्याल्पमश्नतः
बहु मूत्रपुरीषं स्याद्यस्य तं परिवर्जयेत् २१
दुर्बलो बहु भुङ्क्ते यः प्राग्भुक्तादन्नमातुरः
अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः २२
इष्टं च गुणसंपन्नमन्नमश्नाति यो नरः
शश्वच्च बलवर्णाभ्यां हीयते न स जीवति २३
प्रकूजति प्रश्वसिति शिथिलं चातिसार्यते
बलहीनः पिपासार्तः शुष्कास्यो न स जीवति २४
ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः
मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः २५
ऊर्ध्वं च यः प्रश्वसिति श्लेष्माणा चाभिभूयते
हीनवर्णबलाहारो यो नरो न स जीवति २६
ऊर्ध्वाग्रे नयने यस्य मन्ये चारतकम्पने
बलहीनः पिपासार्तः शुष्कास्यो न स जीवति २७
यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ
शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति २८
व्यावृत्तमूर्धजिह्वास्यो भ्रुवौ यस्य च विच्युते
कण्टकैश्चाचिता जिह्वा यथा प्रेतस्तथैव सः २९
शोफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम्
अतश्चैव विपर्यासो विकृत्या प्रेतलक्षणम् ३०
निचितं यस्य मांसं स्यात्त्वगस्थिष्वेव दृश्यते
क्षीणस्यानश्नतस्तस्य मासमायुः परं भवेत् ३१
तत्र श्लोकः--
इदं लिङ्गमरिष्टाख्यमनेकमभिजज्ञिवान्
आयुर्वेदविदित्याख्यां लभते कुशलो जनः ३२
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पन्नरूपीयमिन्द्रियं नाम
सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथातोऽवाक्शिरसीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अवाक्शिरा वा जिह्मा वा यस्य वा विशिरा भवेत्
जन्तो रूपप्रतिच्छाया नैनमिच्छेच्चिकित्सितुम् ३
जटीभूतानि पक्ष्माणि दृष्टिश्चापि निगृह्यते
यस्य जन्तोर्न तं धीरो भेषजेनोपपादयेत् ४
यस्य शूनानि वर्त्मानि न समायान्ति शुष्यतः
चक्षुषी चोपदिह्येते यथा प्रेतस्तथैव सः ५
भ्रुवोर्वा यदि वा मूर्ध्नि सीमन्तावर्तकान् बहून्
अपूर्वानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत् ६
त्र्यहमेतेन जीवन्ति लक्षणेनातुरा नराः
अरोगाणां पुनस्त्वेतत् षड्रात्रं परमुच्यते ७
आयम्योत्पाटितान् केशान् यो नरो नावबुध्यते
अनातुरो वा रोगी वा षड्रात्रं नातिवर्तते ८
यस्य केशा निरभ्यङ्गा दृश्यन्तेऽभ्यक्तसन्निभाः
उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् ९
ग्लायते नासिकावंशः पृथुत्वं यस्य गच्छति
अशूनः शूनसंकाशः प्रत्याख्येयः स जानता १०
अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता
जिह्मा वा परिशुष्का वा नासिका न स जीवति ११
मुखं शब्दश्रवावोष्ठौ शुक्लश्यावातिलोहितौ
विकृत्या यस्य वा नीलौ न स रोगाद्विमुच्यते १२
अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः
विकृत्या न स रोगं तं विहायारोग्यमश्नुते १३
स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता भृशम्
श्यावा शुष्काऽथवा शूना प्रेतजिह्वा विसर्पिणी १४
दीर्घमुच्छ्वस्य यो ह्रस्वं नरो निःश्वस्य ताम्यति
उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् १५
हस्तौ पादौ च मन्ये च तालु चैवातिशीतलम्
भवत्यायुःक्षये क्रूरमथवाऽपि भवेन्मृदु १६
घट्टयञ्जानुना जानु पादावुद्यम्य पातयन्
योऽपास्यति मुहुर्वक्रमातुरो न स जीवति १७
दन्तैश्छिन्दन्नखाग्राणि नखैच्छिन्दञ्छिरोरुहान्
काष्ठेन भूमिं विलिखन्न रोगात् परिमुच्यते १८
दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन्
विजानाति न चेद्दखं न स रोगाद्विमुच्यते १९
मुहुर्हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः
उच्चैश्छिद्राणि विमृशन्नातुरो न स जीवति २०
यैर्विन्दति पुरा भावैः समेतैः परमां रतिम्
तैरेवारममाणस्य ग्लास्नोर्मरणमादिशेत् २१
न बिभर्ति शिरो ग्रीवा न पृष्ठं भारमात्मनः
न हनू पिण्डमास्यस्थमातुरस्य मुमूर्षतः २२
सहसा ज्वरसंतापस्तृष्णा मूर्च्छा बलक्षयः
विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते २३
गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम्
लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम् २४
नोपैति कण्ठमाहारो जिह्वा कण्ठमुपैति च
आयुष्यन्तं गते जन्तोर्बलं च परिहीयते २५
शिरो विक्षिपते कृच्छान्मुञ्चयित्वा प्रपाणिकौ
ललाटस्रुप्रतस्वेदो मुमूर्षुश्च्युतबन्धनः २६
तत्र श्लोकः--
इमानि लिङ्गानि नरेषु बुद्धिमान् विभावयेतावहितो मुमूर्षुषु
क्षणेन भूत्वा ह्युपयान्ति कानिचिन्नचाफलं लिङ्गमिहास्ति किञ्चन २७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेऽवाक्शिरसीयमिन्द्रियं
नामाष्टमोऽध्यायः ८

नवमोऽध्यायः
अथातो यस्यश्यावनिमित्तीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
यस्य श्यावे परिध्वस्ते हरिते चापि दर्शने
आपन्नो व्याधिरन्ताय ज्ञेयस्तस्य विजानता ३
निःसंज्ञः परिशुष्कास्यः समृद्धो व्याधिभिश्च यः
उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् ४
हरिताश्च सिरा यस्य लोमकूपाश्च संवृत्ताः
सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते ५
शरीरान्ताश्च शोभन्ते शरीरं चोपशुष्यति
बलं च हीयते यस्य राजयक्ष्मा हिनस्ति तम् ६
अंसाभितापो हिक्का च छर्दनं शोणितस्य च
आनाहः पार्श्वशूलं च भवत्यन्ताय शोषिणः ७
वातव्याधिरपस्मारी कुष्ठी शोफी तथोदरी
गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः ८
अचिकित्स्या भवन्त्येते बलमांसक्षये सति
अम्येष्वपि विकारेषु तान् भिषक् परिवर्जयेत् ९
विरेचनहृतानाहो यस्तृष्णानुगतो नरः
विरिक्तः पुनराध्माति यथा प्रेतस्तथैव सः १०
पेयं पातुं न शक्नोति कण्ठस्य च मुखस्य च
उरसश्च विशुष्कत्वाद्यो नरो न स जीवति ११
स्वरस्य दुर्बलीभावं हानिं च बलवर्णयोः
रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत् १२
ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्
शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत् १३
अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः
श्रोतारं चाप्यशब्दस्य दूरतः परिवर्जयेत् १४
यं नरं सहसा रोगो दुर्बलं परिमुञ्चति
संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते १५
अथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपाततः
रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम् १६
मासेन चेन्न दृश्येत विशेषस्तस्य शोभनः
रसैश्चान्यैर्बहुविधैर्दुर्लभं तस्य जीवितम् १७
निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति
यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः १८
निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक्
तच्च सीदत्यपः प्राप्य न स जीवितुमर्हति १९
पित्तमूष्मानुगं यस्य शङ्खौ प्राप्य विमूर्च्छति
स रोगः शङ्खको नाम्ना त्रिरात्राद्धन्ति जीवितम् २०
सफेनं रुधिरं यस्य मुहुरास्यात् प्रसिच्यते
शूलैश्च तुद्यते कुक्षिः प्रत्याख्येयस्तथाविधः २१
बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जिवति २२
तत्र श्लोकौ--
विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते
भवन्त्येतानि संपश्येदन्यान्येवंविधानि च २३
तानि सर्वाणि लक्ष्यन्ते न तु सर्वाणि मानवम्
विशन्ति विनशिष्यन्तं तस्माद्बोध्यानि सर्वतः २४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने
यस्यश्यावनिमित्तीयमिन्द्रियं नाम नवमोऽध्यायः ९

दशमोऽध्यायः
अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सद्यस्तितिक्षतः प्राणाँल्लक्षणानि पृथक् पृथक्
अग्निवेश प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति ३
वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि
तृष्णयाऽभिपरीतस्य सद्यो मुष्णाति जीवितम् ४
पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम्
वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम् ५
भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः
तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम् ६
