अमरेश शिक्षा
श्रेयो दिशतु नः कृष्णः कसमातङ्गकेसरी
राधाकेलिकलाभिज्ञो गोपीवादकुतूहली १
उत्पन्नो यः स्तुते वंशे बुद्धिमान्कृतनिश्चयः
अमरेश इति ख्यातो भारद्वाजकुलोद्वहः २
सोऽहं शिक्षां प्रवक्ष्यामि प्रातिशाख्यानुसारिणीम्
बालानां पाठशुद्ध्यर्थं वर्णज्ञानादिहेतवे ३
जपादिशुभकार्येषु पुमान्नाधिकृतो भवेत्
सम्यक्पाठं विना यस्मात्तं निमित्तं वदाम्यहम् ४
स्वरसंस्कारयोर्व्वेदे नियमः कथितो यतः
ततो विचार्य वक्तव्यो वर्णसंघात उत्तमः ५
मन्त्रो यः स्वरतो हीनो वर्णतो वापि कुत्रचित्
निष्फलं तं विजानीयात्तथैवाशुभसूचकम् ६
वेदस्याध्ययनाद्धर्मः सम्प्रदानात्तथा श्रुतेः
वर्णशोऽक्षरशो ज्ञानाद् विभक्तिपदशोऽपि च ७
स्वरो वर्णोऽक्षरं मात्रा तत्प्रयोगार्थ एव च
मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ८
स्थानं च करणं मात्रा सम्यगुच्चारणं तथा
यो न वेद स निर्लज्जः पठामीति कथं वदेत् ९
अथ प्रथमतो वर्णसञ्ज्ञाधिक्रियते मया
यया विना न सिद्ध्यन्ति व्यवहारा नृणामिह १०
एकविंशतिरुच्यन्ते स्वराः शब्दार्थचिन्तकैः
द्विगुणानि व्यञ्जनानि ह्येतावान्वर्णसङ्ग्रहः ११
ऋपर्यन्ताः स्वरास्त्रेधा ऌकारो ह्रस्व एव च
सन्ध्यक्षराण्यह्रस्वानि ते चैवमेकविंशतिः १२
ककारादिमकारान्ताः स्पर्शाः स्युः पञ्चविंशतिः
चतस्रो यादयोऽन्तस्था ऊष्माणः शषसाः सहाः १३
स्पर्शानां पञ्चमैर्योगे चत्वारश्च यमाः स्मृताः
अनुस्वारो विसर्गश्च जिह्वामूलीय एव च १४
उपध्मानीय इति च द्विस्स्पृष्टश्च तथापरः
द्विस्पृष्टता च विज्ञेया डढयोः स्वरमध्ययोः १५
पदकाले वियुज्येत द्विस्पृष्टो न भवेत्तदा
सव्यञ्जनः सानुस्वारः शुद्धो वापि स्वरोऽक्षरम् १६
चतुर्णां पञ्चमैर्योगे उत्पद्यन्ते यमाश्च ये
कुँ खुँ गुँ घुँ इति च ते चत्वारो नात्र पञ्चमः १७
वर्गाणां प्रथमौ द्वौ द्वावूष्माणश्च हवर्जिताः
जित्सञ्ज्ञा भवन्त्येते शेषा धिसञ्ज्ञकाः स्मृताः १८
शषसामुत्समाख्याता अवर्णः कण्ठ्यसञ्ज्ञकः
सिम्सञ्ज्ञका ऋपर्यन्ता भावी स्यात्कण्ठ्यवर्जितः १९
अन्त्याद्वर्णाद्भवेद्वर्णः पूर्वः स उपधाभिधः
एताः सञ्ज्ञा बुधैर्ज्ञेया व्यवहारप्रसिद्धये २०
लल्हजिह्वामूलभवोपध्मानीयस्तथैव च
नासिक्याश्च तथा चास्मिन्वर्णा वर्ज्याः सदैव हि २१
एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घमुच्यते
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रिकम् २२
तदर्द्धमणु तस्यार्द्धं परमाण्वभिधीयते
वर्णग्रहे सवर्णोऽपि सङ्ख्यया स्पर्शेषु कीर्त्तिताः २३
अथ वर्णसमाम्नाये स्थानं करणसंय्युतम्
आत्मशक्त्या प्रवक्ष्येऽहं तत्क्षन्तव्यमघं बुधैः २४
अष्टौ स्थानानि वर्णानामुरः कण्ठशिरस्तथा
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च २५
हकारः पञ्चमैर्युक्तो योऽन्तस्थाभिरथापि वा
औरस्यं तं विदुः प्राज्ञाः कण्ठ्यं शुद्धं प्रचक्षते २६
ऋवर्णोऽथ कवर्गश्च जिह्वामूलीय एव वा
जिह्वामूले भवत्येषां जिह्वामध्यं तु कारणम् २७
इवर्णोऽथ चवर्गश्च ए ऐ कारौ यशैः सह
तालुस्थाना भवन्त्येषां जिह्वामध्यं तु कारणम् २८
