सूत्रस्थानम्

श्रीकाश्यपसंहिता
वा
वृद्धजीवकीयं तन्त्रम्
कौमारभृत्यम्
सूत्रस्थानम्
किंवा लेहयितव्यं च किंवा लेहितलक्षणम्
अतिलेहितदोषाः के के च दोषा अलेहिते

मन्दीलीढस्य किं रूपं गुडदोषाश्च तत्र के
के लेहनोद्भवा रोगाः कश्च तेषामुपक्रमः

एतन्मे भगवन् सर्वं वक्तुमर्हसि तत्त्वतः
सुखं दुःखं हि बालानां दृश्यते लेहनाश्रयम्

इति पृष्टो महाभागः कश्यपो लोकपूजितः
प्रश्नं प्रोवाच निखिलं प्रजानां हितकाम्यया

यदन्नपानं प्रायेण गर्भिणी स्त्री निषेवते
रसो निर्वर्तते तादृक् त्रिधा चास्याः प्रवर्तते

मातृपुष्ट्यर्थमेकांशो द्वितीयो गर्भपुष्टये
तृतीयः स्तनपुष्ट्यर्थं नार्या गर्भस्तु पुष्यति

तादृक्प्रकृतयस्तस्माद्गर्भात् प्रभृति देहिनः
वातपित्तकफस्थूणास्तिस्रः प्रकृतयश्च ताः

वातिकाः पैत्तिकाः केचित् कफिनश्चैव देहिनः
द्वन्द्वप्रकृतयश्चान्ये समस्थूणास्तथाऽपरे

अरोगास्तु समस्थूणा वातिकाद्याः सदातुराः
एताः प्रकृतयः प्रोक्ता देहिनां वृद्धजीवक

एता आश्रित्य तत्त्वज्ञो भेषजान्युपकल्पयेत्
य एता वेद तत्त्वेन न स मुह्यति भेषजे

विलङ्गफलमात्रं तु जातमात्रस्य देहिनः
भेषजं मधुसर्पिर्भ्यां मतिमानुपकल्पयेत्

वर्धमानस्य तु शिशोर्मासे मासे विवर्धयेत्
अथामलकमात्रं तु परं विद्वान्न वर्धयेत्

अक्षीरा जननी येषामल्पक्षीराऽपि वा भवेत्
दुष्टक्षीरा प्रसूता या धात्री वा यस्य तादृशी

दुष्प्रजाताभृशव्याधिपीडितायाश्च ये सुताः
वातिकाः पैत्तिका ये च ये च स्युः कफवर्जिताः

स्तन्येन ये न तृप्यन्ति पीत्वा पीत्वा रुदन्ति च
अनिद्रा निशि ये च स्युर्ये च बाला महाशनाः

अल्पमूत्रपुरीषाश्च बाला दीप्ताग्नयश्च ये
निरामयाश्च तनवो मृद्वङ्गा ये च कर्शिताः

वर्चःकर्म न कुर्वन्ति बाला ये च त्र्यहात् परम्
एवंविधाञ्छिशूनाह लेहयेदिति कश्यपः

--- च मन्दाग्निजठरो जनः
निद्रालुर्बहुविण्मूत्रः स्वल्पो यो दृढगात्रकः

कल्याणमातृकोऽजीर्णी गुरुस्तन्योपसेविता
सुतः सर्वरसाशिन्या ऊर्ध्वजत्रुरुजान्वितः

आमे ज्वरेऽतिसारे च कामलाशोथपाण्डुषु
हृद्रोगश्वासकासेषु गुदबस्त्युदरामये

आनाहे गण्डवैसर्पे छर्द्यरोचकयो
---- हे सर्वग्रहेषु च

न लेहयेदलसके नाहन्यहनि नाशितम्
न दुर्दिनपुरोवाते नासात्म्यं नातिमात्रया

सेवितान्यन्नपानानि गर्भिण्या यान्यभ ---
तानि सात्म्यानि बालस्य तस्मात्तान्युपचारयेत्

देशकालाग्निमात्राणां न च कुर्याद्व्यतिक्रमम्
द्रव्याणां लेहनीयानां विधिश्चैवोपदेक्ष्यते

विघृष्य धौते दृषदि प्राङ्मुखी लघुनाऽम्बुना
आमथ्य मधुसर्पिर्भ्यां लेहयेत् कनकं शिशुम्

सुवर्णप्राशनं ह्येतन्मेधाग्निबलवर्धनम्
आयुष्यं मङ्गलं पुण्यं वृष्यं वर्ण्यं ग्रहापहम्

मासात् परममेधावी व्याधिभिर्न च धृष्यते
षड्भिर्मासैः श्रुतधरः सुवर्णप्राशनाद्भवेत्

ब्राह्मी मण्डूकपर्णी च त्रिफला चित्रको वचा
शतपुष्पाशतावर्यौ दन्ती नागबला त्रिवृत्

एकैकं मधुसर्पिर्भ्यां मेधाजननमभ्यसेत्
कल्याणकं पञ्चगव्यं मेध्यं ब्राह्मीघृतं तथा

समङ्गा त्रिफला ब्राह्मी द्वे बले चित्रकस्तथा
मधु सर्पिरिति प्राश्यं मेधायुर्बलवृद्धये

कुष्ठं वटाङ्कुरा गौरी पिप्पल्यस्त्रिफला वचा
ससैन्धवैर्घृतं पक्वं मेधाजननमुत्तमम्

ब्राह्मी सिद्धार्थकाः कुष्ठं सैन्धवं सारिवा वचा
पिप्पल्यश्चेति तैः सिद्धं घृतं नाम्नाऽभयं स्मृतम्

न पिशाचा न रक्षांसि न यक्षा न च मातरः
प्रबाधन्ते कुमारं तं यः प्राश्नीयादिदं घृतम्

खदिरः पृश्निपर्णी च स्यतृ सैन्धवं बले
केवुकेति कषायः स्यात् पादशिष्टो जलाढके

अर्धप्रस्थं पचेदत्र तुल्यक्षीरं घृतस्य तु
घृतं संवर्धनं नाम लेह्यं मधुयुतं सदा

निर्व्याधिर्वर्धते शीघ्रं संसर्पत्याशु गच्छति
पङ्गुमूकाश्रुतिजडा युज्यन्ते चाशु कर्मभिः

स्वरसस्याढके ब्राह्म्या घृतप्रस्थं विपाचयेत्
सवत्साऽजागोपयसामाढकाढकमावपेत्

त्रिफलांऽशुमती द्राक्षा वचा कुष्ठं हरेणवः
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम्

त्वक्पत्रबालकोशीरचन्दनोत्पलपद्मकम्
शतावरी नागबला दन्ती पाठा प्रियङ्गुका

देवदारु हरिद्रे द्वे जीवनीयश्च यो गणः
विडङ्गो गुग्गुलुर्जातिः

एकोनविंशोऽध्यायः
--- शकुनी कटुतिक्तके
स्कन्दषष्ठीग्रहौ ज्ञेयौ व्यापन्ने सान्निपातिके
पूतना स्वादुकटुके शेषाः संसृष्टदोषजाः

बहुविण्मूत्रता स्वादौ कषाये मूत्रविड्ग्रहः
तैलवर्णे बली तुल्या घृतवर्णे महाधनः

यशस्वी धूमवर्णे तु शुद्धे सर्वगुणोदितः
तस्मात् संशोधनपरा नित्यं धात्री प्रशस्यते

कषायपानैर्वमनैर्विरेकैः पथ्यभोजनैः
वाजीकरणसिद्धैश्च स्नेहैः क्षीरं विशुध्यति

त्रिफला सत्रिकटुका पाठा मधुरसा वचा
कोलचूर्णं त्वचो जम्ब्वा देवदारु च पेषितम्

सर्षपप्रसृतोन्मिश्रं पातव्यं क्षौद्रसंयुतम्
एतत् स्तन्यस्य दुष्टस्य श्रेष्ठं शोधनमुच्यते

शृङ्गवेरपटोलाभ्यां पिप्पलीचूर्णचूर्णितम्
यूषपथ्यं विदध्याच्च ह्यन्नपानं च यल्लघु

धातकीपुष्पमेला च समङ्गी मरिचानि च
जम्बूत्वचं समधुकं क्षीरशोधनमुत्तमम्

नाडिका सगुडा सिद्धा हिङ्गुजातिसुसंस्कृता
क्षीरं मांसरसो मद्यं क्षीरवर्धनमुत्तमम्

वाजीकरणसिद्धं वा क्षीरं क्षीरविवर्धनम्
घृततैलोपसेवा च बस्तयश्च पयस्कराः

पाठा महौषधं दारु मूर्वामुस्तकवत्सकाः
सारिवारिष्टकटुकाः कैरातं त्रिफला वचा

गुडूची मधुकं द्राक्षा दशमूलं सदीपनम्
रक्षोघ्नश्च पटोलश्च गणः क्षीरविशोधनः

लाभतः क्वथितस्तेषां कषायः स तु सेवितः
क्षीरं शोधयति क्षिप्रं चिरव्यापन्नमप्युत

सक्षौद्रः कफसंसृष्टे सघृतः शेषयोर्भवेत्
नेत्येके श्लेष्मणः स्थानात् क्षीरं हि कफसंभवम्

मसूराः षष्टिका मुद्गाः कुलत्थाः शालयो घृतम्
गव्यमाजं पयः काले लवणं चाप्यनौद्भिदम्

आहारविधिरुद्दिष्टः स्तन्यशोधनकालिकः
गुर्वन्नस्नेहमांसानि दिवास्वप्नं च वर्जयेत्

शोधनाद्वा स्वभावाद्वा यस्याः क्षीरं विशुष्यति
तस्याः क्षीरप्रजनने प्रयतेत विचक्षणः

मधुराण्यन्नपानानि द्रवाणि लवणानि च
मद्यानि सीधुवर्ज्यानि शाकं सिद्धार्थकादृते

वराहमहिषादूर्ध्वं मांसानां च रसो हितः
लशुनानां पलाण्डूनां सेवनं शयनं सुखम्

क्रोधाध्वभयशोकानामायासानां च वर्जनम्
अ---या भवति वत्स इति क्षीरविवर्धनम्

वटादीनां च वृक्षाणां क्षीरिकायाश्च वल्कलम्
पाक्यः कषायः क्वथितः क्षीरं तेन पुनः शृतम्

पाक्यं गुडविडोपेतं सघृतं शालिमाशयेत्
अपि शुष्कस्तनीनां तत् क्षीरोपजननं परम्

शालिषष्टिकदर्भाणां कुशगुन्द्रेत्कटस्य च
सारिवावीरणेक्षूणां मूलानि कुशकाशयोः

पेयानि पूर्वकल्पेन श्रेष्ठं क्षीरविवर्धनम्
स्वभावनष्टे शुष्के वा दुष्टे साध्वीक्षिते हितम्

