चिकित्सास्थान

षोडशोऽध्यायः
अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः
चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः ३
दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु
शैथिल्यं तस्य धातूनां गौरवं चोपजायते ४
ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः
व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात् ५
सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः
वैवर्ण्यं भजते तस्य हेतुं शृणु सलक्षणम् ६
क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात्
निष्पावमाषपिण्याकतिलतैलनिषेवणात् ७
विदग्धेऽन्ने दिवास्वप्नाद्व्यायामान्मैथुनात्तथा
प्रतिकर्मर्तुवैषम्याद्वेगानां च विधारणात् ८
कामचिन्ताभयक्रोधशोकोपहतचेतसः
समुदीर्णं यदा पित्तं हृदये समवस्थितम् ९
वायुना बलिना क्षिप्तं संप्राप्य धमनीर्दश
प्रपन्नं केवलं देहं त्वङ्मांसान्तरमाश्रितम् १०
प्रदूष्य कफवातासृक्त्वङ्मांसानि करोति तत्
पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि ११
स पाण्डुरोग इत्युक्तः तस्य लिङ्गं भविष्यतः
हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा १२
संभूतेऽस्मिन् भवेत् सर्वः कर्णक्ष्वेडी हतानलः
दुर्बलः सदनोऽन्नद्विट् श्रमभ्रमनिपीडितः १३
गात्रशूलज्वरश्वासगौरवारुचिमान्नरः
मृदितैरिव गात्रैश्च पीडितोन्मथितैरिव १४
शूनाक्षिकूटो हरितः शीर्णलोमा हतप्रभः
कोपनः शिशिरद्वेषी निद्रालुः ष्ठीवनोऽल्पवाक् १५
पिण्डिकोद्वेष्टकट्यूरुपादरुक्सदनानि च
भवन्त्यारोहणायासैर्विशेषश्चास्य वक्ष्यते १६
आहारैरुपचारैश्च वातलैः कुपितोऽनिलः
जनयेत्कृष्णपाण्डुत्वं तथा रूक्षारुणाङ्गताम् १७
अङ्गमर्दं रुजं तोदं कम्पं पार्श्वशिरोरुजम्
वर्चःशोषास्यवैरस्यशोफानाहबलक्षयान् १८
पित्तलस्याचितं पित्तं यथोक्तैः स्वैः प्रकोपणैः
दूषयित्वा तु रक्तादीन् पाण्डुरोगाय कल्पते १९
स पीतो हरिताभो वा ज्वरदाहसमन्वितः
छर्दिमूर्च्छापिपासार्तः पीतमूत्रशकृन्नरः २०
स्वेदनः शीतकामश्च न चान्नमभिनन्दति
कटुकास्यो न चास्योष्णमुपशेतेऽम्लमेव च २१
उद्गारोऽम्लो विदाहश्च विदग्धेऽन्नेऽस्य जायते
दौर्गन्ध्यं भिन्नवर्चस्त्वं दौर्वल्यं तम एव च २२
विवृद्धः श्लेष्मलैः श्लेष्मा पाण्डुरोगं स पूर्ववत्
करोति गौरवं तन्द्रां छर्दिं श्वेवावभासताम् २३
प्रसेकं लोमहर्षं च सादं मूर्च्छां भ्रमं क्लमम्
श्वासं कासं तथाऽऽलस्यमरुचिं वाक्स्वरग्रहम् २४
शुक्लमूत्राक्षिवर्चस्त्वं कटुरूक्षोष्णकामताम्
श्वयथुं मधुरास्यत्वमिति पाण्ड्वामयः कफात् २५
सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्
त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम् २६
मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः
कषाया मारुतं पित्तमूषरा मधुरा कफम् २७
कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं विरूक्षयेत्
पूरयत्यविपक्वैव स्रोतांसि निरुणद्धि च २८
इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा
पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् २९
शूनगण्डाक्षिकूटभ्रूः शूनपान्नाभिमेहनः
क्रिमिकोष्ठोऽतिसार्येत मलं सासृक् कफान्वितम् ३०
पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति
कालप्रकर्षाच्छूनो ना यश्च पीतानि पश्यति ३१
बद्धाल्पविट्कं सकफं हरितं योऽतिसार्यते
दीनः श्वेतातिदिग्धाङ्गश्छर्दिमूर्च्छातृषार्दितः ३२
स नास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात्
इति पञ्चविधस्योक्तं पाण्डुरोगस्य लक्षणम् ३३
पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते
तस्य पित्तमसृग्मांसं दग्ध्वा रोगाय कल्पते ३४
हारिद्रनेत्रः स भृशं हारिद्रत्वङ्नखाननः
रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः ३५
दाहाविपाकदौर्बल्यसदनारुचिकर्षितः
कामला बहुपित्तैषा कोष्ठशाखाश्रया मता ३६
कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला
कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः ३७
सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति
दाहारुचितृषानाहतन्द्रामोहसमन्वितः ३८
नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान् विपद्यते
साध्यानामितरेषां तु प्रवक्ष्यामि चिकित्सितम् ३९
तत्र पाण्ड्रवामयी स्निग्धस्तीक्ष्णैरूर्ध्वानुलोमिकैः
संशोध्यो मृदुभिस्तिक्तैः कामली तु विरेचनैः ४०
ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत्
शालीन् सयवगोधूमान् पुराणान् यूषसंहितान् ४१
मुद्गाढकीमसूरैश्च जाङ्गलैश्च रसैर्हितैः
यथादोषं विशिष्टं च तयोर्भैषज्यमाचरेत् ४२
पञ्चगव्यं महातिक्तः कल्याणकमथापि वा
स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे ४३
दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम्
चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा ४४
तैः कल्कैर्विंशतिपलं घृतस्य सलिलाढके
सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत् ४५
दीपनं श्वासकासघ्नं मूढवाते च शस्यते
दुःखप्रसविनीनां च वन्ध्यानां चैव गर्भदम् ४६
इति दाडिमाद्यं घृतम्
कटुका रोहिणी मुस्तं हरिद्रे वत्सकात् पलम्
पटोलं चन्दनं मूर्वा त्रायमाणा दुरालभा ४७
कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु च
तैः कार्षिकैर्घृतप्रस्थः सिद्धः क्षीरचतुर्गुणः ४८
रक्तपित्तं ज्वरं दाहं श्वयथुं सभगन्दरम्
अर्शांस्यसृग्दरं चैव हन्ति विस्फोटकांस्तथा ४९
इति कटुकाद्यं घृतम्
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कवान्
प्रस्थः सिद्धो घृतात् पेयः स पाण्ड्वामयगुल्मनुत् ५०
इति पथ्याघृतम्
दन्त्याश्चतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः
तद्वत्प्रस्थो घृतात्सिद्धः प्लीहपाण्ड्वर्तिशोफजित् ५१
इति दन्तीघृतम्
पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः ५२
इति द्राक्षाघृतम्
हरिद्रात्रिफलानिम्बबलामधुकसाधितम्
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम् ५३
इति हरिद्रादिघृतम्
गोमूत्रे द्विगुणे दार्व्याः कल्काक्षद्वयसाधितः
दार्व्याः पञ्चपलक्वाथे कल्के कालीयके परः ५४
माहिषात्सर्पिषः प्रस्थः पूर्वः पूर्वे परे परः
स्नेहैरेभिरुपक्रम्य स्निग्धं मत्वा विरेचयेत् ५५
पयसा मूत्रयुक्तेन बहुशः केवलेन वा
दन्तीफलरसे कोष्णे काश्मर्याञ्जलिना शृतम् ५६
द्राक्षाञ्जलिं मृदित्वा वा दद्यात् पाण्ड्वामयापहम्
द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिकः पिबेत् ५७
कफपाण्डुस्तु गोमूत्रक्लिन्नयुक्तां हरीतकीम्
आरग्वधं रसेनेक्षोर्विदार्यामलकस्य च ५८
सत्र्यूषणं बिल्वपत्रं पिबेन्ना कामलापहम्
दन्त्यर्धपलकल्कं वा द्विगुडं शीतवारिणा ५९
कामली त्रिवृतां वाऽपि त्रिफलाया रसैः पिबेत्
विशालात्रिफलामुस्तकुष्ठदारुकलिङ्गकान् ६०
कार्षिकानर्धकर्षांशां कुर्यादतिविषां तथा
कर्षौ मधुरसाया द्वौ सर्वमेतत् सुखाम्बुना ६१
मृदितं तं रसं पूतं पीत्वा लिह्याच्च मध्वनु
कासं श्वासं ज्वरं दाहं पाण्डुरोगमरोचकम् ६२
गुल्मानाहामवातांश्च रक्तपित्तं च नाशयेत्
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ६३
शीतं मधुयुतं प्रातः कामलार्तः पिबेन्नरः
क्षीरमूत्रं पिबेत् पक्षं गव्यं माहिषमेव वा ६४
पाण्डुर्गोमूत्रयुक्तं वा सप्ताहं त्रिफलारसम्
तरुजान् ज्वलितान्मूत्रे निर्वाप्यामृद्य चाङ्कुरान् ६५
मातुलुङ्गस्य तत् पूतं पाण्डुशोथहरं पिबेत्
स्वर्णक्षीरीं त्रिवृच्छ्यामे भद्रदारु सनागरम् ६६
गोमूत्राञ्जलिना पिष्टं सूत्रे वा क्वथितं पिबेत्
क्षीरमेभिः शृतं वाऽपि पिबेद्दोषानुलोमनम् ६७
हरीतकीं प्रयोगेण गोमूत्रेणाथवा पिबेत्
जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा ६८
सप्तरात्रं गवां मूत्रे भावितं वाऽप्ययोरजः
पाण्डुरोगप्रशान्त्यर्थं पयसा पाययेद्भिषक् ६९
त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः
नवायोरजसो भागस्तच्चूर्णं क्षौद्रसर्पिषा ७०
भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शः कामलापहम्
नवायसमिदं चूर्णं कृष्णात्रेयेण भाषितम् ७१
इति नवायसचूर्णम्
गुडनागरमण्डूरतिलांशान्मानतः समान्
पिप्पलीद्विगुणां कुर्याद्गुटिकां पाण्डुरोगिणे ७२
त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रकौ
दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च ७३
एतान् द्विपलिकान्भागांश्चूर्णं कुर्यात् पृथक् पृथक्
मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् ७४
गोमूत्रेऽष्टगुणे पक्त्वा तस्मिंस्तत् प्रक्षिपेत्ततः
उदुम्बरसमान्कृत्वा वटकांस्तान् यथाग्नि ना ७५
उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजनम्
मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम् ७६
कुष्ठान्यजीर्णकं शोथमूरुस्तम्भं कफामयान्
अर्शांसि कामलां मेहं प्लीहानं शमयन्ति च ७७
इति मण्डूरवटकाः
ताप्याद्रिजतुरूप्यायोमलाः पञ्चपलाः पृथक्
चित्रकत्रिफलाव्योषविडङ्गैः पलिकैः सह ७८
शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुनाऽऽप्लुताः
अभ्यस्यास्त्वक्षमात्रा हि जीर्णे हितमिताशिना ७९
कुलत्थकाकमाच्यादिकपोतपरिहारिणा
त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च ८०
भागश्चित्रकमूलस्य विडङ्गानां तथैव च
पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च ८१
माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा
अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम् ८२
माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे
उदुम्बरसमां मात्रां ततः खादेद्यथाग्निना ८३
दिने दिने प्रयुञ्जीत जीर्णे भोज्यं यथेप्सितम्
वर्जयित्वा कुलत्थानि काकमाचीं कपोतकम् ८४
योगराज इति ख्यातो योगोऽयममृतोपमः
रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम् ८५
पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम्
कुष्ठान्यजीर्णकं मेहं शोषं श्वासमरोचकम् ८६
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च
इति योगराजः
कौटजत्रिफलानिम्बपटोलघननागरैः ८७
भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा
शिलाजतुपलान्यष्टौ तावती सितशर्करा ८८
त्वक्क्षीरी पिप्पली धात्री कर्कटाख्या पलोन्मिता
निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिगन्धकम् ८९
चूर्णितं मधुनः कुर्यात्त्रिपलेनाक्षिकान् गुडान्
दाडिमाम्बुपयः पक्षिरसतोयसुरासवान् ९०
तान् भक्षयित्वाऽनुपिबेन्निरन्नो भुक्त एव वा
पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान् ९१
हृद्रोगशुक्रमूत्राग्निदोषशोषगरोदरान्
कासासृग्दरपित्तासृक्शोथगुल्मगलामयान् ९२
ते च सर्वव्रणान् हन्युः सर्वरोगहराः शिवाः
इति शिलाजतुवटकाः
पुनर्नवा त्रिवृद्व्योषविडङ्गं दारु चित्रकम् ९३
कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकाः
पिप्पली पिप्पलीमूलं मुस्तं चेति पलोन्मितम् ९४
मण्डूरं द्विगुणं चूर्णाद्गोमूत्रे द्व्याढके पचेत्
कोलवद्गुटिकाः कृत्वा तक्रेणालोड्य ना पिबेत् ९५
ताः पाण्डुरोगान् प्लीहानमर्शांसि विषमज्वरम्
श्वयथुं ग्रहणीदोषं हन्युः कुष्ठं क्रिमींस्तथा ९६
इति पूनर्नवामण्डूरम्
दार्वीत्वक् त्रिफला व्योषं विडङ्गमयसो रजः
मधुसर्पिर्युतं लिह्यात् कामलापाण्डुरोगवान् ९७
तुल्या अयोरजः पथ्याहरिद्राः क्षौद्रसर्पिषा
चूर्णिताः कामली लिह्याद्गुडक्षौद्रेण वाऽभयाः ९८
त्रिफला द्वे हरिद्रे च कटुरोहिण्ययोरजः
चूर्णितं क्षौद्रसर्पिर्भ्यां स लेहः कामलापहः ९९
द्विपलांशां तुगाक्षीरीं नागरं मधुरष्टिकाम्
प्रास्थिकीं पिप्पलीं द्राक्षां शर्करार्धतुलां शुभाम् १००
धात्रीफलरसद्रोणे चूर्णितं लेहवत् पचेत्
शीतं मधुप्रस्थयुतं लिह्यात् पाणितलं ततः १०१
हन्त्येष कामलां पित्तं पाण्डुं कासं हलीमकम्
इति धात्र्यवलेहः
त्र्यूषणं त्रिफला चव्यं चित्रको देवदारु च १०२
विडङ्गान्यथ मुस्तं च वत्सकं चेति चूर्णयेत्
मण्डूरतुल्यं तच्चूर्णं गोमूत्रेऽष्टगुणे पचेत् १०३
शनैः सिद्धास्तथा शीताः कार्याः कर्षसमा गुडाः
यथाग्नि भक्षणीयास्ते प्लीहपाण्ड्वामयापहाः १०४
ग्रहण्यर्शोनुदश्चैव तक्रवाट्याशिनः स्मृताः
इति मण्डूरवटकाः
मञ्जिष्ठा रजनी द्राक्षा बलामूलान्ययोरजः १०५
लोध्रं चैतेषु गौडः स्यादरिष्टः पाण्डुरोगिणाम्
इति गौडोऽरिष्टः
बीजकात्षोडशपलं त्रिफलायाश्च विंशतिः १०६
द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे जलस्य तत्
साध्यं पादावशेषे तु पूतशेषे समावपेत् १०७
शर्करायास्तुलां प्रस्थं माक्षिकस्य च कार्षिकम्
व्योषं व्याघ्रनखोशीरं क्रमुकं सैलवालुकम् १०८
मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने
यवेषु दशरात्रं तद्ग्रीष्मे द्विः शिशिरे स्थितम् १०९
पिबेत्तद्ग्रहणीपाण्डुरोगार्शःशोथगुल्मनुत्
मूत्रकृच्छ्राश्मरीमेहकामलासन्निपातजित् ११०
बीजकारिष्ठ इत्येष आत्रेयेण प्रकीर्तितः
इति बीजकारिष्टः
धात्रीफलसहस्रे द्वे पीडयित्वा रसं तु तम् १११
क्षौद्राष्टांशेन संयुक्तं कृष्णार्धकुडवेन च
शर्करार्धतुलोन्मिश्रं पक्षं स्निग्धघटे स्थितम् ११२
प्रपिबेन्मात्रया प्रातर्जीर्णे हितमिताशनः
कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान् ११३
कासहिक्कारुचिश्वासांश्चैषोऽरिष्टः प्रणाशयेत्
इति धात्र्यरिष्टः
स्थिरादिभिः शृतं तोयं पानाहारे प्रशस्यते ११४
पाण्डूनां कामलार्तानां मृद्वीकामलकीरसः
पाण्डुरोगप्रशान्त्यर्थमिति प्रोक्तं महर्षिणा ११५
विकल्प्यमेतद्भिषजा पृथग्दोषबलं प्रति
वातिके स्नेहभूयिष्ठं पैत्तिके तिक्तशीतलम् ११६
श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सान्निपातिके
निपातयेच्छरीरात्तु मृत्तिकां भक्षितां भिषक् ११७
युक्तिज्ञः शोधनैस्तीक्ष्णैः प्रसमीक्ष्य बलाबलम्
शुद्धकायस्य सर्पींषि बलाधानानि योजयेत् ११८
व्योषं बिल्वं हरिद्रे द्वे त्रिफला द्वे पुनर्नवे
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च ११९
वृश्चिकाली च भार्गी च सक्षारैस्तैः समैर्घृतम्
साधयित्वा पिबेद्युक्त्या नरो मृद्दोषपीडितः १२०
तद्वत् केशरयष्ट्याह्वपिप्पलीक्षारशाद्वलैः
मृद्भक्षणादातुरस्य लौल्यादविनिवर्तिनः १२१
द्वेष्यार्थं भावितां कामं दद्यात्तद्दोषनाशनैः
विडङ्गैलातिविषया निम्बपत्रेण पाठया १२२
वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाऽपि वा
यथादोषं प्रकुर्वीत भैषज्यं पाण्डुरोगिणाम् १२३
क्रियाविशेष एषोऽस्य मतो हेतुविशेषतः
तिलपिष्टनिभं यस्तु वर्चः सृजति कामली १२४
श्लेष्मणा रुद्धमार्गं तत् पित्तं कफहरैर्जयेत्
रूक्षशीतगुरुस्वादुव्यायामैर्वेगनिग्रहैः १२५
कफसंमूर्च्छितो वायुः स्थानात् पित्तं क्षिपेद्बली
हारिद्रनेत्रमूत्रत्वक् श्वेतवर्चास्तदा नरः १२६
भवेत् साटोपविष्टम्भो गुरुणा हृदयेन च
दौर्बल्याल्पाग्निपार्श्वार्तिहिक्काश्वासारुचिज्वरैः १२७
क्रमेणाल्पेऽनुषज्येत पित्ते शाखासमाश्रिते
बर्हितित्तिरिदक्षाणां रूक्षाम्लैः कटुकै रसैः १२८
शुष्कमूलककौलत्थैर्यूषैश्चान्नानि भोजयेत्
मातुलुङ्गरसं क्षौद्रं पिप्पलीमरिचान्वितम् १२९
सनागरं पिबेत् पित्तं तथाऽस्यैति स्वमाशयम्
कटुतीक्ष्णोष्णलवणैर्भृशाम्लैश्चाप्युपक्रमः १३०
आपित्तरोगाच्च कृतो वायोश्चाप्रशमाद्भवेत्
स्वस्थानमागते पित्ते पुरीषे पित्तरञ्जिते १३१
निवृत्तोपद्रवस्य स्यात् पूर्वः कामलिको विधिः
यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः १३२
बलोत्साहक्षयस्तन्द्रा मन्द्राग्नित्वं मृदुज्वरः
स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासस्तृष्णाऽरुचिर्भ्रमः १३३
हलीमकं तदा तस्य विद्यादनिलपित्ततः
गुडूचीस्वरसक्षीरसाधितं माहिषं घृतम् १३४
स पिबेत्त्रिवृतां स्निग्धो रसेनामलकस्य तु
विरिक्तो मधुरप्रायं भजेत् पित्तानिलापहम् १३५
द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च
यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान् १३६
मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये
कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम् १३७
पयसा च प्रयुञ्जीत यथादोषं यथाबलम्
तत्र श्लोकौ--
पाण्डोः पञ्चविधस्योक्तं हेतुलक्षणभेषजम् १३८
कामला द्विविधा तेषां साध्यासाध्यत्वमेव च
तेषां विकल्पो यश्चान्यो महाव्याधिर्हलीमकः
तस्य चोक्तं समासेन व्यञ्जनं सचिकित्सितम् १३९
इत्यग्निवेशकृते तन्त्रे चिकित्सास्थाने
पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः १६

सप्तदशोऽध्यायः
अथातो हिक्काश्वासचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
वेदलोकार्थतत्त्वज्ञमात्रेयमृषिमुत्तमम् ।
अपृच्छत् संशयं धीमानग्निवेशः कृताञ्जलिः ३
य इमे द्विविधाः प्रोक्तास्त्रिदोषास्त्रिप्रकोपणाः
रोगा नानात्मकास्तेषां कस्को भवति दुर्जयः ४
अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः
उवाच परमप्रीतः परमार्थविनिश्चयम् ५
कामं प्राणहरा रोगा बहवो न तु ते तथा
यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः ६
अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः
अन्ते संजायते हिक्का श्वासो वा तीव्रवेदनः ७
कफवातात्मकावेतौ पित्तस्थानसमुद्भवौ
हृदयस्य रसादीनां धातूनां चोपशोषणौ ८
तस्मात् साधारणावेतौ मतौ परमदुर्जयौ
मिथ्योपचरितौ क्रुद्धौ हत आशीविषाविव ९
पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसंग्रहे
तयोः शृणु समुत्थानं लिङ्गं च सभिषग्जितम् १०
रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात् व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात् ११
आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात् दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः १२
अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात्
रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि १३
पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ
निष्पावमाषपिण्याकतिलतैलनिषेवणात् १४
पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात्
जलजानूपपिशितदध्यामक्षीरसेवनात् १५
अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात्
कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः १६
मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति
उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः १७
घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च
उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम् १८
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च १९
आनाहः पार्श्वशूलं च पीडनं हृदयस्य च
प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम् २०
प्राणोदकान्नवाहीनि स्रोतांसि सकफोऽनिलः
हिक्काः करोति संरुध्य तासां लिङ्गं पृथक् शृणु २१
क्षीणमांसबलप्राणतेजसः सकफोऽनिलः
गृहीत्वा सहसा कण्ठमुच्चैर्घोषवतीं भृशम् २२
करोति सततं हिक्कामेकद्वित्रिगुणां तथा
प्राणः स्रोतांसि मर्माणि संरुध्योष्माणमेव च २३
संज्ञां मुष्णाति गात्राणां स्तम्भं संजनयत्यपि
मार्गं चैवान्नपानानां रुणद्ध्युपहतस्मृतेः २४
साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभ्रुवः
सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः २५
महामूला महावेगा महाशब्दा महाबला
महाहिक्केति सा नॄणां सद्यः प्राणहरा मता २६
इति महाहिक्का
हिक्कते यः प्रवृद्धस्तु कृशो दीनमना नरः
जर्जरेणोरसा कृच्छ्रं गम्भीरमनुनादयन् २७
संजृम्भन् संक्षिपंश्चैव तथाऽङ्गानि प्रसारयन्
पार्श्वे चोभे समायम्य कूजन् स्तम्भरुगर्दितः २८
नाभेः पक्वाशयाद्वाऽपि हिक्का चास्योपजायते
क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः २९
रुणद्ध्युच्छ्वासमार्गं तु प्रणष्टबलचेतसः
गम्भीरा नाम सा तस्य हिक्का प्राणान्तिकी मता ३०
इति गम्भीरा हिक्का
व्यपेता जायते हिक्का याऽन्नपाने चतुर्विधे
आहारपरिणामान्ते भूयश्च लभते बलम् ३१
प्रलापवम्यतीसारतृष्णार्तस्य विचेतसः
जृम्भिणो विप्लुताक्षस्य शुष्कास्यस्य विनामिवः ३२
पर्याध्मातस्य हिक्का या जत्रुमूलादसन्तता
सा व्यपेतेति विज्ञेया हिक्का प्राणोपरोधिनी ३३
इति व्यपेता हिक्का
क्षुद्रवातो यदा कोष्ठाद्व्यायामपरिघट्टितः
कण्ठे प्रपद्यते हिक्कां तदा क्षुद्रां करोति सः ३४
अतिदुःखा न सा चोरः शिरोमर्मप्रबाधिनी
न चोच्छ्वासान्नपानानां मार्गमावृत्य तिष्ठति ३५
वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम्
यतः प्रवर्तते पूर्वं तत एव निवर्तते ३६
हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता
मृद्वी सा क्षुद्रहिक्केति नृणां साध्या प्रकीर्तिता ३७
इति क्षुद्रहिक्का
सहसाऽत्यभ्यवहृतैः पानान्नैः पीडितोऽनिलः
ऊर्ध्वं प्रपद्यते कोष्ठान्मद्यैर्वाऽतिमदप्रदैः ३८
तथाऽतिरोषभाष्याध्वहास्यभारातिवर्तनैः
वायुः कोष्ठगतो धावन् पानभोज्यप्रपीडितः ३९
उरःस्रोतः समाविश्य कुर्याद्धिक्कां ततोऽन्नजाम्
तथा शनैरसंबन्धं क्षुवंश्चापि स हिक्कते ४०
न मर्मबाधाजमनी नेन्द्रियाणां प्रबाधिनी
हिक्का पीते तथा भुक्ते शमं याति च साऽन्नजा ४१
इत्यन्नजा हिक्का
अतिसंचितदोषस्य भक्तच्छेदकृशस्य च
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः ४२
आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम्
यमिका च प्रलापार्तितृष्णामोहसमन्विता ४३
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः
तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा ४४
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः
विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः ४५
उद्धूयमानवातो यः शब्दवद्दुःखितो नरः
उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम् ४६
प्रणष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः
विकृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् ४७
दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम्
महाश्वासोपसृष्टः स क्षिप्रमेव विपद्यते ४८
इति महाश्वासः
दीर्घं श्वसिति यस्तूर्ध्वं न च प्रत्याहरत्यधः
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः ४९
ऊर्ध्वदृष्टिर्विपश्यंश्च विभ्रान्ताक्ष इतस्ततः
प्रमुह्यन् वेदनार्तश्च शुष्कास्योऽरतिपीडितः ५०
ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून् ५१
इत्यूर्ध्वश्वासः
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पिडितः
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः ५२
आनाहस्वेदमूर्च्छार्तो दह्यमानेन बस्तिना
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ५३
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः
छिन्नश्वासेन विच्छिन्नः स शीघ्रं प्रजहात्यसून् ५४
इति छिन्नश्वासः
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते
ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य च ५५
करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा
अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम् ५६
प्रताम्यत्यतिवेगाच्च कासते सन्निरुध्यते
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः ५७
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम् ५८
अथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम्
न चापि निद्रां लभते शयानः श्वासपीडितः ५९
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति ६०
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ६१
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्चाभिवर्धते
स याप्यस्तमकश्वासः साध्यो वा स्यान्नवोत्थितः ६२
इति तमकश्वासः
ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम्
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः ६३
तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति
मज्जतस्तमसीवाऽस्य विद्यात् संतमकं तु तम् ६४
इति प्रतमकसंतमकश्वासौ
रुक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्
क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ६५
हिनस्ति न स गात्राणि न च दुःखो यथेतरे
न च भोजनपानानां निरुणद्ध्युचितां गतिम् ६६
नेन्द्रियाणां व्यथां नापि कांचिदापादयेद्रुजम्
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः ६७
इति श्वासाः समुद्दिष्टा हिक्काश्चापि स्वलक्षणैः
एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः ६८
भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत्
उपेक्षिता दहेयुर्हि शुष्कं वृक्षमिवानलः ६९
कारणस्थानमूलैक्यादेकमेव चिकित्सितम्
द्व्योरपि यथादृष्टमृषिभिस्तन्निबोधत ७०
हिक्काश्वासार्दितं स्निग्धैरादौ स्वेदैरुपाचरेत्
आक्तं लवणतैलेन नाडीप्रस्तरसंकरैः ७१
तैरस्य ग्रथितः श्लेष्मा स्रोतःस्वभिविलीयते
खानि मार्दवमायान्ति ततो वातानुलोमता ७२
यथाऽद्रिकुञ्जेष्वर्कांशुतप्तं विष्यन्दते हिमम्
श्लेष्मा तप्तः स्थिरो देहे स्वेदैर्विष्यन्दते तथा ७३
स्विन्नं ज्ञात्वा ततस्तूर्ण भोजयेत् स्निग्धमोदनम्
मत्स्यानां सूकराणां वा रसैर्दध्युत्तरेण वा ७४
ततः श्लेष्मणि संवृद्धे वमनं पाययेत्तु तम्
पिप्पलीसैन्धवक्षौद्रैर्युक्तं वाताविरोधि यत् ७५
निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे
स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः ७६
लीनश्चेद्दोषशेषः स्याद्धूमैस्तं निर्हरेद्बुधः
हरिद्रां पत्रमेरण्डमूलं लाक्षां मनःशिलाम् ७७
सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्
तां घृताक्तां पिबेद्धूमं यवैर्वा घृतसंयुतैः ७८
मधूच्छिष्टं सर्जरसं घृतं मल्लकसंपुटे
कृत्वा धूमं पिबेच्छृङ्गं बालं वा स्नायु वा गवाम् ७९
श्योनाकवर्धमानानां नाडीं शुष्कां कुशस्य वा
पद्मकं गुग्गुलुं लोहं शल्लकीं वा घृताप्लुतम् ८०
स्वरक्षीणातिसारासृक्पित्तदाहानुबन्धजान्
मधुरस्निग्धशीताद्यैर्हिक्काश्वासानुपाचरेत् ८१
न स्वेद्याः पित्तदाहार्ता रक्तस्वेदातिवर्तिनः
क्षीणधातुबला रूक्षा गर्भिण्यश्चापि पित्तलाः ८२
कोष्णैः काममुरःकण्ठं स्नेहसेकैः सशर्करैः
उत्कारिकोपनाहैश्च स्वेदयेन् मृदुभिः क्षणम् ८३
तिलोमामाषगोधूमचूर्णैर्वातहरैः सह
स्नेहैश्चोत्कारिका साम्लैः सक्षीरैर्वा कृता हिता ८४
नवज्वरामदोषेषु रूक्षस्वेदं विलङ्घनम्
समीक्ष्योल्लेखनं वाऽपि कारयेल्लवणाम्बुना ८५
अतियोगोद्धतं वातं दृष्ट्वा वातहरैर्भिषक्
रसाद्यैर्नातिशीतोष्णैरभ्यङ्गैश्च शमं नयेत् ८६
उदावर्ते तथाऽऽध्माने मातुलुङ्गाम्लवेतसैः
हिङ्गुपीलुबिडैश्चान्नं युक्तं स्यादनुलोमनम् ८७
हिक्काश्वासामयी ह्येको बलवान् दुर्बलोऽपरः
कफाधिकस्तथैवैको रूक्षो बह्वनिलो परः ८८
कफाधिके बलस्थे च वमनं सविरेचनम्
कुर्यात् पथ्याशिने धूमलेहादिशमनं ततः ८९
वातिकान् दुर्बलान् बालान् वृद्धांश्चानिलसूदनैः
तर्पयेदेव शमनैः स्नेहयूषरसादिभिः ९०
अनुत्क्लिष्टकफास्विन्नदुर्बलानां विशोधनात्
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून् ९१
दृढान् बहुकफांस्तस्माद्रसैरानूपवारिजैः
तृप्तान्विशोधयेत्स्विन्नान् बृंहयेदितरान् भिषक् ९२
बर्हितित्तिरिदक्षाश्च जाङ्गलाश्च मृगद्विजाः
दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः ९३
निदिग्धिकां बिल्वमध्यं कर्कटाख्यां दुरालभाम्
त्रिकण्टकं गुडूचीं च कुलत्थांश्च सचित्रकान् ९४
जले पक्त्वा रसः पूतः पिप्पलीघृतभर्जितः
सनागरः सलवणः स्याद्यूषो भोजने हितः ९५
रास्नां बलां पञ्चमूलं ह्रस्वं मुद्गान् सचित्रकान्
पक्त्वाऽम्भसि रसे तस्मिन् यूषः साध्यश्च पूर्ववत् ९६
पल्लवान्मातुलुङ्गस्य निम्बस्य कुलकस्य च
पक्त्वा मुद्गांश्च सव्योषक्षारान् यूष विपाचयेत् ९७
दत्त्वा सलवणं क्षारं शिग्रूणि मरिचानि च
युक्त्या संसाधितो यूषो हिक्काश्वासविकारनुत् ९८
कासमर्दकपत्राणां यूषः शोभाञ्जनस्य च
शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः ९९
सदधिव्योषसर्पिष्को यूषो वार्ताकजो हितः
शालिषष्टिकगोधूमयवान्नान्यनवानि च १००
हिङ्गुसौवर्चलाजाजीबिडपौष्करचित्रकैः
सिद्धा कर्कटशृङ्ग्या च यवागूः श्वासहिक्किनाम् १०१
दशमूलीशटीरास्नापिप्पलीमूलपौष्करैः
शृङ्गीतामलकीभार्गीगुडूचीनागराम्बुभिः १०२
यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः कासहृद्ग्रहपार्श्वार्तिहिक्काश्वासप्रशान्तये १०३
पुष्कराह्वशटीव्योषमातुलुङ्गाम्लवेतसैः
योजयेदन्नपानानि ससर्पिर्बिडहिङ्गुभिः १०४
दशमूलस्य वा क्वाथमथवा देवदारुणः
तृषितो मदिरां वाऽपि हिक्काश्वासो पिबेन्नरः १०५
पाठां मधुरसां रास्नां सरलं देवदारु च
प्रक्षाल्य जर्जरीकृत्य सुरामण्डे निधापयेत् १०६
तं मन्दलवणं कृत्वा भिषक् प्रसृतसंमितम्
पाययेत्तु ततो हिक्का श्वासश्चैवोपशाम्यति १०७
हिङ्गु सौवर्चलं कोलं समङ्गां पिप्पलीं बलाम्
मातुलुङ्गरसे पिष्टमारनालेन वा पिबेत् १०८
सौवर्चलं नागरं च भार्गीं द्विशर्करायुतम्
उष्णाम्बुना पिबेदेतद्धिक्काश्वासविकारनुत् १०९
भार्गीनागरयोः कल्कं मरिचक्षारयोस्तथा
पीतद्रुचित्रकास्फोतामूर्वाणां चाम्बुना पिबेत् ११०
मधूलिका तुगाक्षीरी नागरं पिप्पली तथा
उत्कारिका घृते सिद्धा श्वासे पित्तानुबन्धजे १११
श्वाविधं शशमांसं च शल्लकस्य च शोणितम्
पिप्पलीघृतसिद्धानि श्वासे वातानुबन्धजे ११२
सुवर्चलारसो दुग्धं घृतं त्रिकटुकान्वितम्
शाल्योदनस्यानुपानं वातपित्तानुगे हितम् ११३
शिरीषपुष्पस्वरसः सप्तपर्णस्य वा पुनः
पिप्पलीमधुसंयुक्तः कफपित्तानुगे मतः ११४
मधुकं पिप्पलीमूलं गुडो गोश्वशकृद्रसः
घृतं क्षौद्रं कासश्वासहिक्काभिष्यन्दिनां शुभम् ११५
खराश्वोष्ट्रवराहाणां मेषस्य च गजस्य च
शकृद्रसं बहुकफे चैकैकं मधुना पिबेत् ११६
क्षारं चाप्यश्वगन्धाया लिह्यान्ना क्षौद्रसर्पिषा
मयूरपादनालं वा शकलं शल्लकस्य वा ११७
श्वाविज्जाहकचाषाणां रोमाणि कुररस्य वा
शृङ्ग्ये कद्विशफानां वा चर्मास्थीनि खुरांस्तथा ११८
सर्वाण्येकैकशो वाऽपि दग्ध्वा क्षौद्रघृतान्वितम्
चूर्णं लीढ्वा जयेत् कासं हिक्कां श्वासं च दारुणम् ११९
एते हि कफसंरुद्धगतिप्राणप्रकोपजाः
तस्मात्तन्मार्गशुद्ध्यर्थं देया लेहा न निष्कफे १२०
कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान्
वातश्लेष्महरैर्युक्तं तमके तु विरेचनम् १२१
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्
यथा तथाऽनिलस्तस्य मार्गं नित्यं विशोधयेत् १२२
शटीचोरकजीवन्तीत्वङ्मुस्तं पुष्कराह्वयम्
सुरसं तामलक्येला पिप्पल्यगुरु नागरम् १२३
बालकं च समं चूर्णं कृत्वाऽष्टगुणशर्करम्
सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत् १२४
इति शट्यादिचूर्णम्
मुक्ताप्रवालवेदूर्यशङ्खस्फटिकमञ्जनम्
ससारगन्धकाचार्कसूक्ष्मैलालवणद्वयम् १२५
ताम्रायोरजसी रूप्यं ससौगन्धिकसीसकम्
जातीफलं शणाद्बीजमपामार्गस्य तण्डुलाः १२६
एषां पाणितलं चूर्णं तुल्यानां क्षौद्रसर्पिषा
हिक्कां श्वासं च कासं च लीढमाशु नियच्छति १३७
अञ्जनात्तिमिरं काचं नीलिकां पुष्पकं तमः
पिल्लं कण्डूमभिष्यन्दमर्म चैव प्रणाशयेत् १२८
इति मुक्ताद्यं चूर्णम्
शटीपुष्करमूलानां चूर्णमामलकस्य च
मधुना संयुतं लेह्यं चूर्णं वा काललोहजम् १२९
सशर्करां तामलकीं द्राक्षां गोश्वशकृद्रसम्
तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा १३०
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा
नावयेच्चन्दनं वाऽपि नारीक्षीरेण संयुतम् १३१
सुखोष्णं घृतमण्डं वा सैन्धवेनावचूर्णितम्
नावयेन्माक्षिकीं विष्ठामलक्तकरसेन वा १३२
नारीक्षीरेण सिद्धं वा सर्पिर्मधुरकैरपि
पीतं नस्तो निषिक्तं वा सद्यो हिक्कां नियच्छति १३३
सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिक्किनां पयः
पाने नस्तःक्रियायां वा शर्करामधुसंयुतम् १३४
अधोभागैर्घृतं सिद्धं सद्यो हिक्कां नियच्छति
पिप्पलीमधुयुक्तौ वा रसौ धात्रीकपित्थयोः १३५
लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकृद्रसान्
लिह्यात् कोलमधुद्राक्षापिप्पलीनागराणि वा १३६
शीताम्बुसेकः सहसा त्रासो विस्मापनं भयम्
क्रोधहर्षप्रियोद्वेगा ह्विक्काप्रच्यावना मताः १३७
हिक्काश्वासविकाराणां निदानं यत् प्रकीर्तितम्
वर्ज्यमारोग्यकामैस्तद्धिक्काश्वासविकारिभिः १३८
हिक्काश्वासानुबन्धा ये शुष्कोरःकण्ठतालुकाः
प्रकृत्या रूक्षदेहाश्च सर्पिर्भिस्तानुपाचरेत् १३९
दशमूलरसे सर्पिर्दधिमण्डे च साधयेत्
कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः १४०
कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत्
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी १४१
भूतीकं पौष्करं मूलं पलाशश्चित्रकः शटी
सौवर्चलं तामलकी सैन्धवं बिल्वपेशिका १४२
तालीसपत्रं जीवन्ती वचा तैरक्षसंमितैः
हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे १४३
एतद्यथाबलं पीत्वा हिह्क्काश्वासौ जयेन्नरः शोथानिलार्शोग्रहणीहृत्पार्श्वरुज एव च १४४
इति तेजोवत्यादिघृतम्
मनःशिलासर्जरसलाक्षारजनिपद्मकैः मञ्जिष्ठैलैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः १४५
इति मनःशिलादिघृतम्
जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद्घृतम्
त्र्यूषणं दाधिकं वाऽपि पिबेद्वासाघृतं तथा १४६
यत्किंचित् कफवातघ्नमुष्णं वातानुलोमनम्
भेषजं पानमन्नं वा तद्धितं श्वासहिक्किने १४७
वातकृद्वा कफहरं कफकृद्वाऽनिलापहम्
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम् १४८
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्
नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्शने १४९
तस्माच्छुद्धानशुद्धांश्च शमनैर्बृंहणैरपि
हिक्काश्वासार्दिताञ्जन्तून् प्रायशः समुपाचरेत् १५०
तत्र श्लोकः--
दुर्जयत्वे समुत्पत्तौ क्रियेकत्वे च कारणम्
लिङ्गं पथ्यं च हिक्कानां श्वासानां चेह दर्शितम् १५१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने
हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः १७