षकारोऽथ टवर्गश्च मूर्धन्याः परिकीर्तिताः
जिह्वायाः प्रतिवेष्ट्याग्रमेतेषां कारणं स्मृतम् २९
ऌलसिताः स्मृता दन्त्या जिह्वाग्रकरणा हि ते
रेफश्च दन्तमूलोत्त्थो जिह्वाग्रेण विधीयते ३०
उवर्णोऽथ पवर्गश्च ओ औ कारौ तथा च वः
ओष्ठ्या एते स्मृता वर्णा उपध्मानीय एव च ३१
समानस्थानकरणा नासिक्यौष्ठ्याः प्रकीर्तिताः
वकार ओष्ठसम्भूतो दन्ताग्रकरणः स्मृतः ३२
अवर्णश्च विसर्गश्च हकारश्चापि केवलः
कण्ठ्या वर्णाः स्मृता ह्येषां हनुमध्यं तु कारणम् ३३
यमानुस्वारनासिक्या नासामूलभवा दशा
मुखनासिकाकरणोऽनुनासिक इति स्मृतः ३४
पूर्वा मात्रा तु कण्ठ्यस्य एकारौकारयोर्भवेत्
तालव्यस्य तथौष्ठ्यस्य परा प्रोक्ता यथाक्रमम् ३५
ऐकारौकारयोश्चैवं तत्त्वं ज्ञेयं विचक्षणैः
ए ऐ तु कण्ठतालव्यौ ओ औ कण्ठोष्ठजौ स्मृतौ ३६
एतद्वर्णसमाम्नायस्थानं करणसंयुतम्
ज्ञातव्यं यन्मया प्रोक्तं शास्त्रतत्त्वार्थदर्शनम् ३७
यद्यद्यस्य भवेत् स्थानं करणं वा विशेषणम्
सवर्णत्वेन सङ्ग्राह्य आस्ययत्नस्तु भिद्यते ३८
संव्वृतं विवृतं तद्वदस्पृष्टं स्पृष्टमेव च
ईषत्स्पृष्टं चार्द्धस्पृष्टमास्ययत्नस्तु षड्विधः ३९
अकारः संव्वृतो ज्ञेयो विवृताश्चेतरे स्वराः
अस्पृष्टास्यप्रयत्नाश्च स्वराः सर्वे भवन्ति हि ४०
स्पृष्टाः स्पर्शास्तु विज्ञेया अन्तस्था ईषदुत्स्पृशः
अर्द्धस्पृष्टाश्च विज्ञेया ऊष्माणो वर्णवेदिभिः ४१
ऋलोर्मध्ये भवत्यर्द्धमात्रा रेफलकारयोः
तस्मादस्पृष्टता न स्यात्सम्भवे ऋऌकारयोः ४२
द्विमात्रस्यैकमात्रस्य संव्वृतादि प्रयत्नतः
भिन्नस्याप्यस्तु सावर्ण्यं तदर्थमिदमुच्यते ४३
अथातोऽवरतो वच्मि चर्चा पूर्वपराङ्गयोः
स्वारप्रयोजना चासौ वेदितव्या विचक्षणैः ४४
संय्योगस्यादिभूतो यः स पूर्वाङ्गं भवेद्यथा
अश्वः शशवसंय्योगे शः पूर्वाङ्गं शवोऽन्यतः ४५
यमश्च पूर्वस्याङ्गं स्याच्चकारात्पूर्वसंय्युतः
रुक्क्मः पूर्वस्य कयमावुत्तरस्य तु मः स्मृतः ४६
संय्योगादिपरद्वित्वे पूर्वाङ्गं क्रमजं यथा
पार्श्वं रशौ तु पूर्वस्य परस्य शवयात्मकम् ४७
क्रमजाच्चोत्तरं स्पर्शें परे पूर्वाङ्गकं यथा
पार्ष्ष्ण्या पूर्वस्य रषषाः परस्याङ्गं णयात्मकम् ४८
यद् व्यञ्जनं च यस्याङ्गं तत्तेन सस्वरं भवेत्
एतदर्थमिदं प्रोक्तं स्वारसन्देहभेदकम् ४१
अनुस्वारो विसर्गश्च नासिक्योऽथ यमास्तथा
जिह्वामूलमुपध्मा च नवैते स्युः पराश्रयाः ५०
सँय्योगवाहा एवैते निजस्वरविवर्जिताः
पूर्वस्याङ्गं भवन्त्येते स्वर एतेषु पूर्ववत् ५१
स्वरभक्तिश्च पूर्वाङ्गं देवम्बर्हिरुदाहृतिः
इकारे च तथोकारे तां यत्नेन विवर्जयेत् ५२
रेफो वाथ लकारो वा यत्रोष्मणि स्वरोदये
स्वरभक्तिर्भवेत्तत्र पूर्वमाक्रम्य पठ्यते ५३
ऊष्मणामुपरिस्थस्तु रेफो याति रेवर्णताम्
रेफत्वं पुनरायाति यद्यूष्माणोऽन्यसँय्युताः ५४
ऊष्मणां स्वरभक्तिस्तु द्विर्भावं बाधते यथा
वर्षो वर्षीयसि ह्वार्षीच्छतबल्शोऽपि सिद्धयति ५५
अष्टौ स्वरान्प्रवक्ष्यामि तेषामेव च लक्षणम्
जात्योऽभिनिहितः क्षैप्रः प्रश्लिष्टस्तदनन्तरम् ५६
तैरो व्यञ्जन एवाथ तैरोविराम एव च
