सर्वसंमतशिक्षा सव्याख्यानम्
ध्यात्वा सर्वजगन्नाथं साम्बं सर्वार्थसाधकम्
व्याख्यायतेऽधुना शीक्षा सर्वसंमतलक्षणा १
कृपालुं वरदं देवं प्रणिपत्य जगाननम्
द्वित्वादीनां प्रवक्ष्यामि लक्षणं सर्वसंमतम्
गजाननं प्रणम्य द्वित्वादीनामादिशब्देन आगमादिकमुच्यते लक्षणं वक्ष्यामीत्यर्थः २
स्वराद्द्वित्वमवाप्नोति व्यञ्जनं व्यञ्जने परे
स्वरात्परं व्यञ्जनं द्वित्वमवाप्नोति व्यञ्जने परे सति ।
यथा । यज्ञस्य घोषत् । स्वरादिति किम् । प्रजननं ज्योतिः । व्यञ्जनपर इति किम् । इषे त्वा । व्यञ्जनमिति किम् । प्र उगम् ॥
स्पर्शो लकारपूर्वो यो वपूर्वश्च द्विरुच्यते ॥
लकारपूर्वो यः स्पर्शः वपूर्वश्च यस्पर्शः सः द्विरुच्यते द्वित्वं प्राप्नोति । यथा । कल्पाञ्जुहोति ।
अल्पा एनम् । विभूदाव्ने । दधिक्राव्ण्णः । एवं पूर्वस्पर्श इति किम् । कल्याणी । हव्यवाहम् ३
स्वरपूर्वस्य रेफस्य परस्ताद्व्यञ्जनं स्थितम्
आपद्येते द्विवर्णं तद्वर्णमात्रे परे सति ॥
स्वरपूर्वस्य रेफस्य परस्तात् स्थितं यद्व्यञ्जं तद्वर्णमात्रे परे सति द्विवर्णं द्वित्वमापद्येते । यथा । ऊर्म्मिर्द्रफ्सः । ऊर्क्च मे ।
रेफस्य स्वरपूर्वत्वेन किम् । त्र्यम्बकम् । वर्णमात्रे परे सतीति इति किम् । मौर्क् ४
ह्रस्वपूर्वौ नङौ द्वित्वमापद्येते पदान्तगौ
अपि स्वरोत्तरावेव श्लिष्टे भवति नान्यथा ॥
हस्वपूर्वौ पदान्तगौ नङौ नकारङकारौ स्वरोत्तरावपि श्लिष्टे संहितायामेव द्वित्वमापद्येते
अन्यथा न भवति अन्यथा द्वयोर्द्वित्वं नास्तीत्यर्थः । यथा । अग्मनूर्जम् । कवातिर्यङ्ङिवोपतिष्ठेत । ह्रस्वपूर्वाविति किम् । तानेव व्रीणाति । प्राङासीनः । पदान्तगाविति किम् । अनमीवाः ५
संयोगादिरियाद्द्वित्वमनुस्वारात्परस्थितः
अनुस्वारो द्विरुच्येत संयोगे परतस्थिते ॥
अनुस्वारात्परस्थितः संयोगादिः द्वित्वमियात्संयोगे परतस्थिते सति अनुस्वारोऽपि द्विरुच्येत । यथा । वायव्यं श्वेतम् । वयं स्याम । अत्र किम् । प्रत्युष्टं रक्षः ६
ह्रस्वसंयोगयोर्मध्ये योऽनुस्वारो हि दृश्यते
स एव द्वित्वमाप्नोति तदन्यो न द्विरुच्यते ॥
यः अनुस्वारः ह्रस्वसंयोगयोर्मध्ये दृश्यते स एवानुस्वारः द्वित्वमाप्नोति तदन्योऽनुस्वारः न द्विरुच्यते । पूर्वोक्तमेवोदाहरणम् । ह्रस्वसंयोगयोर्मद्ध्य इति किम् । त्रींस्तृचान् । सवयांस्य सृजत ७
कुत्रचित्स्वरयोर्मध्ये द्वित्वं लक्ष्यानुसारतः
पूर्वागमस्तथा तत्र ज्ञेयो वर्णविचक्षणैः ॥
कुत्रचित् एकपदे स्वरयोर्मध्ये विद्यमानं द्वित्वं लक्ष्यानुसारतः वर्णविचक्षणैर्विज्ञेयं तत्र एकस्मिन् पदे स्वरमध्ये विद्यमान आगमश्च तथा लक्ष्यानुसारतो विज्ञेयः । यथा । अत्ता हवींषि । अन्नपतेऽन्नस्य । बर्हिरच्छ । वर्षवृद्धम् ८
यत्र येन निमित्तेन द्वित्वं व्यञ्जनमश्नुते
द्वितीयस्य चतुर्थस्य तेन पूर्वागमो भवेत् ॥
यत्र यस्मिन् स्थले येन निमित्तेन स्वरपूर्वत्वादिलक्षणेन व्यञ्जनं द्वित्वमश्नुते तेन निमित्तेन द्वितीयस्य चतुर्थस्य च पूर्वागमो भवेत् । यथा । पर्वतेराद्ध्यासम् । प्रत्युष्टं रक्षः । आहर्क्सामाभ्याम् । दीर्घमायुः । प्रगल्भाय च ९
परमात्याति भूते च ह्युपसर्गाश्च धाम च
पाथ एष च पूर्वेषु पूर्वञ्छखिभुजा इयुः ॥
परम । अति । आति । भूते । उपसर्गाः । धाम । पाथ एषः । एतेषु पूर्वेषु सत्सु छि । खि । भुजाः । पूर्वागममियुः । यथा । परमच्छदोवरे । अतिच्छन्दसम् । सवितृ आतिच्छन्दसाय । यद्भूते च्छदांसामानि । विच्छन्दास्सूचीभिः । नम आक्खिदते च प्रक्खिदते च । आच्छेत्ताते । अयक्ष्मयापरिब्भुज । जेतिकिम् । विभु च मे । धामच्छदिव खलु वै । अप्येतु पाथः । एषच्छागः । पाथ इति किम् । ऋतुभिर्वा एष छन्दोभिः १०
अघोषादूष्मणो ह्यूर्ध्वं स्पर्शमात्रे समास्थिते
सकृत्तत्स्पर्शसंस्थानस्तन्मध्ये प्रथमागमः ॥
अघोषादूष्मणः ऊर्ध्वं स्पर्शमात्रे समास्थिते सतीति तत्स्पर्शसंस्थानः प्रथमागमः तन्मध्ये ऊष्मस्पर्शमध्ये सकृत् भवतीत्यर्थः । यथा । पुरस्ताद्देवेभ्यः । प्रत्युष्टम् । वायवस्थ । श्रेष्ठतमाय कर्मणे । ध्रुवा अस्मिन् । विष्णो हव्यं रक्विस्व । अदित्यैरास्नासि । अघोषादिति किम् । अह्नां केतुः । ब्रह्मवादिनः । स्पर्शमात्रे समास्थित इति किम् । स्वधयावि । सकृदित्यनवस्थानिवारकम् ११
मात्राद्द्विमात्रोऽनुस्वारो द्विमात्रान्मात्र एव तु
मात्रिकादपि संयोगे मात्रिकस्तु द्विरूपवत् ॥
मात्रात्परोऽनुस्वारो द्विमात्रो भवति द्विमात्रात्परोऽनुस्वार एकमात्रो भवति संयोगे परे सति मात्रिकात् एकमात्रात्परोऽपि मात्रिक एव भवति द्विरूपवत्संयोगे परे सति ह्रस्वपूर्वोऽनुस्वारद्वित्ववान्भवतीत्यर्थः । यथा । अंशुरंशुस्ते रक्षांसि यज्ञम् । पशवो वै छन्दांसि । संयोगे परे यथा । वायव्यं श्वेतम् । सवयांस्य सृजत । मात्रा द्विमात्रोऽनुस्वार इत्येतत्स्रादिविषयम् । एतयेव । प्रत्युष्टं रक्षः । इत्यादि स्थले अनुस्वारस्य एकमात्रात्परत्वेऽपि मात्राकाल एवेति मन्तव्यम् । अस्रादित्वात् । तथा च शीक्षान्तरवचनम् । मात्रायाः परतो भवेद्विगुणितस्रादिष्वनुस्वारको अस्रादौ मात्रिक एव चेदुभयते दीर्घात्परो मात्रिकः । संयोगे च तथैव सर्वविषये दीर्घाच्च ह्रस्वात्परो द्वित्वं गच्छति मात्रिका मतमिदं शास्त्रेतरन्नैव हीति । एतत्सर्वं मत्कृत शीक्षा चन्द्रिकायां सम्यग्विवेचितं दृष्टव्यम् । इदन्तु पक्षान्तरमिति दृष्टव्यम् १२
अनुस्वारो द्विमात्रः स्याद्रेफोष्मसु परेषु च
संयोगे परभूते स्यान्मात्रिकस्तु द्विरूपवत् ॥
रेफोष्मसु परेषु सत्सं अनुस्वारो द्विमात्र स्यात्संयोगे परसंयोगे परे एकमात्रत्वमेव । यथा । वायव्यं श्वेतम् । वयं स्याम । सवयांस्य सृजति त्रींस्तृचान् । इत्यादि १३
अनुस्वारस्य मात्रत्वं संयोगे परतस्थिते
अन्यत्राध्येतृभिस्सर्वैर्द्विमात्रः परिकीर्तितः ॥
संयोगे परतस्थिते सति अनुस्वारस्य मातृत्वं परिकीर्तितं अन्यत्र संयोगपरत्वाभावस्थले अनुस्वारस्य द्विमात्रः परिकीर्तितः अध्येतृभिस्सर्वैः । पूर्वोक्तमेवोदाहरणम् १४
अनूष्मप्रकृते स्पर्शादुत्तमेऽनुत्तमाद्यमान्
वर्णयन्त्यानुपूर्व्येण वर्णक्रमविचक्षणाः ॥
अनूष्मप्रकृतेः अनुत्तमात्स्पर्शात् उत्तमे परे सति वर्णक्रमविचक्षणाः यमान् आनुपूर्व्येण वर्णयन्ति । यथा । सोमेन त्वातनच्मि । ग्रन्थिं ग्रन्थ्ना तु । यज्ञस्य घोषत् । अघ्निया देवभागम् । न विद्यते ऊष्मप्रकृतिर्यस्य स तथा । अनूष्मप्रकृतेरिति किम् । यच्छ्म श्रुणः १५
द्वित्वनिषेध उच्यते ।
प्राप्तौ यत्र निवर्त्तेत द्वित्वं तदधुनोच्यते
स्वरेभ्यः प्रथमात्पूर्व ऊष्मा चैव विसर्गरौ ॥
स्वरेभ्यः पूर्वः मुख्यप्रथमात्पूर्वश्च ऊष्मा द्वित्वं नापद्यते विसर्गरेफौ च द्वित्वं नापद्यते । यथा । वर्षवृद्धम् । बर्हिः । प्रत्युष्टम् । पुरस्तात् । मनः क्षेमे । घनाघनः क्षोभणः । ऊर्मिर्द्रफ्सः । ऊर्क्च मे १६
अनुत्तमात्सवर्गीयात्सवर्णात्पूर्वतस्थितः ॥
