उच्चोदर्कि सव्याख्यानम्
नित्याभिनिहतक्षैप्र पूर्वोदात्तस्य संग्रहः
क्रियते हस्तविन्यासभेदोच्चारणसिद्धये १
नित्याभिनिहतक्षैप्राः स्वरितविशेषाः यस्मात्पूर्वाः उदात्तात्पूर्वभूताः तस्य नित्याभिनिहतक्षैप्रपूर्वोदात्तस्य संग्रहः निश्चयः क्रियते हस्तस्विन्न्याससिद्धये भेदोच्चारणसिद्धये च नित्यादिलक्षणं प्रातिशाख्ये दृष्टव्यं एषु सप्तस्वरितेषु प्रातिहततैरोव्यञ्जनपादवृत्तानामुपरिप्रचया एव तेषामुदात्तपरस्वरितत्वं न स्यात्प्रश्लिष्टे तु दशसु मासूत्तिष्ठन्नित्यस्यैवोदात्तपरस्वरितत्वं शेषाः प्रश्लिष्टपूर्वाः
प्रचया एव नित्याभिनिहतक्षैप्राणान्तूपरिप्रचयाश्च उदात्ताश्च बहुशस्संभवन्ति तेषूदात्तास्संगृह्यन्त निर्णीयन्त इत्यर्त्थः १
यदेकस्मिन्पदे स्वारपूर्वोदात्तो न विद्यते
संहिता लक्षणं तस्मादिदमित्यवगच्छत २
ननु उदात्तसंगृहस्य प्रयोजनद्वयमप्यनुपपन्नं उदात्तप्रचयावेकरूपेणोच्चारणदर्शनात् उच्चनीचभावोपलंभनिबन्धनत्वाच्चायमर्त्थः
यद्यस्मात्कारणादेकस्मिन् पदे स्वारपूर्वोदात्तो न विद्यते प्रचयत्वं तु सिद्धम् । यथा । वीर्याणि । अतः कारणात् उदात्तात् प्रचयसन्देहो नास्ति तस्मात्कारणादिदं संहितालक्षणमित्यवगच्छत जानीत पदविषये स्वरभेदः स्यात् । यथा । उच्चनीचविशेषेण स्वरान्यत्वं प्रवर्तत इति तथा च प्रातिशाख्ये प्रचय उदात्त श्रुतिरिति तस्मादिदमनुपपन्नमित्याशंक्याह २
उदात्तप्रचयौ भिन्नौ स्थानवाक्स्थानभेदतः ३-१
उदात्तप्रचयौ भिन्नौ कृतः स्थानभेदात्वाक् स्थानभेदाच्च
स्थानभेदात्तस्य उदात्तस्य प्रदेशनी प्रचयस्य मध्यमांगुलिः वाक्स्थानभेदाद्धिकण्ठ उदात्तप्रकृतेः प्रचय इति ताभ्यां प्रकाराभ्यां भिन्नौ उदातस्य मूर्द्धास्थानं प्रचयस्य सर्वांगं सादृश्यादनयोः स्थूलदृशां भेदप्रतीत्यभावः सूक्ष्मदृशां भेदः प्रतीयत एव तस्मादिदमुपपन्नं इत उत्तरमुदाहरणानि वक्ष्यामः ३-१
अस्मिन्तावेव गोष्ठे ते राष्ट्रे लोकेक्षये परः ३-२
तौ । एव । गोष्ठे । ते । राष्ट्रे । लोके । क्षये । एषु पदेषु परेषु परभूतेषु अस्मिन्निति पदे स्वारपूर्वो वर्णः उदात्तः ।
यथा । अदित्योऽस्मिन्ताविमौ । कार्योस्मिन्नेव । रमद्ध्वमस्मिं ल्लोकेस्मिन् गोष्ठे । यमोस्मिन्ते देवा अब्रुवन् ।
विश्यस्मिन्राष्ट्रे । ये स्मिंल्लोके मान्तेनु । गोष्ठेस्मिन् क्षये स्मिन् । एवं पर इति किम् । सोस्मिन् पशून् वीर्यं यच्छति ३-२
असंबुद्धिसुबन्तेऽग्निश्शब्दे वृत्तं यदेतयोः ४-१