अव्याहतबलाङ्गायुररोगो वर्धते सुखम्
शिशुधात्र्योरनापत्तिः शुद्धक्षीरस्य लक्षणम्

संभवन्ति महारोगा अशुद्धक्षीरसेवनात्
तेषामेवोपशान्तिस्तु शुद्धक्षीरनिषेवणात्

तृणं कीटं तुषं शूकं मक्षिकाङ्गमलाष्टकम्
केशोर्णास्थ्यादिकं विद्याद्वज्रमित्युपचारतः

सहान्नपानेन यदा धात्री वज्रं समश्नुते
पच्यमानेन पाकेन ह्यनन्नत्वान्न पच्यते

अपच्यमानं विक्लिन्नं वायुना समुदीरितम्
रसेन सह संपृक्तं याति स्तन्यवहाः सिराः

सर्वस्रोतांसि हि स्त्रीणां विवृतानि विशेषतः
तत् पयोधरमासाद्य क्षिप्रं विकुरुते स्त्रियाः

रूपाणि पीतवज्रायाः प्रवक्ष्याम्यत उत्तरम्
अजीर्णमरतिर्ग्लानिरनिमित्तं व्यथाऽरुचिः

पर्वभेदोऽङ्गमर्दश्च शिरोरुग् क्षवथुग्रहः
कफोत्क्लेदो ज्वरस्तृष्णा विड्भेदो मूत्रसंग्रहः

स्तम्भः स्रावश्च कुचयोः सिराजालेन संततः
शोथशूलरुजादाहैः स्तनः स्प्रष्टुं न शक्यते

स्तनकीलकमित्याहुर्भिषजस्तं विचक्षणाः
कीलवत् कठिनोऽङ्गेषु बाधमानो हि तिष्ठति

एष पित्तात्मना शीघ्रं पाकं भेदं च गच्छति
कफाच्चिरं क्लेशयति वातादाशु निवर्तते

शाखाशिरोभिस्तु यदि विमार्गान्न प्रपद्यते
अकृष्यमाणं बालेन क्षिप्रं निर्धावति स्तनात्

निर्दुह्यमानमुत्पीडाद्वज्रं सक्षीरशोणितम्
अथवाऽभ्येति सहसा प्रत्यक्षं चोपलभ्यते

घृतपानं प्रथमतः शस्यते स्तनकीलके
स्रोतांसि मार्दवं स्नेहाद्यान्ति वज्रं च च्याव्यते

निर्दोहो मर्दनं युक्त्या पायनं च गलेन च
शीताः सेकाः प्रलेपाश्च विरेकः पथ्यभोजनम्

स्रावणं चाविदग्धस्य दोषदेहव्यपेक्षया
स्य पाटनं कुर्यान्मृजां विद्रधिवच्च तत्

परवद्धितभोक्त्री च परालालिततर्पणा
परवेश्मरता धात्री मुच्यते स्तनकीलकात्

दर्शनीयौ स्तनौ पीनौ सुजातौ संहतौ समौ
सुकरौ पर्यकीलौ च दृष्ट्वा त्वीक्षन्ति दुर्हृदः

ततो रुजामवाप्नोति कार्यं तन्त्रावचारणम्
इति ह स्माह भगवान् कश्यपः

परिहृत्याममांसं तु निशि नेयं चतुष्पथम्

एतच्छ्रुत्वा वचस्तथ्यमृषिपत्न्यः प्रहर्षिताः
प्रशशंसुर्महात्मानं कश्यपं लोकपूजितम्

इति क्षीरोत्पत्तिर्नामाध्याय ऊनविंशतितमः १९

विंशतितमोऽध्यायः
अथातो दन्तजन्मिकमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

अथ खलु भगवन् देहिनां जातानामभिवर्धमानानां कतिषु मासेषु दन्तां निषिच्यन्ते निषिक्ताश्च कियता कालेन मूर्तीभवन्ति मूर्तीभूताश्च कदोद्भिद्यन्ते कानि चैषां पूर्वरूपाणि के चोपद्रवाः कश्चैषामुपक्रमः किञ्च दन्तजन्म प्रशस्तमप्रशस्तं च किं कस्माच्च स्वमङ्गमभिवर्धमानं प्राणसंशयाय भवति कियन्तश्च दन्ताः कतिचैषां द्विजाः कियता च
कालेन पतन्ति पतिता वा जायन्ते दन्तसंपदसंपच्च कीदृशीति ३

अथोवाच भगवान् कश्यपः -- इह खलु नृणां द्वात्रिंशद्दन्ताः तत्राष्टौ सकृज्जाताः स्वरूढदन्ता भवन्ति अतः शेषा द्विजाः । यावत्स्वेव च मासेषु दन्ता निषिच्यन्ते तावत्स्वहः सूद्भिद्यन्ते । यावत्स्वेव च मासेषु जातस्य सत उद्भिद्यन्ते तावत्स्वेव च वर्षेषु पतिताः पुनरुद्भिद्यन्ते । तत्र मध्ये द्वावुत्तरौ राजदन्तसंज्ञौ भवतः तौ पवित्रौ तस्मात्ताभ्यां खण्डे न श्राद्धमर्हति अपपित्रो हि सः । तयोरुभयतः पार्श्वयोरपि वस्तौ तयोरपि दंष्ट्रे शेषाः स्वरूढा हानव्या इति चोच्यन्ते
तथाऽधस्तात् ४

तत्र कुमारीणामाशुतरमल्पाबाधकरं च दन्तजन्म सुषिरत्वाद्दंशानां मृदुस्वभावाच्च प्रकृष्टकालमाबाधाबहुलं तु कुमाराणामाचक्षते घनत्वाद्दंशानां स्थिरस्वभावाच्च । दन्तानां निषेकमूर्तित्वोद्भेदवृद्धिपतनपुनर्भावनिवृत्तिस्थितिपरिक्षयचलनपतनदृढदुर्बलता जातिविशेषान्निषेकात् स्वभावान्मातापित्रोरनुकरणात् स्वकर्मविशेषाच्चेत्याचक्षते
महर्षयः तथाऽन्येऽपि शरीरवृद्धिह्रासगुणदोषप्रादुर्भावाः ५

नृणां तु चतुर्थादिषु मासेषु दन्ता निषिच्यन्ते । तत्र सदन्तजन्म च पूर्वमुत्तरदन्तजन्म च विरलदन्तजन्म च हीनदन्तता च अधिकदन्तता च करालदन्तता च विवर्णदन्तता च स्फुटितदन्तता चामङ्गल्या भवति । तत्र शान्त्यर्थं मारुतीमिष्टिं निर्वपेत् स्थालीपाकमनाहिताग्नेः प्राजापत्यमित्येके तथाऽन्येष्वपि स्वाङ्गोनाधिकभावेषु तथा तद्घोरं
प्रशाम्यति ६

चतुर्विधं तु दन्तजन्माचक्षते सामुद्रं संवृतं विवृतं दन्तसंपदिति । तत्र सामुद्गं क्षयि नित्यसंपातात् संवृतमधन्यं मलिष्ठं विवृतं वीतमनित्यलालोपहतमसंछन्नदन्तत्वादाशुदन्तवैवर्ण्यकरमासन्नाबाधमिति ७

चतुर्थे तु मासि दन्ता निषिक्ता दुर्बला भवन्त्याशुक्षयिणश्चामयबहुलाश्च पञ्चमे स्यन्दनाश्च प्रहर्षिणश्चामयबसुलाश्च षष्ठे प्रतीपाश्च मलग्राहिणश्च विवर्णाश्च घुणदन्ताश्च भवन्ति सप्तमे द्विपुटाः स्फोटिनश्च राजिमन्तश्च खण्डाश्च रूक्षाश्च विषमाश्चोन्नताश्च भवन्ति तथाऽष्टमे मासि सर्वगुणसंपन्ना भवन्ति । पूर्णता समता घनता शुक्लता स्निग्धता श्लक्ष्णता निर्मलता निरामयता किञ्चिदुत्तरोन्नतता दन्तबन्धनानां च समता रक्तता स्निग्धता बृहद्वनस्थिरमूलता चेति दन्तसंपदुच्यते । हीनोल्बणसितासिताऽप्रविभक्तदन्तबन्धनत्वमप्रशस्तमृषयो वदन्ति । तत् स्वभावाद्दन्तोदूखलकेषु यच्छोणितं गर्भे निषिक्तं तदेव जातस्य
समतोऽभिवर्धमानस्य क्रमेण ---

एकविंशतितमोऽध्यायः
रोहिणी स्वयङ्गुप्तामूलं द्वे हरिद्रे बृहतीफलरसैर्घृतार्धवत् पचेत् पच्यमानेऽपामार्गं चावपेत् । सिद्धेन कर्णपालीमहन्यहन्ति म्रक्षयेद्विमृद्नीयाच्च आशु वर्धते पीना समा च पाली भवति । मधूच्छिष्टसर्जरसयववत्सकैरण्डान्यन्तर्धूमं दग्ध्वा तेन भस्मना म्रक्षितां कर्णपा
लीं विमृद्नीयात् आशु वर्तते पीना समा च पाली भवतीति

तत्र श्लोकाः
नाभिषग्राजपुत्राणामन्येषां वा महात्मनाम्
कर्णान् विध्येत् सुखप्रेप्सुरिह लोके परत्र च

आमच्छेदेऽत्ययो ह्यत्र कुवेधाद्वोपजायते
अभिषक् तत्र मन्दात्मा किं करिष्यत्यशास्त्रवित्

कदा वेध्यं कथं वेध्यं कुत्र वेध्यं कथं व्यधः
हितोऽहितोऽत्ययः कश्च तत्राज्ञः किं प्रपत्स्यते

तस्माद्भिषक् सुकुशलः कर्णं विध्येद्विचक्षणः
शिशोर्हर्षप्रमत्तस्य धर्मकामार्थसिद्धये