अष्टादशोऽध्यायः
अथातः कासचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
तपसा यशसा धृत्या धिया च परयाऽन्वितः
आत्रेयः कासशान्त्यर्थं प्राह सिद्धं चिकित्सितम् ३
वातादिजास्त्रयो ये च क्षतजः क्षयजस्तथा
पञ्चैते स्युर्नृणां कासा वर्धमानाः क्षयप्रदाः ४
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ५
अधःप्रतिहतो वायुरूर्ध्वस्रोतःसमाश्रितः
उदानभावमापन्नः कण्ठे सक्तस्तथोरसि ६
आविश्य शिरसः खानि सर्वाणि प्रतिपूरयन्
आभञ्जन्नाक्षिपन् देहं हनुमन्ये तथाऽक्षिणी ७
नेत्रे पृष्ठमुरःपार्श्वे निर्भुज्य स्तम्भयंस्ततः
शुष्को वा सकफो वाऽपि कसनात्कास उच्यते ८
प्रतिघातविशेषेण तस्य वायोः सरंहसः
वेदनाशब्दवेशिष्ट्यं कासानामुपजायते ९
रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः
वेगधारणमायासो वातकासप्रवर्तकाः १०
हृत्पार्श्वोरःशिरःशूलस्वरभेदकरो भृशम्
शुष्कोरःकण्ठवक्रस्य हृष्टलोम्नः प्रताम्यतः ११
निर्घोषदैन्यस्तननदौर्बल्यक्षोभमोहकृत्
शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत् १२
स्निग्धाम्ललवणोष्णैश्च भुक्तपीतैः प्रशाम्यति
ऊर्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत् १३
कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम्
पित्तकासहरं क्रोधः संतापश्चाग्निसूर्यजः १४
पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः
उरोधूमायनं तृष्णा दाहो मोहोऽरुचिर्भ्रमः १५
प्रततं कासमानश्च ज्योतींषीव च पश्यति
श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके १६
गुर्वभिष्यन्दिमधुरस्निग्धस्वप्नाविचेष्टनैः
वृद्धः श्लेष्माऽनिलं रुद्ध्वा कफकासं करोति हि १७
मन्दाग्नित्वारुचिच्छर्दिपीनसोत्क्लेशगौरवैः
लोमहर्षास्यमाधुर्यक्लेदसंसदनैर्युतम् १८
बहुलं मधुरं स्निग्धं निष्ठीवति घनं कफम्
कासमानो ह्यरुग् वक्षः संपूर्णमिव मन्यते १९
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः
रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत् २०
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्
कण्ठेन रुजतात्यर्थं विरुग्णेनेव चोरसा २१
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना २२
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः
पारावत इवाकूजन् कासवेगात्क्षतोद्भवात् २३
विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात्
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः २४
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम्
दुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम् २५
स्थानादुत्कासमानश्च हृदयं मन्यते च्युतम्
अकस्मादुष्णशीतार्तो बह्वाशी दुर्बलः कृशः २६
स्निग्धाच्छमुखवर्णत्वक् श्रीमद्दर्शनलोचनः
पाणिपादतलैः श्लक्ष्णैः सततासूयको घृणी २७
ज्वरो मिश्राकृतिस्तस्य पार्श्वरुक् पीनसोऽरुचिः
भिन्नसंहतवर्चस्त्वं स्वरभेदोऽनिमित्ततः २८
इत्येष क्षयजः कासः क्षीणानां देहनाशनः
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः २९
नवौ कदाचित् सिध्येतामेतौ पादगुणान्वितौ
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः ३०
त्रीन्साध्यान्साधयेत्पूर्वान् पथ्यैर्याप्यांश्च यापयेत्
चिकित्सामत ऊर्ध्वं तु शृणुकासनिबर्हिणीम् ३१
रूक्षस्यानिलजं कासमादो स्नेहैरुपाचरेत्
सर्पिर्भिर्बस्तिभिः पेयायूषक्षीररसादिभिः ३२
वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लेहैश्च युक्तितः
अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान् ३३
बस्तिभिर्बद्धविड्वातं शुष्कोर्ध्वं चोर्ध्वभक्तिकैः
घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः ३४
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः ३५
इति कण्टकारीघृतम्
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
धान्यपाठावचारास्नायष्ट्याह्वक्षारहिङ्गुभिः ३६
कोलमात्रैर्घृतप्रस्थाद्दशमूलीरसाढके
सिद्धाच्चतुर्थिकां पीत्वा पेयामण्डं पिबेदनु ३७
तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत्
पिप्पल्याद्यं घृतं चैतदात्रेयेण प्रकीर्तितम् ३८
इति पिप्पल्याद्यं घृतम्
त्र्यूषणं त्रिफलां द्राक्षां काश्मर्याणि परूषकम्
द्वे पाठे देवदार्वृद्धिं स्वगुप्तां चित्रकं शटीम् ३९
व्याघ्रीं तामलकीं मेदां काकनासां शतावरीम्
त्रिकण्टकं विदारीं च पिष्ट्वा कर्षसमं घृतात् ४०
प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत्
ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ४१
कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम्
त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम् ४२
इति त्र्यूषणाद्यं घृतम्
द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम्
पलिकां माणिकांशांस्तु कुलत्थान्बदरान्यवान् ४३
तुलार्धं चाजमांसस्य पादशेषेण तेन च
घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः ४४
सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः
समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत् ४५
पञ्च कासान् शिरःकम्पं शूलं वङ्क्षणयोनिजम्
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत् ४६
इति रास्नाघृतम्
विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम्
भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया ४७
सकफेऽनिलजे कासे श्वासहिक्काहताग्निषु
द्वौ क्षारौ पञ्चकोलानि पञ्चैव लवणानि च ४८
शटीनागरकोदीच्यकल्कं वा वस्त्रगालितम्
पाययेत घृतोन्मिश्रं वातकासनिबर्हणम् ४९
दुरालभां शटीं द्राक्षां शृङ्गवेरं सितोपलाम्
लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे ५०
दुःस्पर्शां पिप्पलीं मुस्तं भार्गीं कर्कटकीं शटीम्
पुराणगुडतैलाभ्यां चूर्णितं वाऽपि लेहयेत् ५१
विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मनःशिलाम्
मधुसर्पिर्युतं कासहिक्काश्वासं जयेल्लिहन् ५२
चित्रकं पिप्पलीमूलं व्योषं हिङ्गु दुरालभाम्
शटीं पुष्करमूलं च श्रेयसीं सुरसां वचाम् ५३
भार्गीं छिन्नरुहां रास्नां शृङ्गीं द्राक्षां च कार्षिकान्
कल्कानर्धतुलाक्वाथे निदिग्ध्याः पलविंशतिम् ५४
दत्त्वा मत्स्यण्डिकायाश्च घृताच्च कुडवं पचेत्
सिद्धं शीतं पृथक् क्षौद्रपिप्पलीकुडवान्वितम् ५५
चतुष्पलं तुगाक्षीर्याश्चूर्णितं तत्र दापयेत्
लेहयेत् कासहृद्रोगश्वासगुल्मनिवारणम् ५६
इति चित्रकादिलेहः
दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शटीं बलाम्
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ५७
भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम्
हरीतकीशतं चैकं जले पञ्चाढके पचेत् ५८
यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम्
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ५९
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च मक्षिकात्
लेह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात् ६०
तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम्
पञ्च कासान् क्षयं श्वासं हिक्कां च विषमज्वरम् ६१
हन्यात्तथाऽर्शोग्रहणीहृद्रोगारुचिपीनसान्
अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम् ६२
इत्यगस्त्यहरीतकी
सैन्धवं पिप्पलीं भार्गी शृङ्गवेरं दुरालभाम्
दाडिमाम्लेन कोष्णेन भार्गीं नागरमम्बुना ६३
पिबेत् खदिरसारं वा मदिरादधिमस्तुभिः
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् ६४
शिरसः पीडने स्रावे नासाया हृदि ताम्यति
कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् ६५
दशाङ्गुलोन्मितां नाडीमथवाऽष्टाङ्गुलोन्मिताम्
शरावसंपुटच्छिद्रे कृत्वा जिह्मां विचक्षणः ६६
वैरेचनं मुखेनैव कासवान् धूममापिबेत्
तमुरः केवलं प्राप्तं मुखेनैवोद्वमेत् पुनः ६७
स ह्यस्य तैक्ष्ण्याद्विच्छिद्य श्लेष्माणमुरसि स्थितम्
निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम् ६८
मनः शिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत्
धूमं तस्यानु च क्षीरं सुखोष्णं सगुडं पिबेत् ६९
एष कासान् पृथग्दोषसन्निपातसमुद्भवान्
धूमो हन्यादसंसिद्धानन्यैर्योगशतैरपि ७०
प्रपौण्डरीकं मधुकं शार्ङ्गेष्टां समनःशिलाम्
मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम् ७१
कृत्वा वर्तिं पिबेद्धूमं क्षौमचेलानुवर्तिताम्
घृताक्तामनु च क्षीरं गुडोदकमथापि वा ७२
मनःशिलैलामरिचक्षाराञ्जनकुटन्नटैः
वंशलोचनशैवालक्षौमलक्तकरोहिषैः ७३
पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते
मनःशिलाले तद्वच्च पिप्पलीनागरैः सह ७४
त्वगैङ्गुदी बृहत्यौ द्वे तालमूली मनःशिला
कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशन ७५
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान् ७६
यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः
रास्नाजाजीपृथक्पर्णीपलाशशटिपौष्करैः ७७
स्निग्धाम्ललवणां सिद्धां पेयामनिलजे पिबेत्
कटीहृत्पार्श्वकोष्ठार्तिश्वासहिक्काप्रणाशिनीम् ७८
दशमूलरसे तद्वत्पञ्चकोलगुडान्विताम्
सिद्धां समतिलां दद्यात्क्षीरे वाऽपि ससैन्धवाम् ७९
मात्स्यकौक्कुटवाराहैरामिषैर्वा घृतान्विताम्
सिद्धां ससैन्धवां पेयां वातकासी पिबेन्नरः ८०
वास्तुको वायसीशाकं मूलकं सुनिषण्णकम्
स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः ८१
दध्यारनालाम्लफलप्रसन्नापानमेव च
शस्यते वातकासे तु स्वाद्वम्ललवणानि च ८२
इति वातकासचिकित्सा
पैत्तिके सकफे कासे वमनं सर्पिषा हितम्
तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः ८३
यष्ट्याह्वफलकल्कैर्वा विदारीक्षुरसायुतैः
हृतदोषस्ततः शीतं मधुरं च क्रमं भजेत् ८४
पैत्ते तनुकफे कासे त्रिवृतां मधुरैर्युताम्
दद्याद्घनकफे तिक्तैर्विरेकार्थे युतां भिषक् ८५
स्निग्धशीतस्तनुकफे रूक्षशीतः कफे घने
क्रमः कार्यः परं भोज्यैः स्नेहैर्लेहैश्च वक्ष्यते ८६
शृङ्गाटकं पद्मबीजं नीली वारणपिप्पली
पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम् ८७
लाजाऽमृतफला द्राक्षा त्वक्क्षीरी पिप्पली सिता
पिप्पलीपद्मकद्राक्षा बृहत्याश्च फलाद्रसः ८८
खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते
घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम् ८९
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः
पैत्ते समुस्तमरिचः सकफे सघृतोऽनिले ९०
मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम्
लेहयेन्मधुना गोर्वा क्षीरे पक्त्वा शकृद्रसम् ९१
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः
लाजामुस्तशटीरास्नाधात्रीफलबिभीतकैः ९२
शर्कराक्षौद्रसर्पिर्भिर्लेहः कासविनाशनः
श्वासं हिक्कां क्षयं चैव हृद्रोगं च प्रणाशयेत् ९३
पिप्पल्यामलकं द्राक्षां लाक्षां लाजां सितोपलाम्
क्षीरे पक्त्वा घनं शीतं लिह्यात् क्षौद्राष्टभागिकम् ९४
विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम्
पिबेद्वा मधुसंयुक्तं पित्तकासहरं परम् ९५
मधुरैर्जाङ्गलरसैः श्यामाकयवकोद्रवाः
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः ९६
घनश्लेष्मणि लेहास्तु तिक्तका मधुसंयुताः
शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः ९७
शर्कराम्भोऽनुपानार्थं द्राक्षेक्षूणां रसाः पयः
सर्वं च मधुरं शीतमविदाहि प्रशस्यते ९८
काकोलीबृहतीमेदायुग्मैः सवृषनागरैः
पित्तकासे रसान् क्षीरं यूषांश्चाप्युपकल्पयेत् ९९
शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा
कषायेण शृतं क्षीरं पिबेत् समधुशर्करम् १००
स्थिरासितापृश्निपर्णीश्रावणीबृहतीयुगैः
जीवकर्षभकाकोलीतामलक्यृद्धिवृद्धिकैः १०१
शृतं पयः पिबेत् कासी ज्वरी दाही क्षतक्षयी
तज्जं वा साधयेत् सर्पिः सक्षीरेक्षुरसं भिषक् १०२
जीवकाद्यैर्मधुरकैः फलैश्चाभिषुकादिभिः
कल्कैस्त्रिकार्षिकैः सिद्धे पूतशीते प्रदापयेत् १०३
शर्करां पिप्पलीचूर्णं त्वक्क्षीर्या मरिचस्य च
शृङ्गाटकस्य चावाप्य क्षौद्रगर्भान्पलोन्मितान् १०४
गुडान् गोधूमचूर्णेन कृत्वा खादेद्धिताशनः
शुक्रासृग्दोषशोषेषु कासे क्षीणक्षतेषु च १०५
शर्करानागरोदीच्यं कण्टकारीं शटीं समम्
पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम् १०६
महिष्यजाविगोक्षीरधात्रीफलरसैः समैः
सर्पिः सिद्धं पिबेद्युक्त्या पित्तकासनिबर्हणम् १०७
इति पित्तकासचिकित्सा
बलिनं वमनैरादौ शोधितं कफकासिनम्
यवान्नैः कटुरूक्षोष्णैः कफघ्नैश्चाप्युपाचरेत् १०८
पिप्पलीक्षारिकैर्यूषैः कौलत्थैर्मूलकस्य च
लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः १०९
धान्वबैलरसैः स्नेहैस्तिलसर्षपबिल्वजैः
मध्वम्लोष्णाम्बुतक्रं वा मद्यं वा निगदं पिबेत् ११०
पौष्करारग्वधं मूलं पटोलं तैर्निशास्थितम्
जलं मधुयुतं पेयं कालेष्वन्नस्य वा त्रिषु १११
कट्फलं कत्तृणं भार्गी मुस्तं धान्यं वचाभया
शुण्ठी पर्पटकं शृङ्गी सुराह्वं च शृतं जले ११२
मधुहिङ्गुयुतं पेयं कासे वातकफात्मके
कण्ठरोगे मुखे शूने श्वासहिक्काज्वरेषु च ११३
पाठां शुण्ठीं शटीं मूर्वां गवाक्षीं हस्तिपिप्पलीम्
पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतां पिबेत् ११४
नागरातिविषे मुस्तं शृङ्गीं कर्कटकस्य च
हरीतकीं शटीं चैव तेनैव विधिना पिबेत् ११५
तैलभृष्टं च पिप्पल्याः कल्काक्षं ससितोपलम्
पबेद्वा श्लेष्मकासघ्नं कुलत्थरससंयुतम् ११६
कासमर्दाश्वविट्भृङ्गराजवार्ताकजो रसः
सक्षौद्रः कफकासघ्नः सुरसस्यासितस्य च ११७
देवदारु शटी रास्ना कर्कटाख्या दुरालभा
पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः ११८
मधुतैलयुतावेतौ लेहौ वातानुगे कफे
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली ११९
पथ्या तामलकी धात्री भद्रमुस्ता च पिप्पली
देवदार्वभया मुस्तं पिप्पली विश्वभेषजम् १२०
विशाला पिप्पली मुस्तं त्रिवृता चेति लेहयेत्
चतुरो मधुना लेहान् कफकासहरान् भिषक् १२१
सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्
चूर्णितं सर्पिषा वातकफकासहरं पिबेत् १२२
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्
पुष्कराह्वशटीबिल्वसुरसव्योषहिङ्गुभिः १२३
पेयानुपानं तत् पेयं कासे वातकफात्मके
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च १२४
इति दशमूलादिघृतम्
समूलफलपत्रायाः कण्टकार्या रसाढके
घृतप्रस्थं बलाब्योषविडङ्गशटिचित्रकैः १२५
सौवर्चलयवक्षारपिप्पलीमूलपौष्करैः
वृश्चीरबृहतीपथ्यायवानीदाडिमर्द्धिभिः १२६
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः
शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् १२७
कल्कैस्तत् सर्वकासेषु हिक्काश्वासेषु शस्यते
कण्टकारीघृतं ह्येतत् कफव्याधिनिसूदनम् १२८
इति कण्टकारीघृतम्
कुलत्थरसयुक्तं वा पञ्चकोलशृतं घृतम्
पाययेत् कफजे कासे हिक्काश्वासे च शस्यते १२९
इति कुलत्थादिघृतम्
धूमांस्तानेव दद्याच्च ये प्रोक्ता वातकासिनाम्
कोशातकीफलान्मध्यं पिबेद्वा समनःशिलम् १३०
तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः
पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत् १३१
वाते कफानुबन्धे तु कुर्यात् कफहरीं क्रियाम्
पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम् १३२
आद्रे विरूक्षणं शुष्के स्निग्धं वातकफात्मके
कासेऽन्नपानं कफजे सपित्ते तिक्तसंयुतम् १३३
इति कफजकासचिकित्सा
कासमात्ययिकं मत्वा क्षतजं त्वरया जयेत्
मधुरैर्जीवनीयैश्च बलमांसविवर्धनैः १३४
पिप्पली मधुकं पिष्टं कार्षिकं ससितोपलम्
प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसस्तथा १३५
यवगोधूममृद्वीकाचूर्णमामलकाद्रसः
तैलं च प्रसृतांशानि तत् सर्वं मृदुनाऽग्निना १३६
पचेल्लेहं घृतक्षौद्रयुक्तः स क्षतकासहा
श्वासहृद्रोगकार्श्येषु हितो वृद्धेऽल्परेतसि १३७
क्षतकासाभिभूतानां वृत्तिः स्मात् पित्तकासिकी
क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम् १३८
वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्हितः
तैलैर्मारुतरोगघ्नैः पीड्यमाने च वायुना १३९
हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः
सदाहं कासिनो रक्तं ष्ठीवतः सबलेऽनले १४०
मांसोचितेभ्यः क्षामेभ्यो लावादीनां रसा हिताः
तृष्णार्तानां पयश्छागं शरमूलादिभिः शृतम् १४१
रक्ते स्रोतोभ्य अस्याद्वाऽप्यागते क्षीरजं घृतम्
नस्यं पानं यवागूर्वा श्रान्ते क्षामे हतानले १४२
स्तम्भायामेषु महतीं मात्रां वा सर्पिषः पिबेत्
कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत् १४३
निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः
दाल्यते कासिनो यस्य स धूमान्ना पिबेदिमान् १४४
द्वे मेदे मधुकं द्वे च बले तैः क्षौमलक्तकैः
वर्तितैर्धूममापीय जीवनीयघृतं पिबेत् १४५
मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः
भावयित्वा पिबेत् क्षौममनु चेक्षुगुडोदकम् १४६
पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया
ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम् १४७
भावितं जीवनीयैर्वा कुलिङ्गाण्डरसायुतैः
क्षौमं धूमं पिबेत् क्षीरं शृतं चायोगुडैरनु १४८
इति क्षतजकासचिकित्सा
संपूर्णरूपं क्षयजं दुर्बलस्य विवर्जयेत्
नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम् १४९
तस्मै बृंहणमेवादौ कुर्यादग्नेश्च दीपनम्
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम् १५०
शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया
तिल्वकस्य कषायेण विदारीस्वरसेन च १५१
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्
हितं तद्देहबलयोरस्य संरक्षणं मतम् १५२
पित्ते कफे च संक्षीणे परिक्षीणेषु धातुषु
घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् १५३
विदारीभिः कदम्बैर्वा तालसस्यैस्तथा शृतम्
घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे १५४
शूने सवेदने मेढे पायौ सश्रोणिवंक्षणे
घृतमण्डेन लघुनाऽनुवास्यो मिश्रकेण वा १५५
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः
क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः १५६
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते
कफं शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहन्रसः १५७
द्विपञ्चमूलीत्रिफलाचविकाभार्गिचित्रकैः
कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले १५८
शृते नागरदुःस्पर्शापिप्पलीशटिपौष्करैः
कल्कैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत् १५९
सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च
दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः १६०
इति द्विपञ्चमूलादिघृतम्
गुडूचीं पिप्पलीं मूर्वां हरिद्रां श्रेयसीं वचाम्
निदिग्धिकां कासमर्दं पाठां चित्रकनागरम् १६१
जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम्
सिद्धं सर्पिः पिबेद्गुल्मश्वासार्तिक्षयकासनुत् १६२
इति गुडूच्यादिघृतम्
कासमर्दाभयामुस्तपाठाकट्फलनागरैः
पिप्पलीकटुकाद्राक्षाकाश्मर्यसुरसैस्तथा १६३
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके
पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् १६४
धात्रीफलैः क्षीरसिद्धैः सर्पिर्वाऽप्यवचूर्णितम्
द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम् १६५
पिबेदुपरि भक्तस्य यवक्षारघृतं नरः
पिप्पलीगुडसिद्धं वा च्छागक्षीरयुतं घृतम् १६६
एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम्
स्युर्दौषबद्धकोष्ठोरःस्रोतसां च विशुद्धये १६७
हरीतकीर्यवक्वाथद्व्याढके विंशतिं पचेत्
स्विन्ना मृदित्वा तास्तस्मिन् पुराणं गुडषट्पलम् १६८
दद्यान्मनःशिलाकर्षं कर्षार्धं च रसाञ्जनात्
कुडवार्धं च पिप्पल्याः स लेहः श्वासकासनुत् १६९
इति हरीतकीलेहः
श्वाविधः सूचयो दग्धाः सघृतक्षौद्रशर्कराः
श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा १७०
एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्
लिह्यादेतेन विधिना सुरसैरण्डपत्रजम् १७१
द्राक्षापद्मकवार्ताकपिप्पलीः क्षौद्रसर्पिषा
लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा १७२
चित्रकं त्रिफलाजाजी कर्कटाख्या कटुत्रिकम्
द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा १७३
पद्मकं त्रिफलां व्योषं विडङ्गं सुरदारु च
बलां रास्नां च तुल्यानि सूक्ष्मचूर्णानि कारयेत् १७४
सर्वैरेभिः समं चूर्णैः पृथक् क्षौद्रं घृतं सिताम्
विमथ्य लेहयेल्लेहं सर्वकासहरं शिवम् १७५
जीवन्तीं मधुकं पाठां त्वक्क्षीरीं त्रिफलां शटीम्
मुस्तैले पद्मकं द्राक्षां द्वे बृहत्यौ वितुन्नकम् १७६
सारिवां पौष्करं मूलं कर्कटाख्यां रसाञ्जनम्
पुनर्नवां लोहरजस्त्रायमाणां यवानिकाम् १७७
भार्गीं तामलकीमृद्धिं विडङ्गं धन्वयासकम्
क्षारचित्रकचव्याम्लवेतसव्योषदारु च १७८
चूर्णीकृत्य समांशानि लेहयेत् क्षौद्रसर्पिषा
चूर्णात्पाणितलम् पञ्च कासानेतद् व्यपोहति १७९
इति पद्मकादिलेहः
लिह्यान्मरिचचूर्णं वा सघृतक्षौद्रशर्करम्
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् १८०
स्वरभेदे च कासे च लेहमेतं प्रयोजयेत्
पत्रकल्कं घृतैर्भृष्टं तिल्वकस्य सशर्करम् १८१
पेया चोत्कारिकाच्छर्दितृट्कासामातिसारनुत्
गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्
साभयान् साधयेत्तोये यवागूं तेन चाम्भसा १८२
ससर्पिर्लवणां कासे हिक्काश्वासे सपीनसे
पाण्ड्वामये क्षये शोषे कर्णशूले च दापयेत् १८३
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः
सगौरामलकः साम्लः सर्वकासभिषग्जितम् १८४
वातघ्नौषधनिष्क्वाथं क्षीरं यूषान् रसानपि
वैष्किरप्रतुदान् बैलान् दापयेत् क्षयकासिने १८५
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः
क्षयकासे तानेव यथावस्थं प्रयोजयेत् १८६
दीपनं बृंहणं चैव स्रोतसां च विशोधनम्
व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं हितं भवेत् १८७
सन्निपातभवोऽप्येष क्षयकासः सुदारुणः
सन्निपातहितं तस्मात् सदा कार्यं भिषग्जितम् १८८
दोषानुबलयोगाच्च हरेद्रोगबलाबलम्
कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम् १८९
भोज्यं पानानि सर्पींषि लेहाश्च सह पानकैः
क्षीरं सर्पिर्गुडा धूमाः कासभैषज्यसंग्रहः १९०
तत्र श्लोकः--
संख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च
कासानां भेषजं प्रोक्तं गरीयस्त्वं च कासिनः १९१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने कासचिकित्सितं नामाष्टादशोऽध्यायः १८

एकोनविंशोऽध्यायः
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
भगवन्तं खल्वात्रेयं कृताह्विकं हुताग्निहोत्रमासीनमृषिगणपरिवृतमुत्तरे हिमवतः पार्श्वे विनयादुपेत्याभिवाद्य चाग्निवेश उवाच--भगवन् अतीसारस्य प्रागुत्पत्तिनिमित्तलक्षणोपशमनानि प्रजानुग्रहार्थमाख्यातुमर्हसीति ३
अथ भगवान् पुनर्वसुरात्रेयस्तदग्निवेशवचनमनुनिशम्योवाच -- श्रूयतामग्निवेश सर्वमेतदखिलेन व्याख्यायमानम् आदिकाले खलु यज्ञेषु पशवः समालभनीया बभूवुर्नालम्भाय प्रक्रियन्ते स्म । ततो दक्षयज्ञं प्रत्यवरकालं मनोः पुत्राणां नरिष्यन्नाभागेक्ष्वाकुनृगशर्यात्यादीनां क्रतुषु पशूनामेवाभ्यनुज्ञानात् पशवः प्रोक्षणमवापुः अतश्च प्रत्यवरकालं पृषध्रेण दीर्घसत्रेण यजता पशूनामलाभाद्गवामालम्भः प्रवर्तितः तं दृष्ट्वा प्रव्यथिता भूतगणाः तेषां चोपयोगादुपाकृतानां गवां गौरवादौष्ण्यादसात्म्यत्वादशस्तोपयोगाच्चोपहताग्नीनामुपहतमनसां चातीसारः पूर्वमुत्पन्नः पृषध्रयज्ञे ४
अथावरकालं वातलस्य वातातपव्यायामातिमात्रनिषेविणो रूक्षाल्पप्रमिताशिनस्तीक्ष्णमद्यव्यवायनित्यस्योदावर्तयतश्च वेगान् वायुः प्रकोपमापद्यते पक्ता चोपहन्यन्ते स वायुः कुपितोऽग्नावुपद्यते मूत्रस्वेदौ पुरीषाशयमुपहृत्य ताभ्यां पुरीषं द्रवीकृत्य अतीसाराय प्रकल्पते । तस्य रूपाणि विज्जलमामं विप्लुतमवसादि रूक्षं द्रवं सशूलमामगन्धमीषच्छब्दमशब्दं वा विबद्धमूत्रवातमतिसार्यते पुरीषं वायुश्चान्तःकोष्ठे सशब्दशूलस्तिर्यक् चरति विबद्ध इत्यामातिसारो वातात् । पक्वं वा विबद्धमल्पाल्पं सशब्दं सशूलफेनपिच्छापरिकर्तिकं हृष्टरोमा विनिःश्वसञ् शुष्कमुखः कट्यूरुत्रिकजानुपृष्ठपार्श्वशूली भ्रष्टगुदो मुहुर्मुहुर्विग्रथितमुपवेश्यते पुरीषं वातात् तमाहुरनुग्रथितमित्येके वातानुग्रथितवर्चस्त्वात् ५
पित्तलस्य पुनरम्ललवणकटुकक्षारोष्णतीक्ष्णातिमात्रनिषेविणः प्रतताग्निसूर्यसंतापोष्णमारुतोपहतगात्रस्य क्रोधेर्ष्याबहुलस्य पित्तं प्रकोपमापद्यते । तत्प्रकुपितं द्रवत्वादूष्माणमुपहत्य पुरीषाशयविसृतमौष्ण्याद् द्रवत्वात् सरत्वाच्च भित्त्वा पुरीषमतिसाराय प्रकल्पते ।तस्य रूपाणि हारिद्रं हरितं नीलं कृष्णं रक्तपित्तोपहितमतिदुर्गन्धमतिसार्यते पुरीषं तृष्णादाहस्वेदमूर्च्छाशूलब्रध्नसंतापपाकपरीत इति पित्तातिसारः॥ ६
श्लेष्मलस्य तु गुरुमधुरशीतस्निग्धोपसेविनः संपूरकस्याचिन्तयतो दिवास्वप्नपरस्यालसस्य श्लेष्मा प्रकोपमाद्यते ।स स्वभावाद् गुरुमधुरशीतस्निग्धः स्रस्तोऽग्निमुपहत्य सौम्यस्वभावात् पुरीषाशयमुपहत्योपक्लेद्य पुरीषमतिसाराय कल्पते ।तस्य रूपाणि स्निग्धं श्वेतं पिच्छिलं तन्तुमदामं गुरु दुर्गन्धं श्लेष्मोपहितमनुबद्धशूलमल्पाल्पमभीक्ष्णमतिसार्यते सप्रवाहिकं गुरूदरगुदबस्तिवंक्षणदेशः कृतेऽप्यकृतसंज्ञःसलोमहर्षः सोत्क्लेशो निद्रालस्यपरीतः सदनोऽन्नद्वेषी चेति श्लेष्मातिसारः ७
अतिशीतस्निग्धरूक्षोष्णगुरुखरकठिनविषमविरुद्धासात्म्यभोजनात् कालातीतभोजनाद् यत्किंचिदभ्यवहरणात् प्रदुष्टमद्यपानीयपानादतिमद्यपानादसंशोधनात् प्रतिकर्मणां विषमगमनादनुपचाराज्ज्वलनादित्यपवनसलिलाति-सेवनादस्वप्नादतिस्वप्नाद्वेगविधारणादृतुविपर्ययादयथाबलमारम्भाद्भयशो-कचित्तोद्वेगातियोगात् कृमिशोषज्वरार्शोविकारातिकर्षणाद्वा व्यापन्नाग्नेस्त्रयो दोषाः प्रकुपिता भूय एवाग्निमुपहत्य पक्काशयमनुप्रविश्यातीसारं सर्वदोषलिङ्गं जनयन्ति ८
अपि च शोणितादीन् धातूनतिप्रकृष्टं दूषयन्तो धातुदोषस्वभावकृतानतीसारवर्णानुपदर्शयन्ति । तत्र शोणितादिषु धातुष्वतिप्रदुष्टेषु हारिद्रहरितनीलमाञ्जिष्ठमांसधावनसन्निकाशं रक्तं कृष्णं श्वेतं वराहमेदःसदृशमनुबद्धवेदनमवेदनं वा समासव्यत्यासादुपवेश्यते शकृद् ग्रथितमामं सकृत् सकृदपि पक्कमनतिक्षीणमांसशोणितबलो मन्दाग्निर्विहतमुखरसश्च तादृशमातुरं कृच्छ्रसाध्यं विद्यात् ।एभिर्वर्णैरतिसार्यमाणं सोपद्रवमातुरमसाध्योऽयमिति प्रत्याचक्षीत तद्यथा पक्वशोणिताभं यकृतखण्डोपमं मेदोमांसोदकसन्निकाशं दधिघृतमज्जतैलवसाक्षीरवेसवाराभमतिनीलमतिरक्तमतिकृष्णमुदकमिवाच्छं पुनर्मेचकाभमतिस्निग्धं हरितनीलकषायवर्णं कर्बुरमाविलं पिच्छिलं तन्तुमदामं चन्द्रकोपगतमतिकुणपपूतिपूयगन्ध्यामाममत्स्यगन्धि मक्षिकाक्रान्तं कुथितबहुधातुस्रावमल्पपुरीषमपुरीषं वाऽतिसार्यमाणं तृष्णादाहज्वरभ्रमतमकहिक्काश्वासानुबन्धमतिवेदनमवेदनं वा स्रस्तपक्वगुदं पतितगुदवलिं मुक्तनालमतिक्षीणबलमांसशोणितं सर्वपर्वास्थिशूलिनमरोचकारतिप्रलापसंमोहपरीतं सहसोपरतविकारमतिसारिणमचिकित्स्यं विद्यात् इति सन्निपातातिसारः ९
तमसाध्यतामसंप्राप्तं चिकित्सेद् यथाप्रधानोपक्रमेण हेतूपशयदोषविशेषपरीक्षया चेति १०
आगन्तू द्वावतीसारौ मानसौ भयशोकजौ
तत्तयोर्लक्षणं वायोर्यदतीसारलक्षणम् ११
मारुतो भयशोकाभ्यां शीघ्रं हि परिकुप्यति
तयोः क्रिया वातहरी हर्षणाश्वासनानि च १२
इत्युक्ताः षडतीसाराः साध्यानां साधनं त्वतः
प्रवक्ष्याम्यनुपूर्वेण यथावत्तन्निबोधत १३
दोषा सन्निचिता यस्य विदग्धाहारमूर्च्छिताः
अतीसाराय कल्पन्ते भूयस्तान् संप्रवर्तयेत् १४
न तु संग्रहणं देयं पूर्वमामातिसारिणे
विबध्यमानाः प्राग्दोषा जनयन्त्यामयान् बहून् १५
दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा
शोथपाड्वामयप्लीहकुष्ठगुल्मोदरज्वरान् १६
तस्मादुपेक्षेतोत्क्लिष्टान् वर्तमानान् स्वयं मलान्
कृच्छ्रं वा वहतां दद्यादभयां संप्रवर्तिनीम् १७
तया प्रवाहिते दोषे प्रशाम्यत्युदरामयः
जायते देहलघुता जठराग्निश्च वर्धते १८
प्रमथ्यां मध्यदोषाणां दद्याद्दीपनपाचनीम्
लङ्घनं चाल्पदोषाणां प्रशस्तमतिसारिणाम् १९
पिप्पली नागरं धान्यं भूतीकमभया वचा
ह्रीवेरं भद्रमुस्तानि बिल्वं नागरधान्यकम् २०
पृश्निपर्णी श्वदंष्ट्रा च समङ्गा कण्टकारिका
तिस्रः प्रमथ्या विहिताः श्लोकार्धैरतिसारिणाम् २१
वचाप्रतिविषाभ्यां वा मुस्तपर्पटकेन वा
ह्रीवेरशृङ्गवेराभ्यां पक्वं वा पाययेज्जलम् २२
युक्तेऽन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत्
तथा स शीघ्रमाप्नोति रुचिमग्निबलं बलम् २३
तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा
सुरया मधुना चादौ यथासात्म्यमुपाचरेत् २४
यवागूभिर्विलेपीभिः खडैर्यूषैरसौदनैः
दीपनग्राहिसंयुक्तैः क्रमश्च स्यादतः परम् २५
शालपर्णीं पृश्निपर्णी बृहतीं कण्ठकारिकाम्
बलां श्वदंष्ट्रां बिल्वानि पाठां नागरधान्यकम् २६
शटीं पलाशं हपुषां वचां जीरकपिप्पलीम्
यवानीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् २७
वृक्षाम्लं दाडिमाम्लं च सहिङ्गु विडसैन्धवम्
प्रयोजयेदन्नपाने विधिना सूपकल्पितम् २८
वातश्लेमहरो ह्येष गणो दीपनपाचनः
ग्राही बल्यो रोचनश्च तस्माच्छस्तोऽतिसारिणाम् २९
आमे परिणते यस्तु विबद्धमतिसार्यते
सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकम् ३०
यूषेण मूलकानां तं बदराणामथापि वा
उपोदिकायाः क्षीरिण्या यवान्या वास्तुकस्य वा ३१
सुवर्चलायाश्चञ्चोर्वा शाकेनावल्गुजस्य वा
शट्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य वा ३२
लोणिकायाः सपाठायाः शुष्कशाकेन वा पुनः
दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत् ३३
कल्कः स्याद्वालबिल्वानां तिलकल्कश्च तत्समः
दध्नः सरोऽम्लस्नेहाढ्यः खडो हन्यात् प्रवाहिकाम् ३४
यवानां मुद्गमाषाणां शालीनां च तिलस्य च
कोलानां बालबिल्वानां धान्ययूषं प्रकल्पयेत् ३५
ऐकध्यं यमके भृष्टं दधिदाडिमसारिकम्
वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत् ३६
दध्नः सरं वा यमके भृष्टं सगुडनागरम्
सुरां वा यमके भृष्टां व्यञ्जनार्थं प्रदापयेत् ३७
फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा
लोपाकरसमम्लं वा स्निग्धाम्लं कच्छपस्य वा ३८
बर्हितित्तिरिदक्षाणां वर्तकानां तथा रसाः
स्निग्धाम्लाः शालयश्चाग्रया वर्चःक्षयरुजापहाः ३९
अन्तराधिरसं पूत्वा रक्तं मेषस्य चोभयम्
पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम् ४०
ओदनं रक्तशालीनां तेनाद्यात् प्रपिबेच्च तत्
तथा वर्चःक्षयकृतैर्व्याधिभिर्विप्रमुच्यते ४१
गुदनिःसरणे शूले पानमम्लस्य सर्पिषः
प्रशस्यते निरामाणामथवाऽप्यनुवासनम् ४२
चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम्
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम् ४३
इति चाङ्गेरीघृतम्
सचव्यपिप्पलीमूलं सव्योषविडदाडिमम्
पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम् ४४
इति गुदभ्रंशे चव्यादिघृतम्
दशमूलोपसिद्धं वा सबिल्वमनुवासनम्
शटीशताह्वाबिल्वैर्वा वचया चित्रकेण वा ४५
इति गुदभ्रंशेऽनुवासनम्
स्तब्धभ्रष्टगुदे पूर्वं स्नेहस्वेदौ प्रयोजयेत्
सुस्विन्नं तं मृदूभूतं पिचुना संप्रवेशयेत् ४६
विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः
सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति ४७
यमकस्योपरि क्षीरं धारोष्णं वा पिबेन्नरः
शृतमेरण्डमूलेन बालबिल्वेन वा पयः ४८
एवं क्षीरप्रयोगेण रक्तं पिच्छा च शाम्यति
शूलं प्रवाहिका चैव विबन्धश्चोपशाम्यति ४९
पित्तातिसारं पुनर्निदानोपशयाकृतिभिरामान्वयमुपलभ्य यथाबलं लङ्घनपाचनाभ्यामुपाचरेत् । तृष्यतस्तु मुस्तपर्पटकोशीरसारिवाचन्दनकिराततिक्तकोदीच्यवारिभिरुपचारः लङ्घितस्य चाह्वारकाले बलातिबलासूर्पपर्णीशालपर्णीपृश्निपर्णीबृहतीकण्टकारिकाशतावरीश्व-दंष्ट्रानिर्यूहसंयुक्तेन यथासात्म्यं यवागूमण्डादिना तर्पणादिना वा क्रमेणोपचारः । मुद्गमसूरहरेणुमकुष्ठकाढकीयूषैर्वा लावकपिञ्जलशशहरिणैणकालपुच्छकरसैरीषदम्लैरनम्लैर्वा क्रमशोऽग्निं सन्धुक्षयेत् । अनुबन्धे त्वस्य दीपनीयपाचनीयोपशमनीयसंग्रहणीयान् योगान् संप्रयोजयेदिति ५०
सक्षौद्रातिविषां पिष्ट्वा वत्सकस्य फलत्वचम्
पिबेत् पित्तातिसारघ्नं तण्डुलोदकसंयुक्तम् ५१
किराततिक्तको मुस्तं वत्सकः सरसाञ्जनः
बिल्वं दारुहरिद्रात्वक् ह्रीबेरं सदुरालभम् ५२
चन्दनं च मृणालं च नागरं लोध्रमुत्पलम्
तिला मोचरसो लोध्रं समङ्गा कमलोत्पलम् ५३
उत्पलं धातकीपुष्पं दाडिमत्वङ्महौषधम्
कट्फलं नागरं पाठा जम्ब्वाम्रास्थिदुरालभाः ५४
योगाः षडेते सक्षौद्रास्तण्डुलोदकसंयुताः
पेयाः पित्तातिसारघ्नाः श्लोकार्धेन निदर्शिताः ५५
जीर्णोषधानां शस्यन्ते यथायोगं प्रकल्पितैः
रसैः सांग्राहिकैर्युक्ता पुराणा रक्तशालयः ५६
पित्तातिसारो दीप्ताग्नेः क्षिप्रं समुपशाम्यति
अजाक्षीरप्रयोगेण बलं वर्णश्च वर्धते ५७
बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति
पैत्तिको यद्यतीसारः पयसा तं विरेचयेत् ५८
पलाशफलनिर्यूहं पयसा सह पाययेत
ततोऽनुपाययेत् कोष्णं क्षीरमेव यथाबलम् ५९
पलाशवत् प्रयोज्या वा त्रायमाणा विशोधिनी
प्रवाहिते तेन मले प्रशाम्यत्युदरामयः ६०
सांसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते
स्रुतदोषस्य तं शीघ्रं यथावदनुवासयेत् ६१
शतपुष्पावरीभ्यां च पयसा मधुकेन च
तैलपादं घृतं सिद्धं सबिल्वमनुवासनम् ६२
कृतानुवासनस्यास्य कृतसंसर्जनस्य च
वर्तते यद्यतीसारः पिच्छाबस्तिरतः परम् ६३
परिवेष्ट्य कुशैरार्द्रैरार्द्रवृन्तानि शाल्मलेः
कृष्णमृत्तिकयाऽऽलिप्य स्वेदयेद्गोमयाग्निना ६४
सुशुष्कां मृत्तिकां ज्ञात्वा तानि वृन्तानि शाल्मलेः
शृते पयसि मृद्गीयादापोथ्योलूखले ततः ६५
पिण्डं मुष्टिसमं प्रस्थे तत् पूतं तैलसर्पिंषोः
योजितं मात्रया युक्तं कल्केन मधुकस्य च ६६
बस्तिमभ्यक्तगात्राय दद्यात् प्रत्यागते ततः
स्नात्वा भुञ्जीत पयसा जाङ्गलानां रसेन वा ६७
पित्तातिसारज्वरशोथगुल्मजीर्णातिसारग्रहणीप्रदोषान्
जयत्ययं शीघ्रमतिप्रवृद्धान् विरेचनास्थापनयोश्च बस्तिः ६८
पित्तातिसारी यस्त्वेतां क्रियां मुक्त्वा निषेवते
पित्तलान्यन्नपानानि तस्य पित्तं महाबलम् ६९
कुर्याद्रक्तातिसारं तु रक्तमाशु प्रदूषयत्
तृष्णां शूलं विदाहं च गुदपाकं च दारुणम् ७०
तत्र च्छागं पयः शस्तं शीतं समधुशर्करम्
पानार्थं भोजनार्थं च गुदप्रक्षालने तथा ७१
ओदनं रक्तशालीनां पयसा तेन भोजयेत्
रसैः पारावतादीनां घृतभृष्टैः सशर्करैः ७२
शशपक्षिमृगाणां च शीतानां धन्वचारिणाम्
रसैरनम्लैः सघृतैर्भोजयेत्तं सशर्करैः ७३
रुधिरं मार्गमाजं वा घृतभृष्टं प्रशस्यते
काश्मर्यफलयूषो वा किंचिदम्लः सशर्करः ७४
नीलोत्पलं मोचरसं समङ्गा पद्मकेशरम्
अजाक्षीरयुतं दद्याज्जीर्णे च पयसौदनम् ७५
दुर्बलं पाययित्वा वा तस्यैवोपरि भोजयेत्
प्राग्भक्तं नवनीतं वा दद्यात् समधुशर्करम् ७६
प्राश्य क्षीरोत्थितं सर्पिः कपिञ्जलरसाशनः
त्र्यहादारोग्यमाप्नोति पयसा क्षीरभुक् तथा ७७
पीत्वा शतावरीकल्कं पयसा क्षीरभुग्जयेत्
रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः ७८
घृतं यवागूमण्डेन कुटजस्य फलैः शृतम्
पेयं तस्यानु पातव्या पेया रक्तोपशान्तये ७९
त्वक् च दारुहरिद्रायाः कुटजस्य फलानि च
पिप्पली शृङ्गवेरं च द्राक्षा कटुकरोहिणी ८०
षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम्
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम् ८१
कृष्णमृन्मधुकं शङ्खं रुधिरं तण्डुलोदकम्
पीतमेकत्र सक्षौद्रं रक्तसंग्रहणं परम् ८२
पीतः प्रियङ्गुकाकल्कः सक्षौद्रस्तण्डुलाम्भसा
रक्तस्रावं जयेच्छीघ्रं धन्वमांसरसाशिनः ८३
कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः
आजेन पयसा पीतः सद्यो रक्तं नियच्छति ८४
पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्
यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम् ८५
पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्भसा
दाहतृष्णाप्रमेहेभ्यो रक्तस्रावाच्च मुच्यते ८६
गुदो बहुभिरुत्थानैर्यस्य पित्तेन पच्यते
सेचयेत्तं सुशीतेन पटोलमधुकाम्बुना ८७
पञ्चवल्कमधूकानां रसैरिक्षुरसैर्घृतैः
छागैर्गव्यैः पयोभिर्वा शर्कराक्षौद्रसंयुतैः ८८
प्रक्षालनानां कल्कैर्वा ससर्पिष्कैः प्रलेपयेत्
एषां वा सुकृतैश्चूर्णैस्तं गुदं प्रतिसारयेत् ८९
धातकीलोध्रचूर्णैर्वा समांशैः प्रतिसारयेत्
तथा स्रवति नो रक्तं गुदं तैः प्रतिसारितम् ९०
पक्वता प्रशमं याति वेदना चोपशाम्यति
यथोक्तैः सेचनैः शीतैः शोणितेऽतिस्रवत्यपि ९१
गुदवङ्क्षणकट्यूरु सेचयेद्धृतभावितम्
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा ९२
कार्पाससंगृहीतेन सेचयेद्गुदवङ्क्षणम्
अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते ९३
यदा वायुर्विबद्धश्च कृच्छ्रं चरति वा न वा
पिच्छाबस्तिं तदा तस्य यथोक्तमुपकल्पयेत् ९४
प्रपौण्डरीकसिद्धेन सर्पिषा चानुवासयेत्
प्रायशो दुर्बलगुदाश्चिरकालातिसारिणः ९५
तस्मादभीक्ष्णशस्तेषां गुदे स्नेहं प्रयोजयेत्
पवनोऽतिप्रवृत्तो हि स्वे स्थाने लभतेऽधिकम् ९६
बलं तस्य सपित्तस्य जयार्थे बस्तिरुत्तमः
रक्तं विट्सहितं पूर्वं पश्चाद्वा योऽतिसार्यते ९७
शतावरीघृतं तस्य लेहार्थमुपकल्पयेत्
शर्करार्धांशिकं लीढं नवनीतं नवोद्धृतम् ९८
क्षौद्रपादं जयेच्छीघ्रं तं विकारं हिताशिनः
न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत् ९९
अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत्
तदर्धशर्करायुक्तं लिह्यात् सक्षौद्रपादिकम् १००
अधो वा यदि वाऽप्यूर्ध्वं यस्य रक्तं प्रवर्तते
यस्त्वेवं दुर्बलो मोहात् पित्तलान्येव सेवते १०१
दारुणं स बलीपाकं प्राप्य शीघ्रं विपद्यते
श्लेष्मातिसारे प्रथमं हितं लङ्घनपाचनम् १०२
योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः
लङ्घितस्यानुपूर्व्यां च कृतायां न निवर्तते १०३
कफजो यद्यतीसारः कफघ्नैस्तमुपाचरेत्
बिल्वकर्कटिका मुस्तमभया विश्वभेषजम् १०४
वचा विडङ्गं भूतीकं धान्यकं देवदारु च
कुष्ठं सातिविषा पाठा चव्यं कटुकरोहिणी १०५
पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली
योगाञ्छ्लोकार्धाविहितांश्चतुरस्तान् प्रयोजयेत् १०६
शृताञ्छ्लेष्मातिसारेषु कायग्निबलवर्धनान्
अजाजीमसितां पाठां नागरं मरिचानि च १०७
धातकीद्विगुणं दद्यान्मातुरलुङ्गरसाप्लुतम्
रसाञ्जनं सातिविषं कुटजस्य फलानि च १०८
धातकीद्विगुणं दद्यात् पातुं सक्षौद्रनागरम्
धातकी नागरं बिल्वं लोध्रं पद्मस्य केशरम् १०९
जम्बूत्वङ्नागरं धान्यं पाठा मोचरसो बला
समङ्गा धातकी बिल्वमध्यं जम्ब्वाम्रयोस्त्वचः ११०
कपित्थानि विडङ्गानि नागरं मरिचानि च
चाङ्गेरीकोलतक्राम्लाश्चतुरस्तान् कफोत्तरे १११
श्लोकार्धविहितान् दद्यात् सस्नेहलवणान् खडान्
कपित्थमध्यं लीढ्वा तु सव्योषक्षौद्रशर्करम् ११२
कट्फलं मधुयुक्तं वा मुच्यते जठरामयात्
कणां मधुयुतां लीढ्वा तक्रं पीत्वा सचित्रकम् ११३
जग्ध्वा वा बालबिल्वानि मुच्यते जठरामयात्
बालबिल्वं गुडं तैलं पिप्पलीं विश्वभेषजम्
लिह्याद्वाते प्रतिहते सशूलं सप्रवाहिकः ११४
भोज्यं मूलकषायेण वातघ्नैश्चोपसेवनैः
वातातिसारविहितैर्यूषैर्मासरसैः खडैः ११५
पूर्वोक्तमम्लसर्पिर्वा षट्पलं वा यथाबलम्
पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम् ११६
वातश्लेष्मविबन्धे वा कफे वाऽतिस्रवत्यपि
शूले प्रवाहिकायां वा पिच्छाबस्तिं प्रयोजयेत् ११७
पिप्पलीबिल्वकुष्ठानां शताह्वावचयोरपि
कल्कैः सलवणैर्युक्तं पूर्वोक्तं सन्निधापयेत् ११८
प्रत्यागते सुखं स्नातं कृताहारं दिनात्यये
बिल्वतैलेन मतिमान्सुखोष्णेनानुवासयेत् ११९
वचान्तैरथवा कल्कैस्तैलं पक्त्वाऽनुवासयेत्
बहुशः कफवातार्तस्तथा स लभते सुखम् १२०
स्वे स्थाने मारुतोऽवश्यं वर्धते कफसंक्षये
स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत् १२१
वातस्यानु जयेत् पित्तं पित्तस्यानु जयेत् कफम्
त्रयाणां वा जयेत् पूर्वं यो भवेद्बलवत्तमः १२२
तत्र श्लोकः--
प्रागुत्पत्तिनिमित्तानि लक्षणं साध्यता न च
क्रिया चावस्थिकी सिद्धा निर्दिष्टा ह्यतिसारिणाम् १२३
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थानेऽतिसारचिकित्सितं
नामैकोनविंशोऽध्यायः १९

विंशोऽध्यायः
अथातश्छर्दिचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
यशस्विनं ब्रह्मतपोद्युतिभ्यां ज्वलन्तमग्न्यर्कसमप्रभावम्
पुनर्वसुं भूतहिते निविष्टं प्रपच्छ शिष्योऽत्रिजमग्निवेशः ३
याश्छर्दयः पञ्च पुरा त्वयोक्ता रोगाधिकार भिषजां वरिष्ठः
तासां चिकित्सां सनिदानलिङ्गां यथावदाचक्ष्व नृणां हितार्थम् ४
तदग्निवेशस्य वचो निशम्य प्रीतो भिषक्श्रेष्ठ इदं जगाद
याश्छर्दयः पञ्च पुरा मयोक्तास्ता विस्तरेण ब्रुवतो निबोध ५
दोषैः पृथक् त्रिप्रभवा चतुर्थी द्विष्टार्थयोगादपि पञ्चमी स्यात्
ताषां हृदुत्क्लेशकफप्रसेकौ द्वेषोऽशने चैव हि पूर्वरूपम् ६
व्यायामतीक्ष्णौषधशोकरोगभयोपवासाद्यतिकर्शितस्य
वायुर्महास्रोतसि संप्रवृद्ध उत्क्लेश्य दोषांस्तत ऊर्ध्वमस्यन् ७
आमाशयोत्क्लेशकृतां च मर्म प्रपीडयंश्छर्दिमुदीरयेत्तु
हृत्पार्श्वपीडामुखशोषमूर्धनाभ्यर्तिकासस्वरभेदतोदैः ८
उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्
कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम् ९
अजीर्णकट्वम्लविदाह्यशीतैरामाशये पित्तमुदीर्णवेगम्
रसायनीभिर्विसृतं प्रपीड्य मर्मोर्ध्वमागम्य वमिं करोति १०
मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसंतापतमोभ्रमार्तः
पीतं भृशोष्णं हरितं सतिक्तं धूम्रं च पित्तेन वमेत् सदाहम् ११
स्निग्धातिगुर्वामविदाहिभोज्यैः स्वप्नादिभिश्चैव कफोऽतिवृद्धः
उरः शिरो मर्म रसायनीश्च सर्वाः समावृत्य वमिं करोति १२
तन्द्रास्यमाधुर्यकफप्रसेकसंतोषनिद्रारुचिगौरवार्तः
स्निग्धं घनं स्वादु कफाद्विशुद्धं सलोमहर्षोऽल्परुजं वमेत्तु १३
समश्नतः सर्वरसान् प्रसक्तमामप्रदोषर्तुविपर्ययैश्च
सर्वे प्रकोपं युगपत् प्रपन्नाश्छर्दिं त्रिदोषां जनयन्ति दोषाः १४
शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्
छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात् १५
विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति
उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात् १६
विण्मूत्रयोस्तत् समवर्णगन्धं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्
प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति १७
द्विष्टप्रतीपाशुचिपूत्यमेध्यबीभत्सगन्धाशनदर्शनैश्च
यच्छर्दयेत्तप्तमना मनोघ्नैर्द्विष्टार्थसंयोगभवा मता सा १८
क्षीणस्य या छर्दिरतिप्रवृद्धा सोपद्रवा शोणितपूययुक्ता
सचन्द्रिकां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेदनुपद्रवां च १९
आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्
प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि २०
चूर्णानि लिह्यान्मधुनाऽभयानां हृद्यानि वा यानि विरेचनानि
मद्यैः पयोभिश्च युतानि युक्त्या नयन्त्यधो दोषमुदीर्णमूर्ध्वम् २१
वल्लीफलाद्यैर्वमनं पिबेद्वा यो दुर्बलस्तं शमनैश्चिकित्सेत्
रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यैः सभोज्यैर्विविधैश्च पानैः २२
सुसंस्कृतास्तित्तिरिबर्हिलावरसा व्यपोहन्त्यनिलप्रवृत्ताम्
छर्दिं तथा कोलकुलत्थधान्यबिल्वादिमूलाम्लयवैश्च यूषः २३
वातात्मिकायां हृदयद्रवार्तो नरः पिबेत् सैन्धववद्घृतं तु
सिद्धं तथा धान्यकनागराभ्यां दध्ना च तोयेन च दाडिमस्य २४
व्योषेण युक्तां लवणैस्रिभिश्च घृतस्य मात्रामथवा विदध्यात्
स्निग्धानि हृद्यानि च भोजनानि रसैः सयूषैर्दधिदाडिमाम्लैः २५
पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्
कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूर्ध्वमेव २६
शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम्
प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा २७
सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुगृञ्जान्
खर्जूरमांसान्यथ नारिकेलं द्राक्षामथो वा बदराणि लिह्यात् २८
स्रोतोजलाजोत्पलकोलमज्जचूर्णानि लिह्यान्मधुनाऽभयां वा
कोलास्थिमजाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा २९
द्राक्षारसं वाऽपि पिबेत् सुशीतं मृद्भृष्टलोष्टप्रभवं जलं वा
जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशीतं मधुसंयुतं वा ३०
निशि स्थितं वारि समुद्गकृष्णं सोशीरधान्यं चणकोदकं वा
गवेधुकामूलजलं गुडूच्या जलं पिबेदिक्षुरसं पयो वा ३१
सेव्यं पिबेत् काञ्चनगैरिकं वा सबालकं तण्डुलधावनेन
धात्रीरसेनोत्तमचन्दनं वा तृष्णावमिघ्नानि समाक्षिकाणि ३२
कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम्
शीताम्बुना गैरिकशालिचूर्णं मूर्वां तथा तण्डुलधावनेन ३३
कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः
पिण्डीतकैः सैन्धवसंप्रयुक्तैर्वम्यां कफामाशयशोधनार्थम् ३४
गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्
व्योषस्य निम्बस्य च तक्रसिद्धैर्यूषैः फलाम्लैः कटुभिस्तथाऽद्यात् ३५
रसांश्च शूल्यानि च जाङ्गलानां मांसानि जीर्णान्मधुसीध्वरिष्टान्
रागांस्तथा षाडवपानकानि द्राक्षाकपित्थैः फलपूरकैश्च ३६
मुद्गान्मसूरांश्चणकान् कलायान् भृष्टान् युतान्नागरमाक्षिकाभ्याम्
लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं विडङ्गप्लवयोरथो वा ३७
सजाम्बवं वा बदरस्य चूर्णं मुस्तायुतां कर्कटकस्य शृङ्गीम्
दुरालभां वा मधुसंप्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम् ३८
मनशिलायाः फलपूरकस्य रसैः कपित्थस्य च पिप्पलीनाम्
क्षौद्रेण चूर्णं मरिचैश्च युक्तं लिहञ्जयेच्छर्दिमुदीर्णवेगाम् ३९
यैषा पृथक्त्वेन मया क्रियोक्ता तां सन्निपातेऽपि समस्य बुद्ध्या
दोषर्तरोगाग्निबलान्यवेक्ष्य प्रयोजयेच्छास्त्रविदप्रमत्तः ४०
मनोभिघाते तु मनोनुकूला वाचः समाश्वासनहर्षणानि
लोकप्रसिद्धाः श्रुतयो वयस्याः शृङ्गारिकाश्चैव हिता विहाराः ४१
गन्धा विचित्रा मनसोऽनुकूला मृत्पुष्पशुक्ताम्लफलादिकानाम्
शाकानि भोज्यान्यथ पानकानि सुसंस्कृताः षाडवरागलेहाः ४२
यूषा रसाः काम्बलिका खडाश्च मांसानि धाना विविधाश्च भक्ष्याः
फलानि मूलानि च गन्धर्वर्णरसैरुपेतानि वमिं जयन्ति ४३
गन्धं रसं स्पर्शमथापि शब्दं रूपं च यद्यत् प्रियमप्यसात्म्यम्
तदेव दद्यात् प्रशमाय तस्यास्तज्जो हि रोगः सुख एव जेतुम् ४४
छर्द्युत्थितानां च चिकित्सितात् स्वाच्चिकित्सितं कार्यमुपद्रवाणाम्
अतिप्रवृत्तासु विरेचनस्य कर्मातियोगे विहितं विधेयम् ४५
वमिप्रसङ्गात् पवनोऽप्यवश्यं धातुक्षयाद्वृद्धिमुपैति तस्मात्
चिरप्रवृत्तास्वनिलापहानि कार्याण्युपस्तम्भनबृंहणानि ४६
सर्पिर्गुडाः क्षीरविधिर्घृतानि कल्याणकत्र्यूषणजीवनानि
वृष्यास्तथा मांसरसाः सलेहाश्चिरप्रसक्तां च वमिं जयन्ति ४७
तत्र श्लोकाः--
हेतं संख्यां लक्षणमुपद्रवान् साध्यतां न योगांश्च
छर्दीनां प्रशमार्थं प्राह चिकित्सितं मुनिवर्यः ४८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने छर्दिचिकित्सितं नाम विंशोऽध्यायः २०

