वैतान सूत्र

वैतान सूत्र

अथ वितानस्य ब्रह्मा कर्मणि ब्रह्मवेदविद्दक्षिणतो विधिवदुपविशति वाग्यतः १ होमानादिष्टाननुमन्त्रयते २ मन्त्रानादेशे लिङ्गवतेति भागलिः । प्रजापते न त्वदेतान्यन्य इति युवा कौशिकः । यथादेवतमिति माठरः । ॐ भूर्भुवः स्वर्जनदो३मित्याचार्याः ३ प्रधानहोममन्त्रान्पुरस्ताद्धोमसंस्थितहोमेष्वावपन्त्येके ४ वाचयति यजमानं भृग्वङ्गिरोविदा संस्कृतम् ५ अग्निराहवनीयः ६ संचरवाग्यमौ ब्रह्मवद्यजमानस्य ७ देवता हविर्दक्षिणा यजुर्वेदात् ८ आग्नीध्रस्योत्तरत उपाचारः स्प्यसंमार्गपाणेस्तिष्ठतो दक्षिणामुखस्य ९ यथास्वरमस्तु श्रौ३षडिति प्रत्याश्रावणम् १० यजमानो ऽमावास्यायां पूर्वेद्युरुपवत्स्यद्भक्तमश्नात्यपराह्णे ११ आहवनीयगार्हपत्यदक्षिणाग्निषु ममाग्ने वर्च इति समिधो ऽन्वादधाति विभागम् १२ व्रतमुपैति व्रतेन त्वं व्रतपत इति । अनशनमित्यादि १३ ममाग्ने वर्च इति चतसृभिर्देवताः परिगृह्णाति । सिनीवालि पृथुष्टुक इति मन्त्रोक्ताम् १४ अन्वद्य न इति पौर्णमास्याम् १५ प्रातर्हुत्वाग्निहोत्रं कुहूं देवीं यत्ते देवा इत्यमावास्यायाम् । राकामहं पूर्णा पश्चादिति पौर्णमास्याम् १६ अथ ब्रह्माणं वृणीते भूपते भुवनपते भुवां पते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमह इति १७ वृतो जपत्यहं भूपतिरहं भुवनपतिरहं भुवां पतिरहं महतो भूतस्य पतिस्तदहं मनसे प्रब्रवीमि मनो वाचे वग्गायत्र्यै गायत्र्युष्णिह उष्णिगनुष्टुभेऽनुष्टुब्बृहत्यै बृहती पङ्क्तये पङ्क्तिस्त्रिष्टुभे त्रिष्टुब्जगत्यै जगती प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्य ॐ भूर्भुवः स्वर्जनदो३मिति । अप्रतिरथं च १८ जीवाभिराचम्येत्यादि प्रपदनान्तम् १९ उत्तरतो ऽग्नेर्दक्षिणतो ऽपराग्निभ्यां प्रपद्यासादं वीक्ष्याहे दौधषव्य इत्याद्या द्यावापृथिव्योः समीक्षणात् २० १

यत्र विजानाति ब्रह्मन्नपः प्रणेष्यामीति तत्र प्रणय यज्ञम् । देवता वर्धय त्वम् । नाकस्य पृष्ठे स्वर्गे लोके यजमानो अस्तु । सप्तऋषीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ भूर्भुवः स्वर्जनदॐ३ प्रणयेति यथास्वरमनुजानाति । एवं सर्वत्रानुज्ञापदमाद्यन्तयोः १ प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृत उद्वादनात् २ यदि वदेद्वैष्णवीं जपेत् ३ आग्नीध्रो ऽन्वाहार्याधिश्रयणाद्वेदिं परिसमुह्योत्करदेशे निदधाति । स्तम्बयजुषो द्वितीयपुरीषे प्रहृते ऽवस्तभ्नाति चाररो दिवं मा पप्त इति ४ बृहस्पते परिगृहाणेति वेदिं परिगृह्यमाणामनुमन्त्रयते ५ आशासाना सौमनसमिति पत्नीं संनह्यमानाम् ६ घृतं त अग्न इत्याज्ये निरुप्यमानेऽग्निं परिस्तृणीहीति वेदिं परिस्तृणन्तम् ७ यस्यां वृक्षा इति परिधीन्निधीयमानान् ८ ऋषीनां प्रस्तरो ऽसीति प्रस्तरम् ९ आसादितेषु हविःषूक्तान्पुरस्ताद्धोमाञ्जुहोति । अभिचारेष्वाभिचारिकान् । संस्थितहोमांश्च १० अग्नेर्मन्व इति सामिधेनीरनुमन्त्रयते ११ प्रजापते न त्वदेतान्यन्य इति प्राजापत्यमाधारम् १२ अग्नीत्परिधींश्चाग्निं च त्रिस्त्रिः संमृड्ढीति प्रेषित आग्नीध्रः स्प्यमग्निं च संमार्गमन्तरा कृत्वा परिधीन्मध्यमदक्षिणोत्तरान्त्रिस्त्रिः संमार्ज्याग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजजितं संमार्ज्याग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजजितं संमार्ज्मीति संमार्गेणार्वाञ्चमग्निमुपवाजयति वाजं त्वाग्ने जेष्यन्तं सनिष्यन्तं संमार्ज्मि वाजं जयेति १३ इन्द्रे ममित्यैन्द्र माघारम् १४ प्रवरे प्रव्रियमाणे वाचयेद्देवाः पितर इति तिस्रः १५ ग्रीष्मो हेमन्त इति प्रयाजान् १६ अहं जजानेत्याज्यभागौ १७ २

येनेन्द्रा येत्याग्नेयम् १ मा वनिं मा वाचमित्यैन्द्रा ग्नम् २ सांनाय्यस्यैन्द्रं माहेन्द्रं वेन्द्रे मं त्वमिन्द्र स्त्वं महेन्द्र इति ३ पौर्णमास्यामाग्नेयाग्नीषोमीयावन्तरोपांशुयाजमग्नीषोमीयमस्मै क्षत्रमिति । नामावास्यायामविधानात् ४ आ देवानामिति सौविष्टकृतम् ५ इष्टे स्विष्टकृति वाचं यच्छत्यानुयाजानां प्रसवात् ६ प्राशित्रं यवमात्रमधस्तादुपरिष्टाद्वाभिघारितमग्रेणाध्वर्युः परिहरति ७ तत्सूर्यस्य त्वा चक्षुषा प्रतीक्ष इति प्रतीक्षते ८ देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामीति प्रतिगृह्णाति ९ तद्व्युह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास्त्वा नाभौ सादयामीति १० अग्नेष्ट्वास्येनात्मास्यात्मन्नात्मानं मे मा हिंसीः स्वाहेत्यनामिकाङ्गुष्ठाभ्यां दन्तैरनुपस्पृशन्प्राश्नाति ११ प्राशितमनुमन्त्रयते योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टस्तस्मिन्म एतत्सुहुतमस्तु प्राशित्रं तन्मा मा हिंसीत्परमे व्योमन्निति १२ पात्राण्यद्भिर्मार्जयित्वा प्राणान्संस्पृशते १३ वाङ्म आसन्नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोर्बाह्वोर्बलमूर्वोरोजो जङ्घयोर्जवः पादयोः प्रतिष्ठा । अरिष्टानि मे सर्वाङ्गानि सन्तु तनूस्तन्वा मे सहेति नाभिम् १४ इडैवास्मानितीडामुपहूयमानामनुमन्त्रयते १५ आग्नीध्रः षडवत्तं प्राश्नाति पृथिव्यास्त्वा दात्रा प्राश्नाम्यन्तरिक्षस्य त्वा दिवस्त्वेति १६ उप त्वा देव इतीडाभागं प्रतिगृह्येन्द्र गीर्भिरिति प्राश्नन्ति १७ अपो दिव्या इति तिसृभिः पवित्रवति मार्जयन्ते १८ यजमानोऽन्वाहार्यमन्तर्वेद्याम् १९ प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वानक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्टा अमुत्रामुष्मिंल्लोक इह च प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानरूपे मे पाह्यूर्गस्यूर्जं मे धेहि कुर्वतो मे मा क्षेष्टा ददतो मे मोपदसः प्रजापतिमहं त्वया समक्षमृध्यासमित्यभिमन्त्र्यर्त्विग्भ्यो ददाति दक्षिणाम् २० प्रतिगृह्य क इदमित्युक्तम् २१ संप्रेषित आग्नीध्रः २२ ३