इति ह स्माह भगवान् कश्यपः
इति चूडाकरणीयोऽध्याय एकविंशतितमः २१

द्वाविंशतितमोऽध्यायः
अथातः स्नेहाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
स्नेहो द्वियोनिरुक्तश्चतुर्विकल्पश्चराचरसमुत्थः
सर्पिर्मज्जवसाख्यं खगमृगजलजप्रभवमाहुः ३
तैलानि चोद्भिदेभ्यस्तिलचूतसर्षपबिभीतबिल्वेभ्यः
एरण्डातसिशिग्रुमधूकमूलककरञ्जेभ्यः ४
घृततैलवसामज्जां पूर्वः पूर्वो वरोऽन्येभ्यः
मुख्यं घृतेषु गव्यं संस्कारात् सर्वसात्म्याच्च ५
विनिहन्ति पित्तमनिलं पीतं सर्पिः कफं न च चिनोति
जनयति बलाग्निमेधाः शोधयति शुक्रं च योनिं च ६
उष्णं कफानिलघ्नं स्वरवर्णकरं तनुस्थिरीकरणम्
भग्नच्युतसन्धानं धातुव्रणशोधनं तैलम् ७
मज्जावसे विशेषाद्वातघ्ने वृष्यसंमते चैव
बलिनां तत्सात्म्यानां प्रजाबलायुः स्थिरीकरणे ८
नित्यानित्यात्मविधौ तिलतैलघृते बुधः प्रयुञ्जीत
एरण्डशङ्खिनीभ्यां स्रंसनमन्यद्रसायनं नास्ति ९
मज्जावसे वसन्ते प्रावृषि तैलं पिबेच्छरदि सर्पिः
सर्पिर्वा सर्वेषां सर्वस्मिञ्छरयते पातुम् १०
अनुपानमुष्णमुदकं घृतस्य तैलस्य यूषमिच्छन्ति
मज्जधसयोस्तु मण्डं सर्वेषां कश्यपः पूर्वम् ११
शूलकफानिलतृष्णाहिक्कारोचकविबन्धगुल्मघ्नम्
व्रणधातुमृदूकरणं दीपनमुष्णोदकमुशन्ति १२
पादावशेषसिद्धं तद्दोषघ्नैः शृतं जलं मुख्यम्
पेयं कवलग्राह्यं स्नेहं हि तथा विलाययति १३
पयसि दधनि मधुमये तूक्ते नोष्णोदकं भवेत् पथ्यम्
पित्ते रक्तस्रावे गर्भच्यवने च गर्भदाहे च १४
ओदनविलेपिकाभ्यां रसमांसक्षीरदधियवागूभिः
काम्बलिकसूपयूषैः पेयाशनभक्ष्यविकृतीभिः १५
स्नेहप्रयोग इष्टः सोर्ध्वाधः कर्मभिः खलाभ्यङ्गैः
चक्षुर्वदनश्रोत्रैर्धारणयोगश्च सात्म्यज्ञैः १६
पित्तानिलप्रकृतयः स्नेहं रात्रौ पिबेयुरुष्णे च
श्लेष्माधिको दिवोष्णे निर्मलसूर्ये लघुत्वे च १७
तृण्मूर्च्छोन्मादादीन् पूर्वो लभते विपर्ययेण पिबन्
आनाहारुचिपर्वण्युच्छूलं च समृच्छते शेषः १८
स्नेहाच्छपाने त्रिविधा तु मात्रा
ह्रस्वाऽथ मध्या महती तृतीया ।
ह्रस्वा दिनार्धेन दिनेन मध्या
जीर्यत्यहोरात्रवशात् प्रधाना १९
दीप्ताग्नयो बलिनः स्नेहनित्या
उन्मादिनो धृतिविण्मूत्रसक्ताः ।
गुल्मार्दिताश्चाहिदष्टा विरूक्षा
वैसर्पिणः प्रवरां ते पिबेयुः २०
प्रमेहकुष्ठानिलशोणितारुचि
विचर्चिकास्फोटविषेषु कण्डौ ।
मृदौ तथाऽग्नौ प्रवदन्ति मध्यां
बले च मध्या अशने च ये स्युः २१
बालेषु वृद्धेषु सुखोचितेषु
जीर्णेऽतिसारे ज्वरकासयोश्च ।
येषां हि कोष्ठो न गुणाय रिक्तो
मन्दाग्निकार्श्ये च कनीयसी स्यात् २२
दोषानुकर्षिण्यनुसारिणी च
यत्नोपचर्या बलवर्धनी च ।
ज्येष्ठाऽथ मध्या न बलं निहन्ति
त्वन्योन्यथोः स्नेहयते सुखाच्च २३
ह्रस्वा परीहारसुखाऽविकारा
वृष्याऽथ बल्याऽप्यनुवर्तनी च ।
देशं वयःकालबलाग्निसात्म्या
न्यालक्ष्यमात्रां मतिमान् विदध्यात् २४
पित्तानिलात्माऽनिलपित्तरोगी
क्षामः शिशुर्वर्णबलायुरक्तः ।
मेधेन्द्रियार्थी विषशस्त्रदाहै
रार्ताः पिवेयुर्घृतमेव काले २५
प्रवृद्धमेदःकफमांसवाता
नाडीकृमिव्याध्यनिलार्तदेहाः ।
क्रूरानुकोष्ठास्तनुवीर्यकामा
स्तैलं पिबेयुर्न तु तीव्रकुष्ठे २६
संशुष्कमेदःकफरक्तशुक्रा
वातातपाध्वश्रमरौक्ष्यनित्याः ।
भृशाग्नयो वातनिपीडिताङ्गा
वसां पिबेयुर्धृतिधातुकामाः २७
दीप्ताग्नयो घस्मराः स्नेहनित्याः
क्लेशक्षमाः क्रूरकोष्ठानिलार्ताः ।
मज्जानमेतेषु भिषग्विदध्यात्
स्नेहो भवेत्सात्म्यतो यस्य यो वा २८
व्यायाममद्यचिन्तामैथुननित्याः श्रमाध्वकृशदेहाः
स्नेह्यास्तथाविधाः स्युर्बलकालवयोग्निसात्म्यज्ञैः २९
न स्नेहयेद्गर्भिणीं न प्रसूतां
न क्षीरपं नैव दग्धातिवृद्धौ ।
न श्लेष्मपित्तोपहतान्तराग्निं
मूर्च्छारुचिग्लानिभृशामतृट्सु ३०
बस्तौ न नस्तश्च विधिक्रियायां
छर्द्यां ज्वरे विट्प्रकोपे कफे च ।
बृहत्त्वजाड्येषु गलामयेषु
नस्नेहयेत् स्नेहमदात्ययेषु ३१
तेषां स्नेहाच्छपानान्ते वर्धन्ते व्याधयो भृशम्
असाध्यनां वा गच्छन्ति स्नेहपानाभिवर्धिताः ३२
वायोरप्रगुणत्वं रौक्ष्यं खरताऽघृतिर्ज्वलनहानिः
शुष्कप्रथितपुरीषं लक्षणमस्निग्धगात्रस्य ३३
धृतिर्मृदुपुरीषत्वं मेधापुष्ट्यग्नितेजसां वृद्धिः
काले शरीरवृत्तिः स्निग्धस्य वदन्ति लिङ्गानि ३४
गौरवजाड्योत्क्लेशाध्मानानि पुरीषमविपक्वम्
अरुचिरपि पाण्डुतन्द्रे वदन्त्यतिस्निग्धलिङ्गानि ३५
द्रवमितलघूष्णपन्नं काले सात्म्यं बलाग्निरुग्युक्तम्
स्वः स्नेहपानमिच्छन् भुञ्जीत शयीत गुप्तश्च ३६
उष्णोदकोपचारी जितेन्द्रियः स्यान्निवातशयनस्थः
व्यायामवेगरोषत्यागी स्नेहाच्छपोऽस्वप्नः ३७
संस्निह्यति मृदुकोष्ठो नरस्त्रिरात्रेण सप्तरात्रेण
स्नेहाच्छपानयोगाज्जीवक यः क्रूरकोष्ठस्तु ३८
द्राक्षापीलुत्रिफलागोरसतप्ताम्बुतरुणमद्यानि
भुक्त्वाऽथ पायसं यो मृदुकोष्ठःस्रंस्यते नान्यः ३९
पित्तबहुलेतराल्पा ग्रहणी भवति मृदुकोष्ठिनां तस्मात्
सुविरेच्या मृदुकोष्ठाः प्रायः पित्तं ह्यधोभागि ४०
तृण्मूर्छामुखशोषैः शब्दद्वेषाङ्गमर्दजृम्भाभिः
तन्द्रीवाग्देहसादैः स्नेहज्ञाजीर्यतीत्याह ४१
जीर्णाजीर्णविशङ्की केवलमुष्णोदकं पिबेत् तद्धि
उद्गारस्य विशुद्धिं जनयति भक्ताभिलाषं च ४२
तैलेऽधिको विदाहः सर्पिषि मूर्च्छा वसासु हृल्लासः
मज्जनि गौरवमेषां दोषैरल्पा प्रवृत्तिस्तु ४३
स्नेहाजीर्णे तृष्णा शूलं परिकर्तिका च यस्य स्यात्
समतीतजरणकाले तस्य प्रच्छर्दनं श्रेयः ४४
उद्गारस्य विशुद्धिः कांक्षा स्थिरता लघुत्वमविषादः
बलवागिन्द्रियसंपज्जीर्णे स्नेहे बलसुखे च ४५
कर्णाक्षिप्रणबलं स्मृतिकेशौजसां वृद्धिधृतिपुष्टिः
शान्तिस्तद्व्याधीनां भुक्त्वाऽनु स्नेहपीतस्य ४६
पित्तानिलामयघ्नं बस्त्यूरुकटीदृढीकरं वृष्यम्
ऊर्जस्करं श्रमघ्नं विद्यात् स्नेहावपीडं तु ४७
वर्णस्वरमेधौजःशुक्रायुर्धृतिबलाग्निसंवृद्धिः
विण्मूत्रानिलवृत्तिः सुखेन संभोजनस्नेहात् ४८
ज्वरपाण्डुकुष्ठशोथास्तृण्मूर्छाच्छर्द्यरोचकोत्क्लेदाः
ग्रहणीन्द्रियोपघातस्तैमित्यानाहशूलाद्याः ४९
स्नेहापचारजास्ते रोगाः स्वेदोपपादिता येषु
वमनविरेचनयोगा रूक्षाशनतक्रमूत्राद्याः ५०
मात्राकालवियुक्तः स्नेहः सात्म्योपचारगुणहीनः
युक्तो व्यापदमृच्छति तस्मिन् संशोधनं पथ्यम् ५१
स्नेहद्वेषी क्षामो मृदुकोष्ठः स्नेहमद्यनित्यश्च
अध्वप्रजागरस्त्रीश्रान्ता नाच्छं पिबेयुस्ते ५२
तेषामन्नैर्विविधैः स्नेहस्य विचारणा सात्म्यम्
निर्दिष्ट्वा मासाद्यैः कालाग्निवयःप्रकर्षाच्च ५३
गुरुपानभोज्यमांसैर्गुडदधितिलशाकदुग्धनिर्यूहैः
न स्नेहयेत् प्रमेहे न कुष्ठकफशोषरोगार्तान् ५४
तद्दोषघ्नैर्द्रव्यैः स्नेहैः सिद्धैर्यथास्वमविकारैः
स्नेह्यास्तथात्रिधाः स्युस्त्रिफलासव्योषलवणाद्यैः ५५
स्नेहितदेहस्यादौ स्वेदमनन्तरमथ प्रयुञ्जीत
सम्यक्स्निग्धस्विन्नैर्विशोधनमनन्तरं कार्यम् ५६
इति स्नेहाध्यायो द्वाविंशतितमः २२