एकविंशोऽध्यायः
अथातो विसर्पचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
कैलासे किन्नराकीर्णे बहुप्रस्रवणौषधे
पादपैर्विविधैः स्निग्धैर्नित्यं कुसुमसंपदा ३
वमद्भिर्मधुरान् गन्धान् सर्वतः स्वभ्यलङ्कृते
विहरन्तं जितात्मानमात्रेयमृषिवन्दितम् ४
महर्षिभिः परिवृतं सर्वभूतहिते रतम्
अग्निवेशो गुरुं काले विनयादिदमुक्तवान् ५
भगवन् दारुणं रोगमाशीविषविषोपमम्
विसर्पन्तं शरीरेषु देहिनामुपलक्षये ६
सहसैव नरास्तेन परीताः शीघ्रकारिणा
विनश्यन्त्यनुपक्रान्तास्तत्र नः संशयो महान् ७
स नाम्ना केन विज्ञेयः संज्ञितः केन हेतुना
कतिभेदः कियद्धातुः किंनिदानः किमाश्रयः ८
सुखसाध्यः कृच्छ्रसाध्यो ज्ञेयो यश्चानुपक्रमः
कथं कैर्लक्षणैः किं च भगवन् तस्य भेषजम् ९
तदग्निवेशस्य वचः श्रुत्वाऽऽत्रेयः पुनर्वसुः
यथावदखिलं सर्वं प्रोवाच मुनिसत्तमः १०
विविधं सर्पति यतो विसर्पस्तेन स स्मृतः
परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात् ११
स च सप्तविधो दोषैर्विज्ञेयः सप्तधातुकः
पृथक् त्रयस्त्रिभिश्चैको विसर्पो द्वन्द्वजास्त्रयः १२
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः
चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः १३
आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः
यस्तु कर्दमको घोरः स पित्तकफसंभवः १४
रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः
विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः १५
लवणाम्लकटूष्णानां रसानामतिसेवनात्
दध्यम्लमस्तुशुक्तानां सुरासौवीरकस्य च १६
व्यापन्नबहुमद्योष्णरागषाडवसेवनात्
शाकानां हरितानां च सेवनाच्च विदाहिनाम् १७
कूर्चिकानां किलाटानां सेवनान्मन्दकस्य च
दध्नः शाण्डाकिपूर्वाणामासुतानां च सेवनात् १८
तिलमाषकुलत्थानां तैलानां पैष्टिकस्य च
ग्राम्यानूपौदकानां च मांसानां लशुनस्य च १९
प्रक्लिन्नानामसात्म्यानां विरुद्धानां च सेवनात्
अत्यादानाहिवास्वप्नादजीर्णाध्यशनात् क्षतात् २०
क्षतबन्धप्रपतनाद्घर्मकर्मातिसेवनात्
विषवाताग्निदोषाच्च विसर्पाणां समुद्भवः २१
एतैर्निदानैव्यामिश्रैः कुपिता मारुतादयः
दूष्यान् संदूष्य रक्तादीन् विसर्पन्त्यहिताशिनाम् २२
बहिःश्रितः श्रितश्चान्तस्तथा चोभयसंश्रितः
विसर्पो बलमेतेषां ज्ञेयं गुरु यथोत्तरम् २३
बहिर्मार्गाश्रितं साध्यमसाध्यमुभयाश्रितम्
विसर्पं दारुणं विद्यात् सुकृच्छ्रं त्वन्तराश्रयम् २४
अन्तः प्रकुपिता दोषा विसर्पन्त्यन्तराश्रये
बहिर्बहिःप्रकुपिताः सर्वत्रोभयसंश्रिताः २५
मर्मोपघातात् संमोहादयनानां विघट्टनात्
तृष्णातियोगाद्वेगानां विषमाणां प्रवर्तनात् २६
विद्याद्विसर्पमन्तर्जमाशु चाग्निबलक्षयात्
अतो विपर्ययाद्वाह्यमन्यैर्विद्यात् स्वलक्षणैः २७
यस्य सर्वाणि लिङ्गानि बलवद्यस्य कारणम्
यस्य चोपद्रवाः कष्टा मर्मगो यश्च हन्ति सः २८
रूक्षोष्णैः केवलो वायुः पूरणैर्वा समावृतः
प्रदुष्टो दूषयन् दूष्यान् विसर्पति यथाबलम् २९
तस्य रूपाणि -- भ्रमदवथुपिपासानिस्तोदशूलाङ्गमर्दोद्वेष्टनकम्पज्वरतमककासास्थिसंधिभेद-विश्लेषणवेपनारोचकाविपाकाश्चक्षुषोराकुलत्वमस्रागमनं पिपीलिकासंचार इव चाङ्गेषु यस्मिंश्चावकाशे विसर्पो विसर्पति सोऽवकाशः श्यावारुणाभासः श्वयथुमान् निस्तोदभेदशूलायामसंकोचहर्षस्फुरणैरतिमात्रं प्रपीड्यते अनुपक्रान्तश्चोपचीयते शीघ्रभेदैः स्फोटकैस्तनुभिररुणाभैः श्यावैर्वा तनुविशदारुणाल्पास्रावैः विबद्धवातमूत्रपुरीषश्च भवति निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति वातविसर्पः ३०
पित्तमुष्णोपचारेण विदाह्यम्लाशनैश्चितम्
दूष्यान् संदूष्य धमनीः पूरयन् वै विसर्पति ३१
तस्य रूपाणि--ज्वरस्तृष्णा मूर्च्छा मोहश्छर्दिररोचकोऽङ्गभेदः स्वेदोऽतिमात्रमन्तर्दाहः प्रलापः शिरोरुक् चक्षुषोराकुलत्वमस्वप्नमरतिर्भ्रमः शीतवातवारितर्षौऽतिमात्रं हरितहारिद्रनेत्रमूत्रवर्चस्त्वं हरितहारिद्ररूपदर्शनं च यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशस्ताम्रहरितहारिद्रनीलकृष्णरक्तानां वर्णानामन्यतमं पुष्यति सोत्सेधैश्चातिमात्रं दाहसंभेदनपरीतैः स्फोटकैरुपचीयते तुल्यवर्णास्रावैरचिरपाकैश्च निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति पित्तविसर्पः ३२
स्वाद्वम्ललवणस्निग्धगुर्वन्नस्वमसंचितः
कफः संदूषयन् दूष्यान् कृच्छ्रमङ्गे विसर्पति ३३
तस्य रूपाणि--शीतकः शीतज्वरो गौरवं निद्रा तन्द्राऽरोचको मधुरास्यत्वमास्योपलेपो निष्ठीविका छर्दिरालस्यं स्तैमित्यमग्निनाशो दौर्बल्यं च यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशः श्वयथुमान् पाण्डुर्नातिरक्तः स्नेहसुप्तिस्तम्भगौरवैरन्वितोऽल्पवेदनः कृच्छ्रपाकैश्चिरकारिभिर्बहुलत्वगुपलेपैः स्फोटैः श्वेतपाण्डुभिरनुबध्यते प्रभिन्नस्तु श्वेतं पिच्छिलं तन्तुमद्घनमनुबद्धं स्निग्धमास्रावं स्रवति ऊर्ध्वं च गुरुभिः स्थिरैर्जालावततैः स्निग्धैर्बहुलत्वगुपलेपैर्व्रणैरनुबध्यतेऽनुषङ्गी च भवति श्वेतनखनयनवदनत्वङ्मूत्रवर्चस्त्वं निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति श्लेष्मविसर्पः ३४
वातपित्तं प्रकुपितमतिमात्रं स्वहेतुभिः
परस्परं लब्धबलं दहद्गात्रं विसर्पति ३५
तदुपतापादातुरः सर्वशरीरमङ्गारैरिवाकीर्यमाण मन्यते छर्द्यतीसारमूर्च्छादाहमोहज्वरतमकारोचकास्थिसंधिभेदतृष्णाविपाकाङ्गभेदादिभिश्चाभिभूयते यं यं चावकाशं विसर्पोऽनुसर्पति सोऽवकाशः शान्ताङ्गारप्रकाशोऽतिरक्तो वा भवति अग्निदग्धप्रकारैश्च स्फोटैरुपचीयते स शीघ्रगत्वादाश्वेव मर्मानुसारी भवति मर्मणि चोपतप्ते पवनोऽतिबलो भिनत्त्यङ्गान्यतिमात्रं प्रमोहयति संज्ञां हिक्काश्वासौ जनयति नाशयति निद्रां स नष्टनिद्रः प्रमूढसंज्ञो व्यथितचेता न क्वचन सुखमुपलभते अरतिपरीतः स्थानादासनाच्छय्यां क्रान्तुमिच्छति क्लिष्टभूयिष्ठश्चाशु निद्रां भजति दुर्बलो दुःखप्रबोधश्च भवति तमेवंविधमग्निविसर्पपरीतमचिकित्स्यं विद्यात् ३६
कफपित्तं प्रकुपित्तं बलवत् स्वेन हेतुना
विसर्पत्येकदेशे तु प्रक्लेदयति देहिनम् ३७
तद्विकाराः -- शीतज्वरः शोरोगुरुत्वं दाहः स्तैमित्यमङ्गावसदनं निद्रा तन्द्रा मोहोऽन्नद्वेषः प्रलापोऽग्निनाशो दौर्बल्यमस्थिभेदो मूर्च्छा पिपासा स्रोतसां प्रलेपो जाड्यमिन्द्रियाणां प्रायोपवेशनमङ्गमर्दोऽरतिरौत्सुक्यं चोपजायते प्रायश्चामाशये विसर्पत्यलसक एकदेशग्राही च यस्मिंश्चावकाशे विसर्पो विसर्पति सोऽवकाशो रक्तपीतपाण्डुपिडकावकीर्ण इव मेचकाभः कालो मलिनः स्निग्धो बहूष्मा गुरुः स्तिमितवेदनः श्वयथुमान् गम्भीरपाको निरास्रावः शीघ्रक्लेदः स्विन्नक्लिन्नपूतिमांसत्वक् क्रमेणाल्परुक् परामृष्टोऽवदीर्यते कर्दम इवावपीडितोऽन्तरं प्रयच्छत्युपक्लिन्नपूतिमांसत्यागी सिरास्नायुसंदर्शी कुणपगन्धी च भवति संज्ञास्मृतिहन्ता च तं कर्दमविसर्पपरीतमचिकित्स्यं विद्यात् ३८
स्थिरगुरुकठिनमधुरशीतस्निग्धान्नपानाभिष्यन्दिसेविनामव्यायामादिसेविनामप्रतिकर्मशीलानां श्लेष्मा वायुश्च प्रकोपमापद्यते तावुभौ दुष्टप्रवृद्धावतिबलौ प्रदूष्य दूष्यान् विसर्पाय कल्पेते तत्र वायुः श्लेष्मणा विबद्धमार्गस्तमेव श्लेष्माणमनेकधा मिन्दन् क्रमेण ग्रन्थिमालां कृच्छ्रपाकसाध्यां कफाशये संजनयति उत्सन्नरक्तस्य वा प्रदूष्य रक्तं सिरास्नायुमांसत्वगाश्रितं ग्रन्थीनां मालां कुरुते तीव्ररुजानां स्थूलानामणूनां वा दीर्घवृत्तरक्तानां तदुपतापाज्ज्वरातिसारकासहिक्काश्वासशोषप्रमोहवैवर्ण्यारोचकाविपाकप्रसेकच्छर्दिर्मूर्च्छाङ्गभङ्गनिदारतिसदनाद्याः प्रादुर्भवन्त्युपद्रवाः स एतैरुपद्रुतः सर्वकर्मणां विषयमतिपतितो विवर्जनीयो भवतीति ग्रन्थिविसर्पः ३९
उपद्रवस्तु खलु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा रोगात् पश्चाज्जायत इत्युपद्रवसंज्ञः तत्र प्रधानो व्याधिः व्याधेर्गुणभूत उपद्रवः तस्य प्रायः प्रधानप्रशमे प्रशमो भवति । स तु पीडाकरतरो भवति पश्चादुत्पद्यमानो व्याधिपरिक्लिष्टशरीरत्वात् तस्मादुपद्रवं त्वरमाणोऽभिबाधेत ४०
सर्वायतनसमुत्थं सर्वलिङ्गव्यापिनं सर्वधात्वनुसारिणमाशुकारिणं महात्ययिकमिति सन्निपातविसर्पमचिकित्स्यं विद्यात् ४१
तत्र वातपित्तश्लेष्मनिमित्ता विसर्पास्त्रयः साध्या भवन्ति अग्निकर्दमाख्यौ पुनरनुपसृष्टे मर्मणि अनुपगते वा सिरास्नायुमांसक्लेदे साधारणक्रियाभिरुभावेवाभ्यस्यमानौ प्रशान्तिमापद्येयुताम् अनादरोपक्रान्तः पुनस्तयोरन्यतरो हन्याहेहमाश्वेवाशीविषवत् तथा ग्रन्थिविसर्पमजातोपद्रवमारभेत चिकित्सितुम् उपद्रवोपद्रुतं त्वेनं परिहरेत् सन्निपातजं तु सर्वधात्वनुसारित्वादाशुकारित्वाद्विरुद्धोपक्रमत्वाच्चासाध्यं विद्यात् ४२
तत्र साध्यानां साधनमनुव्याख्यामः ४३
लङ्घनोल्लेखने शस्ते तिक्तकानां च सेवनम्
कफस्थानगते सामे रूक्षशीतैः प्रलेपनम् ४४
पित्तस्थानगतेऽप्येतत् सामे कुर्याच्चिकित्सितम्
शोणितस्यावसेकं च विरेकं च विशेषतः ४५
मारुताशयसंभूतेऽप्यादितः स्याद्विरूक्षणम्
रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम् ४६
वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते
लघुदोषे महादोषे पैत्तिके स्याद्विरेचनम् ४७
न घृतं बहुदोषाय देयं यन्न विरेचयेत्
तेन दोषो ह्युपष्टब्धस्त्वङ्मांसरुधिरं पचेत् ४८
तस्माद्विरेकमेवादौ शस्तं विद्याद्विसर्पिणः
रुधिरस्यावसेकं च तद्ध्यस्याश्रयसंज्ञितम् ४९
इति वीसर्पनुत् प्रोक्तं समासेन चिकित्सितम्
एतदेव पुनः सर्व व्यासतः संप्रवक्ष्यते ५०
मदनं मधुकं निम्बं वत्सकस्य फलानि च
वमनं संप्रदातव्यं विसर्पे कफपित्तजे ५१
पटोलपिचुमर्दाभ्यां पिप्पल्या मदनेन च
विसर्पे वमनं शस्तं तथा चेन्द्रयवैः सह ५२
यांश्च योगान् प्रवक्ष्यामि कल्पेषु कफपित्तिनाम्
विसर्पिणां प्रयोज्यास्ते दोषनिर्हरणाः शिवाः ५३
मुस्तनिम्बपटोलानां चन्दनोत्पलयोरपि
सारिवामलकोशीरमुस्तानां वा विचक्षणः ५४
कषायान् पाययेद्वैद्यः सिद्धान् वीसर्पनाशनान्
किराततिक्तकं लोध्रं चन्दनं सदुरालभम् ५५
नागरं पद्मकिञ्जल्कमुत्पलं सबिभीतकम्
मधुकं नागपुष्पं च दद्याद्वीसर्पशान्तये ५६
प्रपौण्डरीकं मधुकं पद्मकिञ्जल्कमुत्पलम्
नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत् ५७
द्राक्षां पर्पटकं शुण्ठीं गुडूचीं धन्वयासकम्
निशापर्युषितं दद्यात्तृष्णावीसर्पशान्तये ५८
पटोलं पिचुमर्दं च दार्वी कटुकरोहिणीम्
यष्ट्याह्वां त्रायमाणं च दद्याद्वीसर्पशान्तये ५९
पटोलादिकषायं वा पिबेत्त्रिफलया सह
मसूरविदलैर्युक्तं घृतमिश्रं प्रदापयेत् ६०
पटोलपत्रमुद्गानां रसमामलकस्य च
पाययेत घृतोन्मिश्रं नरं वीसर्पपीडितम् ६१
यच्च सर्पिर्महातिक्तं पित्तकुष्टनिबर्हणम्
निर्दिष्टं तदपि प्राज्ञो दद्याद्वीसर्पशान्तये ६२
त्रायमाणाघृतं सिद्धं गौल्मिके यदुदाहृतम्
विसर्पाणां प्रशान्त्यर्थं दद्यात्तदपि बुद्धिमान् ६३
त्रिवृच्चूर्णं समालोड्य सर्पिषा पयसाऽपि वा
घर्माम्बुना वा संयोज्य मृद्वीकानां रसेन वा ६४
विरेकार्थं प्रयोक्तव्यं सिद्धं वीसर्पनाशनम्
त्रायमाणाशृतं वाऽपि पयो दद्याद्विरेचनम् ६५
त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह
प्रयोक्तव्यं विरेकार्थं विसर्पज्वरनाशनम् ६६
रसमामलकानां वा घृतमिश्रं प्रदापयेत्
स एव गुरुकोष्ठाय त्रिवृच्चूर्णयुतो हितः ६७
दोषे कोष्ठगते भूय एतत् कुर्याच्चिकित्सितम्
शाखादुष्टे तु रुधिरे रक्तमेवादिनो हरेत् ६८
भिषग्वातान्वितं रक्तं विषाणेन विनिर्हरेत्
पित्तान्वितं जलौकोभिः कफान्वितमलाबुभिः ६९
यथासन्नं विकारस्य व्यधयेदाशु वा सिराम्
त्वङ्मांसस्नायुसंक्लेदो रक्तक्लेदाद्धि जायते ७०
अन्तःशरीरे संशुद्धे दोषे त्वङ्मांससंश्रिते
आदितो वाऽल्पदोषाणां क्रिया बाह्या प्रवक्ष्यते ७१
उदुम्बरत्वङ्मधुकं पद्मकिञ्जल्कमुत्पलम्
नागपुष्पं प्रियङ्गुश्च प्रदेहः सघृतो हितः ७२
न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः
बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः ७३
कालीयं मधुकं हेम वन्यं चन्दनपद्मकौ
एला मृणालं फलिनी प्रलेपः स्याद्धृताप्लुतः ७४
शाद्वलं च मृणालं च शङ्खं चन्दनमुत्पलम्
वेतसस्य च मूलानि प्रदेहः स्यात् सतण्डुलः ७५
सारिवा पद्मकिञ्जल्कमुशीरं नीलमुत्पलम्
मञ्जिष्ठा चन्दनं लोध्रमभया च प्रलेपनम् ७६
नलदं च हरेणुश्च लोध्रं मधुकपद्मकौ
दूर्वा सर्जरसश्चैव सघृतं स्यात् प्रलेपनम् ७७
यावकाः सक्तवश्चैव सर्पिषा सह योजिताः
प्रदेहो मधुकं वीरा सघृता यवसक्तवः ७८
बलामुत्पलशालूकं वीरामगुरुचन्दनम्
कुर्यादालेपनं वैद्यो मृणालं च बिसान्वितम् ७९
यवचूर्णं समधुकं सघृतं च प्रलेपनम्
हरेणवो मसूराश्च समुद्गा श्वेतशालयः ८०
पृथक् पृथक् प्रदेहाः स्युः सर्वे वा सर्पिषा सह
पद्मिनीकर्दमः शीतो मौक्तिकं पिष्टमेव वा ८१
शङ्खः प्रवालः शुक्तिर्वा गैरिकं वा घृताप्लुतम्
पृथगेते प्रदेहाश्च हिता ज्ञेया विसर्पिणाम्
प्रपौण्डरीकं मधुकं बला शालूकमुत्पलम् ८२
न्यग्रोधपत्रदुग्धीके सघृतं स्यात् प्रलेपनम्
बिसानि च मृणालं च सघृताश्च कशेरुकाः ८३
शतावरीविदार्योश्च कन्दौ धौतघृताप्लुतौ
शैवालं नलमूलानि गोजिह्वा वृषकर्णिका ८४
इन्द्राणिशाकं सघृतं शिरीषत्वग्बलाघृतम्
न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थपल्लवैः ८५
कल्कितैर्बहुसर्पिर्भिः शीतैरालेपनं हितम्
प्रदेहाः सर्व एवैते वातपित्तोल्बणे शुभाः ८६
सकफे तु प्रवक्ष्यामि प्रदेहानपरान् हितान्
त्रिफलां पद्मकोशीरं समङ्गां करवीरकम् ८७
नलमूलान्यनन्तां च प्रदेहमुपकल्पयेत्
खदिरं सप्तपर्णं च मुस्तमारग्वघं धवम् ८८
कुरण्टकं देवदारु दद्यादालेपनं भिषक्
आरग्वधस्य पत्राणि त्वचं श्लेष्मातकस्य च ८९
इन्द्राणिशाकं काकाह्वां शिरीषकुसुमानि च
शैवालं नलमूलानि वीरां गन्धप्रियङ्गुकाम् ९०
त्रिफलां मधुकं वीरां शिरीषकुसुमानि च
प्रपौण्डरीकं ह्रीबेरं दार्वीत्वङ्मधुकं बलाम् ९१
पृथगालेपनं कुर्याद्द्वन्द्वशः सर्वशोऽपि वा
प्रदेहा सर्व एवैते देयाः स्वल्पघृताप्लुताः ९२
वातपित्तोल्बणे ये तु प्रदेहास्ते घृताधिकाः
घृतेन शतधौतेन प्रदिह्यात् केवलेन वा ९३
घृतमण्डेन शीतेन पयसा मधुकाम्बुना
पञ्चवल्ककषायेण सेचयेच्छीतलेन वा ९४
वातासृक्पित्तबहुलं विसर्पं बहुशो भिषक्
सेचनास्ते प्रदेहा ये त एव घृतसाधनाः ९५
ते चूर्णयोगा वीसर्पव्रणानामवचूर्णनाः
दूर्वास्वरससिद्धं च घृतं स्याद्व्रणरोपणम् ९६
दार्वीत्वङ्मधुकं लोध्रं केशरं चावचूर्णनम्
पटोलः पिचुमर्दश्च त्रिफला मधुकोत्पले ९७
एतत् प्रक्षालनं सर्पिर्व्रणचूर्णं प्रलेपनम्
प्रदेहाः सर्व एवैते कर्तव्याः संप्रसादनाः ९८
क्षणे क्षणे प्रयोक्तव्याः पूर्वमुद्धृत्य लेपनम्
अधावनोद्धृते पूर्वे प्रदेहा बहुशोऽघनाः ९९
देयाः प्रदेहाः कफजे धावनेनोद्धृते घनाः
त्रिभागाङ्गुष्ठमात्रः स्यात् प्रलेपः कल्कपेषितः १००
नाति स्निग्धो न रूक्षश्च न पिण्डो न द्रवः समः
न च पर्युषितं लेपं कदाचिदवचारयेत् १०१
न च तेनैव लेपेन पुनर्जातु प्रलेपयेत्
क्लेदवीसर्पशूलानि सौष्ण्यभावात् प्रवर्तयेत् १०२
लेपो ह्युपरि पट्टस्य कृतः स्वेदयति व्रणम्
स्वेदजाः पिडकास्तस्य कण्डूश्चैवोपजायते १०३
उपर्युपरि लेपस्य लेपो यद्यवचार्यते
तानेव दोषाञ्जनयेत् पट्टस्योपरि यान् कृतः १०४
अतिस्निग्धोऽतिद्रवश्च लेपो यद्यवचार्यते
त्वचि न श्लिष्यते सम्यङ् न दोषं शमयत्यपि १०५
तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते
न चौषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति १०६
तन्वालिप्तेन ये दोषास्तानेव जनयेद्भृशम्
संशुष्कः पीडयेद्व्याधिं निःस्नेहो ह्यवचारितः १०७
अन्नपानानि वक्ष्यामि विसर्पाणां निवृत्तये
लङ्घितेभ्यो हितो मन्थो रूक्षः सक्षौद्रशर्करः १०८
मधुरः किंचिदम्लो वा दाडिमामलकान्वितः
सपरूषकमृद्वीकः सखर्जूरः शृताम्बुना १०९
तर्पणैर्यवशालीनां सस्नेहा चावलेहिका
जीर्णे पुराणशालीनां यूषैर्भुञ्जीत भोजनम् ११०
मुद्गान्मसूरांश्चणकान् यूषार्थमुपकल्पयेत्
अनम्लान् दाडिमाम्लान् वा पटोलामलकैः सह १११
जाङ्गलानां च मांसानां रसांस्तस्योपकल्पयेत्
रूक्षान् परूषकद्राक्षादाडिमामलकान्वितान् ११२
रक्ताः श्वेता महाह्वाश्च शालयः षष्टिकैः सह
भोजानार्थे प्रशस्यन्ते पुराणाः सुपरिस्रुताः ११३
यवगोधूमशालीनां सात्म्यान्येव प्रदापयेत्
येषां नात्युचितः शालिर्नरा ये च कफाधिकाः ११४
विदाहीन्यन्नपानानि विरुद्धं स्वपनं दिवा
क्रोधव्यायामसूर्याग्निप्रवातांश्च विवर्जयेत् ११५
कुर्याच्चिकित्सितादस्माच्छीतप्रायाणि पैत्तिके
रूक्षप्रायाणि कफजे स्नैहिकान्यनिलात्मके ११६
वातपित्तप्रशमनमग्निवीसर्पिणे हितम्
कफपित्तप्रशमनं प्रायः कर्दमसंज्ञिते ११७
रक्तपित्तोत्तरं दृष्ट्वा ग्रन्थिवीसर्पमादितः
रूक्षणैर्लङ्घनै सेकैः प्रदेहैः पाञ्चवल्कलैः ११८
सिरामोक्षैर्जलौकोभिर्वमनैः सविरेचनैः
घृतैः कषायतिक्तैश्च कालज्ञः समुपाचरेत् ११९
ऊर्ध्वं चाधश्च शुद्धाय रक्ते चाप्यवसेचिते
वातश्लेष्महरं कर्म ग्रन्थिवीसर्पिणे हितम् १२०
उत्कारिकाभिरुष्णाभिरुपनाहः प्रशस्यते
स्निग्धाभिर्वेशवारैर्वा ग्रन्थिवीसर्पशूलिनाम् १२१
दशमूलोपसिद्धेन तैलेनोष्णेन सेचयेत्
कुष्ठतैलेन चोष्णेन पाक्यक्षारयुतेन च १२२
गोमूत्रैः पत्रनिर्यूहैरुष्णैर्वा परिषेचयेत्
सुखोष्णया प्रदिह्याद्वा पिष्टया चाश्वगन्धया १२३
शुष्कमूलककल्केन नक्तमालत्वचाऽपि वा
बिभीतकत्वचां वाऽपि कल्केनोष्णेन लेपयेत् १२४
बलां नागबलां पथ्यां भूर्जग्रन्थिं बिभीतकम्
वंशपत्राण्यग्निमन्थं कुर्याद्ग्रन्थिप्रलेपनम् १२५
दन्ती चित्रकमूलत्वक् सुधार्कपयसी गुडः
भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि १२६
बहिर्मार्गस्थितं ग्रन्थिं किं पुनः कफसंभवम्
दीर्घकालस्थितं ग्रन्थिं भिन्द्याद्वा भेषजैरिमैः १२७
मूलकानां कुलत्थानां यूषैः सक्षारदाडिमैः
गोधूमान्नैर्यवान्नैर्वा ससीधुमधुशर्करैः १२८
सक्षौद्रैर्वारुणीमण्डैर्मातुलुङ्गरसान्वितैः
त्रिफलायाः प्रयोगैश्च पिप्पलीक्षौद्रसंयुतैः १२९
मुस्तभल्लातसक्तूनां प्रयोगैर्माक्षिकस्य च
देवदारुगुडूच्योश्च प्रयोगैर्गिरिजस्य च १३०
धूमैर्विरेकैः शिरसः पूर्वोक्तैर्गुल्मभेदनैः
अयोलवणपाषाणहेमताम्रप्रपीडनैः १३१
आभिः क्रियाभिः सिद्धाभिर्विविधाभिर्बली स्थिरः
ग्रन्थि पाषाणकठिनो यदा नैवोपशाम्यति १३२
अथास्य दाहः क्षारेण शरैर्हेम्नाऽथ वा हितः
पाकिभिः पाचयित्वा वा पाटयित्वा समुद्धरेत् १३३
मोक्षयेद्बहुशश्चास्य रक्तमुत्क्लेशमागतम्
पुनश्चापहृते रक्ते वातश्लेष्मजिदौषधम् १३४
धूमो विरेकः शिरसः स्वेदनं परिमर्दनम्
अप्रशाम्यति दोषे च पाचनं वा प्रशस्यते १३५
प्रक्लिन्नं दाहपाकाभ्यां भिषक् शोधनरोपणैः
बाह्यैश्चाभ्यन्तरैश्चैव व्रणवत् समुपाचरेत् १३६
कम्पिल्लकं विडङ्गानि दार्वीं कारञ्जकं फलम्
पिष्ट्वा तैलं विपक्तव्यं ग्रन्थिव्रणचिकित्सितम् १३७
द्विवर्णीयोपदिष्टेन कर्मणा चाप्युपाचरेत्
देशकालविभागज्ञो व्रणान् वीसर्पजान् बुधः १३८
इति ग्रन्थिविसर्पचिकित्सा
य एव विधिरुद्दिष्टो ग्रन्थीनां विनिवृत्तये
स एव गलगण्डानां कफजानां निवृत्तये १३९
गलगण्डास्तु वातोत्था ये कफानुगता नृणाम्
घृतक्षीरकषायाणामभ्यासान्न भवन्ति ते १४०
यानीहोक्तानि कर्माणि विसर्पाणां निवृत्तये
एकतस्तानि सर्वाणि रक्तमोक्षणमेकतः १४१
विसर्पो न ह्यसंसृष्टो रक्तपित्तेन जायते
तस्मात् साधारणं सर्वमुक्तमेतच्चिकित्सितम् १४२
विशेषो दोषवैषम्यान्न च नोक्तः समासतः
समासव्यासनिर्दिष्टां क्रियां विद्वानुपाचरेत् १४३
तत्र श्लोकाः--
निरुक्तं नामभेदाश्च दोषा दूष्याणि हेतवः
आश्रयो मार्गतश्चैव विसर्पगुरुलाघवम् १४४
लिङ्गान्युपद्रवा ये च यल्लक्षण उपद्रवः
साध्यत्वं न च साध्यानां साधनं च यथाक्रमम् १४५
इति पिप्रक्षवे सिद्धिमग्निवेशाय धीमते
पुनर्वसुरुवाचेदं विसर्पाणां चिकित्सितम् १४३
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विसर्पचिकित्सितं नामैकविंशोऽध्यायः २१

द्वाविंशोऽध्यायः
अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
ज्ञानप्रशमतपोभिः ख्यातोऽत्रिसुतो जगद्घितेऽभिरतः
तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम् ३
क्षोभाद्भयाच्छ्रमादपि शोकात्क्रोधाद्विलङ्घनान्मद्यात्
क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः ४
धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसंतापैः
पित्तानिलौ प्रवृद्धौ सौम्यान्धातूंश्च शोषयतः ५
रसवाहिनीश्च धमनीर्जिह्वामूलगलतालुकक्लोम्नः
संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ ६
पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम्
घोरव्याधिकृशानां प्रभवत्युपसर्गभूता सा ७
प्राग्रूपं मुखशोषः स्वलक्षणं सर्वदाऽम्बुकामित्वम्
तृष्णानां सर्वासां लिङ्गानां लाघवमपायः ८
मुखशोषस्वरभेदभ्रमसंतापप्रलापसंस्तम्भान्
ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च ९
जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम्
तृष्णोद्भूता कुरुते पञ्चविधां लिङ्गतः शृणु ताम् १०
अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति
अस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन् ११
निद्रानाशः शिरसो भ्रमस्तथा शुष्कविरसमुखता च
स्रोतोऽवरोध इति च स्थाल्लिङ्गं वाततृष्णायाः १२
पित्तं मतमाग्नेयं कुपितं चेत्तापयत्यपां धातुम्
संतप्तः स हि जनयेत्तृष्णां दाहोल्बणां नृणाम् १३
तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्च्छा
पीताक्षिमूत्रवर्चस्त्वमाकृतिः पित्ततृष्णायाः १४
तृष्णा याऽऽमप्रभवा साऽप्याग्नेयाऽऽमपित्तजनितत्वात्
लिङ्गं तस्याश्चारुचिराध्मानकफप्रसेकौ च १५
देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच्च तृष्येद्धि
दीनस्वरः प्रताम्यन् संशुष्कहृदयगलतालु १६
भवति खलु योपसर्गात्तृष्णा सा शोषिणी कुष्टा
ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम् १७
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्
घोरोपद्रवयुक्तास्तृष्णा मरणाय विज्ञेयाः १८
नाग्निं विना हि तर्षः पवनाद्वा तौ हि शोषणे हेतू
अब्धातोरतिवृद्धावपां क्षये तृष्यति हि नरः १९
गुर्वन्नपयः स्नेहैः संमूर्च्छद्भिर्विदाहकाले च
यस्तृष्येद्वृतमार्गे तत्राप्यनिलानलौ हेतू २०
तीक्ष्णोष्णरूक्षभावान्मद्यं पित्तानिलौ प्रकोपयति
शोषयतोऽपां धातुं तावेव हि मद्यशीलानाम् २१
तप्तास्विह सिकतासु हि तोयमाशु शुष्यति क्षिप्तम्
तेषां संतप्तानां हिमजलपानाद्भवति शर्म २२
शिशिरस्नातस्योष्मा रुद्धः कोष्ठं प्रपद्य तर्षयति
तस्मान्नोष्णक्लान्तो भजेत सहसा जलं शीतम् २३
लिङ्गं सर्वास्वेतास्वनिलक्षयपित्तजं भवत्यथ तु
पृथगागमाच्चिकित्सितमतः प्रवक्ष्यामि तृष्णानाम् २४
अपां क्षयाद्धि तृष्णा संशोष्य नरं प्रणाशयेदाशु
तस्मादैन्द्रं तोयं समधु पिबेत्तद्गुणं वाऽन्यत् २५
किञ्चित्तुवरानुरसं तनु लघु शीतलं सुगन्धि सुरसं च
अनभिष्यन्दि च यत्तत्क्षितिगतमप्यैन्द्रवज्ज्ञेयम् २६
शृतशीतं ससितोपलमथवा शरपूर्वपञ्चमूलेन
लाजासक्तुसिताह्वामधुयुतमैन्द्रेण वा मन्थम् २७
वाट्यं वाऽऽमयवानां शीतं मधुशर्करायुतं दद्यात्
पेयां वा शालीनां दद्याद्वा कोरदूषाणाम् २८
पयसा शृतेन भोजनमथवा मधुशर्करायुतं योज्यम्
पारावतादिकरसैर्घृतभृष्टैर्वाऽप्यलवणाम्लैः २९
तृणपञ्चमूलमुञ्जातकैः प्रियालैश्च जाङ्गलाः सुकृताः
शस्ता रसाः पयो वा तैः सिद्धं शर्करामधुमत् ३०
शतधौतघृतेनाक्तः पयः पिबेच्छीततोयमवगाह्य
मुद्गमसूरचणकजा रसास्तु भृष्टा घृते देयाः ३१
मधुरैः सजीवनीयैः शीतैश्च सतिक्तकैः शृतं क्षीरम्
पानाभ्यञ्जनसेकेष्विष्टं मधुशर्करायुक्तम् ३२
तज्जं वा घृतमिष्टं पानाभ्यङ्गेषु नस्यमपि च स्यात्
नारीपयः सशर्करमुष्ट्र्या अपि नस्यमिक्षुरसः ३३
क्षीरेक्षुरसगुडोदकसितोपलाक्षौद्रसीधुमार्द्वीकैः
वृक्षाम्लमातुलुङ्गैर्गण्डूषास्तालुशोषघ्नाः ३४
जम्ब्वाम्रातकबदरीवेतसपञ्चवल्कपञ्चाम्लैः
हृन्मुखशिरःप्रदेहाः सघृता मूर्च्छाभ्रमतृष्णाघ्नाः स्युः ३५
दाडिमदधित्थलोध्रैः सविदारीबीजपूरकैः शिरसः
लेपो गौरामलकैर्घृतारनालायुतैश्च हितः ३६
शैवलपङ्काम्बुरुहैः साम्लैः सघृतैश्च सक्तुभिर्लेपः
मस्त्वारनालार्द्रवसनकमलमणिहारसंस्पर्शाः ३७
शिशिराम्बुचन्दनार्द्रस्तनतटपाणितलगात्रसंस्पर्शाः
क्षौमार्द्रनिवसनानां वराङ्गनानां प्रियाणां च ३८
हिमवद्दरीवनसरित्सरोऽम्बुजपवनेन्दुपादशिशिराणाम्
रम्यशिशिरोदकानां स्मरणं कथाश्च तृष्णाघ्नाः ३९
वातघ्नमन्नपानं मृदु लघु शीतं च वाततृष्णायाम्
क्षयकासनुच्छृतं क्षीरघृतमूर्ध्ववातपित्ततृष्णाघ्नम् ४०
स्याज्जीवनीयसिद्धं क्षीरघृतं वातपित्तजे तर्षे
पैत्ते द्राक्षाचन्दनखर्जूरोशीरमधुयुतं तोयम् ४१
लोहितशालितण्डुलखर्जूरपरूषकोत्पलद्राक्षाः
मधु पक्वामलोष्टजजले स्थितं शीतलं पेयम् ४२
लोहितशालिप्रस्थः सलोध्रमधुकाञ्जनोत्पलः क्षुण्णः पक्वामलोष्टजलमधुसमायुतो मृन्मये पेयः ४३
वटमातुलुङ्गवेतसपल्लवकुशकाशमूलयष्ट्याह्वैः
सिद्धेऽम्भस्यग्निनिभां कृष्णमृदं कृष्णसिकतां वा ४४
तप्तानि नवकपालान्यथवा निर्वाप्य पाययेताच्छम्
अपाकशर्करं वाऽमृतवल्ल्युदकं तृषां हन्ति ४५
क्षीरवतां मधुराणां शीतानां शर्करामधुविमिश्राः
शीतकषाया मृद्भृष्टसंयुताः पित्ततृष्णाघ्नाः ४६
व्योषवचाभल्लातकतिक्तकषायास्तथाऽऽमतृष्णाघ्नाः
यच्चोक्तं कफजायां वम्यां तच्चैव कार्यं स्यात् ४७
स्तम्भारुच्यविपाकालस्यच्छर्दिषु कफानुगां तृष्णाम्
ज्ञात्वा दधिमधुतर्पणलवणोष्णजलैर्वमनमिष्टम् ४८
दाडिममम्लफलं वाऽप्यन्यत् सकषायमथ लेह्यम्
पेयमथवा प्रदद्याद्रजनीशर्करायुक्तम् ४९
क्षयकासेन तु तुल्या क्षयतृष्णा सा गरीयसी नृणाम्
क्षीणक्षतशोषहितैस्तस्मात्तां भेषजैः शमयेत् ५०
पानतृषार्तः पानं त्वर्धोदकमम्ललवणगन्धाढ्यम्
शिशिरस्नातः पानं मद्याम्बु गुडाम्बु वा प्रपिबेत् ५१
भक्तोपरोधतृषितः स्नेहतृषार्तोऽथवा तनुयवागूम्
प्रपिबेद्गुरुणा तृषितो भुक्तेन तदुद्धरेद्भुक्तम् ५२
मद्याम्बु वाऽम्बु कोष्णं बलवांस्तृषितः समुल्लिखेत् पीत्वा
मागधिकाविशदमुखः सशर्करं वा पिबेन्मन्थम् ५३
बलवांस्तु तालुशोषे पिबेद्धृतं तृष्यमद्याच्च
सर्पिर्भृष्टं क्षीरं मांसरसांश्चाबलः स्निग्धान् ५४
अतिरूक्षदुर्बलानां तर्षं शमयेन्नृणामिहाशु पयः
छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः ५५
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्
तर्षं मूर्च्छाभिहतस्य रक्तपित्तापहैर्हन्यात् ५६
तृट्दाहमूर्च्छाभ्रमक्लममदात्ययास्रविषपित्ते
शस्तं स्वभावशीतं शृतशीतं सन्निपातेऽम्भः ५७
हिक्काश्वासनवज्वरपीनसघृतपीतपार्श्वगलरोगे
कफवातकृते स्त्याने सद्यःशुद्धे च हितमुष्णम् ५८
पाण्डूदरपीनसमेहगुल्ममन्दानलातिसारेषु
प्लीह्नि च तोयं न हितं काममसह्ये पिबेदल्पम् ५९
पूर्वामयातुरः सन् दीनस्तृष्णार्दितो जलं काङ्क्षन्
नलभेत स चेन्मरणमाश्वेवाप्नुयाद्दीर्घरोगं वा ६०
तस्माद्धान्याम्बु पिबेत्तृष्यन् रोगी सशर्कराक्षौद्रम्
यद्वा तस्यान्यत्स्यात् सात्म्यं रोगस्य तच्चेष्टम् ६१
तस्यां विनिवृत्तायां तज्जन्य उपद्रवः सुखं जेतुम्
तस्मात्तृष्णां पूर्वं जयेद्बहुभ्योऽपि रोगेभ्यः ६२
तत्र श्लोकः--
हेतू यथाऽग्निपवनौ कुरुतः सोपद्रवां च पञ्चानाम्
तृष्णानां पृथगाकृतिरसाध्यता साधनं चोक्तम् ६३
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने
तृष्णारोगचिकित्सितं नाम द्वाविंशोऽध्यायः २२