पादवृत्तस्ततस्तद्वत्ताथाभाव्यस्तथाष्टमः ५७
एकपदे निपूर्वस्तु सयवो जात्य इष्यते
अपूर्व्वोऽपि परस्तद्वद्धान्यं कन्या स्वरित्यपि ५८
सप्तोदात्तादयो ज्ञेया परेऽभिनिहितादयः
त्रयो नीचपरास्तत्र प्रश्लिष्टान्तं निदर्शनम् ५९
ए ओ आभ्यामुदात्ताभ्यामकारो नीच एव च
लुप्यते सन्धिकार्ये यत्तं चाभिनिहितं विदुः ६०
तेऽप्सरसां च तेऽवन्तु वेदोऽसीति तुथोऽस्यपि
इ उ वर्णावुदात्तौ चेदनुदात्तस्वरोदयौ ६१
यवाभ्यां चैव सँय्युक्तौ तदा क्षैप्रः स्वरो भवेत्
वाज्यर्वंस्त्र्यम्बकँय्यद्वद्द्र्वन्नो योजान्विन्द्रेति च ६२
उच्चः पूर्वः परा नीच इकारोऽन्योऽन्यसङ्गतः
प्रश्लिष्टः स स्वरो ज्ञेयः स्रुचीवाभीन्धताँ य्यथा ६३
उदात्तपूर्वो यत्र स्यान्नीचो व्यञ्जनसँय्युतः
स तैरोव्यञ्जन इति स्वरो भवति तद्यथा ६४
इडेरन्ते हव्ये काम्ये चन्द्रे ज्योते निदर्शनम्
उदात्तावग्रहो यत्र स तु तैरोविरामकः ६५
स्वरो ज्ञेयः पदेऽन्यत्र तैरोव्यञ्जन एव तु
यथा गोपताविति गोपतौ यज्ञपतिस्तथा ६६
स्वरयोरन्तरे यत्र विवृत्तिर्यदि दृश्यते
स पादवृत्त इत्याख्यः काईमरे निदर्शनम् ६७
उदात्तादिरुदात्तान्तो नीचोऽवग्रह एव च
ताथाभाव्यो भवेत्कम्पस्तनूनप्त्रे निदर्शनम् ६८
माध्यन्दिनविरोधी स्यात् ताथाभाव्यस्तु यः स्वरः
भिन्नो यतोऽत्र दृश्येते तावुदात्तानुदात्तकौ ६९
तस्मान्माध्यन्दिनीयानां पदे कम्पो विधीयते
तथोक्तमौज्जिहायनकैर्माध्यन्दिनानुसारिभिः ७०
अवग्रहो यदा नीचप्रोच्चयोर्म्मध्यतः क्वचित्
तथाभाव्यो भवेत्कम्पस्तनूनप्त्रे निदर्शनम् ७१
जात्याभिनिहितक्षैप्रप्रश्लिष्टाः स्वरिता इमे
नीचपूर्वा यदा त्वेते तिर्यक्स्वारस्तदा भवेत् ७२
जात्योऽभिनिहितः क्षैप्रः प्रश्लिष्टश्च चतुर्थकः
एते स्वराः प्रकम्पन्ते दृष्ट्वोदात्तं पुरः स्थितम् ७३
यथा वरुणः पस्त्या स्वा युद्ध्योऽस्माकन्तथापरम्
परमेष्ठ्यभिधीतोऽभीममित्यादि निदर्शनम् ७४
नीचपूर्वोदात्तपरः स्वरोऽसौ प्रणिहन्यते
अन्यथा नीचवर्ण एव स्यात्स्वर्णघर्मादिकं यथा ७५
स्वरितादनुदात्तं यत्तत्सर्वं प्रचयाह्वयम्
स्यादुदात्तमयं चैव त्वामद्येत्यादिकँय्यथा ७६
तिर्यक्स्थानगते हस्तेऽनुदात्तो दृश्यतेऽपरः
प्रचितं तँ विजानीयादुदात्तं स्वरमाप्नुयात् ७७
जात्यं कृत्वा ततः पश्चात्प्रचितो दृश्यते यदि
तन्तु तत्रैव निर्वर्त्य पश्चाद्धस्तं प्रचालयेत् ७८
नोदात्तस्वरितात्पूर्वं प्रचितं स्यादुदात्तवत्
कृत्वानुदात्तमथ तमुदात्तस्वरमाचरेत् ७९
यथा स्यात्स्वरितात्स्वारो वाजे वाजेऽवतेति च
स्वरितोदये सेनानीग्रामण्यौ सहस्याय च ८०
तैरोव्यञ्जनवज्ज्ञेयो जात्योऽभिनिहितः प्रचः
यथा धान्यं कन्या इव वेदोऽसीति तुथोऽस्यपि ८१
वत्सरोऽसि भवेत्तद्वद्वाज्यर्वश्च स्रुचीव च
उदात्तस्वरितपरप्रचितस्यापि नित्यशः ८२
भवेन्नीचतरादेशो वैयाकरणसम्मतः
स्वरिताद्वानुदात्ताद्वा उदात्तो दृश्यते यदि ८३
शून्यं प्रचालयेद्धस्तं स्वरितात्स्वरितेऽपि च
शून्यं प्रचालयेद्धस्तं यकुक्तं केनचित्क्वचित् ८४
तत्कातीयविरोधी स्यात्सम्प्रदायविरोधकृत्
उक्तं च याज्ञवल्क्येन मन्त्रे वाजसनेयके ८५