एधोऽसीति समिद्वत्या समिधमाधाय सकृत्सकृत्परिधीन्संमार्ष्ट्यग्ने वाजजिद्वाजं त्वा ससृवांसं वाजजितं संमार्ज्मीति १ अग्निं च प्राञ्चं वाजं त्वाग्ने जिगीवांसं ससन्वांसं संमार्ज्मि वाजमजैरिति २ मनो ज्योतिर्जुषतामाज्यमरिष्टं यज्ञं समिमं तनोतु बृहस्पतिः प्रतिगृह्णातु नो । विश्वे देवास इह मादयन्तामित्यनुयाजान् ३ ये देवा दिवि ष्ठेत्यनुवषट्कारम् ४ नुदस्व कामेति स्रुचौ विप्रणुद्यमाने अनुमन्त्रयते ५ सं बर्हिरक्तमिति प्रस्तरं प्रह्रियमाणम् ६ संस्रावभागा इति संस्रावम् ७ न घ्रंस्तताप सं वर्चसा देवानां पत्नीः सुगार्हपत्य इति पत्नीसंयाजान् ८ दक्षिणाग्निहोमान् । तृतीय उलूखले मुसल इति ७ आग्नीध्रः संमार्गमग्नौ प्रहरति यो अग्नाविति १० वि ते मुञ्चाम्यहं वि ष्यामि प्र त्वा मुञ्चामीति पत्नीं योक्त्रेण विमुच्यमानामनुमन्त्रयते ११ वेदः स्वस्तिरिति वेदं विचृतति १२ यानावह इति षड्भिः संस्थितहोमाञ्जुहोति १३ प्रणीता विमुच्यमानाः सस्रुषीरित्यनुमन्त्रयते १४ येषां प्रयाजा इति यजमानमाशास्ते १५ यदन्नमिति भागं प्राश्य देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्याह यजमानः १६ उदपात्रेऽञ्जलावासिक्ते सं वर्चसेति मुखं विमार्ष्टि १७ अन्तरेणापराग्नी दक्षिणेनाग्निं विष्णुक्रमादीक्षणान्तम् १८ अग्ने गृहपत इति गार्हपत्यमुपतिष्ठते १९ यस्योरुष्वित्याहवनीयमभिव्रज्य प्राणापानावोजोऽसीत्युक्तम् २० अयं नो अग्निरिति द्वाभ्यामुपस्थाय स यज्ञपतिराशिषेति भागं प्राश्नाति २१ व्रतानि व्रतपतय इति व्रतविसर्जनीमादधाति २२ एतस्माद्याजमा
नादृतेऽपि सिद्धिः । तदपि श्लोकौ वदतः
प्रवर्ग्यो याजमानानि पत्नीमन्त्राश्च तन्त्रयम
अङ्गं च यज्ञे भवत्यृते चैभ्योऽपि सिध्यति
प्रवर्ग्याच्छौर्यमाप्नोति यजमानेन चाशिषः
पत्नीमन्त्रैः प्रजामायुस्तस्मात्तेनैव सिध्यतीति २३
दर्शपूर्णमासौ त्रिंशतं वर्षाणि । पञ्चदश दाक्षायणयज्ञः २४ पौर्णमास्यां
पौर्णमासमपरेद्युश्च । एवममावास्यायाम् २५ संवत्सरं वा २६ साकंप्रस्थाय्यादीनि चैताभ्यामिष्टयो व्याख्याताः २७ ४
इत्यथर्ववेदे वैतानसूत्रे प्रथमोऽध्यायः समाप्तः


अथाग्न्याधेयम् १ वसन्ते ब्राह्मणास्य । ग्रीष्मे राजन्यस्य । वर्षासु वैश्यस्य । त्रीणि पर्वाणीत्युक्तम् २ यदैव कदाचिदादध्याच्छ्रद्धा न्वेवैनं नातीयात् ३ उक्तो ब्रह्मौदनः ४ ऋत्विज उपसादयति ५
अभिमन्त्रितं वादध्यात् ६
यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा
तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सह
जातवेदो भुवनस्य यद्रे त इह सिञ्च तपसो यज्जनिष्यते अग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूरिति
मन्त्रोक्ते अरणी गृह्णन्तमाधास्यमानं वाचयति ७ वाग्यता जाग्रतो
रात्रिमासतेऽपररात्रं वा ८ बृहस्पते सवितरिति स्वपतो बोधयेत् ७ उषसि शान्त्युदकं करोति चित्यादिभिराथर्वणीभिः कपुर्विपर्वारोदाकावृक्कावतीनाडानिर्दहन्तीभिराङ्गिरसीभिश्च । चातनैर्मातृनामभिर्वास्तोष्पत्यैरनुयोजितैः १० तेनाग्निपदमश्वं स्नापयन्नभ्युक्षञ्छमयत्यनुदित उदिते वाधास्यमानः ११ आकृतिलोष्टेत्याद्युपस्थानान्तम् १२ यत्त्वा क्रुद्धा इत्युपोद्धरन्त्याचार्या आहवनीयदक्षिणाग्न्योर्लक्षणान्तम् १३
पुरीष्योऽसि विश्वभरा अर्थवा त्वा प्रथमो निरमन्थदग्ने
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः
तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरंदरम्
तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयं रणेरण इति
मथ्यमानमनुमन्त्रयते १४ जातं सुजातं जातवेदसमिति १५ जातरूपेणान्तर्धाय । नासिक्येनोष्मणास्येन वा । मय्यग्र इत्येतयापानति ३६ अश्वपादं लक्षणे निधाप्यमानं समध्वरायेत्यनुमन्त्रयते १७ रथेनाग्नौ प्रणीयमानेऽश्वेऽन्वारब्धं वाचयति १८ १ ५

यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रा दुत वा पुरीषात्
श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन्
यदक्रन्दः सलिले जातो अर्वन्त्सहस्वान्वाजिन्बलवान्बलेन
तं त्वादधुर्ब्रह्मणे भागमग्रे अथर्वाणः सामवेदो यजूंषि
ऋग्भिः पूतं प्रजापतिरथर्वणेऽश्वं प्रथमं निनाय
तस्य पदे प्रथमं ज्योतिराददे स मा वहाति सुकृतां यत्र लोकः
अभितिष्ठ पृतन्यतो मह्यं प्रजामायुश्च वाजिन्धेहि
त्वया वधेयं द्विषतः सपत्नान्स्वर्गं मे लोकं यजमानाय धेहि
अभितिष्ठ पृतन्यतः सहस्व पृतनायतः
यथाहमभिभूः सर्वाणि तानि धूर्वतो जनानिति १
आहवनीयदक्षिणाग्नी गार्हपत्यात्सह प्रणीयमाणौ व्याकरोमीत्यनुमन्त्रयते २ आहितमाहवनीयमायं गौरित्युपतिष्ठते ३ दक्षिणाग्निर्निर्मथ्य आहार्यो वा ४ सभ्यावसथ्ययोराहवनीयाद्विहारः । सभ्याद्वावसथ्यस्य । सभ्यः सभायौ । आवसथ्य आवसथाय ५ अग्निपदमश्वं रथं चातुष्प्राश्यां हिरण्यं च ब्रह्मणे ददाति ६ अग्निं त्वाहुर्वैश्वानरं स दहन्प्रदहन्न्वगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तवेत्यश्वं शमयित्वा यदक्रन्द इत्युपाकुरुते ७ इन्द्र स्यौजो मरुतामनीकमिति रथमभिहुत्वा वनस्पते वीड्वङ्ग इत्यातिष्ठति ८ उपविश्य पूर्णहोममुप त्वा नमसेति ९ इदमुग्रायेत्यन्वक्तानक्षान्विदेवनायाध्वर्यवे प्रयच्छति १० आग्न्याधेयिकीष्विष्टिष्वग्नेः पवमानस्य पावकस्य शुचेरदितेरिति पवमानः पुनातु त्वेषस्तेऽग्नी रक्षांस्यदितिर्द्यौरिति ११ यजमानो द्वादशरात्रमुपवत्स्यद्भक्तमित्युक्तम् १२ ब्रह्मचारी व्रत्यधो ऽग्नीनुपशेते १३ २ ६

सायं प्रातरग्निहोत्रम् १ गवीडां दोहयित्वाग्निहोत्रमधिश्रयति २ अभिज्वाल्य समुद्वान्तमद्भिः प्रत्यानीयोदगुद्वासयति ३ अग्निपरिस्तरणं पर्युक्षणमृतं त्वेति ४ गार्हपत्यादाहवनीयमुदकधारां निनयत्यमृतमस्यमृतममृतेन संधेहीति ५ स्रुक्स्रुवं प्रक्षालितं प्रतपति निष्टप्नमिति ६ स्रुवेण स्रुचि ग्रहानुन्नयति ७ समिदत्तरां स्रुचं मुखसंमितामुद्गृह्याहवनीयमभिप्रक्रामतीदमहं यजमानं स्वर्गं लोकमुन्नयामीति ८ बर्हिषि निधाय समिधमादधात्यग्निज्योतिषं त्वा वायुमतीं प्राणवतीं स्वर्ग्यां स्वर्गायोपदधामि भास्वतीमिति ९ सूर्यज्योतिषमिति प्रातः प्रदीप्तामभिजुहोति १० सजूर्देवेन सवित्रा सजू रात्र्येन्द्र वत्या । जुषाणो अग्निर्वेतु स्वाहेति । सजूरुषसेति जुषाणः सूर्य इति प्रातः ११ अयं मा लोकोऽनुसंतनुतामिति गार्हपत्यमवेक्ष्य प्रजापते न त्वदेतान्यन्य इति मनसैव पूर्णतरामुत्तरां जुहोति १२ स्रुवं त्रिरुदञ्चमुन्नयति रुद्रा न्प्रीणामीति १३ बर्हिषि निधायोन्मृज्योत्तरतः पाणी निमार्ष्ट्योषधिवनस्पतीन्प्रीणामीति १४ द्वितीयमुन्मृज्यपित्रयुमवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां करोमीत्यपराग्न्योः काम्यम् १५ अग्निहोत्रं नित्यमित्याचार्याः १६ गार्हपत्ये समिधमाधाय स्थाल्याः स्रुवेण जुहोतीह पुष्टिं पुष्टिपतिर्दधात्विह प्रजां रमयतु प्रजापतिः । अग्नये गृहपतये रयिमते पुष्टिपतये स्वाहेति १७ उक्तोत्तरा १८ दक्षिणाग्नावग्नयेऽन्नादायान्नपतये स्वाहेति पूर्वा १९ सत्यं त्वर्तेनेति पर्युक्ष्य स्रुवं स्रुचं बर्हिश्चोत्तरेणाग्निं निदधाति २० स्रुक्शेषं प्राश्नाति २१ प्राणान्प्रीणामीत्युपस्पृश्य । गर्भानिति द्वितीयम् । विश्वान्देवानित्यन्ततः सर्वम् । अप्रक्षालितयोदकं स्रुचा निनयति सर्पेतरजनानिति । बर्हिषि प्रक्षाल्य सर्पपुण्यजनानिति द्वितीयम् । गन्धर्वाप्सरस इत्यपरेण तृतीयम् २२ सप्तर्षीनिति स्रुवं स्रुचं च प्रतितपति २३ दक्षिणान्नयामीति स्रुग्दण्डमवमार्ष्टि । प्रातरुन्मार्ष्टि २४ ब्राह्मणोक्तमग्न्युपस्थानम् २५ अथ गवीडादिभ्रेषे तस्यै तस्यै देवतायै जुहुयात् २६ ३ ७