अनुत्तमात्सवर्गीयात्पूर्वतस्थितः सवर्गीयः सवर्णात्पूर्वतस्थितस्सवर्णश्च द्वित्वं नापद्येते । यथा । अह्नां केतुः । संत्वासिञ्चामि । अगाद्धिषणा । मधुमत्तमा मन्द्राः । पुरस्ताद्देवेभ्यः । देवबर्हिश्शतवल्शं विरोह ॥
हशस्पर्शपरो लश्च वश्च स्पर्शपरस्तथा ॥
हशस्पर्शपरः लकारश्च स्पर्शपरो वकारश्च द्वित्वं नापद्येते । यथा । मल्हा आलभेत शतवल्शं विरोह । कल्पां जुहोति । अल्पा एनम् । विभूदावन्ने । दधिक्राव्णः १७
नकारश्च पदान्तस्थो यवहात्पूर्वतस्थितः ॥
यवहात्पूर्वतस्थितः पदान्त नकारश्च द्वित्वं नापद्यते । यथा । अस्मिन्यज्ञे । एतान् वा अरुणः । एतान् होमान् ॥
एवमूष्मादयो वर्णा उक्ता द्वित्वविवर्जिताः ॥
एवमनेन प्रकारेण द्वित्वेन विवर्जिताः ऊष्मादयः ऊष्मविसर्जनीयादयः सर्वे परतरं नोक्ता इत्यर्थः
ननोक्ता एवेति नोपपद्यते यतः । ऊष्मा घोषा हारीतस्य । रेफपरश्च हकारः । लतवर्गौ यवकारपरौ । इति द्वित्व विवर्जितेन प्रातिशाख्ये निरूपितानामघोषप्रादीनामनुक्तिरितीम्माशं कात्वमपनुदन्नाह १८
स्वरभक्तिलक्षणं वक्तुकामस्सन्स्वरभक्तेः ऋकारान्तर्भूतत्वेन उपोद्घातप्रक्रिययास्तु त्रिपुरस्सरम् ऋकारस्वरूपमाह--
ऋकारश्च स्वरूपं तत् बुद्ध्वा बोद्धुं हि शक्यते ।
ऋकारस्य तत्प्रसिद्धं स्वरूपं बुद्ध्वा बोद्धुम् शक्यते अन्यथा न शक्यत इति हि शब्दार्थः ततः किमित्यत आह--
स्वरभक्तिमतो विद्यादृकारमिह विस्तरात् ॥
यतः प्रसिद्धं स्वरूपं अतः कारणात् ऋकारमेव विस्तरात्स्वरभक्तिं भद्रामयव्यञ्जनोदयत् वरोदयत्वादिविस्तरादित्यर्थः तत्स्वरूपं किमित्यत आह १९
ऋकारस्य स्वरूपं हि श्लिष्टं पादचतुष्टयम् ॥
पादचतुष्टयात्मकं श्लिष्टं सत् ऋकारस्य स्वरूपं हीत्यर्थः । ततः किमित्यत आह--
पादेषु तेषु विज्ञेयावादावन्ते ᨊस्वरात्मकौ
अणूरेफस्य मध्ये तु विज्ञेयौ व्यञ्जनात्मकौ ॥
तेषु पादेषु आद्यन्तौ पादौ स्वरात्मकाविति विज्ञेयौ मध्ये विद्यमानौ पादौ रेफस्य संबन्धिनौ अणुः व्यञ्जनात्मकौ विज्ञेयावित्यर्थः । ततः किमित्यत आह २०
रेफस्य चादिभूतं हि पादं पूर्वेण योजयेत्
स्वरात्मकेन पादेन ह्युत्तरेणोत्तरं तथा ॥
रेफस्यादिभूतं पादं पूर्वेण स्वरपादेन योजयेत् स्वरात्मकेन उत्तरेण पादेन उत्तरं रेफपादं योजयेदित्यर्थः । ततः किमित्यत आह २१
स्वरपादान्वितौ पादौ स्वरभक्तिरितीरितौ ॥
स्वरपादान्वितौ रेफपादौ स्वरभक्तिरितीरितावित्यर्थः तथा च स्वरभक्तिद्विविधा जाता पूर्वभागस्वरभक्तिः उत्तरभागस्वरभक्तिरिति च तथा च पूर्वभागस्वरभक्तेर्व्यञ्जनोदयत्वं उत्तरभागस्वरभक्ते स्वरोदयत्वमिति मन्तव्यम् । हकारे पूर्वभाग इत्याह २२
हकारे पूर्वभागस्यादुत्तरश्शषसेषु च ॥
हकारे परतः पूर्वभागो रेफस्य स्यात् रेफान्ता स्वरभक्तिर्भवेदित्यर्थः शश्च षश्च सश्च तेषु परभूतेषु उत्तरो रेफस्य भागस्यात् रेफादिस्वरभक्तिर्भवेदित्यर्थः ॥
स्वरभक्ते स्वरूपमुक्त्वाथ पञ्चविधेत्याह--
करेणुः कर्विणी चैव हरिणी हारितेति च
हंसपदेति विज्ञेयाः पञ्चैता स्वरभक्तयः ॥
स्पष्टम् । मिता २३
सास्वरभक्तीनां लक्षणमाहुः ।
करेणू रहयोर्योगे कर्विणी लहकारयोः
हरिणी रशसानाञ्च हारिता लशकारयोः
या तु हंसपदानामसा तु रेफषकारयोः
स्पष्टम् । यथा । करेणुः । देवबर्हिः । कर्विणी । मल्हा आलभेत । हरिणी । यद्दर्शपूर्णमासौ । यज्ञस्यैव तद्बर्सं । हारिता । शतवल्शं विरोह । हंसपदा । वर्षवृद्धमसि । स्वरभक्तेः प्रयत्नभेदादिकमाह २४
हकारे संवृतां विद्याद्विवृतामितरत्र तु
हकारे विद्यमानानां स्वरभक्तिं संवृतां विद्यात् । इतरत्र शषसेषु विद्यमानस्वरभक्तिं विवृतां विद्यात् ॥
हकारे व्यञ्जनोदयां शषसेषु स्वरोदयाम् ॥
हकारे विद्यमानानां स्वरभक्तिव्यञ्जनोदयां विद्यात् शषसेषु विद्यमानानां स्वरोदयं विद्यात् । व्यावृत्तिर्व्यवहारोपलक्षणस्य प्रयोजनमिति न्यायेन स्वरभक्तिरेवं व्यवहर्त्तव्येत्यत्राह २५
पूर्वस्वरस्य चाल्पत्वमित्वमुत्वमिति त्रयम्
एतत्सर्वं विसृज्यैव स्वरभक्तिं समुच्चरेत् ॥
स्वरभक्तेः पूर्वस्वरस्य अल्पत्वञ्च स्वरभक्तेः परतः इकारोकारौ च विसृज्य स्वरभक्तिं समुच्चरेदित्यर्थः
ककारादिव स्वरभक्तिः प्राकृतात् भवतीत्याह २६
स्वरोत्तरोष्मणः पूर्वरेफस्य स्वरभक्तिता ।
हशोत्तरो लकारश्च प्राप्नुयात्स्वरभक्तिताम् ॥
स्वरपरोष्मणः पूर्वरेफस्य स्वरभक्तिता स्यात् हशपरो लकारश्च प्राप्नुयात्स्वरभक्तिताम् । उदाहरणं स्पष्टम् । स्वरोत्तरेति किम् । वर्ष्याभ्यस्वाहा । एतर्ह्येव २७
विवृत्तिविरामः पञ्चधा भिद्यत् इति भेदेन सह लक्षणं चाह--
ह्रस्वादिर्वत्सानुसृतिरन्ते वत्सानुसारिणी
पाकवत्युभयह्रस्वोभयदीर्घी पिपीलिका ॥
आदौ ह्रस्वसहिता व्यक्तिर्वत्सानुसृतिः । अन्ते ह्रस्वसहिता वत्सानुसारिणी । आदावन्ते च ह्रस्वा पाकवती । आदावन्ते च दीर्घा तु उभयदीर्घी पिपीलिका चेति द्विविधा आहत्य पञ्चविधेत्यर्थः २८
पिपीलिकायां विशेषास्तीत्यत आह--
स्वरिता यत्र दृश्यन्ते विसर्गो नैव दृश्यते ।
पिपीलिकेति विज्ञेया तदन्यो दीर्घ उच्यते ॥
यस्यां व्यक्तौ संहितायां स्वरितः पदकाले विसर्जनीया भावश्च दृश्यते सा पिपीलिकेति विज्ञेया । तदन्यो विरामः उभयदीर्घी च उच्यते उभयदीर्घ इत्युच्यत इत्यर्थः
श्लोकद्वयस्याप्युदाहरणम् । यथा । त आवहन्ति । प्रत्युष्टा अरातयः । अग्नासुनूपत्तीवाः । तिर इव यर्हि । प्र उग उक्थ्यम् । प्रजा एव तद्यजमानः । इदमुभयदीर्घमस्योदाहरणम् । पिपीलिकाया उदाहरणं तु । वा आदित्य दृश्यन्त इति किम् । वा एष यदग्निः । विसर्गो नैव दृश्यत इति किम् । या आविविशुः परुः परुः २९
व्यक्तीनाम्मात्राकालनिर्णयमाह--
मात्रिका वत्सानुसृतिस्तथा वत्सानुसारिणी ।
पादोना स्यात् पाकवती पादमात्रा पिपीलिका ॥
वत्सानुसृतिः मात्रिका भवति । वत्सानुसारिणी च तथैव । पाकवती पादोनमात्रा स्यात् । पिपीलिका पादमात्रा स्यादित्यर्थः । अत्र सूत्रे । ऋग्विरामः पदविरामो विवृत्तिविरामस्समानपदविवृत्तिविरामस्त्रिमात्रो द्विमात्र एकमात्रोऽर्धमात्र इत्यानुपूर्व्येणेत्यनेन सूत्रेण विवृत्तिविरामस्य सामान्यत एकमात्रत्वे प्रसक्ते प्ययं विशेषविधिरिति मन्तव्यम् । अत एव उभयदीर्घाः मात्राकालस्यानुक्तत्वेऽपि एकमात्रत्वं विज्ञेयम् ३०
एतदभिप्रायप्रकाशनपूर्वकमेव समानपदविवृत्तिविरामस्य मात्राकालनिर्णयमाह--
विवृत्तौ पदयोर्मध्ये एकमात्रः प्रकीर्तितः
पदमध्येऽर्धमात्रं स्याद्विवृत्ताविति निर्णयः ॥
पदयोर्मध्ये विद्यमानविवृत्तौ एकमात्राकालः पदमध्ये विद्यमानविवृत्तौ अर्धमात्राकाल इत्यर्थः । अनेन वचनेन च उभयदीर्घाः एकमात्रत्वं सिद्धम् । यथा । वा एष यदग्निः । या आविविशुः । प्रजा एव तद्यजमानः । अत्र एकमात्रत्वम् । प्रहव्यमग्निरमृतेषु वोचत् । अत्रार्धमात्रत्वं विज्ञेयम् ३१
व्यक्तिमध्यस्थानुस्वारस्य व्यक्तेश्च मात्राकालविशेषमाह--
व्यक्तिमध्यस्थनासिक्यस्सपादो मात्रिको भवेत् ।