स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च
स्वरप्रधाने त्रैस्वर्यं व्यञ्जनं तेन सस्वरम् ८६
मणिवद् व्यञ्जनान्याहुः सूत्रवत्स्वर इष्यते
व्यञ्जनान्यनुवर्तन्ते यत्र तिष्ठति स स्वरः ८७
वर्णेषूच्चार्यमाणेषु विकाराः स्युस्त्रयस्तनोः
आयाममार्दवौ चोभौ तृतीयश्चाभिघातकः ८८
गात्रस्योच्चमधस्तिर्यग्गमनं स्यद्यतः क्रमात्
तच्चोदात्तेऽनुदात्ते च स्वरिते च प्रकीर्तितम् ८९
उभयवाँश्च स्वरित एकीभावेऽन्ययोर्भवेत्
यथा पथ्येव चम्वीव ब्रह्मासृज्यत मृत्यवे ९०
अथोदात्तोनुदात्तस्य स्वरितस्यापि सङ्गमे
उदात्त एकीभवति षट् प्रकारः स नान्यथा ९१
द्वयोस्तु स्वरयोस्सन्धावेकीभावो यदा भवेत्
तदा नीचोऽप्युदात्तस्य वशं गच्छति सान्वयः ९२
उदात्तयोरथैकत्वे भवेदुदात्त एव च
स पुरस्तात्परस्ताद्वा यथा स्यात्प्रार्पयत्विति ९३
एमे तन्नैजति परं विश्वाभ्यस्त्वा पुनस्तथा
नाभिरस्याथ मेऽङ्गानि जयन्तन्त्वां तथैव च ९४
पाशिनोऽति देवागात्पूर्वागाद्बर्हिरासदत्
आरुहा मादधुरास्थाद्विद्यादेवं निदर्शनम् ९५
अस्यापवादरूपं यदुदाहरणमुच्यते
आख्यातानां प्रयोगेषु पूर्वं पदमुपस्थितम् ९६
षोडशाक्षरपर्यन्तं तद्योगि स्वरमुद्धरेत् याँ२
आ वहो यदावहन्यो नः पिता तथापरम् ९७
यत्पुरुषँ व्यदधुश्च विद्यादेवं निदर्शनम्
जात्यपूर्वोदात्तपरो ह्युच्चो भवति नित्यशः ९८
यथाद्यूत्त्वेऽवसेऽपि स्याज्ज्ञातव्यं स्वरवेदिभिः
सूर्व्व्याय स्वरितपरोदात्तपूर्वो यथा भवेत् ९९
स्वरितोदात्तयोः सन्धावुदात्तो बलवान्स्मृतः
हित्वाभिनिहितक्षैप्रप्रश्लिष्टांस्त्रीनिमान्स्वरान् १००
व्वीद्ध्र्यानुदात्तपूर्वोदात्तपरो यथा भवेत्
सूर्व्व्याय स्वरितपरोदात्तपूर्वः पदे यथा १०१
सर्वतीक्ष्णोऽभिनिहतः प्रश्लिष्टस्तदनन्तरम्
ततो मृदुतरौ स्वारौ जात्यक्षैप्रावुभौ स्मृतौ १०२
ततो मृदुतरः स्वारस्तैरोव्यञ्जन उच्यते
पादवृत्तो मृदुतरस्त्वेतत्स्वारबलाबलम् १०३
द्वयोस्तु स्वरयोस्सन्धौ स्वरितः स्यात्परो यदि
उदात्तस्यान्तस्थीभावे प्रोच्यते त्र्यम्बकं यथा १०४
योजान्विन्द्र वीड्वङ्गो द्र्वन्नः सर्पिस्तथापरः
नियमः स्वरसन्धेस्तु समाप्तो विदुषां प्रियः १०५
अथातः संस्कारविधिः कथ्यते यो मयाधुना
लोपागमौ विकारश्च प्रकृत्या भवनं तथा १०६
ज्ञातव्यो निपुणैरेवं संस्कारोऽसौ चतुर्विधः
स्वरयोर्वा हलोर्वापि स्वरव्यञ्जनयोरुत १०७
ते नोऽवन्त्वथ देवास एदमापोऽपान्नपात्
देवान आयुः प्राङ्क्सोमस्तन्नश्चिकित्वान्त्वँ यथा १०८
प्रथमात्तु हकारोऽयं तच्चतुर्थत्वमाप्नुयात्
उद्धर्षयावाड्ढव्यानि ज्ञेयमेवं निदर्शनम् १०९
आद्यः स्वरे तृतीयत्वं घोषवत्सु त्वपञ्चमः
अघोषे प्रथमत्वं वा उदेनं पद्ग्रामे अपि ११०
पदान्ताः प्रथमा वर्णाः परयोः स्वरघोषिणोः
भजन्ते स्वतृतीयत्वं स्वोत्तमत्त्वं यथोत्तमे १११
आद्योत्तमाः पदान्तीयाश्चवर्गं परिहाय च
स्युर्वण्महाँस्तन्मित्रस्य विन्द्यादेवं निदर्शनम् ११२
कखयोः परयोर्नित्यं पफयोः परयोरपि
विसर्गस्य यदुक्तन्तल्लक्षणन्नात्र सिध्यति ११३
मयि वः कामधरणं ततः खनेम चाप्यथ
अग्निः पशुर्य्याः फलिनीर्विद्यादेवं निदर्शनम् ११४
