पूर्व खण्डम्
श्रीमद्भावमिश्रप्रणीतः
भाव प्रकाशः पूर्व खण्डम्
गजमुखममरप्रवरं सिद्धिकरं विघ्नहर्तारम्
गुरुमवगमनयनप्रदमिष्टकरीमिष्टदेवतां वन्दे १
आयुर्वेदागमनं क्रमेण येनाभवद्भूमौ
प्रथमं लिखामि तमहं नानातन्त्राणि संदृश्य २
आयुर्हिताहितं व्याधेर्निदानं शमनं तथा
विद्यते यत्र विद्वद्भिः स आयुर्वेद उच्यते ३
अनेन पुरुषो यस्मादायुर्विन्दति वेत्ति च
तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः ४
विधाताऽथर्वसर्वस्वमायुर्वेदं प्रकाशयन्
स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम् ५
ततः प्रजापतिं दक्षं दक्षं सकलकर्मसु
विधिर्धीनीरधिः साङ्गमायुर्वेदमुपादिशत् ६
अथ दक्षः क्रियादक्षः स्वर्वैद्यौ वेदमायुषः
वेदयामास विद्वांसौ सूर्यांशौ सुरसत्तमौ ७
दक्षादधीत्य दस्रौ वितनुतः संहितां स्वीयाम्
सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम् ८
स्वयम्भुवः शिरश्छिन्नं भैरवेण रुषाऽथ तत्
अश्विभ्यां संहितं तस्मात्तौ जातौ यज्ञभागिनौ ९
देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः
अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत् १०
वज्रिणोऽभूद् भुजस्तम्भः स दस्राभ्यां चिकित्सितः
सोमान्निपतितश्चन्द्र स्ताभ्यामेव सुखी कृतः ११
विशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च
शशिनो राजयक्ष्माऽभूदश्विभ्यां ते चिकित्सिताः १२
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः
वीर्यवर्णस्वरोपेतः कृतोऽश्विभ्यां पुनर्युवा १३
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषजां वरौ
बभूवतुर्भृशं पूज्याविन्द्रा दीनां दिवौकसाम् १४
संदृश्य दस्रयोरिन्द्रः कर्माण्येतानि यत्नवान्
आयुर्वेदं निरुद्वेगं तौ ययाचे शचीपतिः १५
नासत्यौ सत्यसन्धेन शक्रेण किल याचितौ
आयुर्वेदं यथाऽधीतं ददतुः शतमन्यवे १६
नासत्याभ्यामधीत्यैव आयुर्वेदं शतक्रतुः
अध्यापयामास बहूनात्रेयप्रमुखान्मुनीन् १७
एकदा जगदालोक्य गदाकुलमितस्ततः
चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः १८
किं करोमि क्व गच्छामि कथं लोका निरामयाः
भवन्ति सामयानेतान्न शक्नोमि निरीक्षितुम् १९
दयालुरहमत्यर्थं स्वभावो दुरतिक्रमः
एतेषां दुःखतो दुःखं ममापि हृदयेऽधिकम् २०
आयुर्वेदं पठिष्यामि नैरुज्याय शरीरिणाम्
इति निश्चित्य गतवानात्रेयस्त्रिदशालयम् २१
तत्र मन्दिरमिन्द्र स्य गत्वा शक्रं ददर्श सः
सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः २२
भासयन्तं दिशो भासा भास्करप्रतिमं त्विषा
आयुर्वेदमहाचार्यं शिरोधार्यं दिवौकसाम् २३
शक्रस्तु तं निरीक्ष्यैवं त्यक्तसिंहासनः स्थितः
तमग्रे पूजयामास भृशं भूरितपःकृशम् २४
कुशलं परिपप्रच्छ तथागमनकारणम्
स मुनिर्वक्तुमारेभे निजागमनकारणम् २५
देवराज न जानासि दिव एव यतो भवान्
विधात्रा विहितो यत्नात्त्रिलोकीलोकपालकः २६
व्याधिभिर्व्यथिता लोकाः शोकाकुलितचेतसः
भूतले सन्ति सन्तापं तेषां हन्तुं कृपां कुरु २७
आयुर्वेदोपदेशं मे कुरु कारुण्यतो नृणाम्
तथेत्युक्त्वा सहस्राक्षोऽध्यापयामास तं मुनिम् २८
मुनीन्द्र इन्द्र तः साङ्गमायुर्वेदमधीत्य सः
अभिनन्द्य तमाशीर्भिराजगाम पुनर्महीम् २९
अथात्रेयो मुनिश्रेष्ठो भगवान्करुणाकरः
स्वनाम्ना संहितां चक्रे नरवर्गानुकम्पया ३०
ततोऽग्निवेशं भेडञ्च जातूकर्णं पराशरम्
क्षीरपाणिञ्च हारीतमायुर्वेदमपाठयत् ३१
तन्त्रस्य कर्त्ता प्रथममग्निवेशोऽभवत्पुरा
ततो भेडादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च ३२
श्रावयामासुरात्रेयं मुनिवृन्देन वन्दितम्
श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः ३३
यथावत्सूत्रितं दृष्ट्वा प्रहृष्टा मुनयोऽभवन्
दिवि देवर्षयो देवाः श्रुत्वा साध्विति चाब्रुवन् ३४
एकदा हिमवत्पार्श्वे दैवादागत्य सङ्गताः
मुनयो बहवस्तेषां नामभिः कथयाम्यहम् ३५
भरद्वाजो मुनिवरः प्रथमं समुपागतः
ततोऽङ्गिरास्ततो गर्गो मरीचिर्भृगुभार्गवौ ३६
पुलस्त्योऽगस्तिरसितो वसिष्ठः सपराशरः
हारीतो गौतमः सांख्यो मैत्रेयश्च्यवनोऽपि च ३७
जमदग्निश्च गार्ग्यश्च कश्यपः काश्यपोऽपि च
नारदो वामदेवश्च मार्कण्डेयः कपिञ्जलः ३८
शाण्डिल्यः सहकौण्डिन्यः शाकुनेयश्चशौनकः
आश्वलायनसांकृत्यौ विश्वामित्रः परीक्षकः ३९
देवलो गालवो धौम्यः काप्यकात्यायनावुभौ
काङ्कायनो वैजपेयः कुशिको बादरायणः ४०
हिरण्याक्षश्च लौगाक्षिः शरलोमा च गोभिलः
वैखानसा वालखिल्यास्तथैवान्ये महर्षयः ४१
ब्रह्मज्ञानस्य निधयो यमस्य नियमस्य च
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ४२
सुखोपविष्टास्ते तत्र सर्वे चक्रुः कथामिमाम्
धर्मार्थकाममोक्षाणां मूलमुक्तं कलेवरम्
तच्च सर्वार्थसंसिद्ध्यै भवेद्यदि निरामयम् ४३
तपः स्वाध्यायधर्माणां ब्रह्मचर्यव्रतायुषाम्
हर्त्तारः प्रसृता रोगा यत्र तत्र च सर्वशः ४४
रोगाः कार्श्यकरा बलक्षयकरा देहस्य चेष्टाहरा
दृष्टा इन्द्रि यशक्तिसङ्क्षयकराः सर्वाङ्गपीडाकराः
धर्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा बलात्
प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम् ४५
तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै
र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिं तेऽब्रुवन्
त्वं योग्यो भगवन् सहस्रनयनं याचस्व लब्धं क्रमा
दायुर्वेदमधीत्य यं गदभयान्मुक्ता भवामो वयम् ४६
इत्थं स मुनिभिर्योग्यैः प्रार्थितो विनयान्वितैः
भरद्वाजो मुनिश्रेष्ठो जगाम त्रिदशालयम् ४७
तत्रेन्द्र भवनं गत्वा सुरर्षिगणमध्यगम्
दृष्टवान् वृत्रहन्तारं दीप्यमानमिवानलम् ४८
दृष्ट्वैव स मुनिं प्राह भगवान् मघवा मुदा
धर्मज्ञ स्वागतं तेऽथ मुनिं तं समपूजयत् ४९
सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम्
ऋषीणां वचनं सम्यक् श्रावयामास तत्त्वतः ५०
व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः
तेषां प्रशमनोपायं यथावद्वक्तुमर्हसि ५१
अपाठयन्मुनिं साङ्गमायुर्वेदं शतक्रतुः
जीवेद्वर्षसहस्राणि देही नीरुङ् निशम्य यम् ५२
सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामुनिः
यथावदचिरात्सर्वं बुबुधे तन्मना मुनिः ५३
तेनायुः सुचिरं लेभे भरद्वाजो निरामयम्
अन्यानपि मुनींश्चक्रे नीरुजः सुचिरायुषः ५४
तत्तन्त्रजनितज्ञानचक्षुषा ऋषयोऽखिलाः
गुणान्द्र व्याणि कर्माणि दृष्ट्वा तद्विधिमाश्रिताः ५५
आरोग्यं लेभिरे दीर्घमायुश्च सुखसंयुतम्
आयुर्वेदोक्तविधिनाऽन्येऽपि स्युर्मुनयो यथा ५६
यदा मत्स्यावतारेण हरिणा वेद उद्धृतः
तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान् ५७
अथर्वान्तर्गतं सम्यगायुर्वेदं च लब्धवान्
एकदा स महीवृत्तं द्र ष्टुं चर इवागतः ५८
तत्रलोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान्
स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान् ५९
तान्दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः
अनन्तश्चिन्तयामास रोगोपशमकारणम् ६०
सञ्चिन्त्य स स्वयं तत्र मुनेः पुत्रो बभूव ह
प्रसिद्धस्य विशुद्धस्य वेदवेदाङ्गवेदिनः ६१
यतश्चर इवायातो न ज्ञातः केनचिद्यतः
तस्माच्चरकनाम्नासौ ख्यातश्च क्षितिमण्डले ६२
स भाति चरकाचार्यो देवाचार्यो यथा दिवि
सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः ६३
आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन्
मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम् ६४
तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता
चरकेणात्मनो नाम्ना ग्रन्थोऽय चरकः कृतः ६५
एकदा देवराजस्य दृष्टिर्निपतिता भुवि
तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः ६६
तान्दृष्ट्वा हृदयं तस्य दयया परिपीडितम्
दयार्द्र हृदयः शक्रो धन्वन्तरिमुवाच ह ६७
धन्वन्तरे सुरश्रेष्ठ भगवन् किञ्चिदुच्यते
योग्यो भवसि भूतानामुपकारपरो भव ६८
उपकाराय लोकानां केन किं न कृतं पुरा
त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूपवान् ६९
तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव
प्रतीकाराय रोगाणामायुर्वेदं प्रकाशय ७०
इत्युक्त्वा सुरशार्दूलः सर्वभूतहितेप्सया
समस्तमायुषो वेदं धन्वन्तरिमुपादिशत् ७१
अधीत्य चायुषो वेदमिन्द्रा द्धन्वन्तरिः पुरा
आगत्य पृथिवीं काश्यां जातो बाहुजवेश्मनि ७२
नाम्ना तु सोऽभवत्ख्यातो दिवोदास इति क्षितौ
बाल एव विरक्तोऽभूच्चचार सुमहत्तपः ७३
यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम्
ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधीयते ७४
हिताय देहिनां स्वीया संहिता विहिताऽमुना
अथ विद्यार्थिनो लोकान्संहितां तामपाठयत् ७५
अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन्
अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते ७६
विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान्
वत्स वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम् ७७
तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः
स हि धन्वन्तरिः साक्षादायुर्वेदविदां वरः ७८
आयुर्वेदं पठस्व त्वं लोकोपकृतिहेतवे
सर्वप्राणिदया तीर्थमुपकारो महामखः ७९
पितुर्वचनमाकर्ण्य सुश्रुतः काशिकां गतः
तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ ८०
अथ धन्वन्तरिं सर्वे वानप्रस्थाश्रमे स्थितम्
भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम् ८१
काशिराजं दिवोदासं तेऽपश्यन्विनयान्विताः
स्वागतं च तदा चाह दिवोदासो यशोधनः ८२
कुशलं परिपप्रच्छ तथागमनकारणम्
ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम् ८३
भगवन्मानवान्दृष्ट्वा व्याधिभिः परिपीडितान्
क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा ८४
आमयानां शमोपायं विज्ञातुं वयमागताः
आयुर्वेदं भवानस्मानध्यापयतु यत्नतः ८५
अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत्
व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयो मुदा ८६
काशिराजं जयाशीर्भिरभिनन्द्य मुदान्विताः
सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम् ८७
प्रथमं सुश्रुतस्तेषु स्वतन्त्रं कृतवान्स्फुटम्
सुश्रुतस्य सखायोऽपि पृथक्तन्त्राणि तेनिरे ८८
सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः
तस्मात्तत्सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले ८९
इति भावप्रकाशे पूर्वखण्डे आयुर्वेदप्रवक्तृप्रादुर्भावप्रकरणं समाप्तम् १
अथ सृष्टिप्रकरणं ग्रन्थारम्भश्च २
आयुर्वेदाब्धिमध्यादतिमतिमुनयो योगरत्नानि यत्नाल्लब्ध्वा स्वे स्वे निबन्धे दधुरखिलजनव्याधिविध्वंसनाय ।
तत्तद्ग्रन्थाद् गृहीतैः सुवचनमणिभिर्भावमिश्रैश्चिकित्साशास्त्रे जाड्यान्धकारं प्रशमयितुमिमं संविधत्ते प्रकाशम् १
श्रीपतिपदप्रसादादाशीर्भिर्भूमिदेवानाम्
भावप्रकाशनाम्ना ग्रन्थोऽयं पठ्यतां सर्वैः २
आत्मा ज्योतिश्चिदानन्दरूपो नित्यश्च निःस्पृहः
निर्गुणः प्रकृतेर्योगात्सगुणः कुरुते जगत् ३
सत्त्वं रजस्तमश्चेति गुणास्ते प्रकृतेः समाः
सा जडापि जगत्कर्त्री परमात्मचिदव्ययात् ४
प्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथा
एतानि तस्या नामानि पुरुषं या समाश्रिता ५
सत्त्वं रजस्तमस्त्रीणि विज्ञेयाः प्रकृतेर्गुणाः
तैश्च युक्तस्य चित्तस्य कथयाम्यखिलान् गुणान् ६
आस्तिक्यं प्रविभज्य भोजनमनुत्तापश्च तथ्यं वचो
मेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानं च निर्दम्भता
कर्मानिन्दितमस्पृहं च विनयो धर्मः सदैवादरा
देते सत्त्वगुणान्वितस्य मनसो गीता गुणा ज्ञानिभिः ७
क्रोधस्ताडनशीलता च बहुलं दुःखं सुखेच्छाऽधिका
दम्भः कामुकताप्यलीकवचनं चाधीरताहङ्कृतिः
ऐश्वर्यादभिमानितातिशयितानन्दोऽधिकश्चाटनं
प्रख्याता हि रजोगुणेन सहितस्यैते गुणाश्चेतसः ८
नास्तिक्यं सुविषण्णतातिशयितालस्यं च दुष्टा मतिः
प्रीतिर्निन्दितकर्मशर्मणि सदा निद्रा लुताहर्निशम्
अज्ञानं किल सर्वतोऽपि सततं क्रोधान्धता मूढता
प्रख्याता हि तमोगुणेन सहितस्यैते गुणाश्चेतसः ९
तत्र प्रभूतसत्त्वस्तु सात्त्विकः पुरुषः स्मृतः
राजसस्तामसश्चैव त्रिविधस्तेन मानवः १०
ततोऽभवन्महत्तत्त्वं बुद्धितत्त्वापराभिधम्
त्रिगुणं सत्त्वबहुलं निर्मलं स्फटिकोपमम्
चिच्छायाप्राप्तचैतन्यं तदिच्छामयमीरितम् ११
महतस्त्रिगुणाज्जातोऽहङ्कारस्त्रिगुणान्वितः
सात्त्विको राजसश्चापि तामसश्चेति स त्रिधा १२
जातानि सात्त्विकात्तस्मादिन्द्रि याणि सराजसात्
तानि श्रोत्रं त्वचो नेत्रं रसना नासिका तथा १३
वाग्घस्तचरणोपस्थगुदान्येकादशं मनः
पञ्च बुद्धीन्द्रि याण्याहुः प्राक्तनानीतराणि च १४
कर्मेन्द्रि याणि पञ्चैव कथयन्ति विपश्चितः १५
मनो बुद्धीन्द्रि यं विज्ञैः कर्मेन्द्रि यमपि स्मृतम्
मनोऽधिष्ठितमेवेदमिन्द्रि यं यत्प्रवर्त्तते १६
शब्दः स्पर्शश्च रूपश्च रसो गन्धो ह्यनुक्रमात्
बुद्धीन्द्रि याणां विषयाः समाख्याता महर्षिभिः १७
वाच्यं ग्राह्यञ्च गन्तव्यमानन्दं त्याज्यमेव च
कर्मेन्द्रि याणां विषया ज्ञातव्य विषयो हृदः १८
तामसादप्यहङ्कारस्तन्मात्राणि सराजसात्
पञ्चाल्पसत्त्वसम्बन्धात्तल्लिङ्गानि भवन्ति हि १९
शब्दतन्मात्रकं स्पर्शतन्मात्रं रूपमात्रकम्
रसतन्मात्रकं गन्धतन्मात्रमिति तानि तु २०
तन्मात्रेभ्यो वियद्वायुर्वह्निर्वारि वसुन्धरा
एतानि पञ्च जायन्ते महाभूतानि तत्क्रमात् २१
शब्दः श्रोत्रेन्द्रि यं वापि च्छिद्रा णि च विविक्तता
वियतः कथिता एते गुणागुणविचारिभिः २२
स्पर्शस्त्वगिन्द्रि यञ्चापि लघुता स्पन्दनं तनोः
चेष्टा सर्वशरीरस्य वायोरेते गुणाः स्मृताः २३
रूपं नेत्रेन्द्रि यं पाकः सन्तापस्तीक्ष्णता तथा
वर्णो भ्राजिष्णुताऽमर्षः शौर्यं वह्नेर्गुणा अमी २४
रसो रसेन्द्रि यं शैत्यं स्नेहश्च गुरुता तथा
सर्वद्र वसमूहश्च शुक्रं वारिगुणाः स्मृताः २५
गन्धो घ्राणेन्द्रि यं चापि काठिन्यं गौरवं तथा
वसुन्धरागुणा एते गदिता गुणवेदिभिः २६
शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तत्क्रमात्
तन्मात्राणां विशेषाः स्युः स्थूलभावमुपागताः २७
प्रकृतेः कारणायोगान्मता प्रकृतिरेव सा
महत्तत्त्वादयः सप्त शक्तेर्विकृतयः स्मृताः २८
इन्द्रि याणां च भूतानां कारणत्वान्महर्षिभिः
महत्तत्त्वादयः सप्त प्रोक्ताः प्रकृतयोऽपि च २९
दशेन्द्रि याणि चित्तञ्च महाभूतानि पञ्च च
एतानि सृष्टिं जानद्भिर्विकाराः षोडश स्मृताः ३०
एवं चतुर्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहे
जीवात्मनियतेर्निघ्नो वसति स्वान्तदूतवान् ३१
स देही कथ्यते पापपुण्यदुःखसुखादिभिः
व्याप्तो बद्धश्च मनसा कृत्रिमैः कर्मबन्धनैः ३२
इच्छाद्वेषसुखासुखानि विषयज्ञानं प्रयत्नो मनः
सङ्कल्पश्च विचारणा स्मृतिरथो बुद्धिः कलाविज्ञता
प्राणस्योपरियापनं गुदवशाद्वायोरधः प्रेरणं
नेत्रोन्मेषनिमेषकृत्यकरणोत्साहाश्च जीवे गुणाः ३३
इति श्री मिश्रलटकनतनय श्रीमन्मिश्रभावविरचिते भावप्रकाशे
सृष्टिप्रकरणं समाप्तम् २
अथ गर्भप्रकरणम् ३
द्वादशाद्वत्सरादूर्ध्वमापञ्चाशत्समाः स्त्रियः
मासि मासि भगद्वारा प्रकृत्यैवार्तवं स्रवेत् १
आर्तवस्रावदिवसादृतुः षोडश रात्रयः
गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः २
आर्तवस्रावदिवसादहिंसा ब्रह्मचारिणी
शयीत दर्भशय्यायां पश्येदपि पतिं न च ३
करे शरावे पर्णे वा हविष्यं त्र्यहमाहरेत्
अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ४
नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम्
अत्युच्चशब्दश्रवणं हसनं बहुभाषणम्
आयासं भूमिखननं प्रवातञ्च विवर्जयेत् ५
अज्ञानाद्वा प्रमादाद्वा लोभाद्वा दैवतश्च वा ६
सा चेत्कुर्यान्निषिद्धानि गर्भो दोषांस्तदाऽप्नुयात्
एतस्या रोदनाद्गर्भो भवेद्विकृतलोचनः ७
नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत्
अनुलेपात्तथा स्नानाद् दुःखशीलोऽञ्जनाददृक् ८
स्वापशीलो दिवास्वापाच्चञ्चलः स्यात्प्रधावनात्
अत्युच्चशब्दश्रवणाद्बधिरः खलु जायते ९
तालुदन्तौष्ठजिह्वासु श्यावो हसनतो भवेत्
प्रलापी भूरिकथनादुन्मत्तस्तु परिश्रमात्
स्खलते भूमिखननादुन्मत्तो वातसेवनात् १०
पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना
तादृशं जनयेत्पुत्रं ततः पश्येत्पतिं प्रियम् ११
प्रवहत्सलिले क्षिप्तं द्र व्यं गच्छत्यधो यथा
तथा वहति रक्ते तु क्षिप्तं वीर्यमधो व्रजेत् १२
आयुः क्षयभयाद्भर्त्ता प्रथमे दिवसे स्त्रियम्
द्वितीयेऽपि दिने रत्यै त्यजेदृतुमतीं तथा १३
तत्र यश्चाहितो गर्भो जायमानो न जीवति
आहितो यस्तृतीयेऽह्नि स्वल्पायुर्विकलाङ्गकः १४
अतश्चतुर्थी षष्ठी स्यादष्टमी दशमी तथा
द्वादशी वापि या रात्रिस्तस्यां तां विधिना भजेत् १५
अत्रोत्तरोत्तरं विद्यादायुरारोग्यमेव च
प्रजासौभाग्यमैश्वर्यं बलञ्चाभिगमात् फलम् १६
मनोभवागारमुखेऽबलानां तिस्रो भवन्ति प्रमदाजनानाम्
समीरणा चन्द्र मसी च गौरी विशेषमासामुपवर्णयामि १७