त्रयोविंशतितमोऽध्यायः
अथातः स्वेदाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
सम्यक्स्निग्धस्य भगवन् कथं स्वेदं प्रयोजयेत्
अनत्ययं भिषग्वाले द्रव्यं स्वेदोपगं च किम् ३
मन्दातिसम्यक्स्विन्नानां बालानां लक्षणं च किम्
कः स्वेद्यो न च कः स्वेद्य इत्युक्तः प्राह कश्यपः ४
शृणु स्वेदविधिं कृत्स्नं वृद्धजीवक तत्त्वतः
यथा बाले प्रयोक्तव्यः प्रयुक्तश्च यथा हितः ५
स्तैमित्यशूलकाठिन्यविबन्धानाहवाग्ग्रहैः
हृल्लासारुच्यलसकशीतासहनवेपनैः ६
वातश्लेष्मोद्भवं दृष्ट्वा पृथग्वा स्वेद इष्यते
वाते स्निग्धः कफे रूक्षो द्वयोः साधारणो मतः ७
बालानां कृशमध्यानां स्वेद आवस्थिको हितः
शीतव्याधिशरीराणां बालानां च विशेषतः ८
वृषणौ हृदयं चक्षुर्मृदु वा स्वेदयेन्न वा
शेपोवङ्क्षणसन्धींस्तु मध्यमं शेषमिष्टतः ९
कुमुदोत्पलपद्मानां पत्रैराच्छाद्य लोचने
वाससा वाऽथ श्लक्ष्णेन बाले स्वेदं प्रयोजयेत् १०
मुक्तावलीचन्द्रकान्तशीताम्बुकरभाजनैः
स्पृशेदभीक्ष्णं हृदयं बालस्य स्वेदकर्मणि ११
कर्पूरचूर्णमास्येन धारयेत् स्विद्यतः सुखम्
फलाम्लयुक्तं खण्डं वा मृद्वीकां वा सशर्कराम् १२
शीतगौरवविष्टम्भशूलादीनां निवर्तने
तद्विपर्ययभावे च स्वेदं प्राज्ञो निवर्तयेत् १३
विषादमूर्च्छातृड्दाहपित्तकोपारतिभ्रमाः
स्वराङ्गहानिर्वैह्वल्यमतिस्विन्नस्य लक्षणम् १४
तच्चिकित्सां प्रयुञ्जीत यथा वैसर्पिणां तथा
रागव्रणविसंज्ञाभिः कृच्छ्रसाध्यं तमादिशेत् १५
वातस्याप्रगुणत्वं च गुरुत्वं स्तब्धगात्रता
मन्दस्विन्ने न च ग्लानिस्तृष्णादीनां च विभ्रमः १६
तत्र स्वेदं प्रयुञ्जीत भिषग्भूयो विचारयन्
बलकालवयोदोषान् पथ्यचेष्टाशनस्थितीः १७
स्वेदाभिनन्दिता सौख्यं मृदुता रोगदेहयोः
काले विसृष्टिः क्षुत्तृष्णा सम्यक् स्विन्नस्य लक्षणम् १८
पित्तात्मा पित्तरोगी च गर्भिणी मधुमेहिनः
क्षुत्तृष्णाशोषरोषार्ताः कामल्युदरिविक्षताः १९
कार्श्यमद्यविषार्ताश्च भृशाग्नितिमिरस्रुताः
भ्रष्टभग्नविदग्धाङ्गा न स्वेद्यास्ते कथंचन २०
स्वरभेदप्रतिश्यायगलग्रहशिरोरुजि
मन्याकर्णशिरःशूले गौरवे श्वासकासयोः २१
कुक्षिपार्श्वकटीपृष्ठविड्ग्रहे मूत्रयक्ष्मणि
शुक्राघाते पक्षवधे कोष्ठानाहविबन्धयोः २२
विनामार्दितजृम्भासु हनमन्याशिरोग्रहे
अङ्गमर्दे महत्त्वे च वेपथौ वातकण्टके २३
शीतशोथामखल्वीषु पाणिपादाङ्गमारुते
आयामाक्षेपशूलादौ स्वेदः पथ्यतमो नृणाम् २४
जन्मप्रभृति बालानां स्वेदमष्टविधं भिषक्
प्रयुञ्जीत यथाकालं रोगदेहव्यपेक्षया २५
हस्तस्वेदः प्रदेहश्च नाडीप्रस्तरसंकराः
उपनाहोऽवगाहश्च परिषेकस्तथाऽष्टमः २६
जातस्य चतुरो मासान् हस्तस्वेदं प्रयोजयेत्
अप्रमादी निवातस्थो विधूमाग्न्यूष्मणा शनैः २७
निवर्तमाने बालस्य सौकुमार्ये यथाक्रमम्
प्रवर्तमाने काठिन्ये तेषां स्वेदं प्रवर्धयेत् २८
सन्ति चाप्यपरे बालाः सुकुमाराः सदासुखाः
घृतक्षीराशिनः कल्या ईश्वराणां महात्मनाम् २९
मध्यमा मध्यमानां च दरिद्राणां च दुःखिनाम्
निषेकदेशसात्म्ये च तान् विद्यात् पण्डितो भिषक् ३०
अविशेषेण बाधन्ते सर्वे सर्वान्नरान् गदाः
विशेषस्तु महान् दृष्टो दक्षिणाहारभेषजे ३१
देशकालवयोमात्रासर्वरुग्गुरुलाघवैः
स्वेदोऽतिरिक्तो हीनो वा हन्याद्बालं यथा विषम् ३२
तस्मादवेक्ष्य देशादीन् काठिन्यं सुकुमारताम्
शिशोः स्वेदं प्रयुञ्जीत यशोधन्यार्थसिद्धये ३३
गलकर्णशिरोमन्याकर्णाक्षिचिबुकोरसि
अभिष्यन्दात् समुच्छूने प्रदेहस्वेद इष्यते ३४
एरण्डवृषशिग्रूणां त्वक्पत्रैः कल्कसाधितैः
समूत्रबुक्कलवणैः प्रदेहः स्यात् सुखोष्मभिः ३५
शीतीभूतं तु निर्मृज्य लेपयेदपरापरम्
अनेकशस्तु विज्ञाय स्विन्नं स्वेदं निवर्तयेत् ३६
द्रव्यैर्वातकफघ्नैश्च प्रदेहः शिग्रुवद्धितः
अन्यैरपि करीषैश्च गोखराश्वाविबस्तजैः ३७
वंशमुञ्जनलाद्यैश्च यथायोगं यथासुखम्
नाडीस्वेदं प्रयुञ्जीत निवाते वस्त्रसंवृतम् ३८
उष्णान् पुलाकानास्तीर्य पायसं कृसरादि वा
वाससान्तरिते बालमभ्यक्तं शाययेत् सुखम् ३९
पञ्चाङ्गुलोरुवूकार्कपत्रैर्वा स्नेहितोष्णितैः
प्रस्तरस्वेदमित्याहुरभीक्ष्णपरिवर्तिनः ४०
पायसैः कृशरैर्मांसैरोदनैस्त्रिकठोरकैः
उष्णैः सलवणस्नेहैरम्बरास्तरितैः सुखैः ४१
किण्वातसीदधिक्षीरसंयुक्तैः पिण्डकैः कृतैः
स्थानस्वेदनमिच्छन्ति सङ्करस्वेद उच्यते ४२
किण्वातसीदधिक्षीरलवणैः साम्लचिक्कणैः
कुष्ठादिभिश्च सस्नेहैरुपनाहः प्रशस्यते ४३
खराजाविबिडालेनद्वीपिसिंहतरक्षुजैः ।
--- ४४

चतुर्विंशतितमोऽध्यायः
--- प्रोक्तं चिकित्सितम् ।
अतः पञ्चजनात् कञ्चित्संम्यक्शुद्धं प्रकाङ्क्षितम्
लघुं विशदसर्वाङ्गं प्रसन्नेन्द्रियमिच्छुकम्

सुखाम्बुसिक्तसर्वाङ्गमनुलिप्तं विभूषितम्
कृतपूजानमस्कारं मनोज्ञासनवेश्मगम्
पुराणरक्तशालीनां मण्डपूर्वां सुसाधिताम्
यवागूं त्रिःस्रुतामुष्णां दीपनीयोपसंस्कृताम्

भोजयेद्युक्तलवणां रूक्षां युक्ताशितो भवेत्
भोजनेषु सुहृद्येषु सुधौतेष्वपराह्णिके

शिरोललाटहृद्ग्रीवावृषणे साक्षशङ्खके
स्वेदश्चेत् पीतमण्डस्य सम्यक्शुद्धं तमादिशेत्

उद्गारवातकर्मभ्यां विशुद्धाभ्यां दिने दिने
निरुपद्रवपुष्टिभ्यां सम्यक्शुद्धं विनिर्दिशेत्

सुखोषितं जीर्णभक्तं द्वितीयेऽहनि भोजयेत्
यवागूं तु तृतीयेऽह्नि दद्यादस्मै विलेपिकाम्

दीपनोदकसंसिद्धां रूक्षामुष्णां ससैन्धवाम्
चतुर्थे मुद्गमण्डः स्यादोदनश्च सुसाधितः

पुराणरक्तशालीनां भृष्टानां वा कृशात्मनः
निस्तुषाणां च मुद्गानां मण्डः स्यादुक्तवेषणः
ईषत्फलाम्लः कर्तव्यो मुद्गमण्डोऽह्नि पञ्चमे
ईषत्स्नेहः कृतः षष्ठे सप्तमे च विधीयते

जाङ्गलानां रसं सिद्धं तनुकं मांसवर्जितम्
दिनेऽष्टमेऽथ नवमे दद्यात् स्नेहाल्पसंस्कृतम्

दशमैकादशे चाह्नि लवणस्नेहसंस्कृतः
फलाम्लसिद्धो युक्तोष्णः शस्यते रसकौदनः

उष्णोदकानुपानौ तु स्यातां वातकफात्मकौ
तत उत्तरकालं तु भोज्यसंसर्ग इष्यते

एषां मण्डादिसंसर्गो सर्वव्याधिक्रियोपगः
एनं व्यभिचरन्मोहाद्दारुणाँल्लभते गदान्

ज्वरामकामलापाण्डुकर्णकुष्ठगलामयाः
हिक्कातिसारश्वयथुकासाद्या व्यभिचारजाः

शूलातिसरौ शुद्धस्य शीतपानान्नसेवनात्
शोथोदरज्वरा अम्लभृशस्नेहदिवाशयात्

कांक्षा बुभुक्षा वैशद्यं लघुता स्थिरता सुखम्
स्वस्थवृत्तानुवृत्तिश्च सम्यग्जीर्णान्नलक्षणम्