अम्ब निष्परसमरीर्द्यौष्पिता च वसुष्क्कविः
आविष्कृणुष्वेव तथा पर्णे वो व्वसतिष्कृता ११५
एवमादौ विसर्गस्य षत्वमिच्छन्ति सूरयः
पूर्वोक्तस्यापवादोऽयं ज्ञातव्यः कृतबुद्धिभिः ११६
कण्ठ्योपधः सकारः स्याद्भाव्युधः ष एव च
अघोषे घोषवति तु लोपो रेफो यथाक्रमम् ११७
इडस्पदेडायास्पदं ज्योतिष्कृदिष्कृतिस्तथा
तन्न इन्द्रोऽयक्ष्मा मा हविर्होतर्न्निदर्शनम् ११८
भाव्युपधः षत्वमेति वर्जयित्वा कृषीस्कृधिम्
प्रत्ययस्य सवर्णत्वं यातीति शाकटायनः ११९
अविकारं च शाकल्यो मन्यते शषसेषु च
आशुः शिशानो वृषभो देवो वः सविता तथा १२०
अदितिः षोडशेत्यादिर्विज्ञेयोदाहृतिर्विदा
पदान्ताः प्रथमा वर्णाः शषसेषु परेषु तान् १२१
शौनको द्वितीयानिच्छेत्प्रकृत्या शाकटायनः
असमानस्थलस्थाश्चेच्छौनकोऽपि वदेत्तदा १२२
सम्यक्स्रवन्तीवट्सूर्यानुष्टुप्शारद्यथापरम्
तत्सवितुश्च तत्सत्यन्द्वितीयं नात्र कर्हिचित् १२३
असस्थानस्थितत्वाच्च तैत्राणां तु न तन्मतम्
पदान्तस्य तवर्गस्य चवर्गे परतः स्थिते १२४
चवर्गः स्यात्तकारस्य चछयोः शागमः स्मृतः
शकारश्छत्वमाप्नोति तवर्गात्स्पर्शवर्जितः १२५
तच्चक्षुरुज्जिहानाश्च तच्छकेयमतः परम्
बृहच्छोचा यविष्ठ्येति वाजाञ्जयत्त्वथापरम् १२६
नकारस्य पदान्तस्य शकारे परतः स्थिते
चवर्गपञ्चमत्वं स्यान्नच्छादेशे तु शागमः १२७
स्वधावाञ्छुक्रः पिशङ्गाञ्छिशिरायेति वै तथा
आदित्याञ् श्मश्रुभिर्नात्र छत्वं स्यात्स्पर्शशङ्कया १२८
दधन्न्वान्स्ववान्यकारे नकारो लोपमाप्नुयात्
पीवोऽन्नान् रयिवृधे परे वापि तथा पुनः १२९
स्वराणामानुनासिक्यं प्रतिजानन्ति सर्वतः
वर्जयित्वा तमाकारं मकारो यत्र लुप्यते १३०
उपधारञ्जनं कुर्यात्स्वरे विकरणे सति
लोपे प्रकृतिभावे च नोपधारञ्जनं भवेत् १३१
पदान्तस्थो नकारो यः सोऽनुनासिकपूर्वकः
लकारे लत्वमाप्नोति शसत्वं चतकारयोः १३२
यथास्मिँल्लोके त्रिँल्लोकानहीँश्च सर्वानप्युत
गवयाँस्त्वष्द्रे पशूँस्ताँश्चक्रे चैव निदर्शनम् १३३
स्पर्शे परे नकारस्य विकारो नोपलभ्यते
चतौ विहाय तत्रापि प्रकृत्त्या भवनं क्वचित् १३४
यथास्मिन्गोष्ठेऽकन्कर्म देवान्दिवमथापरम्
पशून्पाहीतिजानीयान्नकारस्यैकरूपताम् १३५
धामन्ते पतयिष्ण्वर्व्वन् शत्रून्ताढि तथापरम्
मित्र महश्चिकित्त्वान्त्वम्पूषन्तव व्रते तथा १३६
मदिन्तमानां च मधुन्तमानां तद्धिते तमे
निर्जगन्वान्तमसि च न विकारो भवेदिह १३७
एते निपातसिद्धत्वान्न विकारमवाप्नुयुः
नॄन्पकारे विसर्गत्वमुपधारञ्जनं लभेत् १३८
शत्रून्क्रतून्वनस्प्पतीन्परिधींश्च चतुर्थकम्
स्वरे रेफत्वमाप्नोति नासिक्यं चोपधा तथा १३९
अनुस्वारश्चरोष्म्मसु मकारस्येति यो विधिः
पदयोरन्तरे सः स्यात्पदमध्ये तु नस्य च १४०
यथापाँ रसं चैव त्वाँ शश्वन्त एव च
यजूँषि तपूँषि उरूंहीति निदर्शनम् १४१
पदान्तीयमकारस्य त्वन्तस्थाः परतो यदि
नासिक्यमुपधापूर्वं सोऽन्तस्थात्वमवाप्नुयात् १४२
सँय्यौमि सँव्वपामीति तँल्लोकं च यथा भवेत्
अपदान्तस्य रेफे न यद्वम्रोऽतिसर्पति १४३
एकमात्रो द्विमात्रः स्यात्त्रिमात्रान्मात्रिको यथा