व्यक्तेरस्याश्च तत्कालो भवेदिति विनिर्णयः ॥
व्यक्तिमध्ये विद्यमानोऽनुस्वारः पादसहितमात्रिको भवेत् अस्याः व्यक्तेश्च तत्कालो भवेत्सपादमात्राकालो भवेदित्यर्थः सपादो मात्रिक इति आर्षमिति मन्तव्यम् । यथा । विद्वाँ ऋतून् । अग्ने महाँ असि ३२
धर्मरहितानुस्वारमाह ॥
नकिष्टं घ्नन्ति संज्ञानं प्रियं ज्ञातिं तथैव च
धूक्ष्णा दंक्ष्णव इत्यत्रानुस्वारोऽपि विधर्मकः ॥
स्पष्टोऽर्थः । यथा । नकिष्टं घ्नन्त्यन्तितो न । संज्ञानं विज्ञानम् । प्रियं ज्ञातिं रुन्ध्यात् । अग्नये धूंक्ष्णा । दंक्ष्णवः पशवः ३३
उदात्तानुदात्तस्वरितप्रचयादीनां जाति निर्णयमाह--
उदात्तो ब्रह्मजातिः स्यान्नीचो राजन्य उच्यते
स्वरितो वैश्यजातिः स्यात्प्रचयश्शूद्र ईरितः ।
वर्गाणां प्रथमा वर्णास्वराश्च ब्रह्मजातयः । द्वितीयाश्च तृतीयाश्च चतुर्थाक्षत्रजातयः । अन्तस्थाश्चोत्तमाश्चैव वैश्याः खलु समीरिताः । अनुस्वारो विसर्गश्च ह्यूष्माणश्शूद्रजातयः ॥ अनुस्वारो विसर्गश्चेति चकारेण स्वरभक्तियमादीनामपि संग्रहणम् । अन्यत्सर्वं स्पष्टम् ३४
जातिनिर्णयस्य प्रयोजकमाह--
यज्जातिहनने दोषस्तज्जातिहननं भवेत्
स्पष्टम् । वेदपाठकदोषमाह--
गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥
अनर्थज्ञ इति उदात्तादिज्ञानशून्य इत्यर्थः । कुत इत्युक्ते यज्जातिहनने दोषस्तज्जातिहननं भवेदिति उदात्तादिज्ञानशून्यस्य दोषश्रवणात् ।
गुरुत्वं लघुता साम्यं ह्रस्वदीर्घप्लुतानि च ।
लोपागमविकारश्च प्रकृतिर्विक्रमः क्रमः ।
स्वरितोदात्तनीचत्वं श्वासो नादोऽङ्गमेव च ।
एतत्सर्वं तु विज्ञेयं छन्दोभाषामधीयताम् ।
इति विज्ञेयत्वविधानाच्च अन्यथा यावच्चेदर्थज्ञानस्यासंभवात् यत्किञ्चिद्वेदार्थज्ञानस्य तु सर्वेषामपिसंभवात् अनर्थज्ञात्वस्यैवासंभवापत्तेरिति मन्तव्यम् । स्पष्टमन्यत् ३७
पाठकस्य गुणानाह--
माधुर्यमक्षरं व्यक्तिः पदच्छेदस्तु सुस्वरः
धैर्यं लयसमर्थं च षडेते पाठका गुणाः ।
स्पष्टम् ३८
वेदाद्ध्ययनं दूषयति ।
योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम्
स जन्मन्येव शूद्रत्वमाशु गच्छति सान्वयः
स्पष्टम् ३९
वेदविद्यारहितविद्याजालमनर्थकमित्याह--
वेदविद्याविहीनस्य विद्याजालमनर्थकम्
कण्ठसूत्रविहीनायाः कामिन्या इव भूषणम् ॥
यथा स्पष्टम् । आचारहीनं वेदाद्ध्यायनं वेदा न पुनन्ति । प्रत्यन्तमृत्युकाले एनं पुरुषं त्यजन्ति । यथा जातपक्षाः पक्षिणो नीडं त्यजन्ति तथेत्याह--
आचारहीनं न पुनन्ति वेदा यद्यप्यधीतास्सह षट्भिरङ्गैः
छन्दांस्येनम्मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥
स्पष्टम् ४०
ह्रस्वदीर्घप्लुतादयः मात्राविशेषयुक्ता इत्याह--
एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम्
ह्रस्व एकमात्राकालयुक्तः दीर्घः द्विमात्राकालयुक्तः प्लुतस्तु त्रिमात्राकालयुक्तः व्यञ्जनं त्वर्धमात्राकालयुक्तमित्यर्थः ४१
मात्राकालस्य निर्णयमाह--
चाषो रौत्येकमात्रं हि द्विमात्रं वायसोऽब्रवीत्
शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम्
स्पष्टम् ४२
अन्तस्थासु परासु हकार औरसो भवति । उत्तमेषु परेषु सत्सु नासिक्यत्वमधिकं भवतीत्याह--
हकारमौरसं विद्यादन्तस्थासु परासु च
उत्तमेषु परेष्वेवं नासिक्यत्वमिहाधिकम् ॥
यथा । बह्वीर्यजमानस्य । प्रह्रियमाणाय । महान् ह्येषः । अह्नां केतुः । ब्रह्मवादिनः । इत्यादि ४३
तैत्तिरीयशाखायामनुस्वारस्याद्यर्धगकारः स्यादित्याह--
अध्याये तैत्तिरीयाणामनुस्वारो यदा भवेत्
तदाद्यर्धगकारः स्यादपरस्त्वनुनासिकः ॥
स्पष्टम् । यथा । प्रत्युष्टँ रक्षः ४४
लकारवकारयोस्संयोगे स्वरितश्चेत्तदासंयुक्तौ भवतः अन्यथा असंयुक्तौ भवत इत्याह--
लकारश्च वकारश्च संयोगे स्वरितो यदि
संयुक्तौ तु तदा ज्ञेयावसंयुक्तौ तदन्यथा ॥
यथा । ततो बिल्व उदतिष्ठत् । अत्र संयुक्तौ । बैल्वो यूपो भवति ।
अत्र असंयुक्तौ ४५
पदान्तस्य नकारस्य यवहेषु परेषु सत्सु नकारयवहानां चासंयुक्तत्वं विज्ञेयमित्याह--
पदान्तस्य नकारस्य यवहेषु परेषु वै
नकारयवहास्तत्र त्वसंयुक्ताः प्रकीर्तिताः ॥
यथा । अस्मिन् यज्ञे । एतान्वा अरुणः । एतान् होमान् । इत्यादि ४६
रङ्गप्लुतस्वरूपमाह--
प्लुतोऽवर्णः पदान्तस्थो नासिक्यो रङ्गसंज्ञकः ॥
पदान्तस्थः अवर्णप्लुतः अनुनासिकश्चेत्स रङ्गसंज्ञो भवतीत्यर्थः ।
रङ्गप्लुतानुदाहरति ।
श्लोकाँ४ सुमङ्गलाँ४ यद्धँ४ इत्यपतत् उपहूताँ४ हो इत्याह यशो ममाँ४ प्लुताः ४७
आरण्यककाठके चत्वारः रङ्गदीर्घास्सन्तीत्याह--
चत्वारः काठके रङ्गा दीर्घा ह्यारण्यके विदुः ॥
रङ्गदीर्घानुदाहरति ।
दीर्घास्ताँ३ इमि देवाँ३ स्वाँ३ अहं ममृवाँ३ अवाहाः ॥
यथा । निधान्वेव्ताँ३ इमि ।
देवाँ३ उपप्रैत् । स्वाँ३ अहं रयिं न कश्चिन्ममृवाँ३ अवाहाः ४८
कांस्यध्वनिवत् रङ्गप्लुतो वक्तव्य इत्याह--
कांस्यध्वनिसमं रङ्गं हृदयादुत्थितं वदेत्
स्पष्टम् ।
पुनरपि रङ्गोच्चारणे दृष्टान्तमाह--
यथा सौराष्ट्रिका नारी तक्राँ४ इत्यभिभाषते
एवं रङ्गाः प्रयोक्तव्याः खे अराँ४ इव खेदया ॥
साराष्ट्रदेशे उत्पन्ना स्त्री तक्रविक्रयणार्थं यथा तक्राँ४ इति कांस्यध्वनिसमं भाषते एवं वेदेऽपि रङ्गाः प्रयोक्तव्याः । वेदे उदाहृत्य दर्शयति । खे अराँ४ इव खेदया इति ४९
रङ्गप्लुतस्य मात्रा निर्णयमाह--
रङ्गप्लुतश्चतुर्मात्र इति वेदविदो विदुः
स्पष्टम् ।
शीक्षाप्रातिशाख्ययोर्विरोधे सति शीक्षैव दुर्बलेत्याह--
शीक्षा च प्रातिशाख्यं च विरुध्येते परस्परम्
शीक्षैव दुर्बलेत्याहुस्सिंहस्यैव मृगं यथा ॥
स्पष्टम् ५०
मपयोगपूर्वकमङ्गनिर्णयमाह--
इदानीं हस्तविन्यासभेदोच्चारणसिद्धये ।
हस्तविशेषेण न्यासः विन्यासः तस्य भेदः तत्सिद्धये उच्चारणसिद्धये वाङ्गनिर्णयमुच्यत इति शेषः ॥
व्यञ्जनं स्यात्परस्यांगं पूर्वस्यावसितं भवेत् ।
व्यञ्जनं परस्वराङ्गं भवति अवसाने विद्यमानव्यञ्जनं तु पूर्वस्वराङ्गं भवतीत्यर्थः । यथा । देवोवः । घोषदसि । ननु क्लृपो यूप इत्यादौ व्यञ्जनस्यैवार्थबोधकतया प्राधान्यात्कथं व्यञ्जनं स्वराङ्गमिति चेन्न व्यञ्जनन्निरपेक्षेण स्थातुं न शक्नोति । स्वरस्तु व्यञ्जनं निरपेक्ष्यैव स्थातुं शक्नोति अतस्सापेक्षनिरपेक्षयोर्निरपेक्षो बलीयानिति न्यायेन व्यञ्जनापेक्षया स्वरस्यैव विशिष्टत्वात्स्वरांगं व्यञ्जनमित्यभिप्रायः अत एव । दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः । दुर्बलं व्यञ्जनं तद्वद्धरते बलवान्स्वरः ।
यस्वयं राजते तं तु स्वरमाहुः पतञ्जलिः ।
वर्गाणां प्रथमावर्णा स्वराश्च ब्रह्मजातयः । इत्यादिवचनैश्च स्वरस्यैव विशिष्टत्वं प्रतीयते तस्माद्व्यञ्जनं स्वराङ्गमिति सिद्धान्तम् ५१
परा युक्तमनुस्वारो योगादिर्भक्तिरेव च ।