क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन्
उभे मन्ये समे यस्य सद्यो मुष्णाति जिवितम् ७
अन्तरेण गुदं गच्छन् नाभिं च सहसाऽनिलः
कृशस्य वंक्षक्षौ गृह्णन् सद्यो मुष्णाति जीवितम् ८
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः
स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम् ९
हृदयं च गुदं चोभे गृहीत्वा मारुतो बली
दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम् १०
वंक्षणं च गुदं चोभे गृहीत्वा मारुतो बली
श्वासं संजनयञ्जन्तोः सद्यो मुष्णाति जीवितम् ११
नाभिं मूत्रं वस्तिशीर्षं पुरीषं चापि मारुतः
प्रच्छिन्नं जनयञ्छूलं सद्यो मुष्णाति जीवितम् १२
भिद्येते वंक्षणौ यस्य वातशूलैः समन्ततः
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः १३
आप्लुतं मारुतेनेह शरीरं यस्य केवलम्
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम् १४

शरीरं शोफितं यस्य वाताशोफेन देहिनः
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम् १५
आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः १६
पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका
तृष्णा गुदग्रहश्चोग्रः सद्यो जह्यात् स जीवितम् १७
पक्वाशयमधिष्ठाय हत्वा संज्ञां च मारुतः
कण्ठे घुर्घुरकं कृत्वा सद्यो हरति जीवितम् १८
दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसन्निभम्
सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः १९
तृष्णाश्वासशिरोरोगमोहदौर्बल्यकूजनैः
स्पृष्टः प्राणाञ्जहात्याशु शकृद्भेदेन चातुरः २०
तत्र श्लोकः--
एतानि खलु लिङ्गानि यः सम्यगवबुध्यते
स जीवितं च मर्त्यानां मरणं चावबुध्यते २१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने सद्योमरणीयमिन्द्रियं
नाम दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा
रतिं न लभते याति परलोकं समान्तरम् ३
बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते
लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः ४
सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्
सं वत्सरान्ते जन्तुः स संपश्यति महत्तमः ५
विकृत्या विनिमित्तं यः शोभामुपचयं धनम्
प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम् ६
भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः ७
धमनीनामपूर्वाणां जालमत्यर्थशोभनम्
ललाटे दृश्यते यस्य षण्मासान्न स जीवति ८
लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते
यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत् ९
शरीरकम्पः संमोहो गतिर्वचनमेव च
मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति १०
रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि
स मासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति ११
हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यतः
शूयेते वा विना देहात् स च मासं न जीवति १२
ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते
राजी बलेन्दुकुटिला न स जीवितुमर्हति १३
प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः
उत्पद्याशु विनश्यन्ति न चिरात् स विनश्यति १४
ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च
ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत् १५
संभ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुणः
कालपाशपरीतस्य त्रयमेतत् प्रवर्तते १६
प्रमुह्य लुञ्चयेत् केशान् परिगृह्णात्यतीव च
नरः स्वस्थवदाहारमबलः कालचोदितः १७
समीपे चक्षुषोः कृत्वा मृगयेताङ्गुलीकरम्
स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षणः १८
शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा
असन्मृगयते किञ्चित् स मुह्यन् कालचोदितः १९
अहास्यहासी संमुह्यन् प्रलेढि दशनच्छदौ
शीतपादकरोच्छ्वासो यो नरो न स जीवति २०
अह्वयंस्तं समीपस्थं स्वजनं जनमेव वा
महामोहावृतमनाः पश्यन्नपि न पश्यति २१