त्वं सोम हवीँषि सँस्रष्टा न संय्युजि १४४
अनुस्वारो द्विमात्रः स्यादृवर्णव्यञ्जनोदयः
ह्रस्वाद्वा यदि वा दीर्घाद्देवानां हृदये यथा १४५
मकारः प्रत्यये स्पर्शे भवेत्तद्वर्गपञ्चमः
व्रजङ्गच्छ व्रतञ्चरिष्यामि शण्डस्तथा पुनः १४६
एतन्तेदम्पितृब्भ्यश्च यच्छन्ताम्पञ्च वै यथा
संयोगादिः स्वराद् द्वित्वं प्राप्नोतीति विदुर्बुधाः १४७
तत्पदान्तपदाद्योर्वा पदमध्येऽपि सर्वतः
सम्यक्स्रवन्ति सरितः सन्धौ तु पदयोर्यथा १४८
अनुष्टुप् शारदी तद्वत्प्रथमस्तु द्विरुक्तिजः
मध्येऽश्वस्तूपरो यद्वदश्वस्य त्त्वा तथापरम् १४९
अस्वरान्न भवत्येतत् श्रुधि श्रुत्कर्णवद्यथा
परं रेफहकाराभ्यां व्यञ्जनं तूष्मवर्जितम् १५०
द्वित्वमापद्यते रेफहकारौ तु न कुत्रचित्
यथा सूर्योऽथ सर्वेभ्यो बाह्वोर्गृहणामि चैव हि १५१
ऊष्माणो रेफसङ्क्रान्ता न द्विः स्युश्चेत्स्वरोदयाः
यथार्शसदुपचितां वर्षो वर्षीयसीति च १५२
सहस्रशीर्षा पुरुषो देवम्बर्हिर्य्यथा स्मृतम्
अन्तस्थाभिर्यदा युक्ता ऊष्माणो रेफपूर्वकाः १५३
वर्ष्याय चान्तः पार्श्व्यञ्च रेफाद्द्वित्वं भजन्ति ते
ऊष्मान्तस्थापरः स्पर्शो द्वित्वमापद्यते यथा १५४
अश्मन्नूर्जं सस्नितमं धिष्णया राष्ट्रं च गृह्णते
यकारात्स्पर्शसँय्योगो नोपलभ्येत कुत्रचित् १५५
शल्मलिश्च दधिक्क्राव्णः पुरुराव्णस्तथैव च
यदि चास्वरपूर्वाः स्युरूष्मान्तस्था न तत्परः १५६
स्पर्शो द्वित्वमाप्नोति स्थालीभिर्दिवः स्कम्भनीः
यत्र चोभयतः स्पर्शैः सँय्युक्ताः शषसाः सहाः १५७
तत्र नाद्यः क्रमो ज्ञेयो नापरो बोधितो बुधैः
पक्ष्माणि वाथ सूक्ष्मा च विश्वप्स्न्या च तथा पुनः १५८
नेदृशेषु द्विरुक्तिः स्यादिति प्राहुर्मनीषिणः
जिह्वामूलीयतः स्पर्शे उपध्मानीयतस्तथा १५९
स इधानो व्वसुष्क्कविद्यौष्पितेत्यादिकँय्यथा
विसर्जनीयाच्च परो यः स्पर्शो व्यञ्जनोदयः १६०
सोऽपि द्वित्वमवाप्नोति युञ्जानः प्प्रथमँय्यथा
सकारस्य द्विरुक्तिः या सा द्वयोरेव नान्यतः १६१
आ च सास्वा च रास्वेयत्सकारोऽत्र द्विरुक्तितः
ह्रस्वपूर्वौ ङनौ स्यातां पदान्तौ द्विः स्वरोदयौ १६२
युङ्ङसीति तथा चाश्मन्नूर्जमित्यादिकँ य्यथा
प्रथमैश्च स्ववर्गीयैर्द्वितीया द्विर्भवन्ति हि १६३
तृतीयैस्तु चतुर्थाश्च व्विकख्याजिघ्रकँय्यथा
उख्यं संख्यं च मुख्यं च वर्जयित्वा पदत्रयम् १६४
ख्याधातोः खययोः स्यातां कशौ गार्ग्यमते यथा
व्विक्श्याक्शातमित्येतन्माध्यन्दिनविरोधकृत् १६५
विख्याय कखया युक्ताश्चछया आच्छ्यतीतिवत्
गोष्ठानं षटठा एवं पात्थ्यं तथयसँय्युतम् १६६
विष्प्फुरन्ती च षपफा युक्ताश्चैवं चतुर्थकाः
आजिग्घ्र गघरायुक्ता मीड्ढ्वश्च डढवास्तथा १६७
अद्ध्वनो दधवाश्चैवं विब्भ्राड्बभरसँय्युतम्
ऋवर्णे न द्विरुक्तिः स्यात् ङनकारो विहाय च १६८
ऌवर्णेऽपि तथैव स्यात् कॢप्तं चानिष्ट्टतँय्यथा
अवसानस्थितं चापि व्यञ्जनं न द्विरुच्यते १६९
ऊर्क्क्क्सूनृता पदे एवं संहितायां न वार्यते
स्वरात्परश्छकारस्तु सर्वत्र द्वित्वमाप्नुयात् १७०
यस्यातिहाय सहेति पदत्रयपरं विना
द्विरुक्तिं वर्जयेन्नित्यं यमेऽपि परतः स्थिते १७१