परस्परेणा संबन्धं व्यञ्जनं च अनुस्वारश्च संयोगादिश्च स्वरभक्तिश्च एते पूर्वस्वराङ्गत्वं प्राप्नुवन्तीत्यर्थः चकारः पूर्वस्वराङ्गत्वाकर्षकः । यथा । ऊर्जेत्वा । अंशुरंशुः । प्रार्पयतु । वर्षवृद्धम् । बर्हिः । इत्यादि । नन्वत्र परा युक्तमित्यानेनैव योगादेरपि पूर्वांगत्वे सिद्धे योगादिरिति विधानं किमर्थमिति चेन्न । अर्वास्यमर्यश्रीरित्यादौ आद्यवकारस्य परा युक्तमित्यनेनैव न पूर्वाङ्गत्वे सिद्धे रेफस्य नान्तस्था परमसवर्णमिति पराङ्गत्वे सिद्धे अनिष्टं स्यात्कुतः तथोच्चारणासंभवादिति संयोगादि विधानं सार्थकं तर्हि अनुस्वारस्वरभक्त्योः योगादिरित्यनेनैव पूर्वाङ्गत्वे सिद्धे तयोर्विधानं व्यर्थं स्यादिति चेन्न अज्भिरव्यवहिता हलस्संयोगसंज्ञा स्युरिति अज्भिरव्यवहित हलानामेव संयोगसंज्ञा विधानात् अनुस्वारस्वरभक्त्योस्तु हलत्वाभावेन संयोगसंज्ञायात् भावे संयोगादित्वं सुतरान्नास्तीति मन्तव्यम् ५२
असवर्णं परस्याङ्गमन्तस्थापरमक्षरम् ।
अन्तस्था परा यस्मात्तदस्थापरं असवर्णमन्तस्थाया असवर्णमक्षरं परस्परस्याङ्गं भवति । यथा । युक्ष्वा हि देवहूतमान् । तत्वाय सविताधियः । पृथ्वी सुवर्च्चाः । इत्यादि ॥
पराङ्गोष्मपरस्पर्शो यमाश्चैवाङ्गनिर्णयः ॥
परस्पराङ्गं य ऊष्मा तत्परस्पर्शश्च यमाश्च पराङ्गत्वं प्राप्नुवन्त्यीत्यर्थः । यथा । वटथ्स्वयम् । वषट्थ्स्वाहा । ऊष्मणापराङ्गत्वेन किम् । दङ्क्ष्णवः पशवः । इत्यादौ उच्चारणविरोधस्यात् । यज्ञस्य घोषत् । अग्नेयशस्विन् । ननु ऋतूंर्ऋतुपते । अयन्ते योनिरृत्वियः । तन्नैरृतम् । इत्यादौ उच्चारणविरोधस्यात् तथा हि ऋतूंरृतु पत इत्यत्र न कारस्थानाभिषिक्तस्य रेफस्य ऋकारागमत्वेन स्वरितत्वं स्यात्तथा अयन्ते योनिरृत्विय इत्यत्र विसर्जनीयस्थानाभिषिक्तरेफस्यापि पराङ्गत्वेनानुदात्तं स्यात्तथा तन्नैरृतमित्यत्रापि तथैव स्यादिति चेन्न ऋतूंरृतु पत इत्यादौ सर्वत्र संयोगादीति सूत्रेण पूर्वाङ्गत्वात् तथा हि ऋतूंरृतु पत इत्यत्र रेफस्य ऊकाराङ्गत्वेन उदात्तत्वं अयन्ते योनिरृत्वियः । तन्नैरृतमित्यत्र च रेफस्य स्वरितत्वमिति न विरोधः अत एव । ए च स्वारात् परो रेफो ह्रस्वस्वारात्परस्तथा । उच्चाच्च ऋपरो रेफस्वरितस्वरितोच्चका इति शीक्षा वचनं च न रेफस्य सर्वत्र ऋकारपरत्वात्संयोगादित्वं कथमिति वाच्यम् । रेफोत्तर ऋकारस्य व्यञ्जनत्वं प्रकीर्तितम् । तस्मात्संयुक्तकार्याणि कर्तव्यानि विचक्षणैरिति वचनेन रेफोत्तर ऋकारस्य व्यञ्जनत्वबोधनात् अत एव । अन्त्यांशे स्वर्यते दीर्घो विरामे व्यञ्जनेन च । संयोगे चावसानस्थो यथा तन्नैरृतादिकमिति संयोगे परे सति तन्नैरृतमित्यादौ अन्तरस्वरित विधानं युज्यते अस्यार्थः अवसानस्थः पदान्तस्थः दीर्घः विरामे अवसानकाले अन्त्यांशे स्वर्यते व्यञ्जनेन च व्यञ्जनेन सहावसानस्थोऽपि अन्त्यांशे स्वर्यते संयोगे परे अपदान्तोऽपि अन्त्यांशे स्वर्यत इत्यर्थः अपदान्तोऽपि चकाराल्लभ्यते लक्ष्यप्रदर्शनं करोति । यथा । तन्नैरृतादिकमिति । प्रतिक्ष्यन्तं भुवनानि विश्वा । प्रत्यौ हतामश्विना । सुवर्गेयाय शक्त्यै । विहोत्राः । पथ्ये वसूराः । संयोगपरे यथा । कृष्णो स्याखरेष्ठः । सुवर्धामाजोस्येकपादहिः । तन्नैरृतम् । ऋषेरृषेर्वै । उभयोल्लोकयोरृध्वा । पूष्णो हस्ताभ्याम् । तण्डूर्वयमित्यादि । अत्रापदान्ते त्वेष संयोगपरत्वादन्त्यांशे स्वरितत्वं विज्ञेयम् । दीर्घ इति किम् । तत्वायामि । सविताधियः । देवोवः । विराम इति किम् । विहोत्रादधे । सघासि जगती छन्दाः । शृण्वन्ति विश्वे अमृतस्य संयोगा चेति किम् । कृष्णोसि । सुवर्धमाजोसि । अत्र । अपान्त्वेमन् सादयामि । ऋतस्य सामन् सरमित्यादौ संयोगे परे ह्रस्वस्यापि अन्त्यं स्वारो दृश्यते । धियादिवम् । वायव्यम् । इत्यादौ पदकाले ह्रस्वस्याप्यन्त्यस्वारो दृश्यते तथा चाव्याप्तिः इति यद्यपि तथा विनाशिरस्कस्य
ह्रस्वस्याप्यन्त्यस्वारस्संभवतीति चकारार्थ इति मन्तव्यं ननु तर्हि ऋतस्य सामन् सरम् । अपान्त्वे मन्नित्यत्र पदकाले अन्त्यस्वरितस्य श्रवणाभावात् कथमिति चेत् सत्यम् । विरामः पञ्चमानां तु नादसंज्ञा प्रकीर्तिता । नादानुस्वारयोः पूर्वस्वारस्वरितभाक्स्थितः । नह्याक्षेपस्वरे तत्र नादानुस्वार एव सः । इत्यादि वचनैः नादानुस्वारयोः स्वरितग्राहित्वविधानात् अत एव । अनीचाद्रेफ उच्चः स्यात् ऋकारे परतस्थिते । सन्ध्यक्षरात्तु स्वरितात्स्वरितः पूर्व उच्चवदित्यनेन च तन्नैरृतमित्यादौ अन्त्यस्वरितस्य उदात्तश्रवणं विधीयते अस्यार्थः ऋकारे परे सति अनीचादुदात्तात्परो रेफ उदात्तः स्यात् ऋतूंरृतु पत इत्यादावित्यर्थः सन्ध्यक्षरात्स्वरितात् ए च स्वारादित्यर्थः परो रेफस्वरितो भवति पूर्व उच्चवत्पूर्वस्वरित उदात्तवत् भवति उदात्तवच्छ्रवणं भवतीत्यर्थः । यथा । तन्नैरृतम् । ऋषेरृषेः । उभयोर्ल्लोकयोरृध्वा । तथा च पदकाले अपान्त्वेमन् । ऋतस्य सामन् इत्यादौ । संहितायाम् । तन्नैरृतम् । ऋषेरृषेर्वै । उभयोर्ल्लोकयोरृध्वा । इत्यादौ च अन्त्यस्वरितविधानेऽपि रेफनादयोः स्वरितग्राहित्वात् उदात्तश्रवणमेवेति संप्रदायः । न च संहितायां न कारस्य स्वरितग्राहित्वं कुतो न स्यादिति शंकनीयम् । तस्य संहितायां विरामार्थत्वाभावेन नादत्वाभावात्स्वर-भक्तेर्विशेषतः ५३
अङ्गनिर्णयमाह--
स्वाराद्ध्रस्वात्परां भक्तिं प्रचयत्वं नयेत् बुधः ।
स्वारे दीर्घे तु नान्त्याया स्वतन्त्रा धूर्षदं भवेत् ।
ह्रस्वस्वारात्परां स्वरभक्तिं प्रचयत्वं नयेत् स्वरभक्तेः पूर्वाङ्गत्वविधानेऽपि अत्र पराङ्गत्वमिति विशेषो मन्तव्यः स्वारे दीर्घे तु स्वरिते दीर्घे सति अन्त्यायास्वरभक्तिः दीर्घस्वरितात्परेति यावत्सा प्रचयत्वं नाप्नुयात्किं तु पूर्वाङ्गत्वमेव प्राप्नुयादित्यर्थः । यथा । यद्दर्शपूर्णमासौ । अत्र पराङ्गत्वम् । दोषावस्तोर्हविष्मती । अत्र पूर्वाङ्गत्वम् । धूर्षदमित्यत्र स्वरभक्तिस्तु स्वतन्त्रा भवेत् पूर्वाङ्गत्वमपि नास्ति पराङ्गत्वमपि नास्तीत्यर्थः । यथा । ऋतस्य धूर्षदम् ५४
द्विरोष्ठ्यलक्षणमाह--
वर्णद्वये विरामे वा स्वरयोर्मध्य ओष्ठ्ययोः ।
पूर्ववर्णप्रयत्नेन न वदेदुत्तरं बुधः ।
औकारे परभूते च वकारे चान्तरे स्थिते ॥
ओष्ठ्यस्वरयोर्मध्ये वर्णद्वये विरामे वा सति पूर्ववर्णप्रयत्नेन उत्तरं वर्णं न वदेत्प्रयत्नान्तरं कर्तव्यमित्यर्थः औकारे परभूते सति वकारे अन्तरे मध्ये स्थिते वा सति पूर्वोक्तनियमाभावेऽपि पुनः प्रयत्नः कर्तव्यः । यथा । अनुष्टं प्लु-रदी । नमो दुन्दुभ्या । विरामे यथा । अनुष्टं बित्यनुस्तुप् । विदुषोनु । नु यज्ञम् । सुहोतेति सुहोता । सूद्गातेति सु । उद्गाता । इत्यादि । औकारे परे यथा । मेदसा स्रुचौ । वकारे चान्तरे स्थिते । यथा । बाहुवोर्बलम् । इत्यादि ५५
पदान्तमकारस्य पवर्गे परे पुनः प्रयत्नः कर्तव्य इत्याह --
मकारान्तं पदं पूर्वं पवर्गपरकं यदि ।
पूर्ववर्णप्रयत्नेन न वदेदुत्तरं बुधः ॥
स्पष्टम् । क्षत्रायराजन्यम् । मरुद्भ्यो वैश्यम् । नारकायवीरहणम् । पाप्मने क्लीबम् । इत्यादि ५६