त्रयोविंशोऽध्यायः
अथातो विषचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
प्रागुत्पत्तिं गुणान् योनिं वेगाँल्लिङ्गान्युपक्रमान्
विषस्य ब्रुवतः सम्यगग्निवेश निबोध मे ३
अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरैः
जज्ञे प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः ४
दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः
जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः ५
जङ्गमस्थावरायां तद्योनौ ब्रह्मा न्ययोजयत्
तदम्बुसंभवं तस्माद्द्विविधं पावकोपमम् ६
अष्टवेगं दशगुणं चतुर्विशत्युपक्रमम्
तद्वर्षास्वम्बुयोनित्वात् संक्लेदं गुडवद्गतम् ७
सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति च
प्रयाति मन्दवीर्यत्वं विषं तस्माद्घनात्यये ८
सर्पाः कीटोन्दुरा लूता वृश्चिका गृहगोधिकाः
जलौकामत्स्यमण्डूकाः कणभाः कृकलासकाः ९
श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादयः
दंष्ट्रिणो ये विषं तेषां दंष्ट्रोत्थं जाङ्गमं मतम् १०
मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाहकम्
कर्कटं कालकूटं च करवीरकसंज्ञकम् ११
पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम्
रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम् १२
सङ्कोचं मर्कटं शृङ्गीविषं हालाहलं तथा
एवमादीनि चान्यानि मूलजानि स्थिराणि च १३
गरसंयोगजं चान्यद्गरसंज्ञं गदप्रदम्
कालान्तरविपाकित्वान्न तदाशु हरत्यसून् १४
निद्रां तन्द्रां क्लमं दाहं संपाकं लोमहर्षणम्
शोफं चैवातिसारं च जनयेज्जाङ्गमं विषम् १५
स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम्
फेनवम्यरुचिश्वासमूर्च्छाश्च जनयेद्विषम् १६
जाङ्गमं स्यादधोभागमूर्ध्वभागं तु मूलजम्
तस्माद्दंष्ट्राविषं मौलं हन्ति मौलं च दंष्ट्रजम् १७
तृण्मोहदन्तहर्षप्रसेकवमथुक्लमा भवन्त्याद्ये
वेगे रसप्रदोषादसृक्प्रदोषाद्द्वितीये तु १८
वैवर्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमातमकाः
दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथुकोठाः १९
वातादिजाश्चतुर्थे दाहच्छर्द्यङ्गशूलमूर्च्छाद्याः
नीलादीनां तमसश्च दर्शनं पञ्चमे वेगे २०
षष्ठे हिक्का भङ्गः स्कन्धस्य तु सप्तमेऽष्टमे मरणम्
नृणां चतुष्पदां स्याच्चतुर्विधः पक्षिणां त्रिविधः २१
सीदत्याद्ये भ्रमति च चतुष्पदो वेपते ततः शून्यः
मन्दाहारो म्रियते श्वासेन हि चतुर्थवेगे तु २२
ध्यायति विहगः प्रथमे वेगे प्रभ्राम्यति द्वितीये तु
स्रस्ताङ्गश्च तृतीये विषवेगे याति पञ्चत्वम् २३
लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च
उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः २४
रौक्ष्याद्वातमशैत्यात्पित्तं सौक्ष्म्यादसृक् प्रकोपयति
कफमव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम् २५
शीघ्रं व्यवायिभावादाशु व्याप्नोति केवलं देहम्
तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद्विकासित्वात् २६
दुरुपक्रमं लघुत्वाद्वैशद्यात् स्यादसक्तगतिदोषम्
दोषस्थानप्रकृतीः प्राप्यान्यतमं ह्युदीरयति २७
स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु
तृण्मोहारतिमूर्च्छागलग्रहच्छर्दिफेनादि २८
पित्ताशयस्थितं पैत्तिकस्य कफवातयोर्विषं तद्वत्
तृट्कासज्वरवमथुक्लमदाहतमोतिसारादि २९
कफदेशगं कफस्य च दर्शयेद्वातपित्तयोश्चेषत्
लिङ्गं श्वासगलग्रहकण्डूलालावमथ्वादि ३०
दूषीविषं तु शोणितदुष्ट्यारुःकिटिभकोठलिङ्गं च
विषमेकैकं दोषं संदूष्य हरत्यसूनेवम् ३१
क्षरति विषतेजसाऽसृक् तत् खानि निरुध्य मारयति जन्तुम्
पीतं मृतस्य हृदि तिष्ठति दष्टविद्धयोर्दंशदेशे स्यात् ३२
नीलौष्ठदन्तशैथिल्यकेशपतनाङ्गभङ्गविक्षेपाः
शिशिरैर्न लोमहर्षो नाभिहते दण्डराजी स्यात् ३३
क्षतजं क्षताच्च नायात्येतानि भवन्ति मरणलिङ्गानि
एभ्योऽन्यथा चिकित्स्यास्तेषां चोपक्रमाञ्छृणु मे ३४
मन्त्रारिष्टोत्कर्तननिष्पीडनचूषणाग्निपरिषेकाः
अवगाहरक्तमोक्षणवमनविरेकोपधानानि ३५
हृदयावरणाञ्जननस्यधूमलेहौषधप्रधमनानि
प्रतिसारणं प्रतिविषं संज्ञासंस्थापनं लेपः ३६
मृतसञ्जीवनमेव च विंशतिरेते चतुर्भिरधिकाः
स्युरुपक्रमा यथा ये यत्र योज्याः शृणु तथा तान् ३७
दंशात्तु विषं दष्टस्याविसृतं वेणिकां भिषग्बद्ध्वा
निष्पीडयेद्भृशं दंशमुद्धरेन्मर्मवर्जं वा ३८
तं दंशं वा चूषेन्मुखेन यवचूर्णपांशुपूर्णेन
प्रच्छनशृङ्गजलौकाव्यधनैः स्राव्यं ततो रक्तम् ३९
रक्ते विषप्रदुष्टे दुष्येत् प्रकृतिस्ततस्त्यजेत् प्राणान्
तस्मात् प्रघर्षणैरसृगवर्तमानं प्रवर्त्यं स्यात् ४०
त्रिकटुगृहधूमरजनीपञ्चलवणरोचनाः सवार्ताकाः
घर्षणमतिप्रवृत्ते वटादिभिः शीतलैर्लेपः ४१
रक्तं हि विषाध्मानं वायुरिवाग्नेः प्रदेहसेकैस्तत्
शीतैः स्कन्दति तस्मिन् स्कन्ने व्यपयाति विषवेगः ४२
विषवेगान्मदमूर्च्छाविषादहृदयद्रवाः प्रवर्तन्ते
शीतैर्निवर्तयेत्तान् वीज्यश्चालोमहर्षात् स्यात् ४३
तरुरिव मूलच्छेदाद्दंशच्छेदान्न वृद्धिमेति विषम्
आचूषणमानयनं जलस्य सेतुर्यथा तथाऽरिष्टाः ४४
त्वङ्मांसगतं दाहो दहति विषं स्रावणं हरति रक्तात्
पीतं वमनैः सद्यो हरेद्विरेकैर्द्वितीये तु ४५
आदौ हृदयं रक्ष्यं तस्यावरणं पिबेद्यथालाभम्
मधुसर्पिर्मज्जपयोगैरिकमथ गोमयरसं वा ४६
इक्षुं सुपक्वमथवा काकं निष्पीड्य तद्रसं वरणम्
छागादीनां वाऽसृग्भस्म मृदं वा पिबेदाशु ४७
क्षारागदस्तृतीये शोफहरैर्लेखनं समध्वम्बु
गोमयरसश्चतुर्थे वेगे सकपित्थमधुसर्पिः ४८
काकाण्डशिरीषाभ्यां स्वरसेनाश्च्योतनाञ्जने नस्यम्
स्यात्पञ्चमेऽथ षष्ठे संझायाः स्थापनं कार्यम् ४९
गोपित्तयुता रजनी मञ्जिष्ठामरिचपिप्पलीपानम्
विषपानं दष्टानां विषपीते दंशनं चान्ते ५०
शिखिपित्तार्धयुतं स्यात् पलाशबीजमगदो मृतेषु वरः
वार्ताकुफाणितागारधूमगोपित्तनिम्बं वा ५१
गोपित्तयुतैर्गुटिकाः सुरसाग्रन्थिद्विरजनीमधुककुष्ठैः
शस्ताऽमृतेन तुल्या शिरीषपुष्पकाकाण्डकरसैर्वा ५२
काकाण्डसुरसगवाक्षीपुनर्नवावायसीशिरीषफलैः
उद्बन्धविषजलमृते लेपौषधिनस्यपानानि ५३
स्पृक्काप्लवस्थौणेयकांक्षीशैलेयरोचनातगरम्
ध्यामककुङ्कुममांसीसुरसाग्रैलालकुष्ठघ्नम् ५४
बृहती शिरीषपुष्पं श्रीवेष्टकपद्मचारटिविशालाः
सुरदारु पद्मकेशरशाबरकमनःशिलाकौन्त्यः ५५
जात्यर्कपुष्परसरजनीद्वयहिङ्गुपिप्पलीलाक्षाः
जलमुद्गपर्णिचन्दनमधुकमदनसिन्धुवाराश्च ५६
शम्पाकलोध्रमयूरकगन्धफलानाकुलीविडङ्गाश्च
पुष्ये संहृत्य समं पिष्ट्वा गुटिका विधेयाः स्युः ५७
सर्वविषघ्नो जयकृद्विषमृतसंजीवनो ज्वरनिहन्ता
घ्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च ५८
भूतविषजन्त्वलक्ष्मीकार्मणमन्त्राग्न्यशन्यरीन् हन्यात्
दुःस्वप्नस्त्रीदोषानकालमरणाम्बुचौरभयम् ५९
धनधान्यकार्यसिद्धिः श्रीपुष्ट्यायुर्विवर्धनो धन्यः
मृतसंजीवन एष प्रागमृताद्ब्रह्मणा विहितः ६०
इति मृतसंजीवनोऽगदः
मन्त्रैर्धमनीबन्धोऽवमार्जनं कार्यमात्मरक्षा च
दोषस्य विषं यस्य स्थाने स्यात्तं जयेत्पूर्वम् ६१
वातस्थाने स्वेदो दध्ना नतकुष्ठकल्कपानं च
घृतमधुपयोऽम्बुपानावगाहसेकाश्च पित्तस्थे ६२
क्षारागदः कफस्थानगते स्वेदस्तथा सिराव्यधनम्
दूषीविषेऽथ रक्तस्थिते सिराकर्म पञ्चविधम् ६३
भेषजमेवं कल्प्यं भिषग्विदाऽऽलक्ष्य सर्वदा सर्वम्
स्थानं जयेद्धि पूर्वं स्थानस्थस्याविरुद्धं च ६४
विषदूषितकफमार्गः स्रोतःसंरोधरुद्धवायुस्तु
मृत इव श्वसेन्मर्त्यः स्यादसाध्यलिङ्गैर्विहीनश्च ६५
चर्मकषायाः कल्कं बिल्वसमं मूर्ध्नि काकपदमस्य
कृत्वा दद्यात्कटभीकटुकट्फलप्रधमनं च ६६
छागं गव्यं माहिषं वा मांसं कौक्कुटमेव वा
दद्यात् काकपदे तस्मिंस्ततः संक्रमते विषम् ६७
नासाक्षिकर्णजिह्वाकण्ठनिरोधेषु कर्म नस्तः स्यात्
वार्ताकुबीजपूरज्योतिष्मत्यादिभिः पिष्टैः ६८
अञ्जनमक्ष्युपरोधे कर्तव्यं बस्तमूत्रपिष्टैस्तु
दारुव्योषहरिद्राकरवीरकरञ्जनिम्बसुरसैस्तु ६९
श्वेता वचाऽश्वगन्धा हिङ्ग्वमृता कुष्ठसैन्धवे लशुनम्
सर्षपकपित्थमध्यं टुण्टुककरञ्जबीजानि ७०
व्योषं शिरीषपुष्पं द्विरजन्यौ वंशलोचनं च समम्
पिष्ट्वाऽजस्य मूत्रेण गोश्वपित्तेन सप्ताहम् ७१
व्यत्यासभावितोऽयं निहन्ति शिरसि स्थितं विषं क्षिप्रम्
सर्वज्वरभूतग्रहविसूचिकाजीर्णमूर्च्छार्तीः ७२
उन्मादापस्मारौ काचपटलनीलिकाशिरोदोषान्
शुष्काक्षिपाकपिल्लार्बुदार्मकण्डूतमोदोषान् ७३
क्षयदौर्बल्यमदात्ययपाण्डुगदांश्चाञ्जनात्तथा मोहान् लेपाद्विषदिग्धक्षतलीढदष्टपीतविषघाती ७४
अर्शःस्वानद्धेषु च गुदलेपो योनिलेपनं स्त्रीणाम्
मूढे गर्भे दुष्टे ललाटलेपः प्रतिश्याये ७५
वृद्धौ किटिभे कुष्ठे श्वित्रविचर्चिकादिषु लेपः
गज इव तरून् विषगदान्निहन्त्यगदगन्धहस्त्येषः ७६
इति गन्धहस्तीनामाऽगदः
पत्रागुरुमुस्तैला निर्यासाः पञ्च चन्दनं स्पृक्का
त्वङ्नलदोत्पलबालकहरेणुकोशीरवन्यनखाः ७७
सुरदारुकनककुङ्कुमध्यामककुष्ठप्रियङ्गवस्तगरम्
पञ्चाङ्गानि शिरीषाद्ब्योषालमनःशिलाजाज्यः ७८
श्वेतकटभीकरञ्जै रक्षोघ्नी सिन्धुवारिका रजनी
सुरसाञ्जनगैरिकमञ्जिष्ठानिम्बनिर्यासाः ७९
वंशत्वगश्वगन्धाहिङ्गुदधित्थाम्लवेतसं लाक्षा
मधुमधुकसोमराजीवचारुहारोचनातगरम् ८०
अगदोऽयं वैश्रवणायाख्यातस्त्र्यम्बकेण षष्ट्यङ्गः
अप्रतिहतप्रभावः ख्यातो महागन्धहस्तीति ८१
पित्तेन गवां पेष्यो गुटिकाः कार्यास्तु पुष्ययोगेन
पानाञ्जनप्रलेपैः प्रसाधयेत् सर्वकर्माणि ८२
पिल्लं कण्डूं तिमिरं रात्र्यान्ध्यं काचमर्बुदं पटलम्
हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम् ८३
विषमज्वरानजीर्णान्दद्रुं कण्डूं विचर्चिंकां पामाम्
विषमूषिकलूतानां सर्वेषां पन्नगानां च
आशु विषं नाशयति समूलजमथ कन्दजं सर्वम् ८४
एतेन लिप्तगात्रः सर्पान् गृह्णाति भक्षयेच्च विषम्
कालपरीतोऽपि नरो जीवति नित्यं निरातङ्कः ८५
आनद्धे गुदलेपो यनौ लेपञ्च मूढगर्भाणाम्
मूर्च्छार्तिषु च ललाटे प्रलेपनमाहुः प्रधानतमम् ८६
भेरीमृदङ्गपटहाञ्छत्राण्यमुना तथा ध्वजपताकाः
लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान् ८७
यत्र च सन्निहितोऽयं न तत्र बालग्रहा न रक्षांसि
न च कार्मणवेताला वहन्ति नाथर्वणा मन्त्राः ८८
सर्वग्रहा न तत्र प्रभवन्ति न चाग्निशस्त्रनृपचौराः
लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति ८९
पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत्
मम माता जया नाम जयो नामेति मे पिता ९०
सोऽहं जयजयापुत्रो विजयेऽथ जयामि च
नमः पुरुषसिंहाय विष्णवे विश्वकर्मणे ९१
सनातनाय कृष्णाय भवाय विभवाय च
तेजो वृषाकपेः साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे ९२
यथाऽहं नाभिजानामि वासुदेवपराजयम्
मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम् ९३
अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम्
हिलिमिलिसंस्पृष्टे रक्ष सर्वभेषजोत्तमे स्वाहा ९४
इति महागन्धहस्तीनामाऽगदः
ऋषभकजीवकभार्गीमधुकोत्पलधान्यकेशराजाज्यः
ससितगिरिकोलमध्याः पेयाः श्वासज्वरादिहराः ९५
हिङ्गु च कृष्णायुक्तं कपित्थरसुयुक्तमग्र्यलवणं च
समधुसितौ पातव्यौ ज्वरहिक्काश्वासकासघ्नौ ९६
लेहः कोलास्थ्यञ्जनलाजोत्पलमधुघृतैर्वम्याम्
बृहतीद्वयाढकीपत्रधूमवर्तिस्तु हिक्काघ्नी ९७
शिखिबर्हिबलाकास्थीनि सर्षपाश्चन्दनं च घृतयुक्तम्
धूमो गृहशयनासनवस्त्रादिषु शस्यते विषनुत् ९८
घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषपुष्पं च
धूमागदः स्मृतोऽयं सर्वविषघ्नः श्वयथुहृच्च ९९
जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पसर्जरसाः
श्वेता च धूम उरगाखुकीटवस्त्रक्रिमिनुदग्र्यः १००
तरुणपलाशक्षारं स्रुतं पचेच्चूर्णितैः सह समांशैः
लोहितमृद्रजनीद्वयशुक्लसुरसमञ्जरीमधुकैः १०१
लाक्षासैन्धवमांसीहरेणुहिङ्गुद्विसारिवाकुष्ठैः
सव्योषैर्बाह्लीकैर्दर्वीविलेपनं घट्टयेद्यावत् १०२
सर्वविषशोफगुल्मत्वग्दोषार्शॐभगन्दरप्लीह्नः
शोथापस्मारक्रिमिभूतस्वरभेदपाण्डुगदान् १०३
मन्दाग्नित्वं कासं सोन्मादं नाशयेयुरथ पुंसाम्
गुटिकाश्छायाशुष्काः कोलसमास्ताः समुपयुक्ताः १०४
इति क्षारागदः
विषपीतदष्टविद्धेष्वेतद्दिग्धे च वाच्यमुद्दिष्टम्
सामान्यतः पृथक्त्वान्निर्देशमतः शृणु यथावत् १०५
रिपुयुक्तेभ्यो नृभ्यः स्वेभ्यः स्त्रीभ्योऽथवा भयं नृपते
आहारविहारगतं तस्मात् प्रेष्यान् परीक्षेत १०६
अत्यर्थशङ्कितः स्याद्बहुवागथवाऽल्पवाग्विगतलक्ष्मीः
प्राप्तः प्रकृतिविकारं विषप्रदाता नरो ज्ञेयः १०७
दृष्टैवं न तु सहसा भोज्यं कुर्यात्तदन्नमग्नौ तु
सविषं हि प्राप्यान्नं बहून्विकारान् भजत्यग्निः १०८
शिखिबर्हविचित्रार्चिस्तीक्ष्णाक्षमरूक्षकुणपधूमश्च
स्फुटति च सशब्दमेकावर्तो विहतार्चिरपि च स्यात् १०९
पात्रस्थं च विवर्णं भोज्यं स्यान्मक्षिकांश्च मारयति
क्षामस्वरांश्च काकान् कुर्याद्विरजेच्चकोराक्षि ११०
पाने नीला राजी वैवर्ण्यं स्वां च नेक्षते द्दायाम्
पश्यति विकृतामथवा लवणाक्ते फेनमाला स्यात् १११
पानान्नयोः सविषयोर्गन्धेन शिरोरुग्घृदि च मूर्च्छा च
स्पर्शेन पाणिशोथः सुप्त्यङ्गुलिदाहतोदनखभेदाः ११२
मुखगे त्वोष्ठचिमिचिमा जिह्वा शूना जडा विवर्णा च
द्विजहर्षहनुस्तम्भास्यदाहलालागलविकाराः ११३
आमाशयं प्रविष्टे वैवर्ण्यं स्वेदसदनमुत्कलेदः
दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम् ११४
पक्वाशयं तु याते मूर्च्छामदमोहदाहबलनाशाः
तन्द्रा कार्श्यं च विषे पाण्डुत्वं चोदरस्थे स्यात् ११५
दन्तपवनस्य कूर्चौ विशीर्यते दन्तौष्ठमांसशोफश्च
केशच्युतिः शिरोरुग्ग्रन्थयश्च सविषेऽथ शिरोभ्यङ्गे ११६
दुष्टेऽञ्जनेऽक्षिदाहस्रावात्युपदेहशोथरागाश्च
खाद्यैरादौ कोष्ठः स्पृश्यैस्त्वग्दूष्यते दुष्टैः ११७
स्नानाभ्यङ्गोत्सादनवस्त्रालङ्कारवर्णकैर्दुष्टैः
कण्ड्वर्तिकोठपिडकारोमोद्गमचिमिचिमाशोथाः ११८
एते करचरणदाहतोदक्लमाविपाकाश्च
भूपादुकाश्वगजवर्मकेतुशयनासनैर्दुष्टैः ११९
माल्यमगन्धं म्लायति शिरोरुजालोमहर्षकरम्
स्तम्भयति खानि नासामुपहन्ति दर्शनं च धूमः १२०
कूपतडागादिजलं दुर्गन्धं सकलुषं विवर्णं च
पीतं श्वयथुं कोठान् पिडकाश्च करोति मरणं च १२१
आदावामाशयगे वमनं त्वक्स्थे प्रदेहसेकादि
कुर्याद्भिषक् चिकित्सां दोषबलं चैव हि समीक्ष्य १२२
इति मूलविषविशेषाः प्रोक्ताः शृणु जाङ्गमस्यातः
सविशेषचिकित्सितमेवादौ तत्रोच्यते तु सर्पाणाम् १२३
इह दर्वीकरः सर्पो मण्डली राजीमानिति
त्रयो यथाक्रमं वातपित्तश्लेष्मप्रकोपणाः १२४
दर्वीकरः फणी ज्ञेयो मण्डली मण्डलाफणः
बिन्दुलेखविचित्राङ्गः पन्नगः स्यात्तु राजिमान् १२५
विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम्
विषं यथाक्रमं तेषां तस्माद्वातादिकोपनम् १२६
दर्वीकरकृतो दंशः सूक्ष्मदंष्ट्रापदोऽसितः
निरुद्धरक्तः कूर्माभो वातव्याधिकरो मतः १२७
पृथ्वर्पितः सशोथश्च दंशो मण्डलिना कृतः
पीताभः पीतरक्तश्च सर्वपित्तविकारकृत् १२८
कृतो राजिमता दंशः पिच्छिलः स्थिरशोफकृत्
स्निग्धः पाण्डुश्च सान्द्रासृक् श्लेष्मव्याधिसमीरणः १२९
वृत्तभोगो महाकायः श्वसन्नूर्ध्वेक्षणः पुमान्
स्थूलमूर्धा समाङ्गश्च स्त्री त्वतः स्याद्विपर्ययात् १३०
क्लीबस्त्रसत्यधोदृष्टिः स्वरहीनः प्रकम्पते
स्त्रिया दष्टो विपर्यस्तैरेतैः पुंसा नरो मतः १३१
व्यामिश्रलिङ्गैरेतैस्तु क्लीबदष्टं नरं वदेत्
इत्येतदुक्तं सर्पाणां स्त्रीपुंक्लीबनिदर्शनम् १३२
पाण्डुवक्त्रस्तु गर्भिण्या शूनौष्ठोऽप्यसितेक्षणः
जृम्भाक्रोधोपजिह्वार्तः सूतया रक्तमूत्रवान् १३३
सर्पो गौधेरको नाम गोधायां स्याच्चतुष्पदः
कृष्णसर्पेण तुल्यः स्यान्नाना स्युर्मिश्रजातयः १३४
गाढसंपादितोद्वृत्तं पीडितं लम्बितार्पितम्
सर्पितं च भृशाबाधं दंशा येऽन्ये न ते भृशाः १३५
तरुणाः कृष्णसर्पास्तु गोनसाः स्थविरास्तथा
राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमाः १३६
सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरा सिता
पीता वामोत्तरा दंष्ट्रा रक्तश्यावाऽधरोत्तरा १३७
यन्मात्रः पतते बिन्दुर्गोबालात् सलिलोद्धृतात्
वामाधरायां दंष्ट्रायां तन्मात्रं स्यादहेर्विषम् १३८
एकद्वित्रिचतुर्वृद्धविषभागोत्तरोत्तराः
सवर्णास्तत्कृता दंशा बहूत्तरविषा भृशाः १३९
सर्पाणामेव विण्मूत्रात् कीटाः स्युः कीटसंमताः
दूषीविषाः प्राणहरा इति संक्षेपतो मताः १४०
गात्रं रक्तं सितं कृष्णं श्यावं वा पिडकान्वितम्
सकण्डूदाहवीसर्पपाकि स्यात् कुथितं तथा १४१
कीटैर्दूषीविषैर्दष्टं लिङ्गं प्राणहरं शृणु
सर्पदष्टे यथा शोथो वर्धते सोग्रगन्ध्यसृक् १४२
दंशोऽक्षिगौरवं मूर्च्छा स रुगार्तः श्वसित्यपि
तृष्णारुचिपरीतश्च भवेत्प्राणहरादितः १४३
दंशस्य मध्ये यत् कृष्णं श्यावं वा जालकावृतम्
दग्धाकृति भृशं पाकि क्लेदशोथज्वरान्वितम् १४४
दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्दिशेत्
सर्वासामेव तासां च दंशे लक्षणमुच्यते १४५
शोफः श्वेतासिता रक्ताः पीता वा पिडका ज्वरः
प्राणान्तको भवेच्छ्वासो दाहहिक्काशिरोग्रहाः १४६
आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः
लोमहर्षश्च दाशश्चाप्याखुदूषीविषार्दिते १४७
मूर्च्छाङ्गशोथवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकैः १४८
श्यावत्वमथ कार्ष्ण्यं वा नानावर्णत्वमेव वा
मोहः पुरीषभेदश्च दष्टे स्यात् कृकलासकैः १४९
दहत्यग्निरिवादौ तु भिनत्तीवोर्ध्वमाशु च
वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति १५०
दष्टो साध्येन दृग्घ्राणरसनोपहतो नरः
मांसैः पतिद्भिरत्यर्थं वेदनार्तो जहात्यसून् १५१
विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च
लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते १५२
हृष्टरोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान्
दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते १५३
एकदंष्ट्रार्दितः शूनः सरुक् स्यात् पीतकः सतृट्
छर्दिर्निद्रा च मण्डूकैः सविषैर्दष्टलक्षणम् १५४
मत्स्यास्तु सविषाः कुर्युर्दाहशोफरुजस्तथा
कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः १५५
दाहतोदस्वेदशोथकरी तु गृहगोधिका
दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम् १५६
कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः
असाध्यकीटसदृशमसाध्यमशकक्षतम् १५७
सद्यःप्रस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता
पिडका मक्षिकादंशे तासां तु स्थगिकाऽसुहृत् १५८
श्मशानचैत्यवल्मीकयज्ञाश्रमसुरालये
पक्षसन्धिषु मध्याह्ने सार्धरात्रेऽष्टमीषु च १५९
न सिद्ध्यन्ति नराः दष्टाः पाषण्डायतनेषु च
दृष्टिश्वासमलस्पर्शविषैराशीविषैस्तथा १६०
विनश्यन्त्याशु संप्राप्ता दष्टाः सर्वेषु मर्मसु
येन केनापि सर्पेण संभवे न च सर्वतः १६१
भीतमत्ताबलोष्णक्षुत्तृषार्ते वर्धते विषम्
देहप्रकृतिकालौ च तुल्यौ प्राप्याल्पमन्यथा १६२
वारिविप्रहताः क्षीणा भीता नकुलनिर्जिताः
वृद्धा बालास्त्वचोमुक्ताः सर्पा मन्दविषाः स्मृताः १६३
सर्वदेहाश्रितं क्रोधाद्विषं सर्पो विमुञ्चति
तदेवाहारहेतोर्वा भयाद्वा न प्रमुञ्चति १६४
वातोल्बणविषाः प्राय उच्चिटिङ्गाः सवृश्चिकाः
वातपित्तोल्बणाः कीटाः श्लैष्मिकाः कणभादयः १६५
यस्य यस्य हि दोषस्य लिङ्गाधिक्यानि लक्षयेत्
तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम् १६६
हृत्पीडोर्ध्वानिलः स्तम्भः सिरायामोऽस्थिपर्वरुक्
घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे १६७
संज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यता
दंशावदरणं शोथो रक्तपीतश्च पैत्तिके १६८
वम्यरोचकहृल्लासप्रसेकोत्क्लेशगौरवैः
सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम् १६९
खण्डेन च व्रणालेपस्तैलाभ्यङ्गश्च वातिके
स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः १७०
सुशीतैः स्तम्भयेत् सेकैः प्रदेहैश्चापि पैत्तिकम्
लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत् १७१
विषेष्वपि च सर्वेषु सर्वस्थानगतेषु च
अवृश्चिकोच्चिटिङ्गेषु प्रायः शीतो विधिर्हितः १७२
वृश्चिके स्वेदमभ्यङ्गं घृतेन लवणेन च
सेकांश्चोष्णान् प्रयुञ्जीत भोज्यं पानं च सर्पिषः १७३
एतदेवोच्चिटिङ्गेऽपि प्रतिलोमं च पांशुभिः
उद्वर्तनं सुखाम्बूष्णैस्तथाऽवच्छादनं घनैः १७४
श्वा त्रिदोषप्रकोपात्तु तथा धातुविपर्ययात्
शिरोऽभितापी लालास्राव्यधोवक्त्रस्तथा भवेत् १७५
अन्येऽप्येवंविधा व्यालाः कफवातप्रकोपणाः
हृच्छिरोरुग्ज्वरस्तम्भतृषामूर्च्छाकरा मताः १७६
कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदोपशोषणम्
विदाहरागरुक्पाकाः शोफो ग्रन्थिनिकुञ्चनम् १७७
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च
ज्वरश्च सविषे लिङ्गं विपरीतं तु निर्विषे १७८
तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः
पूर्वोक्ता विधिमन्यं च यथावद्ब्रुवतः शृणु १७९
हृद्विदाहे प्रसेके वा विरेकवमनं भृशम्
यथावस्थं प्रयोक्तव्यं शुद्धे संसर्जनक्रमः १८०
शिरोगते विषे नस्तः कुर्यान्मूलानि बुद्धिमान्
बन्धुजीवस्यस् भार्ग्याश्च सुरसस्यासितस्य च १८१
दक्षकाकमयूराणां मांसासृङ्मस्तके क्षते
उपधेयमधोदष्टस्योर्ध्वदष्टस्य पादयोः १८२
पिप्पलीमरिचक्षारवचासैन्धवशिग्रुकाः
पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात् १८३
कपित्थमामं ससिताक्षौद्रं कण्ठगते विषे
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात् १८४
विषे पक्वाशयगते पिप्पलीं रजनीद्वयम्
मञ्जिष्ठां च समं पिष्ट्वा गोपित्तेन नरः पिबेत् १८५
रक्तं मांसं च गोधायाः शुष्कं चूर्णीकृतं हितम्
विषे रसगते पानं कपित्थरससंयुतम् १८६
शेलोर्मूलत्वगग्राणि बादरौदुम्बराणि च
कटभ्याश्च पिबेद्रक्तगते मांसगते पिबेत् १८७
सक्षौद्रं खादिरारिष्टकौटजं मूलमम्भसा
सर्वेषु च बले द्वे तु मधूकं मधुकं नतम् १८८
पिप्पलीं नागरं क्षारं नवनीतेन मूर्च्छितम्
कफे भिषगुदीर्णे तु विदध्यात्प्रतिसारणम् १८९
मांसीकुङ्कुमपत्रत्वग्रजनीनतचन्दनैः
मनःशिलाव्याघ्रनखसुरसैरम्बुपेषितैः १९०
पाननस्याञ्जनालेपाः सर्वशोथविषापहाः
चन्दनं तगरं कुष्ठं हरिद्रे द्वे त्वगेव च १९१
मनःशिला तमालश्च रसः कैशर एव च
शार्दूलस्य नखश्चैव सुपिष्टं तण्डुलाम्बुना १९२
हन्ति सर्वविषाण्येव वज्रिवज्रमिवासुरान्
रसे शिरीषपुष्पस्य सप्ताहं मरिचं सितम् १९३
भावितं सर्पदष्टानां नस्यपानाञ्जने हितम्
द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रचतुष्पलम् १९४
अपि तक्षकदष्टानां पानमेतत् सुखप्रदम्
सिन्धुवारस्य मूलं च श्वेता च गिरिकर्णिका १९५
पानं दर्वीकरैर्दष्टे नस्यं समधु पाकलम्
मञ्जिष्ठा मधुयष्टी च जीवकर्षभकौ सिता १९६
काश्मर्यं वटशुङ्गानि पानं मण्डलिनां विषे
व्योषं सातिविषं कुष्ठं गृहधूमो हरैणुका १९७
तगरं कटुका क्षौद्रं हन्ति राजीमतां विषम्
गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम् १९८
अपि वासुकिना दष्टः पिबेन्मधुघृताप्लुतम्
क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः १९९
मुक्तालेपो वरः शोथदाहतोदज्वरापहः
चन्दनं पद्मकोशीरं शिरीषः सिन्धुवारिका २००
क्षीरशुक्ला नतं कुष्ठं पाटलोदीच्यसारिवाः
शेलुस्वरसपिष्टोऽयं लूतानां सार्वकार्मिकः २०१
यथायोगं प्रयोक्तव्यः समीक्ष्यालेपनादिषु
मधूकं मधुकं कुष्ठं शिरीषोदीच्यपाटलाः
सनिम्बसारिवाक्षौद्राः पानं लूताविषापहम् २०२
कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्
दन्ती त्रिवृत्सैन्धवं च कर्णिकापातनं तयोः २०३
कटभ्यर्जुनशैरीषशेलुक्षीरिद्रुमत्वचः
कषायकल्कचूर्णाः स्युः कीटलूताव्रणापहाः २०४
त्वचं च नागरं चैव समांशं श्लक्ष्णपेषितम्
पेयमुष्णाम्बुना सर्वमूषिकाणां विषापहम् २०५
कुटजस्य फलं पिष्टं तगरं जालमालिनी
तिक्तेक्ष्वाकुश्च योगोऽयं पानप्रधमनादिभिः २०६
वृश्चिकोन्दुरुलूतानां सर्पाणां च विषं हरेत्
समानो ह्यमृतेनायं गराजीर्णं च नाशयेत् २०७
सर्वेऽगदा यथादोषं प्रयोज्याः स्युः कृकण्टके
कपोतविण्मातुलुङ्गं शिरीषकुसुमाद्रसः २०८
शङ्खिन्यार्कं पयः शुण्ठी करञ्जो मधु वार्श्चिके
शिरीषस्य फलं पिष्टं स्नुहीक्षीरेण दार्दुरे २०९
मूलानि श्वेतभण्डीनां व्योषं सर्पिश्च मत्स्यजे
कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम् २१०
वातपित्तहरी चापि क्रिया प्रायः प्रशस्यते
वार्श्चिको ह्युच्चिटिङ्गस्य कणभस्यौन्दुरोऽगदः २११
वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम्
द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम् २१२
गुहामतिगुहां श्वेतामजगन्धां शिलाजतु
कत्तृणं कटभीं क्षारं गृहधूमं मनःशिलाम् २१३
रोहितकस्य पित्तेन पिष्ट्वा तु परमोऽगदः
नस्याञ्जनप्रलेपेषु हितो विश्वम्भरादिषु २१४
स्वर्जिकाऽजशकृत्क्षारः सुरसोऽथाक्षिपीडकः
मदिरामण्डसंयुक्तो हितः शतपदीविषे २१५
कपित्थमक्षिपीडोऽर्कबीजं त्रिकटुकं तथा
करञ्जो द्वे हरिद्रे च गृहगोधाविषं जयेत् २१६
काकाण्डरससंयुक्तो विषाणां तण्डुलीयकः
प्रधानो बर्हिपित्तेन तद्वद्वायसपीलुकः २१७
शिरीषफलमूलत्वक्पुष्पपत्रैः समैर्घृतैः
श्रेष्ठः पञ्चशिरीषोऽयं विषाणां प्रवरो वधे २१८
इति पञ्चशिरीषोऽगदः
चतुष्पद्भिर्द्विपद्भिर्वा नखदन्तक्षतं तु यत्
शूयते पच्यते चापि स्रवति ज्वरयत्यपि २१९
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपद्यपि
रजन्यौ गैरिकं लेपो नखदन्तविषापहः २२०
दुरन्धकारे विद्धस्य केनचिद्विषशङ्कया
विषोद्वेगाज्ज्वरश्छर्दिर्मूर्च्छा दाहोऽपि वा भवेत् २२१
ग्लानिर्मोहोऽतिसारश्चाप्येतच्छङ्काविषं मतम्
चिकित्सितमिदं तस्य कुर्यादाश्वासयन् बुधः २२२
सिता सौगन्धिको द्राक्षा पयस्या मधुकं मधु
पानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम् २२३
शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः
भोजनार्थे प्रशस्यन्ते लवणार्थे च सैन्धवम् २२४
तण्डुलीयकजीवन्तीवार्ताकसुनिषण्णकाः
चुच्चूर्मण्डूकपर्णी च शाकं च कुलकं हितम् २२५
धात्री दाडिममम्लार्थेठ यूषा मुद्गहरेणुभिः
रसाश्चैणशिखिश्वाविल्लावतैत्तिरपार्षताः २२६
विषघ्नौषधसंयुक्ता रसा यूषाश्च संस्कृताः
अविदाहीनि चान्नानि विषार्तानां भिषग्जितम् २२७
विरुद्धाध्यशनक्रोधक्षुद्भयायासमैथुनम्
वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषतः २२८
मुहुर्मुहुः शिरोन्यासः शोथः स्रस्तौष्ठकर्णता
ज्वरः स्तब्धाक्षिगात्रत्वं हनुकम्पोऽङ्गमर्दनम् २२९
रोमापगमनं ग्लानिररतिर्वेपथुर्भ्रमः
चतुष्पदां भवत्येतद्दष्टानामिह लक्षणम् २३०
देवदारु हरिद्रे द्वे सरलं चन्दनागुरु
रास्ना गोरोचनाऽजाजी गुग्गुल्विक्षुरको नतम् २३१
चूर्णं ससैन्धवानन्तं गोपित्तमधुसंयुतम्
चतुष्पदानां दष्टानामगदः सार्वकार्मिकः २३२
सौभाग्यार्थं स्त्रियः स्वेदरजोनानाङ्गजान्मलान्
शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान् २३३
तैः स्यात् पाण्डुः कृशोऽल्पाग्निर्नरश्चास्योपजायते
मर्मप्रधमनाध्मानं श्वयथुं हस्तपादयोः २३४
जठरं ग्रहणीदोषो यक्ष्मा गुल्मः क्षयो ज्वरः
एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् २३५
स्वप्ने मार्जारगोमायुव्यालान् सनकुलान् कपीन्
प्रायः पश्यति नद्यादीञ्छुष्कांश्च सवनस्पतीन् २३६
कालश्च गौरमात्मानं स्वप्ने गौरश्च कालकम्
विकर्णनासिकं वाऽपि प्रपश्येद्विहतेन्द्रियः २३७
तमवेक्ष्य भिषक् प्राज्ञः पृच्छेत् किं कैः कदा सह
जग्धमित्यवगम्याशु प्रदद्याद्वमनं भिषक् २३८
सूक्ष्मं ताम्ररजस्तस्मै सक्षौद्रं हृद्विशोधनम्
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् २३९
हेम सर्वविषाण्याशु गरांश्च विनियच्छति
न सज्जते हेमपाङ्गे विषं पद्मदलेऽम्बुवत् २४०
नागदन्तीत्रिवृद्दन्तीद्रवन्तीस्नुक्पयः फलैः
साधितं माहिषं सर्पिः सगोमूत्राढकं हितम् २४१
सर्पकीटविषार्तानां गरार्तानां च शान्तये
शिरीषत्वक् त्रिकटुकं त्रिफलां चन्दनोत्पले २४२
द्वे बले सारिवास्फोतासुरभीनिम्बपाटलाः
बन्धुजीवाढकीमूर्वावासासुरसवत्सकान् २४३
पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकान्
विशालां बृहतीं लाक्षां कोविदारं शतावरीम् २४४
कटभीदन्त्यपामार्गान् पृश्निपर्णीं रसाञ्जनम्
श्वेतभण्ड्यश्वखुरकौ कुष्ठदारुप्रियङ्गुकान् २४५
विदारीं मधुकात् सारं करञ्जस्य फलत्वचौ
रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम् २४६
तुल्याम्बुच्छागगोमूत्रत्र्याढके तद्विषापहम्
अपस्मारक्षयोन्मादभूतग्रहगरोदरम् २४७
पाण्डुरोगक्रिमिगुल्मप्लीहोरुस्तम्भकामलाः
हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनैः २४८
हन्यात् संजीवयेच्चापि विषोद्बन्धमृतान्नरान्
नाम्नेदममृतं सर्वविषाणां स्याद्धृतोत्तमम् २४९
इत्यमृतघृतम्
भवन्ति चात्र--
छत्री झर्झरपाणिश्च चरेद्रात्रौ तथा दिवा
तच्छायाशब्दवित्रस्ताः प्रणश्यन्त्याशु पन्नगाः २५०
दष्टमात्रो दशेदाशु तं सर्पं लोष्टमेव वा
उपर्यरिष्टां बध्नीयाद्दंशं छिन्द्याद्दहेत्तथा २५१
वज्रं मरकतः सारः पिचुको विषमूषिका
कर्केतनः सर्पमणिर्वैदूर्यं गजमौक्तिकम् २५२
धार्यं गरमणिर्याश्च वरौषध्यो विषापहाः
खगाश्च सारिकाक्रौञ्चशिखिहंसशुकादयः २५३
तत्र श्लोकः--
इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारं विषरोगभेषजम् अधीत्य विज्ञाय तथा प्रयोजयन् व्रजेद्विषाणामविषह्यतां बुधः २५४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विषचिकित्सितं नाम त्रयोविंशोऽध्यायः २३

चतुर्विंशोऽध्यायः
अथातो मदात्ययचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सुरैः सुरेशसहितैर्या पुरा परिपूजिता
सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता ३
यज्ञौही या यया शक्रः सोमातिपतितो भृशम्
निरोजस्तमसाऽऽविष्टस्तस्माद्दुर्गात् समुद्धृतः ४
विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभिः
दृश्या स्पृश्या प्रकल्प्या च यज्ञीया यज्ञसिद्धये ५
योनिसंस्कारनामाद्यैर्विशेषैर्बहुधा च या
भूत्वा भवत्येकविधा सामान्यान्मदलक्षणात् ६
या देवानमृतं भूत्वा स्वधा भूत्वा पितॄंश्च या
सोमो भूत्वा द्विजातीन् या युङ्क्ते श्रेयोभिरुत्तमैः ७
आश्विनं या महत्तेजो बलं सारस्वतं च या
वीर्यमैन्द्रं च या सिद्धा सोमः सौत्रामणौ च या ८
शोकारतिभयोद्वेगनाशिनी या महाबला
या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या च निर्वृतिः ९
या सुरासुरसन्धर्वंयक्षराक्षसमानुषैः
रतिः सुरेत्यभिहिता तां सुरां विधिना पिबेत् १०
शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान्
प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः ११
विचित्रविविधस्रग्वी रत्नाभरणभूषितः
देवद्विजातीन् संपूज्य स्पृष्ट्वा मङ्गलमुत्तमम् १२
देशे यथर्तुके शस्ते कुसुमप्रकरीकृते
सरसासंमते मुख्ये धूपसंमोदबोधिते १३
सोपधाने सुसंस्तीर्णे विहिते शयनाशने
उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः १४
सौवर्णे राजतैश्चापि तथा मणिमयैरपि
भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा १५
रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः
वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः १६
शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः
संवाह्यमान इष्टाभिः पिबेन्मद्यमनुत्तमम् १७
मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः
लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः १८
भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम्
पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः १९
पूजयित्वा सुरान् पूर्वमाशिषः प्राक् प्रयुज्य च
प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले २०
अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः
स्निग्धोष्णैर्भावितश्चान्नैर्वातिको मद्यमाचरेत् २१
शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः
पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति २२
उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्
श्लैष्मिको धन्वजैर्मांसैर्मद्यं मरिचकैः सह २३
विधिर्वसुमतामेष भविष्यद्विभवाश्च ये
यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम् २४
वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम्
कफपित्ताधिकेभ्यस्तु मार्द्वीकं माधवं च यत् २५
बहुद्रव्यं बहुगुणं बहुकर्म मदात्मकम्
गुणैर्दोषैश्च तन्मद्यमुभयं चोपलक्ष्यते २६
विधिना मात्रया काले हितैरन्नैर्यथाबलम्
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा २७
यथोपेतं पुनर्मद्यं प्रसङ्गाद्येन पीयते
रूक्षव्यायामनित्येन विषवद्याति तस्य तत् २८
मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्
दशभिर्दश संक्षोभ्य चेतो नयति विक्रियाम् २९
लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव च
रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम् ३०
गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम्
प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम् ३१
गुरुत्वं लाघवाच्छैत्यमौष्ण्यादम्लस्वभावतः
माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात् ३२
रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि
विकाशिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतां तथा ३३
सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान्
सत्त्वं तदाश्रयं चाशु संक्षोभ्य जनयेन्मदम् ३४
रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रियात्मनाम्
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ३५
अतिपीतेन मद्येन विहतेनौजसा च तत्
हृदयं याति विकृतिं तत्रस्था ये च धातवः ३६
ओजस्यविहते पूर्वो हृदि च प्रतिबोधिते
मध्यमो विहतेऽल्पे च विहते तूत्तमो मदः ३७
नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः
विकाशिरूक्षविशदा गुणास्तत्र हि नोल्बणाः ३८
हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम्
विकाराश्च यथासत्त्वं चित्रा राजसतामसाः ३९
जायन्ते मोहनिद्रान्ता मद्यस्यातिनिषेवणात्
स मद्यविभ्रमो नाम्ना मद इत्यभिधीयते ४०
पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः
प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे ४१
प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः
वाद्यगीतप्रहासानां कथानां च प्रवर्तकः ४२
न च बुद्धिस्मृतिहरो विषयेषु न चाक्षमः
सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः ४३
मुहुः स्मृतिर्मुहुर्मोहो व्यक्ता सज्जति वाङ्मुहुः
युक्तायुक्तप्रलापश्च प्रचलायनमेव च ४४
स्थानपानान्नसांकथ्ययोजना सविपर्यया
लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे ४५
मध्यमं मदमुत्क्रम्य मदमप्राप्य चोत्तमम्
न किंचिन्नाशुभं कुर्युर्नरा राजसतामसाः ४६
को मदं तादृशं विद्वानुन्मादमिव दारुणम्
गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः ४७
तृतीयं तु मदं प्राप्य भग्नदार्विव निष्क्रियः
मदमोहावृतमना जीवन्नपि मृतैः समः ४८
रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम्
यदर्थं पीयते मद्यं रतिं तां च न विदन्ति ४९
कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम्
यदवस्थो न जानाति कोऽवस्थां तां व्रजेद्बुधः ५०
स दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव च
व्यसनित्वादुदर्के च स दुःखं व्याधिमश्नुते ५१
प्रेत्य चेह च यच्छ्रेयः श्रेयो मोक्षे च यत् परम्
मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम् ५२
मद्येन मनसश्चास्य संक्षोभः क्रियते महान्
महामारुतवेगेन तटस्थस्येव शाखिनः ५३
मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम्
सुखमित्यधिगच्छन्ति रजोमोहपराजिताः ५४
मद्योपहतविज्ञाना वियुक्ताः सात्त्विकैर्गुणैः
श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसाः ५५
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ५६
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत्
इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नतः ५७
सत्यमेते महादोषा मद्यस्योक्ता न संशयः
अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम् ५८
किंतु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ५९
प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ६०
हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं परम्
युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम् ६१
रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्
प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम् ६२
स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम्
बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत् ६३
बधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्
मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकम् ६४
रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम्
अपि प्रवयसां मद्यमुत्सवामोदकारकम् ६५
पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे
यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि ६६
बहुदुःखहतस्यास्य शोकेनोपहतस्य च
विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम् ६७
अन्नपानवयोव्याधिबलकालत्रिकाणि षट्
त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा ६८
तेषां त्रिकाणामष्टानां योजना युक्तिरुच्यते
यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते ६९
मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते
धर्मार्थयोरपीडायै नरः सत्त्वगुणोच्छ्रितः ७०
सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे
द्वितीयेऽव्यक्ततां यान्ति मदे चोतमकेऽधिकाम् ७१
सस्यसंबोधकं वर्षं हेमप्रकृतिदर्शकः
हुताशः सर्वसत्त्वानां मद्यं तूभयकारकम् ७२
प्रधानावरमध्यानां रूपाणां व्यक्तिदर्शकः
यथाऽग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम् ७३
सुगन्धिमाल्यगन्धर्वं सुप्रणीतमनाकुलम्
मिष्टान्नपानं विशदं सदा मधुरसंकथुम् ७४
सुखप्रपानं सुमदं हर्षप्रीतिविवर्धनम्
स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम् ७५
वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः
मद्यं हि बलवत्सत्वं गृह्णाति सहसा न तु ७६
सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात्
चित्रं राजसमापानं प्रायेणास्वन्तकाकुलम् ७७
हर्षप्रीतिकथापेतमनुष्टं पानभोजने
संमोहक्रोधनिद्रान्तमापानं तामसं स्मृतम् ७८
आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान्
जह्यात्सहायान् यैः पीत्वा मद्यदोषानुपाश्नुते ७९
सुखशीलाः सुसंभाषाः सुमुखाः संमताः सताम्
कलास्वबाह्या विशदा विषयप्रवणाश्च ये ८०
परस्परविधेया ये येषामैक्यं सुहृत्तया
प्रहर्षप्रीतिमाधुर्येरापानं वर्धयन्ति ये ८१
उत्सवादुत्सवतरं येषामन्योन्यदर्शनम्
ते सहायाः सुखाः पानै तैः पिबन्सह मोदते ८२
रूपगन्धरसस्पर्शैः शब्दैश्चापि मनोरमैः
पिबन्ति सुसहाया ये ते वै सुकृतिभिः समाः ८३
पञ्चभिर्विषयैरिष्टैरुपेतैर्मनसः प्रियैः
देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना ८४
स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वयाः
बहुमद्योचिता ये च माद्यन्ति सहसा न ते ८५
क्षुत्पिपासापरीताश्च दुर्बला वातपैत्तिकाः
रूक्षाल्पप्रमिताहारा विष्टब्धाः सत्त्वदुर्बलाः ८६
क्रोधिनोऽनुचिताः क्षीणाः परिश्रान्ता मदक्षताः
स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवाः ८७
ऊर्ध्वं मदात्ययस्यातः संभवं स्वस्वलक्षणम्
अग्निवेश चिकित्सां च प्रवक्ष्यामि यथाक्रमम् ८८
स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्शितः
रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया ८९
रूक्षं परिणतं मद्यं निशि निद्रां विहत्य च
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ९०
हिक्काश्वासशिरः कम्पपार्श्वशूलप्रजागरैः
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ९१
तीक्ष्णोष्णं मद्यमम्लं च योऽतिमात्रं निषेवते
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः ९२
तस्योपजायते पित्ताद्विशेषेण मदात्ययः
स तु वातोल्बणस्याशु प्रशमं याति हन्ति वा ९३
तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमैः
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ९४
तरुणं मधुरप्रायं गौडं पैष्टिकमेव वा
मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया ९५
अव्यायामदिवास्वप्नशय्यासनसुखे रतः
मदात्ययं कफप्रायं स शीघ्रमधिगच्छति ९६
छर्दरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ९७
विषम्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः
त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ९८
हन्त्याशु हि विषं किंचित् किंचिद्रोगाय कल्पते
यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मदः ९९
तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये
दृश्यते रूपवैशेष्यात् पृथक्त्वं चास्य लक्ष्यते १००
शरीरदुःखं बलवत् संमोहो हृदयव्यथा
अरुचिः प्रतता तृष्णा ज्वरः शीतोष्णलक्षणः १०१
शिरः पार्श्चास्थिसन्धीनां विद्युत्तुल्या च वेदना
जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः १०२
उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः
शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः १०३
छर्द्यतीसारहृल्लासा वातपित्तकफात्मकाः
भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम् १०४
तृणभस्मलतापर्णपांशुभिश्चावपूरणम्
प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते १०५
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च
मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् १०६
सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम्
दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत् १०७
कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः १०८
मिथ्यातिहीनपीतेन यो व्याधिरुपजायते
समपीतेन तेनैव स मद्येनोपशाम्यति १०९
जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत्
प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत् ११०
सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम्
मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवत् १११
तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना
मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः ११२
अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम्
जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत् ११३
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः
श्रेष्ठमम्लेषु मद्यं च यैर्गुणैस्तान् परं शृणु ११४
मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः
मधुरश्च कषायश्च तिक्तः कटुक एव च ११५
गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः
सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति ११६
मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः
करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु ११७
दोषविष्यन्दनार्थं हि तस्मै मद्यं विशेषतः
व्यवायितीक्ष्णोष्णतया देयमम्लेषु सत्स्वपि ११८
स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम्
रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च ११९
उरःस्रोतःसु शुद्धेषु मारुते चानुलोमिते
निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः १२०
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्
यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम् १२१
सस्नेहैः सक्तुभिर्युक्तैरवदंशैश्चिरोत्थितम्
दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये १२२
दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत्
लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि १२३
पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः
भूशयप्रसहानां च रसैः शाल्योदनेन च १२४
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः
चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः १२५
पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः
माषपूपलिकाभिश्च वातिकं समुपाचरेत् १२६
नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम्
मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा १२७
पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम्
रसप्रलेपि संपूपैः सुखोष्णैः संप्रदापयेत् १२८
भुक्ते तु वारुणीमण्डं दद्यात् पातुं पिपासवे
दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम् १२९
धान्यनागरतोयं च दधिमण्डमथापि वा
अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा १३०
कर्मणाऽनेन सिद्धेन विकार उपशाम्यति
मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते १३१
रागषाडवसंयोगैर्विविधैर्भक्तरोचनैः
पिशितैः शाकपिष्टान्नैर्यवगोधूमशालिभिः १३२
अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः
घनैरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः १३३
नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः १३४
शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः
मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः १३५
भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम्
सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम् १३६
सशर्करं शार्करं वा मार्द्वीकमथवाऽपरम्
दद्याद्बहूदकं काले पातुं पित्तमदात्यये १३७
शशान् कपिञ्जलानेणाँल्लावानसितपुच्छकान्
मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान् १३८
पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम्
सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम् १३९
द्राक्षामलकखर्जूरपरूषकरसेन वा
कव्ययेत्तर्पणान् यूषान् रसांश्च विविधात्मकान् १४०
आमाशयस्थमुत्क्लिष्टं कफपित्तं मदात्यये
विज्ञाय बहुदोषस्य दह्यमानस्य तृष्यतः १४१
मद्यं द्राक्षारसं तोयं दत्त्वा तर्पयमेव वा
निःशेषं वामयेच्छीघ्रमेवं रोगाद्विमुच्यते १४२
काले पुनस्तर्पणाद्यं क्रमं कुर्यात् प्रकाङ्क्षिते
तेनाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः १४३
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च
तृष्यते सविदाहे च सोत्क्लेशे हृदयोरसि १४४
गुडूचीभद्रमुस्तानां पटोलस्याथवा भिषक्
रसं सनागरं दद्यात् तित्तिरिप्रतिभोजनम् १४५
तृष्यते चातिबलवद्वातपित्ते समुद्धते
दद्याद्द्राक्षारसं पातुं शीतं दोषानुलोमनम् १४६
जीर्णे समधुराम्लेन छागमांसरसेन तम्
भोजनं भोजयेन्मद्यमनुतर्षं च पाययेत् १४७
अनुतर्षस्य मात्रा सा यया नो दूष्यते मनः
तृष्यते मद्यमल्पाल्पं प्रदेयं स्याद्बहूदकम् १४८
तृष्णा येनोपशाम्येत मदं येन च नाप्नुयात्
परूषकाणां पीलूनां रसं शीतमथापि वा १४९
पर्णिनीनां चतसृणां पिबेद्वा शिशिरं जलम्
मुस्तदाडिमलाजानां तृष्णाघ्नं वा पिबेद्रसम् १५०
कोलदाडिमवृक्षाम्लचुक्रिकाचुक्रिकारसः
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति १५१
शीतलान्यन्नपानानि शीतानि सदनानि च
शीतवातजलस्पर्शाः शीतान्युपवनानि च १५२
क्षौमपद्मोत्पलानां च मणीनां मौक्तिकस्य च
चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः १५३
हेमराजतकांस्यानां पात्राणां शीतवारिभिः
पूर्णानां हिमपूर्णानां दृतीनां पवनाहताः १५४
संस्पर्शाश्चन्दनार्द्राणां नारीणां च समारुताः
चन्दनानां च मुख्यानां शस्ताः पित्तमदात्यये १५५
शीतवीर्यं यदन्यच्च तत् सर्वं विनियोजयेत्
कुमुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना १५६
हिताः स्पर्शा मनोज्ञानां दाहे मद्यसमुत्थिते
कथाश्च विविधाः चित्राः शब्दाश्च शिखिनां शिवाः १५७
तोयदानां च शब्दा हि शमयन्ति मदात्ययम्
जलयन्त्राभिवर्षीणि वातयन्त्रवहानि च १५८
कल्पनीयानि भिषजा दाहे धारागृहाणि च
फलिनीसेव्यलोध्राम्बुहेमपुष्पकुटन्नटम् १५९
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्
बदरीपल्लवोत्थश्च तथैवारिष्टकोद्भवः १६०
फेनिलायाश्च यः फेनस्तैर्दाहे लेपनं शुभम्
सुरा समण्डा दध्यम्लं मातुलुङ्गरसो मधु १६१
सेके प्रदेहे शस्यन्ते दाहघ्नाः साम्लकाञ्जिकाः
परिषेकावगाहेषु व्यजनानां च सेवने १६२
शस्यते शिशिरं तोयं दाहतृष्णाप्रशान्तये
मात्राकालप्रयुक्तेन कर्मणाऽनेन शाम्यति १६३
धीमतो विद्यवश्यस्य शीघ्रं पित्तमदात्ययः
उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम् १६४
तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम्
बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम् १६५
सनागराभिः सर्वाभिर्जलं वा शृतशीतलम्
दुःस्पर्शेन समुस्तेन मुस्तपर्पटकेन वा १६६
जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम्
एतदेव च पानीयं सर्वत्रापि मदात्यये १६७
निरत्ययं पीयमानं पिपासाज्वरनाशनम्
निरामं काङ्क्षितं काले सक्षौद्रं पाययेत्तु तम् १६८
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा
रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम् १६९
यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत्
कुलत्थानां सुशुष्काणां मूलकानां रसेन वा १७०
तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा
पटोलयूषमम्लं वा यूषमामलकस्य वा १७१
प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत्
व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम् १७२
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम्
स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् १७३
कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु
व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम् १७४
प्रभूतकटुसंयुक्तं यवानीनागरान्वितम्
भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम् १७५
यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम्
पिबेच्च निगदं मद्यं कफप्राये मदात्यये १७६
सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम्
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् १७७
एतल्लवणमष्टाङ्गमग्निसंदीपनं परम्
मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम् १७८
एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम्
गोधूमान्नयवान्नानां मांसानां चातिरोचनम् १७९
पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम्
मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा १८०
सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः
स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः १८१
मृद्वीकाया विधानेन कारयेत् कारवीमपि
शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम् १८२
आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक्
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान् १८३
गुडेन मधुशुक्तेन व्यक्ताम्लमधुरीकृतान्
तैरन्नं रोचते दिग्धं सम्यग्भुक्तं च जीर्यति १८४
रूक्षोष्णेनान्नपानेन स्नानेनाशिशिरेण च
व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च १८५
कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च
प्राणवर्णकराणां च प्रघर्षाणां च सेवया १८६
सेवया वसनानां च गुरूणामगुरोरपि
संकोचोष्णसुखाङ्गीनामङ्गनानां च सेवया १८७
सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च
मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति १८८
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति
सन्निपाते दशविधे तद्विकल्प्यं भिषग्विदा १८९
यस्तु दोषविकल्पज्ञो यश्चौषधिविकल्पवित्
स साध्यान्साधयेद्व्याधीन् साध्यासाध्यविभागवित् १९०
वनानि रमणीयानि सपद्माः सलिलाशयाः
विशदान्यन्नपानानि सहायाश्च प्रहर्षणाः १९१
माल्यानि गन्धयोगाश्च वासांसि विमलानि च
गान्धर्वशब्दाः कान्ताश्च गोष्ठथश्च हृदयप्रियाः १९२
संकथाहास्यगीतानां विशदाश्चैव योजनाः
प्रियाश्चानुगता नार्यो नाशयन्ति मदात्ययम् १९३
नाक्षोभ्य हि मनो मद्यं शरीरमविहत्य च
कुर्यान्मदात्ययं तस्मादेष्टव्या हर्षणी क्रिया १९४
आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः
न चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत् १९५
लङ्घनैः पाचनैर्दोषशोधनैः शमनैरपि
विमद्यस्य कफे क्षीणे जाते दौर्बल्यलाघवे १९६
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः १९७
पयसाऽभिहृते रोगे बले जाते निवर्तयेत्
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत् १९८
विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते
ध्वंसको विक्षयश्चैव रोगस्तस्योपजायते १९९
व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ
तयोर्लिङ्गं चिकित्सा च यथावदुपदेक्ष्यते २००
श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता
तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम् २०१
हृत्कण्ठरोगः संमोहश्छर्दिरङ्गरुजा ज्वरः
तृष्णा कासः शिरःशूलमेतद्विक्षयलक्षणम् २०२
तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये
तौ हि प्रक्षीणदेहस्य जायेते दुर्बलस्य वै २०३
बस्तयः सर्पिषः पानं प्रयोगः क्षीरसर्पिषोः
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातनुत् २०४
ध्वंसको विक्षयश्चैव कर्मणाऽनेन शाम्यति
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते २०५
निवृत्तः सर्वमद्येभ्यो नरो यश्च जितेन्द्रियः
शारीरमानसैर्धीमान् विकारैर्न स युज्यते २०६
तत्र श्लोकाः--
यत्प्रभावा भगवती सुरा पेया यथा च सा
यद्द्रव्या यम्य या चेष्टा योगं चापेक्षते यथा २०७
यथा मदयते यैश्च गुणैर्युक्ता महागुणा
यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः २०८
ये च मद्यकृता दोषा गुणा ये च मदात्मकाः
यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम् २०९
ये सहायाः सुखाः पाने चिरक्षिप्रमदा नराः
मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत् २१०
मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः
सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते २११
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने मदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः २४