सक्थ्ना देदिश्यते नारी ककारोऽत्रैक एव हि
यमे परे निषेधस्तु पुनर्द्वित्वनिवारकः १७२
ये रुक्मपाप्प्मप्रभृति प्राहुस्तेषां मनीषिणाम्
संय्योगादिश्च पूर्वाङ्गं यमश्चेति विरोधकृत् १७३
तस्माद्यदुक्तं तत्साधु नत्वन्यत्कल्पनाक्षमम्
अपञ्चमात्पदे नित्यं पञ्चमेषु परेषु च १७४
यमोत्पत्तिर्भवेत्तत्र रुक्मः पाप्प्मा निदर्शनम्
स्वरात्संयोगपूर्वस्य द्वित्वाज्जातो द्वितीयकः १७५
तस्यैव यमसञ्ज्ञा स्यात्पञ्चमैरन्वितो यदि
स्पर्शानां पञ्चमैर्योगे चत्वारो ये यमाः स्मृताः १७६
अयस्पिण्डेन ते तुल्या घनबन्धाः प्रकीर्तिताः
यमास्तदा निवर्तन्ते ऊष्मा मध्ये भवेद्यदि १७७
ऊर्णापिण्डेन ते तुल्याः पाशैस्त्मन्न्या निदर्शनम्
स्पर्शा अपञ्चमा ये च अन्तस्थाभिश्च सँय्युताः १७८
दारुपिण्डेन ते तुल्याः श्लथबन्धाः प्रकीर्तिताः
अपञ्चमे स्ववर्गीये न प्राग्वर्णो द्विरुक्तिभाक् १७९
तद्देवानां च यद्देवा अन्तरिक्षम्पुरीतता
ईद्ध्य्रवार्द्ध्रीनसावेतावुद्रश्चापि तथैव च १८०
चरद्द्रव्यस्य वचनो द्वित्वं नैवात्र विद्यते
क्षत्रवृत्रस्तथा श्वित्र चित्र सत्र तथैव च १८१
यत्र तत्र पदेष्वेषु व्यञ्जनं न द्विरुच्यते
उपोत्थितमुत्तम्भनमुत्तभानोत्थिताय च १८२
उत्त्थाय बृहती चैषु त्रयः स्पर्शा भवन्ति हि
वर्णं द्विवर्णसंयोगे एकवर्णवदुच्यते १८३
स्वरमध्ये सजातीये विजातीये द्वयोः श्रुतिः
कुक्कुटोऽसि तथा तन्नाज्ज्यं भुज्ज्युः श्रुतिर्द्वयोः १८४
स्पर्शात्परककारस्य स्फोटनं दोषकृन्न वा
अत्राचार्याशयाद्वित्वं स्फोटनं द्वित्वनाशनम् १८५
अयस्पिण्डेन तत्तुल्यं तस्मादुच्चारणं तथा
काण्डात्काण्डाद्वषट् कृतं यकृत्त्क्लोमादिकँयथा १८६
स्ववर्गीयैस्तु सँय्योगः स्पर्शानां सम्भवेद्यदि
तत्पूर्वस्य श्रुतिर्नास्ति विरामव्यञ्जनस्य च १८७
द्वितीयाश्च चतुर्थाश्च वर्णाः सोष्माण एव हि
यदैते पञ्चमैर्युक्ता वायुः सम्यगृते मुखात् १८८
तं धरयेत् प्रयत्नेन घनबन्धं समुच्चरेत्
सक्थ्ना दध्मस्तथा अग्घ्न्या इति निदर्शनम् १८९
स्वराः संयोगपूर्वा ये व्यञ्जनान्तास्तथान्तगाः
एषां कालो द्विमात्रः स्यान्न तु दीर्घा हि ते स्मृताः १९०
यथाग्निर्द्धूर्य्यथा विष्णुः प्रत्यङ् दध्यङ् ऋषिस्तुतम्
याहि पाहि रक्ष मधु विद्यादेवं निदर्शनम् १९१
व्यञ्जनान्तस्य मोक्षः स्यात्करणस्थानतः पदे
अन्यदन्यप्रयत्नेन पदमारभ्यते बुधैः १९२
अन्यथा तु पदादौ च द्वित्वमापद्यते ध्रुवम्
सँय्यौमि सँव्वपामीति इमम्मेति निदर्शनम् १९३
अर्द्धर्चादेः समाप्तौ च मोक्षणं तु विधीयते
पादश्छन्दोऽनुरोधेन एकद्वित्रि चतुष्पदः १९४
अप्यनेकपदैः क्वापि दृश्यते पादपूरणम्
हृदि स्पृशं यथैकस्मिन्पदे स्यात्पादपूरणम् १९५
क्रतोर्भद्रस्य द्विपदं क्रतुन्न भद्रमित्यतः
अग्ने त्वन्नोऽन्तमश्च विद्यात्पादचतुर्विधम् १९६
विधूममग्नेऽनेकपदमेवमादिनिदर्शनम्
ङनकारौ पदान्तीयौ मकारे परतः स्थितेः १९७
कताभ्यां व्यवधीयेते प्राङ्क्सोमश्च यथा तथा
प्रत्यङ्क्सोमस्त्रीन्त्समुद्रानस्मान्त्सीते निदर्शनम् १९८
ऋकारे प्रत्यये कण्ठ्यः पाठे ह्रस्वत्त्वमाप्नुयात्