विषादो गौरवं तन्द्री श्लेष्मसेकारतिभ्रमाः
स्वस्थवृत्तोपरोधश्च तदजीर्णस्य लक्षणम्

आमं विदग्धं सश्लेष्म रसशेषं तथैव च
चतुर्विधमजीर्णं तु तस्य वक्ष्यामि लक्षणम्

यथाभुक्तं भवेदामे धूमोद्गारौ विदाहिनि
सश्लेष्मणि गुरुत्वं तु रसशेषे तु हृद्द्रवः

तन्द्रीशूलारतिग्लानितृड्विदाहारुचिभ्रमाः
अङ्गमर्दज्वरानाहाः सर्वेष्वप्यल्पशो गदाः

सर्वैरसाध्यतोत्कृष्टैः क्रमशो याप्यसाध्यते
साध्यानां साधनं यत्तु तन्मे प्रवदतः शृणु
आमस्योद्धरणं पथ्यं विदग्धे प्रावृतः स्वपेत्
सश्लेष्मणि भवेत् स्वेदः परिशोष्यो रसाधिके

यदुक्तं पथ्यमशनं तदेवैतेषु शस्यते
दीर्घकालौषधानां तु मुद्गमण्डः सदाडिमः

सस्नेहलवणव्योषः पेयो मांसरसोऽपि वा
बालमूलकयूषो वा हितः शाल्योदनस्तथा

चिकित्सितं पञ्चजनान् राज्ञो राजोपमस्य वा
धनिनां निर्धनानां वा यथार्थमुपकल्पयेत्

बलघ्नं दोषशमनं बलवर्णसुखावहम्
सम्यक् संशोधनं कृत्वा दीर्घमायुरवाप्नुते

इति ह स्माह भगवान् कश्यपः
इत्युपकल्पनीयोऽध्यायश्चतुर्विंशतितमः २४

पञ्चविंशतितमोऽध्यायः
अथातो वेदनाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
उपास्यमानमृषिभिः कश्यपं वृद्धजीवकः
चोदितो दारुवाहेन वेदनार्थेऽभ्यचोदयत् ३
बालकानामवचसां विविधा देहवेदनाः
प्रादुर्भूताः कथं वैद्यो जानीयाल्लक्षणार्थतः ४
इति पृष्टो महाभागः कश्यपो लोकवृद्धपः
प्रोवाच वेदनास्तस्मै कारणैर्बालदेहजाः ५
भृशं शिरः स्पन्दयति निमीलयति चक्षुषी
अवकूजत्यरतिमानस्वप्नश्च शिरोरुजि ६
कर्णौ स्पृशति हस्ताभ्यां शिरो भ्रमयते भृशम्
अरत्यरोचकास्वप्नैर्जानीयात् कर्णवेदनाम् ७
लालास्रवणमत्यर्थं स्तनद्वेषारतिव्यथाः
पीतमुद्गिरति क्षीरं नासाश्वासी मुखामये ८
पीतमुद्गिरति स्तन्यं विष्टम्भिश्लेष्मसेवनम्
ईषज्ज्वरोऽरुचिर्ग्लानिः कण्ठवेदनयाऽर्दिते ९
लालास्रावोऽरुचिर्ग्लानिः कपोले श्वयथुर्व्यथा
मुखस्य विवृतत्वं च जानीयादधिजिह्विकाम् १०
ज्वरारुचिमुखस्रावा निष्टनेच्च गलग्रहे
कण्डूके श्वयथुः कण्ठे ज्वरारुचिशिरोरुजः ११
मुहुर्नमयतेऽङ्गानि जृम्भते कासते मुहुः
धात्रीमालीयतेऽकस्मात् स्तनं नात्यभिनन्दति १२
प्रस्रावोष्णत्ववैवर्ण्ये ललाटस्यातितप्तता
अरुचिः पादयोः शैत्यं ज्वरे स्युः पूर्ववेदनाः १३
देहवैवर्ण्यमरतिर्मुखग्लानिरनिद्रता
वातकर्मनिवृत्तिश्चेत्यतीसाराग्रवेदनाः १४
स्तनं व्युदस्यते रौति चोत्तानश्चावभज्यते
उदरस्तब्धता शैत्यं मुखस्वेदश्च शूलिनः १५
अनिमित्तमभीक्ष्णं यस्योद्गारः प्रवर्तते
निद्राजृम्भापरीतस्य छदिस्तस्योपजायते १६
निष्टनत्युरसाऽत्युष्णं श्वासस्तस्योपजायते
अकस्मान्मारुतोद्गारः कृशे हिक्का प्रवर्तते १७
स्तनं पिबति चात्यर्थं न च तृष्यति रोदिति
शुष्कौष्ठतालुस्तोयेप्सुर्दुर्बलस्तृष्णयाऽर्दितः १८
विशालस्तब्धनयनः पर्वभेदारतिक्लमी
संरुद्धमूत्रानिलविट् शिशुरानाहवेदनी १९
अकस्मादट्टहसनमपस्माराय कल्पते
प्रलापारतिवैचित्त्यैरुन्मादं चोपलक्षयेत् २०
रोमहर्षोऽङ्गहर्षश्च मूत्रकाले च वेदना
मूत्रकृच्छ्रे दशत्योष्ठौ बस्तिं स्पृशति पाणिना २१
गौरवं बद्धता जाड्यमकस्मान्मूत्रनिर्गमः
प्रमेहे मक्षिकाकान्तं मूत्रं श्वेतं घनं तथा २२
बद्धपक्वपुरीषत्वं सरक्तं वा कृशात्मनः
गुदनिष्पीडनं कण्डूं तोदं चार्शसि लक्षयेत् २३
सशर्करातिमूत्रत्वं मूत्रकाले च वेदना
प्रततं रोदिति क्षामस्तं ब्रूयादश्मरीगदम् २४
रक्तमण्डलकोत्पत्तिस्तृष्णा दाहो ज्वरोऽरतिः
स्वादुशीतोपशायित्वं विसर्पस्याग्रवेदनाः २५
दह्यन्तेऽङ्गानि सूच्यन्ते भज्यन्ते निष्टनत्यति
विसूचिकायां बालानां हृदि शूलं च वर्धते २६
शिरो न धारयति यो भिद्यते जृम्भते मुहुः
स्तनं पिबति नात्यर्थं ग्रथितं छर्दयत्यपि २७
विषादाध्मानारुचिभिर्विद्यादलसकं शिशोः
विसूचिकालसकयोर्दुर्ज्ञाने लक्षणौषधे २८
दृष्टिव्याकुलता तोदशोथशूलाश्ररक्तताः
सुप्तस्य चोपलिप्यन्ते चक्षुषी चक्षुरामये २९
घर्षत्यङ्गानि शयने रोदितीच्छति मर्दनम्
शुष्ककण्ड्वऽर्दितं विद्यात्ततश्चार्द्रा प्रवर्तते ३०
सुखायते मृद्यमानं मृद्यमानं च शूयते
शूनं स्रवति सस्योढा मार्द्रायां शूलदाहवत् ३१
स्तैमित्यमरुचिर्निद्रा गात्रपाण्डुकताऽरतिः
रमणाशनशय्यादीन् धात्रीं च द्वेष्टि नित्यशः ३२
अस्नातः स्नातरूपश्च स्नातश्चास्नातदर्शनः
आमस्यैतानि रूपाणि विद्याद्वैद्यो भविष्यतः ३३
नाभ्यां समन्ततः शोथः श्वेताक्षिनखवक्रता
पाण्डुरोगेऽग्निसादश्च श्वयथुश्चाक्षिकूटयोः ३४
पीतचक्षुर्नखमुखविण्मूत्रः कामलार्दितः
उभयत्र निरुत्साहो नष्टाग्निरुधिरस्पृहः ३५
मूर्च्छाप्रजागरच्छर्दिधात्रीद्वेषारतिभ्रमैः
वित्रासोद्वेगतृष्णाभिर्विद्याद्बाले मदात्ययम् ३६
मुहुर्मुखेनोच्छ्वसिति पीत्वा पीत्वा स्तनं तु यः
स्रवतो नासिके चास्य ललाटं चाभितप्यते ३७
स्रोतांस्यभीक्ष्णं स्पृशति पीनसे क्षौति कासते
उरोघाते तथैव स्यान्निष्टनत्युरसाऽधिकम् ३८
स्वस्थवृत्तपरो बालो न शेते तु यदा निशि
रक्तबिन्दुचिताङ्गश्च विद्यात्तं जन्तुकादितम् ३९
यदा तु ललिता धात्री सुखिनी सर्वभोगिनी
पश्यत्यभीक्ष्णं दुःस्वप्नं स्वयं क्षीरं प्रवर्तते ४०
बालो विस्मरते चास्याः सहसाङ्कात् पतत्यपि
असज्जनेन संसर्गं याति संभोजनं तथा ४१
मृतापत्यावकीर्णाभिः परवृद्ध्यसहिष्णुभिः
अमङ्गलानि घोराणि पश्यत्याचरतेऽपि च ४२
सेवते विपरीतानि मृत्युं चोदयते शिशोः
सुप्ते शिशौ निलीयन्ते पक्षिणो दारुणोदयाः ४३
विडालो लङ्घयत्येनं परधूमं च जिघ्रति
परावतारणबलिं प्रेक्षते लङ्घयत्यपि ४४
दुर्गन्धदेहवक्रत्वं नासिकाग्रे मलोद्भवः
अहृद्यरक्तमाल्यानां मातापुत्रनिषेवणम् ४५
भस्माङ्गारतुषादीनामधिरोहणसेवनम्
रोदित्यकस्मात्त्रसति छायाशीलविपर्ययः ४६
अल्पाशितोऽतिविण्मूत्रस्त्वविण्मूत्रो विपर्यये
भविष्यतां निमित्तानि ग्रहाणां वेदनाश्च ताः ४७
न यः शिरो धारयति क्षिपन्त्यङ्गानि दुर्बलः
श्वासाध्मानपरीताभ्यामन्तवच्चोपलक्ष्यते ४८
विनोद्यमानो बहुधा विनोदं नाभिनन्दति
तृट्प्रमीलकनिद्रार्तः कूजत्यपि कपोतवत् ४९
पीड्यमानस्य रूपाणि ज्वरच्छर्द्यतिसारिषु
वैद्यो दृष्ट्वैव जानीयात् कृच्छ्रं सर्वं न सिध्यति ५०
इत्येता विविधाः प्रोक्ता वेदना बालदेहजाः
प्रायोद्भवानां रोगाणां कश्यपेन महर्षिणा ५१
तेषां चिकित्सितं स्वं स्वमविरुद्धं यथाक्रमम्
दृष्ट्वा चिकित्सितस्थाने दोषतश्चाभ्युपक्रमेत् ५२
इति ह स्माह भगवान् कश्यपः
इति वेदनाध्यायः पञ्चविंशतितमः २५