अयोगमतियोगं वा शरीरे मतिमान् भिषक्
खादीनां युगपद्दृष्ट्वा भेषजं नावचारयेत् २२
अतिप्रवृद्ध्या रोगाणां मनसश्च बलक्षयात्
वासमुत्सृजति क्षिप्रं शरीरी देहसंज्ञकम् २३
वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम्
हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा २४
भिषम्भेषजपानान्नगुरुमित्रद्विषश्च ये
वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः २५
एतेषु रोगः क्रमते भेषजं प्रतिहन्यते
नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत् २६
पादाः समेताश्चत्वारः संपन्नाः साधकैर्गुणैः
व्यर्था गतायुषो द्रव्यं विना नास्ति गुणोदयः २७
परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च
आयुर्ज्ञानफलं कृत्स्नमायुर्ज्ञे ह्यनुवर्तते २८
तत्र श्लोकः--
क्रियापथमतिक्रान्ताः केवलं देहमाप्लुताः
चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते २९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेऽणुज्योतीयमिन्द्रियं
नामैकादशोऽध्यायः ११

द्वादशोऽध्यायः
अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते
सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम् ३
निकषन्निव यः पादौ च्युतांसः परिधावति
विकृत्या न स लोकेऽस्मिंश्चिरं वसति मानवः ४
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्
आर्द्रेषु सर्वगात्रेषु सोऽर्धमासम् न जीवति ५
यमुद्दिश्यातुरं वैद्यः संवर्तयितुमौषधम्
यतमानो न शक्नोति दुर्लभं तस्य जीवितम् ६
विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्
न सिध्यत्योषधं यस्य नास्ति तस्य चिकित्सितम् ७
आहारमुपयुञ्जानो भिषजा सूपकल्पितम्
यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम् ८
दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम्
यानि दृष्ट्वा भिषक् प्राज्ञः प्रत्याख्यायादसंयमम् ९
मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा
भिषगभ्यागतम् दृष्ट्वा दूतं मरणमादिशेत् १०
सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति
आगच्छन्ति भिषक् तेषां न भर्तारमनुव्रजेत् ११
जुह्वत्यग्निं तथा पिण्डान् पितृभ्यो निर्वपत्यपि
वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसवः १२
कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः
वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम् १३
मृतदग्धविनष्टानि भजति व्याहरत्यपि
अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम् १४
विकारसामान्यगुणे देशे कालेऽथवा भिषक्
दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत् १५
दीनभीतद्रुतत्रस्तमलिनमसतीं स्त्रियम्
त्रीन् व्याकृतींश्च षण्डांश्च दूतान् विद्यान्मुमूर्षताम् १६
अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा
संप्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति १७
आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम्
दूतं दृष्ट्वा भिषग्विद्यादातुरस्य पराभवम् १८
पलालबुसमांसास्थिकेशलोमनखद्विजान्
मार्जनीं मुसलं शूर्पमुपानच्चर्म विच्युतम् १९
तृणकाष्ठतुषाङ्गारं स्पृशन्तो लोष्टमश्म च
तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम् २०
यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्
यश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक् २१
तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा
भिन्नं दग्धं विनष्टं वा तदादीनि वचांसि वा २२
रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्
स्पर्शो वा विपुलः क्रूरो यद्वाऽन्यदशुभं भवेत् २३
तत्पूर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः
दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत् २४
इति दूताधिकारोऽयमुक्तः कृत्स्नो मुमूर्षताम्
पथ्यातुरकुलानां च वक्ष्याम्यौत्पातिकं पुनः २५
अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा
आक्रोशः संप्रहारो च प्रतिषेधो निगर्हणम् २६
वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम्
व्यसनं दर्शनं चापि मृतव्यसिननां तथा २७
चैत्यध्वर्जपताकानां पूर्णानां पतनानि च
हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभिः २८
पथच्छेदो बिडालेन शुना सर्पेण वा पुनः
मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति २९
शयनसनयानानामुत्तानानां च दर्शनम्
इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः ३०
एतानि पथि वैद्येन पश्यताऽऽतुरवेश्मनि
शृण्वता च न गन्तव्यं तदागारं विपश्चिता ३१
इत्यौत्पातिकमाख्यातं पथि वैद्यविगर्हितम्
इमामपि च बुध्येत गृहावस्थां मुमूर्षताम् ३२
प्रवेशे पूर्णकुम्भाग्निमृद्बीजफलसर्पिषां
वृषब्राह्मणरत्नान्नदेवतानां च निर्गतिम् ३३
अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च
भिषङ् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति ३४
छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च
दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जनाः ३५
शयनं वसनं यानं गमनं भोजनं रुतम्
श्रूयतेऽमङ्गलं यस्य नास्ति तस्य चिकित्सितम् ३६
शयनं वसनं यानमन्यं वाऽपि परिच्छदम्
प्रेतवद्यस्य कुर्वन्ति सुहृदः प्रेत एव सः ३७
अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैवोपशाम्यति
निवाते सेन्धनं यस्य तस्य नास्ति चिकित्सितम् ३८
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा
अतिमात्रममत्राणि दुर्लभं तस्य जीवितम् ३९
भवन्ति चात्र--
यदद्वादशभिरध्यायैर्व्यासतः परिकीर्तितम्
मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत् ४०
तत् समासेन वक्ष्यामः पर्यायान्तरमाश्रितम्
पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते ४१
अत्यर्थं पुनरेवेयं विवक्षा नो विधीयते
तस्मिन्नेवाधिकरणे यत् पूर्वमभिशब्दितम् ४२
वसतां चरमं कालं शरीरेषु शरीरिणाम्
अभ्युग्राणां विनाशायु देहेभ्यः प्रविवत्सताम् ४३
इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम्
तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम् ४४
अविनाशायेह रूपाणि यान्यवस्थान्तराणि च
भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम् ४५
प्राणाः समुपतप्यन्ते विज्ञानमुपरुध्यते
वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च ४६
इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना
औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि ४७
स्मृतिस्त्यजति मेधा च ह्रीश्रियो चापसर्पतः
उपप्लवन्ते पाप्मान ओजस्तेजश्च नश्यति ४८
शीलं व्यावर्ततेऽत्यर्थं भक्तिश्च परिवर्तते
विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति ४९
शुक्रं प्रच्यवते स्थानादुन्मार्गं भजतेऽनिलः
क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम् ५०
ऊष्माणः प्रलयं यान्ति विश्लेषं यान्ति सन्धयः
गन्धा विकृतिमायान्ति भेद वर्णस्वरौ तथा ५१
वैवर्ण्यं भजते कायः कायच्छिद्रं विशुष्यति
धूमः संजायते मूर्ध्नि दारुणाख्यश्च चूर्णकः ५२
सततस्पन्दना देशाः शरीरे येऽभिलक्षिताः
ते स्तम्भानुगताः सर्वे न चलन्ति कथंचन ५३
गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः
विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधाः ५४
नखेषु जायते पुष्पं पङ्को दन्तेषु जायते
जटाः पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि ५५
भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि
यानि चाप्युपपद्यन्ते तेषां वीर्यं न सिध्यति ५६
नानाप्रकृतयः क्रूरा विकारा विविधौषधाः
क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी ५७
शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टा विचिन्तितम्
उत्पद्यन्तेऽशुभान्येव प्रतिकर्मप्रवृत्तिषु ५८
दृश्यन्ते दारुणाः स्वप्ना दौरात्म्यमुपजायते
प्रेष्याः प्रतीषतां यान्ति प्रेताकृतिरुदीर्यते ५९