पञ्चविंशोऽध्यायः
अथातो द्विव्रणीयचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
परावरझमात्रेयं गतमानमदव्यथम्
अग्निवेशो गुरुं काले विनयादिवमब्रवीत् ३
भगवन् पूर्वमुद्दिष्टौ द्वौ व्रणौ रोगसंग्रहे
तयोर्लिङ्गं चिकित्सां च वक्तुमर्हसि शर्मद ४
इत्यग्निवेशस्य वचो निशम्य गुरुरब्रवीत्
यौ व्रणौ पूर्वमुहिष्टौ निजश्चागन्तुरेव च ५
श्रूयतां विधिवत् सौम्य तयोर्लिङ्गं च भेषजम्
निजः शरीरदोषोत्थ आगन्तुर्बाह्यहेजतुजः ६
बधबन्धप्रपतनाद्दंष्ट्रादन्तनखक्षतात्
आगन्तवो व्रणास्तद्वद्विषस्पर्शाग्निशस्त्रजाः ७
मन्त्रागदप्रलेपाद्यैर्भेषजैर्हेतुभिश्च ते
लिङ्गैकदेशैर्निर्दिष्टा विपरीता निजैर्व्रणैः ८
व्रणानां निजहेतूनामागन्तूनामशाम्यताम्
कुर्याद्दोषबलापेक्षी निजानामौषधं यथा ९
यथास्वैर्हेतुभिर्दुष्टा वातपित्तकफा नृणाम्
बहिर्मार्गं समाश्रित्य जनयन्ति निजान् व्रणान् १०
स्तब्धः कठिनसंस्पर्शो मन्दस्रावोऽतितीव्ररुक्
तुद्यते स्फुरति श्यावो व्रणो मारुतसंभवः ११
संपूरणैः स्नेहपानैः स्निग्धैः स्वेदोपनाहनैः
प्रदेहैः परिषेकैश्च वातव्रणमुपाचरेत् १२
तृष्णामोहज्वरस्वेददाहदुष्ट्यवदारणैः
व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः १३
शीतलैर्मधुरैस्निग्धैः प्रदेहपरिषेचनैः
सर्पिष्पानैर्विरेकैश्च पैत्तिकं शमयेद्व्रणम् १४
बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः
पाण्डुवर्णोऽल्पसंक्लेदश्चिरकारी कफव्रणः १५
कषायकटुरूक्षोष्णैः प्रदेहपरिषेचनैः
कफव्रणं प्रशमयेत्तथा लङ्घनपाचनैः १६
तौ द्वौ नानात्वभेदेन निरुक्ता विंशतिर्व्रणाः
तेषां परीक्षा त्रिविधा प्रदुष्टा द्वादश स्मृताः १७
स्थानान्यष्टौ तथा गन्धाः परिस्रावाश्चतुर्दश
षोडशोपद्रवा दोषाश्चत्वारो विंशतिस्तथा १८
तथा चोपक्रमाः सिद्धाः षट्त्रिंशत् समुदाहृताः
विभज्यमानाञ्छृणु मे सर्वानेतान् यथेरितान् १९
कृत्योत्कृत्यस्तथा दुष्टोऽदुष्टो मर्मस्थितो न च
संवृतो दारुणः स्रावी सविषो विषमस्थितः २०
उत्सङ्ग्युत्सन्न एतांश्च व्रणान् विद्याद्विपर्ययात्
इति नानात्वभेदेन निरुक्ता विंशतिर्व्रणाः २१
दर्शनप्रश्नसंस्पर्शैः परीक्षा त्रिविधा स्मृता
वयोवर्णशरीराणामिन्द्रियाणां च दर्शनात् २२
हेत्वर्तिसात्म्याग्निबलं परीक्ष्यं वचनाद्बुधैः
स्पर्शान्मार्दवशैत्ये च परीक्ष्ये सविपर्यये २३
श्वेतोऽवसन्नवत्माऽतिस्थूलवत्माऽतिपिञ्जरः
नीलः श्यावोऽतिपिडकोरक्तः कृष्णोऽतिपूतिकः २४
रोप्यः कुम्भीमुखश्चेति प्रदुष्टा द्वादश व्रणाः
त्वक्सिरामांसमेदोऽस्थिस्नायुमर्मान्तराश्रयाः २५
व्रणस्थानानि निर्दिष्टान्यष्टावेतानि संग्रहे
सर्पिस्तैलवसापूयरक्तशावाम्लपूतिकाः २६
व्रणानां व्रणगन्धज्ञैरष्टौ गन्धाः प्रकीर्तिताः
लसीकाजलपूयासृग्घारिद्रारुणपिञ्जराः २७
कषायनीलहरितस्निग्धरूक्षसितासिताः
इति रूपैः समुद्दिष्टा व्रणस्रावाश्चतुर्दश २८
वासर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः
मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः २९
कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः
षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः ३०
चतुर्विंशतिरुद्दिष्टा दोषाः कल्पान्तरेण वै
स्नायुक्लेदात्सिराक्लेदाद्गाम्भीर्यात्कृमिभक्षणात् ३१
अस्थिभेदात् सशल्यत्वात् सविषत्वाच्च सर्पणात्
नखकाष्ठप्रभेदाच्च चर्मलोमातिघट्टनात् ३२
मिथ्याबन्धादतिस्नेहादतिभैषज्यकर्षणात्
अजीर्णादतिभुक्ताच्च विरुद्धासात्म्यभोजनात् ३३
शोकात् क्रोधाद्दिवास्वप्नाद्व्यायामान्मैथुनात्तथा
व्रणा न प्रशमं यान्ति निष्क्रियत्वाच्च देहिनाम् ३४
परिस्रावाच्च गन्धाच्च दोषाच्चोपद्रवैः सह
व्रणानां बहुदोषाणां कृच्छ्रत्वं चोपजायते ३५
त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः
धीमतोऽभिनवः काले सुखसाध्यः स्मृतो व्रणः ३६
गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः
सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः ३७
व्रणानामादितः कार्यं यथासन्नं विशोधनम्
ऊर्ध्वभागैरधोभागैः शस्त्रैर्बस्तिभिरेव च ३८
सद्यः शुद्धशरीराणां प्रशमं यान्ति हि व्रणाः
यथाक्रममतश्चोर्ध्वं शृणु सर्वानुपक्रमान् ३९
शोफघ्नं षड्विधं चैव शस्त्रकर्मावपीडनम्
निर्वापणं ससन्धानं स्वेदः शमनमेषणम् ४०
शोधनरोपणीयौ च कषायौ सप्रलेपनौ
द्वे तैले तद्गुणे पत्रच्छादने द्वे च बन्धने ४१
भोज्यमुत्सादनं दाहो द्विविधः सावसादनः
काठिन्यमार्दवकरे धूपनालेपने शुभे ४२
व्रणावचूर्णनं वर्ण्यं रोपणं लोमरोहणम्
इति षट्त्रिंशदुद्दिष्टा व्रणानां समुपक्रमाः ४३
पूर्वरूपं भिषग्बुद्ध्वा व्रणानां शोफमादितः
रक्तावसेचनं कुर्यादजातव्रणशान्तये ४४
शोधयेद्बहुदोषांस्तु स्वल्पदोषान् विलङ्घयेत्
पूर्वं कषायसर्पिर्भिर्जयेद्वा मारुतोत्तरान् ४५
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः
ससर्पिष्कैः प्रलेपः स्याच्छोफनिर्वापणः परम् ४६
विजया मधुकं वीरा बिसग्रन्थिः शतावरी
नीलोत्पलं नागपुष्पं प्रदेहः स्यात् सचन्दनः ४७
सक्तवो मधुकं सर्पिः प्रदेहः स्यात् सशर्करः
अविदाहीनि चान्नानि शोफे भेषजमुत्तमम् ४८
स चेदेवमुपक्रान्तः शोफो न प्रशमं व्रजेत्
तस्योपनाहैः पक्वस्य पाटनं हितमुच्यते ४९
तैलेन सर्पिषा वाऽपि ताभ्यां वा सक्तुपिण्डिका
सुखोष्णा शोफपाकार्थमुपनाहः प्रशस्यते ५०
सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका
सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने ५१
रुग्दाहरागतोदैश्च विदग्धं शोफमादिशेत्
जलबस्तिसमस्पर्शं संपक्वं पीडितोन्नतम् ५२
उमाऽथो गुग्गुलुः सौधं पयो दक्षकपोतयोः
विट् पलाशभवः क्षारो हेमक्षीरी मकूलकः ५३
इत्युक्तो भेषजगणः पक्वशोथप्रभेदनः
सुकुमारस्य कृच्छ्रस्य शस्त्रं तु परमुच्यते ५४
पाटनं व्यधनं चैव छेदनं लेखनं तथा
प्रच्छनं सीवनं चैव षड्विधं शस्त्रकर्म तत् ५५
नाडीव्रणाः पक्वशोथास्तथा क्षतगुदोदरम्
अन्तःशल्याश्च ये शोफाः पाट्यास्ते तद्विधाश्च ये ५६
दकोदराणि संपक्वा गुल्मा ये ये च रक्तजाः
व्यध्याः शोणितरोगाश्च वीसर्पपिडकादयः ५७
उद्वृत्तान् स्थूलपर्यन्तानुत्सन्नान् कठिनान् व्रणान्
अर्शःप्रभृत्यधीमांसं छेदनेनोपपादयेत् ५८
किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान्
वातासृग्ग्रन्थिपिडकाः सकोठा रक्तमण्डलम् ५९
कुष्ठान्यभिहतं चाङ्गं शोथांश्च प्रच्छयेद्भिषक्
सीव्यं कुक्ष्युदराद्यं तु गम्भीरं यद्विपाटितम् ६०
इति षड्विधमुद्दिष्टं शस्त्रकर्म मनीषिभिः
सूक्ष्माननाः कोषवन्तो ये व्रणास्तान्प्रपीडयेत् ६१
कलायाश्च मसूराश्च गोधूमाः सहरेणवः
कल्कीकृताः प्रशस्यन्ते निःस्नेहा व्रणपीडने ६२
शाल्मलीत्वग्बलामूलं तथा न्यग्रोधपल्लवाः
न्यग्रोधादिकमुद्दिष्टं बलादिकमथापि वा ६३
आलेपनं निर्वपणं तद्विद्यात्तैश्च सेचनम्
सर्पिषा शतधौतेन पयसा मधुकाम्बुना ६४
निर्वापयेत् सुशीतेन रर्क्तपित्तोत्तरान् व्रणान्
लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा ६५
संदधीत समं वैद्यो बन्धनैश्चोपपादयेत्
तान्समान्सुस्थिताञ्ज्ञात्वा फलिनीलोध्रकट्फलैः ६६
समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत्
पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतैः ६७
धातकीलोध्रचूर्णैर्वा तथा रोहन्ति ते प्रणाः
अस्थिभग्नं च्युतं सन्धिं संदधीत समं पुनः ६८
समेन सममङ्गेन कृत्वाऽन्येन विचक्षणः
स्थिरैः कवलिकाबन्धैः कुशिकाभिश्च संस्थितम् ६९
पट्टैः प्रभूतसर्पिष्कैर्बध्नीयादचलं सुखम्
अविदाहिभिरन्नैश्च पैष्टिकैस्तमुपाचरेत् ७०
ग्लानिर्हि न हिता तस्य सन्धिविश्लेषकारिका
विच्युताभिहताङ्गानां विसर्पादीनुपद्रवान् ७१
उपाचरेद्यथाकालं कालज्ञः स्वाच्चिकित्सितात्
शुष्का महारुजाः स्तब्धा ये व्रणा मारुतोत्तराः
स्वेद्याः सङ्करकल्पेन ते स्युः कृशरपायसैः ७२
ग्राम्यबैलाम्बुजानूपैर्वैशवारैश्च संस्कृतैः
उत्कारिकाभिश्चोष्णाभिः सुखी स्याद्द्रणितस्तथा ७३
सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः
तेषामुमां तिलाश्चैव भृष्टान् पयसि निर्वृतान् ७४
तेनैव पयसा पिष्ट्वा कुर्यादालेपनं भिषक्
बला गुडूची मधुकं पृश्निपर्णी शतावरी ७५
जीवन्ती शर्करा क्षीरं तैलं मत्स्यवसा घृतम्
संसिद्धा समधूच्छिष्टा शूलघ्नी स्नेहशर्करा ७६
द्विपञ्चमूलक्वथितेनाम्भसा पयसाऽथवा
सर्पिषा वा सतैलेन कोष्णेन परिषेचयेत् ७७
यवचूर्णं समधुकं सतिलं सह सर्पिषा
दद्यादालेपनं कोष्णं दाहशूलोपशान्तये ७८
उपनाहश्च कर्तव्यः सतिलो मुद्गपायसः
रुग्दाहयोः प्रशमनो व्रणेष्वेष विधिर्हितः ७९
सूक्ष्मानना बहुस्रावाः कोषवन्तश्च ये व्रणाः
न च मर्माश्रितास्तेषामेषणं हितमुच्यते ८०
द्विविधामेषणीं विद्यान्मृद्वीं च कठिनामपि
औद्भिदैर्मृदुभिर्नालैर्लोहानां वा शलाकया ८१
गम्भीरे मांसले देशे पाट्यं लौहशलाकया
एष्यं विद्याद्द्रणं नालैर्विपरीतमतो भिषक् ८२
पूतिगन्धान् विवर्णांश्च बहुस्रावान्महारुजः
व्रणानुशुद्धान् विज्ञाय शोधनैः समुपाचरेत् ८३
त्रिफला खदिरो दार्वी न्यग्रोधादिर्बला कुशः
निम्बकोलकपत्राणि कषायाः शोधना मताः ८४
तिलकल्कः सलवणो द्वे हरिद्रे त्रिवृद्घृतम्
मधुकं निम्बपत्राणि प्रलेपो व्रणशोधनः ८५
नातिरक्तो नातिपाण्डुर्नातिश्यावो न चातिरुक्
न चोत्सन्नो च चोत्सङ्गी शुद्धो रोप्यः परं व्रणः ८६
न्यग्रोधोम्बुराश्वत्थकदम्बप्लक्षवेतसाः
करवीरार्ककुटजाः कषाया व्रणरोपणाः ८७
चन्दनं पद्मकिञ्जल्कं दार्वीत्वङ्नीलमुत्पलम्
मेदे मूर्वा समङ्गा च यष्ट्याह्वं व्रणरोपणम् ८८
प्रपौण्डरीकं जीवन्ती गोजिह्वा धातकी बला
रोपणं सतिलं दद्यात् प्रलेपं सघृतं व्रणे ८९
कम्पिल्लकं विडङ्गानि वत्सकं त्रिफलां बलाम्
पटोलं पिचुमर्दं च लोध्रं मुस्तं प्रियङ्गुकाम् ९०
खदिरं धातकीं सर्जमेलामगुरुचन्दने
पिष्ट्वा साध्यं भवेत्तैलं तत् परं व्रणरोपणम् ९१
प्रपौण्डरीकं मधुकं काकोल्यौ द्वे च चन्दने
सिद्धमेतैः समैस्तैलं परं स्याद्द्रणरोपणम् ९२
दूर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन वा
दार्वीत्वचश्च कल्केन प्रधानं व्रणरोपणम् ९३
येनैव विधिना तैलं घृतं तेनैव साधयेत्
रक्तपित्तोत्तरं दृष्ट्वा रोपणीयं व्रणं भिषक् ९४
कदम्बार्जुननिम्बानां पाटल्याःपिप्पलस्य च
व्रणप्रच्छादने विद्वान् पत्राण्यर्कस्य चादिशेत् ९५
वार्क्षोऽथवाऽऽजिनः क्षौमः पट्टो व्रणहितः स्मृतः
बन्धश्च द्विविधः शस्तो व्रणानां सव्यदक्षिणः ९६
लवणाम्लकटूष्णानि विदाहीनि गुरूणि च
वर्जयेदन्नपानानि व्रणी मैथुनमेव च ९७
नातिशीतगुरुस्निग्धमविदाहि यथाव्रणम्
अन्नपानं व्रणहितं हितं चास्वपनं दिवा ९८
स्तन्यानि जीवनियानि बृंहणीयानि यानि च
उत्सादनार्थं निम्नानां व्रणानां तानि कल्पयेत् ९९
भूर्जग्रन्थ्यश्मकासीसमधोभागानि गुग्गुलुः
व्रणावसादनं तद्वत् कलविङ्ककपोतविट् १००
रुधिरेऽतिप्रवृत्ते तु च्छिन्ने च्छेद्येऽधिमांसके
कफग्रन्थिषु गण्डेषु वातस्तम्भानिलार्तिषु १०१
गूढपूयलसीकेषु गम्भीरेषु स्थिरेषु च
कॢप्तेषु चाङ्गदेशेषु कर्माग्नेः संप्रशस्यते १०२
मधूच्छिष्टेन तैलेन मज्जक्षौद्रवसाघृतैः
तप्तैर्वा विविधैर्लोहैर्दहेद्दाहविशेषवित् १०३
रूक्षाणां सुकुमाराणां गम्भीरान्मारुत्तोत्तरान्
दहेत् स्नेहमधूच्छिष्टैर्लोहैः क्षौद्रैस्ततोऽन्यथा १०४
बालदुर्बलवृद्धानां गर्भिण्यः रक्तपित्तिनाम्
तृष्णाज्वरपरीतानामबलानां विषादिनाम् १०५
नाग्निकर्मौपदेष्टव्यं स्नायुमर्मव्रणेषु च
सविषेषु च शल्येषु नेत्रकुष्ठव्रणेषु च १०६
रोगवोषबलापेक्षी मात्राकालाग्निकोविदः
शस्त्रकर्माग्निकृत्येषु क्षारमप्यवचारयेत् १०७
कठिनत्वं व्रणा यान्ति गन्धैः सारैश्च धूपिताः
सर्पिर्मज्जवसाधूपैः शैथिल्यं यान्ति हि व्रणाः १०८
रुजः स्रावाश्च गन्धाश्च कृमयश्च व्रणाश्रिताः
काठिन्यं मार्दवं चापि धूपनेनोपशाम्यति १०९
लोध्रन्यग्रोधशुङ्गानि खदिरस्त्रिफला घृतम्
प्रलेपो व्रणशैथिल्यसौकुमार्यप्रसाधनः ११०
सरुजः कठिनाः स्तब्धा निरास्रावाश्च ये व्रणाः
यवचूर्णैः ससर्पिष्कैर्बहुशस्तान् प्रलेपयेत् १११
मुद्गषष्टिकशालीनां पायसैर्वा यथाक्रमम्
सघृतैर्जीवनीयैर्वा तर्पयेत्तानभीक्ष्णशः ११२
ककुभोदुम्बराश्वत्थलोध्रजाम्बवकट्फलैः
त्वचमाश्वेव गृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः ११३
मनःशिलाले मञ्जिष्ठा लाक्षा च रजनीद्वयम्
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः ११४
अयोरजः सकासीसं त्रिफला कुसुमानि च
करोति लेपः कृष्णत्वं सद्य एव नवत्वचि ११५
कालीयकनताम्रास्थिहेमकालायसोत्तमाः
लेपः सगोमयरसः सवर्णीकरणः परः ११६
ध्यामकाश्वत्थनिचुलमूलं लाक्षा सगैरिका
सहेमश्चामृतासङ्गः कासीसं चेति वर्णकृत् ११७
चतुष्पदानां त्वग्लोमखुरशृङ्गास्थिभस्मना
तैलाक्ता चूर्णिता भूमिर्भवेल्लोमवती पुनः ११८
षोडशोपद्रवा ये च व्रणानां परिकीर्तिताः
तेषां चिकित्सा निर्दिष्टा यथास्वं स्वे चिकित्सिते ११९
तत्र श्लोकौ--
द्वौ व्रणौ व्रणभेदाश्च परीक्षा दुष्टिरेव च
स्थानानि गन्धाः स्रावाश्च सोपसर्गाः क्रियाश्च याः १२०
व्रणाधिकारे सप्रश्नमेतन्नवकमुक्तवान्
मुनिर्व्याससमासाभ्यामग्निवेशाय धीमते १२१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते दृढबलसंपूरिते चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम पञ्चविंशोऽध्यायः २५

