दक्षिणामूर्तिखण्डः
अथातो दक्षिणामूर्तिरिति पदवर्णलक्षणपरिभाषा व्याख्यास्याम ।
आदौ पदसंख्या विसर्गनकारांतोवगृह्यप्रगृह्य मकारतकारसंख्या सितु-सेन्ताविषमसमान्यादिवर्गेण दशेनोत्तरपदस्वरेण द्वितीय्यवर्गैकाक्षरं पदपद्यादिपदपद्यादिपृथकाराद्यै पंचत्रिंशद्वर्णमध्ये तत्स्वभाव तत्संयोगसंख्यातदधिरेवलपयो संयोगांते पंचत्रिंशत्तद्धिरेव संयोगे सप्ततिदीर्घादिनवस्वरेण चतुरक्षरं दशरेमेणाधाधिके विंशतित्रिंशतितृतीय्ये द्विपंचाक्षरं चतुर्थे त्रिषडक्षरं पचेमी सुरा ------ दात्तं सप्ताक्षरमष्टाक्षरं कवर्णं नवाक्षराण्येकादशाक्षराणेकात ऊर्ध्वमिकरासदिकान्यंते त्र्यक्षरं विसर्गाविषमो पूर्वोक्तक्रमेण ज्ञेयो विसर्गनियो विषमस्वरांते सम इति सितु सेंताश्च ज्ञायंते ।
नमो दक्षिणामूर्तिभ्यो नमो दक्षिणामूर्तिभ्यः ॥
तर्जन्यादौ कनिष्ठादौ तथैवानामिकेऽन्तिके
मध्यमांगुलिमध्ये च उदात्तादिस्वरांशयोः १
स्वरितचाप्यनुस्वारस्तथा यरलवा अपि
परस्वरेण संयुक्तस्वरितग्राहिणो मता २
नकारांतं पदं पूर्वं यवरेषु परेषु च
नकारयहमध्ये तत्र ---- संयुतम् ३
ह्रस्वपूर्वो नकारो यः पदांतो तपरो यदि
विशेषं तत्र जानीयाद्द्वित्वमित्यभिधीयते ४
यच्छब्दे च कुविच्छब्दे निहिशब्दहिशब्दयोः
तिङन्तं नानुदात्तं स्यात्तच्छब्देनान्वयं विना ५
वनेषु जायुरा सूर्यः प्रातरग्निरग्निर्देवेषु वेदपत्त्रीणां पूर्णतदयं कविरेषस्य मित्रावरुणौ महानोशिक्पावक इति दशमर्तेषु यकारवर्जम्
 
इति दक्षिणामूर्तिखण्डं समाप्तम्