षड्विंशतितमोऽध्यायः
अथातश्चिकित्सासंपदीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

चिकित्सासंपद्यथोपपद्यते तमुपायमनुव्याख्यास्यामः । चत्वारः खलु पादाश्चिकित्सितस्योपपद्यन्ते । ते यदा गुणवन्त उपपद्यन्ते तदा साध्यो व्याधिर्नातिवर्तते । तद्यथाभिषक् भेषजमातुरः परिचारक इति ३

तत्र भिषक् सुतीर्थो न्यायेनार्षज्ञानप्राप्तो विज्ञानवाननेकशो दृष्टकर्मा विदितसिद्धयोगो दक्षो दक्षिणः शुचिरनुद्धतवेषः सर्वभूतेषु बन्धुभूतः सिद्धिमान् धर्मार्थदर्शी सत्यदयादानार्जवनिरतो देवद्विजगुरुसिद्धानां पूजयिता चाभिगन्ता चोत्तरोत्तरप्रतिपत्तिकुशलो गुरुवृद्धसेवी न्यायाभिनिवेशी व्यपगतभयलोभमोहक्रोधानृतोऽपैशुन्योऽमद्यलौल्यः सुमु
खश्चाव्यसनी चेति ४

तत्र भेषजसंपत् -- सुभूमौ जातं काले चोद्धृतं काले चोत्पन्नम् अविकारि अग्नितोयजन्तुविण्मूत्रजरादिभिरनुपहतं तत्तद्रोगयोग्यं क्रमेण
विधिवदुपपादितमिति ५

तत्रातुरसंपत् -- साध्यरोगता सत्त्वबलबुद्धिशरीरेन्द्रियधृतितेजसां दार्ढ्यं निदानपूर्वरूपातङ्कोपद्रवयात्रोपशयानुपशयानां यथावदाख्यानं धात्र्या वा श्रद्दधानता देवद्विजगुरुभिषग्भेषजसुहृदामभि
नन्दनमास्तिक्यं विनयप्रधानता यथोक्तकारित्वं वशित्वं चेति ६

तत्र परिचारकसंपत् -- विपक्वकषायता आरोग्यं शक्तिः भर्तृभक्तिः उपचारज्ञता दाक्ष्यं शौचम् आशुकारित्वं सर्वकर्मसु कौशलम् अघृणित्वम् अक्षुद्रपुत्रत्वमद्वैविध्यं दमो जितक्रोधादिता सहिष्णुता
चेति ७

तत्र श्लोकाः
अस्य पादचतुष्कस्य मन्यन्ते श्रेष्ठमातुरम्
तदर्थं गुणवन्तो हि त्रयः पादा इहेप्सिताः ८
नेति प्रजापतिः प्राह भिषङ्मूलं चिकित्सितम्
भिषग्वशे त्रिवर्गो हि सिद्धिश्च भिषजि स्थिता ९
स युनक्ति प्रयुङ्क्ते च शास्ति च ज्ञानचक्षुषा
तस्माज्ज्ञाने सविज्ञाने युक्तः श्रेष्ठतमो भिषक् १०
यदा चतुर्णां पादानां संपद्भवति जीवक
तदा धर्मार्थयशसां वैद्यो भवति भाजनम् ११
इति ह स्माह भगवान् कश्यपः
इति चिकित्सासंपदीयोऽध्यायः षड्विंशतितमः २६

सप्तविंशतितमोऽध्यायः
अथातो रोगाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

एको रोगो रुजाकरणसामान्यादिति भार्गवः प्रमतिः द्वौ रोगौ निजश्चागन्तुश्चेति वार्योविदः त्रयो रोगाः साध्ययाप्यासाध्या इति काङ्कायनः चत्वारो रोगा आगन्तुवातपित्तकफजा इति कृष्णो भारद्वाजः पञ्च रोगा आगन्तुवातपित्तकफत्रिदोषजा इति दारुवाहो राजर्षिः षड्रोगाः षड्रसत्वादन्नपानस्येत्यृषिषद्भ्यः सप्त रोगा वाताद्येकैकद्वित्रिदोषजा इति हिरण्याक्षः अष्टौ रोगा वाताद्येकैकद्वित्रिदोषा
गन्तुनिमित्ता इति वैदेहो निमिः अपरिसङ्ख्येयाः समहीनाधिकदोषभेदादिति वृद्धजीवकः एवमनवस्थानमुपलभ्याह भगवान् क
श्यपो द्वावेव खलु रोगौ निजश्चागन्तुश्च तावनेकविस्तराविति ३

हेतुप्रकृत्यधिष्ठानविकल्पायतनार्थतः
ज्ञेया रोगा असङ्ख्येयाश्चिकित्सानां च विस्तरात् ४
अधिष्ठानद्वयं तेषां शरीरं मन एव च
मानसानां च रोगाणां कुर्याच्छारीरवत् क्रियाम् ५
धातुस्थूणात्मवैषम्यं तद्दुःखं व्याधिसंज्ञकम्
धातुस्थूणात्मसाम्यं तु तत्सुखं प्रकृतिश्च सा ६
अव्याहतशरीरायुरभिवर्धेत वा कथम्
इत्यर्थं भेषजं प्रोक्तं विकाराणां च शान्तये ७
निजागन्तुनिमित्ता च द्विविधा प्रकृती रुजाम्
नखदन्ताग्निपानीयवधबन्धाधिदेवताः ८
शापाभिचारादागन्तुर्निजा वातादिहेतवः
वातपित्तकफानां तु देहे स्थानानि मे शृणु ९
सर्वगानामपि सतां प्रायः स्थानं च कर्म च
अधोनाभ्यस्थिमज्जानौ वातस्थानं प्रचक्षते १०
पित्तस्यामाशयः स्वेदो रक्तं सह लसीकया
मेदः शिर उरो ग्रीवा सन्धिर्बाहुः कफाश्रयः ११
हृदयं तु विशेषेण श्लेष्मणः स्थानमुच्यते
आमपक्वाशयौ स्थानं विशेषात् पित्तवातयोः १२
आगन्तुर्बाधते पूर्वं पश्चाद्दोषान् प्रपद्यते
निजस्तु चीयते पूर्वं पश्चाद्वृद्धः प्रबाधते १३
तस्मादागन्तुरोगाणामिष्यते निजवत् क्रिया
निजानां पूर्वरूपाणि दृष्ट्वा संशोधनं हितम् १४
हृदि श्लेष्मानुपश्लिष्टमाश्यावं रक्तपीतकम्
तदोजो वर्धते जन्तुस्तद्वृद्धौ क्षीयते क्षये १५
मधुरस्निग्धशीतानि लघूनि च हितानि च
ओजसो वर्धनान्याहुस्तस्माद्बालांस्तथाऽऽशयेत् १६
वृद्धिर्वर्णबलौजोग्निमेधायुःसुखकारणम्
वातादिसाम्यं वैषम्यं विकारायोपकल्पते १७
तेषामपरिमेयानां विकाराणां स्वलक्षणैः
आविष्कृततमान् व्याधीन् यथास्थूलान् प्रचक्ष्महे १८
अशीतिर्वातिका रोगाश्चत्वारिंशत्तु पैत्तिकाः
विंशतिः कफजाः प्रोक्ता वातरोगान्निबोध मे १९
पादभ्रंशः पादशूलं नखभेदो विपादिका
पादसुप्तिर्वातखुडो वातगुल्फोऽनिलग्रहः २०
गृध्रसीपिण्डिकोद्वेष्टौ जानुविश्लेषभेदकौ
ऊरुस्तम्भोरुसादौ च पाङ्गुल्यं वातकण्टकः २१
गुदभ्रंशो गुदार्तिश्च वृषणाक्षेपकस्तथा