प्रधानभूता मदनातपत्रे समीरणा नाम विशेषनाडी
तस्या मुखे यत् पतितं तु वीर्यं तन्निष्फलं स्यादिति चन्द्र मौलिः १८
या चापरा चान्द्र मसी च नाडी कन्दर्पगेहे भवति प्रधाना
सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेषु १९
गौरीति नाडी यदुपस्थगर्भे प्रधानभूता भवति स्वभावात्
पुत्रं प्रसूते बहुधाङ्गना सा कष्टोपभोग्या सुरतोपविष्टा २०
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु २१
स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोर्चितः
भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः २२
ताम्बूलवदनस्तस्यामनुरक्तोऽधिकस्मरः
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे २३
अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपासितः
बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रो गी च मैथुनम् २४
पुरुषस्य गुणैर्युक्ता विहिता न्यूनभोजना
नारी ऋतुमती पुंसा सङ्गच्छेत्तु सुतार्थिनी २५
रजस्वला व्याधिमती विशेषाद्योनिरोगिणी
वयोऽधिका च निष्कामा मलिना गर्भिणी तथा
एतासां सङ्गमात्पुंसां वैगुण्यानि भवन्ति हि २६
कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः
गर्भः सञ्जायते नार्याः स जातो बाल उच्यते २७
दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितमिति २८
ऋतौ स्त्रीपुंसयोर्योगे मकरध्वजवेगतः
मेढ्रयोन्यभिसङ्घर्षाच्छरीरोष्मानिलाहतः २९
पुंसः सर्वशरीरस्थं रेतो द्रा वयतेऽथ तत्
वायुर्मेहनमार्गेण पातयत्यङ्गनाभगे ३०
तत् संस्रुत्य व्यात्तमुखं याति गर्भाशयं प्रति
तत्र शुक्रवदायातेनार्त्तवेन युतं भवेत् ३१
शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा च कीर्तिता
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ३२
यथा रोहितमत्स्यस्य मुखं भवति रूपतः
तत्संस्थानां तथा रूपां गर्भशय्यां विदुर्बुधाः ३३
शुक्रार्त्तवसमाश्लेषो यदैव खलु जायते
जीवस्तदैव विशति युक्तः शुक्रार्त्तवान्तरः ३४
सूर्यांशोः सूर्यमणित उभयस्माद्युताद्यथा
वह्निः सञ्जायते जीवस्तथा शुक्रार्तवाद्युतात् ३५
आत्मानादिरनन्तश्चाव्यक्तो वक्तुं न शक्यते
चिदानन्दैकरूपोऽयं मनसापि न गम्यते ३६
एवम्भूतोऽपि जगतो भाविनी बलवत्तया
अविद्यास्वीकृते कर्मवशो गर्भे विशत्यसौ ३७
स एव वेत्ता रसनो द्र ष्टा घ्राता स्पृशत्यसौ
श्रोता वक्ता च कर्त्ता च गन्ता रन्तोत्सृजत्यपि ३८
दिने व्यतीते नियतं संकुचत्यम्बुजं यथा
ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा ३९
बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ
यमावित्यभिधीयेते धर्मेतरपुरःसरौ ४०
आधिक्ये रेतसः पुत्रः कन्या स्यादार्त्तवेऽधिके
नपुंसकं तयोः साम्ये यथेच्छा पारमेश्वरी ४१
एवं तामभिसङ्गम्य पुनर्मासाद्भजेदसौ ४१
शुक्रशोणितयोर्योनेरस्रावोऽथ श्रमोद्भवः
सक्थिसादः पिपासा च ग्लानिः स्फूर्त्तिर्भगे भवेत् ४२
स्तनयोर्मुखकार्ष्ण्यं स्याद्रो मराज्युद्गमस्तथा
अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः ४३
छर्दयेत्पथ्यभुक्चापि गन्धादुद्विजते शुभात्
प्रसेकः सदनं चैव गर्भिण्या लिङ्गमुच्यते ४४
पुत्रगर्भयुतायास्तु नार्या मासि द्वितीयके
गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृणु ४५
दक्षिणाक्षिमहत्वं स्यात् प्राक्क्षीरं दक्षिणे स्तने
दक्षिणोरुः सुपुष्टः स्यात्प्रसन्नमुखवर्णता ४६
पुन्नामधेयद्र व्येषु स्वप्नेष्वपि मनोरथः
आम्रादिफलमाप्नोति स्वप्नेषु कमलादि च ४७
कन्या गर्भवती गर्भे पेशी मासि द्वितीयके
पुत्रगर्भस्य लिङ्गानि विपरीतानि चेक्षते ४८
नपुंसकं यदा गर्भे भवेद् गर्भोऽबुदाकृतिः
उन्नते भवतः पार्श्वे पुरस्तादुदरं महत् ४९
आसेक्यश्च सुगन्धी च कुम्भीकश्चेष्यर्यकस्तथा
अमी सशुक्रा बोद्धव्या अशुक्रः षण्ढसंज्ञकः ५०
पित्रोस्तु स्वल्पवीर्यत्वादासेक्यः पुरुषो भवेत्
स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम् ५१
यः पूतियोनौ जायेत स हि सौगन्धिको भवेत्
स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ५२
स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते
स कुम्भीक इति ज्ञेयो गुदयोनिस्तु स स्मृतः ५३
दृष्ट्वा व्यवायमन्येषां व्यावाये यः प्रवर्त्तते
ईर्ष्यकः स तु विज्ञेयो दृष्टियोनिस्तु स स्मृतः ५४
यो भार्यायामृतौ मोहादङ्गनेव प्रवर्त्तते
तत्र स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञकः ५५
ऋतौ ॠतौ पुरुषवत् प्रवर्त्तेताङ्गना यदि
तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ५६
यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन
मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते ५७
ऋतुस्नाता तु या नारी स्वप्ने मैथुनमाचरेत्
आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ५८
मासि मासिप्रवर्द्धेत स गर्भो गर्भलक्षणः
कललं जायते तस्य वर्जितं पैतृकैर्गुणैः ५९
सर्पवृश्चिककूष्माण्डाकृतयो विकृताश्च ये
गर्भास्ते योषितस्ताश्च ज्ञेयाः पापकृतो भृशम् ६०
गर्भो वातप्रकोपेण दोहदे चापमानिते
भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिन एव च ६१
आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ
स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ६२
गर्भाशयगतं शुक्रमार्त्तवं जीवसंज्ञकः
प्रकृतिः सविकारा च तत्सर्वं गर्भसंज्ञकम् ६३
कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः
भवेत्तदा स मुनिभिः शरीरीति निगद्यते ६४
तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः
मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ६५
आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः
तस्यान्तर्मस्तुलुङ्गं च ललाटं भ्रूयुगन्तथा ६६
नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वे कनीनिके
दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनी ६७
पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वयम्
पालिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता ६८
ओष्ठाधरौ च सृक्किण्यौ मुख तालु हनुद्वयम्
दन्ताश्च दन्तवेष्टश्च रसना चिबुकङ्गलः ६९
द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्यते
तृतीयं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे ७०
तत्रोपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः
कफोणियुग्मं तदधं प्रकोष्ठयुगलन्तथा ७१
मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश
नखाश्च दश ते स्थाप्या दशच्छेद्याःप्रकीर्त्तिताः ७२
चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे
स्तनौ पुंसस्तथा नार्या विशेष उभयोरयम् ७३
यौवनागमने नार्याः पीवरौ भवतः स्तनौ
गर्भवत्या प्रसूतायास्तावेव क्षीरपूरितौ ७४
हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम्
जाग्रतस्तद्विकसति स्वपतस्तु निमीलति ७५
आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम्
अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ७६
कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते
कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ ७७
उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम्
सपृष्ठवंशं पृष्ठं तु समस्तं सप्तमं स्मृतम् ७८
उपाङ्गानि च कथ्यन्ते तानि जानीहि यत्नतः
शोणिताज्जायते प्लीहा वामतो हृदयादधः ७९
रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः
हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेनजः ८०
अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः
तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ८१
अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति
जलवाहिशिरामूलं तृष्णाऽच्छादनकृन्मतम् ८२
मेदः शोणितयोः साराद्वृक्कयोर्युगलं भवेत्
तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ८३
अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्दिशेत्
उक्ता सार्द्धास्त्रयो व्यामापुंसामन्त्राणि सूरिभिः ८४
उन्दुकश्च कटी चापि त्रिकं वस्तिश्च वङ्क्षणौ
कण्डराणां प्ररोहःस्यान्मेढ्रोऽध्वा वीर्यमूत्रयोः ८५
स एव गर्भस्याधानं कुर्याद्गर्भाशये स्त्रियाः
शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता ८६
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता
वृषणौ भवतः सारात्कफासृङ्मांसमेदसाम् ८७
वीर्यवाहिशिराधारौ तौ मतौ पौरुषावहौ
गुदस्य मानं सर्वस्य सार्द्धं स्याच्चतुरङ्गुलम् ८८
तत्र स्युर्वलयस्तिस्रः शङ्खावर्तनिभास्तु ताः
प्रवाहिणी भवेत्पूर्वा सार्द्धाङ्गुलमिता मता ८९
उत्सर्जनी तु तदधः सा सार्द्धाङ्गुलसम्मिता
तस्याधः संवरणी स्यादेकाङ्गुलसमा मता ९०
अर्द्धाङ्गुलप्रमाणं तु बुधैर्गुदमुखं मतम्
मलोत्सर्गस्य मार्गोऽय पायुर्देहे विनिर्मितः ९१
पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ च योषितः
तयोः कुकुन्दरे स्यातां सक्थिनोत्वङ्गमष्टमम् ९२
तदुपाङ्गानि च ब्रूमो जानुनी पिण्डकाद्वयम्
जंघे द्वे घुटिके पार्ष्णी तले च प्रपदे तथा ९३
पादावङ्गुलयस्तत्र दश तासां नखा दश
अथ दोषाः प्रवक्ष्यन्ते धातवस्तदनन्तरम् ९४
आहारादेर्गतिस्तस्य परिणामश्च वक्ष्यते
आर्त्तवं चाथ धातूनां मलास्तदुपधातवः ९५
आशयाश्च कलाश्चापि मर्माण्यथ च सन्धयः
शिराश्च स्नायवश्चापि धमन्यः कण्डरास्तथा ९६
रन्ध्राणि भूरि स्रोतांसि जालैः कूर्च्चाश्च रज्जवः
सेवन्यश्चाथ सङ्घाताः सीमान्ताश्च तथा त्वचः ९७
लोमानि लोमकूपाश्च देह एतन्मयो मतः
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ९८
विकृताविकृता देहं घ्नन्ति ते वर्द्धयन्ति च
ते व्यापिनोऽपि हृन्नाभ्योरधो मध्योर्ध्वसंश्रयाः
वयोऽहोरात्रिभुक्तानामन्तमध्यादिगाः क्रमात् ९९
धातवश्च मलाश्चापि दुष्यन्त्येभिर्यतस्ततः
वातपित्तकफा एते त्रयो दोषा इति स्मृताः १००
ते धातवोऽपि विद्वद्भिर्गदिता देहधारणात् १०१
दोषधातुमलादीनां नेता शीघ्रः समीरणः
रजोगुणमयः सूक्ष्मो रूक्षः शीतो लघुश्चलः १०२
उत्साहोच्छ्वासनिःश्वासचेष्टावेगप्रवर्त्तनैः १०३
सम्यग् गत्या च धातूनामन्द्रि याणाञ्च पाटवैः
अनुगृह्णात्यविकृतो हृदयेन्द्रि यचित्तधृक् १०४
रजोगुणमयः सूक्ष्मः शीतो रूक्षो लघुश्चलः
खरो मृदुर्योगवाही संयोगादुभयार्थकृत् १०५
दाहकृत् तेजसा युक्तः शीतकृत्सोमसंश्रयात्
विभागकरणाद्वायुः प्रधानं दोषसंग्रहे १०६
पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रि यम्
स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः १०७
उदानस्तदनुप्राणः समानोऽपान एव च
व्यानश्चैतानि नामानि वायोः स्थानप्रभेदतः १०८
कण्ठे हृदि तथाऽधस्तात्कोष्ठवह्नेर्मलाशये
सकलेऽपि शरीरेऽसौ क्रमेण पवनो वसेत् १०९
उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः
तेन भाषितगीतादिप्रवृत्तिः कुपितस्तु सः ११०
ऊर्ध्वजत्रुगतान् रोगान्विदधाति विशेषतः
यो वायुः प्राणनामाऽसौ मुखं गच्छति देहधृक् १११
सोऽन्न प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् ११२
आमपक्वाशयचरः समानो वह्निसङ्गतः
सोऽन्न पचति तज्जांश्च विशेषान्विविनक्ति हि ११३
स दुष्टो वह्निमान्द्यातिसारगुल्मान् करोति हि
पक्वाशयालयोऽपानः काले कर्षति चाप्ययम् ११४
समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः
क्रुद्धस्तु कुरुते रोगान् घोरान्वस्तिगुदाश्रयान् ११५
शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान्
कृत्स्नदेहचरो व्यानो रससंवाहनोद्यतः ११६
स्वेदाऽसृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि
प्रस्पन्दनञ्चोद्वहनं पूरणञ्च विरेचनम् ११७
धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ताः नभस्वतः
गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः
प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम् ११८
क्रुद्धः सः कुरुते रोगान् प्रायशः सर्वदेहगान्
युगपत् कुपिता एते देहं भिन्द्युरसंशयम् ११९
पित्तमुष्णं द्र वं पीतं नीलं सत्त्वगुणोत्तरम्
सरं कटु लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः १२०
पाचकं रञ्जकञ्चापि साधकालोचके तथा
भ्राजकञ्चेति पित्तस्य नामानि स्थानभेदतः १२१
अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्वये
त्वचि सर्वशरीरेषु पित्तं निवसति क्रमात् १२२
पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम्
रसमूत्रपुरीषाणि विरेचयति नित्यशः १२३
इत्यलमप्रकृतिचिन्तनेन पुनः प्रकृतमनुसरति
रञ्जकं नाम यत्पित्तं तद्र सं शोणितं नयेत्
यत्तु साधकसंज्ञं तत्कुर्याद्बुद्धिं धृतिं स्मृतम् १२४
यदालोचकसंज्ञं तद्रू पग्रहणकारणम्
भ्राजकं कान्तिकारि स्याल्लेपाभ्यङ्गादिपाचकम् १२५
श्लेष्माश्वेतो गुरुः स्निग्धः पिच्छिलः शीतलस्तथा
तमोगुणाधिकः स्वादुर्विदग्धो लवणो भवेत् १२६
कफस्यैतानि नामानि क्लेदनश्चावलम्बनः
रसनः स्नेहनश्चापि श्लेषणः स्थानभेदतः १२७
आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु
स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्ठत्यनुक्रमात् १२८
क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि
अनुगृह्णाति च श्लेष्मस्थानान्युदककर्मणा १२९
रसयुक्तात्मवीर्येण हृदयस्यावलम्बनम्
त्रिकसन्धारणं चापि विदधात्यवलम्बनः १३०
उभावपि ततः सौम्यौ तिष्ठतश्चान्तिके यतः
यतो रसान्विजानीतो रसनारसनौ समौ १३१
स्नेहनः स्नेहदानेन समस्तेन्द्रि यतर्पणः
श्लेषणः सर्वसन्धीनां संश्लेषं विदधात्यसौ १३२
एते सप्त स्वयं स्थित्वा देहं दधति यन्नृणाम्
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः १३३
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे
गर्भोत्पादश्च कर्माणि धातूनां कथितानि हि १३४
गत्यर्थो रस धातुर्यस्ततोऽभवदयं रसः
सद्र वं सकलं देहे रसतीति रसः स्मृतः १३४
सम्यक्पक्वस्य भुक्तस्य सारो निगदितो रसः
स तु द्र वः सितः शीतः स्वादुः स्निग्धश्चलो भवेत् १३५
सर्वदेहचरस्यापि रसस्य हृदयं स्थलम्
समानमरुता पूर्वं यदयं हृदये धृतः १३६
आरुह्य धमनीर्गत्वा धातून् सर्वानयं रसः
पुष्णाति तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः १३७
मन्दवह्निविदग्धस्तु कटुर्वाऽम्लो भवेद्र सः
स कुर्याद्बहुलान् रोगान् विषकृत्यं करोत्यपि १३८
यदा रसो यकृद्याति तत्र रञ्जकपितत्तः
रागंपाकं च सम्प्राप्य स भवेद्र क्तसंज्ञकः १३९
रक्तं सर्वशरीरस्थं जीवस्याधारमुत्तमम्
स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत् १४०
यकृत् प्लीहा च रक्तस्य मुख्यस्थानन्तयोः स्थितम्
अन्यत्र संस्थितवतां रक्तानां पोषकं भवेत् १४१
शोणितं स्वाग्निना पक्वं वायुना च घनीकृतम्
तदेव मांसं जानीयात्तस्य भेदानपि ब्रुवे १४२
यथाऽथमूष्मणा युक्तो वायुः स्रोतांसिदारयेत्
अनुप्रविश्य पिशितं पेशीर्विभजते तथा १४३
मांसपेश्यः समाख्याता नृणां पञ्च शतानि हि १४४
तासां शतानि चत्वारि शाखासु कथितान्यथ
कोष्ठे षडुत्तरा षष्टिः कथिता मुनिपुङ्गवैः
ग्रीवाया ऊर्ध्वगास्तास्तु चतुस्त्रिंशत् प्रकीर्त्तिताः १४५
स्त्रीणामपि भवन्त्येताः किन्तु विंशतिरुत्तराः
गर्भाशये गर्भमार्गे योनौ च स्तनयोरपि १४६
पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता मेहनमुष्कजाः
स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः १४७
शिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम्
पेशीभिःसंवृतान्येव बलवन्ति भवन्ति हि १४८
यन्मांसं स्वाग्निना पक्वं तन्मेद इति कथ्यते
तदतीव गुरु स्निग्धं बलकार्यतिबृंहणम् १४९
मेदो हि सर्वभूतानामुदरेष्वस्थि संस्थितम्
अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् १५०
मेदो यत् स्वाग्निना पक्वं वायुना चातिशोषितम् १५१
तदस्थिसंज्ञां लभते स सारः सर्वविग्रहे
अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः १५२
अस्थिसारैस्तथा देहा ध्रियन्ते देहिनो ध्रुवम्
तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम्
अस्थीनि न विनश्यन्ति सारा एतानि सर्वथा १५३
शल्यतन्त्रेऽस्थिखण्डानांशतत्रयमुदाहृतम् १५४
तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च
सविंशतिशतं त्वस्थ्नां शाखासु कथितं बुधैः १५५
पार्श्वयोः श्रोणिफलके वक्षःपृष्ठोदरेषु च
जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम्
ग्रीवायामूर्ध्वगां विद्यादस्थ्नां षष्टिंत्रिसंयुताम् १५६
एतान्यस्थीनि पञ्चविधानि भवन्ति तानि यथा
तरुणानि कपालानि रुचकानि भवन्ति हि
वलयानीति तानि स्युर्नलकानि च कानि चित् १५७
अक्षिकोश श्रुतिघ्राणग्रीवासु तरुणानि च १५८
शिरः शङ्खकपोलेषु ताल्वं सप्रोथजानुषु
कपालानि भवन्त्येषु दन्तेषु रुचकानि च १५९
पार्ष्ण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु
पादयोर्वलयानि स्युर्नलकानि ब्रुवेऽधुना १६०
हस्ते पादाङ्गुलितले कूर्च्चे च मणिबन्धके
बाहूजङ्घाद्वये चापि जानीयान्नलकानि तु १६१
मांसान्यन्त्राणि बद्धानि शिराभिः स्नायुभिस्तथा
अस्थीन्यालम्बनं कृत्वा न दीर्यन्ते पतन्ति च १६२
अस्थि यत् स्वाग्निना पक्वं तस्य सारो भवेद्घनः
यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते १६३
स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः १६४
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः १६५
यात्यामाशयमाहारः पूर्वं प्राणानिलेरितः
माधुर्यं फेनभावं च षड्रसोऽपि लभेत सः १६६
षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता
आमपक्वाशयान्तःस्था ग्रहणी साऽभिधीयते १६७
तत्रग्रहण्यामामाशयपक्वाशयमध्यवर्त्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाऽहारः पच्यते स कटुश्च भवतीत्याहग्रहण्यां पच्यते कोष्ठे वह्निना जायते कटुः इति १६८
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः
पञ्चाहारगुणान् स्वान् स्वान्पार्थिवादीन् पचन्त्यनु १६९
पञ्च भूतात्मके देहे आहारः पाञ्चभौतिकः
विपक्वः पञ्चधा सम्यग्गुणान्स्वानभिवर्द्धयेत् इति १७०
मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः
कटुतिक्तकषायाणां विपाको जायते कटुः इति १७१
आहारस्य रसः सारः सार हीनो मलद्र वः
शिराभिस्तज्जलं नीतं वस्तिं मूत्रत्वमाप्नुयात् १७२
शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते
समानवायुना नीतन्तत्तिष्ठति मलाशये १७३
मूत्रञ्चोपस्थमार्गेण पुरीषं गुदमार्गतः
अपानवायुना क्षिप्तं बहिर्याति शररीतः १७४
रसस्तु हृदयं याति समानमरुतेरितः
स तु व्यानेन विक्षिप्तः सर्वान् धातून् विवर्द्धयेत् १७५
केदारेषु यथा कुल्याः पुष्णन्ति विविधौषधीः
तथा कलेवरे धातून् सर्वान् वर्द्धयते रसः १७६
स्थूलः सूक्ष्मस्तन्मलश्च तत्र तत्र त्रिधा रसः
स्वं स्थूलॐऽश परं सूक्ष्मस्तन्मलो याति तन्मलम् १७७
धातौ रसादौ मज्जान्ते प्रत्येकं क्रमतो रसः
अहोरात्रात्स्वयं पञ्च सार्द्धदण्डं च तिष्ठति १७८
स्वाग्निभिः पच्यमानेषु मज्जान्तेषु रसादिषु
षट्सु धातुषु जायन्ते मलानि मुनयो जगुः १७९
यथा सहस्रधा ध्माते न मलं किल काञ्चने
तथा रसे मुहुः पक्वे न मलं शुक्रताङ्गते १८०
ओजः सर्वशरीरस्थं स्निग्धं शीतं स्थिरं सितम्
सोमात्मकं शरीरस्य बलपुष्टिकरं मतम् १८१
गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरं तथा
प्रसन्नं पिच्छिलं सूक्ष्ममोजो दशगुणं स्मृतम् १८२
अष्टविन्दुप्रमाणं तदीषद्र क्तं सपीतकम्
अग्नीषोमात्मकत्वेन द्विरूपं वर्णितन्तु तत् १८३
ओजश्च तेजो धातूनां शुक्रान्तानां परं स्मृतम्
हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम् १८४
यस्य प्रवृद्धौ देहस्य तुष्टिपुष्टिबलोदयाः
यन्नाशे नियतो नाशो यस्मिंस्तिष्ठति जीवनम् १८५
निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः
उत्साहप्रतिभाधैर्यलावण्यसुकुमारताः १८६
ततः स्थूलो भागो रसो मासेन पुंसां शुक्रं स्त्रीणान्त्वार्त्तवं शुक्रञ्च भवति उक्तञ्च सुश्रुते एवं मासेन रसः शुक्रो भवति स्त्रीणामार्त्तवञ्चेति चकारात् स्त्रीणामपि शुक्रं भवति अत एवोक्तं सुश्रुते योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे तत्र गर्भस्य किञ्चित्तुन करोतीति न चिन्त्यते १८७
स्त्रीणां गर्भोपयोगि स्यादार्त्तवं सर्वसम्मतम्
तासामपि बलं वर्णं शुक्रं पुष्टिं करोति हि १८८
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः १८९
रसः शरीरे शब्दार्च्चिर्जलसन्तानवत् त्रिधा
सञ्चरत्यनुरूपोऽय नित्यमेव हि देहिनाम् १९०
वाजीकरिण्य ओषध्यः स्वप्रभावगुणोच्छ्रयात्
विरेचयन्ति ताः शुक्रं विरेकिद्र व्यवन्नृणाम् १९१
दुग्धं माषाश्च भल्लात फलमज्जामलानि च
जनकानि निगद्यन्ते रेचनानि च रेतसः १९२
बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते
पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते १९३
तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि
कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा १९४
रोमराज्यादयः पुंसां नारीणामपि यौवने
जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च १९५
वार्द्धके वर्द्धमानेन वायुना रसशोषणात्
न तथा धातुवृद्धिः स्यात्ततस्तत्रानिलं जयेत् १९६
शुक्रं सौम्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम्
गर्भबीजं वपुःसारो जीवस्याश्रय उत्तमः १९७
जीवो वसति सर्वस्मिन्देहे तत्र विशेषतः
वीर्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणात् १९८
स्फटिकाभं द्र वं स्निग्धं मधुरं मधुगन्धि च
शुक्रमिच्छन्ति केचित्तु तैलक्षौद्र निभञ्च तत् १९९
यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा
एवं हि सकले काये शुक्रं तिष्ठति देहिनाम् २००
द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः
मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्त्तते २०१
कृत्स्नदेहस्थितं शुक्रं प्रसन्नमनसस्तथा
स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते २०२
शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि
शब्दसंश्रवणाद् ध्यानात् संयोगाच्च प्रवर्त्तते २०३
रसादेव रजः स्त्रीणां मासि मासि त्र्यहं स्रवेत्
तद्वर्षाद् द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् २०४
मासेनोपचितं काले धमनीभ्यस्तदार्त्तवम्
ईषद्विवर्णं कृष्णञ्च वायुर्योनिमुखं नयेत् २०५
शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम्
तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् २०६
अतिरिक्ता गुणा रक्ते बह्नेर्मांसे तु पार्थिवाः
मेदस्यपां भुवश्चास्थ्नि पृथिव्यनिलतेजसाम् २०७
मज्ज्ञि शुक्रे च सोमस्य मूत्रे च शिखिनोगुणाः
भुवस्तथाऽत्तवे त्वग्ने रसे क्षीरे तथाऽम्भसः २०८
कफः पित्तं मलः खेषु प्रस्वेदो नखलोम च
नेत्रविट्त्वक्षु च स्नेहो धातूनां क्रमशो मलाः २०९
वनितानां प्रसूतानां धमनीभ्यां स्तनौ गतात्
रसादेव हि जायेत स्तन्यं स्तनयुगाशयम् २१०
शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्त्तिता
मेदसस्ताप्यमानस्य स्नेहो वा कथिता वसा २११
स्तन्यं रजो वसा स्वेदो दन्ताः केशास्तथैव च
ओजश्च सप्तधातूनां क्रमात् सप्तोपधातवः २१२
उरोरक्ताशयस्तस्मादधः श्लेष्माशयः स्मृतः
आमाशयस्तु तदधस्तल्लिङ्गं चरकोऽवदत् २१३
आमाशयादधः पक्वाशयादूर्ध्वन्तु या कला
ग्रहणी नामिका सैव कथितः पाचकाशयः २१४
ऊर्ध्वमग्न्याशयो नाभेर्मध्यभागे व्यवस्थितः
तस्योपरि तिलं ज्ञेयं तदधः पवनाशयः २१५
पक्वाशयस्तुतदधः स एव तु मलाशयः
तदधः कथितो वस्तिः स हि मूत्राशयो मतः २१६
कफाऽमपित्तवातानामाशया मलमूत्रयोः
पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः २१७
धरा गर्भाशयः प्रोक्तः पित्तपक्वाशयान्तरे
स्तनौ प्रवृद्धौ तावेव बुधैः स्तन्याशयौ मतौ २१८
स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा
श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान्विदुः २१९
धात्वाशयान्तरे धातोर्यः क्लेदस्त्वधितिष्ठति
देहोष्मणाऽभिपक्वश्च सा कलेत्यभिधीयते २२०
आद्या मांसधरा प्रोक्ता द्वितीया रक्तधारिणी
मेदोधरा तृतीया तु चतुर्थी श्लेष्मधारिणी २२१
पञ्चमी तु मलं धत्ते षष्ठी पित्तधरा मता
रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः २२२
सन्निपातः शिरास्नायुसन्धिमांसास्थिसम्भवः
मर्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः २२३
सप्तोत्तरशतं सन्ति देहे मर्माणि देहिनाम्
तान्येकादश मांसे स्युरष्टावस्थिषु सन्ति हि २२४
सन्धीनां विंशतिस्तानि स्नायूनां सप्तविंशतिः
चत्वारिंशतत्तथैकञ्च शिरामर्माणि तत्र तु २२५
द्वाविंशतिः सक्थियुगे तावत्येव भुजद्वये
द्वादशोरसि कुक्षौ च पृष्ठदेशे चतुर्दश २२६
ग्रीवायामूर्ध्वभागे तु सप्तत्रिंशन्मतानि हि
मर्माणि तानि सन्तीह पञ्चधा च भवन्ति हि २२७
सद्यः प्राणहराणि स्युर्मर्माण्येकोनविंशतिः
मर्मदेशास्त्रयस्त्रिंशत् स्युः कालान्तरमारकाः २२८
चत्वारिंशच्च चत्वारि वैकल्यं जनयन्ति हि
मर्माष्टकं रुजाकारि विशल्यघ्नं त्रिकं मतम् २२९
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठशिरा गुदम्
हृदयं वस्तिनाभी च सद्यो घ्नन्ति हतानि चेत् २३०
वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्र वस्तयः
वृहत्यौ पार्श्वयोः सन्धी कटीकतरुणे च ये
नितम्बाविति चैतानि कालान्तरहराणि तु २३१
लोहिताक्षाणिजानूर्वी कूर्चा विटपकूर्पराः
कुकुन्दरे कक्षधरे विधुरे सकृकाटिके २३२
अंसांसफलकापाङ्गा नीले मन्ये फणे तथा
वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च २३३
गुल्फौ द्वौ मणिबन्धौ द्वौ तथा कूर्चशिरांसि च
रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् २३४
उत्क्षेपौ स्थपनी चैव विशल्यघ्नं त्रिकम्मतम् २३५
सप्तरात्रान्तरे हन्युः सद्यः प्राणहराणि हि
कालान्तरप्राणहरं पक्षे मासे च मारकम् २३६
सद्यः प्राणहरञ्चान्ते विद्धं कालेन मारयेत्
कालान्तरप्राणहरमन्ते विद्धन्तु दुःखदम् २३७
मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम्
प्रायेण ते कृच्छ्रतमा भवन्ति वैद्येन यत्नैरपि साध्यमानाः २३८
अथ सन्धयः
ते द्विविधाश्चेष्टावन्तः स्थिराश्च
शाखासु हन्वोः कट्याञ्च चेष्टावन्तो भवन्ति हि
शेषास्तु सन्धयः सर्वे स्थिरास्तज्ज्ञैरुदाहृताः २३९
कथिता देहिनां देहे सन्धयो द्वे शते दश
शाखासु तेऽष्टषष्टिश्च कोष्ठे त्वेकोनषष्टिका २४०
ग्रीवाया ऊर्ध्वदेशे तु त्र्यशीतिस्ते प्रकीर्त्तिताः
प्रथमं परिगण्यन्ते तेषु शाखागता इह २४१
कोरोदूखलसामुद्गाः प्रतरस्तूणसेवनी
काकतुण्डं मण्डलञ्च शङ्खावर्त्तोऽष्टसन्धयः २४२
अस्थ्नां तु सन्धयो ह्येते केवलाः समुदाहृताः
पेशीस्नायु शिराणान्तु सन्धिसंख्या न विद्यते २४३
सन्धिबन्धनकारिण्यो दोषधातुवहाः शिराः
नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः २४४
शरीरं सकलञ्चैतच्छिराभिः पोष्यते सदा
प्रणालीभिरिवारामाः कुल्याभिः क्षेत्रधान्यवत् २४५
प्रसारणाकुञ्चनादिक्रियाभिः सततं तनौ
शिरा एवोपकुर्वन्ति ताः स्युः सप्तशतानि तु २४६
यथा द्रुमदले साक्षाद् दृश्यन्ते प्रतताः शिराः
तथैव दैहिनो देहे वर्त्तन्ते सकले शिराः २४७
नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिरुपाश्रिता
शिराभिरावृता नाभिश्चक्रनाभिरिवारकैः २४८
क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम्
करोत्यन्यान् गुणांश्चापि स्वाः शिराः पवनश्चरन् २४९
यदा तु कुपितो वायुः स्वाः शिराः प्रतिपद्यते
तदाऽस्य विविधा रोगा जायन्ते वातसम्भवाः २५०
भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम्
करोत्यन्यान् गुणांश्चापि पित्तमात्मशिराश्चरद् २५१
यदा तु कुपितं पित्तं सेवते स्ववहाः शिराः
तदाऽस्यविविधा रोगा जायन्ते पित्तसम्भवाः २५२
स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमरोगाताम्
करोत्यन्यान् गुणांश्चापि वलासःस्वाःशिराश्चरन् २५३
यदा तु कुपितः श्लेष्मा स्वाः शिराः प्रतिपद्यते
तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः २५४
धातूनां पूरणं वर्णस्पर्शज्ञानमसंशयम्
स्वशिरासु चरद्र क्तं कुर्याच्चान्यान् गुणानपि २५५
यदा तु कुपितं रक्तं सेवते स्ववहाः शिराः
तदाऽस्य विविधा रोगा जायन्ते रक्तसम्भवाः २५६
तत्रारुणा वातवहाः पूर्यन्ते वायुना शिराः
पित्तादुष्णाश्च नीलाश्च शीता गौर्यः स्थिराः कफात्
असृग्धरास्तु ता रक्ताः स्युश्च नात्युष्णशीतलाः २५७
मेदसः स्नेहमादाय शिरा स्नायुत्वमाप्नुयात्
शिराणां हि मृदुः पाकः स्नायूनान्तु ततः खरः २५८
स्नायवो बन्धनानिस्युर्देहमांसास्थिमेदसाम्
सन्धीनामपि यत्तास्तु शिराभ्यः सुदृढाः स्मृताः २५९
नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता
नियुक्ताऽगाधसलिले भवेद्भारसहा भृशम् २६०
एवमेव शरीरेस्मिन्यावन्तः सन्धयः स्मृताः
स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः २६१
शतानि नव जायन्ते शरीरे स्नायवो नृणाम्
तासां विवरणं ब्रूमः शिष्याः शृणुत यत्नतः २६२
शाखासु षट्शतानि स्युः कोष्ठे त्रिंशच्छतद्वयम्
ग्रीवाया ऊर्ध्वदेशे तु स्नायूनां सप्ततिः समृता २६३
धमन्यो नाभितो जाताश्चतुर्विंशतिसंख्यया
दशोर्ध्वगा दशाधोगाः शेषास्तिर्यग्गताः स्मृता २६४
यथा स्वभावतः खानि मृणालेषु विसेषु च
धमनीनां तथा खानि रसो यैरभितश्चरेत् २६५
पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रि यं पञ्चसु भाबयन्ति
पञ्चेन्द्रि यं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले २६६
महत्यः स्नायवः प्रोक्ताः कण्डरास्तास्तु षोडश
प्रसारणाकुञ्चनयोर्दृष्टं तासां प्रयोजनम् २६७
चतस्रो हस्तयोस्तासां तावत्यः पादयोः स्मृताः
ग्रीवायामपि तावत्यस्तावत्यः पृष्ठसङ्गताः २६८
नेत्रश्रवणनासानां द्वे द्वे रन्ध्रे प्रकीर्त्तिते
मुखमेहनपायूनामेकैकं रन्ध्रमुच्यते २६९
दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः
स्त्रीणामन्यानि च त्रीणि स्तनयोर्गर्भवर्त्मनि २७०
मनः प्राणान्नपानीयदोषधातूपधातवः
धातूनां च मला मूत्रं मलमित्यादयस्तनौ २७१
सञ्चरन्ति हि यैर्मागैस्तानि स्रोतांसि सञ्जगुः
बहूनि तानि संख्याय शक्यन्ते नैव भाषितुम् २७२
जालानि तु शिरास्नायुमांसास्थ्नामुद्भवन्ति हि
तानि चत्वारि चत्वारि सर्वाण्येव च षोडश २७३
कूर्चा स्युर्हस्तयोर्द्वौ तु तावन्तौ पादयोरपि
ग्रीवायामेक एकस्तु मेढ्रे सर्वेऽपि षट् स्मृताः २७४
पृष्ठवंशस्योभयत्र महत्यो मांसरज्जवः
चतस्रो मांसपेशीनां बन्धनं तत्प्रयोजनम् २७५
सेवन्यः सप्त तासां तु भवेयुः पञ्च मस्तके
एका शेफसि जिह्वायामेका विध्येन्न ताः क्वचित् २७६
चतुर्दशास्थ्नां सङ्घातास्तेषां त्रयो गुल्फजानुवंक्षणेषु
एतेनेतरसक्थिबाहू च व्याख्यातौ त्रिकशिरसोरेकैकम् २७७
चतुर्दशैव सीमन्ताः कथिता मुनिपुङ्गवैः
सङ्घाताः सीविता यैस्तु सीमन्तास्ते प्रकीर्त्तिताः २७८
क्षीरस्य पच्यमानस्य यथा सन्तानिका भवेत्
पच्यमानस्य शुक्रस्य रजसश्च तथा त्वचः
पूर्वावभासिनी तासां सिध्मस्थानं च सा स्मृता २७९
द्वितीया लोहिता ज्ञेया तिलकालकजन्मभूः २८०
तृतीया तु भवेच्छ्वेता स्थानं चर्मदलस्य सा २८१
ताम्रा चतुर्थी विज्ञेया किलासश्वित्रभूमिका २८२
पिञ्चमी वेदिनी नाम्ना पञ्चभागप्रमाणिका
विसर्पकुष्ठाधिष्ठाना ज्ञेया षष्ठी तु रोहिणी
विख्याता रोहिणी षष्ठी ग्रन्थिगण्डापचीस्थितिः २८३
स्थूला त्वक्सप्तमी ख्याता विद्र ध्यादेः स्थितिश्च सा २८४
अस्थ्नो मलानि लोमानि चासंख्यानि भवन्ति हि
सन्ति यावन्ति लोमानि तावन्तो लोमकूपकाः २८५
अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते
सन्निवेशश्च गात्राणां नात्रास्ते कारणान्तरम् २८६
अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्यगुणा गुणाः
ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः २८७
दन्तानां पतनं जन्म पुनः पाते त्वसम्भवः
तलेष्वनुद्भवो लोम्नामेतत्सर्वं स्वभावतः २८८
गर्भाशये निपतितं यादृक्शुक्रं तथाऽतवम्
तादृगेव द्र वीभूतं प्रथमे मासि तिष्ठति २८९
मरुत्पित्तकफैस्तत्स्थैः पच्यमानो द्वितीयके
कललस्थमहाभूतसमुदायो घनीभवेत् २९०
तृतीये मासि शिरसो हस्तयोः पादयोस्तथा
पिण्डकाः पञ्च सिध्यन्ति सूक्ष्माङ्गावयवास्तनोः २९१
सर्वाण्यङ्गान्युपाङ्गानि चतुर्थे स्युः स्फुटानि हि
हृदयव्यक्तभावेन व्यज्यते चेतनाऽपि च २९२
तस्माच्चतुर्थे गर्भस्तु नाना वस्तूनि वाञ्छति
ततो द्विहृदया यत्स्यान्नारी दौहृदिनी मता २९३
दौहृदावज्ञया कुब्जं कुणिं षण्ढं च वामनम्
विकृताक्षमनक्षं वा पुत्रं नारी प्रसूयते २९४
यतः स्त्री दौहृदं प्राप्य वीर्यवन्तं चिरायुषम्
पुत्रं प्रसूयते तस्मात्तस्यै वाच्छितमर्पयेत् २९५
इन्द्रि यार्थांस्तु यान्यान्सा भोक्तुमिच्छति गर्भिणी
गर्भबाधाभयात्तांस्तान्भिषगाहृत्य दापयेत् २९६
सा प्राप्तदौहृदा पुत्रं जनयेत्तु गुणान्वितम्
अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् २९७
येषु येष्विन्द्रि यार्थेषु दौहृदे साऽवमानिता
प्रसूयते सुतं सार्तिं तस्मिंस्तस्मिंस्तदिन्द्रि ये २९८
राजसन्दर्शने यस्या दौहृदंजायते स्त्रियाः
अर्थवन्तं महाभागं कुमारं सा प्रसूयते २९९
दुकूलपट्टकौशेयभूषणादिषु दौहृदात्
अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते ३००
आश्रमे संयतात्मानं धर्मशीलं प्रसूयते
देवताप्रतिमायां तु प्रसूते पार्षदोपमम् ३०१
दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते
रक्ताक्षं लोमशं शूरं महिषामिषदौहृदात् ३०२
वाराहमांसे स्वप्नालुं शूरं सञ्जनयेत्सुतम्
मृगमांसे तु जङ्घालं विक्रान्तं वनचारिणम् ३०३
अतोऽनुक्तेषु या नारी दौहृदं विदधाति हि
शरीराचारशीलैः सा समानं जनयिष्यति ३०४
पञ्चमे मानसं षष्ठे बुद्धिश्चातिप्रबुद्ध्य्ते