त्रयोदश्यामाग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारिप्समानोऽग्नाविष्णू इति १ पूर्वं पौर्णमासमारभमाणः सरस्वत्यै च चरुं सरस्वते द्वादशकपालं सरस्वति व्रतेषु यस्य व्रतमिति २ आधानाद्वृद्धिश्चेदर्वाक्संवत्सराद्रो हिण्यामुत्सृज्याग्निहोत्रं पुनर्वस्वोः पुनरादधीतॐ भूर्भुवः स्वर्जनदोमिति ३ ओषधीषु पक्वास्वाग्रयणेष्टिः ४ इदावत्सरायेति पुरस्ताद्धोमसंस्थितहोमेष्वावपेत ५ अग्न इन्द्र इत्याग्नेन्द्र म् । ऐन्द्रा ग्नं चेदिन्द्रा ग्नी अस्मानिति ६ यद्विद्वांसो द्वावापृथिवी उपश्रुत्या सोमो वीरुधामिति वैश्वदेवद्यावापृथिवीयसौम्यान् ७ फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत ८ पूर्वेद्युर्वैश्वानरपार्जन्येष्टिर्वाग्ने वैश्वानराभि क्रन्द स्तनयेति ९ वैश्वदेवे निर्मथ्यं प्रहृतं भवतं नः समनसावित्यनुमन्त्रयते १० अग्नावग्निरिति होमम् ११ एवं निर्मन्थनम् १२ आग्नेयं सौम्यं सावित्रं सारस्वतं पौष्णं मारुतं वैश्वदेवं द्यावापृथिवीयमग्निर्वनस्पतीनां सोमो विरुधां सविता प्रसवानां सरस्वति व्रतेषु प्रपथे पथां मरुतः पर्वतानां विश्वे देवा मम द्यावापृथिवी दात्राणामिति १३ वाजिनस्यार्वाचीनं वसुविदमिति १४ तस्य प्राणभक्षान्भक्षयन्ति होत्रध्वर्युब्रह्माग्नीध्राः । प्रत्यक्षं यजमानः । मिथः समुपहूय १५ यन्मे रेतः प्रसिध्यति यद्वा मे अपगच्छति यद्वा जायते पुनस्तेन मा शिवमाविश ॥ तेन मा वाजिनं कृणु तेन सुप्रजसं कृणु तस्य ते वाजिपीतस्योपहूतो भक्षयामीति प्रकृतिः १६ आषाढ्यां वरुणप्रघासेष्वग्न्योः प्रणीयमानयोरग्ने प्रेहीति जपन्नेति १७ दक्षिणमग्निमुपविशति १८ पुरस्तादतिव्रज्योत्तरेऽग्नौ हुत्वा दक्षिणे जुहोति १९ अतिचारं पृष्टां पत्नीमिदमापः प्र वहतेति मार्जयन्ति २० पौष्णान्तान्पञ्च २१ ऐन्द्रा ग्नं वारुणं मारुतं कायं वरुणोऽपां य आत्मदा इति २२ अवभृथसोमादन्तरेण वेदी विष्णुक्रमाः २३ ४ ८

कार्त्तिक्यां साकमेधाः १ पूर्वेद्युरिष्ट्यामग्नेरनीकवतोऽचिक्रददिति । मध्यंदिने सांतपनानां मरुतां सांतपना इदमिति । सायं गृहमेधिनां तिग्ममनीकमिति २ आज्यभागादीडान्ता ३ श्वो भूते पूर्णदर्वं पूर्णा दर्श इति ४ क्रीडिनां मरुतां कृष्णं नियानमिति ५ माहेन्द्र् यां षडैन्द्रा ग्नान्तान् ६ महेन्द्रं वैश्वकर्मणं ये भक्षयन्त इति ७ पित्र्यायामाज्यभागान्तं दैवावृत्सोमाय पितृमते पितृभ्यः सोमवड्भो वा बर्हिषदः पितर उपहूता नः पितरोऽग्निष्वात्ताः पितरोऽग्नये कव्यवाहनायेति ८ पुरस्ताद्धोमान्दक्षिणाग्नेरतिप्रणीते जुहोति ९ दक्षिणेनाग्निमतिक्रम्य प्रत्यङुपविशति । उत्तरेण यजमान आग्नीध्रश्च १० अस्तु स्वधेति प्रत्याश्रावयति ११ तदपि श्लोकौ वदतः पित्र्यायां प्राङ्मुखो ब्रह्मा हुत्वा होमान्पुरोगमान् गत्वा तु दक्षिणेनाग्नेः प्रत्यङासीद कर्मणि ॥ आग्नीध्रो यजमानश्चोत्तरेण तु तावुभौ अस्तु स्वधेति कक्तव्यं प्रत्याश्रावणमत्र त्विति १२ इडामवजिघ्रति १३ परिषिक्ते दैवावृच्छंय्वन्ता १४ विमितान्निष्क्रामन्तो जपन्त्यया विष्ठेति १४ प्राञ्चोऽभ्युत्क्रम्योदस्य केतव इत्यादित्यमुपतिष्ठन्ते १६ दक्षिणाञ्चो दिवं पृथिवीमित्यग्नीन् १७ अथोदञ्चश्चतुष्पथे त्रैयम्बकं यो अग्नाविति यजमानार्यजनात् १८ सव्यहस्तपुरोडाशा दक्षिणानूरूनाघ्नानास्त्रिः प्रसव्यमग्निमनुपरियन्ति त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतादिति १९ दक्षिणहस्तपुरोडाशाः प्रदक्षिणम् २० मूतयोः प्रमुक्तयोर्यो नः स्व इति जपति २१ दक्षिणावृत आव्रजन्ति २२ अथादित्येष्टिः २३ फाल्गुन्यां शुनासीर्यम् २४ पुनःप्रयोगे पूर्वेद्युः २५ पौष्णान्तान्पञ्च २६ वायव्यं शुनासीर्यं सौर्यमेकया च शुनासीरेह सूर्यश्चक्षुषामिति २७ ५ ९

अथ पशौ वैष्णवं पूर्णहोममुरु विष्णो इति १ अरातीयोरिति यूपं वृश्च्यमानमनुमन्त्रयते २ यत्त्वा शिक्व इति प्रक्षाल्यमानम् ३ अञ्जते व्यञ्जत इत्यभ्यज्यमानम् ४ स्वाक्तं म इत्याज्यमानम् ५ यत्ते वास इति परिधाप्यमानम् ६ वनस्पते स्तीर्णमिति बर्हिष्यासाद्यमानम् ७ वनस्पतिः सह यस्यां सदैत्युच्छ्रीयमाणम् ८ धर्ता ध्रियस्वेति पादेनावटे निधीयमानम् ९ विष्णोः कर्माणीति द्वाभ्यामुच्छ्रितम् १० समिद्धो अद्येति प्रयाजान् ११ नाराशंसिनां देवो देवेष्विति द्वितीयम् १२ ऊर्ध्वा अस्येतीष्टकाः १३ पशावानयैतमित्याद्याञ्जनान्तम् १४ इन्द्रा य भागमिति यथादेवतम् १५ य ईश इति प्रमुच्यमानमनुमन्त्रयते १६ नीयमाने प्रमुच्यमानहोमाञ्जुहुयात् प्रमुच्यमानो भुवनस्य गोप पशुर्नो अत्र प्रति भागमेतु अग्निर्यज्ञं त्रिवृतं सप्ततन्तुं देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥ यौ ते दंष्ट्रौ रोपयिष्णू जिह्मायेते दक्षिणा सं च पश्यतः अनाष्ट्रं नः पितरस्तत्कृणोत यूपे बद्धं मुमुचिम यदन्नम् ॥ अह्रस्तस्त्वमभि जुष्टः परेहीन्द्र स्य गोष्ठमपि धाव विद्वान् धीरासस्त्वा कवयः संमृजन्त्विषमूर्जं यजमानाय दत्त्वेति १७ शाम्यमाने प्रदक्षिणमावर्तन्ते १८ वपाया जातवेदो वपयेति शंभुमयोभुभ्यां चात्वाले मर्जयन्ति १९ ऐन्द्रा ग्नं पुरोदाशमावदानिकं च २० संप्रेषित आग्नीध्रः शामित्रादौपयजानङ्गारान्होतुः पुरस्तान्निवपति २१ हृदयशूल उपमितेऽप्सु ते राजन्निति जपन्ति २२ ऐन्द्रा ग्नेनेष्ट्वा काम्यः पशुः २३ ६ १०
इत्यथर्ववेदे वैतानसूत्रे द्वितीयोऽध्यायः समाप्तः


सोमेन यक्ष्यमाण ऐन्द्रा ग्नमुस्रमालभेत यस्य पिता पितामहः सोमं न पिबेत् १ ऋत्विजो वृणीते । अथर्वाङ्गिरोविदं ब्रह्माणम् । सामविदमुद्गातारम् । ऋग्विदं होतारम् । यजुर्विदमध्वर्युम् २ ब्राह्मणाच्छंसी पोताग्नीध्र इति ब्रह्मणोऽनुचराः । सदस्यश्च । प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्युद्गातुः । मैत्रावरुणोऽच्छावाको ग्रावस्तुदिति होतुः । प्रतिप्रस्थाता नेष्टोन्नेतेत्यध्वर्योः ३ वसन्तादिषु यथावर्णं देवयजनमित्युक्तम् ४ यस्य श्वभ्र ऊषो वृक्षः पर्वतो नदी पन्था वा पुरस्तात्स्यान्न देवयजनमात्रं पुरस्तात्पर्यवशिष्येत् ५ सोमरूपाण्यनुध्यायेत् ६ दीक्षणीयायामाग्नावैष्णवम् ७ पत्नीसंयाजान्ता ८ दीक्षितोऽभ्यञ्जनमित्यभ्यज्यमानो जपति ९ पुनन्तु मेति पाव्यमानः १० सुत्रामाणमिति कृष्णाजिनमुपवेशितः ११ दीक्षितावेदनात्कामं चरन्ति १२ अस्तमिते वाग्विसर्जनादस्तंयते नम इति नमस्कृत्य नक्षत्राणां मा संकाशश्च प्रतीकाशश्चावतामिति नक्षत्राण्युपतिष्ठते १३ दक्षिणेनाग्निं कशिप्वेत्यादि वीक्षणान्तम् १४ पुनः प्राण इति मन्त्रोक्तान्यभिमन्त्रयते १५ आदित्यस्य मा संकाश उद्यते नम इत्यादित्यमुपतिष्ठते १६ व्रतानि १७ अप्रत्युत्थायिकोऽनभिवादुकः १८ न नाम गृह्णाति विचक्षणोत्तरं ब्राह्मणस्य चनसितोत्तरं प्राजापत्यस्य १९ न दानहोमपाकाध्ययनानि । न वसूनि २० कृष्णाजिनं वसीत २१ कुरीरं धारयेत् २२ मुष्टी कुर्यात् २३ अङ्गुष्ठप्रभृतयस्तिस्र उच्छ्रयेत् २४ मृगशृङ्गं गृह्णीयात्तेन कषेत २५ यस्य वाग्वायता स्यान्मुष्टी वा विसृष्टौ स एतानि जपेत २६ १ ११