शेफःस्तम्भः श्रोणिभेदो वंक्षणानाहविड्गदौ २२
उदावर्तोऽथ कुब्जत्वं वामनत्वं त्रिकग्रहः
पृष्ठग्रहः पार्श्वशूलमुदरावेष्टहृद्द्रवौ २३
हृन्मोहो वक्षसस्तोदो वक्षोद्घर्षोपरोधकौ
ग्रीवास्तम्भो बाहुशोषः कण्ठोद्ध्वंसो हनुग्रहः २४
दन्तचालौष्टभेदौ च मूकत्वं वाग्ग्रहस्तथा
कषायास्यास्यशोषौ च घ्राणनाशो रशाज्ञता २५
बाधिर्यमुच्चैः श्रवणं कर्णशूलमशब्दता
वर्त्मसंकोचविष्टम्भौ तिमिरं शूलमक्षिषु २६
व्युदासो भ्रुव्युदासश्च शङ्खभेदः शिरोरुजा
स्फुटनं केशभूमेश्च दण्डकाक्षे पकोऽर्दितम् २७
एकाङ्गकः पक्षवधः श्रमभ्रमविजृम्भिकाः
प्रलापो वेपथुर्ग्लानी रौक्ष्यं निद्रापरिक्षयः २८
श्यावारुणावभासत्वमनवस्थानमेव च
हिक्काश्वासौ विषादश्च वन्ध्यात्वं षाण्ढ्यमेव च २९
प्रतिश्यायः शरण्यश्च प्राधान्येनानिलात्मकाः
तेष्वनुक्तेषु चान्येषु वायोः स्वं रूपमुच्यते ३०
शैत्य रौक्ष्यं लघुत्वं च गतिश्चेत्यथ कर्म च
विशदारुणपारुष्यसुप्तिसंकोचवैरसम् ३१
शूलतोदकषायत्वशौषिर्यखरकम्पनम्
सादहर्षौ कार्श्यवर्तव्यासस्रंसनभेदनम् ३२
उद्वेष्टदंशभङ्गाश्च शोषश्चानिलकर्म तत्
मधुराम्लोष्णलवणस्तत्रोपक्रम इष्यते ३३
ओषः प्लोषो भ्रमो दाहो वमथुर्धूमकाम्लकौ
अन्तर्दाहो ज्वरोऽत्यौष्ण्यमतिस्वेदोऽङ्गदाहकः ३४
त्वग्दाहः शोणितक्लेदो मांसक्लेदोऽङ्गशीर्यणम्
मांसपाकश्चर्मदलो रक्तविस्फोटमण्डले ३५
रक्तपित्तं च कोठाश्च कक्ष्या हारिद्रनीलके
कामला तिक्तवक्त्रत्वं रक्तगन्धास्यता तथा ३६
अतृप्तिः पूतिवक्त्रत्वं जीवादानं तमस्तृषा
मेढ्रपायुगलाक्ष्यास्यपाको हारिद्रमूत्रविट् ३७
इति प्रधानाः पित्तार्त्यः स्वं रूपं तस्य वक्ष्यते
लाघवं तैक्ष्ण्यमौष्ण्यं च वर्णाः शुक्लारुणादृते ३८
वैगन्ध्यं कटुकाम्लत्वमीषत्स्नेहश्च पित्तजाः
दाहोष्णपाकप्रस्वेदकण्डूकोठस्रवादिभिः ३९
विद्यात् पित्तविकारार्तं कर्मैतत् तदुपक्रमः
कषायतिक्तमधुरस्नेहस्रंसनशोषणाः ४०
स्तैमित्यं गुरुताऽङ्गस्य निद्रातन्द्रातितृप्तयः
मुखमाधुर्यसंस्रावकफोद्गारबलक्षयाः ४१
हृल्लासोऽथ मलाधिक्यं धमनीकण्ठलेपकौ ४२
आमं च गलगण्डश्च वह्निसाद उदर्दकः
श्वेतावभासताङ्गानां तथा मूत्रपुरीषयोः ४३
कफजानामसख्यानां प्रधनाः परिकीर्तिताः
स्नहशैत्यगुरुश्वेतमाधुर्यं कफलक्षणम् ४४
श्लक्ष्णता चामयोत्पत्तौ तस्य कर्माणि चक्षते
स्नेहादि चिरकारित्वं बन्धोपचयसुप्तयः ४५
विष्टम्भश्चेति तत्र ज्ञः कषायकटुतिक्तकैः
रूक्षोष्णैश्चाप्युपचरेन्मात्राकालौ विचारयन् ४६
स्नेहस्वेदोपचारौ च तेषु कर्माणि पञ्च च
वातघ्नानां तु सर्वेषामनुवासनमुत्तमम् ४७
पित्तघ्नानां विरेकश्च वमनं श्लेष्मघातिनाम्
येषां चिकित्सितस्थानमर्थे तु परिकीर्तितम् ४८
तांस्तु रोगान् प्रवक्ष्यामि न ह्यत्रैतत् समाप्यते
महागदोऽथ संन्यास ऊरुस्तम्भस्त एकशः ४९
ज्वरव्रणामगृध्रस्यः कामला वातशोणितम्
अर्शांस्यपि तथाऽऽयामो द्विविधा व्याधयस्तु ते ५०
वातासृक्श्वित्रशोथास्तु त्रिविधाः परिकीर्तिताः
ग्रहण्यक्षिविकाराश्च कर्णरोगा मुखामयाः ५१
अपस्माराः प्रतिश्यायः शोषाणां हेतवो मदाः
चतुर्विधास्ते निर्दिष्टा मूर्च्छा क्लैव्यानि चैव हि ५२
तृष्णाच्छर्दिश्वासकासगुल्मप्लीहारुचिव्यथाः
हिक्कोन्मादशिरोरोगा हृद्रोगाः पाण्डुसंज्ञकाः ५३
एते पञ्चविधाः प्रोक्ताः षड्विधानपि मे शृणु
उदावर्ता अतीसाराः सवैसर्पा अथामयाः ५४
मेहिनां पिडकाः कुष्ठं सप्त सप्तोपलक्षयेत्
शुक्रदोषाः पयोदोषा मूत्राघातोदराणि च ५५
अष्टावष्टौ वदन्त्येतान् ग्रहास्तु दश कीर्तिताः
योनिव्यापत्कृमिमेहान् विंशति विंशतिं विदुः ५६
एते समासतः प्रोक्ताश्चिकित्सास्थानहेतवः
पूर्वोद्भवनिमित्तेन योऽपरो जायते गदः ५७
तमुपद्रवमित्याहुरतीसारो यथा ज्वरे
चिकित्सितं तथोत्पत्तिं तेषामेके प्रचक्षते ५८
उपद्रवाणामित्येके पूर्वं नेत्याह कश्यपः
उभयत्रैव यद्युक्तं पानभोजनभेषजम् ५९
शान्तये तत् प्रयुञ्जीत न वर्धेते तथा ह्युभौ
यं वा तीव्रतरं पश्येद्व्याधिं विद्वान् स्वलक्षणैः ६०
तमेवोपक्रमेतादौ सिद्धिस्कामो भिषग्वरः
यो हेतुः पित्तरोगाणां रक्तजानां स एव तु ६१
शोणितं कुपितं जन्तुं क्लिश्नाति बहुभिर्मुखैः ६२
वैवर्ण्यसंतापशिरोक्षिरोगदौर्बल्यदौर्गन्ध्यतमः प्रवेशाः
वैसर्पविद्रध्युपजिह्वगुल्मरक्तप्रमेहप्रदरातिनिद्राः ६३
मन्दाग्निता स्रोतसां पूतिभावः
स्वरक्षयः स्वेदमदानिलासृक् ।
तृष्णाऽरुचिः कुष्ठविचर्चिकाश्च
कण्ड्वः सकोठाः पिडकाः सकण्डवः ६४
अन्ये च रोगा विविधा अनुक्ता
स्तेष्वादितः स्रंसनमेव पथ्यम् ।
वैसर्वपच्चात्र वदनति सिद्धं
रक्तावसेकं च विशोषणं च ६५
न त्वेव बालस्य विशोषणं हितं
नैवातिसंशोधनरक्तमोक्षणे ।
स्निग्धैः सुशीतैर्मधुरैरदाहिभिस्त
त्रोपचारोऽशनलेपसेचनैः ६६
इति ह स्माह भगवान् कश्यपः
इति रोगाध्यायः सप्तविंशतितमः २७