सर्वाण्यङ्गान्युपाङ्गानि भृशं व्यक्तानि सप्तमे ३०५
ओजोऽष्टमे सञ्चरति माता पुत्रौ मुहुः क्रमात्
तेन तौम्लानमुदितौ स्यातां जातो न जीवति ३०६
न जीवत्यष्टमे जातस्तत्रौजो न स्थिरं यतः
तथा नेरृत्यभागत्वाद्दापयेत्तद्वलि ततः ३०७
नवमे दशमे मासि नारी बालं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ३०८
शिरो भवति चाङ्गस्य पूर्वमित्याह शौनकः
शिरस्येवोपजायन्ते प्रधानानीन्द्रि याणि यत् ३०९
हृदयं जायते पूर्वं कृतवीर्योऽवदन्मुनिः
बुद्धेश्च मनसश्चापि यतस्तत्स्थानमीरितम् ३१०
पाराशर्य इति प्राह पूर्वं नाभिसमुद्भवः
प्राणो यत्र स्थितो देहं वर्द्धयत्यूष्मसंयुतः ३११
पाणिपादं भवेत्पूर्वं मार्कण्डेयमुनेर्मतम्
देहिनः सकलाश्चेष्टाः पाणिपादाश्रया यतः ३१२
प्रथमं जायते कोष्ठं ततः सर्वांगसम्भवः
एतत्तुं कथयामास गौतमो मुनिपुंगवः ३१३
सर्वाण्यङ्गान्युपाङ्गानि युगपत्सम्भवन्ति हि
सूक्ष्मत्वान्नोपलभ्यन्ते मतं धन्वन्तरेरिदम् ३१४
आम्रस्याणुफले भवन्ति युगपन्मांसास्थिमज्जादयो
लक्ष्यन्ते न पृथक्पृथक्तनुतया पुष्टास्त एव स्फुटाः
एवं गर्भसमुद्भवे त्ववयवाः सर्वे भवन्त्येकदा
लक्ष्याः सूक्ष्मतया न ते प्रकटतामायान्ति वृद्धिं गताः ३१५
अथ शरीरे पितृजमातृजरसजात्मजा भागा उच्यन्ते तत्र
केशाःश्मश्रु च लोमानि नखा दन्ताः शिरास्तथा
धमन्यः स्नायवः शुक्रमेतानि पितृजानि हि ३१६
मांसासृङ्मज्जमेदांसि यकृत्प्लीहान्त्रनाभयः
हृदयं च गुदं चापि भवन्त्येतानि मातृतः ३१७
शरीरोपचयो वर्णो बलं देहस्थितिस्तथा
रसादेतानि जायन्ते भिषजो मुनयो जगुः ३१८
ज्ञानं विज्ञानमायुश्च सुखदुःखादिकं तथा
इन्द्रि याणि च सर्वाणि भवन्त्येतानि चात्मनः ३१९
अग्नीषोमौ मही वायुर्नभः सत्त्वं रजस्तमः
पञ्चेन्द्रि याणि भूतात्मा गर्भं सञ्जीवयन्ति हि ३२०
गर्भस्य नाभिनाड्या तु नाडी रसवहा स्त्रियाः
संलग्ना तेन गर्भस्य वृद्धिर्भवति नित्यशः ३२१
निःश्वासोच्छ्वाससंक्षोभस्वप्नांशान्सोऽधिगच्छति
मातुर्निःश्वसितोच्छ्वाससंक्षोभस्वप्नसंभवान् ३२२
गर्भस्य नाभिमध्ये तु ज्योतिःस्थानं ध्रुवं स्मृतम्
तदाधमति वातश्च देहस्तेनास्य वर्धते ३२३
ऊष्मणा सहिताश्चापि दारयत्यस्य मारुतः
ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांसि तु यथा तथा ३२४
दृष्टिश्च रामकूपाश्च न वर्धन्ते कदा च न
ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम् ३२५
शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा
स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः ३२६
चेतनानामधिष्ठानं मनो देहश्च सेन्द्रि यः
केशलोमनखाग्रान्नमलद्र वगुणैर्विना ३२७
वाताल्पत्वादयोगाच्च वायोः पक्वाशयस्य च
वातमूत्रपुरीषाणि गर्भस्थो न विमुञ्चति ३२८
जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ३२९
गर्भिणी प्रथमादह्नः प्रहृष्टा भूषिता शुचिः
भवेच्छुक्लाम्बरधरा गुरुविप्रार्चने रता ३३०
भोज्यं तु मधुरप्रायं स्निग्धं हृद्यं द्र वं लघु
सस्कृतं दीपनीयं तु नित्यमेवोपयोजयेत् ३३१
गर्भिणी न तु कुर्वीत व्यायाममपतर्पणम्
व्यवायं च न सेवेत न कुर्यादतितर्पणम् ३३२
रात्रौ जागरणं शोकं यानस्यारोहणं तथा
रक्तमोक्षं वेगरोधं न कुर्यादुत्कटासनम् ३३३
दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते
स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ३३४
मलिनां विकृताकारां हीनाङ्गीं न स्पृशेत्स्त्रियम्
न जिघ्रेदपि दुर्गन्धं न पश्येन्नयनाप्रियम् ३३५
वचांसि नापि शृणुयात्कर्णयोरप्रियाणि च
नान्नं पर्युषितं शुष्कं भुञ्जीत क्वथितं न च ३३६
चैत्यश्मशानवृक्षांश्च भावांश्चाप्ययशस्करान्
बहिर्निष्क्रमणं क्रोधं शून्यागारं च वर्जयेत् ३३७
नोच्चैर्ब्रूयान्न तत्कुर्याद्येन गर्भो विनश्यति
तैलाभ्यङ्गोद्वर्तनं च नात्यर्थं कारयेदपि ३३८
नामृद्वास्तरणं कुर्यान्नात्युच्चं शयनासनम्
एतांस्तु नियमान्सर्वान्यत्नात्कुर्वीत गर्भिणी ३३९
नवमे दशमे मासि नारी गर्भं प्रसूयते
एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ३४०
अष्टहस्तायतं चारु चतुर्हस्तविशालकम्
प्राचीद्वारमुदग्द्वारं विदध्यात्सूतिकागृहम् ३४१
जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने
सशूले जघने नारी विज्ञेया प्रसवोत्सुका ३४२
आसन्नप्रसवायास्तु कटीपृष्ठं तु सव्यथम्
भवेन्मुहुः प्रवृत्तिश्च मूत्रस्य च मलस्य च ३४३
तैलेनाभ्यक्तगात्रान्तां संस्नातामुष्णवारिणा
यवागूं पाययेत्कोष्णां मात्रया घृतसंयुताम् ३४४
कृतोपधाने मृदुनि विस्तीर्णे शयने शनैः
अभुग्नसक्थी चोत्ताना नारी तिष्ठेद्व्यथाऽन्विता ३४५
चतस्रोऽशकनीयाश्च स्रावणे कुशला हिताः
वृद्धाः परिचरेयुस्ताः सम्यक्छिन्ननखाः स्त्रियः ३४६
अपत्यमार्गं तैलेन समभ्यज्य समन्ततः
एका तु तासु सुभगे प्रवाहस्वेति तां वदेत् ३४७
अव्यथा मा प्रवाहिष्ठाः प्रावहेथा व्यथा यदि
प्रवाहेथाः शनैः पूर्वंप्रगाढं च ततः परम् ३४८
ततो गाढतमं गर्भे योनिद्वारमुपागते
अपरासहितो गर्भो यावत्पतति भूतले ३४९
मूकं वा बधिरं कुब्जं श्वासकासक्षयान्वितम्
सूते स्रस्ततनुं बालमकाले तु प्रवाहणात् ३५०
इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते
भावप्रकाशे गर्भप्रकरणं तृतीयम् ३
अथ चतुर्थं बालप्रकरणम् ४
अथ बाले समुत्पन्ने विदधीत विधिं तथा
यथैव कुलवृद्धस्त्रीव्यवहारपरम्परा १
प्रसूता हितमाहारं विहारं च समाचरेत्
व्यायामं मैथुनं क्रोधं शीतसेवां विवर्जयेत् २
मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते
स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत् ३
सर्वतः परिशुद्धा स्यात्स्निग्धपथ्याऽल्पभोजना
स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता ४
प्रसूता सार्धमासान्ते दृष्टे वा पुनरार्त्तवे
सूतिकानामहीना स्यादिति धन्वन्तरेर्मतम् ५
व्युपद्र वां विशुद्धां च विज्ञाय वरवर्णिनीम्
ऊर्ध्वं चतुर्भ्यो मासेभ्यो नियमं परिहारयेत् ६
रसप्रसादो मधुरः पक्वाहारनिमित्तजः
कृत्स्नाद्देहात्स्तनौ प्राप्तः स्तन्यमित्यभिधीयते ७
स्तन्यं त्रिरात्रात्स्त्रीणां वा चतूरात्रादनन्तरम्
प्रवर्त्तयन्ति विवृता धमन्यो हृदये स्थिताः ८
पयः पुत्रस्य संस्पर्शाद्दर्शनात्स्मरणादपि
ग्रहणादप्युरोजस्य शुक्रवत्सम्प्रवर्त्तते
स्नेहो निरन्तरस्तस्य प्रवाहे हेतुरुच्यते ९
अवात्सल्याद्भयाच्छोकात्क्रोधादत्यपतर्पणात्
स्त्रीणां स्तन्यं भवेत्स्वल्पं गर्भान्तरविधारणात् १०
शालिषष्टिकगोधूमान्मांसक्षुद्र झषानपि
कालशाकमलाबूं च नारिकेलं कसेरुकम् ११
शृङ्गाटकं वरीं चापि विदारीकन्दमेव च
लशुनं दुग्धवृद्धयै स्त्री सेवेत सुमना भवेत् १२
कलमस्य तण्डुलानां कल्कं या क्षीरपेषितं पिबति
सा भवति भृशं तरुणी क्षीरभरेणैव तुङ्गकुचयुगला १३
कलमः कलिविख्यातो जायते स बृहद्ध्रदे
काश्मीरदेश एवोक्तो महातण्डुलसंज्ञकः १४
विदारिकन्दस्य रसं पिबेत्स्तन्यस्य वृद्धये
तच्चूर्णं तस्य वृर्द्ध्य्थं पिबेद्वा क्षीरसंयुतम् १५
धात्र्या गुरुभिराहारैर्विहारैर्दोषलैस्तथा
देहे दोषाः प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति १६
मिथ्याऽहारविहारिण्या दुष्टा वातादयः स्त्रियाः
दूषयन्ति पयस्तेन शरीरं व्याधयः शिशोः १७
कषायं सलिलप्लावि स्तन्यं मारुतदूषितम्
पित्तादम्लं च कटुकं राज्योऽम्भसि तु पीतिकाः १८
कफदुष्टं तु यत्तोये निमज्जति च पिच्छिलम्
द्वन्द्वजं तु द्विलिङ्गं स्यात्त्रिलिङ्गं सान्निपातिकम् १९
धात्री क्षीरविशुर्द्ध्य्थं मुद्गयूषरसाशिनी
भार्ङ्गीदारुवचाः पिष्ट्वा पिबेत्साऽतिविषास्तथा २०
पाठामूर्वाऽब्दभूनिम्बदारुशुण्ठीकलिङ्गकैः
सारिवामत्स्यपित्ताऽख्यै क्वाथः स्तन्यविशोधनः २१
पटोलनिम्बासनदारुपाठा मूर्वां गुडूचीं कटुरोहिणीं च
सनागरां च क्वथितां च तोये धात्री पिबेत्स्तन्यविशुद्धिहेतोः २२
नीरे स्यन्यं यदेकि स्वादविवर्णमतन्तुमत्
पाण्डुरं तनु शीतं च तद्दुग्धं शुंद्धमादिशेत् २३
पीताय यदि बालस्य विदध्यादुपमातरम्
सुविचार्य गुणान्दोषान्कुर्याद्धात्रीं तदेदृशीम् २४
सवर्णां मध्यवयसां सच्छीलां मुदितां सदा
शुद्धदुग्धां बहुक्षीरां सवत्सामतिवत्सलाम् २५
स्वाधीनामल्पसन्तुष्टां कुलीनां सज्जनात्मजाम्
कैतवेन परित्यक्तां निजपुत्रशदृशं शिशौ २६
शोकाकुलाक्षु धार्ता च श्रान्ता व्याधिमती सदा
अत्युच्चा नितरां नीचा स्थूलातीव भृशं कृशा २७
गर्भिणी ज्वरिणी चापि लम्बोन्नतपयोधरा
अजीर्णभोजिनी चापि तथा पथ्यविवर्जिता २८
आसक्ता क्षुद्र कार्येषु दुःखार्ता चञ्चलाऽपि च
एतासां स्तन्यपानेन शिशुर्भवति सामयः २९
तत्र माता प्रशस्ताङ्गी चारुवस्त्रा पुरोमुखी
उपविश्यासने सम्यग्दक्षिणं स्तनमम्बुना ३०
प्रक्षाल्येषत्परिस्राव्य मन्त्राभ्यामभिमन्त्रितम्
उदङ्मुखं शिशुं क्रोडे शनैः सन्धाय पाययेत् ३१
अस्रावितं स्तनं बालः पिबन्स्तन्येन भूयसा
पूर्णस्रोता वमीकासश्वासैर्भवति पीडितः ३२
क्षीरनीरनिधिस्तेऽस्तु स्तनयोः क्षीरपूरकः
सदैव सुभगो बालो भवत्वेष महाबलः ३३
पयोऽमृतसमं पीत्वा कुमारस्ते शुभानने
दीर्घमायुरवाप्नोतु देवाः प्राप्यामृतं यथा ३४
क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा
दद्यादास्तन्यपर्याप्तेर्बालेभ्यो वीक्ष्य मात्रया ३५
यथोक्तविधिना बालं मासि षष्ठेऽष्टमेऽपि च
अन्नं सम्प्राशयेत्किञ्चित्ततस्तद्वर्धयेत्क्रमात् ३६
बालमङ्के सुखं दध्यान्न चैनं तर्जयेत्क्वचित्
सहसा बोधये न्नैव नायोग्यमुपवेशयेत् ३७
नाकृष्य स्थापयेत्क्रोडे न क्षिप्रं शयने क्षिपेत्
रोदयेन्न क्वचित्कार्ये विधिमावश्यकं विना ३८
तच्चित्तमनुवर्त्तेत तं सदैवानुमोदयेत्
वारतपतडिद्वृष्टिधूमानलजलादितः
निम्नोच्चस्थानतश्चापि रक्षेद्बालं प्रयत्नतः ३९
अभ्यङ्गोद्वर्त्तन स्नानं नेत्रयोरञ्जनं तथा
वसनं मृदु यत्तच्च तथा मृद्वनुलेपनम्
जन्मप्रभृति पथ्यानि बालस्यैतानि सर्वथा ४०
कवलः पञ्चमाद्वर्षादष्टमान्नस्यकर्म च
विरेकः षोडशाद्वर्षाद्विंशतेश्चैव मैथुनम् ४१
वयस्तु त्रिविधं बाल्यं मध्यमं वार्धकं तथा
ऊनषोडशवर्षस्तु नरो बालो निगद्यते ४२
त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथाऽन्नभुक्
दुग्धाशी वर्षपर्यन्तं दुग्धान्नाशी शरद्द्वयम् ४३
तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधा मतः
मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः ४४
चतुर्धा मध्यमं वृद्धियुवपूर्णक्षयान्वितम्
भवेदाविंशतेर्वृद्धिर्युवा त्वान्त्रिंशतो मतः ४५
चत्वारिंशत्समा यावत्तिष्ठेद्वीर्यादिपूरितः
ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः ४६
ततस्तु सप्ततेरूर्ध्वं क्षीणधातुरसादिकः
क्षीयमाणेन्द्रि यबलः क्षीणरेता दिने दिने ४७
बलीपलितखालित्ययुक्तः कर्मसु चाक्षमः
कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः ४८
बाल्ये विवर्धते श्लेष्मा पित्तं स्यान्मध्यमेऽधिकम्
वार्धके वर्द्धते वायुर्विचार्यैतदुपक्रमेत् ४९
बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ
बुद्धिः कर्मेन्द्रि यं चेतो जीवितं दशतो ह्रसेत् ५०
सप्त प्रकृतयो नॄणां वातात्पित्तात्कफात्तथा
संसर्गात्सन्निपाताच्च भवन्ति भिषजां मते ५१
शुक्रशोणितसंयोगे यो दोषस्तूत्कटो भवेत्
प्रकृतिर्जायते तेन तस्या लक्षणमुच्यते ५२
शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयार्त्तिषु
यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता ५३
जागरूकोऽल्पकेशश्च स्फुटितांघ्रिकरः कृशः
शीघ्रगो बहुवाग्रूक्षः स्वप्ने वियति गच्छति
एवंविधः स विज्ञेयो वातप्रकृतिको नरः ५४
पित्तप्रकृतिको लोको यादृशोऽथ निगद्यते
अकालपलितो गौरः क्रोधी स्वेदी च बुद्धिमान् ५५
बहुभुक्ताम्रनेत्रश्च स्वप्ने ज्योतींषि पश्यति
एवंविधो भवेद्यस्तु पित्तप्रकृतिको नरः ५६
श्यामकेशः क्षमी स्थूलो बहुवीर्यो महाबलः
स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः ५७
दृश्यते प्रकृतौ यत्र रूपं दोषद्वयस्य तु
द्विसंसर्गेण जानीयात्सर्वलिङ्गैस्त्रिदोषजम् ५८
विभुत्वादाशुकारित्वाद्वलित्वादन्यकोपनात्
स्वातन्त्र्याद्बहुरोगत्वाद्दोषाणां प्रबलोऽनिलः ५९
प्रायोऽत एव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटितधूसरकेशगात्राः
शीतद्विषश्चलधृतिस्मृतिबुद्धिचेष्टासौहार्ददृष्टिगतयोऽतिबहुप्रलापाः ६०
अल्पपित्तबलजीवितनिद्राः सन्नसक्तचलजर्जरवाचः
नास्तिका बहुभुजः सविलासा गीतहास्यमृगयाकलिलोलाः ६१
मधुराम्लपटूष्णसात्म्यकांक्षाः कृशदीर्घाकृतयः सशब्दयाताः
न दृढा न जितेन्द्रि या न चार्या न च कान्तादयिता बहुप्रजा वा ६२
नेत्राणि चैषां खरधूसराणि वृत्तान्यचारूणि मृतोपमानि
उन्मीलितानीव भवन्ति सुप्ते शैलद्रुमांस्ते गगनं च यान्ति ६३
अधन्या मत्सराध्माताः स्तेना प्रोद्बद्धपिण्डिकाः
श्वशृगालोष्ट्रगृध्राखुकाकानूकाश्च वातिकाः ६४
पित्तं वह्निर्वह्निजं वा यदस्मात्पित्तोद्रि क्तस्तीक्ष्णतृष्णाबुभुक्षः
गौरोष्णाङ्गस्ताम्रहस्ताङ्घ्रिवक्त्रः शूरो मानी पिङ्गकेशोऽल्परोमा ६५
दयितमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः
विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि ६६
मेधावी प्रशिथिलसन्धिबन्धमांसो नारीणामनभिमतोऽल्पशुक्रकामः
आवासः पलिततरंगनीलिकानां भुक्तान्नं मधुरकषायतिक्तशीतम् ६७
धर्मद्वेषी स्वेदनः पूतिगन्धिर्भूर्युच्चारक्रोधपानाशनेर्ष्यः
सुप्तं पश्येत्कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च ६८
तनूनि पिङ्गानि चलानि चैषां तन्वल्पपक्ष्माणि हिमप्रियाणि
क्रोधेन मद्येन रवेश्च भासा रागं व्रजन्त्याशु विलोचनानि ६९
मध्यायुषो मध्यबलाः पण्डिताः क्लेशभीरवः
व्याघ्रर्क्षकपिमार्जारवृकानूकाश्च पैत्तिकाः ७०
श्लेष्मा सोमं श्लेष्मलस्तेन सौम्यो गूढस्निग्धश्लिष्टसन्ध्यस्थिमांसः
क्षुत्तृड्दुःखक्लेशधर्मैरतप्तो बुद्ध्या युक्तः सात्त्विकः सत्यसन्धः ७१
प्रियंगुदूर्वाशरकाण्डदर्भगोरोचनापद्मसुवर्णवर्णः
प्रलम्बबाहुः पृथुपीनवक्षा महाललाटो घननीलकेशः ७२
मृद्वङ्गः समसुविभक्तचारुदेहो बह्वोजोरतिरसशुक्रपुत्रभृत्यः
धर्मात्मा वदति न निष्ठुरं च जातु प्रच्छन्नं वहति दृढं चिरं च वैरम् ७३
समदद्विरदेन्द्र तुल्ययातो जलदाम्भोधिमृदङ्गसिंहघोषः
स्मृतिमानभियोगवान्विनीतो न च बाल्येऽप्यतिरोदनो न लोलः ७४
तिक्तं कषायं कटुकोष्णरूक्षमल्पं स भुंक्ते बलवांस्तथाऽपि
रक्तान्तसुस्निग्धविशालदीर्घसुव्यक्तशुक्लासितपक्ष्मलाक्षः ७५
अल्पव्याहारक्रोधपानाशनेर्ष्यः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः
श्राद्धो गम्भीरः स्थूललक्ष्यः क्षमावानार्योनिद्रा लुर्दीर्घसूत्रः कृतज्ञः ७६
ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां स्थिरसौहृदश्च
स्वप्ने सपद्मान्सविहङ्गमालांस्तोयाशयान्पश्यति तोयदांश्च ७७
ब्रह्मरुद्रे न्द्र वरुणतार्क्ष्यहंसगजाधिपैः
श्लेष्मप्रकृतयस्तुल्यास्तथा सिंहाश्वगोवृषैः ७८
विषजातो यथा कीटो न विषेण प्रबाध्यते
तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम् ७९
प्रकोपो वाऽन्यभावो वा शमो वा नोपजायते
प्रकृतीनां स्वभावेन जायते तु गतायुषः ८०
इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते
भावप्रकाशे बालप्रकरणं चतुर्थम् ४
अथ पञ्चमं दिनचर्यादिप्रकरणम् ५
भूमिदेशस्त्रिधाऽनूपो जांगलो मिश्रलक्षणः १
नदीपल्वलशैलाढ्यः फुल्लोत्पलकुलैर्युतः
हंससारसकारंडचक्रवाकादिसेवितः २
शशवाराहमहिषरुरुरोहिकुलाकुलः
प्रभूतद्रुमपुष्पाढ्यो नीलशस्यफलान्वितः ३
अनेकशालिकेदारकदलीक्षुविभूषितः
अनूपदेशो ज्ञातव्यो वातश्लेष्मामयार्त्तिमान् ४
आकाशसम उच्चश्च स्वल्पपानीयपादपः
शमीकरीरबिल्वार्कपीलुकर्कंधुसङ्कुलः ५
हरिणैणर्क्षपृषतगोकर्णखरसङ्कुलः
सुस्वादुफलवान्देशो वातलो जाङ्गलः स्मृतः ६
बहूदकनगोऽनूपः कफमारुतरोगवान्
जाङ्गलोऽल्पाम्बुशाखी च पित्तासृङ्मारुतोत्तरः ७
संसृष्टलक्षणो यस्तु देशः साधारणो मतः
समाः सधारणे यस्माच्छीतवर्षोष्णमारुताः
समता तेन दोषाणां तस्मात्साधारणो वरः ८
उचिते वर्तमानस्य नास्ति दुर्देशजं भयम्
आहारस्वप्नचेष्टाऽदौ तद्देशस्य कृते सति ९
यस्य देशस्य यो जन्तुस्तज्जं तस्यौषधं हितम्
देशादन्यत्र वसतस्तत्तुल्यगुणमौषधम् १०
स्वे देशेनिचिता दोषा अन्यस्मिन्कोपमागताः
बलवन्तस्तथा न स्युर्जलजाः स्थलजास्तथा ११
मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा
तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम् १२
दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम्
आचरन्पुरुषः स्वस्थः सदा तिष्ठति नान्यथा १३
समदोषः समाग्निश्च समधातुमलक्रियः
प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते १४
ब्राह्मे मुहूर्ते बुध्येत स्वस्थो रक्षाऽथमायुषः
तत्र सर्वाघशान्त्यर्थं स्मरेद्धि मधुसूदनम् १५
दध्याज्यादर्शसिद्धार्थं बिल्वगोरोचनस्रजाम्
दर्शनं स्पर्शनं कार्यं प्रबुद्धेन शुभावहम् १६
स्वमाननं घृते पश्येद् यदीच्छेच्चिरजीवितम्
आयुष्यमुषसि प्रोक्तं मलादीनां विसर्जनम्