ओम्कारस्य पवर्गे परे पुनः प्रयत्नोनास्तीत्याह--
ओमः पवर्गसंयोगे प्रयत्नो नेष्यते पृथक् ॥
स्पष्टम् । यथा । ओम्पूर्णा पश्चात् ५७
अत्र पदविरामत्वेन द्विमात्राकाले प्रसक्ते एकमात्राकाल एवेत्याह--
विरामे मात्रिकस्तत्र ततोऽन्यत्र द्विमात्रिकः ॥ स्पष्टम्
मण्डूकोष्ठ्यलक्षणमाह--
ओष्ठ्ययोः स्वरयोर्मध्ये हकारो यत्र दृश्यते
तालुभ्यां पूर्यते वायुस्समण्डूक इति स्मृतः । स्पष्टम् ॥
यथा । जुहुयाच्छान्तिः । यज्जुहुयात् । जुहोति यजमानम् ५८
नित्योऽभिनिहितः क्षैप्रप्रश्लिष्टस्वारा उदात्ते स्वरिते वा परे सति कम्प्यन्त इत्याह--
नित्योऽभिनिहतश्चैव क्षैप्रः प्रश्लिष्ट एव च ।
एते स्वाराः प्रकम्प्यन्ते यत्रोच्चस्वरितोदये ॥ स्पष्टोऽर्थः ५९
कम्पलक्षणमाह --
स्वरिते परभूते च स्वरितस्योत्तरार्धकम् ।
नीचं कुर्यात्स कम्पः स्यात् यथा दीर्घं समुच्चरेत् ॥
स्वरिते परभूते सति उदात्तपरेऽपीति चकारार्थः स्वरितस्य पूर्वोक्तस्वरितस्येत्यर्थः उत्तरार्धं नीचं कुर्यात्स एव कम्पस्यादित्यर्थः स्वरिते परे सति स्वारकम्पः उदात्तपरे उदात्तकम्प इत्यर्थः । यथा । सो३॒॑ उपो३॒॑ उभ्यम्व्रियत । ते३॒॑ उन्योन्यस्मै । उच्चकम्पो यथा । ते१॒॑ स्मद्यक्ष्ममनागसः । तेनयो१॒॑स्मत्समृच्छातै ६०
पुनरपि कम्पस्वरूपपूर्वकं विषयव्यवस्थामाह--
मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत्
स्वारकम्पस्संहितायामुच्चकम्पस्तु काठके ॥
कम्पमध्ये प्रदेशे कम्पयेत् उभौ पार्श्वौ समौ भवेदिति एवं प्रयोक्तव्य इत्यर्थः संहितायां स्वारकंपः उच्चकंपस्तु अरुणकाठक इति मन्तव्यं उक्तमेवोदाहरणं ननु यथा दीर्घं समुच्चरेदिति कम्पस्य द्विमात्राकालो विहितः उच्चारणकाले तु मात्राधिक्यं दृश्यते तत्कथं युञ्ज्यत इत्यत आह ६१
स्वराः प्लुताश्च कम्पाश्च ये यत्कालाः प्रकीर्त्तिताः
प्रोच्यमानास्तु वर्धन्ते क्षिप्रवक्त्रपि वक्तरि ॥
स्वरितप्लुतानां कालाः उच्चावितृपुरुषे द्रुतवर्त्तिमाश्रिते पि उच्चारणवेळायां स्वकालात्वर्धते स्वाराः पूर्वोक्तकम्पविषयस्वारा इत्यर्थः उदाभरणमुक्तमेव ६२
नासिक्यानीत्याह केचिदनित्याः केचिदित्याह--
नित्या भवन्ति नासिक्या अनुस्वारोत्तमा यमाः ।
अन्तस्थाश्च हकारश्च स्वराश्चैव निमित्ततः ॥
अन्तस्था परश्च सवर्णमनुनासिकमित्यन्तस्थायाः उत्तमेषु परेष्वेवन्नासिक्यत्वमिहाधिकमिति हकारस्य प्लुतोवर्णः पदान्तस्थो नासिक्यो रङ्गसंज्ञक इति स्वराणां च सानुनासिकत्वविधानात् अन्तस्था हकारस्वराणां निमित्ततस्सानुनासिकमित्यर्थः ६३
केषां चिद्वर्णानामुच्चारणे सत्यपि श्रुतिं नास्तीत्याह--
परस्परश्च संयोगस्पर्शानां यत्र दृश्यते
तत्राद्यस्य श्रुतिर्नास्ति विरामे व्यञ्जनस्य च ॥
स्पर्शानां सवर्गीयस्पर्शानामित्यर्थः परस्परमन्योन्यं योगो यत्र दृश्यते तत्राद्यवर्णस्य श्रुतिः श्रवणं नास्ति विरामे विद्यमानव्यञ्जनस्य च श्रवणं नास्तीत्यर्थः । यथा । अगाद्धिषणा । मधुमत्तमा मन्द्राः । वाग्घोता । त्रिषु ग्रैष्मी । तस्मात्संवत्सरम् । विरामे यथा । पृथिव्या अद्ध्याहरत् । सविताधियः । सविता प्रसुवातितान् । सवर्गीयस्पर्शानामिति किम् । सोमेन त्वातनच्मि । वार्त्रघ्नी रूपम् । अर्यम्णे चरुम् । इत्यादि ६४
यस्तु जटां विना विलासार्थमनुलोमादिकं वदति सनरकं प्राप्नोतीत्याह--
जटां हित्वा विचित्रार्थमनुलोमादिकं वदन् ।
स वै नरकमायाति स्वरवर्णविलोपकृत् ॥
अनुलोमादिकमारोहावरोहादिकं आदिशब्देन एकवचनोभयवचनक्रम यथादिकमुच्यत इत्यर्थः । अन्यत्स्पष्टम् ६५
पुनरपि दोषमाह--
जटावर्णक्रमाभ्यां ये विना वेदविदो जनाः ।
अनुलोमादिकं कुर्वन्ति तान्जनान्वेदवित् भृष्टानाहुः वेदविदो जनाः ॥
व्याघ्री यथा हरेत्पुत्रं दंष्ट्राभ्यां न च पीडयेत् ।
भीतापतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥
व्याघ्री यथा पुत्रं दंष्ट्राभ्यां पीडयन्ति सति पुत्रपतनभेदाभ्यां भीतासतीगुहात् गुहान्तरं प्रतिहरेत् तद्वद्वर्णान् प्रयोजयेदित्याह ॥ स्पष्टम् ॥
वेदपरीक्षा न कर्त्तव्येत्याह--
परीक्षकः परीक्ष्यश्च श्रोतारश्च सभासदः
सर्वे ते नरकं यान्ति यावदिन्द्राश्चतुर्दश ॥ स्पष्टम् ६६
ओम् उदात्तादिस्वराणामुत्पत्तौ कारणान्याह--
यदेतद्देहदीर्घत्वमङ्गानां दृढता च या ।
कण्ठाकाशस्य कृशता निमित्तान्युच्चजन्मनि ॥
उच्चारयितृपुरुषदेहे यद्दीर्घत्वमंगानां या दृढता कण्ठाकाशस्य गळविवरणस्य या कृशता एते उदात्तोत्पत्तौ हेतव इत्यर्थः । यथा । आप्यायद्ध्वम् ६७
ह्रस्वत्वं यस्य देहस्य त्वङ्गानां मृदुता च या । कण्ठकाशमहत्वञ्च नीचजन्मनिहेतवः ॥
उच्चारयितृ पुरुषदेहस्य यच्च ह्रस्वत्वं अङ्गानां या च मृदुता कण्ठाकाशे यन्महत्वं एते नीच जन्मनिहेतवः । यथा । इषे त्वा ६८
कारणं स्वरितोत्पत्तौ समाहारोऽनयोर्भवेत् ।
अनयोरुदात्तानुदात्तकारणयोस्समाहारो मेळनं स्वरितोत्पत्तौ कारणं भवेदित्यर्थः । यथा । ते ब्रुवन् ॥
उदात्तश्रुतिरेवेति प्रचयस्य प्रसिद्धता ॥
प्रचयस्य उदात्तश्रुतिरेवेति प्रसिद्धता अयमाशयः उदात्ते यानि कारणानि तान्येव प्रचयस्येत्यर्थः ६९
उदात्तानुदात्तौ प्राकृतौ स्वरौ स्वरितप्रचयौ तु अनुदात्तविकारावित्याह--
उच्चात्परोऽनुदात्तो यः स्वरितत्वमवाप्नुयात् ॥
परानुदात्ताश्च प्रचयत्वमवाप्नुयुः उदात्तात्परोऽनुदात्तस्वरितत्वमवाप्नुयात्स्वरितात्परानुदात्तास्तु प्रचयत्वमवाप्नुयुः । उच्चात्परोऽनुदात्त इत्ययं विधिः । तैरोव्यञ्जनप्रातिहतपादवृत्तानां त्रयाणां सामान्य इति विज्ञेयम् । यथा । इषे त्वा । वायवस्थ । स इधानः । प्रचयस्य यथा । आप्यायद्ध्वमघ्निया देवभागम् ॥
तैरोव्यञ्जननामायमुच्चपूर्वः प्रकीर्तितः ॥
पदकाले उदात्तपूर्वो यः स्वरितः अयं तैरोव्यञ्जननामा प्रकीर्तितः तथा च व्यक्तिर्वृतिरुक्तस्थले पदकाले उदात्तपूर्वत्वे सति स्वरितत्वं तैरोव्यञ्जनस्य लक्षणम् ७०
तैरोव्यञ्जनस्वरितं च वक्ष्यमाणपादवृत्तस्वरितं चाल्पतरं वदेदित्याह--
अमुं च पादवृत्तं च वदेदल्पतरं बुधः ॥
स्पष्टम् । यथा । वायवस्थ ॥
पादवृत्तस्वरिते लक्षणमाह--
विवृत्यां पदयोर्यश्च पादवृत्तः प्रकीर्तितः ॥
पदयोर्विवृत्यां यः स्वर्यते सस्वरितः पादवृत्त इति प्रकीर्तितः । यथा । स इधानः । पदयोर्व्यक्तिमध्यस्थत्वे सति स्वरितत्वं पादवृत्तविशेषलक्षणमिति मन्तव्यं पादवृत्तसामान्यलक्षणं तु व्यक्तिमध्यस्थत्वे स्वरितत्वमिति मन्तव्यम् ७१
प्रातिहतस्वरितमाह--
स प्रातिहतनामस्यात्स्वर्यते यस्तु सांहिते ॥
संहितायां यः अनुदात्त उदात्तपूर्वः स्वर्यते स प्रातिहतनामा भवतीत्यर्थः व्यक्तिव्यतिरुक्तस्थले संहितायामुदात्तपूर्वत्वे सति स्वरितत्वं प्रातिहतस्य लक्षणमिति पर्यवसन्नं सस्वारः मृदुतरो भवतीत्याह--
अत्यन्तं मार्दवं तत्र कार्यं स्वरविचक्षणैः ॥
यथा । इषे त्वा । पादवृत्तप्रातिहतौ तैरोव्यञ्जनस्य बाधका इत्याह ७२
पादवृत्तहतौ स्यातां तैरोव्यञ्जनबाधकौ ॥
यथा । वस्व्यसि । प्रउगम् ॥