षड्विंशोऽध्यायः
अथातस्त्रिमर्मीयचिकित्सितमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सप्तोत्तरं मर्मशतं यदुक्तं शरीरसंख्यामधिकृत्य तेभ्यः
मर्माणि बस्तिं हृदयं शिरश्च प्रधानभूतानि वदन्ति तज्ज्ञाः ३
प्राणाश्रयात् तानि हि पीडयन्तो वातादयोऽसूनपि पीडयन्ति
तत्संश्रितानामनुपालनार्थं महागदानां शृणु सौम्य रक्षाम् ४
कषायतिक्तोषणरूक्षभोज्यैः संधारणाभोजनमैथुनैश्च
पक्वाशये कुप्यति चेदपानः स्रोतांस्यधोगानि बली स रुद्ध्वा ५
करोति विण्मारुतमूत्रसङ्गं क्रमादुदावर्तमतः सुघोरम्
रुग्बस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णं सपृष्ठपार्श्वेष्वतिदारुणा स्यात् ६
आध्मानहृल्लासविकर्तिकाश्च तोदोऽविपाकश्च सबस्तिशोथः
वर्चोऽप्रवृत्तिर्जठरे च गण्डान्यूर्ध्वश्च वायुर्विहते गुदे स्यात् ७
कृच्छ्रेण शुष्कस्य चिरात् प्रवृत्तिः स्याद्वा तनुः स्यात् खररूक्षशीता
ततश्च रोगा ज्वरमूत्रकृच्छ्रप्रवाहिकाहृद्ग्रहणीप्रदोषाः ८
वम्यान्ध्यबाधिर्यशिरोऽभितापवातोदराष्ठीलमनोविकाराः
तृष्णास्रपित्तारुचिगुल्मकासश्वासप्रतिश्यार्दितपार्श्वरोगाः ९
अन्ये च रोगा बहवोऽनिलोत्था भवन्त्युदावर्तकृताः सुघोराः
चिकित्सितं चास्य यथावदूर्ध्वं प्रवक्ष्यते तच्छृणु चाग्निवेश १०
तं तैलशीतज्वरनाशनाक्तं स्वेदैर्यथोक्तैः प्रविलीनदोषम्
उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नैः ११
श्यामात्रिवृन्मागधिकां सदन्तीं गोमूत्रपिष्टां दशभागमाषाम्
सनीलिकां द्विर्लवणां गुडेन वर्तिं कराङ्गुष्ठनिभां विदध्यात् १२
पिण्याकसौवर्चलहिङ्गुभिर्वा ससर्षपत्र्यूषणयावशूकैः
क्रिमिघ्नकम्पिल्लकशङ्खिनीभिः सुधार्कजक्षीरगुडैर्युताभिः १३
स्यात् पिप्पलीसर्षपराठवेश्मधूमैः सगोमूत्रगुडैश्च वर्तिः
श्यामाफलालाबुकपिप्पलीनां नाड्याऽथवा तत् प्रधमेत्तु चूर्णम् १४
रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णं सजीमूतकसैन्धवं वा
स्निग्धे गुदे तान्यनुलोमयन्ति नरस्य वर्चोऽनिलमूत्रसङ्गम् १५
तेषाम् विघाते तु भिषग्विदध्यात् स्वभ्यक्तसुस्विन्नतनोर्निरूहम्
ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतं सुतीक्ष्णम् १६
वातेऽधिकेऽम्लं लवणं सतैलं क्षीरेण पित्ते तु कफे समूत्रम्
स मूत्रवर्चोऽनिलसङ्गमस्यन् गुदं सिराश्च प्रगुणीकरोति १७
त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम्
अन्यैश्च सृष्टानिलमूत्रविड्भिरद्यात् प्रसन्नागुडसीधुपायी १८
भूयोऽनुबन्धे तु भवेद्विरेच्यो मूत्रप्रसन्नादधिमण्डशुक्तैः
स्वस्थं तु पश्चादनुवासयेत्तं रौक्ष्याद्धि सङ्गोऽनिलवर्चसोश्चेत् १९
द्विरुत्तरं हिङ्गु वचाग्निकुष्ठं सुवर्चिका चैव विडङ्गचूर्णम्
सुखाम्बुनाऽऽनाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् २०
वचाभयाचित्रकयावशूकान् सप्पिपलीकातिविषान् सकुष्ठान्
उष्णाम्बुनाऽऽनाहविमूढवातान् पीत्वा जयेदाशु रसौदनाशी २१
हिङ्गूग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम्
यथोत्तरं भागविवृद्धमेतत् प्लीहोदराजीर्णविसूचिकाघ्नम् २२
स्थिरादिवर्गस्य पुनर्नवायाः शम्पाकपूतीककरञ्जयोश्च
सिद्धः कषाये द्विपलांशिकानां प्रस्थो घृतात् स्यात् प्रतिरुद्धवाते २३
फलं च मूलं च विरेचनोक्तं हिङ्ग्वर्कमूलं दशमूलमग्र्यम्
स्नुक् चित्रकश्चैव पुनर्नवा च तुल्यानि सर्वैर्लवणानि पञ्च २४
स्नेहैः समूत्रैः सह जर्जराणि शरावसन्धौ विपचेत् सुलिप्ते
पक्वं सुपिष्टं लवणं तदन्नैः पानैस्तथाऽऽनाहरुजाघ्नमद्यात् २५
हृत्स्तम्भमूर्धोदरगौरवाभ्यामुद्गारसङ्गेन सपीनसेन
आनाहमामप्रभवं जयेत्तु प्रच्छर्दनैर्लङ्घनपाचनैश्च २६
इत्युदावर्तचिकित्सा
व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात्
आनूपमत्स्याध्यशनादजीर्णात् स्युर्मूत्रकृच्छ्राणि नृणामिहाष्टौ २७
पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा कोपमुपेत्य बस्तौ
मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् २८
तीव्रा रुजो वङ्क्षणबस्तिमेढ्रे स्वल्पं मुहुर्मुत्रयतीह वातात्
पीतं सरक्तं सरुजं सदाहं कृच्छ्रान्मुहुर्मूत्रयतीह पित्तात् २९
बस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे
सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत् कृच्छ्रतमं हि कृच्छ्रम् ३०
विशोषयेद्बस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा
यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः ३१
कदम्बपुष्पाकृतिरश्मतुल्या श्लक्ष्णा त्रिपुट्यप्यथवाऽपि मृद्वी
मूत्रस्य चेन्मार्गमुपैति रुद्ध्वा मूत्रं रुजं तस्य करोति बस्तौ ३२
ससेवनीमेहनबस्तिशूलं विशीर्णधारं च करोति मूत्रम्
मृद्नाति मेढ्रं स तु वेदनार्तो मुहुः शकृन्मुञ्चति मेहते च ३३
क्षोभात् क्षते मूत्रयतीह सासृक् तस्याः सुखं मेहति च व्यपायात्
एषाऽश्मरी मारुतभिन्नमूर्तिः स्याच्छर्करा मूत्रपथात् क्षरन्ती ३४
शुक्रं मलाश्चैव पृथक् पृथग्वा मूत्राशयस्थाः प्रतिवारयन्ति
तद्व्याहतं मेहनबस्तिशूलं मूत्रं सशुक्रं कुरुते विबद्धम् ३५
स्तब्धश्च शूनो भृशवेदनश्च तुद्येत बस्तिर्वृषणौ च तस्य
क्षताभिघातात् क्षतजं क्षयाद्वा प्रकोपितं बस्तिगतं विबद्धम् ३६
तीव्रार्ति मूत्रेण सहाश्मरीत्वमायाति तस्मिन्नतिसंचिते च
आध्माततां विन्दति गौरवं च बस्तेर्लघुत्वं च विनिःसृतेऽस्मिन् ३७
इति मूत्रकृच्छ्रनिदानम्
अभ्यञ्जनस्नेहनिरूहबस्तिस्नेहोपनाहोत्तरबस्तिसेकान्
स्थिरादिभिर्वातहरैश्च सिद्धान् दद्याद्रसांश्चानिलमूत्रकृच्छ्रे ३८
पुनर्नवैरण्डशतावरीभिः पत्तूरवृश्चीरबलाश्मभिद्भिः
द्विपञ्चमूलेन कुलत्थकोलयवैश्च तोयोत्क्वथिते कषाये ३९
तैलं वराहर्क्षवसा घृतं च तैरेव कल्कैर्लवणैश्च साध्यम्
तन्मात्रयाऽऽशु प्रतिहन्ति पीतं शूलान्वितं मारुतमूत्रकृच्छ्रम् ४०
एतानि चान्यानि वरौषधानि पिष्टानि शस्तान्यपि चोपनाहे
स्युर्लाभतस्तैलफलानि चैव स्नेहाम्लयुक्तानि सुखोष्णवन्ति ४१
सेकावगाहाः शिशिराः प्रदेहा ग्रैष्मो विधिर्बस्तिपयोविरेकाः
द्राक्षाविदारीक्षुरसैर्घृतैश्च कृच्छ्रेषु पित्तप्रभवेषु कार्याः ४२
शतावरीकाशकुशश्वदंष्ट्राविदारीशालीक्षुकशेरुकाणाम्
क्वाथं सुशीतं मधुशर्कराभ्यां युक्तं पिबेत् पैत्तिकमूत्रकृच्छ्री ४३
पिबेत् कषायं कमलोत्पलानां शृङ्गाटकानामथवा विदार्याः
दण्डैरकाणामथवाऽपि मूलैः पूर्वेण कल्पेन तथाऽम्बु शीतम् ४४
एर्वारुबीजं त्रपुषात् कुसुम्भात् सुकुङ्कुमः स्याद्वृषकश्च पेयः
द्राक्षारसेनाश्मरिशर्करासु सर्वेषु कृच्छ्रेषु प्रशस्त एषः ४५
एर्वारुबीजं मधुकं सदारु पैत्ते पिबेत्तण्डुलधावनेन
दार्वी तथैवामलकीरसेन समाक्षिकां पित्तकृते तु कृच्छ्रे ४६
क्षारोष्णतीक्ष्णौषधमन्नपानं स्वेदो यवान्नं वमनं निरूहाः
तक्रं सतिक्तौषधसिद्धतैलमभ्यङ्गपानं कफमूत्रकृच्छ्रे ४७
व्योषं श्वदंष्ट्रात्रुटिसारसास्थि कोलप्रमाणं मधुमूत्रयुक्तम्
पिबेत्त्रुटिं क्षौद्रयुतां कदल्या रसेन कैडर्यरसेन वाऽपि ४८
तक्रेण युक्तं शितिवारकस्य बीजं पिबेत् कृच्छ्रविनाशहेतोः
पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे ४९
सप्तच्छदारग्वधकेबुकैलाधवं करञ्जं कुटजं गुडूचीम्
पक्त्वा जले तेन पिबेद्यवागूं सिद्धं कषायं मधुसंयुतं वा ५०
सर्वं त्रिदोषप्रभवे तु वायोः स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्
त्रिभ्योऽधिके प्राग्वमनं कफे स्यात् पित्ते विरेकः पवने तु बस्तिः ५१
इति मूत्रकृच्छ्रचिकित्सा
क्रिया हिता साऽश्मरिशर्कराभ्यां कृच्छ्रे यथैवेह कफानिलाभ्याम्
कार्योऽश्मरीभेदनपातनाय विशेषयुक्तं शृणु कर्म सिद्धम् ५२
पाषाणभेदं वृषकं श्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः
हिंस्राखराह्वाशितिवारकाणामेर्वारुकाणां त्रपुषस्य बीजम् ५३
उत्कुञ्चिका हिङ्गु सवेतसाम्लं स्याद्द्वे बृहत्यौ हपुषा वचा च
चूर्णं पिबेदश्मरिभेदपक्वं सर्पिश्च गोमूत्रचतुर्गुणं तैः ५४
मूलं श्वदंष्ट्रेक्षुरकोरुबूकात् क्षीरेण पिष्टं बृहतीद्वयाच्च
आलोड्य दध्ना मधुरेण पेयं दिनानि सप्ताश्मरिभेदनाय ५५
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्च सदर्भपुष्पाः
क्षीराम्बुमद्येक्षुरसैः सुपिष्टं पेयं भवदेश्मरिशर्करासु ५६
त्रुटिं सुराह्वं लवणानि पञ्च यवाग्रजं कुन्दुरुकाश्मभेदौ
कम्पिल्लकं गोक्षुरकस्य बीजमेर्वारुबीजं त्रपुषस्य बीजम् ५७
चूर्णीकृतं चित्रकहिङ्गुमांसी यवानितुल्यं त्रिफलाद्विभागम्
अम्लैरशुक्तै रसमद्ययूषैः पेयं हि गुल्माश्मरिभेदनार्थम् ५८
बिल्वप्रमाणो घृततैलभृष्टो यूषः कृतः शिग्रुकमूलकल्कात्
शीतोऽश्मभित् स्याद्दधिमण्डयुक्तः पेयः प्रकामं लवणेन युक्तः ५९
जलेन शोभाञ्जनमूलकल्कः शीतो हितश्चाश्मरिशर्करासु
सितोपला वा समयावशूका कृच्छ्रेषु सर्वेष्वपि भेषजं स्यात् ६०
पीत्वाऽथ मद्यं निगदं रथेन हयेन वा शीघ्रजवेन यायात्
तैः शर्करा प्रच्यवतेऽश्मरी तु शाम्येन्न चेच्छल्यविदुद्धरेत्ताम् ६१
रेतोभिघातप्रभवे तु कृच्छ्रे समीक्ष्य दोषं प्रतिकर्म कुर्यात्
कार्पासमूलं वृषकाश्मभेदौ बला स्थिरादीनि गवेधुका च ६२
वृश्चीर ऐन्द्री च पुनर्नवा च शतावरी मध्वसनाख्यपर्ण्यौ
तत्क्वाथसिद्धः पवने रसः स्यात् पित्तेऽधिके क्षीरमथापि सर्पिः ६३
कफे च यूषादिकमन्नपानं संसर्गजे सर्वहितः क्रमः स्यात्
एवं न चेच्छाम्यति तस्य युञ्ज्यात् सुरां पुराणां मधुकासवं वा ६४
विहङ्गमांसानि च बृंहणाय बस्तींश्च शुक्राशयशोधनार्थम्
शुद्धस्य तृप्तस्य च वृष्ययोगैः प्रियानुकूलाः प्रमदा विधेयाः ६५
रक्तोद्भवे तूत्पलनालतालकाशेक्षुबालेक्षुकशेरुकाणि
पिबेत् सिताक्षौद्रयुतानि खादेदिक्षुं विदारीं त्रपुषाणि चैव ६६
घृतं श्वदंष्ट्रास्वरसेन सिद्धं क्षीरेण चैवाष्टगुणेन पेयम्
स्थिरादिकानां कतकादिकानामेकैकशो वा विधिनैव तेन ६७
क्षीरेण बस्तिर्मधुरौषधैः स्यात्तैलेन वा स्वादुफलोत्थितेन
यन्मूत्रकृच्छ्रे विहितं तु पैत्ते कार्यं तु तच्छोणितमूत्रकृच्छ्रे ६८
व्यायामसंधारणशुष्करूक्षपिष्टान्नवातार्ककरव्यवायान्
खर्जूरशालूककपित्थजम्बूबिसं कषायं न रसं भजेत ६९
इत्यश्मरीचिकित्सा
व्यायामतीक्ष्णातिविरेकबस्तिचिन्ताभयत्रासगदातिचाराः
छर्द्यामसंधारणकर्शनानि हृद्रोगकर्तॄणि तथाऽभिघातः ७०
वैवर्ण्यमूर्च्छाज्वरकासहिक्काश्वासास्यवैरस्यतृषाप्रमोहाः
छर्दिः कफोत्क्लेशरुजोऽरुचिश्च हृद्रोगजाः स्युर्विविधास्तथाऽन्ये ७१
हृच्छून्यभावद्रवशोषभेदस्तम्भाः समोहाः पवनाद्विशेषः
पित्तात्तमोदूयनदाहमोहाः संत्रासतापज्वरपीतभावाः ७२
स्तब्धं गुरु स्यात् स्तिमितं च मर्म कफात् प्रसेकज्वरकासतन्द्राः
विद्यात्त्रिदोषं त्वपि सर्वलिङ्गं तीव्रातितोदं कृमिजं सकण्डूम् ७३
तैलं ससौवीरकमस्तुतक्रं वाते प्रपेयं लवणं सुखोष्णम्
मूत्राम्बुसिद्धं लवणैश्च तैलमानाहगुल्मार्तिहृदामयघ्नम् ७४
पुनर्नवां दारु सपञ्चमूलं रास्नां यवान् बिल्वकुलत्थकोलम्
पक्त्वा जले तेन विपाच्य तैलमभ्यङ्गपानेऽनिलहृद्गदघ्नम् ७५
हरीतकीनागरपुष्कराह्वैर्वयःकयस्थालवणैश्च कल्कैः
सहिङ्गुभिः साधितमग्र्यसर्पिर्गुल्मे सहृत्पार्श्वगदेऽनिलोत्थे ७६
सपुष्कराह्वं फलपूरमूलं महौषधं शट्यभया च कल्काः
क्षाराम्बुसर्पिर्लवणैर्विमिश्राः स्युर्वातहृद्रोगविकर्तिकाघ्नाः ७७
क्वाथः कृतः पौष्करमातुलुङ्गपलाशभूतीकशटीसुराह्वैः
सनागराजाजिवचायवानीक्षारः सुखोष्णो लवणश्च पेयः ७८
पथ्याशटीपौष्करपञ्चकोलात् समातलुङ्गाद्यमकेन कल्कः
गुडप्रसन्नालवणैश्च भृष्टो हृत्पार्श्वपृष्ठोदरयोनिशूले ७९
स्यात्त्र्यूषणं द्वे त्रिफले सपाठे निदिग्धिकागोक्षुरकौ बले द्वे
ऋद्धिस्त्रुटिस्तामलकी स्वगुप्ता मेदे मधूकं मधुकं स्थिरा च ८०
शतावरी जीवकपृश्निपर्ण्यौ द्रव्यैरिमैरक्षसमैः सुपिष्टैः
प्रस्थं घृतस्येह पचेद्विधिज्ञः प्रस्थेन दध्ना त्वथ माहिषेण ८१
मात्रां पलं चार्धपलं पिचुं वा प्रयोजयेन्माक्षिकसंप्रयुक्ताम्
श्वासे सकासे त्वथ पाण्डुरोगे हलीमके हृद्ग्रहणीप्रदोषे ८२
शीताः प्रदेहाः परिषेचनानि तथा विरेको हृदि पित्तदुष्टे
द्राक्षासिताक्षौद्रपरूषकैः स्याच्छुद्धे तु पित्तापहमन्नपानम् ८३
यष्ट्याह्विकातिक्तकरोहिणीभ्यां कल्कं पिबेच्चापि सिताजलेन
क्षते च सर्पीषि हितानि सर्पिर्गुडाश्च ये तान् प्रसमीक्ष्य सम्यक् ८४
दद्याद्भिषग्धन्वरसांश्च गव्यक्षीराशिनां पित्तहृदामयेषु
तैरेव सर्वे प्रशमं प्रयान्ति पित्तामयाः शोणितसंश्रया ये ८५
द्राक्षाबलाश्रेयसिशर्कराभिः खर्जूरवीरर्षभकोत्पलैश्च
काकोलिमेदायुगजीवकैश्च क्षीरेण सिद्धं महिषीघृतं स्यात् ८६
कशेरुकाशैवलशृङ्गवेरप्रपौण्डरीकं मधुकं बिसस्य
ग्रन्थिश्च सर्पिः पयसा पचेत्तैः क्षौद्रान्वितं पित्तहृदामयघ्नम् ८७
स्थिरादिकल्कैः पयसा च सिद्धं द्राक्षारसेनेक्षुरसेन वाऽपि
सर्पिर्हितं स्वादुफलेक्षुजाश्च रसाः सुशीता हृदि पित्तदुष्टे ८८
स्विन्नस्य वान्तस्य विलङ्घितस्य क्रिया कफघ्नी कफमर्मरोगे
कौलत्थयूषैश्च रसैर्यवान्नं पानानि तीक्ष्णानि च शङ्कराणि ८९
मूत्रे शृताः कट्फलशृङ्गवेरपीतद्रुपथ्यातिविषाः प्रदेयाः
कृष्णाशटीपुष्करमूलरास्नावचाभयानागरचूर्णकं च ९०
उदुम्बराश्वत्थवटार्जुनाख्ये पालाशरौहीतकखादिरे च
क्वाथे त्रिवृत्त्र्यूषणचूर्णसिद्धो लेहः कफघ्रोऽशिशिराम्बुयुक्तः ९१
शिलाह्वयं वा भिषगप्रमत्तः प्रयोजयेत् कल्पविधानदिष्टम्
प्राशं तथाऽऽगस्त्यमथापि लेहं रसायनं ब्राह्ममथामलक्याः ९२
त्रिदोषजे लङ्घनमादितः स्यादन्नं च सर्वेषु हितं विधेयम्
हीनातिमध्यत्वमवेक्ष्य चैव कार्यं त्रयाणामपि कर्म शस्तम् ९३
भुक्तेऽधिकं जीर्यति शूलमल्पं जीर्णे स्थितं चेत् सुरदारुकुष्ठम्
सतिल्वकं द्वे लवणे विडङ्गमुष्णाम्बुना सातिविषं पिबेत् सः ७४
जीर्णेऽधिके स्नेहविरेचनं स्यात् फलैर्विरेच्यो यदि जीर्यति स्यात्
त्रिष्वेव कालेष्वधिके तु शूले तीक्ष्णं हितं मूलविरेचनं स्यात् ७५
प्रायोऽनिलो रुद्धगतिः प्रकुप्यत्यामाशये शोधनमेव तस्मात्
कार्यं तथा लङ्घनपाचनं च सर्वं कृमिघ्नं कृमिहृद्गदे च ९६
इति हृद्रोगचिकित्सा
संधारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः
प्रजागरातिस्वपनाम्बुशीर्तैरवश्यया मैथुनबाष्यधूमैः ९७
संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु
घ्राणार्तितोदौ क्षवथुर्जलाभः स्रावोऽनिलात् सस्वरमूर्धरोगः ९८
नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानि पित्तात्
कासारुचिस्रावघनप्रसेकाः कफाद्गुरुः स्रोतसि चापि कण्डूः ९९
सर्वाणि रूपाणि तु सन्निपातात् स्युः पीनसे तीव्ररुजेऽतिदुःखे
सर्वोऽतिवृद्धोऽहितभोजनात्तु दुष्टप्रतिश्याय उपेक्षितः स्यात् १००
ततस्तु रोगाः क्षवथुश्च नासाशोषः प्रतीनाहपरिस्रवौ च
घ्राणस्य पूतित्वमपीनसश्च सपाकशोथार्बुदपूयरक्ताः १०१
अरूंषि शीर्षश्रवणाक्षिरोगखालित्यहर्यर्जुनलोमभावाः
तृट्श्चासकासज्वररक्तपित्तवैस्वर्यशोषाश्च ततो भवन्ति १०२
रोधाभिघातस्रवशोषपाकैर्घ्राणं युतं यश्च न वेत्ति गन्धम्
दुर्गन्धितास्यं बहुशः प्रकोपि दुष्टप्रतिश्यायमुदाहरेत्तम् १०३
संस्पृश्य मर्माण्यनिलस्तु मूर्ध्नि विष्वक्पथस्थः क्षवथुं करोति
क्रुद्धः स संशोष्य कफं तु नासाशृङ्गाटकघ्राणविशोषणं च १०४
उच्छ्वासमार्गं तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम्
यो मस्तुलुङ्गाद्घनपीतपक्वः कफः स्रवेदेष परिस्रवस्तु १०५
वैवर्ण्यदौर्गन्ध्यमुपेक्षया तु स्यात् पूतिनस्यं श्वयथुर्भ्रमश्च
आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चापि नासा १०६
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन
तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् १०७
सदाहरागः श्वयथुः सपाकः स्याद् घ्राणपाकोऽपि च रक्तपित्तात्
घ्राणाश्रितासृक्प्रभृतीन् प्रदूष्य कुर्वन्ति नासाश्वयथुं मलाश्च १०८
घ्राणे तथोच्छ्वासगतिं निरुध्य मांसास्रदोषादपि चार्बुदानि
घ्राणात् स्रवेद्वा श्रवणान्मुखाद्वा पूयाक्तमस्रं त्विति पूयरक्तम् १०९
कुर्यात् सपित्तः पवनस्त्वगादीन् संदूष्य चारूंषि सपाकवन्ति
नासा प्रदीप्तेव नरस्य यस्य दीप्तं तु तं रोगमुदाहरन्ति ११०
इति नासारोगनिदानम्
भृशार्तिशूलं स्फुरतीह वातात् पित्तात् सदाहार्ति कफाद्गुरु स्यात्
सर्वैस्त्रिदोषं क्रिमिभिस्तु कण्डूर्दौर्गन्ध्यतोदार्तियुतं शिरः स्यात् १११
इति शिरोरोगनिदानम्
मुखामये मारुतजे तु शोषकार्कश्यरौक्ष्याणि चला रुजश्च
कृष्णारुणं निष्पतनं सशीतं प्रस्रंसनस्पन्दनतोदभेदाः ११२
तृष्णाज्वरस्फोटकदाहपाकाः धूमायनं चाप्यवदीर्णता च
पित्तात् समूर्च्छा विविधा रुजश्च वर्णाश्च शुक्लारुणवर्णवर्ज्याः ११३
कण्डूर्गुरुत्वं सितविज्जलत्वं स्नेहोऽरुचिर्जाड्यकफप्रसेकौ
उत्क्लेशमन्दानलता च तन्द्रा रुजश्च मन्दाः कफवक्त्ररोगे ११४
सर्वाणि रूपाणि तु वक्त्ररोगे भवन्ति यस्मिन् स तु सर्वजः स्यात्
संस्थानदूष्याकृतिनामभेदाच्चैते चतुःषष्टिविधा भवन्ति ११५
शालाक्यतन्त्रेऽभिहितानि तेषां निमित्तरूपाकृतिभेषजानि
यथाप्रदेशं तु चतुर्विधस्य क्रियां प्रवक्ष्यामि मुखामयस्य ११६
इति मुखरोगनिदानम्
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनगन्धरूपैः
अरोचकाः स्युः परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन ११७
कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्याल्लवणं च वक्त्रम्
माधुर्यपैच्छिल्यगुरुत्वशैत्यविबद्धसंबद्धयुतं कफेन ११८
अरोचके शोकभयातिलोभक्रोधाद्यहृद्याशनगन्धजे स्यात्
स्वाभाविकं वक्त्रमथारुचिश्च त्रिदोषजे नैकरसं भवेत्तु ११९
इत्यरोचकनिदानम्
नादोऽतिरुक्कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात्
शोफः सरागो दरणं विदाहः सपीतपूतिस्रवणं च पित्तात् १२०
वैश्रुत्यकण्डूस्थिरशोफशुक्लस्निग्धस्रुतिः श्लेष्मभवेऽल्परुक् च
सर्वाणि रूपाणि तु सन्निपातात् स्रावश्च तत्राधिकदोषवर्णः १२१
इति कर्णरोगनिदानम्
अल्पस्तु रागोऽनुपदेहवांश्च सतोदभेदोऽनिलजाक्षिरोगे
पित्तात् सदाहोऽतिरुजः सरागः पीतोपदेहः सुभृशोष्णवाही १२२
शुक्लोपदेहं बहुपिच्छिलाश्रु नेत्रं कफात् स्याद्गुरुता सकण्डुः
सर्वाणि रूपाणि तु सन्निपातान्नेत्रामयाः षण्णवतिस्तु भेदात् १२३
तेषामभिव्यक्तिरभिप्रदिष्टा शालाक्यतन्त्रेषु चिकित्सितं च
पराधिकारे तु न विस्तरोक्तिः शस्तेति तेनात्र न नः प्रयासः १२४
इति नेत्ररोगनिदानम्
तेजोऽनिलाद्यैः सह केशभूमिं दग्ध्वाऽऽशु कुर्यात् खलतिं नरस्य
किंचित्तु दग्ध्वा पलितानि कुर्याद्धरिप्रभत्वं च शिरोरुहाणाम् १२५
इति खालित्यरोगनिदानम्
इत्यूर्ध्वजत्रूत्थगदैकदेशस्तन्त्रे निबद्धोऽयमशून्यतार्थम्
अतः परं भेषजसंग्रहं तु निबोध संक्षेपत उच्यमानम् १२६
वातात् सकासवैर्स्वर्ये सक्षारं पीनसे घृतम्
पिबेद्रसं पयश्चष्णं स्नैहिकं धूममेव वा १२७
शताह्वा त्वग्बला मूलं श्योनाकैरण्डबिल्वजम्
सारग्वधं पिबेद्वर्तिं मधूच्छिष्टवसाघृतैः १२८
अथवा सघृतान् सक्तून् कृत्वा मल्लकसंपुटे
नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् १२९
शङ्खमूर्धललाटार्तौ पाणिस्वेदोपनाहनम्
स्वभ्यक्ते क्षवथुस्रावरोधादौ संकरादयः १३०
घ्रेयाश्च रोहिषाजाजीवचातर्कारिचोरकाः
त्वक्पत्रमरिचैलानां चूर्णा वा सोपकुञ्चिकाः १३१
स्रोतःशृङ्गाटनासाक्षिशोषे तैलं च नावनम्
प्रभाव्याजे तिलान् क्षीरे तेन पिष्टांस्तदुष्मणा १३२
मन्दस्विन्नान् सयष्ट्याह्वचूर्णांस्तेनैव पीडयेत्
दशमूलस्य निष्क्वाथे रास्नामधुककल्कवत् १३३
सिद्धं ससैन्धवं तैलं दशकृत्वोऽणु तत् स्मृतम्
स्निग्धस्यास्थापनैर्दोषं निर्हरेद्वातपीनसे १३४
स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसैर्हितम्
उष्णाम्बुना स्नानपाने निवातोष्णप्रतिश्रयः १३५
चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत्
वातजे पीनसे धीमानिच्छन्नेवात्मनो हितम् १३६
पैत्ते सर्पिः पिबेत् पिबेत्तिक्तं शृङ्गवेरशृतं पयः
पाचनार्थं ततः पक्वे कार्यं मूर्धविरेचनम् १३७
पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः
दन्त्या च साधितं तैलं नस्यं स्यात् पक्वपीनसे १३८
पूयास्रे रक्तपित्तघ्नाः कषाया नावनानि च
पाकदाहाद्यरुष्केषु शीता लेपाः ससेचनाः १३९
घ्रेयनस्योपचाराश्च कषायाः स्वादुशीतलाः
मन्दपित्ते प्रतिश्याये स्निग्धैः कुर्याद्विरेचनम् १४०
घृतं क्षीरं यवाः शालिर्गोधूमा जाङ्गला रसाः
शीताम्लास्तिक्तशाकानि यूषा मुद्गादिभिर्हिताः १४१
गौरवारोचकेष्वादौ लङ्घनं कफपीनसे
स्वेदाः सेकाश्च पाकार्थं लिप्ते शिरसे सर्पिषा १४२
लशुनं मुद्गचूर्णेन व्योषक्षारघृतैर्युतम्
देयं कफघ्नवमनमुत्क्लिष्टश्लेष्मणे हितम् १४३
अपीनसे पूतिनस्ये घ्राणस्रावे सपण्डुके
धूमः शस्तोऽवपीडश्च कटुभिः कफपीनसे १४४
मनःशिला वचा व्योषं विडङ्गं हिङ्गु गुग्गुलुः
चूर्णो घ्रेयः प्रधमनं कटुभिश्च फलैस्तथा १४५
भार्गीमदनतर्कारीसुरसादिविपाचिते
मूत्रे लाक्षा वचा लम्बा विडङ्गं कुष्ठपिप्पली १४६
कृत्वा कल्कं करञ्जं च तैलं तैः सार्षपं पचेत्
पाकान्मुक्ते घने नस्यमेतन्मेदोनिभे कफे १४७
स्निग्धस्य व्याहते वेगे च्छर्दनं कफपीनसे
वमनीयशृतक्षीरतिलमाषयवागुना १४८
वार्ताककुलकव्योषकुलत्थाढकिमुद्गजाः
यूषाः कफघ्नमन्नं च शस्तमुष्णाम्बुसेवनम् १४९
सर्वजित् पीनसे दुष्टे कार्यं शोफे च शोफजित्
क्षारोऽर्बुदाधिमांसेषु क्रिया शेषेष्ववेक्ष्य च १५०
इति पीनसनासारोगचिकित्सा
वातिके शिरसो रोगे स्नेहान् स्वेदान् सनावनान्
पानान्नमुपनाहांश्च कुर्याद्वातामयापहान् १५१
तैलभृष्टैरगुर्वाद्यैः सुखोष्णैरुपनाहनम्
जीवनीयैः सुमनसा मत्स्यैर्मांसैश्च शस्यते १५२
रास्नास्थिरादिभिः सिद्धं सक्षीरं नस्यमर्तिनुत्
तैलं रास्नाद्विकाकोलीशर्कराभिरथापि वा १५३
बलामधूकयष्ट्याह्वविदारीचन्दनोत्पलैः
जीवकर्षभकद्राक्षाशर्कराभिश्च साधितः १५४
प्रस्थस्तैलस्य सक्षीरो जाङ्गलार्धतुलारसे
नस्यं सर्वोर्ध्वजत्रूत्थवातपित्तामयापहम् १५५
दशमूलबलारास्नात्रिफलामधुकैः सह
मयूरं पक्षपित्तान्त्रशकृत्तुण्डाङ्घ्रिवर्जितम् १५६
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्
मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम् १५७
कर्णाक्षिनासिकाजिह्वाताल्वास्यगलरोगनुत्
मायूरमिति विख्यातमूर्ध्वजत्रुगदापहम् १५८
इति मायूरघृतम्
एतेनैव कषायेण घृतप्रस्थं विपाचयेत्
चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः १५९
जीवन्तीत्रिफलामेदामृद्वीकर्धिपरूषकैः
समङ्गाचविकाभार्गीकाश्मरीसुरदारुभिः १६०
आत्मगुप्तामहामेदातालखर्जूरमस्तकैः
मृणालबिसशालूकशृङ्गीजीवकपद्मकैः १६१
शतावरीविदारीक्षुबृहतीसारिवायुगैः
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककसेरुकैः १६२
रास्नास्थिरातामलकीसूक्ष्मैलाशटिपौष्करैः
पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः १६३
खर्जूराक्षोटवाताममुञ्जाताभिषुकैरपि
द्रव्यैरेभिर्यथार्लभं पूर्वकल्पेन साधितम् १६४
नस्ये पाने तथाऽभ्यङ्गे बस्तौ चैव प्रयोजयेत्
शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे १३५
मन्यापृष्ठग्रहे शोषे स्वरभेदे तथाऽर्दिते
योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम् १६६
ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते
महामायूरमित्येतद्घृतमात्रेयपूजितम् १६७
आखुभिः कुक्कुटैर्हंसैः शशैश्चापि हि बुद्धिमान्
कल्पेनानेन विपचेत् सर्पिरूर्ध्वगदापहम् १६८
इति महामायूरघृतम्
पैत्ते घृतं पयः सेकाः शीता लेपाः सनावनाः
जीवनीयानि सर्पींषि पानान्नं चापि पित्तनुत् १७०
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः
क्षीरपिष्टैः प्रदेहः स्याच्छृतैर्वा परिषेचनम् १७१
त्वक्पत्रशर्कराकल्कः सुपिष्टस्तण्डुलाम्बुना
कार्योऽवपीडः सर्पिश्च नस्यं तस्यानु पैत्तिके १७२
कफजे स्वेदितं धूमनस्यप्रधमनादिभिः
शुद्धं प्रलेपपानान्नैः कफघ्नैः समुपाचरेत् १७३
पुराणसर्पिषः पानैस्तीक्ष्णैर्बस्तिभिरेव च
कफानिलोत्थिते दाहः शंखयो रक्तमोक्षणम् १७४
एरण्डनलदक्षौमगुग्गुल्वगुरुचन्दनैः
धूमवर्तिं पिबेद्गन्धैरकुष्ठतगरैस्तथा १७५
सन्निपातभवे कार्या सन्निपातहिता क्रिया
क्रिमिजे चैव कर्तव्यं तीक्ष्णं मूर्धविरेचनम् १७६
त्वग्दन्तीव्याघ्रकरजविडङ्गनवमालिकाः
अपामार्गफलं बीजं नक्तमालशिरीषयोः
क्षवकोऽश्मन्तको बिल्वं हरिदा हिङ्गु यूथिका १७७
फणिज्झकश्च तैस्तैलमविमूत्रे चतुर्गुणे
सिद्धं स्यान्नावनं चूर्णं चैषां प्रधमनं हितम् १७८
फलं शिग्रुकरञ्जाभ्यां सव्योषं चावपीडकः
कषायः स्वरसः क्षारश्चूर्णं कल्कोऽवपीडकः १७९
इति शिरोरोगचिकित्सा
शुक्तितिक्तकटुक्षौद्रकषायैः कवलग्रहः
धूमः प्रधमनं शुद्धिरधश्छर्दनलङ्घनम् १८०
भोज्यं च मुखरोगेषु यथास्वं दोषनुद्धितम्
पिप्पल्यगुरुदार्वीत्वग्यवक्षाररसाञ्जनम् १८१
पाठां तेजोवतीं पथ्यां समभागं विचूर्णयेत्
मुखरोगेषु सर्वेषु सक्षौद्रं तद्विधारयेत् १८२
सीधुमाधवमाध्वीकैः श्रेष्ठोऽयं कवलग्रहः
तेजोह्वामभयामेलां समङ्गां कटुकां घनम् १८३
पाठां ज्योतिष्मतीं लोध्रं दार्वीं कुष्ठं च चूर्णयेत्
दन्तानां घर्षणं रक्तस्रावकण्डूरुजापहम् १८४
पञ्चकोलकतालीसपत्रैलामरिचत्वचः
पलाशमुष्ककक्षारयवक्षाराश्च चूर्णिताः १८५
गुडे पुराणे द्विगुणे क्वथिते गुटिकाः कृताः
कर्कन्धुमात्राः सप्ताहं स्थिता मुष्ककभस्मनि १८६
कण्ठरोगेषु सर्वेषु धार्याः स्युरमृतोपमाः
गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम् १८७
तेजोह्वा त्रिफला लोध्रं चित्रकश्चेति चूर्णितम्
सक्षौद्रं धारयेदेतद्गलरोगविनाशनम् १८८
कालकं नाम तच्चूर्णं दन्तास्यगलरोगनुत्
इति कालकचूर्णम्
मनःशिला यवक्षारो हरितालं ससैन्धवम् १८९
दार्वीत्वक् चेति तच्चूर्णं माक्षिकेण समायुतम्
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत् १९०
मुखरोगेषु च श्रेष्ठं पीतकं नाम कीर्तितम्
इति पीतकचूर्णम्
मृद्वीका कटुका व्योषं दार्वीत्वक् त्रिफला घनम् १९१
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्
पाठा रसाञ्जनं मूर्वा तेजोह्वेति च चूर्णितम् १९२
क्षौद्रयुक्तं विधातव्यं गलरोगे भिषग्जितम्
योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः १९३
कटुकातिविषापाठादार्वीमुस्तकलिङ्गकाः
गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः १९४
स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया
सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा १९५
तालुशोषे सतृष्णस्य सर्पिरौत्तरभक्तिकम्
नावनं मधुराः स्निग्धाः शीताश्चैव रसा हिताः १९६
मुखपाके सिराकर्म शिरःकायविरेचनम्
मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहाः १९७
सक्षौद्रास्त्रिफलापाठामृद्वीकाजातिपल्लवाः
कषायतिक्तकाः शीताः क्वाथाश्च मुखधावनाः १९८
तुलां खदिरसारस्य द्विगुणामरिमेदसः
प्रक्षाल्य जर्जरीकृत्य चतुर्द्रोणेऽम्भसः पचेत् १९९
द्रोणशेषं कषायं तं पूत्वा भूयः पचेच्छनैः
ततस्तस्मिन् घनीभूते चूर्णीकृत्याक्षभागिकम् २००
चन्दनं पद्मकोशीरं मञ्जिष्ठा धातकी घनम्
प्रपौण्डरीकं यष्ट्याह्वत्वगेलापद्मकेशरम् २०१
लाक्षां रसाञ्जनं मांसीत्रिफलालोध्रवालकम्
रजन्यौ फलिनीमेलां समङ्गां कट्फलं वचाम् २०२
यवासागुरुपत्तङ्गगैरिकाञ्जनमावपेत्
लवङ्गनखकक्कोलजातिकोशान् पलोन्मितान् २०३
कर्पूरकुडवं चापि क्षिपेच्छीतेऽवतारिते
ततस्तु गुटिकाः कार्याः शुष्काश्चास्येन धारयेत् २०४
तैलं चानेन कल्केन कषायेण च साधयेत्
दन्तानां चलनभ्रंशशौषिर्यक्रिमिरोगनुत् २०५
मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम्
स्रावोपलेपपैच्छिल्यवैस्वर्यगलशोषनुत् २०६
दन्तास्यगलरोगेषु सर्वेष्वेतत् परायणम्
खदिरादिगुटीकेयं तैलं च खदिरादिकम् २०७
इति खदिरादिगुटिका तैलं च इति मुखरोगचिकित्सा
अरुचौ कवलग्राहा धूमाः समुखधावनाः
मनोज्ञमन्नपानं च हर्षणाश्वासनानि च २०८
कुष्ठसौवर्चलाजाजीशर्करामरिचं बिडम्
धात्र्येलापद्मकोशीरपिप्पल्युत्पलचन्दनम् २०९
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम्
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतः २१०
सतैलमाक्षिकास्त्वेते चत्वारः कवलग्रहाः
चतुरोऽरोचकान् हन्युर्वाताद्येकजसर्वजान् २११
कारवीमरिचाजाजीद्राक्षावृक्षाम्लदाडिमम्
सौवर्चलं गुडः क्षौद्रं सर्वारोचकनाशनम् २१२
बस्तिं समीरणे पित्ते विरेकं वमनं कफे
कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे २१३
इत्यरोचकचिकित्सा
कर्णशूले तु वातघ्नी हिता पीनसवत् क्रिया
प्रदेहाः पूरणं नस्यं पाकस्रावे व्रणक्रियाः २१४
भोज्यानि च यथादोषं कुर्यात् स्नेहांश्च पूरणान्
हिङ्गुतुम्बरुशुण्ठीभिस्तैलं तु सार्षपं पचेत् २१५
एतद्धि पूरणं श्रेष्ठं कर्णशूलनिवारणम्
देवदारुवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः २१६
तैलं सिद्धं बस्तमूत्रे कर्णशूलनिवारणम्
वराटकान् समाहृत्य दहेन्मृद्भाजने नवे २१७
तद्भस्म श्च्योतयेत्तेन गन्धतैलं विपाचयेत्
रसाञ्जनस्य शुण्ठ्याश्च कल्काभ्यां कर्णशूलनुत् २१८
बालमूलकशुण्ठानां क्षारो हिङ्गु महौषधम्
शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम् २१९
सौवर्चलयवक्षारस्वर्जिकोद्भिदसैन्धवम्
भूर्जग्रन्थिर्बिडं मुस्तं मधुशुक्तं चतुर्गुणम् २२०
मातुलुङ्गरसश्चैव कदल्या रस एव च
सर्वैरेतैर्यथोदिष्टैः क्षारतैलं विपाचयेत् २२१
बाधिर्यं कर्णनादश्च पूयस्रावश्च दारुणः
क्रिमयः कर्णशूलं च पूरणादस्य नश्यति २२२
मुखकर्णाक्षिरोगेषु यथोक्तं पीनसे विधिम्
कुर्याद्भिषक् समीक्ष्यादौ दोषकालबलाबलम् २२३
इति कर्णरोगचिकित्सा
उत्पन्नमात्रे तरुणे नेत्ररोगे बिडालकः
कार्यो दाहोपदेहाश्रुशोफरोगनिवारणः २२४
नागरं सैन्धवं सर्पिर्मण्डेन च रसक्रिया
निघृष्टं वातिके तद्वन्मधुसैन्धवगैरिकम् २२५
तथा शावरकं लोध्रं घृतभृष्टं बिडालकः
तद्वत् कार्यो हरीतक्या घृतभृष्टो रुजापहः २२६
पैत्तिके चन्दनानन्तामञ्जिष्ठाभिर्बिडालकः
कार्यः पद्मकयष्ट्याह्वमांसीकालीयकैस्तथा २२७
गैरिकं सैन्धवं मुस्तं रोचना स रसक्रिया
कफे कार्या तथा क्षौद्रं प्रियङ्गुः समनःशिला २२८
सन्निपाते तु सर्वैः स्याद्बहिरक्ष्णोः प्रलेपनम्
पक्ष्माण्यस्पृश्यता कार्यं संपक्वे त्वञ्जनं त्र्यहात् २२९
आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः
कोष्णः सैरण्डतर्कारीबृहतीमधुशिग्रुभिः २३०
पृथ्वीकादार्विमञ्जिष्ठालाक्षाद्विमधुकोत्पलैः
क्वाथः सशर्करः शीतः पूरणं रक्तपित्तनुत् २३१
नागरत्रिफलामुस्तनिम्बवासारसः कफे
कोष्णमाश्च्योतनं मिश्रैरोषधैः सान्निपातके २३२
बृहत्येरण्डमूलत्वक् शिग्रोः पुष्पं ससैन्धवम्
अजाक्षोरेण पिष्टं स्याद्वर्तिर्वाताक्षिरोगनुत् २३३
सुमनःकोरकाः शङ्खस्त्रिफला मधुकं बला
पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा २३४
सैन्धवं त्रिफला व्योषं शङ्खनाभिः समुद्रजः
फेनः शैलेयकं सर्जो वर्तिः श्लेष्माक्षिरोगनुत् २३५
अमृताह्वा बिसं बिल्वं पटोलं छागलं शकृत्
प्रपौण्डरीकं यष्ट्याह्वं दार्वी कालानुसारिवा २३७
एषामष्टपलान् भागान् सुधौताञ्जर्जरीकृतान्
तोये पक्त्वा रसे पूते भूयः पक्वे रसे घने २३८
कर्षं च श्वेतमरिचाज्जातीपुष्पान्नवात् पलम्
चूर्णं क्षिप्त्वा कृता वर्तिः सर्वघ्नी दृक्प्रसादनी २३९
शङ्खप्रवालवैदूर्यलौहताम्रप्लवास्थिभिः
स्रोतोजश्वेतमरिचैर्वर्तिः सर्वाक्षिरोगनुत् २४०
शाणार्धं मरिचाद्द्वौ च पिप्पल्यर्णवफेनयोः
शाणार्धं सैन्धवाच्छाणा नव सौवीरकाञ्जनात् २४१
पिष्टं सुसूक्ष्मं चित्रायां चूर्णाञ्जनमिदं शुभम्
काण्डूकाचकफार्तानां मलानां च विशोधनम् २४२
बस्तमूत्रे त्र्यहं स्थाप्यमेलाचूर्णं सुभावितम्
चूर्णाञ्जनं हि तैमिर्यक्रिमिपिल्लमलापहम् २४३
सौवीरमञ्जनं तुत्थं ताप्यो धातुर्मनःशिला
चक्षुष्या मधुकं लोहा मणयः पौष्पमञ्जनम् २४४
सैन्धवं शौकरी दंष्ट्रा कतकं चाञ्जनं शुभम्
तिमिरादिषु चूर्णं वा वर्तिर्वेयमनुत्तमा २४५
कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं सिता
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला २४६
कुक्कुटाण्डकपालानि वर्तिरेषा व्यपोहति
तिमिरं पटलं काचं मलं चाशु सुखावती २४७
इति सुखावती वर्तिः
त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः
नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः २४८
आजेन पयसा पिष्ट्वा भावयेत्ताम्रभाजने
सप्तरात्रं स्थितं भूयः पिष्ट्वा क्षीरेण वर्तयेत् २४९
एषा दृष्टिप्रदा वर्तिरन्धस्याभिन्नचक्षुषः
इति दृष्टिप्रदा वर्तिः
वदने कृष्णसर्पस्य निहितं मासमञ्जनम् २५०
ततस्तस्मात् समृद्धृत्य सशुष्कं चूर्णयेद्बुधः
सुमनःकोरकैः शुष्कैरर्धांशैः सैन्धवेन च २५१
एतन्नेत्राञ्जनं कार्यं तिमिरघ्नमनुत्तमम्
पिप्पल्यः किंशुकरसो वसा सर्पस्य सैन्धवम् २५२
जीर्णं घृतं च सर्वाक्षिरोगघ्नी स्याद्रसक्रिया
कृष्णसर्पवसा क्षौद्रं रसो धात्र्या रसक्रिया २५३
शस्ता सर्वाक्षिरोगेषु काचार्बुदमलेषु च
धात्रीरसाञ्जनक्षौद्रसर्पिर्भिस्तु रसक्रिया २५४
पित्तरक्ताक्षिरोगघ्नी तैमिर्यपटलापहा
धात्रीसैन्धवपिप्पल्यः सश्वेतमरिचाः समाः २५५
क्षौद्रयुक्ता निहन्त्यान्ध्यं पटलं च रसक्रिया
इति नेत्ररोगचिकित्सा
खालित्ये पलिते वल्यां हरिलोम्नि च शोधितम् २५६
नस्यैस्तैलैः शिरोवक्त्रप्रलेपैश्चाप्युपाचरेत्
सिद्धं विदारीगन्धाद्यैर्जीवनीयैरथापि च २५७
नस्यं स्यादणुतैलं वा खालित्यपलितापहम्
क्षीरात् साहचराद्भार्ङ्गराजाच्च सौरसाद्रसात् २५८
प्रस्थैस्तु कुडवस्तैलाद्यष्ट्याह्वपलकल्कितः
सिद्धः शिलासमे मेषशृङ्गादिषु स्थितः २५९
नस्यं स्याद्भिषजा सम्यग्योजितं पलितापहम्
भिषजा क्षीरपिष्टौ वा दुग्धिकाकरवीरकौ २६०
उत्पाट्य पलिते देयौ तावुभौ पलितापहौ
मार्कवस्वरसात् क्षीराद्द्विप्रस्थं मधुकात् पलम् २६१
तैः पचेत् कुडवं तैलात्तन्नस्यं पलितापहम्
आदित्यवल्ल्या मूलानि कृष्णसैरेयकस्य च २६२
सुरसस्य च पत्राणि पत्रं कृष्णशणस्य च
मार्कवः काकमाची च मधुकं देवदारु च २६३
पृथग्दशपलांशानि पिप्पल्यस्त्रिफलाऽञ्जनम्
प्रपौण्डरीकं मञ्जिष्ठा लोध्रं कृष्णागुरूत्पलम् २६४
आम्रास्थि कर्दमः कृष्णो मृणालं रक्तचन्दनम्
नीली भल्लातकास्थीनि कासीसं मदयन्तिका २६५
सोमराज्यसनः शस्त्रं कृष्णौ पिण्डीतचित्रकौ
पुष्करार्जुनकाश्मर्याण्याम्रजम्बूफलानि च २६६
पृथक् पञ्चपलांशानि तैः पिष्टैराढकं पचेत्
बैभीतकस्य तैलस्य धात्रीरसचतुर्गुणम् २६७
कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः
लोहपात्रे ततः पूतं संशुद्धसुपयोजयेत् २६८
पाने नस्यक्रियायां च शिरोभ्यङ्गे तथैव च
एतच्चक्षुष्यमायुष्यं शिरसः सर्वरोगनुत् २६९
महानीलमिति ख्यातं पलितघ्नमनुत्तमम्
इति महानीलतैलम्
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः २७०
कार्षिकैस्तैलकुडवो द्विगुणामलकीरसः
सिद्धः स प्रतिमर्शः स्यात् सर्वमूर्धगदापहः २७१
पलितघ्नो विशेषेण कृष्णात्रेयेण भाषितः
क्षीरं प्रियालयष्ट्याह्वे जीवकाद्यो गणस्तिलाः २७२
कृष्णा वक्त्रे प्रलेपः स्याद्धरिलोमनिवारणः
तिलाः सामलकाश्चैव किञ्जल्को मधुकं मधु २७३
बृंहयेद्रञ्जयेच्चैतत् केशान्मूर्धप्रलेपनात्
पचेत्सैन्धवशुक्ताम्लैरयश्चूर्णं सतण्डुलम् २७४
तेनालिप्तं शिरः शुद्धमस्निग्धमुषितं निशि
तत् प्रातस्त्रिफलाधौतं स्यात् कृष्णमृदुमूर्धजम् २७५
अयश्चूर्णोऽम्लपिष्टश्च रागः सत्रिफलो वरः
कुर्याच्छेषेषु रोगेषु क्रियां स्वां स्वाच्चिकित्सितात्
शेषेष्वादौ च निर्दिष्टा सिद्धौ चान्या प्रवक्ष्यते २७६
इति खालित्यादिचिकित्सा
सर्पींष्युपरिभक्तानि स्वरभेदेऽनिलात्मके
तैलैश्चतुष्प्रयोगैश्च बलरास्नामृताह्वयैः २७७
बर्हितित्तिरिदक्षाणां पञ्चमूलशृतान् रसान्
मायूरं क्षीरसर्पिर्वा पिबेत्त्र्यूषणमेव वा २७८
पैत्तिके तु विरेकः स्यात् पयश्च मधुरैः शृतम्
सर्पिर्गुडा घृतं तिक्तं जीवनीयं वृषस्य वा २७९
कफजे स्वरभेदे तु तीक्ष्णं मूर्धविरेचनम्
विरेको वमनं धूमो यवान्नकटुसेवनम् २८०
चव्यभार्ग्यभयाव्योषक्षारमाक्षिकचित्रकान्
लिह्याद्वा पिप्पलीपथ्ये तीक्ष्णं मद्यं पिबेच्च सः २८१
रक्तजे स्वरभेदे तु सघृता जाङ्गला रसाः
द्राक्षाविदारीक्षुरसाः सघृतक्षौद्रशर्कराः २८२
यच्चोक्तं क्षयकासघ्नं तच्च सर्वं चिकित्सितम्
पित्तजस्वरभेदघ्नं सिरावेधश्च रक्तजे २८३
सन्निपाते हिताः सर्वाः क्रिया न तु सिराव्यधः
इत्युक्तं स्वरभेदस्य समासेन चिकित्सितम् २८४
इति स्वरभेदचिकित्सा
भवन्ति चात्र--
वातपित्तकफा नॄणां बस्तिहृन्मूर्धसंश्रयाः
तस्मात्तत्स्थानसामीप्याद्धर्तव्या वमनादिभिः २८५
अध्यात्मलोको वाताद्यैर्लोको वातरवीन्दुभिः
पीड्यते धार्यते चैव विकृताविकृतैस्तथा २८६
विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम्
दोषाः सहजसात्म्यत्वाद्विषं घोरमहीनिव २८७
तत्र श्लोकः--
त्रिमर्मजानां रोगाणां निदानाकृतिभेषजम्
विस्तरेण पृथग्दिष्टं त्रिमर्मीये चिकित्सिते २८८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने
त्रिमर्मीयचिकित्सितं नाम षड्विंशोऽध्यायः २६

सप्तविंशोऽध्यायः
अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
श्रिया परमया ब्राह्म्या परया च तपःश्रिया
अहीनं चन्द्रसूर्याभ्यां सुमेरुमिव पर्वतम् ३
धीधृतिस्मृतिविज्ञानज्ञानकीर्तिक्षमालयम्
अग्निवेशो गुरुं काले संशयं परिपृष्टवान् ४
भगवन् पञ्च कर्माणि समस्तानि पृथक् तथा
निर्दिष्टान्यामयानां हि सर्वेषामेव भेषजम् ५
दोषजोऽस्त्यामयः कश्चिद्यस्य तानि भिषग्वर
न स्युः शक्तानि शमने साध्यस्य क्रियया सतः ६
अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम्
सलिङ्गभेषजं भूयः पृष्टस्तेनाब्रवीद्गुरुः ७
स्निग्धोष्णलघुशीतानि जीर्णाजीर्णे समश्नतः
द्रवशुष्कदधिक्षीरग्राम्यानूपौदकामिषैः ८
पिष्टव्यापन्नमद्यातिदिवास्वप्नप्रजागरैः
लङ्घनाध्यशनायासभयवेगविधारणैः ९
स्नेहाच्चामं चितं कोष्ठे वातादीन्मेदसा सह
रुद्ध्वाऽऽशु गौरवादूरू यात्यधोगैः सिरादिभिः १०
पूरयन् सक्थिजङ्घोरु दोषो मेदोबलोत्कटः
अविधेयपरिस्पन्दं जनयत्यल्पविक्रमम् ११
महासरसि गम्भीरे पूर्णेऽम्बु स्तिमितं यथा
तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः १२
गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनैः
भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून् १३
ऊरू श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु
स्तम्भयेत्स्थैर्यशैत्याभ्यामूरुस्तम्भस्ततस्तु सः १४
प्राग्रूपं ध्याननिद्रातिस्तैमित्यारोचकज्वराः
लोमहर्षश्च छर्दिश्च जङ्घोर्वोः सदनं तथा १५
वातशाङ्किभिरज्ञानात्तस्य स्यात् स्नेहनात् पुनः
पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा १६
जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदना
पादं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च १७
संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः
अन्यनेयौ हि सं भग्नावूरू पादौ च मन्यते १८
यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत्
ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम् १९
तस्य न स्नेहनं कार्यं न बस्तिर्न विरेचनम्
न चैव वमनं यस्मात्तन्निबोधत कारणम् २०
वृद्धये श्लेष्मणो नित्यं स्नेहनं बस्तिकर्म च
तत्स्थस्योद्धरणे चैव न समर्थं विरेचनम् २१
कफं कफस्थानगतं पित्तं च वमनात् सुखम्
हर्तुमामाशयस्थौ च स्रंसनात्तावुभावपि २२
पक्वाशयस्थाः सर्वेऽपि बस्तिभिर्मूलनिर्जयात्
शक्या न त्वाममेदोभ्यां स्तब्धा जङ्घोरुसंस्थिताः २३
वातस्थाने हि तच्छैत्याद्वायोः स्तम्भाच्च तद्गताः
न शक्याः सुखमुद्धर्तुं जलं निम्नादिव स्थलात् २४
तस्य संशमनं नित्यं क्षपणं शोषणं तथा
युक्त्यपेक्षी भिह्षक्कुर्यादधिकत्वात्कफामयोः २५
सदा रूक्षोपचाराय यवश्यामाककोद्रवान्
शाकैरलवणैर्दद्याज्जलतैलोपसाधितैः २६
सुनिषण्णकनिम्बार्कवेत्रारग्वधपल्लवैः
वायसीवास्तुकैरन्यैस्तिक्तैश्च कुलकादिभिः २७
क्षारारिष्टप्रयोगाश्च हरीतक्यास्तथैव च
गधूदकस्य पिप्पल्या ऊरुस्तम्भविनाशनाः २८
समङ्गां शाल्मलं बिल्वं मधुना सह ना पिबेत्
तथा श्रीवेष्टकोदीच्यदेवदारुनतान्यपि २९
चन्दनं धातकीं कुष्ठं तालीसं नलदं तथा
मुस्तं हरीतकीं लोध्रं पद्मकं तिक्तरोहिणीम् ३०
देवदारु हरिद्रे द्वे वचां कटुकरोहिणीम्
पिप्पलीं पिप्पलीमूलं सरलं देवदारु च ३१
चव्यं चित्रकमूलानि देवदारु हरीतकीम्
भल्लातकं समूलां च पिप्पलीं पञ्च तान् पिबेत् ३२
सक्षौद्रानर्धश्लोकोक्तान् कल्कानूरुग्रहापहान्
शार्ङ्गेष्टां मदनं दन्तीं वत्सकस्य फलं वचाम् ३३
मूर्वामारग्वधं पाठां करञ्जं कुलकं तथा
पिबेन्मधुयुतं तुल्यं चूर्णं वा वारिणाऽऽप्लुतम् ३४
सक्षौद्रं दधिमण्डैर्वाऽप्यूरुस्तम्भविनाशनम्
मूर्वामतिविषां कुष्ठं चित्रकं कटुरोहिणीम् ३५
पूर्ववद्गुग्गुलुं मूत्रे रात्रिस्थितमाथापि वा
स्वर्णक्षीरीमतिविषां मुस्तं तेजोवतीं वचाम् ३६
सुराह्वं चित्रकं कुष्ठं पाठां कटुकरोहिणीम्
लेहयेन्मधुना चूर्णं सक्षौद्रं वा जलाप्लुतम् ३७
फलीं व्याघ्रनखं हेम पिबेद्वा मधुसंयुतम्
त्रिफलां पिप्पलीं मुस्तं चव्यं कटुकरोहिणीम् ३८
लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः
अपतर्पणजश्चेत् स्याद्दोषः संतर्पयेद्धि तम् ३९
युक्त्या जाङ्गलजैर्मांसैः पुराणैश्चैव शालिभिः
रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिपूर्वकः ४०
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः
पीलुपर्णी पयस्या च रास्ना गोक्षुरको वचा ४१
सरलागुरुपाठाश्च तैलमेभिर्विपाचयेत्
सक्षौद्रं प्रसृतं तस्मादञ्जलिं वाऽपि ना पिबेत् ४२
कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम्
अजगन्धाऽश्वगन्धा च तैलं तैः सार्षपं पचेत् ४३
सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्दितः पिबेत्
द्वे पले सैन्धवात् पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् ४४
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽऽढके
आरनालात् पचेत् प्रस्थं तैलस्यैतैरपत्यदम् ४५
गृध्रस्यूरुग्रहार्शोर्तिसर्ववातविकारनुत्
पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः ४६
तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः इत्यष्टकट्वरतैलम्
इत्याभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम् ४७
श्लेष्मणः क्षपणं त्वन्यद्बाह्यं शृणु चिकित्सितम्
वल्मीकमृत्तिका मूलं करञ्जस्य फलं त्वचम् ४८
इष्टकानि ततश्चूर्णैः कुर्यादुत्सादनं भृशम्
मूलैर्वाऽप्यश्वगन्धाया मूलैरर्कस्य वा भिषक् ४९
पिचुमर्दस्य वा मूलैरथवा देवदारुणः
क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक् ५०
गाढमुत्सादनं कुर्यादूरुस्तम्भे प्रलेपनम्
दन्तीद्रवन्तीसुरसासर्षपैश्चापि बुद्धिमान् ५१
तर्कारीशिग्रुसुरसाविश्ववत्सकनिम्बजैः
पत्रमूलफलैस्तोयं शृतमुष्णं च सेचनम् ५२
पिष्टं तु सर्षपं मूत्रेऽध्युषितं स्यात् प्रलेपनम्
वत्सकः सुरसं कुष्ठं गन्धास्तुम्बुरुशिग्रुकौ ५३
हिंस्रार्कमूलवल्मीकमृत्तिकाः सकुठेरकाः
दधिसैन्धवसंयुक्तं कार्यमेतैः प्रलेपनम् ५४
श्योनाकं खदिरं बिल्वं बृहत्यौ सरलासनौ
शोभाञ्जनकतर्कारीश्वदंष्ट्रासुरसार्जकान् ५५
अग्निमन्थकरञ्जौ च जलेनोत्क्वाथ्य सेचयेत्
प्रलेपो मूत्रपिष्टैर्वाऽप्यूरुस्तम्भनिवारणः ५६
कफक्षयार्थं शक्येषु व्यायामेष्वनुयोजयेत्
स्थलान्याक्रामयेत् कल्यं शर्कराः सिकतास्तथा ५७
प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम्
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ५८
तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत्
श्लेष्मणः क्षपणं यत् स्यान्न च मारुतकोपनम् ५९
तत् सर्वं सर्वदा कार्यमुरुस्तम्भस्य भेषजम्
शरीरं बलमग्निं च कार्यैषा रक्षता क्रिया ६०
तत्र श्लोकः--
हेतुः प्राग्रूपलिङ्गानि कर्मयोग्यत्वकारणम्
द्विविधं भेषजं चोक्तमूरुस्तम्भचिकित्सिते ६१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने ऊरुस्तम्भचिकित्सितं नाम सप्तविंशोऽध्यायः २७