तदन्त्रकूजनाध्मानोदरगौरववारणम् १७
आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य १८
वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
जठरे वातजाश्चान्येरोगाः स्युर्वातनिग्रहात् १९
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
विनामो वङ्क्षणानाहः स्यालिङ्गं मूत्रनिग्रहे २०
न वेगितोऽन्यकार्यः स्यान्न वेगानीरयेद्बलात्
कामशोकभयक्रोधान्मनोवेगान्विधारयेत् २१
गुदादिमलमार्गाणां शौचं कान्तिबलप्रदम्
पवित्रकरमाख्यातमलक्ष्मीकलिपापहृत् २२
प्रक्षालनं मतं पाण्योः पादयोः शुद्धिकारणम्
मलश्रमहरं वृष्यं चक्षुष्यं राजसापहम् २३
भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम्
कनिष्ठिकाऽग्रवत्स्थूलमृज्वग्रन्थिं तथाऽव्रणम् २४
एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन तु
दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् २५
क्षौद्र त्रिकटुकाक्तेन तैलसिन्धुभवेन वा
चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत् २६
मधुको मधुरे श्रेष्ठः करञ्जः कटुके तथा
निम्बः स्यात्तिक्तके श्रेष्ठः कषाये खदिरस्तथा २७
समयं तु समालोक्य दोषं च प्रकृतिं तथा
यथोचितै रसैर्वीर्यैर्युक्तं द्र व्यं प्रयोजयेत् २८
तेनास्य मुखवैरस्यदन्तजिह्वाऽस्यजा गदाः
रुचिवैशद्यलघुता न भवन्ति भवन्ति च २९
अर्के वीर्यं वटे दीप्तिः करञ्जे विजयो भवेत्
प्लक्षे चैवार्थसम्पत्तिर्वैदर्यां मधुरोध्वनिः ३०
खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम्
उदुम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च ३१
कदम्बे तु धृतिर्मेधा चम्पके च दृढा मतिः
शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च ३२
अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथाऽसने
दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा ३३
जातीतगरमन्दारैर्दुःस्वप्नं च विनश्यति ३४
गुर्वाकस्तालहिन्तालौ केतकश्च बृहत्तृणः
खर्जूरं नारिकेलं च सप्तैते तृणराजकाः ३५
तृणराजसमुत्पन्नं यः कुर्याद्दन्तधावनम्
नरश्चाण्डालयोनिः स्याद्यावद्गङ्गां न पश्यति ३६
न खादेद्गलताल्वोष्ठजिह्वादन्तगदेषु तत्
मुखस्य पाके शोथे च श्वासकासवमीषु च ३७
दुर्बलोऽजीर्णभुक्तश्च हिक्कामूर्च्छामदान्वितः
शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः ३८
अर्दितः कर्णशूली च नेत्ररोगी नवज्वरी
वर्जयेद्दन्तकाष्ठं तु हृदामययुतोऽपि च ३९
जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा
पाटितं मृदु तत्काष्ठं मृदुपत्रमयं तथा ४०
दशाङ्गुलं मृदु स्निग्धं तेन जिह्वां लिखेत्सुखम्
तज्जिह्वामलवैरस्यदुर्गन्धजडताहरम् ४१
गण्डूषमपि कुर्वीत शीतेन पयसा मुहुः
कफतृष्णामलहरं मुखान्तःशुद्धिकारकम् ४२
सुखोष्णोदकगण्डूषः कफारुचिमलापहः
दन्तजाड्यहरश्चापि मुखलाघवकारकः ४३
विषमूर्च्छामदार्त्तानां शोषिणां रक्तपित्तिनाम्
कुपिताक्षिमलक्षीणरूक्षाणां स न शस्यते ४४
मुखप्रक्षालनं शीतपयसा रक्तपित्तजित्
मुखस्य पिडिकाशोषनीलिकाव्यङ्गनाशनम् ४५
कुर्याद्वाऽपि कदुष्णेन पयसाऽस्यविशोधनम्
कफवातहरं स्निग्धं मुखशोषविनाशनम् ४६
कटुतैलादि नस्यार्थे नित्याभ्यासेन योजयेत्
प्रातः श्लेष्मणि मध्याह्ने पित्ते सायं समीरणे ४७
सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रि याः
निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः ४८
सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्
लोचने भवतस्तेन मनोज्ञे सूक्ष्मदर्शने ४९
स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम्
दृष्टेः कण्डूमलहरं दाहक्लेदरुजापहम् ५०
अक्ष्णो रूपावहं चैव सहते मारुतातपौ
नेत्रे रोगा न जायन्ते तस्मादञ्जनमाचरेत् ५१
रात्रौ जागरितः श्रान्तश्छर्दितो भुक्तवांस्तथा
ज्वरातुरः शिरः स्नातो नाक्ष्णोरञ्जनमाचरेत् ५२
पञ्चरात्रान्नखश्मश्रुकेशरोमाणि कर्त्तयेत्
केशश्मश्रुनखादीनां कर्त्तनं सम्प्रसाधनम्
पौष्टिकं धन्यमायुष्यं शौचकान्तिकरं परम् ५३
उत्पाटयेत्तु लोमानि नासाया न कदाचन
तदुत्पाटनतो दृष्टेर्दौर्बल्यं त्वरया भवेत् ५४
केशपाशे प्रकुर्वीत प्रसाधन्या प्रसाधनम्
केशप्रसाधनं केश्यं रजोजन्तुमलापहम् ५५
आदर्शालोकनं प्रोक्तं मङ्गल्यं कान्तिकारम्
पौष्टिकं बल्यमायुष्यं पापालक्ष्मीविनाशनम् ५६
लाघवं कर्मसमर्थ्यं विभक्तघनगात्रता
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ५७
व्यायामदृढगात्रस्य व्याधिर्नास्ति कदाचन
विरुद्धं वा विदग्धं वा भुक्तं शीघ्रं विपच्यते ५८
भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः
न चैवं सहसाऽक्रम्य जरा समधिरोहति ५९
न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षकम्
स सदा गुणमाधत्ते बलिनां स्निग्धभोजिनाम् ६०
वसन्ते शीतसमये सुतरां स हितो मतः
अन्यदाऽपि च कर्त्तव्यो बलार्धेन यथा बलम् ६१
हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते
मुखं च शोषं लभते तद्बलार्धस्य लक्षणम् ६२
किं वा ललाटे नासायां गात्रसन्धिषु कक्षयोः
यदा सञ्जायते स्वेदो बलार्धं तु तदादिशेत् ६३
भुक्तवान्कृतसम्भोगः कासी श्वासी कृशः क्षयी
रक्तपित्ती क्षती शोषी न तं कुर्यात्कदाचन ६४
अतिव्यायामतः कासो ज्वरश्छर्दिं श्रमः क्लमः
तृष्णा क्षयः प्रतमको रक्तपित्तं च जायते ६५
अभ्यङ्गं कारयेन्नित्यं सर्वेष्वङ्गेषु पुष्टिदम्
शिरः श्रवणपादेषु तं विशेषेण शीलयेत् ६६
सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम्
अन्यद्र व्ययुतं तैलं न दुष्यति कदाचन ६७
अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलं सुखम्
निद्रा वर्णमृदुत्वायुष्कुरुते देहपुष्टिकृत् ६८
अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रि यतर्पकः
दृष्टितुष्टिकरो हन्ति शिरोभूमिगतान्गदान् ६९
केशानां बहुतां दार्ढ्यं मृदुतां दीर्घतां तथा
कृष्णतां कुरुते कुर्याच्छिरसःपूर्णतामपि ७०
न कर्णरोगा न मलं न च मन्याहनुग्रहः
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णपूरणात् ७१
रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ७२
पादाभ्यङ्गश्च तत्स्थैर्यनिद्रा दृष्टिप्रसादकृत्
पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत् ७३
व्यायामक्षुण्णवपुषं पद्भ्यां सम्मर्दितं तथा
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ७४
लोमकूपशिराजालधमनीभिः कलेवरे
तर्पयेद्बलमाधत्ते स्नेहयुक्तेऽवगाहने ७५
अद्भिः संसिक्तमूलानां तरूणां पल्लवादयः
वर्द्धन्ते हि तथा नॄणां स्नेहसंसिक्तधातवः ७६
नवज्वरी अजीर्णी च नाभ्यक्तव्यः कथञ्चन
तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः ७७
पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा
शेषाणां च त्विह प्रोक्ता वह्निसादादयो गदाः ७८
उद्वर्त्तनं कफहरं मेदोघ्नं शुक्रदं परम्
बल्यं शोणितकृच्चापि त्वक्प्रसादमृदुत्वकृत् ७९
मुखलेपादृढं चक्षुः पीनो गण्डस्तथाऽननम्
कान्तमव्यङ्गपिडकं भवेत्कमलसन्निभम् ८०
दीपनंवृष्यमायुष्यं स्नानमोजोबलप्रदम्
कण्डूमलश्रमस्वेदतन्द्रा तृड्दाहपाप्मनुत् ८१
बाह्यैश्च सेकैः शीताद्यैरूष्माऽन्तर्याति पीडितः
नरस्य स्नानमात्रस्य दीप्यते तेन पावकः ८२
शीतेन पयसा स्नानं रक्तपित्तप्रशान्तिकृत्
तदेवोष्णेन तोयेन बल्यं वातकफापहम् ८३
शिरः स्नानमचक्षुष्यमत्युष्णेनाग्बुना सदा
वातश्लेष्मप्रकोपे तु हितं तच्च प्रकीर्त्तितम् ८४
अशीतेनाम्भसा स्नानं पयःपानं नवाःस्त्रियः
एतद्वो मानवाः पथ्यं स्निग्धमल्पं च भोजनम् ८५
यः सदाऽमलकैः स्नानं करोति स विनिश्चितम्
बलीपलितनिर्मुक्तो जीवेद्वर्षशतं नरः ८६
स्नानं ज्वरेऽतिसारे च नेत्रकर्णानिलार्तिषु
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ८७
स्नानस्यानन्तरं सम्यग्वस्त्रेणाङ्गस्य मार्जनम्
कान्तिप्रदं शरीरस्य कण्डूत्वग्दोषनाशनम् ८८
कौशेयौर्णिकवस्त्रं च रक्तवस्त्रं तथैव च
वातश्लेष्महरं तत्तु शीतकाले विधारयेत् ८९
मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते
तद्धारयेदुष्णकाले तत्रापि लघु शस्यते ९०
शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम्
न चोष्णं न च वा शीतं तत्तुवर्षासु धारयेत् ९१
यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्धनम्
त्वच्यं वशीकरं रुच्यं नवनिर्मलमम्बरम् ९२
कदाऽपि न जनैः सद्भिर्धार्यं मलिनमम्बरम्
तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम् ९३
कुङ्कुमं चन्दनं चापि कृष्णागुरु च मिश्रितम्
उष्णं वातकफध्वंसि शीतकाले तदिष्यते ९४
चन्दनं घनसारेण बालकेन च मिश्रितम्
सुगन्धि परमं शीतमुष्णकाले प्रशस्यते ९५
चन्दनं घुसृणोपेतं मृगनाभिसमायुतम्
न चोष्णं न च वा शीतं वर्षाकाले तदिष्यते ९६
अनुलेपस्तृषामूर्च्छादुर्गन्धस्वेददाहजित्
सौभाग्यतेजस्त्वग्वर्णप्रीत्यौजोबलवर्धनः
स स्नानानर्हलोकानाममुलेपोऽपि नो हितः ९७
सुगन्धिपुष्पपत्राणां धारणं कान्तिकारकम्
पापरक्षोग्रहहरं कामदं श्रीविवर्द्धनम् ९८
भूषणैर्भूषयेदङ्गं यथायोग्यं विधानतः
शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ९९
ग्रहदृष्टिहरं पुष्टिकरं दुःस्वप्ननाशनम्
पापदौर्भाग्यशमनं रत्नाभरणधारणम् १००
माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगो
र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम्
देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शने
र्नीलं निर्मलमन्ययोश्च गदिते गोमेदवैदूर्यके १०१
वासःशृङ्गाररत्नानां धारणं प्रीतिबर्धकम्
रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम् १०२
सततं सिद्धमन्त्रस्य महौषध्यास्तथैव च
रोचनासर्षपादीनां मङ्गल्यानां च धारणम् १०३
आयुर्लक्ष्मीकरं रक्षोहरं मङ्गलदं शुभम्
हिंस्नादिभयविध्वंसि वशीकरणकारणम् १०४
ततो भोजनवेलायां कुर्यान्मङ्गल्यदर्शनम्
तस्य प्रदर्शनं नित्यमायुर्धर्मविवर्धनम् १०५
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः
पुष्पस्रक्सर्पिरादित्य आपो राजा तथाऽष्टमः १०६
पादुकाधारणं कुर्यात्पूर्वं भोजनतः परम्
पादरोगहरं वृष्यं चक्षुष्यं चायुषो हितम् १०७
शरीरे जायते नित्यं वाञ्छा नॄणां चतुर्विधः
बुभुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा १०८
भोजनेच्छाविघातात्स्यादङ्गमर्दोऽरुचिः श्रमः
तन्द्रा लोचनदौर्बल्य धातुदाहो बलक्षयः १०९
विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत्
श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा ११०
निद्रा विघाततो जृम्भा शिरोलोचनगौरवम्
अङ्गमर्दस्तथा तन्द्रा स्यादन्नापाक एव च १११
बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात्
मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः ११२
आहारं पचति शिखी दोषानाहारवर्जितः
पचेद् दोषक्षये धातून्प्राणान्धातुक्षयेऽपि च ११३
आहारः प्रीणनः सद्यो बलकृद् देहधारणः
स्मृत्यायुःशक्तिवर्णौजःसत्त्वशोभाविवर्धनः ११४
यथोक्तगुणसम्पन्नं नरः सेवेत भोजनम्
विचार्य दोषकालादीन्कालयोरुभयोरपि ११५
सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम्
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ११६
याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत्
याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः ११७
क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च
काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः ११८
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ११९
आहारं तु रहः कुर्यान्निर्हारमपि सर्वदा
उभाभ्यां लक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया १२०
आहारनिर्हारविहारयोगाः सदैव सद्भिर्विजने विधेयाः १२१
पितृमातृसुहृद्वैद्यपाककृद्धंसबर्हिणाम्
सारसस्य चकोरस्य भोजने दृष्टिरुत्तमा १२२
दीनहीनक्षुधाऽत्तानां पापपाषण्डरोगिणाम्
कुक्कुटादेः शुनो दृष्टिर्भोजने नैव शोभना १२३
दोषहृद् दृष्टिदं पथ्यं हैमं भोजनभाजनम्
रौप्यं भवति चक्षुष्यं पित्तहृत्कफवातकृत् १२४
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम्
पैत्तलं वातकृद्रू क्षमुष्णं कृमिकफप्रणुत् १२५
आयसे काचपात्रे च भोजनं सिद्धिकारकम्
शोथपाण्डुहरं बल्यं कामलाऽपहमुत्तमम् १२६
शैलेये मृण्मये पात्रे भोजनं श्रीनिवारणम्
दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च
पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत् १२७
जलपात्रं तु ताम्रस्य तदभावे मृदो हितम् १२८
पवित्रं शीतलं पात्रं रचितं स्फटिकेन यत्
काचेन रचितं तद्वत्तथा वैदूर्यसम्भवम् १२९
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम्
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् १३०
अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः
इति सञ्चिन्त्य भुञ्जानं दृष्टिदोषो न बाधते १३१
अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम्
दृष्टिदोषविनाशाय हनुमन्तं स्मराम्यहम् १३२
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम्
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान् १३३
फलान्यादौ समश्नीयाद्दाडिमादीनि बुद्धिमान्
विना मोचफलं तद्वद्वर्जनीया च कर्कटी १३४
मृणालबिसशालूककन्देक्षुप्रभृतीनपि
पूर्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन १३५
गुरु पिष्टमयं द्र व्यं तण्डुलान्पृथुकानपि
न जातु भुक्तवान्खादेन्मात्रां खादेद्बुभुक्षितः १३६
घृतपूर्वं समश्नीयात्कठिनं प्राक् ततो मृदु
अन्ते पुनर्द्र वाशी तु बलाद्रो गेण मुञ्चति १३७
यद्यत्स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम्
भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम् १३८
सौमनस्यं बलं पुष्टिमुत्साहं वृद्धिमायुषः
स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् १३९
अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम्
अतिक्लिन्नं ग्लानिकरं युक्तियुक्तं हि भोजनम् १४०
अतिद्रुताशिताहारे गुणान्दोषान्न विन्दति
भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः १४१
मन्दानलो नरो द्र व्यं मात्रागुरु विवर्जयेत्
स्वभावतश्च गुरु यत्तथा संस्कारतो गुरु १४२
मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः
संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् १४३
आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च
भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम् १४४
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते
द्र वो द्र वोत्तरश्चापि न मात्रागुरुरिष्यते १४५
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति १४६
शुष्कं निरुद्धं विष्टम्भि वह्निव्यापादकृद्भवेत् १४७
न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून्
न जलान्तरितानद्भिः सक्तूनद्यान्न केवलान् १४८
पुनर्दानं पृथक्पानं सामिषं पयसा निशि
सदन्तच्छेदमुष्णं च सप्त सक्तुषु वर्जयेत् १४९
सक्तूनामाशु जीर्येत मृदुत्वादवलेहिका १५०
यथाकालेऽतिमात्रं यत् तद्भवेद्विषमाशनम्
बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम् १५१
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम्
हीनमात्रं तनोःकार्श्यं करोति च बलक्षयम् १५२
अप्राप्तकाले भुञ्जानो ह्यसमर्थतनुर्नरः
तांस्तान् व्याधीनवाप्नोति मरणं चाधिगच्छति १५३
कालेतीतेश्नतो जन्तोर्वायुनोपहतेऽनले
कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा १५४
कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत्
वायोः सञ्चारणार्थाय चतुर्थमवशेषयेत् १५५
रसेनान्नस्य रसना प्रथमेनोपतर्पिता
न तथा स्वादमाप्नोति ततः शोध्याम्बुनान्तरा १५६
अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः
तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि १५७
भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत्
मध्येऽग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम् १५८
समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः १५९
तृषितस्तु न चाश्नीयात्क्षुधितो न पिबेज्जलम्
तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी १६०
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम्
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान् १६१
दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्धनम्
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम् १६२
विदाहीन्यन्नपानानि यानि भुंङ्क्ते हि मानवः
तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत् १६३
कुर्यात्क्षीरान्तमाहारं न दध्यन्तं कदाचन
लवणाम्लकटूष्णानि विदाहीन्यत्ति यानि तु
तद्दोषं हर्तुमाहारं मधुरेण समापयेत् १६४
बलवच्छत्रुविनाशनेन शत्रुहन्तुः क्षीणता च दृश्यते तथा च