संबुद्धिवर्जिते सुबन्ते अग्निशब्दे स्वारपूर्वो वर्ण उदात्तः । यथा । सपर्येण्यस्सप्रियो विवक्ष्वग्निः । अभिवा एषोग्नी आरोहति । येग्नयस्समनसः । तेग्नि मेवायजन्त । तेग्निनायतनेन । तेग्नये प्रवते । योग्नेर्देवता या एति । दीक्षा सोमस्य । पृथिव्यग्नेः । एषोग्नौ कामान्प्रवेशयति । असं बुद्धाविति किम् । त्वं ह्यग्ने अग्निना । त्वं ह्यग्ने प्रथमो मनोता । सुबन्त इति किम् । वसुष्वेवास्याग्निहोत्रम् । यदेतच्छब्दयोरुत्पन्नस्य पदस्य स्वारपूर्वो वर्ण उदात्तः । यथा । आद्याय एवं वेद । शिवा शरव्याया तव । अन्वाहार्यो यस्य । एतानि यच्छब्दोदाहरणानि । महान् ह्येष यदग्निः । देवा ह्येतमैन्धत । स्रुग्घ्येषा । अनिभृष्टं ह्येतत् । यज्ञस्य ह्येते पदे । पञ्च ह्येता देवताः । न ह्येतं कश्चन । सावित्र्ये तेन मर्त्तः । एतान्येतच्छब्दोदाहरणानि । अन्वादेशविषये एतच्छब्दस्यादिष्टेन शब्देनोत्पन्नानि प्रचयान्येव । अन्नं ह्येनेनार्कम् । मित्रावरुणौ ह्येनाम् ४-१
तदन्ययोस्तथा स्वारोदात्तपूर्वाक्षरं वसोः ४-२
तदन्ययोस्तथा तच्छब्दान्यशब्दयोरुत्पन्नस्य पदस्य स्वारपूर्वो वर्ण उदात्तः । यथा । क्वासः । अग्निः कार्यः । दित्यौ ह्यस्ता रुद्राणाम् । अदिति देवत्यास्तेन यानि हि । ते सर्वे दक्षिण्यास्तेभ्यः । वीर्यन्तस्यान्तर्यन्ति । तदिति किम् । प्रत्युदाहरणानि । विष्टामनुष्यास्ते गोप्तारः । अनुदेवाममिरे वीर्यन्ते । हविरास्येते । एषु युष्मच्छब्दादिष्टत्वात् प्रचयत्वम् । अन्यशब्दस्य यथा । राजन्योन्यः । ते उन्योन्यमुपाधावन् । तेसु उन्योन्यस्मै । नान्योन्यमनुप्रपद्येत । अन्न्योन्यो भवतीत्यत्र अन्यशब्दस्याम्रेडितत्वात्प्रचयत्वं स्वारोदात्तपूर्वाक्षरं यत्तदपि उदात्तं विस्वारस्य स्वरितस्य पूर्वस्थितमक्षरमुदात्तस्य पूर्वस्मिन् स्थितमक्षरं यत्तदप्युदात्तम् । यथा । वीर्यमवरुन्धे । अमावास्यां प्रत्यागच्छत् । अथ किन्देवत्यावसोर्द्धारेति ४-२
अस्माल्लोकादन्तरिक्षादन्नाद्यस्य किमात्रिणम्
अग्नायि ह्यसौ व्यसौ पात्रममुतोऽस्म्यन्तरात्मनः ५
लोकात् । अन्तरिक्षात् । परे । अस्मात् । अन्नाद्यस्य । किम् । आ । त्रिणं । अग्नायि । ह्यसौ । व्यसौ । पात्रम् । अमुतः । अस्मि । अन्तरा । आत्मनः । एषु इंग्यानंशपदे वीर्यं स्वारपूर्वो वर्ण उदात्तः । यथा । प्रवा एषोस्माल्लोकाच्च्यवत्येदिवोस्मादन्तरिक्षात् । एवं पर इति किम् । सोस्मात्सृष्टः । तीव्रसोमान्नाद्यस्य । अत्रात्तशब्दो यद्यपि निहतः तथापि अद्यस्य इत्यनेन एकादेशात्संहितायामुदात्तत्वं इंग्यस्यांश इंग्यांशः इंग्यांशो न भवतीति इंग्यानंशः तेषु इंग्यानंशपदेषु । आस्यं किञ्च नहि नस्ति । वसव्यैराप्रयच्छ । आस्ये तृणं सर्वाताते । इन्द्राण्यग्नाय्यश्विनीराट् । अयातयामाह्यसौ । योस्मान्द्वेष्टि । हि वीत्येवं किम् । स्वधानिधीयते गृहेऽसौ । असुर्यं पात्रमनाच्छृण्णम् । अथ ये मुतोर्वाञ्चम् । हविर्धान्यस्मीति । अस्मीति पदं यद्यपि निहतन्तथापि इति शब्देनैकादेशात्संहितायामुदात्तम् । दधन्नायोनर्योत्फ्स्वन्तरा । यच्चातुर्मास्य याज्यात्मनः ५