अष्टाविंशोऽध्यायः
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम्
वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तितः ३
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः
वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम् ४
प्राणोदानसमानाख्यव्यानापानैः स पञ्चधा
देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन् ५
स्थानं प्राणस्य मूर्धोरःकण्ठजिह्वास्यनासिकाः
ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च ६
उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च
वाक्प्रवृत्तिः प्रयत्नौर्जोबलवर्णादि कर्म च ७
स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः
अन्तरग्नेश्च पार्श्वस्थः समानोऽग्निबलप्रदः ८
देहं व्याप्नोति सर्वं तु व्यानः शीघ्रगतिर्नृणाम्
गतिप्रसारणाक्षेपनिमेषादिक्रियः सदा ९
वृषणौ बस्तिमेढं च नाभ्यूरू वंक्षणौ गुदम्
अपानस्थानमन्त्रस्थः शुक्रमूत्रशकृन्ति च १०
सृजत्यार्तवगर्भौ च युक्ताः स्थानस्थिताश्च ते
स्वकर्म कुर्वते देहो धार्यते तैरनामयः ११
विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः
शरीरं पीडयन्त्येते प्राणनाशु हरन्ति च १२
सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानतः
अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः १३
तानुच्यमानान् पर्यायैः सहेतूपक्रमाञ्छृणु
केवलं वायुमौद्दिश्य स्थानभेदात्तथाऽऽवृतम् १४
रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः
विषमादुपचाराच्च दोषासृक्स्रवणादति १५
लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितैः
धातूनां संक्षयाच्चिन्ताशोकरोगातिकर्षणात् १६
दुःखशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि
वेगसंधारणादामादभिघातादभोजनात् १७
मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात्
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली १८
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान्
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम् १९
आत्मरूपं तु तद्व्यक्तमपायो लघुता पुनः
सङ्कोचः पर्वणां स्तम्भो भेदोऽस्थ्नां पर्वणामपि २०
लोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः
खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोषोऽङ्गानामनिद्रता २१
गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम् २२
भेदस्तोदार्तिराक्षेपो मोहश्चायास एव च
एवंविधानि रूपाणि करोति कुपितोऽनिलः २३
हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत्
तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः २४
ब्रध्नहृद्रोगगुल्मार्शः पार्श्वशूलं च मारुते
सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जने २५
वेदनाभिः परीतश्च स्फुटन्तीवास्य सन्धयः
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः २६
जङ्घोरुत्रिकपात्पृष्टरोगशोषौ गुदस्थिते हृन्नाभिपार्श्वोदररुक्तृष्णोद्गारविसूचिकाः २७
कासःकण्ठास्यशोषश्च श्वासश्चामाशयस्थिते
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च २८
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्
श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः २९
त्वग्रूक्षास्फुटिता सुप्ता कृशा कृष्णा च तुद्यते
आतन्यते सरागा च पर्वरुक् त्वक्स्थितेऽनिले ३०
रुजस्तीव्राः ससंतापा वैवर्ण्य कृशताऽरुचिः
गात्रे चारूषिं भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ३१
गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं तथा
सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले ३२
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः
अस्वप्नः संतता रूक् च मज्जास्थिकुपितेऽनिले ३३
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः ३४
बाह्याभ्यन्तरमायामं खल्लिं कुब्जत्वमेव च
सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः ३५
शरीरं मन्दरुक्शोफं शुष्यति स्पन्दते तथा
सुप्तास्तन्व्यो महत्यो वा सिरा वाते सिरागते ३६
वातपूर्णदृतिस्पर्शः शोथः सन्धिगतेऽनिले
प्रसारणाकुञ्चनयोः प्रवृत्तिश्च सवेदना ३७
इत्युक्तं स्थानभेदेन वायोर्लक्षणमेव च
अतिवृद्धः शरीरार्धमेकं वायुः प्रपद्यते
यदा तदोपशोष्यासृग्बाहुं पादं च जानु च ३८
तस्मिन् संकोचयत्यर्धे मुखं जिह्मं करोति च
वक्रीकरोति नासाभ्रूललाटाक्षिहनूस्तथा ३९
ततो वक्रं व्रजत्यास्ये भोजनं वक्रदर्शिनः
स्तब्धं नेत्रं कथयतः क्षवथुश्च निगृह्यते ४०
भुग्ना जिह्वा समुत्क्षिप्ता कला सज्जति चास्य वाक्
दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः ४१
पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक्
अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम् ४२
मन्ये संश्रित्य वातोऽन्तर्यदा नाड्यौ प्रपद्यते
मन्यास्तम्भं तदा कुर्यादन्तरायामसंज्ञितम् ४३
अन्तरायम्यते ग्रीवा मन्या च स्तभ्यते भृशम्
दन्तानां दंशनं लाला पृष्ठायामः शिरोग्रहः ४४
जृम्भा वदनसङ्गश्चाप्यन्तरायामलक्षणम्
इत्युक्तस्त्वन्तरायामो बहिरायाम उच्यते ४५
पृष्ठमन्याश्रिता बाह्याः शोषयित्वा सिरा बली
वायुः कुर्याद्धनुस्तम्भं बहिरायामसंज्ञकम् ४६
चापवन्नाम्यमानस्य पृष्ठतो नीयते शिरः
उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवाऽवमृद्यते ४७
दन्तानां दशनं जृम्भा लालास्रावश्च वाग्ग्रहः
जातवेगो निहन्त्येष वैकल्यं वा प्रयच्छति ४८
हनुमूले स्थितो बन्धात् संस्रयत्यनिलो हनू
विवृतास्यत्वमथवा कुर्यात् संवृतवक्रताम् ४९
हनुग्रहं च संस्तभ्य हनुं स्तब्धमवेदनम्
मुहुराक्षिपति क्रुद्धो गात्राण्याक्षेपकोऽनिलः ५०
पाणिपादं च संशोष्य सिराः सस्नायुकण्डराः
पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः ५१
दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः
स्वस्थः स्यादर्दितादीनां मुहुर्वेगे गतेऽगते ५२
पीड्यते पीडनैस्तैस्तैर्भिषगेतान् विवर्जयेत्
गृहीत्वाऽर्धं शरीरस्य सिराः स्नायूर्विशोष्य च ५३
हत्वैकं मारुतः पक्षं दक्षिणं वाममेव वा
कुर्याच्चेष्टानिवृतिं हि रुजं वाक्स्तम्भमेव च ५४
पादं संकोचयत्येकं हस्तं वा तोदशूलकृत्
एकाङ्गरोगं तं विद्यात् सर्वाङ्गं सर्वदेहजम् ५५
स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात्
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः ५६
वाताद्वातकफात्तन्द्रागौरवारोचकान्विता
खल्ली तु पादजङ्घोरुकरमूलावमोटनी ५७
स्थाननामानुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत्
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् ५८
वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च
वातपित्तकफा देहे सर्वस्रोतोऽनुसारिणः ५९
वायुरेव हि सूक्ष्मत्वाद्वयोस्तत्रात्युदीरणः
कुपितस्तौ समुद्धूय तत्र तत्र क्षिपन् गदान् ६०
करोत्यावृतमार्गत्वाद्रसादींश्चोपशोषयेत्
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः ६१
कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम् ६२
लङ्घनायासरूक्षोष्णकामिता च कफावृते
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजो भृशम् ६३
भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च
कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा ६४
हर्षः पिपीलिकानां च संचार इव मांसगे
चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा ६५
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः
स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति ६६
संभज्यते सीदति च सूचीभिरिव तद्युते
मज्जावृते विनामः स्याज्जृम्भणं परिवेष्टनम् ६७
शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम्
शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे ६८
भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले
मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले ६९
वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ७०
चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत्सृजेत्
श्रोणीवंक्षणपृष्ठेषु रुग्विलोमश्च मारुतः ७१
अस्वस्थं हृदयं चैव वर्चसा त्वावृतेऽनिले
सन्धिच्युतिर्हनुस्तम्भः कुञ्चनं कुब्जताऽर्दितः ७२
पक्षाघातोऽङ्गसंशोषः पङ्गुत्वं खडवातता
स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये ७३
एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यति वा न वा
नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् ७४
क्रियामतः परं सिद्धां वातरोगापहां शृणु
केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत् ७५
वायुं सर्पिर्वसातैलमज्जपानैर्नरं ततः
स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः ७६
यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतैः
पायसैः कृशरैः साम्ललवणैरनुवासनैः ७७
नावनैस्तर्पणैश्चान्नैः सुस्निग्धं स्वेदयेत्ततः
स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः ७८
तथाऽन्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत्
स्नेहाक्तं स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा ७९
शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत्
हर्षतोदरुगायामशोथस्तम्भग्रहादयः ८०
स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते
स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजितः ८१
बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत्
असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत् ८२
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः
यद्यनेन सदोषत्वात् कर्मणा न प्रशाम्यति ८३
मृदुभिः स्नेहसंयुक्तैरौषधैस्तं विशोधयेत्
घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा ८४
पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम्
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः ८५
स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत्
दुर्बलो योऽविरेच्यः स्यात्तं निरूहैरुपाचरेत् ८६
पाचनैर्दीपनीयैर्वा भोजनैस्तद्युतैर्नरम्
संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ ८७
स्वादम्ललवणस्निग्धैराहारैः सततं पुनः
नावनैर्धूमपानैश्च सर्वानेवोपपादयेत् ८८
इति सामान्यतः प्रोक्तं वातरोगचिकित्सितम्
विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः ८९
पाचनैर्दीपनैर्युक्तैरम्लैर्वा पाचयेन्मलान्
गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम् ९०
आमाशयस्थे शुद्धस्य यथादोषहरीः क्रियाः
सर्वाङ्गकुपितेऽभ्यङ्गो बस्तयः सानुवासनाः ९१
स्वेदाभ्यङ्गावगाहाश्च हृद्यं चान्नं त्वगाश्रिते
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ९२
विरेको मांसमेदःस्थे निरूहाः शमनानि च
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत् ९३
प्रहर्षोऽन्नश्च शुक्रस्थे बलशुक्रकरं हितम्
विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम् ९४
विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम्
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम् ९५
सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः
हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम् ९६
मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः
वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम् ९७
तैलं संकुचितेऽभ्यङ्गो माषसैन्धवसाधितम्
बाहुशीर्षगते नस्यं पानं चौत्तरभक्तिकम् ९८
बस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः
अर्दिते नावनं मूर्ध्नि तैलं तर्पणमेव च ९९
नाडीस्वेदोपनाहाश्चाप्यानूपपिशितैर्हिताः
स्वेदनं स्नेहसंयुक्तं पक्षाघाते विरेचनम् १००
अन्तराकण्डरागुल्फं सिरावेधाग्निकर्म च
गृध्रसीषु प्रयुञ्जीत खल्ल्यां तूष्णोपनाहनम् १०१
पायसैः कृशरैर्मांसैः शस्तं तैलघृतान्वितैः
व्यात्तानने हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च १०२
प्रदेशिनीभ्यां चोन्नाम्य चिबुकोन्नामनं हितम्
स्रस्तं स्वं गमयेत्स्थानं स्तब्धं स्विन्नं विनामयेत् १०३
प्रत्येकं स्थानदूष्यादिक्रियावैशेष्यमाचरेत्
सर्पिस्तैलवसामज्जसेकाभ्यञ्जनबस्तयः १०४
स्निग्धाः स्वेदा निवातं च स्थानं प्रावरणानि च
रसाः पयांसि भोज्यानि स्वाद्वम्ललवणानि च १०५
बृहणं यच्च तत् सर्वं प्रशस्तं वातरोगिणाम्
बलाया पञ्चमूलस्य दशमूलस्य वा रसे १०६
अजशीर्षाम्बुजानूपमांसादपिशितैः पृथक्
साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान् १०७
भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम्
एतैरेवोपनाहांश्च पिशितैः संप्रकल्पयेत् १०८
घृततैलयुतैः साम्लैः क्षुण्णस्विन्नैरनास्थिभिः
पत्रोत्क्वाथपयस्तैलद्रोण्यः स्युरवगाहने १०९
स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम्
आनूपौदकमांसानि दशमूलं शतावरीम् ११०
कुलत्थान् बदरान्माषांस्तिलान्रास्नां यवान् बलाम्
वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत् १११
नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम्
तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानमेव च ११२
मुस्तं किण्वं तिलाः कुष्ठं सुराह्वं लवणं नतम्
दधिक्षीरचतुःस्नेहैः सिद्धं स्यादुपनाहनम् ११३
उत्कारिकावेसवारक्षीरमाषतिलौदनैः
एरण्डबीजगोधूमयवकोलस्थिरादिभिः ११४
सस्नेहैः सरुजं गात्रमालिप्य बहलं भिषक्
एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत् ११५
क्षीराम्बुना ततः सिक्तं पुनश्चैवोपनाहितम्
मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभिः ११६
फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान्
प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि ११७
पायसैः कृशरैश्चैव कारयेत् स्नेहसंयुतैः
रूक्षशुद्धानिलार्तानामतः स्नेहान् प्रचक्ष्महे ११८
विविधान् विविधव्याधिप्रशमायामृतोपमान्
द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान् ११९
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः १२०
तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः
सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत् १२१
निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु
चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम् १२२
पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम्
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत् १२३
तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले
ग्राम्यानूपौदकानां तु भित्त्वाऽस्थीनि पचेज्जले १२४
तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्
जीवकर्षभकास्फोताविदारीकपिकच्छुभिः १२५
वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्
तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात् १२६
सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम्
ये स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये १२७
बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा १२८
प्रत्यग्रा विधिनाऽनेन नस्यपानेषु शस्यते
प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम् १२९
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्
रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम् १३०
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्
सुरारनालदध्यम्लसौवीरकतुषोदकम् १३१
कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम्
मज्जानं च पयश्चैव जीवनीयपलानि षट् १३२
कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्
सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु १३३
वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत्
निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः १३४
तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु
हितं पामापचीनां च पानाभ्यञ्जनपूरणम् १३५
कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत्
मूलकस्वसे क्षीरसमे स्थाप्यं त्र्यहं दधि १३६
तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत् यष्ट्याह्वशर्करास्नालवणार्द्रकनागरैः १३७
सुपिष्टैः पलिकैः पानात्तदभ्यङ्गाच्च वातनुत्
पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम् १३८
पक्त्वा तस्य रसं पूत्वा तैलप्रस्थं विपाचयेत्
पयसाऽष्टगुणेनैतत् सर्ववातविकारनुत् १३९
संसृष्टे श्लेष्मणा चैतद्वाते शस्तं विशेषतः
यवकोलकुलत्थानां श्रेयस्याः शुष्कमूलकात् १४०
बिल्वाच्चाञ्जलिमेकैकं द्रवैरम्लैर्विपाचयेत्
तेन तैलं कषायेण फलाम्लैः कटुभिस्तथा १४१
पिष्टैः सिद्धं महावातैरार्तः शीते प्रयोजयेत्
सर्ववातविकाराणां तैलान्यन्यान्यतः शृणु १४२
चतुष्प्रयोगाण्यायुष्यबलवर्णकराणि च
रजःशुक्रप्रदोषघ्नान्यपत्यजननानि च १४३
निरत्ययानि सिद्धानि सर्वदोषहराणि च
सहाचरतुलायाश्च रसे तैलाढकं पचेत् १४४
मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम्
सिद्धेऽस्मिञ्छर्कराचूर्णादष्टादशपलं भिषक् १४५
विनीय दारुणेष्वेतद्वातव्याधिषु योजयेत्
श्वदंष्ट्रास्वरसप्रस्थौ द्वौ समौ पयसा सह १४६
षट्पलं शृङ्गवेरस्य गुडस्याष्टपलं तथा
तैलप्रस्थं विपक्वं तैर्दद्यात् सर्वानिलार्तिषु १४७
जीर्णे तैले च दुग्धेन पेयाकल्पः प्रशस्यते
बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम् १४८
जलाढकशते पक्त्वा दशभागस्थिते रसे
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः १४९
पचेत् साजपयोऽर्धांशैः कल्कैरेभिः पलोन्मितैः
शटीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः १५०
पद्मकातिविषामुस्तसूर्पपर्णीहरेणुभिः
यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः १५१
पलाशरसकस्तूरीनलिकाजातिकोषकैः
स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः १५२
त्वचाकुन्दुरुकर्पूरतुरुष्कश्रीनिवासकैः
लवङ्गनखकक्कोलकुष्ठमांसीप्रियङ्गुभिः १५३
स्थौणेयतगरध्यामवचामदनपल्लवैः
सनागकेशरैः सिद्धे क्षिपेच्चात्रावतारिते १५४
पत्रकल्कं ततः पूतं विधिना तत् प्रयोजयेत्
श्वासं कासं ज्वरं हिक्कां छर्दिं गुल्मान् क्षतं क्षयम् १५५
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् १५६
अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम्
इति बलातैलम्
अमृतायास्तुलाः पञ्च द्रोणेष्वष्टस्वपां पचेत् १५७
पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत् एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः १५८
शतपुष्पाबलामेदामहामेदाधिजीवकैः
काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः १५९
महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः
शतावरीमहामेदाकर्कटाख्याहरेणुभिः १६०
वचागोक्षुरकैरण्डारास्नाकालासहाचरैः
वीराशल्लकिमुस्तत्वक्पत्रर्षभकबालकैः १६१
सहैलाकुङ्कुमस्पृक्कात्रिदशाह्वैश्च कार्षिकैः
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च १६२
कल्कैस्तत् क्षीणवीर्याग्निबलसंमूढचेतसः
उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत् १६३
वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्
कृष्णात्रेयेण गुरुणा भाषितं वैद्यपूजितम् १६४
इत्यमृताद्यतैलम्
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्
गन्धेर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत् १६५
कल्पोऽयमश्वगन्धायां प्रसारण्यां बलाद्वये
क्वाथकल्कपयोभिर्वा बलादीनां पचेत् पृथक् १६६
इति रास्नातैलम्
मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम्
तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः १६७
पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकैः भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजैः १६८
पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः
तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान् १६९
इति मूलकाद्यं तैलम्
वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च
चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत् १७०
सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा
प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम् १७१
इति वृषमूलादितैलम्
रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृताः १७२
श्योनाकदारुशम्पाकहयगन्धात्रिकण्टकाः
एषां दशपलान् भागान् कषायमुपकल्पयेत् १७३
ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः
दध्यारनालमाषाम्बुमूलकेक्षुरसैः शुभैः १७४
पृथक् प्रस्थोन्मितैः सार्धं तैलप्रस्थं विपाचयेत्
प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत् १७५
एतन्मूलकतैलाख्यं वर्णायुर्बलवर्धनम्
इति मूलकतैलम्
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः
रसेन मूलकानां च तैलं दधिपयोन्वितम् १७६
साधयित्वा भिषग्दद्यात् सर्ववातामयापहम्
लशुनस्वरसे शिद्धं तैलमेभिश्च वातनुत् १७७
तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च
पीत्वाऽन्यतममेषां हि वन्ध्याऽपि जनयेत् सुतम् १७८
यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम्
अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत् १७९
वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च
तानि चानिलशान्त्यर्थं सिद्धिकामः प्रयोजयेत् १८०
नास्ति तैलात् परं किंचिदौषधं मारुतापहम्
व्यवाय्युष्णगुरुस्नेहात् संस्काराद्बलत्तरम् १८१
गणैर्वातहरैस्तस्माच्छतशोऽथ सहस्रशः
सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान् १८२
क्रिया साधारणी सर्वा संसृष्टे चापि शस्यते
वाते पित्तादिभिः स्रोतःस्वावृतेषु विशेषतः १८३
पित्तावृते विशेषेण शीतामुष्णां तथा क्रियाम्
व्यत्यासात् कारयेत् सर्पिर्जीवनीयं च शस्यते १८४
धन्वमांसं यवाः शालिर्यापनाः क्षीरबस्तयः
विरेकं क्षीरपानं च पञ्चमूलीबलाशृतम् १८५
मधुयष्टिबलातैलघृतक्षीरैश्च सेचनम्
पञ्चमूलकषायेण कुर्याद्वा शीतवारिणा १८६
कफावृते यवान्नानि जाङ्गला मृगपक्षिणः
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम् १८७
जीर्णं सर्पिस्तथा तैलं तिलसर्षपजं हितम्
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत् १८८
आमाशयगतं मत्वा कफं वमनमाचरेत् १८९
पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा
स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशये स्थितः १९०
पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत्
श्लेष्मयाऽनुगतं वीतमुष्णैर्गोमूत्रसंयुतैः १९१
निरूहः पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतैः
मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत् १९२
शिरोगते तु सकफे धूमनस्यादि कारयेत्
हृते पित्ते कफे यः स्यादुरःस्रोतोऽनुगोऽनिलः १९३
सशेषः स्यात् क्रिया तत्र कार्या केवलवातिकी
शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम् १९४
प्रमेहवातमेदोघ्नीमामवाते प्रयोजयेत्
स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिताः १९५
महास्नेहोऽस्थिमज्जस्थे पूर्ववद्रेतसाऽऽवृते
अन्नावृते तदुल्लेखः पाचनं दीपनं लघु १९६
मूत्रलानि तु मूत्रेण स्वेदाः सोत्तरबस्तयः
शकृता तैलमैरण्डं स्निग्धोदावर्तवत्क्रिया १९७
स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधेर्जयेत्
वमनैर्वा विरेकैर्वा वस्तिभिः शमनेन वा १९८
इत्युक्तमावृते वाते पित्तादिभिर्यथायथम्
मारुतानां हि पञ्चानामन्योन्यावरणे शृणु १९९
लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ
प्राणो वृणोत्युदानादीन् प्राणं वृण्वन्ति तेऽपि च २००
उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम्
विंशतिर्वरणान्येतान्युल्बणानां परस्परम् २०१
मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत्
सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम् २०२
व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम्
स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता २०३
प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम्
प्राणावृते समाने स्युर्जडगद्गदमूकताः २०४
चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः
समानेनावृतेऽपाने ग्रहणीपार्श्वहृद्गदाः २०५
शूलं चामाशये तत्र दीपनं चर्पिरिष्यते
शिरोग्रहः प्रतिश्यायो निःश्वासोच्छ्वाससंग्रहः २०६
हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते
तत्रोर्ध्वभागिकं कर्म कार्यमाश्वासनं तथा २०७
कर्मौजोबलवर्णानां नाशो मृत्युरथापि वा
उदानेनावृते प्राणे तं शनैः शीतवारिणा २०८
सिञ्चेदाश्वासयेच्चैनं सुखं चैवोपपादयेत्
ऊर्ध्वगेनावृतेऽपाने छर्दिश्वासादयो गदाः २०९
स्युर्वाते तत्र बस्त्यादि भोज्यं चैवानुलोमनम्
मोहोऽल्पोऽग्निरतीसार ऊर्ध्वगेऽपानसंवृते २१०
वाते स्याद्वमनं तत्र दीपनं ग्राहि चाशनम्
वम्याध्मानमुदावर्तगुल्मार्तिपरिकर्तिकाः २११
लिङ्गं व्यानावृतेऽपाने तं स्निग्धैरनुलोमयेत्
अपानेनावृते व्याने भवेद्विण्मूत्ररेतसाम् २१२
अतिप्रवृत्तिस्तत्रापि सर्वं संग्रहणं मतम्
मूर्च्छा तन्द्रा प्रलापोऽङ्गसादोऽग्न्योजोबलक्षयः २१३
समानेनावृते व्याने व्यायामो लघुभोजनम्
स्तब्धताऽल्पाग्निताऽस्वेदश्चेष्टाहानिर्निमीलनम् २१४
उदानेनावृते व्याने तत्र पथ्यं मितं लघु
पञ्चान्योन्यावृतानेवं वातान् बुध्येत लक्षणैः २१५
एषां स्वकर्मणां हानिर्वृद्धिर्वाऽवरणे मता
यथास्थूलं समुदिष्टमेतदावरणाष्टकम् २१६
सलिङ्गभेषजं सम्यग्बुधानां बुद्धिवृद्धये
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् २१७
द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम्
कुर्यादभ्यञ्जनस्नेहपानबस्त्यादि सर्वशः २१८
क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत्
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत् २१९
समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत्
प्राणो रक्ष्यश्चतुर्भ्योऽपि स्थाने ह्यम्य स्थितिर्ध्रुवा २२०
स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान्
मूर्च्छा दाहो भ्रमः शूलं विदाहः शीतकामिता २२१
छर्दनं च विदग्धस्य प्राणे पित्तसमावृते
ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससंग्रहः २२२
प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च
मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरसः क्लमः २२३
ओजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते
आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रहः २२४
दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते
अतिस्वेदस्तृषा दाहो मूर्च्छा चारुचिरेव च २२५
पित्तावृते समाने स्यादुपघातस्तथोष्मणः
अस्वेदो वह्निमान्द्यं च लोमहर्षस्तथैव च २२६
कफावृते समाने स्याद्गात्राणां चातिशीतता
व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः २२७
गात्रविक्षेपसङ्गश्च ससंतापः सवेदनः
गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः २२८
व्याने कफावृते लिङ्गं गतिसङ्गस्तथाऽधिकः
हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयोः २२९
लिङ्गं पित्तावृतेऽपाने रजसश्चातिवर्तनम्
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् २३०
श्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः
लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च २३१
उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत्
यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ २३२
दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान्
आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च २३३
गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः
विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम् २३४
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च
सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा २३५
उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः
हृद्रोगो विद्रधिः प्लीहा गुल्मोऽतीसार एव च २३६
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्
तस्मादावरणं वैद्यः पवनस्योपलक्षयेत् २३७
पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणाऽपि वा
भिषग्जिमतः सम्यगुपलक्ष्य समाचरेत् २३८
अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम् २३९
सर्वस्थानावृतेऽप्याशु तत् कार्यं मारुते हितम्
यापना बस्तयः प्रायो मधुराः सानुवासनाः २४०
प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम्
रसायनानां सर्वेषामुपयोगः प्रशस्यते २४१
शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा
लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नरः २४२
अभयामलकीयोक्तमेकादशसिताशतम्
अपानेनावृते सर्वं दीपनं ग्राहि भेषजम् २४३
वातानुलोमनं यच्च पक्काशयविशोधनम्
इति संक्षेपतः प्रोक्तमावृतानां चिकित्सितम् २४४
प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत्
पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभिः २४५
लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गतिः
तथा शरीरे वातस्य पित्तस्य च कफस्य च २४६
क्षयं वृद्धिं समत्वं च तथैवावरणं भिषक्
विज्ञाय पवनादीनां न प्रमुह्यति कर्मसु २४७
तत्र श्लोकौ--
पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु यान्येषु वृतोऽवृतश्च २४८
प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी २४९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः २८

एकोनत्रिंशोऽध्यायः
अथातो वातशोणितचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
हुताग्निहोत्रमासीनमृषिमध्ये पुनर्वसुम्
पृष्टवान् गुरुमेकाग्रमग्निवेशोऽग्निवर्चसम् ३
अग्निमारुततुल्यस्य संसर्गस्यानिलासृजोः
हेतुलक्षणभैषज्यान्यथास्मै गुरुरब्रवीत् ४
लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ५
कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः
दध्यारनालसौवीरशुक्ततक्रसुरासवैः ६
विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः
प्रायशः सुकुमाराणां मिष्टान्नसुखभोजिनाम् ७
अचङ्क्रमणशीलानां कुप्यते वातशोणितम्
अभिघातादशुद्ध्या च प्रदुष्टे शोणिते नृणाम् ८
कषायकटुतिक्ताल्परूक्षाहारादभोजनात्
हयोष्ट्रयानयानाम्बुक्रीडाप्लवनलङ्घनैः ९
उष्णे चात्यध्वगमनाद्व्यवायाद्वेगनिग्रहात्
वायुर्विवृद्धो वृद्धेन रक्तेनावारितः पथि १०
कृत्स्नं संदूषयेद्रक्तं तज्ज्ञेयं वातशोणितम्
खुडं वातबलासाख्यमाढ्यवातं च नामभिः ११
तस्य स्थानं करौ पादावङ्गुल्यः सर्वसन्धयः
कृत्वाऽऽदौ हस्तपादे तु मूलं देहे विधावति १२
सौक्ष्म्यात् सर्वसरत्वाच्च पवनस्यासृजस्तथा
तद्द्रवत्वात् सरत्वाच्च देहं गच्छन् सिरायनैः १३
पर्वस्वभिहतं क्षुब्धं वक्रत्वादवतिष्ठते
स्थितं पित्तादिसंसृष्टं तास्ताः सृजति वेदनाः १४
करोति दुःखं तेष्वेव तस्मात् प्रायेण सन्धिषु
भवन्ति वेदनास्तास्ता अत्यर्थं दुःसहा नृणाम् १५
स्वेदोऽत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽरितुक्
सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः १६
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च १७
कण्डूः संधिषु रुग्भूत्वा भूत्वा नश्यति चासकृत्
वैवर्णं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् १८
उत्तानमथ गम्भीरं द्विविधं तत् प्रचक्षते
त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम् १९
कण्डूदाहरुगायामतोदस्फुरणकुञ्चनैः
अन्विता श्यावरक्ता त्वग्बाह्ये ताम्रा तथेष्यते २०
गम्भीरे श्वयथुः स्तब्धः कठिनोऽन्तर्भृशार्तिमान्
श्यावस्ताम्रोऽथवा दाहतोदस्फुरणपाकवान् २१
रुग्विदाहान्वितोऽभीक्ष्णं वायुः सन्ध्यस्थिमज्जसु
छिन्दन्निव चरत्यन्तर्वक्रीकुर्वंश्च वेगवान् २२
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन्
सर्वैर्लिङ्गैश्च विज्ञेयं वातासृगुभयाश्रयम् २३
तत्र वातेऽधिके वा स्याद्रक्ते पित्ते कफेऽपि वा
संसृष्टेषु समस्तेषु यच्च तच्छृणु लक्षणम् २४
विशेषतः सिरायामशूलस्फुरणतोदनम्
शोथस्य कार्ष्ण्यं रौक्ष्यं च श्यावतावृद्धिहानयः २५
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्
कुञ्चनस्तम्भने शीतप्रद्वेषश्चानिलेऽधिके २६
श्वयथुर्भृशरुक् तोदस्ताम्रश्चिमिचिमायते
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदान्वितोऽसृजि २७
विदाहो वेदना मूर्च्छा स्वेदस्तृष्णा मदो भ्रमः
रागः पाकश्च भेदश्च शोषश्चोक्तानि पैत्तिके २८
स्तैमित्यं गौरवं स्नेहः सुप्तिर्मन्दा च रुक् कफे
हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वत्रिदोषजम् २९
एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवाः ३०
अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः
मूर्च्छायमदरुक्तृष्णाज्वरमोहप्रवेपकाः ३१
हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः
अङ्गुलीवक्रता स्फोटा दाहमर्मग्रहार्बुदाः ३२
एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वाऽपि यत्
संप्रस्रावि विवर्णं च स्तब्धमर्बुदकृच्च यत् ३३
वर्जयेच्चैव संकोचकरमिन्द्रियतापनम्
अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् ३४
रक्तमार्गं विहत्याशु शाखासन्धिषु मारुतः
निविश्यान्योन्यमावार्य वेदनाभिर्हरेदसून् ३५
तत्र मुञ्चेदसृक् शृङ्गजलौकःसूच्यलाबुभिः
प्रच्छनैर्वा सिराभिर्वा यथादोषं यथाबलम् ३६
रुग्दाहतोदरागार्तादसृक् स्राव्यं जलौकसा
शृङ्गैस्तुम्बैर्हरेत् सुप्तिकण्डूचिमिचिमायनात् ३७
देशाद्देशं व्रजत् स्राव्यं सिराभिः प्रछनेन वा
अङ्गग्लानौ न तु स्राव्यं रूक्षे वातोत्तरे च यत् ३८
गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायुसिरामयान्
ग्लानिं चापि ससङ्कोचां कुर्याद्वायुरसृक्क्षयात् ३९
खाञ्ज्यादीन् वातरोगांश्च मृत्युं चात्यवसेचनात्
कुर्यात्तस्मात् प्रमाणेन स्निग्धाद्रक्तं विनिर्हरेत् ४०
विरेच्यः स्नेहयित्वाऽऽदौ स्नेहयुक्तैर्विरेचनैः
रूक्षैर्वा मृदुभिः शस्तमसकृद्बस्तिकर्म च ४१
सेकाभ्यङ्गप्रदेहान्नस्नेहाः प्रायोऽविदाहिनः
वातरक्ते प्रशस्यन्ते विशेषं तु निबोध मे ४२
बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः
विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत् ४३
सर्पिस्तैलवसामज्जपानाभ्यञ्जनबस्तिभिः
सुखोष्णैरुपनाशैश्च वातोत्तरमुपाचरेत् ४४
विरेचनैर्घृतक्षीरपानैः सेकैः सबस्तिभिः
शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत् ४५
वमनं मृदु नात्यर्थं स्नेहसेकौ विलङ्घनम्
कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे ४६
कफवातोत्तरे शीतैः प्रलिप्ते वातशोणिते
दाहशोथरुजाकण्डूविवृद्धिः स्तम्भनाद्भवेत् ४७
रक्तपित्तोत्तरे चोष्णैर्दाहः क्लेदोऽवदारणम्
भवेत्तस्माद्भिषग्दोषबलं बुद्ध्वाऽऽचरेत्क्रियाम् ४८
दिवास्वप्नं ससंतापं व्यायामं मैथुनं तथा
कटूष्णं गुर्वभिष्यन्दि लवणाम्लं च वर्जयेत् ४९
पुराणा यवगोधूमनीवाराः शालिषष्टिकाः
भोजनार्थं रसार्थं वा विष्किरप्रतुदा हिताः ५०
आढक्यश्चणका मुद्रा मसूराः समकुष्ठकाः
यूषार्थं बहुसर्पिष्काः प्रशस्ता वातशोणिते ५१
सुनिषण्णकवेत्राग्रकाकमाचीशतावरीः
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ५२
घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत्
व्यञ्जनार्थं तथा गव्यं महिषाजं पयो हितम् ५३
इति संक्षेपतः प्रोक्तं वातरक्तचिकित्सितम्
एतदेव पुतः सर्वं व्यासतः संप्रवक्ष्यते ५४
श्रावणीक्षीरकाकोलीजीवकर्षभकैः समैः
सिद्धं समधुकैः सर्पिः सक्षीरं वातरक्तनुत् ५५
बलामतिबलां मेदामात्मगुप्तां शतावरीम्
काकोलीं क्षीरकाकोलीं रास्नामृद्धिं च पेषयेत् ५६
घृतं चतुर्गुणक्षीरं तैः सिद्धं वातरक्तनुत्
हृत्पाण्डुरोगवीसर्पकामलाज्वरनाशनम् ५७
त्रायन्तिका तामलकी द्विकाकोली शतावरी
कशेरुकाकषायेण कल्कैरेभिः पचेद्घृतम् ५८
दत्त्वा परूषकद्राक्षाकाश्मर्येक्षुरसान् समान्
पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम् ५९
एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम्
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ६०
इति पारुषकं घृतम्
द्वे पञ्चमूले वर्षाभूमेरण्डं सपुनर्नवम्
मुद्गपर्णी महामेदां माषपर्णीं शतावरीम् ६१
शङ्खपुष्पीमवाक्पुष्पीं रास्नामतिवलां बलाम्
पृथग्द्विपलिकं कृत्वा जलद्रोणे विपाचयेत् ६२
पादशेषे समान् क्षीरधात्रीक्षुच्छागलान् रसान्
घृताढकेन संयोज्य शनैर्मृद्वग्निना पचेत् ६३
कल्कानावाप्य मेदे द्वे काश्मर्यफलमुत्पलम्
त्वक्क्षीरीं पिप्पलीं द्राक्षां पद्मबीजं पुनर्नवाम् ६४
नागरं क्षीरकाकोलीं पद्मकं बृहतीद्वयम्
वीरां शृङ्गाटकं भव्यमुरुमाणं निकोचकम् ६५
खर्जू राक्षोटवातामभुञ्जाताभिषुकांस्तथा
एतैर्घृताढके सिद्धे क्षौद्रं शीते प्रदापयेत् ६६
सम्यक् सिद्धं च शिज्ञाय सुगुप्तं संनिधापयेत्
कृतरक्षाविधिं चौक्षे प्राशयेदक्षसंमितम् ६७
पाण्डुरोगं ज्वरं हिक्कां स्वरभेदं भगन्दरम्
पार्श्वशूलं क्षयं कासं प्लीहानं वातशोणितम् ६८
क्षतशोषमपस्मारमश्मरीं शर्करां तथा
सर्वाङ्गैकाङ्गरोगांश्च मूत्रसङ्गं च नाशयेत् ६९
बलवर्णकरं धन्यं वलीपलितनाशनम्
जीवनीयमिदं सर्पिर्वृष्यं वन्ध्यासुतप्रदम् ७०
इति जीवनीयघृतम्
द्राक्षामधुकतोयाभ्यां सिद्धं वा ससितोपलम्
पिबेद्घृतं तथा क्षीरं गुदूचीस्वरसे शृतम् ७१
जीवकर्षभकौ मेदा ऋष्यप्रोक्ता शतावरी
मधुकं मधुपर्णी च काकोलीद्वयमेव च ७२
मुद्गमाषाख्यपर्णिन्यौ दशमूलं पुनर्नवा
बलामृता विदारी च साश्वगन्धाश्मभेदकः ७३
एषां कषायकल्काभ्यां सर्पिस्तैलं च साधयेत्
लाभतश्च वसामज्जं धान्वप्रातुदवैष्किरम् ७४
चतुर्गुणेन पयसा तत् सिद्धं वातशोणितम्
सर्वदेहाश्रितं हन्ति व्याधीन् घोरांश्च वातजान् ७५
स्थिरा श्वदंष्ट्रा बृहती सारिवा सशतावरी
काश्मर्याण्यात्मगुप्ता च वृश्चीरो द्वे बले तथा ७६
एषां क्वाथे चतुःक्षीरं पृथक् तैलं पृथग्घृतम्
मेदाशतावरीयष्टिजीवन्तीजीवकर्षभैः ७७
पक्त्वा मात्रा ततः क्षीरत्रिगुणाऽध्यर्धशर्करा
खजेन मथिता पेया वातरक्ते त्रिदोषजे ७८
तैलं पयः शर्करां च पाययेद्वा सुमूर्च्छितम्
सर्पिस्तैलसिताक्षौद्रैर्मिश्रं वाऽपि पिबेत् पयः ७९
अंशुमत्या शृतः प्रस्थः पयसो द्विसितोपलः
पाने प्रशस्यते तद्वत् पिप्पलीनागरैः शृतः ८०
बलाशतावरीरास्नादशमूलैः सपीलुभिः
श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं शृतं पयः ८१
धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम्
पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिलः ८२
क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः
बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशनः ८३
कषायमभयानां वा घृतभृष्टं पिबेन्नरः
क्षीरानुपानं त्रिवृताचूर्णं द्राक्षारसेन वा ८४
काश्मर्यं त्रिवृतां द्राक्षां त्रिफलां सपरूषकाम्
शृतं पिबेद्विरेकाय लवणक्षौद्रसंयुतम् ८५
त्रिफलायाः कषायं वा पिबेत् क्षौद्रेण संयुतम्
धात्रीहरिद्रामुस्तानां कषायं वा कफाधिकः ८६
योगैश्च कल्पविहितैरसकृत्तं विरेचयेत्
मृदुभिः स्नेहसंयुक्तैर्ज्ञात्वा वातं मलावृतम् ८७
निर्हरेद्वा मलं तस्य सघृतैः क्षीरबस्तिभिः
न हि बस्तिसमं किंचिद्वातरक्तचिकित्सितम् ८८
बस्तिवंक्षणपार्श्वोरुपर्वास्थिजठरार्तिषु
उदावर्ते च शस्यन्ते निरूहाः सानुवासनाः ८९
दद्यात्तैलानि चेमानि बस्तिकर्मणि बुद्धिमान्
नस्याभ्यञ्जनसेकेषु दाहशूलोपशान्तये ९०
मधुपर्ण्यास्तुलायास्तु कषाये पादशेषिते
तैलाढकं समक्षीरं पचेत् कल्कैः पलोन्मितैः ९१
शतपुष्पावरीमूर्वापयस्यागुरुचन्दनैः
स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः ९२
काकोलीक्षीरकाकोलीतामलक्यद्धिपद्मकैः
जीवकर्षभजीवन्तीत्वक्पत्रनखवालकैः ९३
प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः
चतुष्प्रयोगात्तद्धन्ति तैलं मारुतशोणितम् ९४
सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा
वातासृक्पित्तदाहार्तिज्वरघ्नं बलवर्णकृत् ९५
इति मधुपर्ण्यादितैलम्
मधुकस्य शतं द्राक्षा खर्जूराणि परूषकम्
मधूकौदनपाक्यौ च प्रस्थं मुञ्जातकन्तथा ९६
काश्मर्याढकमित्येतच्चतुर्द्रोणे पचेदपाम्
शेषेऽष्टभागे पूते च तस्मिंस्तैलाढकं पचेत् ९७
तथाऽऽमलककाश्मर्यविदारीक्षुरसैः समैः
चतुर्द्रोणेन पयसा कल्कं दत्त्वा पलोन्मितम् ९८
कदम्बामलकाक्षोटपद्मबीजकशेरुकम्
शृङ्गाटकं शृङ्गवेरं लवणं पिप्पलीं सिताम् ९९
जीवनीयैश्च संसिद्धं क्षौद्रप्रस्थेन संसृजेत्
नस्याभ्यञ्जनपानेषु बस्तौ चापि नियोजयेत् १००
वातव्याधिषु सर्वेषु मन्यास्तम्भे हनुग्रहे
सर्वाङ्गैकाङ्गवाते च क्षतक्षीणे क्षतज्वरे १०१
सुकुमारकमित्येतद्वातास्रामयनाशनम्
स्वरवर्णकरं तैलमारोग्यबलपुष्टिदम् १०२
इति सुकुमारकतैलम्
गुडूचीं मधुकं ह्रस्वं पञ्चमूलं पुनर्नवाम्
रास्नामेरण्डमूलं च जीवनीयानि लाभतः १०३
पलानां शतकैर्भागेर्बलापञ्चशतं तथा
कोलबिल्वयवान्माषान्कुलत्थांश्चाढकोन्मितान् १०४
काश्मर्याणां सुशुष्काणां द्रोणं द्रोणशतेऽम्भसि
साधयेज्जर्जरं धौतं चतुर्द्रोणं च शेषयेत् १०५
तैलद्रोणं पचेत्तेन दत्त्वा पञ्चगुणं पयः
पिष्ट्वा त्रिपलिकं चैव चन्दनोशीरकेशरम् १०६
पत्रैलागुरुकुष्ठानि तगरं मधुयष्टिकाम्
मञ्जिष्ठाष्टपलं चैव तत् सिद्धं सार्वयौगिकम् १०७
वातरक्ते क्षतक्षीणे भारार्ते क्षीणरेतसि
वेपनाक्षेपभग्नानां सर्वाङ्गैकाङ्गरोगिणाम् १०८
योनिदोषमपस्मारमुन्मादं खञ्जपङ्गुताम्
हन्यात् प्रसवनं चैतत्तैलाग्र्यममृताह्वयम् १०९
इत्यमृताद्यं तैलम्
पद्मवेतसयष्ट्याह्वफेनिलापद्मकोत्पलैः
पृथक्पञ्चपलैर्दर्भबलाचन्दनकिंशुकैः ११०
जले शृतैः पचेत्तैलप्रस्थं सौवीरसंमितम्
लोध्रकालीयकोशीरजीवकर्षभकेशरैः १११
मदयन्तीलतापत्रपद्मकेशरपद्मकैः
प्रपौण्डरीककाश्मर्यमांसीमेदाप्रियङ्गुभिः ११२
कुङ्कुमस्य पलार्धेन मञ्जिष्ठायाः पलेन च
महापद्ममिदं तैलं वातासृग्ज्वरनाशनम् ११३
इति महापद्मं तैलम्
पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम्
स्यात् पिष्टैः सर्जमञ्जिष्ठावीराकाकोलीचन्दनैः ११४
खुड्डाकपद्मकमिदं तैलं वातास्रदाहनुत्
इति खड्डाकपद्मकं तैलम्
शतेन यष्टिमधुकात् साध्यं दशगुणं पयः ११५
तस्मिंस्तैले चतुर्द्रोणे मधुकस्य पलेन तु
सिद्धं मधुककाश्मर्यरसैर्वा वातरक्तनुत् ११६
मधुपर्ण्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे
क्षीरे साध्यं शतं कृत्वा तदेवं मधुकाच्छते ११७
सिद्धं देयं त्रिदोषे स्याद्वातास्ने श्वासकासनुत्
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ११८
इति शतपाकं मधुकतैलम्
बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्
सहस्रं शतवारं वा वातासृग्वातरोगनुत् ११९
रसायनमिदं श्रेष्ठमिन्द्रियाणां प्रसादनम्
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम् १२०
इति सहस्रपाकं शतपाकं वा बलातैलम्
गुडूचीरसदुग्धाभ्यां तैलं द्राक्षारसेन वा
सिद्धं मधुककाश्मर्यरसैर्वा वातरक्तनुत् १२१
आरनालाढके तैलं पादसर्जरसं शृतम्
प्रभूते खजितं तोये ज्वरदाहार्तिनुत् परम् १२२
समधूच्छिष्टमाञ्जिष्ठं ससर्जरससारिवम्
पिण्डतैलं तदभ्यङ्गाद्वातरक्तरुजापहम् १२३
इति पिण्डतैलम्
दशमूलशृतं क्षीरं सद्यः शूलनिवारणम्
परिषेकोऽनिलप्राये तद्वत् कोष्णेन सर्पिषा १२४
स्नेहैर्मधुरसिद्धैर्वा चतुर्भिः परिषेचयेत्
स्तम्भाक्षेपकशूलार्तं कोष्णैर्दाहे तु शीतलैः १२५
तद्वद्गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितैः
क्वाथैर्वा जीवनीयानां पञ्चमूलस्य वा भिषक् १२६
द्राक्षेक्षुरसमद्यानि दधिमस्त्वम्लकाञ्जिकम्
सेकार्थे तण्डुलक्षौद्रशर्कराम्बु च शस्यते १२७
कुमुदोत्पलपद्माद्यैर्मणिहारैः सचन्दनैः
शीततोयानुगैर्दाहे प्रोक्षणं स्पर्शनं हितम् १२८
चन्द्रपादाम्बुसंसिक्ते क्षौमपद्मदलच्छदे
शयने पुलिनस्पर्शशीतमारुतवीजिते १२९
चन्दनार्द्रस्तनकराः प्रिया नार्यः प्रियंवदाः
स्पर्शशीताः सुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम् १३०
सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत्
मधुकाश्वत्थत्वङ्मांसीवीरोदुम्बरशाद्वलैः १३१
जलजैर्यवचूणैर्वा सयष्ट्याह्वपयोघृतैः
सर्पिषा जीवनीयैर्वा पिष्टैर्लेपोऽर्तिदाहनुत् १३२
तिलाः प्रियालो मधुकं बिसं मूलं च वेतसात्
आजेन पयसा पिष्टः प्रलेपो दाहरागनुत् १३३
प्रपौण्डरीकमञ्जिष्ठादार्वीमधुकचन्दनैः
सितोपलैरकासक्तुमसूरोशीरपद्मकैः १३४
लेपो रुग्दाहवीसर्परागशोफनिवारणः
पित्तरक्तोत्तरे त्वेते लेपान् वातोत्तरे शृणु १३५
वातघ्नैः साधितः स्निग्धः कृशरो मुद्गपायसः
तिलसर्षपपिण्डैर्वाऽप्युपनाहो रुजापहः १३६
औदकप्रसहानूपवेशवाराः सुसंस्कृताः
जीवनीयौषधैः स्नेहयुक्ताः स्युरुपनाहने १३७
स्तम्भतोदरुगायामशोथाङ्गग्रहनाशनाः
जीवनीयौषधैः सिद्धा सपयस्का वसाऽपि वा १३८
घृतं सहचरान्मूलं जीवन्ती च्छागलं पयः
लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः १३९
क्षीरपिष्टामुमां लेपमेरण्डस्य फलानि च
कुर्याच्छूलनिवृत्त्यर्थं शताह्वामनिलेऽधिके १४०
समूलाग्रच्छदैरण्डक्वाथे द्विप्रास्थिकं पृथक्
घृतं तैलं वसा मज्जा चानूपमृगपक्षिणाम् १४१
कल्कार्थे जीवनीयानि गव्यं क्षीरमथाजकम्
हरिद्रोत्पलकुष्ठैलाशताह्वाश्वहनच्छदान् १४२
बिल्वमात्रान् पृथक् पुष्पं काकुभं चापि साधयेत्
मधूच्छिष्टपलान्यष्टौ दद्याच्छीतेऽवतारिते १४३
शूलेनैषोऽर्दिताङ्गानां लेपः सन्धिगतेऽनिले
वातरक्ते च्युते भग्ने खञ्जे कुब्जे च शस्यते १४४
शोफगौरवकण्ड्वाद्यैर्युक्ते त्वस्मिन् कफोत्तरे
मूत्रक्षारसुरापक्वं घृतमभ्यञ्जने हितम् १४५
पद्मकं त्वक् समधुकं सारिवा चेति तैर्घृतम्
सिद्धं समधुशुक्तं स्यात् सेकाभ्यङ्गे कफोत्तरे १४६
क्षारस्तैलं गवां मूत्रं घृतं च कटुकैः शृतम्
परिषेके प्रसंशन्ति वातरक्ते कफोत्तरे १४७
लेपः सर्षपनिम्बार्कहिंस्राक्षीरतिलैर्हितः
श्रेष्ठः सिद्धः कपित्थत्वग्घृतक्षीरैः ससक्तुभिः १४८
गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्
प्रलेपः शूलनुद्वातरक्ते वातकफोत्तरे १४९
तगरं त्वक् शताह्वैला कुष्ठं मुस्तं हरेणुका
दारु व्याघ्रनखं चाम्लपिष्टं वातकफास्रनुत् १५०
मधुशिग्रोर्हितं तद्वद्बीजं धान्याम्लपेषितम्
मुहुर्तं लिप्तमम्लैश्च सिञ्चेद्वातकफोत्तरम् १५१
त्रिफलाव्योषपत्रैलात्वक्क्षीरीचित्रकं वचाम्
विडङ्गं पिप्पलीमूलं रोमशं वृषकत्वचम् १५२
ऋद्धिं तामलकीं चव्यं समभागानि पेषयेत्
कल्यं लिप्तमयस्पात्रे मध्याह्ने भक्षयेत्ततः १५३
वर्जयेद्दधिशुक्तानि क्षारं वैरोधिकानि च
वातास्रे सर्वदोषेऽपि हितं शूलार्दिते परम् १५४
बुद्ध्वा स्थानविशेषांश्च दोषाणां च बलाबलम्
चिकित्सितमिदं कुर्यादूहापोहविकल्पवित् १५५
कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा
अतिवृद्ध्याऽनिले नादौ शस्तं स्नेहनबृंहणम् १५६
व्यायामशोधनारिष्टमूत्रपानैर्विरेचनैः
तक्राभयाप्रयोगैश्च क्षपयेत् कफमेदसी १५७
बोधिवृक्षकषायं तु प्रपिबेन्मधुना सह
वातरक्तं जयत्याशु त्रिदोषमपि दारुणम् १५८
पुराणयवगोधूमसीध्वरिष्टसुरासवैः
शिलाजतुप्रयोगैश्च गुग्गुलोर्माक्षिकस्य च १५९
गम्भीरे रक्तमाक्रान्तं स्याच्चेत्तद्वातवज्जयेत्
पश्चाद्वाते क्रियां कुर्याद्वातरक्तप्रसादनीम् १६०
रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति
भिन्नं स्रवति वा रक्तं विदग्धं पूयमेव वा १६१
तयोः क्रिया विधातव्या भेदशोधनरोपणैः
कुर्यादुपद्रवाणां च क्रियां स्वां स्वाच्चिकित्सितात् १६२
तत्र श्लोकाः--
हेतुः स्थानानि मूलं च यस्मात् प्रायेण सन्धिषु
कुप्यति प्राक् च यद्रूपं द्विविधस्य च लक्षणम् १६३
पृथग्भिन्नस्य लिङ्गं च दोषाधिक्यमुपद्रवाः
साध्यं याप्यमसाध्यं च क्रिया साध्यस्य चाखिला १६४
वातरक्तस्य निर्दिष्टा समासव्यासतस्तथा
महर्षिणाऽग्निवेशाय तथैवावस्थिकी क्रिया १६५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने
वातशोणितचिकित्सितं नामैकोनत्रिंशोऽध्यायः २९