अग्निहोत्रं च मा पौर्णमासश्च यज्ञः पुरस्तात्प्रत्यञ्चमुभौ कामप्रौ भूत्वा क्षित्या सहाविशताम् । वसतिश्च मामावास्यश्च यज्ञः पश्चात्प्राञ्चम् । मनश्च मा पितृयज्ञश्च यज्ञो दक्षिणत उदञ्चम् । वाक्च मेष्टिश्चोत्तरतो दक्षिणाञ्चम् । रेतश्च मान्नं चेत ऊर्ध्वम् । चक्षुश्च मा पशुबन्धश्च यज्ञोऽमुतोऽर्वाञ्चमिति १ दीक्षान्ते च वसुसंपत्तये २ नैनं बहिर्वेद्यभ्युदियान्नाभ्यस्तमियात् । नाधिष्ण्ये प्रतपेत् ३ सत्यं वदेत् ४ व्रतलोपे यदस्मृतीत्यग्निमुपतिष्ठते ५ सत्यं बृहदिति लोष्टमादाय शुद्धा न आप इति मूत्रपुरीषे क्षारयति । पवित्रेण पृथिवीति लोष्टेनात्मानमुत्पुनाति ६ य ऋते चिदिति शीर्णं दण्डाद्यभिमन्त्रयते । स्वप्नेषूक्तं दिवो नु मामिति च ७ यदत्रापि मधोरहं निरष्टविषमस्मृतम् । अग्निश्च तत्सविता च पुनर्मे जठरे धत्तामिति जाम्बीलस्कन्दन आत्मानमनुमन्त्रयते ८ यदत्रापि रसस्य मे परा पपातास्मृतम् । तदिहोपह्वयामहे तन्मा आप्यायतां पुनरिति रेतसः ९ परोऽपेहीत्यशस्तशंसने १० अश्मन्वतीत्यपां तरणे ११ अपः समुद्रा दित्यनाच्छादिताभिवर्षणे १२ अव ज्यामिवेति क्रोधे १३ ऋतुमतीं जायां सारूपवत्सं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिङ्कृत्य गर्भवेदनपुंसवनैः संपातवन्तं परामेव प्राशयेत् १४ २ १२

तिस्रो दीक्षा अपरिमिता वा । द्वादशाहीनस्य १ दोक्षान्ते प्रायणीयायां पथ्यायाः स्वस्तेरग्नेः सोमस्य सवितुरदितेः पथ्या रेवतीर्वेदः स्वस्तिरिति २ शंय्वन्ता ३ ध्रौवस्य पूर्णाहुतिम् ४ यस्योरुष्विति निष्क्रम्य सोमक्रयणीं प्रपाद्यमानां दिवं च रोहेत्यनुमन्त्रयते ५ पदाभिहोममिडायास्पदमिति ६ उपरवदेशे चर्मणि सोममभि त्यमिति हिरण्यपाणिर्विचिनोति ७ अयं सहस्रमित्यनुमन्त्रयते ८ क्रीते कुरीरं निर्मुष्णाति ९ उदायुषेत्युत्तिष्ठति १० प्रोह्यमाणेऽप्रतिरथं जपति ११ ध्रुवं ध्रुवेणेति राजानं राजवहनादासन्द्यां नीयमानमनुमन्त्रयते १२ दक्षिणेनाग्निमास्थापित आतिथ्यायां हविरभिमृशन्ति यज्ञेन यज्ञमिति १३ वैष्णवं विष्णोर्नु कमिति १४ इडान्ता १५ तानूनप्त्रपात्रे पञ्चकृत्वोऽवद्यत्याज्यमापतये त्वा गृह्णामि परिपतये त्वा तनूनप्त्रे त्वा शाक्वराय त्वा शक्मन ओजिष्ठाय त्वेति १६ तदभिमृशन्ति १७ अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तिः । अनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिः । अञ्जसा सत्यमुपगेषं स्विते मा धा इति दीक्षालिङ्गं दीक्षितो १८ अध्वर्युराग्नीध्रमाहाग्नीन्मदन्त्यापा३ इति १९ आग्नीध्रो मदन्ति देवीरमृता ऋतावृत इति २० अध्वर्युस्ताभिरुदेहीति २१ आग्नीध्रस्ताः कुशैरुदानयति २२ ता उपस्पृश्य सोममाप्याययन्ति
अंशुरंशुष्टे देव सोमाप्यायतामिन्द्रा यैकधनविदे आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्रा य प्यायस्व ॥ आप्याययास्मान्त्सखीन्त्सन्या मेधया प्रजया धनेन स्वस्ति ते देव सोम मुत्यामुदृचमशीयेति २३
पुनरुपस्पृश्योत्तानहस्ताः प्रस्तरे निहूवत एष्टा राय एष्टा वामानि प्रेषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति २४ प्रवर्ग्याय पुरस्ताद्धोमान्हुत्वा गार्हपत्यं दक्षिणेनोपविशति २५ न प्रथमयज्ञे प्रवर्ग्यं कुर्वीत । काममनूचानः श्रोत्रियः २६ अन्तर्धायाध्वर्युराह ब्रह्मन्घर्मेण प्रचरिष्याम इति २७ प्रचरत घर्ममित्यनुजानाति २८ उच्चैः सर्वमुपांशु वा २९ घर्मं ताप्यमानुमुपासीत ३० ३ १३

घर्मं तपाम्यमृतस्य धारया देवेभ्यो हव्यं परिदां सवित्रे
शुक्रं देवाः शृतमदन्तु हव्यमासञ्जुह्वानममृतस्य योनौ ॥
देवानामधिपा एति घर्म ऋतेन भ्राजन्नमृतं विचष्टे
हिरण्यवर्णो नभसो देव सूर्यो घर्मो भ्राजन्दिवो अन्तान्पर्येषि विद्युता
वैश्वानरः समुद्रं पर्येति शुक्रो घर्मो भ्राजन्तेजसा रोचमानः
नुदञ्छत्रून्प्रदहन्मे सपत्नानादित्यो द्यामध्यरुक्षाद्विपश्चित्
विद्योतते द्योतत आ च द्योतत अप्स्वन्तरमृतो घर्म उद्यन्
हन्ता वृत्रस्य हरितामनीकमनाधृष्टास्तन्वः सूर्यस्य
घर्मः पश्चादुत घर्मः पुरस्तादयोदंष्ट्राय द्विषतोऽपि दध्मः
वैश्वानरः शीतरूरे वसानः सपत्नान्मे द्विषतो हन्तु सर्वान्
ऋतूनृतुभिः श्रपयति ब्रह्मणैकवीरो घर्मः शुचानः समिधा समिद्धः
ब्रह्म त्वा तपति ब्रह्मणा तेजसा च घर्मः साहस्रः समिधा समिद्धः
सपत्नाः प्रदिशो मे भवन्तु
सपत्नान्सर्वान्मे सूर्यो हन्तु वैश्वानरो हरिः
घर्मस्तप्तः प्रदहतु भ्रातृव्यान्द्विषतो वृषा
उद्यन्मे शुक्र आदित्यो विमृधो हन्तु सूर्यः
ब्रह्म जज्ञानमियं पित्र्येति शस्त्रवदर्धर्चश आहावप्रतिगरवर्जम् १
रुचिरसीति रुचितमनुमन्त्रयते २ घर्मदुग्धोहायोत्तिष्ठत उत्तिष्ठताव पश्यतेति ३ उप हूय इति घर्मदुघाम् ४ घर्मसूक्तेन घर्मं हूयमानं स्वाहाकृत इति द्वाभ्याम् ५ घर्मस्य वषट्कृते ऽनुवषट्कृते भक्षो वाजिनवत् ६ शृतं हविर्मधु हविरश्वावते । घर्म मधुमतः पितृमतो वाजिमतो बृहस्पतिमतो विश्वदेव्यावत इति सन्त्रे होताध्वर्युर्गृहपतिर्ब्रह्मोद्गाता ७ अनुचरा गृहपतिश्चोच्छिष्टखरे पवित्रैर्मार्जयन्ते ८ सूयवसादिति त्रिरुक्तायां संस्थितहोमान् ९ ४ १४