उच्चात्परोऽनुदात्त इत्यादि नाविहितस्वरितस्य प्रचयस्य च निषेधमाह--
स्वरितोदात्तयोर्यत्र परत्र स्थितयोस्सतोः ।
स्वरितो न भवेत्तत्र प्रचयश्च निवर्तते ॥
यत्र स्वरितोदात्तयोः परभूतयोस्सतोः तत्र स्वरितोऽपि प्रचयोऽपि निवर्तते । यथा । इषे त्वोर्जे । प्रार्पयतु श्रेष्ठतमाय कर्मणे ७३
अभिनिहतस्वरं वक्तु कामः प्रतिज्ञां करोति ॥
एदोद्भ्यां यत्र लुप्तश्चेदकारस्तत्स्वरादिह । स्वरान्तरं विधिं वक्ष्ये पूर्ववर्णस्य विस्तरात् ॥
एकारौकाराभ्यां परः अकारो यत्र लुप्तश्चेत्तत्स्वरात्तयोरेकारौकारयोस्वरात्स्वरान्तरविधिं पूर्ववर्णस्य एकारस्य ओकारस्य च वक्ष्ये इत्यर्थः । प्रतिज्ञातमाह ७४
लुप्तोऽकारोऽनुदात्तश्चेत्पूर्वोच्च स्वरितो भवेत् ।
एषोऽभिनिहतो ज्ञेयो वदेद्दृढतरं बुधः ॥
एकारौकाराभ्यां परः लुप्तोकारोनुदात्तश्चेत्तत्पूर्व एकारौकारो वा उदात्तस्वरितो भवति एष स्वरितः अभिनिहतो विज्ञेयः अमुं स्वरितं दृढतरं वदेत् । यथा । ते ब्रुवन् । सोऽब्रवीत् ७५
क्षैप्रस्वरितमाह--
इवर्णोकारयोः स्थाने यवत्वे सत्युदात्तयोः । ताभ्यां परं हि यन्नीचं स्वरितस्तस्य वै भवेत् ।
नाम्नायां क्षैप्र एव स्यादमुं दृढतरं वदेत् ॥
इवर्णोकारयोरुदात्तयोर्यवकारभावे सति ताभ्यां यकारवकाराभ्यां परं यन्नीचं तस्य सवरितत्वं भवेत्सः क्षैप्रनामा भवति अमुं स्वरितं दृढतरं वदेदित्यर्थः । यथा । न ह्यासामिषम् । दिक्ष्वेव प्रतितिष्ठति ७६
प्रश्लिष्टस्वरितमाह--
उकारादुच्चकां नीच उकारे चोपरिस्थिते ।
ऊकारः क्रियमाणोऽत्र स्वरितस्सन्धितो भवेत् ।
प्रश्लिष्टो व्यपदिष्टोऽयं वदेन्मृदुतरं बुधः ॥
उदात्तादुकारादनुदात्ते उकारे परे सति सन्धितः क्रियमाणः ऊकारस्वरितो भवेत् अयं स्वरितः प्रश्लिष्ट इति व्यपदिष्टः अमुं स्वरितं मृदुतरं वदेत् । यथा । सून्नीयमिव । दिक्षूपदधाति ७७,७८
नित्यस्वरितमाह--
स यवं स्वर्यते यत्र पदस्थं नीचपूर्वकम् ।
अपूर्वं वासनित्यः स्याद्वदेद्दृढतरं बुधः ॥
यकारेण वकारेण वासहितं पदस्थं पदकालस्थं अनुदात्तपूर्वकं अपूर्वं वाक्षरं यत्र स्वर्यते सस्वरितः नित्यः स्यात् अमुं स्वरितं दृढतरं वदेदित्यर्थः । यथा । द्यावापृथिव्यां धेनुम् । वायव्यम् । अथ क्वतानूनप्त्रम् ७८
उक्तलक्षणशून्यः संहितायामुच्चात्परोऽनुदात्त इत्यनेन समानपदविवृत्तौ यः स्वर्यते सस्वरितः पाद वृत्तसामान्यलक्षणलक्षित्वात्पादवृत्तस्वरित एवेत्याह--
उक्तलक्षणशून्यो यः स्वर्यते कुत्रचिद्यदि । अल्पवायुर्भवेत्सोऽपि पादवृत्त इतीरितः ॥
पूर्वोक्तलक्षणशून्यस्समानपदविवृत्तौ यः स्वर्यते सः व्यक्तिमध्यस्थत्वे सति स्वरितत्वं पादवृत्तसामान्यलक्षणलक्षितत्वात्पदवृत्त एवेत्यर्थः अत एवाल्पवायुत्वमित्यभिप्रायः । यथा । प्रउगमुक्थ्यम् । ७९
स्वारानुदात्तयोर्योगे स्वरितं तस्य वै भवेत् ॥
स्वरितानुदात्तयोस्सन्निपाते एकादेशापन्ने सतीत्यर्थः तस्य एकादेशापन्नस्य स्वरितधर्मो भवेत् । यथा । कन्येवतुन्ना । नित्यस्वरितसन्निपाते विहितत्वादयन्नित्यमेव । पत्येवजाया । अयन्तु तैरोव्यञ्जन इति विज्ञेयम् । वस्व्यसि । इत्यादिस्थले उदात्तात्परोऽनुदात्त इत्यनेनैव स्वरितत्वमिति मन्तव्यम् ॥
उपसर्गानाह--
प्रापावान्वभिपर्युत्सुव्यतिन्यध्यप्युपप्रति ।
निस्संपरोपसर्गाः स्युस्सप्तात्र द्वादशाः स्मृताः ॥
प्र । अप । अव । अनु । अभि । परि । उत् । सु । वि । अति । नि । अधि । अपि । उप । प्रति । निः । सं । परा । आ । एते एकोनविंशत्युप अत्र स्मृताः अनु प्रातिशाख्ये दश । उपसर्गा उक्ताः अत्र कथं एकोनविंशत्युपसर्गा उक्ताः । विरोधादिति चेत्सत्यं अत्र इति परत्वतात्पर्यकत्वेन उक्ता इति नविरोधः ८०
उपसर्गनिषेधमाह--
नोपसर्गोऽवसानस्थो नीचः पूर्वस्तथा द्वयोः ।
त्रिषु मध्ये स्थितश्चैव ह्यवानोऽवग्रहस्तथा ॥
अवसानस्थः अवसाने विद्यमानः नीचः सर्वानुदात्तः तथा द्वयोरुपसर्गयोः पूर्वः त्रिषु उपसर्गेषु मध्ये अवग्रहविद्यमानश्च अवान इत्यत्र विद्यमानश्च अवग्रहभूतश्च एते उपसर्गान् भवन्ति
एतेषामुपसर्गाणामिति परत्वन्नास्तीत्यर्थः । यथा । देव आमर्त्येष्वा । चतुष्पादवदिवो वृष्टिमेरय । सुवरभिविखेषम् । अनुसंप्रयाताग्ने पथः । अवानोदेव्या कृपा । विच्छन्दास्सूचीभिः । आच्छेत्ताते ८१
त्रिक्रमलक्षणमाह--
आकारान्तमुदात्तान्तमाङ्परं यत्र दृश्यते ।
त्रिक्रमं तं विजानीयान्मोषूण ऊषुणस्तथा ॥
यत्र आकारान्तत्वमुदात्तान्तत्वमाङ्परत्वञ्च दृश्यते तं शब्दं त्रिक्रमं विजानीयात् । मोषूणः । ऊषुणः । इत्यनयोरुक्तलक्षणाभावेऽपि त्रिक्रमं विजानीयादित्यर्थः लक्ष्यप्रदर्शनं करोति ८२
मास्थान्महित्वनानाकं प्रियधाविशतेति च । मोषूणश्चार्यमायाति पूषाधाताप्यधत्त च । दक्षिणा वर्ततोत्याप्रर्चासादयतीति च । भूत्वा हरच्चमावृक्षिभूताविशविशत्यपि । कृत्वा हरति धत्ते च लभते चोषुणस्तथा । दध्नातनक्तिचोद्गाता रोहतीति च विंशतिः ॥
यथा । मास्थादिन्द्रस्य । महित्वनानाकन्तस्थुः । प्रियधा विशत । मोषूण इन्द्र । अर्यमा याति वृषभः । तं पूषा धत्ततेन । तन्धाता धत्ततेन । दक्षिणावर्त्तत तस्म । ऊत्याप्रयातु । ऋचासादयति । भूत्वाहात् । मावृक्षि । भूताविश । भूताविशति । कृत्वा हरति । कृत्वा धत्ते । कृत्वा लभते । ऊर्ध्व ऊषुणः । दध्नातनक्ति । उद्गातारोहति । एते त्रिक्रमा विंशतिः ८३
नासाभ्यान्नोत्सृजेद्वायुमत्यन्तं हमसंगमे
नवदेदुरसात्यं तमन्तस्थाभिश्च संगमे ॥
हकारमकारसंगमे नासाभ्यामत्यन्तं वायुन्नोत्सृजेत् हकारस्य अन्तस्थाभिस्संगमे उरसा अत्यन्तं न वदेत् अपि तु मृदुवदेदित्याह । यथा । ब्रह्मवादिनो वदन्ति । बह्वीर्यजमानस्य ८४
समाप्तावनुवाकस्य मात्राणां पञ्चकं स्मृतम् ।
अष्टौ दशेति विज्ञेयाः प्रश्ने काण्डे यथाक्रमम् ॥
अनुवाकस्य समाप्तौ सत्यां मात्राणां पञ्चकं स्मृतं प्रश्ने समाप्ते तु अष्टौ मात्रा विहिताः काण्डसमाप्ते तु दशमात्रा विहिता विज्ञेया इत्याह ८५
वेदस्योपक्रमे विद्वानवसानेऽप्यतन्द्रितः । उच्चरेत्प्रणवं ब्रह्मरक्षायै छन्दसां स्फुटम् ॥
वेदाध्ययनोपक्रमे समाप्तौ च छन्दसां रक्षायै अवश्यं प्रणवं ब्रह्मस्फुटं वक्तव्यमित्याह--
स्फुटं व्यक्तमिति यथा मात्राकालं वक्तव्यमित्यर्थः । अन्यत्स्फुटम् ८६
प्रणवस्यानुच्चारणे दोषमाह--
आदावनुक्ते स्रवति परस्ताच्च विशीर्यते ।
स्पष्टम् ॥
यजुश्शाखायां प्रणव उदात्तस्यात् ॥ यजुःप्रणव उच्चः स्यात् स्वराः स्युस्त्वोन्तदादिषट् । स्पष्टम् ८७
ओं॑ तत् ब्रह्मेत्यादौ विद्यमान प्रणवषट्कस्य यजुश्शाखायां विद्यमानत्वेऽपि स्वरितत्वमित्याह--
प्रारम्भकश्चतुर्मात्रो वेदस्थः स्यात्तदर्धकः ।
अध्यायान्त्योऽनुवाकान्त्यो मन्वादौ च त्रिमात्रिकः ॥
प्रारंभकः प्रणवः चतुर्मात्रः वेदे विद्यमानप्रणवः द्विमात्रः अद्ध्यायान्ते विद्यमानः अनुवाकान्ते विद्यमानः गायत्र्यादिषु मन्त्रेषु विद्यमानश्च प्रणवः त्रिमात्रिक इत्याह ८८
स्वरन्यासलक्षणमाह--