प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्धते
कृत्स्नामौत्पातिकं घोरमरिष्टमुपलक्ष्यते ६०
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम्
लक्षणानि यथोद्देशं यान्युक्तानि यथागमम् ६१
मरणायेह रूपाणि पश्यताऽपि भिषग्विदा
अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम् ६२
पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम्
आतुरस्य भवेद्दुःखमथवाऽन्यस्य कस्यचित् ६३
अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम्
यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक् ६४
लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता
लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम् ६५
दूतैरौत्पातिकैर्भावैः पथ्यातुरकुलाश्रयैः
आतुराचारशीलेष्टद्रव्यसंपत्तिलक्षणैः ६६
स्वाचारं दृष्टमव्यङ्गं यशस्यं शुक्लवाससम्
अमुण्डमजटं दूतं जातिवेशक्रियासमम् ६७
अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु च
अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु च ६८
विना चतुर्थी नवमीं विना रिक्तां चतुर्दशीम्
मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम् ६९
विना देशमशस्तं चाशस्तौत्पातिकलक्षणम्
दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक् ७०
दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च ७१
रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च
सुरध्वजपताकानां फलानां यावकस्य च ७२
कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था
पृथिव्या उद्धृतायाश्च वह्नेः प्रज्वलितस्य च ७३
मोदकानां सुमनसां शुक्लानां चन्दनस्य च
मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च ७४
नृभिर्धेन्वाः सवत्साया वडवायाः स्त्रियास्तथा
जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम् ७५
हंसानां शतपत्राणां चाषाणां शिखिनां तथा
मत्स्याजद्विजशङ्खानां प्रियङ्गूनां घृतस्य च ७६
रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्
गन्धः सुरभिर्वर्णश्च सुशुक्लो मधुरो रसः ७७
मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः
छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः ७८
भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिस्वनाः
वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः ७९
पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम्
मङ्गलाचारसंपन्न सातुरो वश्मिको जनः ८०
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसंग्रहः
धनैश्वर्यसुखावाप्तिरिष्टलाभः सुखेन च ८१
द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च
गृहप्रासादशैलानां नागानामृषभस्य च ८२
हयानां पुरुषाणां च स्वप्ने समधिरोहणम्
सोमार्काग्निद्विजातीनां गवां नणां पयस्विनाम् ८३
अर्णवानां प्रतरणं वृद्धिः संबाधनिःसृतिः
स्वप्ने देवैः सपितृभिः प्रसन्नैश्चाभिभाषणम् ८४
दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च
मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः ८५
स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम्
अश्वगोरथयानं च यानं पूर्वोत्तरेण च
रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ८६
सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु
साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणम् ८७
आरोग्याद्बलमायुश्च सुखं च लभते महत्
इष्टांश्चाप्यपरान् भावान् पुरुषः शुभलक्षणः ८८
तत्र श्लोकौ--
उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम्
दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम् ८९
इतीदमुक्तं प्रकृतं यथातथं तदन्ववेक्ष्यं सततं भिषग्विदा
तथा हि सिद्धिं च यशश्च शाश्वतं स सिद्धकर्मा लभते धनानि च ९०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने गोमयचूर्णीयमिन्द्रियं
नाम द्वादशोऽध्यायः १२
इति इन्द्रियस्थान समाप्ता