उपसद्याग्नेयसौम्यवैष्णवान् १ वषट्कारान्ताप्यायनान्निहूवते २ यत्राहाध्वर्युरग्नीद्देवपत्नीर्व्याचक्ष्वेति तदपरेण गार्हपत्यं प्राङ्मुखस्तिष्ठन्ननवानन्नाग्नीध्रो देवपत्नीर्व्याचष्टे । पृथिव्यग्नेः पत्नी वाग्वातस्य पत्नी सेनेन्द्र स्य पत्नी धेना बृहस्पतेः पत्नी पथ्या पूष्णः पत्नी गायत्री वसूनां पत्नी त्रिष्टुब्रुद्रा णां पत्नी जगत्यादित्यानां पत्न्यनुष्टुभ्मित्रस्य पत्नी विराड्वरुणस्य पत्नी पङ्क्तिर्विष्णोः पत्नी दीक्षा सोमस्य राज्ञः पत्नीति ३ सुब्रह्मण्याह्वाने सर्वत्र यस्यां सद इति तिस्रो जपति ४ एवमपराह्णे घर्मोपसदौ । अपरेद्युः पूर्वाह्णेऽपराह्णे चौपवसथ्ये समासे ५ एवं तिस्रोऽग्निष्ठोमस्य । द्वादशाहीनस्य ६ वि मिमीष्वेति वेदिं मिम नमनुमन्त्रयते ७ यस्यां वेदिमिति वेदिं परिगृह्यमाणाम् ८ अग्नौ प्रणीयमानेऽग्ने प्रेहीति जपित्वा बहिर्वेद्युपविशति ९ दक्षिणहविर्धानस्य वर्त्माभिहोममिदं विष्णुरिति । उत्तरस्य त्रीणि पदेति १० हविर्धाने प्रवर्त्यमाने इतश्च मेति द्वाभ्यामनुमन्त्रयते ११ विष्णोर्नु कमित्युपस्तम्भनमुपस्तभ्यमानम् १२ मन्वे वां द्यावापृथिवी इत्यौदुम्बर्या अभिहोमम् १३ अग्नीषोमयोः प्रणयनायामन्त्रितस्तीर्थेन पत्नीशालमाव्रजति । चात्वालोत्करावन्तरेणाग्नीध्रीयलक्षणमुत्तरेण सदश्चेति तीर्थम् १४ आचमनादि वीक्षणान्तम् १५ सोमं राजानमित्यर्धर्चेनाग्नीषोमौ प्रणीयमानावनुव्रजति १६ आग्नीध्रीयहोमादाग्नीध्रीयमुत्तरेणाग्निमपरेणातिव्रज्यासाद उपविशति १७ अथाग्नीषोमीये पशावुक्ता धर्माः । एतेन पशवो व्याख्याताः १८ पत्नीसंयाजान्ताः १९ ५ १५

वसतीवरीः परिह्रियमाणाः पूर्णमध्वर्यो प्रभरेत्यनुमन्त्रयते १ आग्नीध्रीये स्थाप्यमाना उत्तरयामूर्या इति च २ दीक्षितस्तत्र वसति ३ अपररात्र ऋत्विजः प्रबोधिताः शालाद्वार्येऽप उपस्पृशन्ति ४ हविरुपावहृत इत्यादि वैश्वानरोऽग्निष्टोम इत्यन्ताभिर्यज्ञतनूभिः पुरा प्रचरितोराग्नीध्रीये जुहोति ५ यजूंषि यज्ञ इति च विष्पर्धायां चतुर्भिश्चतुर्भिः पुरस्तात्प्रातरनुवाकस्य ६ एनं दक्षिणेनाहवनीयमपरेणातिव्रज्यासाद उपविशति ७ उपविष्टे होतरि होतारं यदस्मृतीति हूत्वा पुरस्ताद्धोमाञ्जुहोति ८ पातं न इन्द्रा पूषणेति चत्वारि सूक्तानि प्रातरनुवाकमनुजपति ९ अम्बयो यन्तीति त्रीण्यपोनप्त्रीयम् १० इन्द्र जुषस्वेति राज्ञेऽभिषूयमाणेऽभिषवणहोमाञ्जुहोति । उपांशुग्रहहोमम् । सूर्यो द्यामित्युदितेऽंतर्यामीयं च ११ हविर्धाने पूर्वेणातीत्य खरे चोपविश्य दिवस्पृथिव्या इति मधुसूक्तेन राजानं संश्रयति १२ इन्द्रा य सोममृत्विज इति द्रो णकलशस्थमनुमन्त्रयते १३ धृषत्पिबेति माध्यंदिने १४ यत्र विजानाति
ब्रह्मन्त्सोमोऽस्कन्निति तमेतयालभ्याभिमन्त्रयते
अभूद्देवः सविता वन्द्यो नू न इदानीमहू उपवाच्यो नृभिः
वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्र विणं यथा दधदिति १५
ये अग्नयो अप्स्वन्तरिति सप्तभिरभिजुहोति १६ अध्वर्युः प्रतिप्रस्थाता
प्रस्तोतोद्गाता प्रतिहर्ता ब्रह्मा सुन्वन्समन्वारब्धा बहिष्पवमानाय विसृप्य वैप्रुषान्होमाञ्जुह्वति द्र प्सश्चस्कन्देति
यस्ते द्र प्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् अध्वर्योर्वा परि यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम्
द्र प्सः पातीतोऽत्यस्यवश्च यः परः स्रुचः
अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे
यस्ते द्र प्सः पतितः पृथिव्यां धानासोमः परीवापः करम्भः ।
अयं देवो बृहस्पतिः सं तं सिञ्चतु वर्चसे
यन्मे स्कन्नमिति १७ ६ १६

चात्वालाद्दक्षिणत उपविशन्ति १ दोषो गायेति जपन्नुद्गातारमीक्षते २ स्तोत्रोपाकरणात्प्रस्तोता ब्रह्माणमामन्त्रयते ब्रह्मन्स्तोष्यामः प्रशास्तरिति ३ तत्र रश्मिरसि क्षयाय त्वा क्षयं जिन्व । सवितृप्रसूता बृहस्पतये स्तुत । देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज । आयुष्मत्या ऋचो मापगाया तनूपात्साम्नः । सत्या व आशिषः सन्तु सत्या आकूतयः । ऋतं च सत्यं च वदत । बृहस्पतेऽनुमत्यॐ भूर्जनदिन्द्र वन्त इत्युक्त्वा स्तुतेति प्रथमया स्वरमात्रया प्रसौति । मध्यमया माध्यंदिने । उत्तमया तृतीयसवने ४ भुव इति माध्यंदिने । स्वरिति तृतीयसवने ५ उक्थ्यादिष्वहीने चॐ भूर्भुवः स्वर्जनद्वृधत्करदुहन्महत्तच्छमोमिति च ६ विष्पर्धमानयोः सवृतसोमयोः स्तोमभागानामुपर्युपरि स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे । बृहस्पतिं वः प्रजापतिं वो वसून्वो टेवान् रुद्रा न्वो देवानादित्यान्वो देवान्साध्यान्वो देवानाप्न्यान्वो देवान्विश्वान्वो देवान्सर्वान्वो देवान्विश्वतस्परि हवामहे । जनेभ्योऽस्माकमस्तु केवल इतः कृणोतु वीर्यमिति जपन्परेषां ब्रह्माणमवेक्षेत ७ स्तुतस्य स्तुतमस्यूर्जस्वत्पयस्वत् । ऊर्जं मह्यं स्तुतं दुहामा मा स्तुतस्य स्तुतं गमेत् । इन्द्रि यावन्तो हवामहे धुक्षीमहि प्रजामिषम् । सा मे सत्याशीर्देवेष्वस्तु । ब्रह्मवर्चसं मा गमयेदिति स्तोत्रमनुमन्त्रयते ८ इन्द्र स्य कुक्षिरित्यासिक्ते मोमे पूतभृतम् ९ स्तुते बहिष्पवमाने वाचयति श्येनोऽसीति । वृषासीति माध्यंदिने । ऋभुरसीत्यार्भवे १० ब्राह्मणोक्तानित्यनुब्राह्मणिनः ११ अथाध्वर्युराहाग्नीदग्नीन्विहर बर्हि स्तृणीहि परोडाशानलंकुर्विति १२ ७ १७

आग्नीध्र आग्नीध्रीयादङ्गारैर्द्वे सवने विहरति । शलाकाभिस्तृतीयसवनम् । प्रत्यङ्मुखो होतृमैत्रावरुणब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानां धिष्ण्येषु मार्जालीये १ तत्रैव प्रत्यानयति २ अनु पृष्ट्यामास्तीर्य पुरोडाशानलंकुरुते ३ ये अग्नयो विहृता धिष्ण्याः पृथिवीमनु । ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्ते नो मा हिंसिषुरिति विहृताननुमन्त्रयते । उत्तरयोः सवनयोः पुनर्मैत्विन्द्रि यमिति । आहवनीयमपरेणेत्युक्तम् ४ प्रवृताः प्रवृताहुतीर्जुह्वति जुष्टो वाचे भुयासं जुष्टो वाचस्पतये देवि वाग्यद्वाचो मधुमत्तमं तस्मिन्मा धाः स्वाहा । वाचे स्वाहा वाचस्पतये स्वाहा सरस्वत्यै स्वाहेति । मनसा चतुर्थीम् ५ सप्ताहुतीरित्येके सरस्वते स्वाहा महोभ्यः संमहोभ्यः स्वाहा । ऋचा स्तोममिति ६ वपामार्जनान्त उपोत्थाय दिवस्पृष्ठ इत्यादित्यमुपतिष्ठन्ते ७ मा प्र गामेत्याव्रज्याहवनीयं निर्मथ्यं यूपमादित्यमग्नयः सगरा स्थ सगरेण नाम्ना रौद्रे णानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वोऽस्तु मा मा हिंसिष्टेति ८ आग्नीध्रीयमुत्तरेण सदोऽभिव्रजन्ति ९ धिष्ण्यवन्तो यजमानश्च पूर्वया द्वारा प्रसर्पन्ति । अपरेऽपरया १० सदः प्रसृप्स्यन्तो धिष्ण्यान्नमस्कुर्वन्ति धिष्ण्येभ्यो नमो नम इति ११ द्र ष्ट्रे नम इति द्र ष्टारं प्रसर्पन्तः । उपश्रोत्रे नम इत्युपश्रोतारम् १२ चात्वालोत्करशामित्रोवध्यगोहास्तावाग्नीध्रीयाच्छावाकवादं मार्जालीयं खरं धिष्ण्यानन्यांश्चोपतिष्ठन्तेऽग्नयः सगरा स्थेति १३ उर्वन्तरिक्षं वीहीति सदोऽभिमृशन्ति । देवीर्द्वारो मा मा संताप्तं लोकं मे लोककृतौ कृणुतमिति द्वार्ये १४ प्रसृप्यानुख्यात्रे नम इत्यनुख्यातारम् । उत्तरेण धिष्ण्यान्परिक्रम्य स्वं स्वं धिष्ण्यमभिप्रसृप्ता उपद्र ष्ट्रे नम इत्युपद्र ष्टारम् १५ उपविश्य जपन्त्यभि त्वेन्द्रे ति स्तोत्रम् १६ यजमानः सदस्यो ब्रह्माणं दक्षिणेन स्तोत्रानुमन्त्रणाज्जनदिति मनसा १७ विसंस्थिते यथाधिष्ण्यमुत्तरेण पूर्वया द्वारा निष्क्रामन्ति । मैत्रावरुणधिष्ण्यमधिष्ण्यवन्तः १८ ८ १८