नाशनात्प्रत्यनीकस्य स्वयं च क्षीयते यथा
वह्निसन्तप्तलोहस्य तप्ततां नाशयेज्जलम् १६५
ननु भोजनावसानसमये प्रयुक्ताः कटुतिक्तकषायरसाः कफं
शमयिष्यन्ति वातस्य वृद्धिं विधास्यन्तीति चेतै तन्न
कट्वादीनां क्षीणशक्तित्वात् तथा च
यदेकं नाशयेद्दोषं तदन्यं वर्धयेत्कुतः
नाशने ह्येकदोषस्य यतस्तत्क्षीणशक्तिकम् १६६
जग्धाः सर्वेऽपि गच्छन्ति बलिनो वश्यतां रसाः
यथा प्रकुपिता दोषा वशं यान्ति बलीयसः १६७
एवं भुक्त्वा समाचामेद्रू क्षग्रहणपूर्वकम्
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् १६८
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् १६९
दन्तलग्नमनिर्हार्यं लेपं मन्येत दन्तवत्
न तत्र बहुशः कुर्याद्यत्नं निर्हरणं प्रति १७०
आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत्
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
अचिरेणैव तद्वारि तिमिराणि व्यपोहति १७१
भुक्त्वा च संस्मरेन्नित्यमगस्त्यादीन्सुखावहान् १७२
विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा
सत्येन तेन मद्भुक्तं जीर्यत्वन्नमिदं तथा १७३
अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं जरयन्त्वशेषम्
सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहम् १७४
अङ्गारकमगस्तिं च पावकं सूर्यमश्विनौ
पञ्चैतान्संस्मरेन्नित्यं भुक्तं तस्याशु जीर्यति १७५
इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम्
अनायासप्रदायीनि कुर्यात्कर्माण्यतन्द्रि तः १७६
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेधते
भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि १७७
धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः
पूगैः कर्पूरकस्तूरीलवंगसुमनः फलैः १७८
फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः १७९
रतौ सुप्तोत्थिते स्नाते भुक्तेवान्ते च संगरे
सभायां विदुषां राज्ञां कुर्यात्ताम्बूलचर्वणम् १८०
ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनं तुवरं सरम्
तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु १८१
वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम्
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् १८२
हनुदन्तमलध्वंसि जिह्वेन्द्रि यविशोधनम्
मुखप्रसेकशमनं गलामयविनाशनम् १८३
नवं तदेव मधुरं कषायानुरसं गुरु
बलासजननंप्रायः पत्रशाकगुणं स्मृतम् १८४
वङ्गदेशोद्भवं पर्णं परं कटुरसं सरम्
पाचनं पित्तजनकमुष्णं कफहरं स्मृतम् १८५
पर्णं पुराणमकटु क्षुल्लकं तनु पाण्डुरम्
विशेषाद्गुणवद्वेद्यमन्वद्धीनगुणं स्मृतम् १८६
पूगं गुरु हिमं रूक्षं कषायं कफपित्तनुत्
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम् १८७
पूगं स्यात् दृढमध्यं यत्स्विन्नं वाऽपि त्रिदोषनुत्
सरसङ्गुर्वभिष्यन्दि तद् भृशं वह्निनाशनम् १८८
खदिरं कफपित्तघ्नश्चूर्णं वातबलासनुत्
संयोगतस्त्रिदोषघ्नं सौमनस्यं करोति च १८९
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्
प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा
निशासु चूर्णमधिकं ताम्बूलं भक्षयेत्सदा १९०
आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता
तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत् १९१
पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः
पर्णमध्यं हरत्यायुः शिरा बुद्धि विनाशिनी १९२
आद्यं विषोपमं पीतं द्वितीयं भेदि दुर्जरम्
तृतीयादनुपातव्यं सुधातुल्यं रसायनम् १९३
ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः १९४
देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः
शोषः पित्तानिलास्रं स्यादतिताम्बूलचर्वणात् १९५
ताम्बूलं न हितं दन्तदुर्बलेक्षणरोगिणाम्
विषमूर्च्छामदार्त्तानां क्षयिणां रक्तपित्तिनाम् १९६
भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते
अन्नसंघातशैथिल्यं ग्रीवाजानुकटीषु च १९७
भुक्त्वोपविशतस्तन्द्रा शयानस्य तु पुष्टता
आयुश्च्रंकममाणस्य मृत्युर्धावति धावतः १९८
श्वासानष्टौ समुत्तानस्तान् द्विःपार्श्वे तु दक्षिणे
ततस्तद्द्विगुणान्वामे पश्चात्स्वप्याद्यथासुखम् १९९
वामदिशायामनलो नाभेरूर्ध्वेऽस्ति जन्तूनाम्
तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम् २००
त्रिदोषशमनी षट्वा तूली वातकफापहा
भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला २०१
भूशय्या वातलाऽतीवरूक्षा पित्तास्रनाशिनी
सुशय्याशयनं हृद्यं पुष्टिनिद्रा धृतिप्रदम्
श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा २०२
संवाहनं मांसरक्तत्वक्प्रसादकरं परम्
प्रीतिनिद्रा करं वृष्यं कफवातश्रमापहम् २०३
प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत्
स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा २०४
सुखं प्रवातं सेवेत ग्रीष्मे शरदि चान्तरा
निर्वातमायुषे सेव्यमारोग्याय च सर्वदा २०५
पूर्वाऽनिलो गुरुः सोष्णः स्निग्धः पित्तास्नदूषकः
विदाही वातलः श्रान्तिकफशोषवतां हितः २०६
स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविषकृमीन्
सन्निपातं ज्वरं श्वासमामवातं च कोपयेत् २०७
दक्षिणः पवनः स्वादुः पित्तरक्तहरो लघुः
वीर्येण शीतलो बल्यश्चक्षुष्यो न तु वातलः २०८
पश्चिमः पवनस्तीक्ष्णः शोषणो बलहृल्लघुः
मेदः पित्तकफध्वंसी प्रभञ्जनविवर्धनः २०९
उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोपकृत्
क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः २१०
आग्नेयो दाहकृद्रू क्षो नैरृतो न विदाहकृत्
वायव्यस्तु भवेत्तिक्त एशानः कटुकः स्मृतः २११
विष्वग्वायुरनायुष्यः प्राणिनां बहुरोगकृत्
अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे २१२
व्यजनस्यानिलो दाहस्वेदमूर्च्छाश्रमापहः
तालवृन्तभवो वातस्त्रिदोषशमको मतः २१३
वंशब्यजनजस्तूष्णो रक्तपित्तप्रकोपणः
चामरो वस्त्रसम्भूतो मायूरो वेत्रजस्तथा २१४
पूते दोषजिता वाताः स्निग्धाः हृद्याः सुपूजिताः २१५
दिवा स्वापं न कुर्वीत यतोसौ स्यात्कफावहः
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नो निषिध्यते २१६
उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम्
वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा २१७
व्यायामप्रमदाऽध्ववाहनरतान् क्लान्तानतीसारिणः
शूलश्वासवतस्तृषापरिगतान् हिक्कामरुत्पीडितान्
क्षीणान् क्षीणकफाञ्छिशून्मदहतान्वृद्धान् रसाजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत् २१८
दिवा वा यदि वा रात्रौ निद्रा सात्मीकृता तु यैः
न तेषां स्वपतां दोषो जाग्रतां चोपजायते २१९
भोजनानन्तरं निद्रा वातं हरति पित्तहृत्
कफं करोति वपुषः पुष्टिं सौख्यं तनोति हि २२०
शयनं पित्तनाशाय वातनाशाय मर्दनम्
वमनं कफनाशाय ज्वरनाशाय लङ्घनम् २२१
आसीनं घूर्णितं यत्तु नाभिष्यन्दि न रूक्षणम् २२२
शब्दान् स्पर्शांश्च रूपाणि रसान्गन्धान्मनःप्रियान्
भुक्तवानपि सेवेत तेनान्नं साधु तिष्ठति २२३
शब्दः स्पर्शस्तथा रूपं रसो गन्धो जुगुप्सितः
भुक्तमप्रयतं चान्नमतिहास्यं च वामयेत् २२४
शयनं चाशनं चाति न भजेन्न द्र वाधिकम्
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् २२५
व्यायामं च व्यवायं च धावनं यानमेव च
युंद्धं गीतं च पाठं च मुहूर्त्तं भुक्तवांस्त्यजेत् २२६
अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य २२७
ईर्ष्याभय क्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन
विद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति २२८
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते २२९
प्राग्भुक्ते चानले मन्दे द्विरह्नि न समाहरेत् २३०
पूर्व भुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् २३१
सायमाशे त्वजीर्णे तु प्रातर्भुक्तं विषोपमम् २३२
भवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम्
विचूर्णितां शीतजलेन भुक्त्वा भुञ्जीत चान्नं मितमन्नकाले २३३
आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम्
अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः २३४
आस्या वर्णकफस्थौल्यसौकुमार्यसुखप्रदा
अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः २३५
यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत्
तदायुर्बलमेधाऽग्निप्रदमिन्द्रि यबोधनम् २३६
उष्णीषं कान्तिकृत्केश्यं रजोवातकफापहम्
लघु यच्छस्यते तस्माद् गुरु पित्ताक्षिरोगकृत् २३७
उपानद्धारणं नेत्र्यमायुष्यं पादरोगहृत्
सुखप्रचारमोजस्यं वृष्यं च परिकीर्तितम् २३८
पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम्
अनारोग्यमनायुष्यमिन्द्रि यघ्नमदृष्टिदम् २३९
छत्रस्य धारणं वर्षातपवातरजोऽपहम्
हिमघ्नं हितमक्ष्णोश्च मङ्गल्यमपि कीर्त्तितम् २४०
सत्त्वोत्साहवलस्थैर्यधैर्यतेजोविवर्धनम्
अवष्टम्भकरं चापि भयघ्नं दण्डधारणम् २४१
ऊर्ध्वाच्छादनसंयुक्ता शिबिका सर्ववल्लभा
तस्यामारोहणं नॄणां त्रिदोषशमकं मतम् २४२
वातश्लेष्मगदार्त्तानामहिता भ्रमकृत्तरिः
पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टिवर्द्धनः २४३
घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम्
मेदोवर्णकफघ्नं च हितं तद्वलिनां परम् २४४
आतपः स्वेदमूर्च्छाऽस्रपित्ततृष्णाक्लमश्रमान्
दाहं विवर्णतां कुर्यादेतांश्छाया व्यपोहति २४५
वृष्टिर्वृष्या हिमा बल्या निद्रा ऽलस्यविधायिनी
भयावहा मोहकरी कुहेलि कफवातला २४६
अग्निर्वातकफस्तम्भशीतवेपथुनाशनः
आमाभिष्यन्दशमनो रक्तपित्तप्रकोपणः २४७
सद्यः श्लेष्मकरो धूमो नेत्रयोरहितो भृशम्
शिरोगौरवकृच्चापि वातपित्तं च कोपयेत् २४८
मैत्री सद्भिः समं कुर्यात्स्नेहं सत्सु तु सर्वथा
संसर्गं साधुभिः कुर्यादसत्सङ्गं परित्यजेत् २४९
सेवेत देवभूदेववृद्धवैद्यनृपातिथीन्
विमुखान्नार्थिनः कुर्यान्नावमन्येत कानपि २५०
गुरूणां सन्निधौ तिष्ठेत्सदैव विनयान्वितः
पादप्रसारणादीनि तत्र नैव समाचरेत् २५१
अपकारपरेऽपि स्यादुपकारपरः पुमान्
आत्मवत्सकलान्पश्येद्वैरिणो दूरतो वसेत् २५२
न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रि पुम्
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः २५३
नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम्
तथा नाज्ञातगाम्भीर्यं न हिंस्रप्राणिसेवितम् २५४
काले हितं मितं सत्यं संवादि मधुरं वदेत्
भुञ्जीत मधुरप्रायं स्निग्धं काले हितं मितम् २५५
न रात्रौ दधि भुञ्जीत न च निर्लवणं तथा
नामुद्गसूपं नाक्षौद्रं न चाप्यघृतशर्करम् २५६
जनस्याशयमालक्ष्य यो यथा परितुष्यति
तं तथैवानुवर्तेत पराराधनपण्डितः २५७
नैकः सुखी न सर्वत्र विश्वस्तो न च शङ्कितः
नोद्यमेविरमेत्क्वापि हेतावीर्ष्येत्फले न तु २५८
वेगान्न धारयेज्जातु मनोवेगान्विधारयेत्
न पीडयेदिन्द्रि याणि न चैतान्यतिलालयेत् २५९
वर्षाऽतपादिषु च्छत्री दण्डी रात्रौ भयेषु च
सोपानत्कस्तनुं रक्षेद्विचरेद्युगमात्रदृक् २६०
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्
सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानकम् २६१
नासंवृतमुखः कुर्यात्सभायां च विचक्षणः
कासं हासं तथोद्गारं जृम्भणं क्षवथुं तथा २६२
नासिकां न विकुष्णीयान्नासीतोत्कटकः क्वचित्
नोर्ध्वजानुश्चिरं तिष्ठेन्न नखेन लिखेद्भुवम् २६३
सम्मार्जनीरजो नैव देहे दद्यात्कदाचन
न नखेन तृणं छिन्द्यान्नोच्छिष्टो ब्राह्मणं स्पृशेत् २६४
नोपरक्तं न चोद्यन्तं नास्तं यातं दिवाकरम्
सर्वथा न समीक्षेत न जले प्रतिबिम्बितम् २६५
नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च
पौरन्दरं धनुर्नैव दर्शयेत्कमपि क्वचित् २६६
नेच्छेद्बलवता युद्धं न भारं शिरसा वहेत्
गात्रं न वादयेत्केशान्हस्तेन धुनुयान्न च २६७
न गच्छेत्पूज्ययोर्मध्ये दम्पत्योरन्तरेण च
रिपोरन्नं न भुञ्जीत गणिकाऽन्नमपि क्वचित् २६८
प्रतिभूर्न भवेत्क्वापि न च साक्षी वृथा भवेत् २६९
स्थागं न धारयेज्जातु द्यूतं दूरात्परित्यजेत् २७०
विश्वासं नाचरेत्स्त्रीणां ताः स्वतंत्रा न चारयेत्
रक्षणीयाः सदा यत्नाद्यौवने तु विशेषतः २७१
न भिन्ने शयने स्वप्यान्नानेकविवरेऽपि च
नैको देवालये नैव रात्रौ तरुतलेऽपि च २७२
एवं दिनानि गमयेत्सदाचारपरः सदा
ततो रात्रिप्रयुक्तानि कुर्यात्कर्माणि मानवः २७३
इत्याचारं समासेन भाषितं यः समाचरेत्
स विंदत्यायुरारोग्यं प्रीतिं धर्मं धनं यशः २७४
एतानि पञ्च कर्माणि सन्ध्यायां वर्जयेद् बुधः
आहारं मैथुनं निद्रां संपाठं गतिमध्वनि २७५
भोजनाज्जायते व्याधिर्मैथुनाद्गर्भवैकृतिः
निद्र या निःस्वता पाठादायुर्हानिर्गतेर्भयम् २७६
ज्योत्स्ना शीता स्मरानन्दप्रदा तृट्पित्तदाहहृत्
ततो हीनगुणः कुर्यादवश्यायोऽनिलं कफम् २७७
तमो भयावहं मोहदिङ्मोहजनकं भवेत्
पित्तहृत्कफहृत्कामवर्धनं क्लमकृच्च तत् २७८
रात्रौ च भोजनं कुर्यात्प्रथमप्रहरान्तरे
किञ्चिदूनं समश्नीयाद् दुर्जरं तत्र वर्जयेत् २७९
शरीरे जायते नित्यं देहिनः सुरतस्पृहा
अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनोः २८०
बालेति गीयते नारी यावद्वर्षाणि षोडश
ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि २८१
तदूर्ध्वमधिरुढा स्यात्पञ्चाशद्वत्सरावधि
वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्जिता २८२
निदाघशरदोर्वाला हिता विषयिणां मता
तरुणी शीतसमये प्रौढा वर्षावसन्तयोः २८३
नित्यं बाला सेव्यमाना नित्यं वर्धयते वलम्
तरुणी ह्रासयेच्छक्तिं प्रौढोद्भावयते जराम् २८४
सद्यो मांसं नवं चान्नं वाला स्त्री क्षीरभोजनम्
घृतमुष्णोदके स्नानं सद्यः प्राणकराणिषट् २८५
पूतिमांसं स्त्रियो वृद्धा बालाऽकस्तरुणं दधि
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् २८६
वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात्
वयोधिकां स्त्रियं गत्वा तरुणः स्थविरायते २८७
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः २८८
सेवेत कामतः कामं बलाद्वाजीकृतो हिमे
प्रकामं तु निषेवेत मैथुनं शिशिरागमे २८९
त्र्यहाद्वसन्तशरदोः पक्षाद् वृष्टिनिदाघयोः २९०
त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः
सर्वेष्वृतुषु घर्मे तु पक्षात्पक्षाद् व्रजेद् बुधः २९१
शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवा निशि
वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः २९२
उपेयात्पुरुषो नारीं संध्ययोर्न च पर्वसु
गोसर्गे चार्द्धरात्रे च तथा मध्यदिनेऽपि च २९३
विहारं भार्यया कुर्याद् देशेऽतिशयसंवृते
रम्ये श्राव्याङ्गनागाने सुगन्धे सुखमारुते २९४
देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे
श्रूयमाणे व्यथाहेतुवचने न रमेत ना २९५
स्नातचन्दनलिप्ताङ्गः सुगन्धः सुमनोऽन्वितः
भुक्तवृष्यः सुवसनः सुवेषः समलंकृतः २९६
ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः
पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे २९७
अत्याशितोऽधृतिः क्षुद्वान्सव्यथाङ्गः पिपासितः
बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रो गी च मैथुनम् २९८
भार्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम्
अतिकामोऽभिकामां तु हृष्टो हृष्टामलंकृताम्
सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः २९९
रजस्वलामकामां च मलिनामप्रियां तथा ३००
वर्णबृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम् ३०१
सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि
नाधिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया ३०२
रजस्वलां गतवतो नरस्यासंयतात्मनः
दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत् ३०३
लिगिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु
वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः ३०४
गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः ३०५
हीनाङ्गीं मलिनां द्वेष्यां क्षामां वन्ध्यामसंवृते
देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत् ३०६
क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः
स्थितस्य हानिं शुक्रस्य वायोः कोपं च विन्दति ३०७
व्याधितस्य रुजा प्लीहा मूर्च्छा मृत्युश्च जायते
प्रत्यूषे चार्धरात्रे च वातपित्ते प्रक्प्यतः ३०८
तिर्यग्योनावयोनौ वा दुष्टयोनौ तथैव च
उपदंशस्तथा वायोः कोपः शुक्रसुखक्षयः ३०९
उच्चारिते मूत्रिते च रेतसश्च विधारणे
उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु सम्भवः ३१०
सर्वमेतत्त्यजेत्तस्माद्यतो लोकद्वयाहितम्
शुक्रं तूपस्थितं मोहान्न सन्धार्यं कदा चन ३११
स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम्
वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी ३१२