अभ्यय्यास्यामथो एव तपसाग्नीतृता अपः
अस्मानर्वाङ्क्स्व उक्थ्यस्याद्यन्तोऽर्वाक्संभवत्यनु ६
अभ्यय्य । अस्याम् । अथो । एव । तपसा । अग्नीत् । ऋतवः । अपः । अस्मान् । अर्वाङ् । स्वे । उक्थ्यस्यात् । यन्तः । अर्वाक् । सं । भवत्यनु । एषु इंग्यानंशपदेषु स्वारपूर्वो वर्ण उदात्तः । यथा । तस्यै वषट्कारो भ्यय्य शिरः । अत्राभिशब्दो यद्यपि निहतः तथापि इंग्यांशत्वाभावात् इंग्यान्तत्वात् अय्यशब्देनैकादेशात् संहितायामुदात्तत्वम् । यो स्यां पृथिव्याम् । सुवर्ग्यमथो प्र । तस्य त्वेव हुतम् । वाचो वीर्यन्तपसान्वविन्दत् । रुद्रोग्नीत् । वैष्णवोग्नीत् ॥ अत्रापि इंग्यांशः एकादेशात्संहितायामुदात्तत्वम् । शुचाह्यृतालोमतः । सनिलायतसोपः प्राविशत् । इन्द्रो वृत्रमहन् । सोपः । मुमुग्ध्यस्मान्निधयेवबद्धान् । ह्वयामसित्वेन्द्रियाह्यर्वाङ् । राजन्य स्व एवैनं स्तोमे । यद्युक्थ्यस्यादतिरात्रं कुर्वीत । उक्थ्य इति किम् । पितृदेवत्यं स्यात् । स्वर्यन्तो नापेक्षन्ते । बर्हिषदः पितर ऊत्यर्वाक् । प्रफर्व्यंसञ्शायां पत्यासृज । यदुक्थ्यो भवत्यनुसन्तत्यै । अन्विति किम् । अनुनिर्वाप्यो भवति तेन ६
उग्रामध्येंशुरानीयासर्वामंशुममुं खलु
इदानीमभ्यहं स्वाहा त्वोता मासो अहं यदि ७
उग्रा । मध्ये । अंशुः । आनीया । सर्वाम् । अंशुम् । अमुम् । खलु । इदानीम् । अभि । अहम् । स्वाहा । त्वोताः । मासो । अहन् । यदि । एष्विंग्यानंशपदेषु स्वारपूर्वो वर्ण उदात्तः । वशिनी ह्युग्रा । प्रथितवुक्थ्या मध्येनभ्यम् । तस्य योंशुः परापतत् । बह्वानीयाविः पृष्ठं कुर्यात् । तस्यापि इंग्यान्तत्वमेव । तस्मान्मनुष्यास्सर्वाम् । योः शुंगृह्णाति । तेमुं लोकमजयन् । अन्तरिक्षदेवत्याः खलु वै । क्वेदानीं सूर्यः । ततो वै सो भिस्वर्गं लोकम् । जायते सो भिशस्त इत्यत्र इंग्यांशभूतत्वात्प्रचयत्वम् । प्रातृस्सवनेभिषज्यन्नित्यत्रापि । कोहं स्यामित्यब्रवीत् । बृहत्यै स्वाहा । स्वस्वाहा । सधन्यस्त्वोतास्तव । पुरीष्यम्मापाद्यायुषः । वशानूबन्ध्यासो एव । इन्द्रस्यनुवीर्याण्यहन्नहिम् । होतव्यं यदि न वर्षेत् ७
अमुष्यास्यैद्यपां वज्रो यथानुस्म उदेत्युप
इति ब्रह्माफ्सु सेन्द्रायमनूर्त्तोसीत्युखात्त्रयः ८