त्रिंशोऽध्यायः
अथातो योनिव्यापच्चिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
दिव्यतीर्थौषधिमतश्चित्रधातुशिलावतः
पुण्ये हिमवतः पार्श्वे सुरसिद्धर्षिसेविते ३
विहरन्तं तपोयोगात्तत्वज्ञानार्थदर्शिनम्
पुनर्वसुं जितात्मानमग्निवेशोऽनु पृष्टवान् ४
भगवन् यदपत्यानां मूलं नार्यः परं नृणाम्
तद्विघातो गदैश्चासां क्रियते योनिमाश्रितैः ५
तस्मात्तेषां समुत्पत्तिमुत्पन्नानां च लक्षणम्
सौषधं श्रोतुमिच्छामि प्रजानुग्रहकाम्यया ६
इति शिष्येण पृष्टस्तु प्रोवाचर्षिवरोऽत्रिजः
विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसंग्रहे ७
मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च
जायन्ते दैवाच्च बीजदोषाच्च शृणु ताः पृथक् ८
वातलाहारचेष्टाया वातलायाः समीरणः
विवृद्धो योनिमाश्रित्य योनेस्तोदं संवेदनम् ९
स्तम्भं पिपीलिकासृप्तिमिव कर्कशतां तथा
करोति सुप्तिमायासं वातजांश्चापरान् गदान् १०
सा स्यात् सशब्दरुक्फेनतनुरूक्षार्तवाऽनिलात् व्यापत्कट्वम्ललवणक्षाराद्यैः पित्तजा भवेत् ११
दाहपाकज्वरोष्णार्ता नीलपितासितार्तवा
भृशोष्णकुणपस्रावा योनिः स्यात्पित्तदूषिता १२
कफोऽभिष्यन्दिभिर्वृद्धो योनिं चेद्दूषयेत् स्त्रियाः
स कुर्यात् पिच्छिलां शीतां कण्डुग्रस्ताल्पवेदनाम् १३
पाण्डुवर्णां तथा पाण्डुपिच्छिलार्तववाहिनीम्
समश्नन्त्या रसान् सर्वान्दूषयित्वा त्रयो मलाः १४
योनिगर्भाशयस्थाः स्वैर्योनिं युञ्जन्ति लक्षणैः
सा भवेद्दाहशूलार्ता श्वेतपिच्छिलवाहिनी १५
रक्तपित्तकरैर्नार्या रक्तं पित्तेन दूषितम्
अतिप्रवर्तते योन्यां लब्धे गर्भेऽपि सासृजा १६
योनिगर्भाशयस्थं चेत् पित्तं संदूषयेदसृक्
साऽरजस्का मता कार्श्यवैवर्ण्यजननी भृशम् १७
योन्यामधावनात् कण्डूं जाताः कुर्वन्ति जन्तवः
सा स्यादचरणा कण्ड्वा तयाऽतिनरकाङ्क्षिणी १८
पवनोऽतिव्यवायेन शोफसुप्तिरुजः स्त्रियाः
करोति कुपितो योनौ सा चातिचरणा मता १९
मैथुनादतिबालायाः पृष्ठकट्यूरुवंक्षणम्
रुजन् दूषयते योनिं वायुः प्राक्चरणा हि सा २०
गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात्
वायुः क्रुद्धः कफं योनिमुपनीय प्रदूषयेत् २१
पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम्
कफवातामयव्याप्ता सा स्याद्योनिरुपप्लुता २२
पित्तलाया नृसंवासे क्षवथूद्गारधारणात्
पित्तसंमूर्च्छितो वायुर्योनिं दूषयति स्त्रियाः २३
शूना स्पर्शाक्षमा सार्तिर्नीलपीतमसृक् स्रवेत्
श्रोणिवंक्षणपृष्ठार्तिज्वरार्तायाः परिप्लुता २४
वेगोदावर्तनाद्योनिमुदावर्तयतेऽनिलः
सा रुगार्ता रजः कृच्छ्रेणोदावृत्तं विमुञ्चति २५
आर्तवे सा विमुक्ते तु तत्क्षणं लभते सुखम्
रजसो गमनादूर्ध्वं ज्ञेयोदावर्तिनी बुधैः २६
अकाले वाहमानाया गर्भेण पिहितोऽनिलः
कर्णिकां जनयेद्योनौ श्लेष्मरक्तेन मूर्च्छितः २७
रक्तमार्गावरोधिन्या सा तया कर्णिनी मता
रौक्ष्याद्वायुर्यदा गर्भं जातं जातं विनाशयेत् २८
दुष्टशोणितजं नार्याः पुत्रघ्नी नाम सा मता
व्यवायमतितृप्ताया भजन्त्यास्त्वन्नपीडितः २९
वायुर्मिथ्यास्थिताङ्गाया योनिस्रोतसि संस्थितः
वक्रयत्याननं योन्याः साऽस्थिमांसानिलार्तिभिः ३०
भृशार्तिर्मैथुनाशक्ता योनिरन्तर्मुखी मता
गर्भस्थायाः रौक्ष्याद्वायुर्योनिं प्रदूषयन् ३१
मातृदोषादणुद्वारां कुर्यात् सूचीमुखी तु सा
व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितोऽनिलः ३२
कुर्याद्विण्मूत्रसङ्गार्तिं शोषं योनिमुखस्य च
षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयं गतम् ३३
सरुजं नीरुजं वाऽपि या स्रवेत् सा तु वामिनी
बीजदोषात्तु गर्भस्थमारुतोपहताशया ३४
नृद्वेषिण्यस्तनी चैव षण्ढी स्यादनुपक्रमा
विषमं दुःखशय्यायां मैथुनात् कुपितोऽनिलः ३५
गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः
असंवृतमुखी सार्ती रूक्षफेनास्रवाहिनी ३६
मांसोत्सन्ना महायोनिः पर्ववंक्षणशूलिनी
इत्येतैर्लक्षणैः प्रोक्ता विंशतिर्योनिजा गदाः ३७
न शुक्रं धारयत्येभिर्दोषैर्योनिरुपद्रुता
तस्माद्गर्भं न गृह्णाति स्त्री गच्छत्यामयान् बहून् ३८
गुल्मार्शःप्रदरादींश्च वाताद्यैश्चातिपीडनम्
असां षोडश यास्त्वन्त्या आद्ये द्वे पित्तदोषजे ३९
परिप्लुता वामिनी च वातपित्तात्मिके मते
कर्णिन्युपप्लुते वातकफाच्छेषास्तु वातजाः ४०
देहं वातादयस्तासां स्वैर्लिङ्गैः पीडयन्ति हि
स्नेहनस्वेदबस्त्यादि वातजास्वनिलापहम् ४१
कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च
श्लेष्मजासु च रूक्षोष्णं कर्म कुर्याद्विचक्षणः ४२
सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत्
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्पुनः ४३
पाणिना नामयेज्जिह्मां संवृतां वर्धयेत् पुनः
प्रयेशयेन्निःसृतां च विवृतां परिवर्तयेत् ४४
योनिः स्थानापवृत्ता हि शल्यभूता मता स्रियाः
सर्वां व्यापन्नयोनिं तु कर्मभिर्वमनादिभिः ४५
मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत्
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते ४६
वातव्याधिहरं कर्म वातार्तानां सदा हितम्
औदकानूपजैर्मांसैः क्षीरैः सतिलतण्डुलैः ४७
सवातघ्नौषधैर्नाडीकुम्भीस्वेदैरुपाचरेत्
अक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः ४८
स्विन्नां कोष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद्रसैः
बलाद्रोणद्वयक्वाथे घृततैलाढकं पचेत् ४९
स्थिरापयस्याजीवन्तीवीरर्षभकजीवकैः
श्रावणीपिप्पलीमुद्गपीलुमाषाख्यपर्णिभिः ५०
शर्कराक्षीरकाकोलीकाकनासाभिरेव च
पिष्टैश्चतुर्गुणक्षीरे सिद्धं पेयं यथाबलम् ५१
वातपित्तकृतान् रोगान् हत्वा गर्भं दधाति तत्
काश्मर्यत्रिफलाद्राक्षाकासमर्दपरूषकैः ५२
पुनर्नवाद्विरजनीकाकनासासहाचरैः
शतावर्या गुडूच्याश्च प्रस्थमक्षसमैर्घृतात् ५३
साधितं योनिवातघ्नं गर्भदं परमं पिबेत्
पिप्पलीकुञ्चिकाजाजीवृषकं सैन्धवं वचाम् ५४
यवक्षाराजमोदे च शर्करां चित्रकं तथा
पिष्ट्वा सर्पिषि भृष्टानि पाययेत प्रसन्नया ५५
योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये
वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् ५६
पिबेत् सलवणैर्मद्यैः पिप्पलीकुञ्चिके तथा
रास्नाश्वदंष्ट्रावृषकैः पिबेच्छूले शृतं पयः ५७
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचयेत्
सैन्धवं तगरं कुष्ठं बृहती देवदारु च ५८
समांशैः साधितं कल्कैस्तैलं धार्यं रुजापहम्
गुडूचीमालतीरास्नाबलामधुकचित्रकैः ५९
निदिग्धिकादेवदारुयूथिकाभिश्च कार्षिकैः
तैलप्रस्थं गवां मूत्रे क्षीरे च द्विगुणे पचेत् ६०
वातार्तायाः पिचुं दद्याद्योनौ च प्रणयेत्ततः
वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः ६१
उष्णाः सिग्धाः प्रकर्तव्यास्तैलानि स्नेहनानि च
हिंस्राकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत्
पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफातुरा ६२
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः
शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च ६३
पित्तघ्नौषधसिद्धानि कार्याणि भिषजा तथा
शतावरीमूलतुलाश्चतस्रः संप्रपीडयेत् ६४
रसेन क्षीरतुल्येन पचेत्तेन घृताढकम्
जीवनीयैः शतावर्या मृद्वीकाभिः परुषकैः ६५
पिष्टैः प्रियालैश्चाक्षांशैर्द्वियष्टिमधुकैर्भिषक्
सिद्धे शीते च मधुनः पिप्पल्याश्च पलाष्टकम् ६६
सितादशपलोन्मिश्राल्लिह्यात् पाणितलं ततः
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं च तत् ६७
क्षतं क्षयं रक्तपित्तं कासं श्वासं हलीमकम्
कामलां वातरक्तं च वीसर्पं हृच्छिरोग्रहम् ६८
उन्मादारत्यपस्मारान् वातपित्तात्मकाञ्जयेत्
इति बृहच्छतावरीघृतम्
एवमेव क्षीरसर्पिजीवनीयोपसाधितम् ६९
गर्भदं पित्तलानां च योनीनां स्याद्भिषग्जितम्
योन्यां श्लेष्मप्रदुष्टायां वर्तिः संशोधनी हिता ७०
वाराहे बहुशः पित्ते भावितैर्लक्तकैः कृता
भावितं पयसाऽर्कस्य यवचूर्णं ससैन्धवम् ७१
वर्तिः कृता मुहुर्धार्या ततः सेच्या सुखाम्बुना
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः ७२
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी
उदुम्बरशलाटूनां द्रोणमब्द्रोणसंयुतम् ७३
सपञ्चवल्ककुलकमालतीनिम्बपल्लवम्
निशां स्थाप्य जले तस्मिंस्तैलप्रस्थं विपाचयेत् ७४
लाक्षाधवपलाशत्वङ्निर्यासैः शाल्मलेन च
पिष्टैः सिद्धस्य तैलस्य पिचुं योनौ निधापयेत् ७५
सशर्करैः कषायैश्च शीतैः कुर्वीत सेचनम्
पिच्छिला विवृता कालदुष्टा योनिश्च दारुणा ७६
सप्ताहाच्छुध्यति क्षिप्रमपत्यं चापि विदन्ति
उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात् ७७
तैलं क्वाथेन तस्यैव सिद्धं धार्यं च पूर्ववत्
धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः ७८
जम्ब्वाम्रमध्यकासीसलोध्रकट्फलतिन्दुकैः
सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः ७९
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्
तैलप्रस्थं पिचुं दद्याद्योनौ च प्रणयेत्ततः ८०
कटीपृष्ठत्रिकाभ्यङ्गं स्नेहबस्तिं च दापयेत्
पिच्छिलस्राविणी योनिर्विप्लुतोपप्लुता तथा ८१
उत्ताना चोन्नता शूना सिध्येत् सस्फोटशूलिनी
करीरधवनिम्बार्कबुकपुल्लासजाम्बवैः ८२
जिङ्गिनीवृषमूलानां क्वाथैर्मार्द्वीकसीधुभिः
सशुक्तैर्धावनं मिश्रैर्योन्यास्रावविनाशनम् ८३
कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसैः
पिप्पल्ययोरजःपथ्याप्रयोगा मधुना हिताः ८४
श्लेष्मलायां कटुप्रायाः समूत्रा बस्तयो हिताः
पित्ते समधुरक्षीरा वाते तैलाम्लसंयुताः ८५
सन्निपातसमुत्थायाः कर्म साधारणं हितम्
रक्तयोन्यामसृग्वर्णैरनुबन्धं समीक्ष्य च ८६
ततः कुर्याद्यथादोषं रक्तस्थापनमौषधम्
तिलचूर्णं दधि घृतं फाणितं शौकरी वसा ८७
क्षौद्रेण संयुतं पेयं वातासृग्दरनाशनम्
वराहस्य रसो मेद्यः सकौलत्थोऽनिलाधिके ८८
शर्कराक्षौद्रयष्ट्याह्वनागरैर्वा युतं दधि
पयस्योत्पलशालूकबिसकालीयकाम्बुदम् ८९
सपयःशर्कराक्षौद्रं पैत्तिकेऽसृग्दरे पिबेत्
पाठा जम्ब्वाम्रयोर्मध्यं शिलोद्भेदं रसाञ्जनम् ९०
अम्बष्ठा शाल्मलीवेष्टं समङ्गां वत्सकत्वचम्
बाह्लीकातिविषे बिल्वं मुस्तं लोध्रं सगैरिकम् ९१
कट्वङ्गं मरिचं शुण्ठीं मृद्वीकां रक्तचन्दनम्
कट्फलं वत्सकानन्ताधातकीमधुकार्जुनम् ९२
पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत्
तानि क्षौद्रेण संयोज्य पिबेत्तण्डुलवारिणा ९३
अर्शःसु चातिसारेषु रक्तं यच्चोपवेश्यते
दोषागन्तुकृता ये च बालानां तांश्च नाशयेत् ९४
योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम्
स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत् ९५
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्
इति पुष्यानुगचूर्णम्
तण्डुलीयकमूलं तु सक्षौद्रं तण्डुलाम्बुना ९६
रसाञ्जनं च लाक्षां च छागेन पयसा पिबेत्
पत्रकल्कौ घृते भृष्टौ राजादनकपित्थयोः ९७
पित्तानिलहरौ पैत्ते सर्वथैवास्रपित्तजित्
मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु ९८
मद्यैर्निम्बगुडूच्यौ वा कफजेऽसृग्दरे पिबेत्
विरेचनं महातिक्तं पैत्तिकेऽसृग्दरे पिबेत् ९९
हितं गर्भपरिस्रावे यच्चोक्तं तच्च कारयेत्
काश्मर्यकुटजक्वाथसिद्धमुत्तरबस्तिना १००
रक्तयोन्यरजस्कानां पुत्रघ्न्याश्च हितं घृतम्
मृगाजाविवराहासृग्दध्यम्लफलसर्पिषा १०१
अरजस्का पिबेत् सिद्धं जीवनीयैः पयोऽपि वा
कर्णिन्यचरणाशुष्कयोनिप्राक्चरणासु च १०२
कफवाते च दातव्यं तैलमुत्तरबस्तिना
गोपित्ते मस्त्यपित्ते वा क्षौमं त्रिःसप्तभावितम् १०३
मधुना किण्वचूर्णं वा दद्यादचरणापहम्
स्रोतसां शोधनं कण्डूक्लेद्शोफहरं च तत् १०४
वातघ्नैः शतपाकैश्च तैलेः प्रागतिचारिणी
आस्थाप्या चानुवास्या च स्वेद्या चानिलसूदनैः १०५
स्नेहद्रव्यैस्तथाऽऽहारैरुपनाहैश्च युक्तितः
शताह्वायवगोधूमकिण्वकुष्ठप्रियङ्गुभिः १०६
बलाखुपर्णिकाश्र्याह्वैः संयावो धारणः स्मृतः
वामिन्युपप्लुतानां च स्नेहस्वेदादिकः क्रमः १०७
कार्यस्ततः स्नेहपिचुस्ततः संतर्पणं भवेत्
शल्लकीजिङ्गिनीजम्बूधवत्वक्पञ्चवल्कलैः १०८
कषायैः साधितः स्नेहपिचुःस्याद्बिप्लुतापहः
कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्र्यसैन्धवैः १०९
बस्तमूत्रकृता धार्या सर्वं च श्लेष्मनुद्धितम्
त्रैवृतं स्नेहनं स्वेदो ग्राम्यानूपौदका रसाः ११०
दशमूलपयोबस्तिश्चोदावर्तानिलार्तिषु
त्रैवृतेनानुवास्या च बस्तिश्चोत्तरसंज्ञितः १११
एतदेव महायोन्यां स्रस्तायां च विधीयते
वसा ऋक्षवराहाणां घृतं च मधुरैः शृतम् ११२
पूरयित्वा महायोनिं बध्नीयात् क्षौमलक्तकैः
प्रस्रस्तां सर्पिषाऽभ्यज्य क्षीरस्विन्नां प्रवेश्य च ११३
बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः
यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत् ११४
सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः
नहि वातादृते योनिर्नारीणां संप्रदुष्यति ११५
शमयित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम्
रोहितकान्मूलकल्कं पाण्डुरे प्रदरे पिबेत् ११६
जलेनामलकीबीजकल्कं वा ससितामधुम्
मधुनाऽऽमलकाच्चूर्णं रसं वा लेहयेच्च ताम् ११७
न्यग्रोधत्वक्कषायेण लोध्रकल्कं तथा पिबेत्
आस्रावे क्षौमपट्टं वा भावितं तेन धारयेत् ११८
प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम्
योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा ११९
धार्या मधुयुता वर्तिः कषायाणां च सर्वशः
स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतैः १२०
सरलागुग्गुलुयवैः सतैलकटुमत्स्यकैः
कासीसं त्रिफला कांक्षी समङ्गाऽऽम्रास्थि धातकी १२१
पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः
पलाशसर्जजम्बूत्वक्समङ्गामोचधातकीः १२२
सपिच्छिलापरिक्लिन्नास्तम्भनः कल्क इष्यते
स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम् १२३
धारयेद्वेशवारं वा पायसं कृशरां तथा
दुर्गन्धानां कषायः स्यात्तौवरः कल्क एव वा १२४
चूर्णं वा सर्वगन्धानां पूतिगन्धापकर्षणम्
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः १२५
अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति
पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम् १२६
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्
सलिङ्गा व्यापदो योनेः सनिदानचिकित्सिताः १२७
उक्ता विस्तरतः सम्यङ्मुनिना तत्त्वदर्शिना
पुनरेवाग्निवेशस्तु पप्रच्छ भिषजा वरम् १२८
आत्रेयमुपसङ्गम्य शुक्रदोषास्त्वयाऽनघ
रोगाध्याये समुद्दिष्टा ह्यष्टौ पुंसामशेषतः १२९
तेषां हेतुं भिषक्श्रेष्ठ दुष्टादुष्टस्य चाकृतिम्
चिकित्सितं च कार्त्स्न्येन क्लैब्यं यच्च चतुर्विधम् १३०
उपद्रवेषु योनीनां प्रदरो यश्च कीर्तितः
तेषां निदानं लिङ्गं च चिकित्सां चैव तत्त्वतः १३१
समासव्यासभेदेन प्रब्रूहि भिषजां वर
तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गवः १३२
बीजं यस्माद्व्यवाये तु हर्षयोनिसमुत्थितम्
शुक्रं पौरुषमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु १३३
यथा बीजमकालाम्बुकृमिकीटाग्निदूषितम्
न विरोहति संदुष्टं तथा शुक्रं शरीरिणाम् १३४
अतिव्यवायाद्व्यायामादसात्म्यानां च सेवनात्
अकाले वाऽप्ययोनौ वा मैथुनं न च गच्छतः १३५
रूक्षतिक्तकषायातिलवणाम्लोष्णसेवनात्
नारीणामरसज्ञानां गमनाज्जरया तथा १३६
चिन्ताशोकादविस्रम्भाच्छस्त्रक्षाराग्निविभ्रमात्
भयात्क्रोधादभीचाराद्व्याधिभिः कर्शितस्य च १३७
वेगाघातात् क्षताच्चापि धातूनां संप्रदूषणात्
दोषाः पृथक् समस्ता वा प्राप्य रेतोवहाः सिराः १३८
शुक्रं संदूषयन्त्याशु तद्वक्ष्यामि विभागशः
फेनिलं तनु रूक्षं च विवर्णं पूति पिच्छिलम् १३९
अन्यधातूपसंसृष्टमवसादि तथाऽष्टमम्
फेनिलं तनु रूक्षं च कृच्छ्रेणाल्पं च मारुतात् १४०
भवत्युपहतं शुक्रं न तद्गर्भाय कल्पते
सनीलमथवा पीतमत्युष्णं पूतिगन्धि च १४१
दहल्लिङ्गं विनिर्याति शुक्रं पित्तेन दूषितम्
श्लेष्मणा बद्धमार्गं तु भवत्यत्यर्थपिच्छिलम् १४२
स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि
शुक्रं प्रवर्तते जन्तोः प्रायेण रुधिरान्वयम् १४३
वेगसंधारणाच्छुक्रं वायुना विहतं पथि
कृच्छ्रेण याति ग्रथितमवसादि तथाऽऽष्टमम् १४४
इति दोषाः समाख्याताः शुक्रस्याष्टौ सलक्षणाः
स्निग्धं घनं पिच्छिलं च मधुरं चाविदाहि च १४५
रेतः शुद्धं विजानीयाच्छ्वेतं स्फटिकसन्निभम्
वाजीकरणयोगैस्तैरुपयोगसुखैर्हितैः १४६
रक्तपित्तहरैर्योगैर्योनिव्यापदिकैस्तथा
दुष्टं यदा भवेच्छुक्रं तदा तत् समुपाचरेत् १४७
घृतं च जीवनीयं यच्च्यवनप्राश एव च
गिरिजस्य प्रयोगश्च रेतोदोषनपोहति १४८
वातान्विते हिताः शुक्रे निरूहाः सानुवासनाः
अभयामलकीयं च पैत्ते शस्तं रसायनम् १४९
मागध्यमृतलोहानां त्रिफलाया रसायनम्
कफोत्थितं शुक्रदोषं हन्याद्भल्लातकस्य च १५०
यदन्यधातुसंसृष्टं शुक्रं तद्वीक्ष्य युक्तितः
यथादोषं प्रयुञ्जीत दोषधातुभिषग्जितम् १५१
सर्पिः पयो रसाः शालिर्यवगोधूमषष्टिकाः
प्रशस्ताः शुक्रदोषेषु बस्तिकर्म विशेषतः १५२
इत्यष्टशुक्रदोषाणां मुनिनोक्तं चिकित्सितम्
रेतोदोषोद्भवं क्लैब्यं यस्माच्छुद्ध्यैव सिध्यति १५३
ततो वक्ष्यामि ते सम्यगग्निवेश यथातथम्
बीजध्वजोपघाताभ्यां जरया शुक्रसंक्षयात् १५४
क्लैब्यं संपद्यते तस्य शृणु सामान्यलक्षणम्
सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम् १५५
न याति लिङ्गशैथिल्यात् कदाचिद्याति वा यदि
श्वासार्तः स्विन्नगात्रश्च मोघसङ्कल्पचेष्टितः १५६
म्लानशिश्नश्च निर्बीजः स्यादेतत् क्लैब्यलक्षणम्
सामान्यलक्षणं ह्येतद्विस्तरेण प्रवक्ष्यते १५७
शीतरूक्षाल्पसंक्लिष्टविरुद्धाजीर्णभोजनात्
शोकचिन्ताभयत्रासात् स्त्रीणां चात्यर्थसेवनात् १५८
अभिचारादविस्रम्भाद्रसादीनां च संक्षयात्
वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात् १५९
नारीणामरसज्ञत्वात् पञ्चकर्मापचारतः
बीजोपघाताद्भवति पाण्डुवर्णः सुदुर्बलः १६०
अल्पप्राणोऽल्पहर्षश्च प्रमदासु भवेन्नरः
हृत्पाण्डुरोगतमककामलाश्रमपीडितः १६१
छर्द्यतीसारशूलार्तः कासज्वरनिपीडितः
बीजोपघातजं क्लैब्यं ध्वजभङ्गकृतं शृणु १६२
अत्यम्ललवणक्षारविरुद्धासात्म्यभोजनात्
अत्यम्बुपानाद्विषमात् पिष्टान्नगुरुभोजनात् १६३
दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात्
कन्यानां चैव गमनादयोनिगमनादपि १६४
दीर्घरोगां चिरोत्सृष्टां तथैव च रजस्वलाम्
दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम् १६५
ईदृशीं प्रमदां मोहाद्यो गच्छेत् कामहर्षितः
चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः १६६
अधावनाद्वा मेढ्रस्य शस्त्रदन्तनखक्षतात्
काष्ठप्रहारनिष्पेषाच्छूकानां चातिसेवनात् १६७
रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते
भवन्ति यानि रूपाणि तस्य वक्ष्यामतः परम्
श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते १६८
स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि
मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि १६९
पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः
वलयीकुरुते चापि कठिनश्च परिग्रहः १७०
ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते
रक्तं कृष्णं स्रवेच्चापि नीलमाविललोहितम् १७१
अग्निनेव च दग्धस्य तीव्रो दाहः सवेदनः
बस्तौ वृषणयोर्वाऽपि सीवन्यां वङ्क्षणेषु च १७२
कदाचित्पिच्छिलो वाऽपि पाण्डुः स्रावश्च जायते
श्वयथुर्जायते मन्दः स्तिमितोऽल्पपरिस्रवः १७३
चिराच्च पाकं व्रजति शीघ्रं वाऽथ प्रमुच्यते
जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च १७४
विशीर्यते मणिश्चास्य मेढ्रं मुष्कावथापि च
ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम् १७५
एतं पञ्चविधं केचिद्ध्वजभङ्गं प्रचक्षते
क्लैब्यं जरासंभवं हि प्रवक्ष्याम्यथ तच्छृणु १७६
जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते
अतिप्रवयसां शुक्रं प्रायशः क्षीयते नृणाम् १७६
रसादीनां संक्षयाच्च तथैवावृष्यसेवनात्
बलवीर्येन्द्रियाणां च क्रमेनैव परिक्षयात् १७८
परिक्षयादायुषश्चाप्यनाहाराच्छ्रमात् क्लमात्
जरासंभवजं क्लैब्यमित्यैर्हेतुभिर्नृणाम् १७९
जायते तेन सोऽत्यर्थं क्षीणधातुः सदुर्बलः
विवर्णो दुर्बलो दीनः क्षिप्रं व्याधिमथाश्नुते १८०
एतज्जरासंभवं हि चतुर्थं क्षयजं शृणु
अतीव चिन्तनाच्चैव शोकात्क्रोधाद्भयात्तथा १८१
ईर्ष्योत्कण्ठामदोद्वेगान् सदा विशति यो नरः
कृशो वा सेवते रूक्षमन्नपानं तथौषधम् १८२
दुर्बलप्रकृतिश्चैव निराहारो भवेद्यदि
असात्म्यभोजनाच्चापि हृदये यो व्यवस्थितः १८३
रसः प्रधानधातुर्हि क्षीयेताशु ततो नृणाम्
रक्तादयश्च क्षीयन्ते धातवस्तस्य देहिनः १८४
शुक्रावसानास्तेभ्योऽपि शुक्रं धाम परं मतम्
चेतसो वाऽतिहर्षेण व्यवायं सेवतेऽति यः १८५
तस्याशु क्षीयते शुक्रं ततः प्राप्नोति संक्षयम्
घोरं व्याधिमवाप्नोति मरणं वा स गच्छति १८६
शुक्रं तस्माद्विशेषेण रक्ष्यमारोग्यमिच्छता
एवं निदानलिङ्गाभ्यामुक्तं क्लैब्यं चतुर्विधम् १८७
केचित् क्लैब्ये त्वसाध्ये द्वे ध्वजभङ्गक्षयोद्भवे
वदन्ति शेफसश्छेदाद्वृषणोत्पाटनेन च १८८
मातापित्रोर्बीजदोषादशुभैश्चाकृतात्मनः
गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाः सिराः १८९
शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपहन्यते
तत्र संपूर्णसर्वाङ्गः स भवत्यपुमान् पुमान् १९०
एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात्
चिकित्सितमतस्तूर्ध्वं समासव्यासतः शृणु १९१
शुक्रदोषेषु निर्दिष्टं भेषजं यन्मयाऽनघ
क्लैब्योपशान्तये कुर्यात् क्षतक्षीणहितं च यत् १९२
बस्तयः क्षीरसर्पींषि वृष्ययोगाश्च ये मताः
रसायनप्रयोगाश्च सर्वानेतान् प्रयोजयेत् १९३
समीक्ष्य देहदोषाग्निबलं भेषजकालवित्
व्यवायहेतुजे क्लैब्ये तथा धातुविपर्यात् १९४
दैवव्यपाश्रयं चैव भेषजं चाभिचारजे
समासेनैतदुद्दिष्टं भेषजं क्लैब्यशान्तये १९५
विस्तरेण प्रवक्ष्यामि क्लैब्यानां भेषजं पुनः
सुस्विन्नस्निग्धगात्रस्य स्नेहयुक्तं विरेचनम् १९६
अन्नाशनं ततः कुर्यादथवाऽऽस्थापनं पुनः
प्रदद्यान्मतिमान् वैद्यस्ततस्तमनुवासयेत् १९७
पलाशैरण्डमुस्ताद्यैः पश्चादास्थापयेत्ततः
वाजीकरणयोगाश्च पूर्वं ये समुदाहृताः १९८
भिषजा ते प्रयोज्याः स्युः क्लैब्ये बीजोपघातजे
ध्वजभङ्गकृतं क्लैब्यं ज्ञात्वा तस्याचरेत् क्रियाम् १९९
प्रदेहान् परिषेकांश्च कुर्याद्वा रक्तमोक्षणम्
स्नेहपानं च कुर्वीत स्नेहं च विरेचनम् २००
अनुवासं ततः कुर्यादथवाऽऽस्थापनं पुनः
व्रणवच्च क्रियाः सर्वास्तत्र कुर्याद्विचक्षणः २०१
जरासंभवजे क्लैब्ये क्षयजे चैव कारयेत्
स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम् २०२
क्षीरसर्पिर्वृष्ययोगा बस्तयश्चैव यापनाः
रसायनप्रयोगाश्च तयोर्भेषजमुच्यते २०३
विस्तरेणैतदुद्दिष्टं क्लैब्यानां भेषजं मया
यः पूर्वमुक्तः प्रदरः शृणु हेत्वादिभिस्तु तम् २०४
याऽत्यर्थं सेवते नारी लवणाम्लगुरूणि च
कटून्यथ विदाहीनि स्निग्धानि पिशितानि च २०५
ग्राम्यौदकानि मेद्यानि कृशरां पायसं दधि
शुक्तमस्तुसुरादीनि भजन्त्याः कुपितोऽनिलः २०६
रक्तं प्रमाणमुष्क्रम्य गर्भाशयगताः सिराः
रजोवहाः समाश्रित्य रक्तमादाय तद्रजः २०७
यस्माद्विवर्धयत्याशु रसभावाद्विमानतः
तस्मादसृग्दरं प्राहुरेतत्तन्त्रविशारदाः २०८
रजः प्रदीर्यते यस्मात् प्रदरस्तेन स स्मृतः
सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च २०९
चतुर्विधं व्यासतस्तु वाताद्यैः सन्निपाततः
अतः परं प्रवक्ष्यामि हेत्वाकृतिभिषग्जितम् २१०
रूक्षादिभिर्मारुतस्तु रक्तमादाय पूर्ववत्
कुपितः प्रदरं कुर्याल्लक्षणं तस्य मे शृणु २११
फेनिलं तनु रूक्षं च श्यावं चारुणमेव च
किंशुकोदकसङ्काशं सरुजं वाऽथ नीरुजम् २१२
कटिवङ्क्षणहृत्पार्श्वपृष्ठश्रोणिषु मारुतः
कुरुते वेदनां तीव्रामेतद्वातात्मकं विदुः २१३
अम्लोष्णलवणक्षारैः पित्तं प्रकुपितं यदा
पूर्ववत् प्रदरं कुर्यात् पैत्तिकं लिङ्गतः शृणु २१४
सनीलमथवा पीतमप्युष्णमसितं तथा
नितान्तरक्तं स्रवति मुहुर्मुहुरथार्तिमत् २१५
दाहरागतृषामोहज्वरभ्रमसमायुतम्
असृग्दरं पैत्तिकं स्याच्छ्लैष्मिकं तु प्रवक्ष्यते २१६
गुर्वादिभिर्हेतुभिश्च पूर्ववत् कुपितः कफः
प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु २१७
पिच्छिलं पाण्डुवर्णं च गुरु स्निग्धं च शीतलम्
स्रवत्यसृक् श्लेष्मलं च घनं मन्दरुजाकरम् २१८
छर्द्यरोचकहृल्लासश्वासकाससमन्वितम्
वक्ष्यते क्षीरदोषाणां सामान्यमिह कारणम् २१९
यत्तदेव त्रिदोषस्य कारणं प्रदरस्य तु
त्रिलिङ्गसंयुतं विद्यान्नैकावस्थमसृग्दरम् २२०
नारी त्वतिपरिक्लिष्टा यदा प्रक्षीणशोणिता
सर्वहेतुसमाचारादतिवृद्धस्तदाऽनिलः २२१
रक्तमार्गेण सृजति प्रत्यनीकबलं कफम्
दुर्गन्धं पिच्छिलं पीतं विदग्धं पित्ततेजसा २२२
वसां मेदश्च यावद्धि समुपादाय वेगवान्
सृजत्यपत्यमार्गेण सर्पिर्मज्जवसोपमम् २२३
शश्वत् स्रवत्यथास्रावं तृष्णादाहज्वरान्विताम्
क्षीणरक्तां दुर्बलां स तामसाध्यां विवर्जयेत् २२४
मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च
नैवातिबहु नात्यल्पमार्तवं शुद्धमादिशेत् २२५
गुञ्जाफलसवर्णं च पद्मालक्तकसन्निभम्
इन्द्रगोपकसङ्काशमार्तवं शुद्धमादिशेत् २२६
योनीनां वातलाद्यानां यदुक्तमिह भेषजम्
चतुर्णां प्रदराणां च तत् सर्वं कारयेद्भिषक् २२७
रक्तातिसारिणां यच्च तथा शोणितपित्तिनाम्
रक्तार्शसां च यत् प्रोक्तं भेषजं तच्च कारयेत् २२८
धात्रीस्तनस्तन्यसंपदुक्ता विस्तरतः पुरा
स्तन्यसंजननं चैव स्तन्यस्य च विशोधनम् २२९
वातादिदुष्टे लिङ्गं च क्षीणस्य च चिकित्सितम्
तत्सर्वमुक्तं ये त्वष्टौ क्षीरदोषाः प्रकीर्तिताः २३०
वातादिष्वेव तान् विद्याच्छास्त्रचक्षुर्भिषक्तमः
त्रिविधास्तु यतः शिष्यास्ततो वक्ष्यामि विस्तरम् २३१
अजीर्णासात्म्यविषमविरुद्धात्यर्थभोजनात्
लवणाम्लकटुक्षारप्रक्लिन्नानां च सेवनात् २३२
मनःशरीरसंतापादस्वप्नान्निशि चिन्तनात्
प्राप्तवेगप्रतीघातादप्राप्तोदीरणेन च २३३
परमान्नं गुडकृतं कृशरां दधि मन्दकम्
अभिष्यन्दीनि मांसानि ग्राम्यानूपौदकानि च २३४
भुक्त्वा भुक्त्वा दिवास्वप्नान्मद्यस्यातिनिषेवणात्
अनायासादभीघातात् क्रोधाच्चातङ्ककर्शनैः २३५
दोषाः क्षीरवहाः प्राप्य सिराः स्तन्यं प्रदूष्य च
कुर्युरष्टविधं दोषं लिङ्गतस्तन्निबोध मे २३६
वैरस्यं फेनसङ्घातो रौक्ष्यं चेत्यनिलात्मके
पित्ताद्वैवर्ण्यदौर्गन्ध्ये स्नेहपैच्छिल्यगौरवम् २३७
कफाद्भवति रूक्षाद्यैरनिलः स्वैः प्रकोपणैः
क्रुद्धः क्षीराशयं प्राप्य रसं स्तन्यस्य दूषयेत् २३८
विरसं वातसंसृष्टं कृशीभवति तत् पिबन्
न चास्य स्वदते क्षीरं कृच्छ्रेण च विवर्धते २३९
तथैव वायुः कुपितः स्तन्यमन्तर्विलोडयन्
करोति फेनसङ्घातं तत्तु कृच्छ्रात् प्रवर्तते २४०
तेन क्षामस्वरो बालो बद्धविण्मूत्रमारुतः
वातिकं शीर्षरोगं वा पीनसं वाऽधिगच्छति २४१
पूर्ववत् कुपितः स्तन्ये स्नेहं शोषयतेऽनिलः
रूक्षं तत् पिबतो रौक्ष्याद्बलह्रासः प्रजायते २४२
पित्तमुष्णादिभिः क्रुद्धं स्तन्याशयमभिप्लुतम्
करोति स्तन्यवैवर्ण्यं नीलपीतासितादिकम् २४३
विवर्णगात्रः स्विन्नः स्यात्तृष्णालुर्भिन्नविट् शिशुः
नित्यमुष्णशरीरश्च नाभिनन्दति तं स्तनम् २४४
पूर्ववत् कुपिते पित्तेदौर्गन्ध्यं क्षीरमृच्छति
पाण्ड्वामयस्तत्पिबतः कामला च भवेच्छिशोः २४५
क्रुद्धो गुर्वादिभिः श्लेष्मा क्षीराशयगतः स्त्रियाः
स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु २४६
छर्दनः कुन्थनस्तेन लालालुर्जायते शिशुः
नित्योपदिग्धैः स्रोतोभिर्निद्राक्लमसमन्वितः २४७
श्वासकासपरीतस्तु प्रसेकतमकान्वितः
अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा २४८
लालालुः शूनवक्त्राक्षिर्जडः स्यात्तत् पिबञ्छिशुः
कफः क्षीराशयगतो गुरुत्वात् क्षीरगौरवम् २४९
करोति गुरु तत् पीत्वा बालो हृद्रोगमृच्छति
अन्ये च विविधाः रोगाः दोषैः क्षीरसमाश्रितैः २५०
क्षीरे वातादिभिर्दुष्टे संभवन्ति तदात्मकाः
तत्रादौ स्तन्यशुद्ध्यर्थं धात्रीं स्नेहोपपादिताम् २५१
संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत्
वचाप्रियङ्गुयष्ट्याह्वफलवत्सकसर्षपैः २५२
कल्कैर्निम्बपटोलानां क्वाथैः सलवणैर्वमेत्
सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः २५३
दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत्
त्रिवृतामभयां वाऽपि त्रिफलारससंयुताम् २५४
पाययेन्मधुसंयुक्तामभयां वाऽपि केवलाम्
पाययेन्मूत्रसंयुक्तां विरेकार्थं च शास्त्रवित् २५५
सम्यग्विरिक्तां मतिमान् कृतसंसर्जनां पुनः
ततो दोषावशेषघ्नैरन्नपानैरुपाचरेत् २५६
शालयः षष्टिका वा स्युः श्यामाका भोजने हिताः
प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा २५७
वंशवेत्रकलायाश्च शाकार्थे स्नेहसंस्कृताः
मुद्गान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत् २५८
निम्बवेत्राग्रकुलकवार्ताकामलकैः शृतान्
सव्योषसैन्धवान् यूषान्दापयेत्स्तन्यशोधनान् २५९
शशान् कपिञ्जलानेणान् संस्कृतांश्च प्रदापयेत्
शार्ङ्गेष्टासप्तपर्णत्वगश्वगन्धाशृतं जलम् २६०
पाययेताथवा स्तन्यशुद्धये रोहिणीशृतम्
अमृतासप्तपर्णत्वक्क्वाथं क्वाथञ्च नागरात् २६१
किराततिक्तकक्वाथं श्लोकपादेरितान् पिबेत्
त्रीनेतान्स्तन्यशुद्ध्यर्थमिति सामान्यभेषजम् २६२
कीर्तितं स्तन्यदोषाणां पृथगन्यं निबोधत
पाययेद्विरसक्षीरां द्राक्षामधुकसारिवाः २६३
श्लक्ष्णपिष्टां पयस्यां च समालोड्य सुखाम्बुना
पञ्चकोलकुलत्थैश्च पिष्टैरालेपयेत् स्तनौ २६४
शुष्कौ प्रक्षाल्य निर्दुह्यात्तथा स्तन्यं विशुध्यति
फेनसङ्घातवत्क्षीरं यस्यास्तां पाययेत् स्त्रियम् २६५
पाठानागरशार्ङ्गेष्टामूर्वाः पिष्ट्वा सुखाम्बुना
अञ्जनं नागरं दारु बिल्वमूलं प्रियङ्गवः २६६
स्तनयोः पूर्ववत् कार्यं लेपनं क्षीरशोधनम्
किराततिक्तकं शुण्ठीं सामृतां क्वाथयेद्भिषक् २६७
तं क्वाथं पाययेद्धात्रीं स्तन्यदोषनिबर्हणम्
स्तनौ चालेपयेत् पिष्टैर्यवगोधूमसर्षपैः २६८
षड्विरेकाश्रितीयोक्तैरौषधैः स्तन्यशोधनैः
रूक्षक्षीरा पिबेत् क्षीरं तैर्वा सिद्धं घृतं पिबेत् २६९
पूर्ववज्जीवकाद्यं च पञ्चमूलं प्रलेपनम्
स्तनयोः संविधातव्यं सुखोष्णं स्तन्यशोधनम् २७०
यष्टीमधुकमृद्वीकापयस्यासिन्धुवारिकाः
शीताम्बुना पिबेत्कल्कं क्षीरविवर्ण्यनाशनम् २७१
द्राक्षामधुककल्केन स्तनौ चास्याः प्रलेपयेत्
प्रक्षाल्य वारिणा चैव निर्दुह्यातौ पुनः पुनः २७२
विषाणिकाजशृङ्ग्यौ च त्रिफलां रजनीं वचाम्
पिबेच्छीताम्बुना पिष्ट्वा क्षीरदौर्गन्ध्यनाशिनीम् २७३
लिह्याद्वाऽप्यभयाचूर्णं सव्योषं माक्षिकप्लुतम्
क्षीरदौर्गन्ध्यनाशार्थं धात्री पथ्याशिनी तथा २७४
सारिवोशीरमञ्जिष्ठाश्लेष्मातककुचन्दनैः
पत्राम्बुचन्दनोशीरैः स्तनौ चास्याः प्रलेपयेत् २७५
स्निग्धक्षीरा दारुमुस्तपाठाः पिष्ट्वा सुखाम्बुना
पीत्वा ससैन्धवाः क्षिप्रं क्षीरशुद्धिमवाप्नुयात् २७६
पाययेत् पिच्छिलक्षीरां शार्ङ्गेष्टामभयां वचाम्
मुस्तनागरपाठाश्च पीताः स्तन्यविशोधनाः २७७
तक्रारिष्टं पिबेच्चापि यदुक्तं गुदजापहम्
विदारीबिल्वमधुकैः स्तनौ चास्याः प्रलेपयेत् २७८
त्रायमाणामृतानिम्बिपटोलत्रिफलाशृतम्
गुरुक्षीरा पिबेदाशु स्तन्यदोषविशुद्धये २७९
पिबेद्वा पिप्पलीमूलचव्यचित्रकनागरम्
बलानगरशार्ङ्गेष्टामूर्वाभिर्लेपयेत् स्तनौ २८०
पृश्निपर्णीपयस्याभ्यां स्तनौ चास्याः प्रलेपयेत्
अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः २८१
निर्दिष्टाः क्षीरदोषोत्थास्तथोक्ताः केचिदामयाः
दोषदूष्यमलाश्चैव महतां व्याधयश्च ये २८२
त एव सर्वे बालानां मात्रा त्वल्पतरा मता
निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम् २८३
वाक्चेष्टयोरसामर्थ्यं वीक्ष्य बालेषु शास्त्रवित्
भेषजं स्वल्पमात्रं तु यथाव्याधि प्रयोजयेत् २८४
मधुराणि कषायाणि क्षीरवन्ति मृदूनि च
प्रयोजयेद्भिषग्बाले मतिमानप्रमादतः २८५
अत्यर्थस्निग्धरूक्षोष्णमम्लं कटुविपाकि च
गुरु चौषधपानान्नमेतद्बालेषु गर्हितम् २८६
समासात् सर्वरोगाणामेतद्बालेषु भेषजम्
निर्दिष्टं शास्नविद्वैद्यः प्रविविच्य प्रयोजयेत् २८७
भवन्ति चात्र--
इति सर्वविकाराणामुक्तमेतच्चित्सितम्
स्थानमेतद्धि तन्त्रस्य रहस्यं परमुत्तमम् २८८
अस्मिन् सप्तदशाध्यायाः कल्पाः सिद्धय एव च
नासाद्यन्तेऽग्निवेशस्य तन्त्रे चरकसंस्कृते २८९
तानेतान् कापिलबलिः शेषान् दृढबलोऽकरोत्
तन्त्रस्यास्य महार्थस्य पूरणार्थं यथातथम् २९०
रोगा येऽप्यत्र नोद्दिष्टा बहुत्वन्नामरूपतः
तेषामप्येतदेव स्याद्दोषादीन् वीक्ष्य भेषजम् २९१
दोषदूष्यनिदानानां विपरीतं हितं ध्रुवम्
उक्तानुक्तान् गदान् सर्वान् सम्यग्युक्तं नियच्छति २९२
देशकालप्रमाणानां सात्म्यासात्म्यस्य चैव हि
सम्यग्योगोऽन्यथा ह्येषां पथ्यमप्यन्यथा भवेत् २९३
आस्यादामाशयस्थान् हि रोगान् नस्तः शिरोगतान्
गुदात् पक्वाशयस्थांश्च हन्त्याशु दत्तमौषधम् २९४
शरीरावयवात्येषु विसर्पपिडकादिषु
यथादेशं प्रदेहादि शमनं स्याद्विशेषतः २९५
दिनातुरौषधव्याधिजीर्णलिङ्गर्त्ववेक्षणम्
कालं विद्याद्दिनावेक्षः पूर्वाह्णे वमनं यथा २९६
रोग्यवेक्षो यथा प्रातर्निरन्नो बलवान् पिबेत्
भेषजं लघुपथ्यान्नैर्युक्तमद्यात्तु दुर्बलः २९७
भैषज्यकालो भुक्तादौ मध्ये पश्चान्मुहुर्मुहुः
सामुद्गं भक्तसंयुक्तं ग्रासग्रासान्तरे दश २९८
अपाने विगुणे पूर्वं समाने मध्यभोजनम्
व्याने तु प्रातरशितमुदाने भोजनोत्तरम् २९९
वायौ प्राणे प्रदुष्टे तु ग्रासग्रासान्तरिष्यते
श्वासकासपिपासासु त्ववचार्यं मुहुर्मुहुः ३००
सामुद्गं हिक्किने देयं लघुनाऽन्नेन संयुतम्
संभोज्यं त्वौषधं भोज्यैर्विचित्रैररुचौ हितम् ३०१
ज्वरे पेयाः कषायाश्च क्षीरं सर्पिर्विरेचनम्
षडहे षडहे देयं कालं वीक्ष्यामयस्य च ३०२
क्षुद्वेगमोक्षौ लघुता विशुद्धिर्जीर्णलक्षणम्
तदा भेषजमादेयं स्याद्धि दोषवदन्यथा ३०३
चयादयश्च दोषाणां वर्ज्यं सेव्यं च यत्र तत्
ऋताववेक्ष्यं यत् कर्म पूर्वं सर्वमुदाहृतम् ३०४
उपक्रमाणां करणे प्रतिषेधे च कारणम्
व्याख्यातमेतत् कालस्य सविकल्पमवेक्षणम् ३०५
मुहुर्मुहुश्च रोगाणामवस्थामातुरस्य च
अवेक्षमाणस्तु भिषक् चिकित्सायां न मुह्यति ३०६
इत्येवं षड्विधं कालमनवेक्ष्य भिषग्जितम्
प्रयुक्तमहिताय स्यात् सस्यस्याकालवर्षवत् ३०७
व्याधीनामृत्वहोरात्रवयसां भोजनस्य च
विशेषो भिद्यते यस्तु कालावेक्षः स उच्यते ३०८
वसन्ते श्लेष्मजा रोगाः शरत्काले तु पित्तजाः
वर्षासु वातिकाश्चैव प्रायः प्रादुर्भवन्ति हि ३०९
निशान्ते दिवसान्ते च वर्धन्ते वातजा गदाः
प्रातः क्षपादौ कफजास्तयोर्मध्ये तु पित्तजाः ३१०
वयोऽन्तमध्यप्रथमे वातपित्तकफामयाः
बलवन्तो भवन्त्येव स्वभावाद्वयसो नृणाम् ३११
जीर्णान्ते वातजा रोगा जीर्यमाणे तु पित्तजाः
श्लेष्मजा भुक्तमात्रे तु लभन्ते प्रायशो बलम् ३१२
नाल्पं हन्त्यौषधं व्याधिं यथाऽऽपोऽल्पोऽल्पा महानलम्
दोषवच्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा ३१३
संप्रधार्य बलं तस्मादामयस्यौषधस्य च
नैवातिबहु नात्यल्पं भैषज्यमवचारयेत् ३१४
औचित्याद्यस्य यत् सात्म्यं देशस्य पुरुषस्य च
अपथ्यमपि नैकान्तात्तत्त्यजंल्लभते सुखम् ३१५
बाह्लीकाः पह्लवाश्चीनाः शूलीका यवनाः शकाः
मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिताः ३१६
मत्स्यसात्म्यास्तथा प्राच्याः क्षीरसात्म्याश्च सैन्धवाः
अश्मकावन्तिकानां तु तैलाम्लं सात्म्यमुच्यते ३१७
कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम्
सात्म्यं दक्षिणतः पेया मन्थश्चोत्तरपश्चिमे ३१८
मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः
तेषां तत्सात्म्ययुक्तानि भैषजान्यवचारयेत् ३१९
सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि
योगैरेव चिकित्सन् हि देशाद्यज्ञोऽपराध्यति ३२०
वयोबलशरीरादिभेदा हि बहवो मताः
तथाऽन्तः सन्धिमार्गाणां दोषाणां गूढचारिणाम् ३२१
भवेत् कदाचित् कार्याऽपि विरुद्धाभिमता क्रिया
पित्तमन्तर्गतं गूढं स्वेदसेकोपनाहनैः ३२२
नीयते बहिरुष्णैर्हि तथोष्णं शमयन्ति ते
बाह्यैश्च शीतैः सेकाद्यैरूष्माऽन्तर्याति पीडितः ३२३
सोऽन्तर्गूढं कफं हन्ति शीतं शीतैस्तथा जयेत्
श्लक्ष्णपिष्टो घनो लेपश्चन्दनस्यापि दाहकृत् ३२४
त्वग्गतेस्योष्मणो रोधाच्छीतकृच्चान्यथाऽगुरोः
छर्दिघ्नी मक्षिकाविष्ठा मक्षिकैव तु वामयेत् ३२५
द्रव्येषु स्विन्नजग्धेषु चैव तेष्वेव विक्रिया
तस्माद्दोषौषाधादीनि परीक्ष्य दश तत्त्वतः ३२६
कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलम्
निवृत्तोऽपि पुनर्व्याधिः स्वल्पेनायाति हेतुना ३२७
क्षीणे मार्गीकृते देहे शेषः सूक्ष्म इवानलः
तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना ३२८
सिद्ध्यर्थं प्राक्प्रयुक्तस्य सिद्धस्याप्यौषधस्य तु
काठिन्यादूनभावाद्वा दोषोऽन्तः कुपितो महान् ३२९
पथ्यैर्मृद्वल्पतां नीतो मृदुदोषकरो भवेत्
पथ्यमप्यश्नतस्तस्माद्यो व्याधिरुपजायते ३३०
ज्ञात्वैवं वृद्धिमभ्यासमथवा तस्य कारयेत्
सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम् ३३१
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः
मनसोऽर्थानुकूल्याद्धि तुष्टिरूर्जा रुचिर्बलम् ३३२
सुखोपभोगता च स्याद्व्याधेश्चातो बलक्षयः
लौल्याद्दोषक्षयद्व्याधेर्वैधर्म्याच्चापि या रुचिः ३३३
तासु पथ्योपचारः स्याद्योगेनाद्यं विकल्पयेत्
तत्र श्लोकाः--
विंशतिर्व्यापदो योनेर्निदानं लिङ्गमेव च ३३४
चिकित्सा चापि निर्दिष्टा शिष्याणां हितकाम्यया
शुक्रदोषास्तथा चाष्टौ निदानाकृतिभेषजैः ३३५
क्लैब्यान्युक्तानि चत्वारि चत्वारः प्रदरास्तथा
तेषां निदानं लिङ्गं च भैषज्यं चैव कीर्तितम् ३३६
क्षीरदोषास्तथा चाष्टौ हेतुलिङ्गभिषग्जितैः
रेतसो रजसश्चैव कीर्तितं शुद्धिलक्षणम् ३३७
उक्तानुक्तचिकित्सा च सम्यग्योगस्तथैव च
देशादिगुणशंसा च कालः षड्विध एव च ३३८
देशे देशे च यत् सात्म्यं यथा वैद्योऽपराध्यति
चिकित्सा चापि निर्दिष्टा दोषाणां गूढचारिणाम् ३३९
यो हि सम्यङ्न जानाति शास्त्रं शास्त्रार्थमेव च
कुर्यात् स क्रियां चित्रमचक्षुरिव चित्रकृत् ३४०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने योनिव्यापच्चिकित्सितं नाम त्रिंशोऽध्यायः ३०
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते
चिकित्सितमिदं स्थानं षष्ठं परिसमापितम् ३४१
इति चिकित्सास्थान समाप्ता