इन्द्रियस्थानम्

पञ्चममिन्द्रियस्थानम् ओषधभेषजेन्द्रियाध्यायः
अथात ओषधभेषजीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
ओषधं भेषजं प्रोक्तं द्विप्रकारं चिकित्सितम्
तयोर्विशेषं वक्ष्यामि भेषजौषधयोर्द्वयोः ३
ओषधं द्रव्यसंयोगं ब्रुवते दीपनादिकम्
हुतव्रततपोदानं शान्तिकर्म च भेषजम् ४
उभयं तद्यदा जन्तोः कृतं न कुरुते गुणम्
क्षीणायुरिति संज्ञात्वा न चिकित्सेद्विचक्षणः ५
यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते
सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम् ६
कुक्षिः स्नातानुलिप्तस्य पूर्वं यस्य विशुष्यति
आर्द्रेषु सर्वगात्रेषु मासार्धं तस्य जीवितम् ७
स्वप्नाधिपानगो नाशो ज्योतिषां पतनानि च
अग्निदाहोपशान्तिश्च पतनं गृहवृक्षयोः ८
गुहाटवीप्रवेशश्च स्वप्नं स्वप्ने विगर्हितम्
कृष्णां दण्डधरां नग्नां मुण्डां लोहितलोचनाम् ९
स्वप्ने दृष्ट्वैव जानीयाद्यमदूतानुपस्थितान्
दीर्घकेशस्तननखीं विरागकुसुमाम्बराम् १०
स्वप्ने दृष्ट्वा स्त्रियं कृष्णां कालरात्रीं निवेदयेत्
गन्धान् पुष्पाणि वासांसि या रक्तानि निषेवते ११
यदा स्वप्ने शिशुर्वाऽपि तदा स्कन्दग्रहाद्भयम्
मयूरं कुक्कुटं बस्तं मेषं वा योऽधिरोहति १२
रक्तर्चितः सहैतैर्वा तत्रापि स्कन्दतो भयम्
घण्टां पताकां यः स्वप्ने विध्वस्तां भुवि पश्यति १३
शयनं शोणिताक्तं वा तत्रापि स्कन्दतो भयम्
रक्तपुष्पाम्बरधरा रक्तचनदनरूषिता १४
नृत्यते सह भूतैर्वा स्कन्दापस्मारतो भयम्
रक्तपद्मवनं प्राप्य धात्र्यात्मानं यदाऽर्चति १५
बालं वा पद्ममालाभिस्तदा स्कन्दपितुर्भयम्
रक्तपुष्पवनं धात्री स्वप्नेऽग्निं वा यदा विशेत् १६
दह्यते वाऽग्निना बालः पौण्डरीकाद्भयं तदा
समुद्रादिषु तोयेषु निमग्ने रेवतीभयम् १७
शुष्ककूपनदीदर्शं निहन्याच्छुष्करेवती
मांसादान् पक्षिणो दृष्ट्वा शकुन्या बध्यते शिशुः १८
अवडीनाभिदष्टस्तु सद्यो मरणमृच्छति
हरितालादिभी रङ्गैर्मण्डितः पीतकाम्बरः १९
मांसलोऽलङ्कृतः स्वप्ने तं हन्ति मुखमण्डिका
नक्षत्रग्रहचन्द्रार्कतारकाऽक्षिकनीनिकाः २०
दृष्ट्वा प्रपतिताः स्वप्ने पूतनाभ्यो भयं भवेत्
सर्वाण्येतानि रूपाणि नैगमेष्यां प्रपश्यति २१
कीटवृश्चिकसर्पैर्वा दष्टः स्याद्विषमृत्युःक
श्वभिर्दुष्टैः खरैर्वाऽपि दक्षिणां याति मुण्डितः २२
कृष्यते मृद्यते तैर्वा ज्वरस्यान्तस्तदुच्यते
प्रार्थितं कल्पितं दृष्टमनुभूतं श्रुतं च यत् २३
भावितः पश्यति स्वप्ने ह्रस्वं दीर्घं दिवा च यत्
अफलाः सर्व एवैते निदानोक्तास्तु दोषजाः २४
यथा तु फलवान् स्वप्नो वृद्धशीवक तच्छृणु
अदृष्टमश्रुतानुक्तमकल्पितमभाषितम् २५
कार्यमात्रं च यः स्वप्नो जीर्णान्ते फलवांस्तु सः
एतांश्चान्यांश्च दुःस्वप्नान् दृष्ट्वा रोगी विनश्यति २६
स्वस्थस्तु संशयं गत्वा धर्मशीलो विमुच्यते
यद्यदेव द्विजादीनां स्वप्ने शीतकृशात्मनाम् २७
मलिनाम्बरपुष्पाणां दर्शनं न प्रशस्यते
तेषामेव तु हृष्टानां शुद्धपुष्पाम्बरात्मनाम् २८
दर्शनं शस्यते स्वप्ने तैश्च संभाषणं शुभम्
प्रासादवृक्षशैलांश्च हस्तिगोवृषपूरुषान् २९
अधिरोहन्ति ये स्वप्ने तेषां स्वस्त्ययनं कृतम्
सूर्यसोमाग्निविप्राणां नृणां पुण्यकृतां गवाम् ३०
मत्स्यामिषस्य चाषस्य दर्शनं पुण्यमुच्यते
शुक्लपुष्पादर्शच्छत्रग्रहणं तोयलङ्घनम् ३१
स्वरक्तदर्शनं चैव सुरापानं च शस्यते
गवाश्वरथयानं च यानं पूर्वोत्तरेण च ३२
रोदनं पतितोत्थानं रिपूणां निग्रहस्तथा
पङ्ककूपगुहाभ्यश्च समुत्तारोऽध्वनस्तथा ३३
एवंविधानि चान्यानि सिद्धये मुनयोऽब्रुवन्
अदारुणत्वं रोगाणां वैद्यभैषज्यसंभवम् ३४
धृतिर्जन्मानुकूल्यं च सत्त्वं धर्मश्च भूतये
दृष्ट्वा स्वप्नान् दारुणान्वेतरान् वा
पूतः स्नातः सर्षपानग्निवर्णान्
हुत्वा सावित्र्या सर्पिषाक्तांस्तिलांश्च
पूतः पापैर्मुच्यते व्याधिभिश्च ३५
कौमारभृत्यमतिवर्धनमुक्तमेतज्ज्ञात्वा हि देहगतमिन्द्रियमादिरूपैः शश्चिकित्सितपरांस्तु विवर्जयध्वं शास्त्रं च धर्ममतयः परिपालयध्वम् ३६
इति ह स्माह भगवान् कश्यपः
इति वृद्धजीवकीये कौमारभृत्ये वास्त्यप्रतिसंस्कृते इन्द्रियस्थाने
औषधभेषजीयं नामेन्द्रियम्
समाप्तानि चेन्द्रियानि
इन्द्रियस्थानस्यायमन्तिमोऽध्याय एवोपलब्धः