अमुष्य । अस्यैन्दि । अपाम् । वज्रः । यथा । अनु । स्मः । उदेति । उप । इति । ब्रह्म । अफ्सु । सेन्द्रा । अयम् । अनूर्त्तः । असीति । उखात्रयः । एषु इंग्यानंशपदेषु स्वारपूर्वो वर्ण उदात्तः । यथा । योमुष्यत पत आयतनं वेद । दिग्भ्योस्यै दिवः । दीति किम् । सो स्यै प्रजाम्मुञ्चतु । योपांपुष्पं वेद । शक्वरी याज्या वज्रो वै । तं प्राप्यं यथावत् । वीर्यमनुप्रयच्छति । गृभ्योस्मस्तेभ्यः । अभ्युदेति त्रेधा । वीर्येणोपप्रयातीत्यत्र वीर्योणेति णकारः प्रचय एव तथापि उदेति पदेनैकादेशात्संहितायामुदात्तत्वम् । ऋतव्या उपदधाति । कर्त्तव्यमित्यधो खलु । कार्या इत्याहुः । राजन्यो ब्रह्मबृहस्पतिः । योफ्सुनावं प्रतिष्ठितां वेद । तेनामावास्यासेन्द्रायः । व्यास्रो यमग्नौ । हि देवरथोनूर्त्तो होता । प्राणोसीत्याह । नीरोहोसीत्येव प्राजनयत् । असीति पदं यद्यपि निहतन्तथापि इति शब्देनैकादेशात्संहितायामुदात्तम् । इतीति किम् । कोसि कतमोसि । नैर्रजत्युखायदाक्रामेत् । त्रिर्दक्षिणार्द्ध्यन्त्रयः ८
अस्येश्वरोऽन्नमासन् स्युर्वर्ष्माजोऽजामजा न हि
अस्माकमर्क्षोरस्मद्द्वौ प्राणोश्नात्यूर्जमश्विनौ ९
अस्येश्वरः । अस्यान्नम् । आसन् । स्युः । वर्ष्म । अजः । अजाम् । अजाः । न । हि । अस्माकम् । अर्क्षोः । अस्मत् । द्वौ । प्राणोश्नाति । ऊर्जम् । अश्विनौ । एष्विंग्यानंशपदेषु स्वारपूर्वो वर्ण उदात्तः । यथा । कोऽस्येश्वरो यज्ञेऽपि । अवरुद्धं ह्यस्यान्नमन्नमिव । एवं पर इति किम् । वाजपेयाभिजितं ह्यस्य । पूर्वे सोमग्रहा गृह्यन्ते । अस्येश्वर इत्यत्र अस्येति पदमन्तोदात्तं ईश्वर इति पदादौ द्व्यक्षरमनुदात्तं उदात्तमुदात्तवतीति सूत्रेण एकादेशे उदात्तमेव अस्यान्नमित्यत्र अस्येति पदन्तु निहतमपि अन्नशब्देनैकादेशे कृते उदात्तः । सुवर्ग्याण्यासन् । याज्यास्युस्ताः । तस्मै होतव्या वर्ष्म वै । आरण्योजो नकुलः । सोजामसृजत । तिस्रो जामल्हा इन्द्राण्यै । यस्याति ग्राह्यानगृह्यन्त इति । ब्राह्मणन्तु वसत्यैनापरुन्ध्यात् । तस्मात् ब्राह्मणो वसत्यैनापरुद्ध्यः । अन्तरिक्षदेवत्यो हि प्राणः । अयुद्ध्योस्माकं सेनाः । प्राणोक्ष्योश्चक्षुः । तेस्मत्पाशान् । द्वे सक्थ्यौ द्वौ बाहू । प्राणोश्नाति सप्राणः । प्राण इति किम् । अपोश्नाति तन्नेवाशितम् । मनुष्या ऊर्जम् । आनुजावरोश्विनौ वै ९
ज्योतिरन्नाद्यमन्वाग्मन् वै बृहस्पतये जया
स्वारपूर्वोच्च विज्ञार्त्थमुच्चोदर्कीत्युदीरितम् १०
ज्योतिः । अन्नाद्यम् । अन्न्वाग्मन् । वै । बृहस्पतये । जया । एषु इंग्यानंशपदेषु स्वारपूर्वो वर्ण उदात्तः । यथा । सुवर्ग्या ज्योतिः । तया वै सो नाद्यम् । त इमेन्वाग्मन्निति ।
एतयोरिंग्यान्तत्वमेव नेंग्यांशान्तर्भावाः अन्नशब्दश्च निहतं अद्यशब्देन एकादेशादुदात्तं अनुशब्दमपि अग्मन्नित्यनेनैकादेशात्तथैव च । वैश्वदेव्यो वै प्रजाः । वीर्यं वा अग्निः । पयस्या बृहस्पतये । चतुरक्षरा सत्य ॥ जया ज्योतिषा ॥
हरिः ओम्
श्रीमते हयग्रीवपरब्रह्मणे नमः
 
इति उच्चोदर्किलक्षणं संपूर्णम्