सवनीयपुरोडाशानामैन्द्रा न् १ द्विदेवत्यानामैन्द्र वायवस्य होमौ वायुरन्तरिक्षस्येन्द्र वायू इति २ मैत्रावरुणस्य मित्रावरुणौ वृष्ट्या इति ३ आश्विनस्याश्विना ब्रह्मणेत्यर्धर्चेन ४ प्रस्थितैश्चरिष्यन्नध्वर्युः संप्रेष्यति होतर्यज प्रशास्तर्ब्राह्मणाच्छंसिन्पोतर्नेष्टरग्नीदिति ५ इन्द्र त्वा वृषभं वयमिति ब्राह्मणाच्छंसी यजति । उत्तराभ्यां पोत्राग्नीध्रौ ६ याज्यानामन्तः प्लवते ७ ये३ यजामहे वौ३षडित्याद्यन्तावादिप्लुतावनवानम् ८ प्रातःसवने वषट्कृत्य वागोजः सह ओजो मयि प्राणापानावित्यनुमन्त्रयते ९ सोमस्याग्ने वीहीत्यन्तप्लुतेनानुवषट्कुर्वन्ति १० शुक्रमन्थिचमसहोमानैन्द्रा निन्द्रो दिव इति ११ अनुवषट्काराणामा देवानामित्यनुहोमांश्च मैत्रावरुणमैन्द्रं मारुतं त्वाष्ट्रमाग्नेयम् १२ अग्नीधेष्टेऽध्वर्युराहायाडग्नीदिति । अयाडित्यग्नीत् १३ पूर्ववदिडाभक्षः १४ सदसि सोमान्भक्षयन्त्युपहूताः प्राशित्रवत् १५ प्रतीक्ष्य प्रतिगृह्याग्निहुतस्येन्द्र पीथस्येन्दोरिन्द्रि यावतः । यो भक्षो गोसनिरश्वसनिर्धनसनिः प्रजासनिर्लोकसनिः । तस्य त उपहूतस्योपहूतो भक्षयामि गायत्रेण छन्दसा तेजसा ब्राह्मणवर्चसेनेति १६ त्रैष्टुभेनेति माध्यांदिने । जागतेनेति तृतीयसवने । अनुष्टुप्छन्दसेति पर्यायेषु । पङ्क्तिच्छन्दसेति संधिचमसेषु । अतिच्छन्दसेत्यप्तोर्याम्णि १७ भक्षित आत्मानं प्रत्यभिमृशन्ति
शं नो भव हृद आ पीत इन्द्रो पितेव सोम सूनवे सुशेवः
सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः
हिन्वा मे गात्रा हरिवो गणान्मे मा व्यरीरिषः
शिवो मे सप्तर्षीनुपतिष्ठ मामेवा ग्नाभिरभिगा इति १८
चमसानाप्याययन्त्या प्यायस्व सं ते पयांसीति १९ तत्र श्लोकः
पञ्चैव कृत्वश्चमसान्यज्ञ आप्याययेत्कविः
आज्ये मरुत्वतीये च प्रस्थिताश्चापि सर्वश इति २० अच्छावाकचमसहोममैन्द्रा ग्नम् २१ यद्यश्नन्त्याग्नीध्रीये २२ सदस्युपविष्टा यथाप्रैषमृतून्यजन्ति मरुतः पोत्रादिति २३ ९ १९

प्रथमोत्तमाभ्यां पोता । द्वितीययाग्नीध्रः । तृतीयया ब्राह्मणाच्छंसी १ यजमानोऽतिप्रेष्यति होतरेतद्यजेति २ नानुवषट्कुर्वन्ति ३ तत्र श्लोकः द्विदेवत्यानृतुयाजान्यश्च पात्नीवतो ग्रहः आदित्यग्रहसावित्रावेते नानुवषट्कृता इति ४ ऋतुहोमानैन्द्रं मारुतं त्वाष्ट्रमाग्नेयमैन्द्रं मैत्रावरुणं चतुरो द्रा विणोदसानाश्विनं गार्हपत्यम् ५ ऋतुपात्रे भक्षयन्ति लिम्पन्ति वावजिघ्रन्ति वा कोऽसि यशोऽसि यशोदा असि यशो मयि धेहीति ६ नाराशंसांस्तूष्णीं प्रतिगृह्य भक्षयन्ति नराशंसपीतस्य देव सोम ते नृभिःष्टुतस्य मतिविदः । ऊमैः पितृभिर्भक्षितस्योपहूतस्योपह्वतो भक्षयामीति ७ ऊर्वैरिति माध्यंदिने । काव्यैरिति तृतीयसवने ८ मनो न्वा हुवामहीति मन उपाह्वयन्ते ९ पञ्चकृत्वो नाराशंसान्भक्षयन्ति १० तत्र श्लोकः पञ्चैव कृत्वश्चमसान्नाराशंसेषु भक्षयेत् होतुः पूर्वेषु शस्त्रेषु यानि प्रागाग्निमारुतादिति ११ आज्यशस्त्रादैन्द्रा ग्नम् १२ होत्रे प्रउगस्तोत्राय प्रसौति प्रेतिरसि धर्मणे त्वा धर्मं जिन्व । मैत्रावरुणायान्वितिरसि दिवे त्वा दिवं जिन्व । ब्राह्मणाच्छंसिने संधिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व । अच्छावाकाय प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्वेति १३ प्रउगशस्त्राद्वैश्वदेवम् । मैत्रावरुणस्य मैत्रावरुणम् । ब्राह्मणाच्छंसिन ऐन्द्र म् । अच्छावाकस्यैन्द्रा ग्नम् १४ ब्राह्मणाच्छंस्युत्तमात्प्रतीहारात्त्रिर्हिङ्कृत्य शंसावोमित्यध्वर्युमाह्वयते १५ हिङ्कारमनुरूपायोक्थमुखाय परिधानीयायै प्रगाथाय च १६ माध्यंदिनेऽयोनय एके १७ अध्वर्यो शंसावोमिति स्तोत्रियाय अध्वर्यो शंशंसावोमिति तृतीयसवने १८ आहावेषु शंसावो दैवेत्यध्वर्युः प्रतिगृणाति १९ ओथामो दैवेत्यवसाने । ओमोथामो दैवेति प्रणवे । ओमिति शस्त्रान्त उक्थसंपत्सु २० ओमुक्थशा यजोक्थशा इति साम्ना शस्त्रमुपसंतनोत्यर्धर्चशो मन्द्र या वाचा । बलीयस्या माध्यंदिने । बलिष्ठतमया तृतीयसवने । उत्तरिण्योत्तरिण्योत्सहेदा समापनात् २१ १० २०

आ याहि सुषुमा हि त आ नो याहि सुतावत इति स्तोत्रियानुरूपौ १ अयमु त्वा विचर्षण इत्युक्थमुखम् । उद्घेदभि श्रुतामघमिति पर्यासः । उत्तमा परिधानीया २ त्रिष्प्रथमां त्रिरुत्तमामन्वाह ३ अर्धर्चशस्य ऋगन्तं प्रणवेनोपसंतनोति स्वरादिमपनीय । पच्छःशस्येऽर्धर्चान्तं शस्त्रान्तं मकारान्तेनैव ४ शस्त्रोक्थं वाचीत्याह । उक्थं वाचीन्द्रा येति माध्यंदिने । उक्थं वाचीन्द्रा य देवेभ्य इति तृतीयसवने ५ उक्थ्यसंपदः परिधानीयोत्तरा याज्या ६ अच्छावाकभक्षादग्निः प्रातःसवने श्येनोऽसि यथा सोमः प्रातःसवन इति यथासवनमाज्यं जुहोति ७ संस्थितहोमान् ८ संस्थितेसंस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वमिति ९ प्रेषिता माध्यंदिनायौदुम्बरीमभ्यपरया द्वारा निष्क्रम्याग्नीध्रीयात्सर्पन्ति । यजमानः पूर्वया १० पुरस्ताद्धोमान् ११ उक्तमभिषवादि १२ पवमानाय सदः प्रसर्पन्ति १३ आमन्त्रितः प्रसौति विष्टम्भोऽसि वृष्ट्यै त्वा वृष्टिं जिन्वेति १४ विहरणे धिष्ण्यवान्बहिश्चेद्धिष्ण्यमभ्येत्य परि त्वाग्न इति जपति १५ ब्रह्मा च १६ दीक्षितो बहिर्वेद्यभ्याश्रावणेऽस्तमयेऽभ्युदये वाग्नय उपाह्वयध्वमिति १७ श्रातं मन्य इति दधिघर्महोमम् १८ घर्मवद्भक्षः १९ रसप्राशन्या पशुपुरोडाशस्य २० एवा पाहीति प्रस्थितयाज्या २१ प्रस्थितहोमानैन्द्रा न् २२ गार्हपत्ये दाक्षिणहोमावुदु त्यं चित्रं देवानामिति २३ हिरण्यहस्तो यजमानो बहिर्वेदि दक्षिणा आयतीरा गाव इति प्रत्युत्तिष्ठति २४ हिरण्यमात्रेयाय ददाति । आग्नीध्रायोपबर्हणम् २५ अग्रेण गार्हपत्यं जघनेन सदोऽन्तराग्नीध्रीयं च सदश्च चात्वालं चोदीचीर्दक्षिणा उत्सृज्यमानाः सं वः सृजत्विति द्वाभ्यामनुमन्त्रयते २६ ११ २१