स्वाह ऋषभमिन्द्रोऽथ विश्वकर्म्म ऋषिस्तथा १९९
येन ऋषय इत्यत्र यत्र ऋषय इत्यपि
ह्रस्वे ह्रस्वविधानँय्यत्तत्सन्धिविनिवर्तकम् २००
ए ओ ऐ औ तु चत्वारः क्रमादेव स्वरे परे
अयवायावतां यान्ति इड एहि कृशानुवत् २०१
सरस्वत्या अग्ग्रजिह्वं ता उभौ च यथाक्रमम्
यवयोरत्र लोपः स्यात्स्वरमध्ये पदान्तयोः २०२
अयादौ यवयोर्लोपे न पुनः सन्धिरिष्यते
असस्थाने वकारस्य लोपन्नेच्छन्ति सूरयः २०३
पादादौ च पदादौ च सँय्योगावग्रहेषु च
यः शब्द इति विज्ञेयो योऽन्यः स य इति स्मृतः २०४
युक्तेन मनसा यद्वत्तत्त्वा यामि तथापरम्
अनूकाशेन बाह्यञ्च योगे योगे निदर्शनम् २०५
उपसर्गपरो यः स पदादिरपि दृश्यते
ईषत्स्पृष्टो यथा वियत्पदच्छेदे परो भवेत् २०६
यदेव लक्षणं यस्य वकारस्यापि तद्भवेत्
यत्र यत्र विशेषः स्यादिदानीं स तु कथ्यते २०७
वकारस्त्रिविधः प्रोक्तो गुरुर्ल्लघुलघूतरः
आदौ गुरुर्लघुर्मध्ये पदस्यान्ते लघूतरः २०८
उपसर्गपरौ यत्र यवकारौ पदादिगौ
ईषत्स्पृष्टौ ततो ज्ञेयावभियुध्य उपा यथा २०९
परि वाजपतिः कविः प्रवोचं च निदर्शनम्
अनुयोजान्विन्द्र ते तु उप यज्ज्ञँ व्विना तथा २१०
त्वदर्थवाचिनौ वो वाँव्वा वै यदि निपातजौ
आदेशाश्च विकल्पास्स्युरीषत्स्पृष्टा हि ते स्मृताः २११
देवो वः सविता या वाँव्वातो वाथ तथा न वै
तव व्वायवृतस्पतेऽस्ति वान्वा निदर्शनम् २१२
द्वेधीभावे समुत्पन्ने लक्षणान्निर्णयो भवेत्
लक्षणँव्वाविनाशि स्यात्सम्प्रदायोऽविनाशवान् २१३
प्रमाणानुगतं वाक्यं यो मोहाद्धातुमिच्छति
प्रतिवातं स मूढात्मा पांसुं प्रक्षिपति स्वयम् २१४
कण्ठ्या वर्णाग्निदेवत्यास्तालव्याः सोमदेवताः
जिह्वामूलीया नैऋर्त्या रौद्रा दन्त्याः प्रकीर्तिताः २१५
ओष्ठ्याश्चैवाश्विना ज्ञेया वायव्या मूर्द्धसम्भवाः
शेषास्तु वैश्वदेवाः स्युरिति कात्यायनोऽब्रवीत् २१६
क्रियावाचकमारव्यातमुपसर्गो विशेषकृत्
सत्त्वाभिधायकं नाम निपातः पादपूरणः २१७
भारद्वाजकमाख्यातं भार्गवं नाम भाष्यते
वासिष्ठ उपसर्गस्तु निपातः काश्यपः स्मृतः ११८
सर्वन्तु सौम्यमाख्यातं नाम वायव्यमिष्यते
आग्नेयस्तूपसर्गः स्यान्निपातो वारुणः स्मृतः २१९
स्वरास्तु ब्राह्मणा ज्ञेया वर्गाणां प्रथमाश्च ये
द्वितीयाश्च तृतीयाश्च चतुर्थाश्चापि भूमिपाः २२०
उदात्तं ब्राह्मणं विद्याद्भारद्वाज ऋषिस्ततः
गायत्रं च भवेच्छन्दो नियोगो ब्रह्मसाधने २२१
नीचं तु क्षत्रियं प्राहुर्गौतमोऽस्य च देवता
छन्दस्त्रैष्टुभमेवास्य विनियोगोऽघनाशने २२२
स्वरितं वैश्यमेवाहुर्मुनिर्गार्ग्योऽस्य कीर्त्तितम्
जागतं तु भवेच्छन्दो नियोगः शत्रुनाशने २२३
एषा मन्त्ररहस्यस्य मञ्जूषोद्धाटिता मया
एतत्सर्वं विदित्वा तु ब्रह्मलोके महीयते ११४
अनेन विधिना वेदं योऽधीते श्रद्धया द्विजः
सोऽश्वमेधसहस्रस्य फलं प्राप्नोति पुष्कलम् २२५
रहस्यं यो न जानाति लक्षणं चार्षकादिकम्
सोऽध्यापने न योग्यः स्याज्जपहोमादिकर्मसु २२६
अमरेशकृतामेतां शिक्षां यो धारयेत्सुधीः
विद्वज्जनसभामध्ये जयं स लभते ध्रुवम् २२७
इत्यमरेशकृता वर्णरत्नप्रदीपिका शिक्षा समाप्ता