गोकर्णाकृतिहस्ते तु निर्दिशेद्दक्षिणे स्वरम् ।
निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयन् ॥
दक्षिणे गोकर्णाकृतिहस्ते हस्ताग्रे दृष्टिं निवेश्य प्रातिशाख्यादिशास्त्रार्थं अनुचिन्तयन्नङ्गुष्ठेन स्वरं निर्दिशेत् ८९
पुरुषो हि वृजेन्नारीं न नारी पुरुषं वृजेत् ।
यथाङ्गुलीषु सर्वासु नयेदङ्गुष्ठमेव तु ॥
सर्वासु अङ्गुलीषु अङ्गुष्ठमेव नयेत् ।
पुरुषो हीति दृष्टान्तः ९०
शिरःकम्पं विहायैव स्वरन्यासो विधीयते ।
स्पष्टम् । किञ्च ॥
कनिष्ठानामिकामध्यातर्जनीमध्यपर्वसु ।
नीचस्वारधृतोदात्तानङ्गुष्ठाग्रेण निर्दिशेत् ॥
कनिष्ठानामिकामध्या तर्जन्यङ्गुलीनाम्मध्यपर्वस्वेव अनु-दात्तस्वरितप्रचयोदात्तान्क्रमेण अङ्गुष्ठाग्रेण विनिर्दिशेत् ९१
पक्षान्तरमाह--
तर्जन्यादिकनिष्ठादि तथैवानामिकान्त्यकम् ।
मध्यमाङ्गुली मध्यं स्यात्स्वरस्थानं विधीयते ॥
तर्जन्याः आदिमं पर्व उदात्तस्य स्थानं कनिष्ठायाः आदिमं पर्वः अनुदात्तस्थानं अनामिकायाः अन्तिकं पर्वस्वरितस्थानं मध्यमाङ्गुल्यां मध्यपर्व च प्रचयस्थानमिति विधीयत इत्यर्थः ९२
स्वरन्यासफलमाह--
हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् ।
ऋग्यजुस्सामभिः पूतो ब्रह्मलोके महीयते ॥
स्पष्टम् ९३
स्वरन्यासाभावे दोषमाह--
हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितः ।
ऋग्यजुस्सामभिर्दग्धो वियोनिमधिगच्छति ॥
स्पष्टम् ९४
स्वरवर्णव्यत्यासे सति दृष्टानिष्टं भवत्येवेत्याह--
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥
स्वरतो वर्णतो वा हीनः अत एव मिथ्या प्रयुक्तो मन्त्रः तदर्थम्मन्त्रार्थं नाह प्रत्युतसः मन्त्रः वाग्वज्रो भूत्वा यजमानमेव हिनस्ति तत्र दृष्टान्तरमाह यथेन्द्रशत्रुस्वरतोपराधादिति ९५
विधिमध्यस्थनासिक्यः विधिं प्रतिविरोधीन भवेत् तस्मात्तत्कार्याणि सर्वे कुर्वन्ति कुतः वर्णधर्मत्वादित्याह--
विधिमध्यस्थनासिक्यो न विरोधो भवेत्स्मृतः ।
तस्मात्कार्याणि कुर्वन्ति वर्णानां धर्म एव हि ॥
स्पष्टम् ९६
पदादौ पदमध्ये वा स्थितस्य ऊष्मपरस्य प्रथमस्य तत्र पूर्वं पूर्वं प्रथममित्यनेन प्रथमद्वित्वे प्राप्तेऽपि द्वितीयत्वमेव पूर्वं आर्वीतेत्याह--
पदादौ पदमध्ये वा स्थितस्य ऊष्मपरस्य वै
प्रथमस्य द्वितीयत्वं पूर्वं कुर्वीत पण्डितः ॥
स्पष्टम् ९७
अनुस्वारस्य मात्रा निर्णयमाह--
मात्रायाः परतो भवेद्विगुणितः स्रादिष्वनुस्वारकः ।
अस्रादौ मात्रिक एव चेदुभयतो दीर्घात्परो मात्रिकः ॥
संयोगे च तथैव सर्वविषये दीर्घाच्च ह्रस्वात् द्वित्वं गच्छति मात्रिकामतमिदं शास्त्रेतरन्नैव हि ॥
स्रादिषु विद्यमानोऽनुस्वारः मात्रायाः परश्चेद्द्विमात्रिको भवति अस्रादौ अनुस्वारश्चेदेकमात्रात्परत्वेऽपि मात्रिक एव भवति उभयतस्रादावस्रादौ च अनुस्वारो दीर्घात्परो मात्रिक एव भवति संयोगे परे सति सर्वविषये स्राद्यस्यादि विषये चानुस्वारो दीर्घाच्च ह्रस्वात्परोऽपि मात्रिक एव भवति द्वित्वं गच्छति संयोगे परे सति ह्रस्वात्परोऽनुस्वार इत्यर्थः इदमेव मात्रिकामतं इतरच्छास्त्रं प्रमाणं न भवतीत्यर्थः । उदाहरणमुक्तमेव ९८
यमनिषेधमाह--
वर्गान्तं शषसैर्युक्तं अन्तस्थाभिश्च संयुतम् ।
दृष्ट्वा यमा निवर्तन्ते सिंहन्दृष्ट्वा यथा गजा ॥
शषसैर्युक्तमन्तस्थाभिश्च संयुतं वर्गान्तं वर्णं दृष्ट्वा यमा निवर्तन्ते दृष्टान्तमाह सिंहं दृष्ट्वा यथा गजेति । यथा । विष्ण्वनुस्थितः । ९९
अभिधानाख्यवर्णस्य प्रथमस्य परे यदि ।
मुख्यप्रथमसद्भावे द्वित्वं न स्यात्सदोष्मणः ॥
प्रथमपरश्च प्लाक्षिप्लाक्षायणयोरित्यत्र प्रथमपदं प्राकृतप्रथमपरं यथा च प्राकृतवैकृतयोः प्राकृतस्यैव मुख्यत्वात्प्राकृतप्रथमपरत्वे ऊष्मणः द्वित्वं नास्ति न तु वैकृतप्रथमपरत्वे इत्याह ॥ स्पष्टम् १००
न रेफे च हकारे वा द्विर्भावो जायते क्वचित् ।
न च वर्गद्वितीये च न चतुर्थे कदाचन ॥
हकारे वेति वा शब्दस्य विकल्पार्थकत्वात् हकारस्य क्वचिद्वित्वमस्ति क्वचिन्नास्ति रेफे द्वितीय चतुर्थानां तु कदाचिदपि द्वित्वं नास्तीत्यर्थः । उक्तमेवोदाहरणम् १०१
जिह्वामूलमुपध्मानं नासिक्यं भक्तिरेव च ।
अवसानविसर्गौ च रङ्गो रेफस्तथैव च ।
नित्यं द्वित्वमियुर्नेति विदुर्वेदविदो जनाः ॥
जिह्वामूलीयादीनां कदाचिदपि द्वित्वं नास्तीत्यर्थः १०२
पदान्तस्य नकारस्य वकाराद्यपरे यदि ।
विशेषं तत्र जानीयात् द्वित्वमित्यभिधीयते ॥
पदान्तस्य नकारस्य वकारादृपरे यदि ।
विशेषं तत्र जानीयात् द्वित्वमित्यभिधीयते ॥
पदान्तनकारस्य वकाराद्यकारे ऋकारे वा परे सति नकारश्च पदानस्थ इति द्वित्वनिषेधो नास्तीति श्लोकद्वयस्याप्यर्थः । यथा । तान्व्यद्यत् । अहन्वृत्रं वृत्रतरं व्यंसम् १०४
ङनौ यत्र पदान्ते तु यवहैषु परेषु वै ।
द्वित्वन्नैवाभिगच्छेतां ङनौ व्यवृपरौ विना ॥
यवहैषु परेषु सत्सु ङकारनकारौ द्वित्वं नापद्येताम् । यथा । प्रत्यङ् होतारम् । अस्मिन् यज्ञे । एतान्वा अरुणः । एतान् होमान् । ङनौ व्यवृपरौ विना । ङकारस्य यकारे परे सति नकारस्य वृपूर्वत्वे सति द्वित्वमस्त्येवेत्यर्थः । यथा । अर्वाङ्यज्ञः । अहन्वृत्रं वृत्रतरं व्यंसम् १०५
लकारस्य वकारस्य संयोगे स्वरितो यदि ।
विशेषं तत्र जानीयाद्द्वित्वमित्यभिधीयते ॥
लकारवकारयोस्संयोगे स्वरितो यदि तत्र लकारो हशवकारपर इति द्वित्वनिषेधे सत्यपि विशेषतः द्वित्वं
जानीयादित्यर्थः । यथा । ततो बिल्व उदतिष्ठत् १०६
ङकारादपदान्ताद्वै तधयोः परभूतयोः ।
यथाक्रमं कगौ स्यातामागमाविति निर्णयः ॥
अपदान्तात् ङकारात् तधयोः परभूतयोस्सतोः यथा क्रमं कगावागमौ स्यातां तकारपरे ककारः धकारपरे गकार इत्यर्थः । यथा । युङ्क्ते युञ्जानेषु । तान् ब्रूयाद्युङ्ग्ध्वमिति १०७
ये च स्वारात्परो रेफो ह्रस्वस्वारात्परस्तथा ।
उच्चाच्च ऋपरो रेफः स्वरितस्वरितोच्चकाः ॥
ए च स्वारात्परो रेफः स्वरितो भवति ह्रस्वस्वारात्परो रेफश्च स्वरितो भवति उच्चात्परो रेफस्तु उदात्तो भवति सर्वत्र रेफस्य पूर्वाङ्गत्वादित्यभिप्रायः ऋपर इति सर्वत्रान्वेति । यथा । तन्नैरृतम् । अयन्ते योनिरृत्वियः । ऋतूंरृतुपते १०८
रेफात्पर ऋकारस्य व्यञ्जनत्वं प्रकीर्तितम् ।
तस्मात्संयुक्तकार्याणि कर्तव्यानि विचक्षणैः ॥
रेफात्पर ऋकारस्य व्यञ्जकत्वं वेदविद्भिः प्रकीर्तितमित्यर्थः । यथा । तन्नैरृतम् १०९
अन्त्यांशे स्वर्यते दीर्घो विरामे व्यञ्जनेन च ।
संयोगे चावसानस्थो यथा तन्नैरृतादिकम् ॥