यस्यां पूर्वे भूतकृत इति भागलिः । इहेदसाथेति कौशिकः १ अन्ततः प्रतिहर्त्रे देयम् २ मरुत्वतीयहोममिन्द्रो मा मरुत्वानिति ३ शस्त्रयाज्याया होत्रादिभ्यः प्रसौति प्रवास्यह्ने त्वाहर्जिन्व । अनुवासि रात्र्यै त्वा रात्रिं जिन्व । उशिगसि वसुभ्यस्त्वा वसूञ्जिन्व । प्रकेतोऽसि रुद्रे भ्यस्त्वा रुद्रा ञ्जिन्वेति ४ निष्केवल्यस्य माहेन्द्र म् ५ प्रशास्त्रादीनामैन्द्र म् ६ तं वो दस्ममृतीषहं तत्त्वा यामि सुवीर्यमिति स्तोत्रियानुरुपौ ७ द्वे तिस्रः करोति पुनरादायम् । प्रथमां शस्त्वा तस्या उत्तमं पादमभ्यस्यावसायोत्तरस्या अर्धर्चेन द्वितीयां शस्त्वा तस्या उत्तमं पादमभ्यस्योत्तरेणार्धर्चेन तृतीयां शंसति ८ एवं बार्हतानां स्तोत्रियानुरूपाणां प्रग्रथनम् ९ मध्यमोच्चैस्तरया वाचा शंस्तव्यौ १० उदु त्ये मधुमत्तमा इति सामप्रगाथः स्वरवत्या ११ इन्द्रः पूर्भिदातिरदित्युक्थमुखं पच्छह् प्रतिवीततमया १२ उदु ब्रह्माण्यैरत श्रवस्येति पर्यासः १३ एवेन्दिन्द्र मिति परिदधाति । परया यजति १४ अच्छावाकभक्षादादित्यग्रहहोमं यद्देवा देवहेडनमिति द्वाभ्यां पवमानसर्पणान्तम् १५ आशिरं पूतभृत्यासिच्यमानमाशीर्ण ऊर्जमित्यनुमन्त्रयते १६ पवमानाय प्रसौति सुदितिरस्यादित्येभ्यस्त्वादित्याञ्जिन्वेति १७ अवदानहोममाग्नेयम् १८ ऐन्द्रा ग्नमुक्थ्ये । ऐन्द्रं षोडशिनि । सारस्वतमतिरात्रे १९ पश्वेकादशिन्यामाग्नेयं सौम्यं वैष्णवं सारस्वतं पौष्णम् बार्हस्पत्यं वैश्वदेवमैन्द्र मैन्द्रा ग्नं सावित्रं वारुणम् २० सवनीयहोमादिन्द्र श्च सोमं पिबतं बृहस्पत इति प्रस्थितयाज्याहोमानैन्द्रं मैत्रावरुणमैन्द्रा बार्हस्पत्यं मारुतं त्वाष्ट्रमैन्द्रा वैष्णवमाग्नेयम् २१ हविर्धाने यथाचमसं दक्षिणतः स्वेभ्य उपासनेभ्यस्त्रींस्त्रीन्पुरोडाशसंवर्तानेतत्ते प्रततामहेति निपृणन्ति २२ अत्र पितर इति जपित्वैतं भागमेतं सधस्थाः श्येनो नृचक्षा इत्यनुमन्त्रयते २३ १२ २२

आग्नीध्रीये हविरुच्छिष्टं भक्षयन्ति १ सावित्रग्रहहोमम् २ वैश्वदेवयाज्याया धिष्ण्यहोमादैभिरग्न इत्युपांशु पात्नीवतस्याग्नीध्रो यजति ३ तस्य होमम् ४ नेष्टुरुपस्थे धिष्ण्यान्ते वासीनो भक्षयति ५ अग्निष्टोमसाम्ने होत्रे प्रसौत्योजोऽसि पितृभ्यस्त्वा पितॄञ्जिन्वेति ६ ध्रुवं ध्रुवेणेति ध्रुवमवनीयमानमनुमन्त्रयते ७ आग्निमारुतयाज्याहोमं प्रति त्यं चारुमध्वरमिति संप्रेषित आग्नीध्र इत्युक्तम् ८ हारियोजनहोममा मन्द्रै रिति ९ तेनैव निष्क्रामन्ति १० आग्नीध्रीये मर्वप्रायश्चित्तीयाञ्जुहोति ११ अग्नौ शाकलान्सर्वे देवकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्य । मनुष्यकृतस्य । आत्मकृतस्य । अनाज्ञाताज्ञातकृतस्य । यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेडनम् । अरावा यो नो अभि दुच्छुनायते तस्मिंस्तदेनो वसवो नि धत्तनेति ॥ देवहेडनस्य सूक्ताभ्यां च १२ द्रो णकलशाद्धाना हस्त आदाय भस्मान्ते निवपन्ते १३ चात्वालादपरेणाध्वर्य्वासादितानप्सु सोमचमसान्वैष्णव्यर्चा निनयन्ति १४ उभा कवी युवाना सत्यादा धर्मणस्परि । सत्यस्य धर्मणा वि सख्यानि सृजामह इति सख्यानि विसृजन्ते १५ सं सख्यानीति संसृजन्तेऽहर्गणे प्रागुत्तमात् १६ आग्नीध्रीये दधि भक्षयन्ति दधिक्राव्ण इति १७ पत्नीसंयाजेभ्यः शालामुखीयमुपविशति १८ दक्षिणासंचरेणाहवनीयमपरेणातिव्रज्य समिष्टयजुर्भ्यः संस्थितहोमाञ्जुहोति १९ अप्स्ववभृथेष्ट्यामप्सु त इति पुरस्ताद्धोमान्साविकान्संस्थितहोमान्वारुणं त्वं नो अग्ने स त्वं न इति २० इडान्तानुयाजान्तैके २१ सोमलिप्तानि दध्नाभिजुहोत्यभूद्देवो द्र प्सवत्योर्यत्ते ग्रावेत्येतैः २२ १३ २३

यत्ते ग्रावा बाहुच्युतो अचुच्योन्नरो यद्वा ते हस्तयोरधुक्षन्
तत्त आप्यायतां तत्ते निष्ट्यायतां सोम राजन्
यत्ते ग्राव्णा चिच्छिदुः सोम राजन्प्रियाण्यङ्गा सुकृता पुरूणि
तत्संधत्स्वाज्येनोत वर्धयस्वानागसो यथा सदमित्संक्षियेम
यां ते त्वचं बिभिदुर्यां च योनिं यद्वा स्थानात्प्रच्युतो यदि वासुतोऽसि
त्वया सोम कॢप्तमस्माकमेतदुप नो राजन्सुकृते ह्वयस्व
सं प्राणापानाभ्यां समु चक्षुषा सं श्रोत्रेण गच्छस्व सोम राजन्
यत्ते विरिष्टं समु तत्त एतज्जानीतान्नः संगमने पथीनाम्
अहाः शरीरं पयसा समेत्यन्यो अन्यो भवति वर्णो अस्य
तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम्
अभिक्षरन्ति जुह्वो घृतेनाङ्गा परूंषि तव वर्धयन्ति
तस्मै ते सोम नम इद्वषट्चोप नो राजन्सुकृते ह्वयस्व १
कृष्णाजिनं निधाय संप्रोक्षति २ अपां मूक्तैरित्याद्युपस्पर्शनान्तम् ३
उद्वयमित्युत्क्रामन्ति ४ अपाम सोममगन्म स्वरित्याव्रजन्ति ५ अपो दिव्या इत्याहवनीयमुपतिष्ठन्ते ६ विमुञ्चामीत्यादि मार्जनान्तम् ७ उदयनीया प्रायणीयावत् । पथ्यायाश्चतुर्थम् ८ अन्तः ९ संस्थानूबन्ध्यायामपराजितायां तिष्ठन्त्यां सपत्नहनमिति कामं नमस्करोति १० यूपैकादशिनी चेद्वपामार्जना त्वाष्ट्रः पशुः ११ पर्यग्निकृतस्योत्सर्गः १२ अस्याज्यावदानहोमं वशापशुपुरोडाशाद्देविकाहविषा १३ अयं ते योनिरित्यरण्योरग्निं समारोप्यमाणमनुमन्त्रयते । या ते अग्ने यज्ञिया तनूस्तया मे ह्यारोह तया मे ह्याविश । अयं ते योनिरित्यात्मन् १४ अपमित्यमप्रतीत्तमिति वेदिमुपोष्यमाणाम् १५ सक्तुहोमे विश्वलोप विश्वदावस्य त्वासञ्जुहोमीत्याह १६ यो अग्नाविति नमस्कृत्य तेनैव निष्क्रामन्ति १७ उपावरोहेति मथ्यमानमनुमन्त्रयते १८ इत्यग्निष्टोमः
१९ अल्पस्व एकगुनापि यजेत २० १४ २४
इत्यथर्ववेदे वैतानसूत्रे तृतीयोऽध्यायः समाप्तः


अग्निष्टोमसाम्नो होत्रे षोडशिस्तोत्रेणात्यग्निष्टोमे । उक्थ्ये मैत्रावरुणादिभ्यः प्रसौति तन्तुरसि प्रजाभ्यस्त्वा प्रजां जिन्व । रेवदस्योषधीभ्यस्त्वौषषीर्जिन्व । पृतनाषाडसि पशुभ्यस्त्वा पशूञ्जिन्वेति १ एतेषां याज्याहोमानिन्द्रा वरुणा सुतपौ बृहस्पतिर्न उभा जिग्यथुरिति २ वयमु त्वामपूर्व्य यो न इदमिदं पुरेति स्तोत्रियानुरुपौ ३ स्तोत्रियस्य प्रथमां शस्त्वा तस्या उत्तमं पादं द्वितीयस्याः पूर्वेण संधायावसाय द्वितीयेन द्वितीयां शंसति । तस्या एवोत्तममुत्तरेण संधायावसायोत्तमेन तृतीयाम् ४ एवं काकुभानां स्तोत्रियानुरूपाणां प्रग्रथनम् ५ इतः पच्छः शंसति ६ प्र मंहिष्ठाय बृहते बृहद्र य इत्युक्थमुखम् ७ उदग्रुतो न वयो रक्षमाणा इति बार्हस्पत्यं सांशंसिकम् ८ अच्छा म इन्द्रं मतयः स्वर्विद इति पर्यासः ९ इत्यैकाहिकानाम् १० उत्तमया परिदधाति परया यजति ११ षोडशिनि ग्रहमुपतिष्ठन्ते य आबभूव भुवनानि विश्वा यस्मादन्यन्न परं किंचनास्ति । प्रजापतिः प्रजाभिः संविदानस्त्रीणि ज्योतींषि दधते स षोडशीति १२ होत्रे प्रसौत्यभिजिदसि युक्तग्रावेन्द्रा य त्वेन्द्रं जिन्वेति १३ षोडशिग्रहस्येन्द्र जुषस्वेति । इन्द्र षोडशिन्नोजः संस्थं देवेष्वसि । ओजस्वन्तं मामायुष्मन्तं मनुष्येषु कृणुहि । तस्य त उपहूतस्योपहूतो भक्षयामीति भक्षयन्ति द्वौ द्वौ । त्रयश्छन्दोगाः १४ घर्मवत्सत्त्रे १५ १ २५