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः ३१३
रोत्रौ जागरणं रूक्षं कफदोषविषार्तिजित्
निद्रा तु सेविताकाले धातुसाम्यमतन्द्रि ताम् ३१४
पुष्टिं वर्णं बलोत्साहं वह्निदीप्तिं करोति हि ३१५
यो लेढि शयनसमये मधुमिश्रं बीजपूरदलचूर्णम्
स तु लज्जाकरवातप्रसरनिरोधात्सुखं स्वपिति ३१६
सवितुः समुदयकाले प्रसृतीः सलिलस्य यः पिबेदष्टौ
रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम् ३१७
अर्शःशोथग्रहण्यो ज्वरजठरजराकुष्ठमेदोविकाराः
मूत्राघातास्रपित्तश्रवणगलशिरःश्रोणिशूलाक्षिरोगाः
ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तो
स्तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः ३१८
विगतघननिशीथे प्रातरुत्थाय नित्यं पिबति खलु नरो यो घ्राणरन्ध्रेण वारि
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो वलिपलितविहीनः सर्वरोगैर्विमुक्तः ३१९
पातव्यं नासया नीरं प्रसृतित्रयमात्रया ३२०
व्यङ्गवलीपलितघ्नंपीनसवैस्वर्यकासशोथहरम्
रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिसञ्जननम् ३२१
स्नेहे पीते क्षते शुद्धावाध्माने स्तिमितोदरे
हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत् ३२२
क्षयकोपशमा यस्मिन्दोषाणां सम्भवन्ति हि
ऋतुषट्कं तदाख्यातं रवेः राशिषु संक्रमात् ३२३
ग्रीष्मो मेषबृषौ प्रोक्तः प्रावृण्मिथुनकर्कटौ
सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत् ३२४
धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनयोः ३२५
शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमाः
माघादिमासयुग्मं स्युरृतवः षट् क्रमादमी ३२६
गङ्गाया दक्षिणे देशे वृष्टेर्बहुलभावतः
उभौ मुनिभिराख्यातौ प्रावृड्वर्षाभिधावृतू ३२७
तिस्याएवोत्तरेदेशे हिमप्रचुरभावतः
एतावुभौ समाख्यातौ हेमन्तशिशिरावृतू ३२८
उत्तरायणमाद्यैस्तैः परैः स्याद्दक्षिणायनम्
आद्यमुष्णं बलहरं ततोऽन्यद्बलदं हिमम् ३२९
हेमन्तं शीतलः स्निग्धः स्वादुर्जठरवह्निकृत्
शिशिरः शीतलोऽतीव रूक्षो वाताग्निवर्धनः ३३०
वसन्तो मधुरः स्निग्धः श्लेष्मवृद्धिकरश्च सः
ग्रीष्मो रूक्षोऽतिकटुकः पित्तकृत्कफनाशनः ३३१
वर्षाः शीता विदाहिन्यो वह्निमान्द्यानिलप्रदाः
शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा ३३२
चयप्रकोपोपशमा वायोर्ग्रीष्मादिषु त्रिषु
वर्षाऽदिषु च पित्तस्य श्लेष्मणः शिशिरादिषु ३३३
चीयते लघुरूक्षाभिरोषधीभिः समीरणः
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति ३३४
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः ३३५
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः
तुल्ये च काले देहे च स्कन्नत्वान्न प्रकुप्यति ३३६
हिमे याति शमं पित्तं वायुः श्लेष्मा च चीयते
स वायुः शिशिरे कोपं यात्येवोपचितः कफः ३३७
हेमन्ते सञ्चितः श्लेष्मा शिशिरे त्वतिचीयते
शीतस्निग्धगुरुद्र व्यैः शैत्यस्कन्नो न कुप्यति ३३८
इति कालस्वभावोऽयमाहारादिवशात्पुनः
चयादीन् यान्ति सद्योऽपि दोषाः काले विशेषतः ३३९
चयकोपमशमान्दोषा विहाराहारसेवनैः
समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्ययम् ३४०
स्वस्थानस्थस्य दोषस्य वृद्धिः स्यात्स्तब्धकोषता
पीतावभासता वह्निमन्दता चाङ्गगौरवम् ३४१
आलस्यं चयहेतौ तु द्वेषश्च चयलक्षणम्
सञ्चये ऽपहृता दोषा लभन्ते नोत्तरां गतिम् ३४२
ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ३४३
वर्षासुप्रबलो वायुस्तस्मान्मिष्टादयस्त्रयः
रसाः सेव्या विशेषेण पवनस्योपशान्तये ३४४
भवेद्वर्षासु वपुषः क्लिन्नत्वं यद्विशेषतः
तत्क्लेदशान्तये सेव्या अपि कट्वादयस्त्रयः ३४५
स्वेदनं मर्दनं सेव्यं दध्युष्णंजाङ्गलामिषम्
शालयो यवगोधूमा जलं कौपं जलं च्युतम् ३४६
न भजेत्पूर्वपवनं वृष्टिं घर्मं हिमं श्रमम्
नदीतीरं दिवास्वप्नं रूक्षं नित्यं च मैथुनम् ३४७
सर्पिः स्वादुकषायतिक्तकरसा यच्छीतलं यल्लघु
क्षीरं स्वच्छसितैक्षवः पटुरसः स्वल्पं पलं जाङ्गलम्
गोधूमा यवमुद्गशालिसहिता नादेयमंशूदकं
चन्द्र श्चन्दनमिन्दुरादिरजनी माल्यं पटो निर्मलः ३४८
दिविसेऽककरैर्जुष्टं निशि शीतकरांशुभिः
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम्
विश्रामः सुहृदां गणेषु मधुरा वाचः सरः क्रीडनं
पित्तानां च विरेचनं बलवतो युक्तं शिरामोक्षणम्
एतांयत्र घनावसानसमयेपथ्यानि मुञ्चेद्दधिव्यायामाम्लकटूष्णतीक्ष्ण दिवसस्वप्नं हिमञ्चातपम् ३४९
इक्षवः शालयो मुद्गाः सरोऽम्भ क्वथितं पयः
शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः ३५०
प्रातर्भोजनमम्लमिष्टलवणानभ्यङ्गघर्मश्रमान्
गोधूमैक्षवशालिमाषपिशितं पिष्टं नवान्नं तिलान्
कस्तूरीं वरकुङ्कुमागुरुयुतामुष्णाम्बुशौचं तथौ स्निग्धं स्त्रीषु सुखं गुरूष्णवसनं सेवेत हेमन्तके ३५१
शिशिरे शीतमधिकं रौक्ष्यं चादानकालजम्
विशेषतस्ततस्तत्र हेमन्तस्य मतो विधिः ३५२
वान्तिं नस्यमथाभयां च मधुना व्यायाममुद्वर्त्तनं
संसेवेत मधौ कफघ्नकवलं शूल्यं पलं जाङ्गलम्
गोधूमान्बहुशालिभेदसहितान्मुद्गान्यवान्षष्टिकां
ल्लेपञ्चन्दनकुङ्कुमागुरुकृतं रूक्षं कटूष्णं लघु ३५३
मिष्टमम्लं दधिस्निग्धं दिवास्वप्नं च दुर्जरम्
अवश्यायमपि प्राज्ञो वसन्ते परिवर्जयेत् ३५४
स्वादुस्निग्धहिमं लघु द्र वमयं द्र व्यं रसालां सितां
सक्तुंक्षीरमजाङ्गलानि सितया शालि रसं मांसजम्
शीतांशुं शयनं दिवा मलयजं शीतं पयः पानकं
सेवेतोष्णदिने त्यजेत्तु कटुकक्षाराम्लघर्मश्रमान् ३५५
ॠतुष्वेषु य एतैस्तु विधिभिर्वर्त्तते नरः
दोषानृतुकृतान्नैव लभते स कदाचन ३५६
इति श्रीलटकन तनय श्रीमन्मिश्रभाव विरचिते भावप्रकाशे
दिनचर्यादिप्रकरणं पञ्चमम् ५
अथ षष्ठं मिश्रप्रकरणम् ६
रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता
रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते १
ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः
मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः २
कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे
कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः ३
कर्मक्षयात्कर्मकृता दोषजाः स्वस्वभेषजैः
कर्मदोषोद्भवा यान्ति कर्मदोषक्षयात् क्षयम् ४
साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः
सुखसाध्यः कष्टसाध्यो द्विविधः साध्य उच्यते ५
यापनीयं तु तं विद्यात्क्रिया धारयते हि यम्
क्रियायां तु निवृत्तायां सद्यो यश्च विनश्यति ६
प्राप्ता क्रिया धारयति सुखिनं याप्यमातुरम्
प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः ७
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ८
रोगारम्भकदोषस्य प्रकोपादुपजायते
योऽन्यो विकारः स बुधैरुपद्र व इहोदितः ९
रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते
तल्लक्षणमरिष्टं स्याद्रि ष्टं चापि तदुच्यते १०
या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते
दोषधातुमलानां या साम्यकृत्सैव रोगृहृत् ११
याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः
सा चिकित्सा विकाराणां कर्म तद्भिषजां मतम् १२
या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च
सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् १३
जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया गदः
वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ १४
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्
ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत् १५
यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्
अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया १६
भेषजं केवलं कर्तुं यो जानाति न चामयम्
वैद्यकर्म स चेत्कुर्याद्वधमर्हति राजतः १७
यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः
तं वैद्यं प्राप्य रोगी स्याद्यथा नौर्नाविकं विना १८
यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक्
स मुह्यत्यातुरं प्राप्य तथा भीरुरिवाहवम् १९
यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः
देश कालविभागज्ञस्तस्य सिद्धिर्न संशयः २०
आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः
भेषजानां विधानेन ततः कुर्याच्चिकित्सतम् २१
विकारनामाकुशलो न जिह्रीयात्कदाचन
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः २२
नास्ति रोगो विना दोषैर्यस्मात्तस्माच्चिकित्सकः
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् २३
ये न कुर्वन्त्यसाध्यानां चिकित्सां ते भिषग्वराः
अतो वैद्यैः श्रमः कार्यः साध्यासाध्यपरीक्षणे २४
शीते शीतप्रतीकारमुष्णे तूष्णनिवारणम्
कृत्वा कुर्यात्क्रियां प्राप्तां क्रियाकालं न हापयेत् २५
अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता
क्रियाहीनाऽतिरिक्ता च साध्येष्वपि न सिध्यति २६
विकारेऽल्पे महत्कर्म क्रिया लघ्वी गरीयसि
द्वयमेतदकौशल्यं कौशल्यं युक्तकर्मता २७
क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्
पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः २८
क्रियाभिस्तुल्यरूपाभिर्न क्रियासङ्करो हितः
ताभिस्तु भिन्नरूपाभिः साङ्कर्यं नैव दुष्यति २९
न चैकान्तेन निर्दिष्टे शास्त्रे निविशते बुधः
स्वयमप्यत्र भिषजा तर्कणीयं चिकित्सता ३०
उत्पद्यते च साऽवस्था दोषकालबलं प्रति
यस्यां कार्यमकार्यं स्यात्कर्म कार्यं विवर्जितम् ३१
क्वचिदर्थः क्वचिन्मैत्री क्वचिद्धर्मः क्वचिद्यशः
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ३२
आयुर्वेदोदितां युक्तिं कुर्वाणाश्च हिताय ये
पुण्यायुर्वृद्धिसंयुक्ता नीरोगाश्च भवन्ति ते ३३
नैव कुर्वीत लोभेन चिकित्सापुण्यविक्रयम्
ईश्वराणां वसुमतां लिप्सेतार्थं तु वृत्तये ३४
चिकित्सितं शरीरं यो न निष्क्रीणाति दुर्मतिः
स यत्करोति सुकृतं सर्वं तद्भिषगश्नुते ३५
न देशो मनुजैर्हीनो न मनुष्या निरामयाः
ततः सर्वत्र वैद्यानां सुसिद्धा एव वृत्तयः ३६
रोगी दूतो भिषग्दीर्घमायुर्द्र व्यं सुसेवकः
सदौषधं चिकित्साया इत्यङ्गानि बुधा जगुः ३७
रोगो यस्यास्तिरोगी स सचिकित्स्यस्तु यादृशः
यादृशश्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्यताम् ३८
निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन चक्षुषा
चिकित्स्यो भिषजां रोगी वैद्यभक्तो जितेन्द्रि यः ३९
आयुष्मान्सत्त्ववान्साध्यो द्र व्यवान्मित्रवानपि
चिकित्स्यो भिषजां रोगी वैद्यवाक्यकृदास्तिकः ४०
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च
शोकाकुलो मुमूर्षुश्च विहीनः करणैश्चः यः ४१
वैरी वैद्यविदग्धश्च श्रद्धाहीनश्च शङ्कितः
भिषजामविधेयः स्युर्नोपक्रम्या भिषग्विधाः ४२
एतानुपाचरन् वैद्यो वहून् दोषानवाप्नुयात् ४३
यश्चिकित्सकमानेतुं याति दूतः स कथ्यते
स च यादृक् समुचितस्तादृगत्र निगद्यते ४४
दूताः सुजातयोऽव्यङ्गाः पटवो निर्मलाम्बराः
सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः ४५
सजातयः सुचेष्टाश्च सजीवदिशि सङ्गताः
भिषजं समये प्राप्ता रोगिणः सुखहेतवे ४६
वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते
न शुभं सौम्यशकुनं प्रदीप्तं तु सुखावहम् ४७
तथाहि रिक्तहस्तो न पश्येत्तुराजानं भिषजं गुरुम्
दैवज्ञं देवतां मित्रं फलेन फलमादिशेत् ४८
चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते
स च यादृक्समीचीनस्तादृशोऽपि निगद्यते ४९
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ५०
प्रत्युत्पन्नमतिर्धीमान् व्यवसाथी प्रियंवदः
सत्यधर्मपरो यश्च वैद्य ईदृक् प्रशस्यते ५१
कुचैलः कर्कशः स्तब्धो ग्रामीणः स्वयमागतः
पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा यदि ५२
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ५३
भिषगादौ परीक्षेत रुग्णस्यायुः प्रयत्नतः
तत आयुषि विस्तीर्णे चिकित्सा सफला भवेत् ५४
सौम्या दृष्टिर्भवेद्यस्य श्रोत्रं वक्त्रं तथैव च
स्वादु गन्धं विजानाति स साध्यो नात्र संशयः ५५
पाणिपादौ च यस्योष्णौ दाहः स्वल्पतरो भवेत्
जिह्वातु कोमला यस्य स रोगी न विनश्यति ५६
स्वेदहीनो ज्वरो यस्य श्वासो नासिकया चरेत्
कण्ठश्च कफहीनः स्यात्स रोगी जीवति ध्रुवम् ५७
यस्य निद्रा सुखेन स्याच्छरीरं द्युतिमद्भवेत्
इन्द्रि याणि प्रसन्नानि स रोगी नैव नश्यति ५८
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत्
तदरिष्टं समासेन व्यासतश्च निबोध मे ५९
शृणोति विविधाञ्छब्दान्विपरीताञ्छृणोति च
यो न शृणोति चाकस्मात्तं वदन्ति गतायुषम् ६०
यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत्
उष्णगात्रोऽतिमात्रं यो भृशं शीतेन कम्पते ६१
प्रहारं नैव जानाति योऽङ्गच्छेदमथापि वा
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते ६२
वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि
स्नातानुलिप्तं यं चापि भजन्ते नीलमाक्षिकाः ६३
विपरीतेन गृह्णाति रसान्यश्चोपयोजितान्
यो वा रसान्न संवेत्ति तं गतासुं प्रचक्षते ६४
सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धं च सुगन्धवत्
गृह्णाति योऽन्यथा गन्धं शान्ते दीपे निरामयः ६५
रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्र वर्चसम्
दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति ६६
विद्युत्वतोऽसितान्मेघान् गगने निर्घने घनान्
विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम् ६७
यश्चानिलं मूर्त्तिमन्तमन्तरिक्षेऽवलोकते
धूमनीहारवासोभिरावृतामिव मेदिनीम् ६८
प्रदीप्तमिव यो लोकं यो वाप्लुतमिवाम्भसा
भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति ६९
यो न पश्यति ॠक्षाणि यश्च देवीमरुन्धतीम्
ध्रुवमाकाशगङ्गां च तं वदन्ति गतायुषम् ७०
आदर्शेऽम्बुनि घर्मे वा छायां यश्च न पश्यति
पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्वजाम् ७१
श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम्
आतुरो लभते मृत्युं स्वस्थो व्याधिमवाप्नुयात् ७२
ह्रीश्रियौ नश्यतो यस्य तेज ओजः स्मृतिः प्रभा
अकस्माच्च भजन्ते यं स गतासुरसंशयम् ७३
यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ७४
आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा
खञ्जनप्रतिभा वापि तं गतायुषमादिशेत् ७५
कृष्णा तथाऽनुलिप्ता च जिह्वा शून्या च यस्य वै
कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ७६
कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका
अवस्फूर्जति भग्ना वा स न जीवति मानवः ७७
संक्षिप्ते विषमे स्तब्धे रूक्षे सास्रे च लोचने
स्यातां परिश्रुते यस्य स गतायुर्नरो ध्रुवम् ७८
केशा सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ
लुठन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे ७९
नाहरत्यन्नमास्यस्थं न धारयति यः शिरः
एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान्विमुञ्चति ८०
उत्थाप्यमानो बहुशः संमोहं योऽधिगच्छति
बलवान्दुर्बलो वापि तं पक्वं भिषगादिशेत् ८१
निद्रा निरन्तरं यस्य यो जागर्त्ति च सर्वदा
मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता ८२
उत्तरौष्ठं च यो लिह्यादुत्करांश्च करोतिः यः
प्रेतैर्वा भाषते सायं प्रेतरूपं तमादिशेत् ८३
खेभ्यश्च रोमकूपेभ्यो यस्य रक्तं प्रवर्तते
पुरुषस्याविषार्तस्य स सद्यो जीवितं त्यजेत् ८४
सम्यक् चिकित्स्यमानस्य विकारो योऽभिवर्धते
प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः ८५
भूताः प्रेताः पिशाचाश्च रक्षांसि विविधानि च
मरणाभिमुखं जन्तुमुपसृत्य च नित्यशः ८६
तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया
तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषः ८७
सर्वे द्र व्यमपेक्षन्ते रोगिप्रभृतयो यतः
विना वित्तं न भैषज्यं चिकित्साऽङ्ग ततो धनम् ८८
स्निग्धोऽजुगुप्सुर्बलवान्युक्तो व्याधितरक्षणे
वैद्यवाक्यकृदश्रान्तो युज्यते परिचारकः ८९
वैद्यो व्याधिं हरेद्येन तद्द्र व्यं प्रोक्तमौषधम्
तद्यादृशमवश्यं स्याद्रो गघ्नं तादृशं ब्रुवे ९०
प्रशस्तदेशे सञ्जातं प्रशस्तेऽहनि चोद्धृतम्
अल्पमात्रं बहुगुणं गन्धवर्णरसान्वितम् ९१
दोषघ्नमग्लानिकरमधिकं न विकारि यत्
समीक्ष्य काले दत्तं च भेषजं स्याद् गुणावहम् ९२
आग्नेया विन्ध्यशैलाद्या सौम्यो हिमगिरिः स्मृतः
अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः ९३
अन्येष्वपि प्ररोहन्ति वनेषूपवनेषु च
गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे ९४
आदित्यसम्मुखो मौनी नमस्कृत्य शिवं हृदि
साधारणधराद्र व्यं गृह्णीयादुत्तराश्रितम् ९५
वल्मीककुत्सितानूपश्मशानोषरमार्गजाः
जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसाधिकाः ९६
शरद्यखिलकार्यार्थं ग्राह्यंसरसमौषधम्