अष्टाविंशतितमोऽध्यायः
अथातो लक्षणाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
भगवँल्लक्षणैर्बाला आयुष्मन्तो भवन्ति कैः
सुखिनो दुःखिनः कैः कैर्वैद्यो विद्यादनायुषः ३
कति सत्त्वानि मर्त्यानां सत्त्वानां लक्षणं च किम्
प्रशस्तं निन्दितं देहे यद्यत्तत्तधिओच्यताम् ४
पञ्चावदानवचनं श्रुत्वा प्रोवाच कश्यपः
कृत्स्नं लक्षणविज्ञानं सत्त्वं निन्दितपूजितम् ५

इह खलु कुमाराणां वृद्धजीवक स्निग्धतनुश्लक्ष्णताम्रा नखा आधिपत्याय भवन्ति स्थूला आचार्याणां राजीमन्तश्च दीर्घाश्चायुष्मतां निम्नशुक्तितुषाकृतयो दरिद्राणां रूक्षा दुःखभागिनां पुष्पिता लुण्ठानां श्वेता मण्डला अनायुषां स्फुटिता अस्वतन्त्राणां विवर्णा व्यसनिनां समुन्नता निपिण्डान्ता अल्पाः सुखभागिनां विपुलैर्नखैर्मध्यत्वमाह स्थूलाः श्वेता विषमाश्च प्रव्राजयन्ति । पादैः पीनैः सुप्रतिष्ठितैरूर्ध्वलेखैरायुष्मन्तो धनवन्तोऽधिपतयः स्वस्तिकलाङ्गलकमलशङ्खचक्रहयगजरथप्रहरणमङ्गलाङ्कितै राजानः ताम्रैः स्निग्धैः सुभगाः उत्कुटकैर्मध्यधनायुषः श्वेतैरधनाः अलेखैः परकर्मकराः बहुलेखै रोगिणः सुवृत्तश्लक्ष्णपार्ष्णिभिः सर्वगुणोपपन्ना भवन्ति हीनपार्ष्णिभिरनायुषः प्रजाहीनाः चिपिटाः पारदारिकाः । अङ्गुलीनखपादैर्दीर्घैर्दीर्घायुषो ह्रस्वैर्ह्रस्वायुषः । अङ्गुलीभिर्घनाभिर्भाग्यवन्तो गूढपर्वाभिर्भोगिनः स्थूलपर्वाभिराचार्याः लोमशाभिरधनाः । खरपरुषतनुविषमस्फुटितमंलिना पाष्णिर प्रशस्ता । उत्तरपादमुन्नतमसिरमलोमकं प्रशस्यते विषमं विपरीत च तस्कराणाम् । गुल्फौ गूढावल्पावलोमसिरौ प्रशस्येते धननाशायोल्वणौ विपुलौ परिक्लेशाय । प्रजङ्घा तन्वी प्रशस्यते स्थूला पतिपुत्रद्रव्यसुखक्षयकरी स्तेनाय च । जङ्घे चानुद्बद्धे असिरे अलोमिके प्रशस्येते शुष्कस्थूलसिरालोमशे विपरीते वैधव्यकर्यौ तु नारीणाम् । जानुनी च गूढे धन्ये । ऊरू मांसोपचितौ गूढसिरौ श्लक्ष्णौ प्रशस्येते । स्फिचौ निर्वृत्तावलम्बौ निर्व्रणाबलोमशावविषमौ प्रशस्येते शुष्कावनपत्यानां लम्बौ प्रधाननाशाय महान्तौ पौंश्चल्याय अल्पकौ शीलवताम् । कुकुन्दरौ गम्भीरावलोमशौ प्रविभक्तौ समौ प्रशस्येते लोमशौ प्रव्रज्यायै प्रदक्षिणावर्तौ तु धन्यौ विपुलौ दीर्घायुषां श्लिष्टावनायुषाम् । जघनमुरसा तुल्यं प्रशस्यत इत्येके । कुमाराणामुरस्तु विशालतरं जघनं तु कुमारीणां न तु मध्याय कल्पते । वृषणौ प्रलम्बौ बृहतौ गौरस्य कृष्णौ कृष्णस्य गौरौ रक्तस्य श्यामौ श्यामस्य रक्तौ लोमशौ मध्यौ स्मृतौ पीनौ प्रशस्येते विपरीतौ दौर्भाग्यपुस्त्वप्रजाहानिकरौ स्वल्पावनायुषां दुःखाय चैके गोखरहयाजाविकाकृती तु सुभगानामायुष्मतां च विज्ञेयौ । प्रजननं मृदु दीर्घमुच्छ्रितं बृहत्ताम्रनिर्वृत्तमणि महाकोशं महास्रोतः प्रशस्यते तनु ह्रस्वं लम्बि विकोशं श्वेतश्यावविसृतं वामावृत्तमप्रशस्तम् । मूत्रमनाविद्धमतनुकमनल्पमृजुवेगं प्रशस्यते तद्विपरीतमतिगन्धि सवेदनमत्युष्णं विवर्णमनिमित्तकालमशब्दमप्रशस्तं कन्यकानां च स्फालितमूत्रत्वमुभयोर्वाऽनपत्यकरम् । योनिः शकटाकृतिरपत्यलाभाय पीना सौभाग्याय लम्बाऽपत्यवधाय मण्डला व्यभिचरणाय उत्क्षिप्ताऽनपत्यत्वाय सूचीमुखी दौर्भाग्याय भृशविवृतसंवृतशुष्का लम्बा विषमा विलिङ्गा क्लेशलाभाय मध्यनिबिडा कन्याप्रजननाय उन्नता रमणीया मांसला पुत्रजन्मने व्यञ्जनवती च धन्या अतिलोमशा वैधव्यकरी व्यञ्जनहीना त्वयशसे पिप्लुमद्वसावती व्यभिचारप्रव्रज्यायै । तथैव लोमराज्युभयतो मध्यमागता नातिघना प्रशस्यते वैधव्यायातिस्थूला अतिस्थूलघनलोमा पौंश्चल्याय अधोजाता दौर्भाग्याय नाभिमतिवृत्ता मध्यत्वाय । कुक्षी समुन्नतौ प्रशस्येते लोमशौ प्रव्रज्यायै सिरालौ कुभोजनाय निम्नौ दारिद्र्याय समौ मध्यत्वाय दक्षिणोन्नतौ पुत्रजन्मने वामोन्नतौ विपरीतौ । ईषदुन्नतमुदरमशिथिलमकठिनमविपुलं प्रशस्यते दारिद्र्याय शुष्कम् उन्नतं भोगाय विशालविषमं विषमशीलभोगाय कल्पते भृशशुष्कमनपत्यं स्त्रियाश्चाधस्तादुपचितमसिरमतिविपुलमवलिकमनायुषे मध्यं नाभेरुपरिष्टादनायुषे एकवलिकं धन्यं द्विवलिकं बुद्धिलाभाय त्रिवलिकं सौभाग्याय चतुर्वलिकं प्रजायुषे बहुवलिकमधन्यमनायुषे भवत्युदरम् । नाभिः गम्भीरा प्रदक्षिणा वृत्तोत्सङ्गिनी लोमसिरावर्तवर्जिता प्रशस्यते गर्ताकृतिरनुन्नता सुखदुःखकरी विषमेन्नताऽनायुष्या स्वल्पाकृतिरनपत्या विदेशस्था प्रव्राजयति बृहती गम्भीरोन्नताऽऽधिपत्याय । नाभ्या पायुर्व्याख्यातः । पार्श्वे वृत्ते मांसले स्निग्धे अलोमसिरे प्रशस्येते लोमसिरे प्रव्राजयेते । पृष्ठं सममुपरिविशालमसिरमलोमकमनावर्तकं प्रशस्यते मध्ये निम्नमायुष्मतां निर्भुग्नं दुःखभागिनां संक्षिप्तमनायुषां लोमशममैत्राणामल्पापत्यानां च । लोमस्कन्धो वणिग्भारजीवी कितवो रङ्गजीवी वा शुष्कांसो दरिद्रः तावुभौ दीर्घायुषौ कदाचित् प्रव्रजेतामपि स्निग्धांसः कर्षकः पीनांसः आढ्यः कठिनांसः शूरः शिथिलांसोऽसक्तः उन्नतांसः पुमान् प्रशस्यते भ्रष्टांसा कन्या विपरीते तद्गुणहानिः । कक्षावुन्नतौ पृथुलौ पीनौ सुव्यञ्जनौ प्रशस्येते विपरीतावधन्यौ भृशलोमशौ च नारीणाम् । तथा बाहू आनुपूर्व्योपचितौ गूढारत्नी दीर्घौ जानुस्पृशौ प्रशस्येते सिराततावायुष्मतां पक्ष्मवन्तौ प्रजावताम् असिरावप्रजानां तिर्यक्सिरौ कृच्छ्रजीविनां तिलवन्तौ । प्रव्राजयतः मशकलक्षणवन्तौ कलहाय । मणिबन्धने स्थूले पुंसः प्रशस्येते तनू स्त्रियः । उभयोरेव तिस्रो यवपङ्क्तयोऽच्छिन्नाः प्रशस्यन्ते प्रथमा धन्या द्वितीया मुख्या तृतीया प्रजायुषे सर्वाश्चेदविच्छिन्नाः स्निग्धा व्यक्तगम्भीरलिखिता आधिपत्याय चतस्रो राजर्षेः पञ्च षट् शतपुत्रस्य सप्त देवनिकायानामेकाऽपि
चेदविच्छिन्ना व्यक्ता सुखायोपपद्यते । --
स्त्रीणां चातिदीर्घाश्चातिह्रस्वाश्च निन्दिताः । केशभूमिः स्निग्धा लोहिता निर्मला निर्व्रणा च प्रशस्यते ॥ मत्तगजवृषभसिंहशार्दूलहंसगतयोऽधिपतयः स्तिमितगतयो धन्याः चपलगतयश्चपलसुखदुःखलाभिनः तिर्यग्गतयस्त्वधन्याः स्खलनाश्चाङ्गविस्फोटिनश्चाप्रशस्ताः । तथा अतिगौरमतिकृष्णमतिदीर्घमतिह्रस्वमतिकृशमतिस्थूलमतिलोमशमलोमशमतिमृद्व-तिकठिनं च शरीरेष्वप्रशस्तमुच्यते । तथा बालानां रुषितरुदितस्वप्नप्रजागरक्रोधहर्षविसर्गादा
नपङ्क्तिस्थैर्यगाम्भीर्याणि युक्तानि गुणाधिकानि प्रशस्यन्त इति ६

अत्र श्लोकाः --
यथा वक्त्रं तथा वृत्तं यथा चक्षुस्तथा मनः
यथा स्वरस्तथा सारो यथा रूपं तथा गुणाः

त्रिविधं सत्त्वमुद्दिष्ट कल्याणक्रोधमोहजम्
श्रेष्ठमध्याधमत्वं च तेषां प्रोक्तं यथाक्रमम्

अष्ट सप्त त्रिधा चैषां क्रमाद्भेदः प्रवक्ष्यते
सत्त्वानां सत्त्वविज्ञानं हितमौषधकल्पने

तपःसत्यदयाशौचदानशीलरतं समम्
ज्ञानविज्ञानसंपन्नं ब्राह्मं विद्याज्जितेन्द्रियम्

प्रजावन्तं क्रियावन्तं धर्मशीलं जगत्प्रियम्
अनीर्ष्यमशठं प्राज्ञः प्राजापत्यं वदेच्छुचिम्

शौचव्रतेज्याध्ययनब्रह्मचर्यदयापरम्
जितमानमदक्रोधं वक्तारं चाषमादिशेत्

त्रिवर्गनित्यं विद्वांसं शूरमक्लिष्टकारिणम्
प्राहुरैन्द्रं महाभागमधिष्ठातारमीश्वरम्

त्यक्तदम्भभयक्रोधं प्राप्तकारिणमीश्वरम्
समं मित्रे च शत्रौ च याम्यं विद्यात् सुनिश्चितम्

अशुचिविशुचिः शूरः शीघ्रक्रोधप्रसादवान्
पुण्यशीलो महाभागो वारुणो वरुणप्रियः

स्थानमानपरीचारधर्मकामार्थलोभिनम्
क्रोधप्रसादफलदं कौबेरं प्राहुरूजितम्
श्लोकाख्यानेतिहासज्ञं गन्धमाल्याम्बरप्रियम्
नृत्तगीतोपहासज्ञ गान्धर्वं सुभगं विदुः

ये चान्येऽपि शुभा भावाः शुद्धास्ते चापि सात्त्विकाः
एतत् कल्याणभूयिष्ठं शुद्धं सत्त्वमिहाष्टधा

आरोग्यं प्रशमो रूपं ज्ञानविज्ञानमार्यता
दीर्घमायुः सुखात्यक्तं सामान्यं शुद्धलक्षणम्

ईश्वरोऽसूयकश्चण्ड आत्मपूजोपधिप्रियः
सानुक्रोशभयो रौद्रो हन्ता शूरस्तथाऽऽसुरः

क्रूरच्छिद्रप्रहारी च रोषेर्ष्यामर्षसन्ततः
वैरमांसाशनायासः कलहार्थी च राक्षसः

शुचिद्विडशुचिः क्रूरोऽभीरुर्भीषयिताऽऽविलः
मद्यमांसप्रियः शङ्की पैशाचो बहुभोजनः

तीक्ष्णमायासबहुलं निद्रालुं बहुवैरिणम्
अक्रुद्धभीरुं स्त्रैणं च सार्पं नित्यौष्ठलेहिनम्

दानशय्यात्यलङ्कारपानभोजनमैथुनैः
नित्योपेतं प्रमुदितं याक्षं विद्यात् प्रभक्षणम्

अहङ्कृता महाहारा वैरिणो विकृताननाः
विरूपा विकृतात्मानो भूतसत्त्वा निशाप्रियाः

अमषिकुत्सिताहारवाग्द्यूनं नित्यशङ्कितम्
चलं दुर्मेधसं भीरुं शाकुनं विद्ध्यनोकसम्
इत्येतद्राजसं सत्त्वं सप्तधा क्रोधकारितम्
व्यामिश्रगुणदोषं च रज एवोपलक्षयेत्

आहारमैथुनपरं स्वप्नशीलममेधसम्
अथैवं पाशवं विद्यान्मृजाऽलङ्कारवर्जितम्

भीरुमप्रज्ञमाद्यूनं कामक्रोधवशं गतम्
हिंस्रमात्मपरं विद्यान्मात्स्यं सुप्रजसं शठम्

वधबन्धपरिक्लेशशीतवातातपक्षमम्
बुद्ध्यङ्गहीनमलसं वानस्पत्यं वदेदृजुम्

इत्येतत्त्रिविधं सत्त्वं तामसं मोहसंभवम्
यच्चामेध्यमकल्याणं सर्वं तच्चापि तामसम्

सत्त्वं प्रकाशकं विद्धि रजश्चापि प्रवर्तकम्
तमो नियामकं प्रोक्तमन्योन्यमिथुनप्रियम्

यदा यच्चाधिकं यस्य स देही तेन भावितः
शुभाशुभान्याचरति फलं भुङ्क्ते तथाविधम्

समानसत्त्वा बालानां तस्माद्धात्री प्रशस्यते
उद्वेगवित्रासकरी विपरीता न शस्यते

न जीवन्त्यथ जीवन्ति कृच्छ्रा धात्रीविपर्यये
समान त्त्वा बालानां पुष्टिरायुर्बलं सुखम्

त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः
ओजः सत्त्वं च सर्वं च तत्सारं तु निबोध मे
त्वग्रोगरहितो भोगी प्रसन्नव्यञ्जनच्छविः
सद्यःक्षतप्ररोहश्च त्वक्सारः सुतनूरुहः

रक्तसारोऽरुणाभासः ---
सूत्रस्थानस्यैतावानेव भाग उपलब्धः