अवसानस्थः पदान्तस्थः दीर्घः विरामे अवसानकाले अंत्यांशे स्वर्यते व्यञ्जनेन च व्यञ्जनेन सहावसानस्थोऽपि अन्त्यांशे स्वर्यते संयोगे परे पदान्तोऽपि अन्त्यांशे स्वर्यत इत्यर्थः अपदान्तोऽपीति चकाराल्लभ्यते लक्ष्यप्रदर्शनं करोति । यथा । तन्नैरृतादिकमिति । यथा । प्रतिक्ष्यन्तं भुवनानि विश्वा । प्रत्यौ हतामश्विना । सुवर्गेयाय शक्त्यै । विहोत्राः । पथ्ये वसूराः । संयोगे परे । यथा । कृष्णोऽस्याखरेष्ठः । सुवर्धामाजोऽस्येकपात् । तन्नैरृतम् । ऋषेरृषेर्वै । उभयोर्ल्लोकयोरृध्वा । दोषावस्तोर्हविष्मती । वस्तोर्वृतं प्राक्तोर्भूतम् । पूष्णो हस्ताभ्याम् । तन्धूर्वयम् । अत्रापदान्तत्वेऽपि संयोगपरत्वादन्त्यांशे स्वरितत्वम् । दीर्घ इति किम् । तत्वाय । सविताधियः । देवोवः । विराम इति किम् । विहोत्रा दधे । सघासिजगती छन्दाः । शृण्वन्ति विश्वे अमृतस्य । संयोगे परभूतेति किम् । कृष्णोऽसि । सुवर्द्धामाजोऽसि ११०
विरामपञ्चमानां तु नादसंज्ञा प्रकीर्तिता । स्पष्टम्
नादानुस्वारयोः पूर्वस्वरस्वरितभाक्स्थितः ।
न ह्याक्षेपस्वरे तत्र नादानुस्वार एव सः ॥
नादानुस्वारयोः पूर्वस्वरस्वरितश्च्देत्सस्वरितः नाद्यानुस्वारयोरेव न तु पूर्वस्वरस्य तत्राक्षेपो न कर्त्तव्यः तयोस्वरितग्राहित्वात् अत्र मकारव्यतिरिक्तानादस्य स्वरितग्राहित्वं विज्ञेयं अन्यथा । वायव्यमित्यत्र पदकाले मकारस्य स्वरितग्राहित्वापत्तिः अनुस्वारयरलवानां स्वरितग्राहित्वमाह १११
स्वरितग्राह्यनुस्वारस्तथा यरलवा अपि ॥
स्पष्टम् । अत्र स्वरितग्राहित्वमनुस्वाररेफयोरेव यकारलकारवकाराणां तु शाखान्तरे दृष्टव्यं तत्रापि एचस्वारात्पररेफस्यैव स्वरितग्राहित्वं न त्वन्यस्य । अयन्ते योनिरित्यत्र रेफस्य स्वरितग्राहित्वाभावात् इति विज्ञेयम् । यथा । वायव्यं श्वेतम् । माम्माता पृथिवी हिंसीत् । ऋषेरृषेर्वै । तन्नैरृतम् । उभयोर्लोकयोरृध्वा ॥
दोषावस्तोर्हविष्मती । वस्तोर्वृतं प्राक्तोर्भूतम् । अत्र सर्वत्र एचस्वारस्यान्त्यस्वरितत्वेऽपि रेफस्य स्वरितग्राहित्वादुदात्तवच्छ्रवणं विज्ञेयमिति संप्रदायः ११२
अनीचाद्रेफ उच्चः स्यादृकारे परतस्थिते ।
सन्ध्यक्षरात्तु स्वरितात्स्वरितः पूर्व उच्चवत् ॥
अनीचादुदात्तात्परो रेफ उदात्तस्यात् । ऋतूंरृतुपत इत्यादावित्यर्थः सन्ध्यक्षरात्स्वरितात् एचस्वारादित्यर्थः परो रेफस्वरितो भवति रेफस्य पूर्वाङ्गत्वादित्यभिप्रायः पूर्व उच्चवत्पूर्वस्वरित उदात्तवत् भवति न तूदात्तो भवति किं तु उदात्त श्रवणमित्यभिप्रायः । यथा । तन्नैरृतम् । ऋषेरृषेर्वै । उभयोर्लोकयोरृध्वा । दोषावस्तोर्हविष्मती ११३
काण्डोऽग्निसंज्ञो विज्ञेयः चतुर्थस्तैत्तिरीयके ॥
तैत्तिरीयशाखायां चतुर्थः काण्डः अग्निकाण्ड इत्यर्थः ॥
ग्रह इत्याददे प्रश्नस्सजोषान्तं विधीयते ॥
सजोषान्त आददे प्रश्नः ग्रह इत्यभिधीयते ११४
उख्यमित्यग्निकाण्डस्य प्रश्नद्वितयमादिकम् ।
अन्त्यानुवाकरहितं वेदविद्भिरुदाहृतम् ॥
चतुर्थकाण्डस्य द्वितीयप्रथमप्रश्नयोः अन्त्यानुवाकं उख्यसंज्ञेति मन्तव्यम् ११५
इषेप्रभृत्यपामन्तं प्रश्नानां युक्ष्वसंयुतम् ।
अन्त्यानुवाकयाज्याख्यास्त्रयोविंशतिरीरिताः ॥ स्पष्टम् ११६
अथ संज्ञान्तरं देवसवितः प्रसुवादिकम् ।
वाजपेयाभिधानं षडनुवाकं विपश्चितः ॥
देवसवितर्देवस्याहं क्षत्रस्योल्बं वाजस्येममग्निरेकाक्षरेणोपयामग्रहीतोऽसि । इत्येते षडनुवाकाः वाजपेयसंज्ञा भवन्तीत्यर्थः ११७
समिद्दिशां समिद्धोऽग्नेर्मन्वे स्यात्पृष्ठ्यसंज्ञकः ।
जीमूतादिचतुष्टञ्च गायत्रीद्वितयं तथा ॥
समिद्दिशाम् । समिद्धो अञ्जन् । अग्नेर्मन्वे । जीमूतादि चतुष्टयम् । गायत्रीद्वितयं एतेन वानुवाकाः पृष्ठ्यसंज्ञा भवन्तीत्यर्थः ११८
यत्तत्पञ्चमकाण्डेऽनुवाकत्रितयं विना ।
पृष्ठ्यमेवं महापृष्ठ्यमिति वेदविदो विदुः ॥
पञ्चमकाण्डेऽनुवाकत्रयं विना पृष्ठ्यसंज्ञका एव षडनुवाका महापृष्ठ्यसंज्ञा भवन्ति ११९
पञ्चानुवाकमश्मन्नित्यस्य प्रश्नस्य चादिमम् ।
विकर्षसंज्ञमित्याहुः ऋषयो वेदवादिनः ॥
अश्मन्नूर्जमित्यस्य प्रश्नस्यादिममनुवाकपञ्चकं विकर्षसंज्ञमाहुः १२०
विहव्योऽपिच वाजोनः प्रभृतीनां विधीयते ।
त्रयाणामनुवाकानां वेदलक्षणवेदिभिः ॥
वाजोनस्सप्ताग्निं युनज्मिम्माग्न इत्येतेषां त्रयाणां अनुवाकानां विहव्यसंज्ञा भवन्तीत्यर्थः १२१
अ इ उ त्रिविधा वर्णा ऋकारो द्विविधा स्मृतः ।
लृकार ए ऐ ओ औ स्युः स्वराष्षोडशसंज्ञकाः ॥
अवर्णेवर्णोवर्णः ह्रस्वदीर्घप्लुतभेदेन प्रत्येकन्त्रिविधा । अ । आ । आ३ । इ । ई । ई३ । उ । ऊ । ऊ३ । इति ऋवर्णस्तु ह्रस्वदीर्घभेदेन द्विविधा । लृकारः । ह्रस्व एव । ए । ऐ । ओ । औ । एते दीर्घाः । इति षोडशस्वरा इत्यर्थः १२२
कादिमान्तास्पर्शसंज्ञा अन्तस्थायादिवान्तकाः ॥
जिह्वामूलीय शषसाहोपध्मानीयपर्यन्ता षडूष्माण इत्यर्थः १२३
अनुस्वारो विसर्गश्च रङ्गो ळश्च यमाः परे ।
चत्वारः स्वरभक्तिश्च षष्टिवर्णाश्च वैदिकाः ॥
अनुस्वारादि ळकारान्ताः चत्वारो वर्णाः तेभ्यः प--र यमाश्चत्वारः स्वरभक्तिरेका आहत्य चतुश्चत्वारिंशद्व्यञ्जनानि स्वराष्षोडश आहत्य वैदिकाष्षष्टिर्वर्णा इत्यर्थः अत्र रङ्गस्वरभक्त्योः प्रत्येकवर्णत्वं सूत्रकारस्य ना---तं कुत इत्युक्ते तयोः कारोत्तरत्वनिषेधाभावादिति मन्तव्यम् १२४
पदक्रमविधीयानस्सर्वे दोषविवर्जिताः ।
श्रेयः परमवाप्नोति देवत्वमधिगच्छति ॥
स्पष्टम् १२५
य इच्छति जटां वक्तुं स विप्रो वेदवित्तमः ।
तस्य कीर्तिर्विवर्धेत स वेदफलमश्नुते ॥
स्पष्टम् १२५
विलम्बिता द्रुता मध्या वाचस्तिस्रो हि वृत्तयः ॥
विलम्बितादिवृत्तीनामुपयोगमाह--
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ।
शिष्याणामुपदेशार्थे कुर्याद्वृत्तिं विलम्बिताम् ॥
प्रयोगार्थे यागादिप्रयोगार्थ इत्यर्थः अन्यत्स्पष्टम् १२६
शिष्याणामुपदेशार्थे त्वारम्भे प्रथमेऽहनि ।
चतुरस्त्वनुवाकाना त्रीन्वाप्यध्यापयेद् बुधः ॥
स्पष्टम् १२७
अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः ।
स्वरितः कर्णमूलीयस्सर्वांगे प्रचयः स्मृतः ॥
स्पष्टम् १२८
तीव्रेण वायुना चैव स्वरितञ्चोच्चरेद् बुधः
वामकर्णस्य मूले तु जायते नात्र संशयः १२९
पुरुषो हि वृजेन्नारीं न नारी पुरुषं वृजेत् ।
तथाङ्गुलीषु सर्वासु नयेदङ्गुष्ठमेव तु ॥
स्पष्टम् १३०
अतोऽन्यथा तु यो मर्त्यो निर्दिशेन्मतिमोहितः ।
सगच्छेन्नरकं घोरं पापयोनिषु जायते ॥ स्पष्टम् १३१
निर्दिशेद्यः स्वरं सौम्यं मध्यमे पर्वणि स्वयम् ।
इह कीर्तिमवाप्नोति प्रेत्यस्वर्गे महीयते ॥
स्पष्टम् १३२
पदक्रमविशेषज्ञो वर्णक्रमविचक्षणः ।
स्वरमात्राविभागज्ञो गच्छेदाचार्यसंसदम् ॥ इति पदञ्च क्रमञ्च तयोर्विशेषः अनुलोमादिविशिष्टजटासा च पदक्रमविशेषा तत् ज्ञानवान् पदक्रमविशेषज्ञः वर्णानां क्रमः वर्णक्रमः तत्र विचक्षणः स्वराः उदात्तादयः मात्राः एकमात्रा द्विमात्रादयः तेषां विभागज्ञः परिच्छेत्ता एवं भूतः पुरुषः मोक्षहेत्वभूततत्वज्ञानार्थमाचार्यसमीपं गच्छेदित्यर्थः इति शब्दस्समाप्तिसूचकः १३३
ऋषिभिर्बहुधा प्रोक्तं वेदविद्भिस्तथापि हि ।
अध्येतृभिस्समस्तैस्तु यद् गृहीतं तदीरितम् १३४
सर्वसम्मतशीक्षापि संप्रदायानुसारतः ।
वासुदेवप्रसादेन व्याख्याता लक्षणेन वै १३५
श्लोकसंख्या १३५
श्रीकृष्णार्पणमस्तु
  सर्वसंमतशिक्षा सव्याख्यानं संपूर्णम्