विरेकवमनार्थं तु वसन्तान्ते समाहरेत् ९७
अतिस्थूलजटा याः स्युस्तासां ग्राह्यास्त्वचो ध्रुवम्
गृह्णीयात्सूक्ष्ममूलानि सकलान्यपि बुद्धिमान् ९८
महान्ति येषां मूलानि काष्ठगर्भाणि सर्वतः
तेषां तु वल्कलं ग्राह्यं ह्रस्वमूलानि सर्वशः ९९
न्यग्रोधादेस्त्वचो ग्राह्या सारःस्याद्वीजकादितः
तालीसादेश्च पत्राणि फलं स्यात् त्रिफलादितः १००
क्वचिन्मूलं क्वचित्कन्दः क्वचित्पत्रं क्वचित्फलम्
क्वचित्पुष्पं क्वचित्सर्वं क्वचित्सारः क्वचित्त्वचः १०१
चित्रकं सूरणं निम्बो वासा च त्रिफला क्रमात्
धातकी कण्टकारी च खदिरः क्षीरपादपः १०२
क्वचिन्निम्बस्य गृह्णीयात्पत्राभावे त्वचामपि
बालं फलं तु बिल्वस्य पक्वमारग्वधस्य च १०३
अङ्गेऽनुक्ते जटा ग्राह्या भागेऽनुक्तेऽखिलं समम्
पात्रेऽनुक्ते मृदः पात्रं कालेऽनुक्ते त्वहर्मुखम् १०४
नवान्येव हि योज्यानि द्र व्याण्यखिलकर्मसु
विना विडङ्गकृष्णाभ्यां गुडधान्याज्यमाक्षिकैः १०५
पुराणन्तु प्रशस्तं स्यात्ताम्बूलं काञ्जिकं तथा
शुष्कं नवीनद्र व्यं तु योज्यं सकलकर्मसु १०६
आर्द्रान्तु द्विगुणं युञ्ज्यादेष सर्वत्र निश्चयः
गुडूची कुटजो वासा कूष्माण्डश्च शतावरी १०७
अश्वगन्धा सहचरः शतपुष्पा प्रसारिणी
प्रयोक्तव्याः सदैवार्द्राद्विगुणं नैव कारयेत् १०८
वासानिम्बपटोलकेतकबलाकूष्माण्डकेन्दीवरी
वर्षाभूकुटजाश्च कन्दसहिता सा पूतिगन्धाऽमृता
एन्द्री नागबला कुरुण्टकपुरच्छत्राऽमृताः सर्वदा
सार्द्रा एव तु न क्वचिद् द्विगुणिताः कार्येषु योज्या बुधैः १०९
घृतं तैलं च पानीयं कषायं व्यञ्जनादिकम्
पक्त्वा शीतीकृतं चोष्णं तत्सर्वं स्याद्विषोपमम् ११०
सूक्ष्मास्थिमांसला पथ्या सर्वकर्मणि पूजिता
क्षिप्ताऽम्भसि निमज्जेद्याः भल्लातक्यस्तथोत्तमाः १११
वराहमूर्द्धवत्कन्दो वाराहीकन्दसंज्ञकः
सौवर्चलं तु काचाभं सैन्धवं स्फटिकप्रभम् ११२
सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकमुत्तमम्
ओड्रपुष्पप्रतीकाशा मनोह्वा चोत्तमा मता ११३
श्रेष्ठं शिलाजतु ज्ञेयं प्रक्षिप्तं न विशीर्यते
तोयपूर्णे कांस्यपात्रे प्रतानेन विवर्धते ११४
कर्पूरस्तुवरः स्निग्धः एला सूक्ष्फला वरा
श्वेतचन्दनमत्यन्तं सुगन्धि गुरुपूजितम् ११५
रक्तचन्दनमत्यन्तं लोहितं प्रवरं मतम्
काकतुण्डनिभः स्निग्धो गुरुः श्रेष्ठो गुरुर्मतः ११६
सुगन्धि लघु रूक्षं च सुरदारु वरं मतम्
सरलं स्निग्धमत्यर्थं सुगन्धि च गुणावहम् ११७
अतिपीता प्रशस्ता तु ज्ञेया दारुनिशा बुधैः
जातीफलं गुरु स्निग्धं समं शुभ्रान्तरं वरम् ११८
मृद्वीका सोत्तमा ज्ञेया या स्याद्गोस्तनसन्निभा
करमर्दफलाकारा मध्यमा सा प्रकीर्त्तिता ११९
खण्डं तु विमलं श्रेष्ठं चन्द्र कान्तसमप्रभम्
गव्याज्यसदृशं रुच्यं गन्धं मधु वरं मतम् १२०
शालीनां लोहितः शालि षष्टिकेषु च षष्टिकः
शूकधान्येष्वपि यवो गोधूमः प्रवरो मतः १२१
शिम्बीधान्ये वरो मुद्गो मसूरश्चाढकी तथा
रसेषु मधुरः श्रेष्ठो लवणेषु च सैन्धवः १२२
दाडिमामलकं द्रा क्षा खर्जूरं च परूषकम्
राजादनं मातुलुंगं फलवर्गेषु शस्यते १२३
पत्रशाकेषु वास्तूकं जीवन्ती पोतिका वरा
पटोलं फलशाकेषु कन्दशाकेषु सूरणम् १२४
एणः कुरङ्गो हरिणो जाङ्गलेषु प्रशस्यते
पक्षिणां तित्तिरिर्लावो वरो मत्स्येषु रोहितः १२५
हरिणस्ताम्रवर्णः स्यादेणः कृष्णतया मतः
कुरङ्गस्ताम्र उद्दिष्टो हरिणाकृतिको महान् १२६
जलेषु दिव्यं दुग्धेषु गव्यमाज्येषु गोभवम्
तैलेषु तिलजं तैलमैक्षवेषु सिता हिता १२७
शिम्वीषु माषान्ग्रीष्मर्तौ लवणेष्वौषरं त्यजेत्
फलेषु लकुचं शाके सार्षपं न हितं मतम् १२८
गोमांसं ग्राम्यमांसेषु न हितं महिषीवसा
मेषीपयः कुसुम्भस्य तैलं त्याज्यं च फाणितम् १२९
मत्स्यमानूपमांसं च दुग्धयुक्तं विवर्जयेत्
कपोतं सर्षपस्नेहभर्जितं परिवर्जयेत् १३०
मत्स्यानिक्षोर्विकारेण तथा क्षौद्रे ण वर्जयेत्
सक्तून्मांसपयोयुक्तानुष्णैर्दधि विवर्जयेत् १३१
उष्णैर्नभोऽम्बुना क्षौद्रं पायसं कृसरान्वितम्
रम्भाफलं त्यजेत्तक्रदधिबिल्वफलान्वितम् १३२
दशाहमुषितं सर्पिः कांस्ये मधुघृतं समम्
कृतान्नं च कषायं च पुनरुष्णीकृतं त्यजेत् १३३
एकत्र बहुमांसानि विरुध्यन्ते परस्परम्
मधु सर्पिर्वसा तैलं पानीयं वा पयस्तथा १३४
लवणं सैन्धवं प्रोक्तंचन्दनं रक्तचन्दनम्
चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः
कषायलेपयोः प्रायो युज्यते रक्तचन्दनम् १३५
अन्तः सम्मार्जने ज्ञेया ह्यजमोदा यवानिका
बहिः सम्मार्जने सैव विज्ञातव्याऽजमोदिका १३६
पयः सर्पिः प्रयोगेषु गव्यमेव हि गृह्यते
शकृद्र सो गोमयको मूत्रं गोमूत्रमुच्यते १३७
चित्रकाभावतोदन्ती क्षारः शिखरिजोऽथवा
अभावे धन्वयासस्य प्रेक्षेप्यातु दुरालभा १३८
तगरस्याप्यभावे तु कुष्ठं दद्याद्भिषग्वरः
मूर्वाऽभावे त्वचो ग्राह्या जिङ्गिनीप्रभवा बुधैः १३९
अहिंस्रया अभावे तु मानकन्दः प्रकीर्त्तितः
लक्ष्मणाया अभावे तु नीलकण्ठशिखा मता १४०
वकुलाभावतो देयं कह्लारोत्पलपङ्कजम्
नीलोत्पलस्याभावे तु कुमुदं देयमिष्यते १४१
जातीपुष्पं न यत्रास्ति लवंगं तत्र दीयते
अर्कपर्णादिपयसो ह्यभावे तद्र सो मतः १४२
पौष्करा भावतः कुष्ठं तथा लाङ्गल्यभावतः
स्थौणेयकस्याभावे तु मिषग्भिर्दीयते गदः १४३
चविकागजपिप्पल्यौ पिप्लीमूलवत्स्मृतौ १४४
अभावे सोमराज्यास्तु प्रपुन्नाडफलं मतम्
यदि न स्याद्दारुनिशा तदा देया निशा बुधैः १४५
रसाञ्जनस्याभावे तु दार्वीक्वाथः प्रयुज्यते
सौराष्ट्र्यभावतो देया स्फटिका तद्गुणा जनैः १४६
तालीसपत्रकाभावे स्वर्णताली प्रशस्यते
भार्ङ्ग्यभावे तु तालीसं कण्टकारीजटाऽथवा १४७
रुचकाभावतो दद्याल्लवणं पांशुपूर्वकम्
अभावे मधुयष्ट्यास्तु धातकीं च प्रयोजयेत् १४८
अम्लवेतसकाभावे चुक्रं दातव्यमिष्यते
द्रा क्षा यदि न लभ्येत प्रदेयं काश्मरीफलम् १४९
तयोरभावे कुसुमं मधूकस्य मतं बुधैः
लवङ्गकुसुमं देयं नखस्याभावतः पुनः १५०
कस्तूर्यभावे कङ्कोलं क्षेपणीयं विदुर्बुधाः
कङ्कोलस्याप्यभावे तु जातीपुष्पं प्रदीयते १५१
सुगन्धिमुस्तकं देयं कर्पूराभावतो बुधैः
कर्पूराभावतो देयं ग्रन्थिपर्णं विशेषतः १५२
कुङ्कुमाभावतो दद्यात्कुसुम्भकुसुमं नवम्
श्रीखण्डचन्दनाभावे कर्पूरं देयमिष्यते १५३
अभावे त्वेतयोर्वैद्यः प्रक्षिपेद्र क्तचन्दनम्
रक्तचन्दनकाभावे नवोशीरं विदुर्बुधाः १५४
मुस्ता चातिविषाभावे शिवाऽभावे शिवा मता
अभावे नागपुष्पस्य पद्मकेशरमिष्यते १५५
मेदाजीवककाकोलीऋद्धिद्वन्द्वेऽपि वाऽसति
दरीविदार्यश्वगन्धावाराहीश्च क्रमात् क्षिपेत् १५६
वाराह्याश्च तथाऽभावे चर्मकारालुको मतः
वाराहीकन्दसंज्ञस्तु पश्चिमे गृष्टिसंज्ञकः १५७
वारीहीकन्द एवान्यश्चर्मकारालुको मतः
अनूपसम्भवे देशे वराह इव लोमवान् १५८
भल्लातकासहत्वे तु रक्तचन्दनमिष्यते
भल्लाताभावतश्चित्रं नलश्चेक्षोरभावतः १५९
सुवर्णाभावतः स्वर्णमाक्षिकं प्रक्षिपेद् बुधः
श्वेतं तु माक्षिकं ज्ञेयं बुधै रजतवद् ध्रुवम् १६०
माक्षिकस्याप्यभावे तु प्रदद्यात्स्वर्णगैरिकम्
सुवर्णमथ वा रौप्यं मृतं यत्र न लभ्यते १६१
तत्र कान्तेन कर्माणि भिषक्कुर्याद्विचक्षणः
कान्ताभावे तीक्ष्णलोहं योजयेद्वैद्यसत्तमः १६२
अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत्
मधु यत्र न लभ्येत तत्र जीर्णगुडो मतः १६३
मत्स्यण्ड्यभावतो दद्युर्भिषजः सितशर्कराम्
असम्भवे सितायास्तु बुधैः खण्डं प्रयुज्यते १६४
क्षीराभावे रसो मौद्गो मासूरो वा प्रदीयते
अत्र प्रोक्तानि वस्तूनि यानि तेषु च तेषु च १६५
योज्यमेकतराभावे परं वैद्येन जानता
रसवीर्यविपाकाद्यैः समं द्र व्यं विचिन्त्य च १६६
युञ्ज्यात्तद्विधमन्यच्च द्र व्याणां तु रसादिवित्
योगे यदप्रधानं स्यात्तस्य प्रतिनिधिर्मतः १६७
यत्तु प्रधानं तस्यापि सदृशं नैव गृह्यते
व्याधेरयुक्तं यद्द्र व्यं गणोक्तमपि तत्त्यजेत्
अनुक्तमपि युक्तं यद्योजयेत्तद्र सादिवित् १६८
द्र व्ये रसो गुणो वीर्यं विपाकः शक्तिरेव च
पदार्थाः पञ्च तिष्ठन्ति स्वं स्वं कुर्वन्ति कर्म च १६९
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः
षड् द्र व्यमाश्रितास्ते च यथापूर्वं बलावहाः १७०
तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते १७१
ये रसा वातशमना भवन्ति यदि तेषु वै
रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् १७२
ये रसा पित्तशमना भवन्ति यदि तेषु वै
तीक्ष्णोष्णलघुताश्चैव नैते तत्कर्मकारिणः १७३
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै
स्नेहगौरवशैत्यानि न ते हन्युः कफं तदा १७४
मधुरो हि रसः शीतो धातुस्तन्यबलप्रदः
चक्षुष्यो वातपित्तघ्नः कुर्यात्स्थौल्यमलकृमीन् १७५
विषघ्नः पिच्छिलश्चापि स्निग्धः प्रीत्यायुषोर्हितः
बालबृद्धक्षतक्षीणवर्णकेशेन्द्रि यौजसाम् १७६
प्रशस्तो बृंहणः कण्ठ्यो गुरुः सन्धानकृन्मतः १७७
सोऽतियुक्तो ज्वरश्वासगलगण्डार्बुदकृमीन्
स्थौल्याग्निमान्द्यमेहांश्च कुर्यान्मेदःकफामयान् १७८
रसोऽम्ल पाचनो रुच्यः पित्तश्लेष्मास्रदो लघुः
लेखितोष्णो बहिः शीतः क्लेदनः पवनापहः १७९
स्निग्धस्तीक्ष्णः सरः शुक्रविबन्धानाहदृष्टिहा
हर्षणो रोमदन्तानामक्षिभ्रूविनिकोचनः १८०
सोऽतियुक्तो भ्रमं कुर्यात्तृड्दाहतिमिरज्वरान्
कण्डूपाण्डुत्ववीसर्पशोथविस्फोटकुष्ठकृत् १८१
लवणः शोधनो रुच्यः पाचनः कफपित्तदः
पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः
बलघ्न आस्यजलदः कपोलगलदाहकृत् १८२
सोऽति युक्तो ऽक्षिपाकास्रपित्त कोठक्षतादिकृत्
वलीपलितखालित्यकुष्ठवीसर्पतृट्प्रदः १८३
कटुरुष्णश्च तीक्ष्णश्च विशदो वातपित्तकृत्
श्लेष्महृल्लघुराग्नेयः कृमिकण्डूविषापहः १८४
शुक्रस्तन्यहरश्चापि मेदःस्थौल्यापकर्षणः
अश्रुदो नासिकाऽस्याक्षिजिह्वाऽग्रोद्वेजको मतः १८५
दीपनः पाचनो रुच्यो नासिकाशोषणो भृशम्
क्लेदमेदोवसामज्जशकृन्मूत्रोपशोषणः १८६
स्रोतः प्रकाशको रूक्षः मेध्यो वर्चोविबन्धकृत् १८७
सोऽतियुक्तो भ्रान्तिदाहमुखताल्वोष्ठशोषकृत्
कण्ठादिपीडामूर्च्छाऽन्तर्दाहदो बलकान्तिहृत् १८८
तिक्तः शीतस्तृषामूर्च्छाज्वरपित्तकफाञ्जयेत्
कृमिकुष्ठविषोत्क्लेददाहरक्तगदापहः १८९
रुच्यः स्वयमरोचिष्णुः कण्ठस्तन्यविशोधनः
वातलोऽग्निकरो नासाशोषणो रूक्षणो लघुः १९०
सोऽतियुक्तः शिरःशूलमन्यास्तम्भश्रमार्त्तिकृत्
कम्पमूर्च्छातृषाकारी बलशुक्रक्षयप्रदः १९१
कषायो रोपणो ग्राही स्तम्भनः शोधनस्तथा
लेखनः पीडनः सौम्यः शोषणो वातकोपनः १९२
कफशोणितपित्तघ्नो रूक्षः शीतो लघुर्मतः
त्वक्प्रसाधन आमस्य स्तम्भनो विशदो मतः
जिह्वायां जाड्यकृत्कण्ठस्रोतसां च विबन्धकृत् १९३
सोऽतियुक्तो ग्रहाध्मानहृत्पीडाक्षेपणादिकृत् १९४
मधुरं श्लेष्मलंप्रायो जीर्णशालियवादृते
मुद्गाद्गोधूमतः क्षौद्रा त्सिताया जाङ्गलामिषात् १९५
अम्लं पित्तकरं प्रायो विना धात्रीं च दाडिमीम्
लवणं प्रायशो द्वेषि नेत्रयोः सैन्धवं विना १९६
प्रायः कटु तथा तिक्तमवृष्यं वातकोपनम्
शुण्ठी कृष्णारसोनानि पटोलममृतां विना १९७
पिप्पलीनागरं वृष्यं कटु चावृष्यमुच्यते
प्रायशः स्तम्भनं प्रोक्तं कषायमभयां विना १९८
सामान्येनात्र निर्दिष्टा गुणाः षड्रससम्भवाः
रसानां योगतस्तु स्यादन्य एव गुणोदयः १९९
संयोगाद्विषतां याति सममाज्येन माक्षिंकम्
अमृतत्वं विषं याति सर्पदष्टस्य वै यथा २००
लघुर्गुरुस्तथा स्निग्धो रूक्षस्तीक्ष्ण इति क्रमात्
नभोभूवारिवातानां वह्नेरेते गुणाःस्मृताः २०१
लघु पथ्यं परं प्रोक्तं कफघ्नं शीघ्रपाकि च २०२
गरु वातहरं पुष्टिश्लेष्मकृच्चिरपाकि च
स्निग्धं वातहरं श्लेष्मकारि वृष्यं बलावहम्
रूक्षं समीरणकरं परं कफहरं मतम् २०३
तीक्ष्णं पित्तकरं प्रायो लेखनं कफवातहृत्
सुश्रुते तु गुणा एते विंशतिस्तान्ब्रुवे शृणु २०४
गुरुर्लघुः स्निग्धरूक्षौ तीक्ष्णः श्लक्ष्णः स्थिरः सरः
पिच्छिलो विशदः शीत उष्णश्च मृदुकर्कशौ
स्थूलः सूक्ष्मो द्र वः शुष्क आशुर्मन्दः स्मृता गुणाः २०५
श्लक्ष्णः स्नेहं विनाऽपि स्यात्कठिनोऽपि हि चिक्कणः २०६
स्थिरो वातमलस्तम्भी सरस्तेषां प्रवर्तकः
पिच्छिलस्तन्तुलो बल्यः सन्धानः श्लेष्मलो गुरुः २०७
क्लेदच्छेदकरः ख्यातो विशदो व्रणरोपणः
शीतस्तु ह्लादनःस्तम्भी मूर्च्छातृटस्वेददाहनुत्
उष्णो भवति शीतस्य विपरीतश्च पाचनः २०८
स्थूलः स्थौल्यकरो देहे स्रोतसामवरोधकृत् २०९
देहस्य सूक्ष्मच्छिद्रे षु विशेद्यत्सूक्ष्ममुच्यते
द्र वः क्लेदकरो व्यापी शुष्कस्तद्विपरीतकः २१०
आशुराशुकरो देहे धावत्यम्भसि तैलवत्
मन्दः सकलकार्येषु शिथिलोऽल्पोऽपि कथ्यते २११
पचेन्नामं वह्निकृद्यद्दीपनं तद्यथा मिसिः २१२
पचत्यामं न वह्निं च कुर्याद्यत्तद्धि पाचनम्
नागकेशरवद्विद्याच्चित्रोदीपनपाचनः २१३
नशोधयति यद्दोषान्समान्नोदीरयत्यपि
समीकरोति विषमाञ्छमनं तद्यथाऽमृता २१४
कृत्वा पाकं मलानां च भित्वा बन्धमधो नयेत्
तच्चानुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी २१५
पक्तव्यं यदपक्त्वैव श्लिष्टं कोष्ठे मलादिकम्
नयत्यधः स्रंसनं तद्यथा स्यात्कृतमालकम् २१६
मलादिकमबद्धं यद्बद्धं वा पिण्डितं मलैः
भित्वाऽध पातयति यद्भेदनं कटुकी यथा २१७
विपक्वं यदपक्वं वा मलादि द्र वतां नयेत्
रेचयत्यपि तज्ज्ञेयं रेचनं त्रिवृता यथा २१८
अपक्वं पित्तश्लेष्मान्नं बलादूर्ध्वं नयेत्तु यत्
वमनं तद्धि विज्ञेयं मदनस्य फलं यथा २१९
स्थानाद्वहिर्नयेदूर्ध्वमधो वा मलसञ्चयम्
देहसंशोधनं तत्स्याद् देवदालीफलं यथा २२०
दीपनं पाचनं यत्स्यादुष्णत्वाद्द्र वशोषकम्
ग्राहि तच्च यथा शुण्ठी जीरकं गजपिप्पली २२१
रौक्ष्याच्छैत्यात्कषायत्वाल्लघुपाकाच्च यद्भवेत्
वातकृत्स्तम्भनं तत्स्याद्यथा वत्सकटुण्टुकौ २२२
श्लिष्टान्कफादिकान्दोषानुन्मूलयति यद्वलात्
छेदनं तद्यथा क्षारा मरिचानि शिलाजतु २२३
धातून्मलान् वा देहस्य विशोध्योल्लेखयेच्च यत्
लेखनं तद्यथा क्षौद्रं नीरमुष्णं वचा यवाः २२४
यस्माद् द्र व्याद्भवेत्स्त्रीषु हर्षो वाजीकरं हि तत्
यथाऽश्वगन्धामुसली शर्करा च शतावरी २२५
यस्माच्छुक्रस्य वृद्धिः स्याच्छुक्रलं हि तदुच्यते
यथा नागबलाऽद्या स्युर्बीजं च कपिकच्छुजम् २२६
दुग्धं माषाश्च भल्लातफलमज्जामलानि च
एतानि जनकानि स्यू रेचकानि च रेतसः २२७
प्रवर्तिनी स्त्री शुक्रस्य रेचनं बृहतीफलम्
जातीफलं स्तम्भकं स्यात्कालिङ्गं क्षयकारि च २२८
रसायनन्तु तज्ज्ञेयं यज्जराव्याधिनाशनम्
यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु २२९
पूर्वं व्याप्याखिलं कायं ततः पाकञ्च गच्छति
व्यवायि तद् यथा भङ्गा फेनञ्चाहि समुद्भवम् २३०
सन्धिबन्धांस्तु शिथिलान्यत्करोति विकाशि तत्
विशोष्यौजश्च धातुभ्यो यथा क्रमुककोद्र वौ २३१
बुद्धिं लुम्पति यद् द्र व्यं मदकारि तदुच्यते
तमोगुणप्रधानञ्च यथा मद्यं सुराऽदिकम् २३२
व्यवायि च विकाशि स्याच्छ्लेष्मच्छेदि मदावहम्
आग्नेयं जीवितहरं योगवाहि स्मृतं विषम् २३३
निजवीर्य्येण यद् द्र व्यं स्रोतोभ्यो दोषसञ्चयम्
निरस्यति प्रमाथि स्यात्तद्यथा मरिचं वचा २३४
पैच्छिल्याद्गौरवाद् द्र व्यं रुद्ध्वा रसवहाः शिराः
धत्ते यद्गौरवं तत्स्यादभिष्यन्दि यथा दधि २३५
विदाहि द्र व्यमुद्गारमम्लं कुर्यात्तथा तृषाम्
हृदि दाहं च जनयेत्पाकं गच्छति तच्चिरात् २३६
गृह्णाति योगवाहि द्र व्यं संसर्गिवस्तुगुणान्
पच्यमानं यथैतन्मधुजलतैलाज्यसूतलोहादिः २३७
उष्णशीतगुणोत्कर्षाद् बुधैवीर्यं द्विधा स्मृतम्
यत्सर्वमग्निषोमीयं दृश्यते भुवनत्रयम् २३८
उष्णं वातकफौ हन्यात् पित्तं तु तनुते जराम्
शीतं वातकफातङ्कान्कुरुते पित्तहृत्परम् २३९
तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकताम्
शमञ्च वातकफयो करोति शिशिरं पुनः
ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः २४०
जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्
रसानां परिणामान्ते स विपाक इति स्मृतः २४१
मिष्टः पटुश्च मधुरमम्लोऽम्ल पच्यते रसः
कटुतिक्तकषायाणां पाकः स्यात्प्रायशः कटुः २४२
श्लेष्मकृन्मधुरः पाको वातपित्तहरो मतः
अम्लस्तु कुरुते पित्तं वातश्लेष्मगदापहः २४३
कटुः करोति पवनं कफं पित्तञ्च नाशयेत्
विशेष एवं रसतो विपाकानां निदर्शितः २४४
रसादिसाम्ये यत्कर्म विशिष्टं तत्प्रभावजम्
दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी २४५
मधूकस्य च मृद्वीका घृतं क्षीरस्य दीपनम्
प्रभावस्तु यथा धात्री लकुचस्य रसादिभिः २४६
समाऽपि कुरुते दोषत्रितयस्य विनाशनम् २४७
क्वचित्तुकेवलं द्र व्यं कर्म कुर्यात्प्रभावतः
ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा २४८
विरुद्धगुणसंयोगे भूयसाऽल्प हि जीयते
रसं विपाकस्तौ वीर्यं प्रभावस्तान्व्यपोहति २४९
इति मिश्रप्रकरणे मिश्रवर्गः प्रथमः समाप्तः १
BhŒva PrakŒ§ha, by Bhav Mishra, edited by Brahmashankar Mishra, 1969 edition. Typed by Pramod Sharma, M.A.
Proofread by Maya Nand Sastri, Ved Vyakaranacharya.
Font conversion by Claude Setzer and Ralph Bunker.
Formatted for Maharishi University of Management Vedic Literature Collection