अतिरात्रे होत्रादिभ्यः प्रसौत्यधिपतिरसि प्राणाय त्वा प्राणं जिन्व । धरुणोऽस्यपानाय त्वापानं जिन्व । संसर्पोऽसि चक्षुषे त्वा चक्षुर्जिन्व । वयोधा असि श्रोत्राय त्वा श्रोत्रं जिन्वेति १ होमानैन्द्रा न् । आश्विनादाश्विनम् २ स्तोत्रियानुरूपयोः प्रथमानि पदानि पुनरादायमर्धर्चशस्यवच्छंसति । मध्यमे पर्याये मध्यमानि । उत्तम उत्तमानि ३ प्रातः सवनवदाहावोक्थसंपदावस्वरौ ४ वयमु त्वा तदिदर्था वयमिन्द्र त्वायव इति स्तोत्रियानुरूपौ ५ ऊर्ध्वं सर्वत्र त्रीणि सूक्तानि । अन्त्यं पच्छः पर्यासः ६ य उदृचीति परिधानीया । अप्सु धूतस्येति याज्या ७ मध्यमे त्रिवृदसि त्रिवृते त्वा त्रिवृतं जिन्व । प्रवृदसि प्रवृते त्वा प्रवृतं जिन्व । स्ववृदसि स्ववृते त्वा स्ववृतं जिन्व । अनुवृदस्यनुवृते त्वानुवृतं जिन्वेति ८ अभि त्वा वृषभा सुतेऽभि प्र गोपतिं गिरेति स्तोत्रियानुरूपौ ९ बर्हिर्वा यत्स्वपत्यायेति परिधानीया । प्रोग्रां पीतिमिति याज्या १० उत्तम आरोहोऽस्यारोहाय त्वारोहं जिन्व । प्ररोहोऽसि प्ररोहाय त्वा प्ररोहं जिन्व । संरोहोऽसि संरोहाय त्वा संरोहं जिन्व । अनुरोहोऽस्यनुरोहाय त्वानुरोहं जिन्वेति ११ योगेयोगे तवस्तरं युञ्जन्ति ब्रध्नमरुषमिति स्तोत्रियानुरूपौ १२ अपाः पूर्वेषामिति परिधानीया ऊती शचीव इति याज्या १३ होत्र आश्विनाय प्रसौति वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि । वसुकाय त्वा वस्यष्ट्यै त्वा वेषश्रियै त्वा । वसुकं जिन्व वस्यष्टिं जिन्व वेषश्रियं जिन्वेति १४ एवं चतुःसंस्थो ज्योतिष्टोमोऽत्यग्निष्टोमवर्जम् १५ एष सोमानां प्रकृतिः १६ २ २६

वाजपेयः शरदि १ सर्वः सप्तदशः २ हिरण्यस्रज ऋत्विजः ३ मरुत्वतीयाद्बार्हस्पत्येष्टिः ४ आज्यभागादीडान्ता ५ यूपमारोह्यमाणो यजमान आह देवस्य सवितुः सवे स्वर्गं वर्षिष्ठं नाकं रुहेयं पृष्ठात्पृथिव्या अहमिति ६ आरूढो यावत्त इति वीक्षते ७ अवरुह्य भूमे मातरिति यूपवासांसि ब्रह्मणे ददाति ८ तीर्थदेशे रथचक्रमारुह्यापराजिताभिमुखोऽश्वरथानीक्षमाण आसीनो वाजसामाभिगायति त्रिराविर्मर्या आ वाजं वाजिनोऽग्मन् । देवस्य सवितुः सवे स्वर्गमर्वन्तो जयेमेति ९ तद्वो गायेति स्तोत्रियः १० अभिप्लवस्तोत्रियानावपते ११ माध्यंदिन इन्द्र क्रतुं न आ भरेति स्तोत्रियः । इन्द्र ज्येष्ठमुदु त्ये मधुमत्तमा वा १२ कन्नव्यो अतसीनामिति सामप्रगाथः १३ अहीनसूक्तमावपते १४ तृतीयसवने य एक इद्विदयते य इन्द्र सोमपातम इत्युक्थस्तोत्रियानुरूपौ १५ ऊर्ध्वं षोडशिनो होत्रे नाभुरसि सप्तदश प्रजापतिरसि प्रजापतिष्ट्वा प्रजापतिं जिन्वेति १६ बृहस्पतिसवं परियज्ञमेके १७ अप्तोर्याम्णि गर्भकारं शंसति १८ युञ्जन्ति ब्रध्नमरुषमिति स्तोत्रियम् । अभित आ याहीति १९ भिन्धि विश्वा अप द्विष इत्यनुरूपम् । अभित आ नो याहीति २० वाजपेयवदावापः २१ माध्यंदिने यद्द्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति स्तोत्रियानुरूपौ । अभितःस्तोत्रियानुरूपौ सामप्रगाथात् २२ इन्द्र त्रिधातु शरणमिति सामप्रगाथः २३ सुकीर्तिवृषाकपी सामसूक्तमहीनसूक्तमावपते २४ तृतीयसवने सुरूपकृत्नुमूतये शुष्मिन्तमं न ऊतय इति स्तोत्रियानुरूपौ । अभितःस्तोत्रियानुरूपौ २५ शेषं पृष्ठ्यषष्ठवत्सातिरात्रम् २६ अतिरिक्तोक्थेषु होत्रादिभ्यः प्रसौत्याक्रमोऽस्याक्रमाय त्वाक्रमं जिन्व । संक्रमोऽसि संक्रमाय त्वा संक्रमं जिन्व । उत्क्रमोऽस्युत्क्रमाय त्वोत्क्रमं जिन्व । उत्क्रान्तिरस्युत्क्रान्त्यै त्वोत्क्रान्तिं जिन्वेति २७ तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसेति स्तोत्रियानुरुपौ । उत्तरौ वा २८ आ नूनमश्विना युवं तं वां रथमिति सूक्ते । पूर्वस्य दशमीं द्वादशीमुत्तरं च पच्छः २९ मधुमतीरोषधीरिति परिधानीया । उत्तरा याज्या ३० ३ २७
इत्यथर्ववेदे वैतानसूत्रे चतुर्थोऽध्यायः समाप्तः


काममप्रथमयज्ञेऽग्निः १ स महाव्रते नित्यम् २ फाल्गुन्यां सत्त्रे पौष्याम् ३ तद्गुणानुरोधात्प्राजापत्ये पशौ समिध्यमानवतीमनु समास्त्वाग्न इति जपति ४ य आत्मदा इत्यवदानानाम् ५ अष्टम्यामुखासंभरणीया ६ अष्टगृहीतस्यर्चा स्तोममिति ७ परि त्वाग्न इति मृत्पिण्डं परिलिख्यमानम् ८ पुरीष्योऽसीत्यभिमृश्यमानम् ९ त्वामग्न इति पुष्करपर्णे निधीयमानम् १० आपो हि ष्ठेति पलाशपाण्टेनाभिषिच्यमानम् ११ पृथिवीं त्वा पृथिव्यामित्युखां क्रियमाणाम् । पुनःकरण इति भगलिः १२ तृतीयया पच्यमानाम् १३ आमावास्येनेष्टे दीक्षणीयायां वैश्वानरादित्ययोश्च यदग्ने यानि कानि चिदित्युख्ये समिध आधीयमानाः १४ संशितं म इत्युख्यमुन्नीयमानम् १५ आ त्वाहार्षमित्युन्नीतम् १६ उदुत्तममिति पाशानुन्मुच्यमानान् १७ संवत्सरमुख्यं बिभर्ति सद्यो वा १८ आ नो भरेति वनीवाहने वाचयति १९ गर्भो अस्योषधीनामित्युख्यं भस्माप्स्वोप्यमानम् २० सह रय्या निवर्तस्वेति द्वाभ्यामुप्तमादीयमानम् २१ पुनस्त्वेत्युख्ये समिध आधीयमानाः २२ दीक्षान्ते वि मिमीष्वेति वेद्यग्निम् २३ अपेत वीतेति गार्हपत्यमुदुह्यमानम् २४ अयं ते योनिरिति गार्हपत्येष्टका निधीयमानाः २५ नमोऽस्तु ते निरृत इति पित्र्युपवीती नैरृतीः २६ यत्ते देवीति शिक्यासन्दीरुक्यपाशान्नैरृत्यां प्रासने २७ अनपेक्षमाणा एत्य निवेशनः संगमन इत्यैन्द्र् या गार्हपत्यमुपतिष्ठन्ते २८ प्रायणीयादि २९ सीरा युञ्जन्तीति सीरं युज्यमानम् ३० लाङ्गलं पवीरवदिति कर्षमाणम् ३१ कृते योनावित्योषधीरावपन्तम् ३२ ब्रह्म जज्ञानमिति रुक्मं निधीयमानम् ३३ हिरण्यगर्भ इति हिरण्यपुरुषम् ३४ १ २८

मधु वाता इति कूर्ममभ्यज्यमानम् १ विष्णोः कर्माणीत्युलूखलमुसलं निधीयमानम् २ अजो हीत्यजशिरः ३ पूर्वाह्णिकीरुपसदोऽनु चितीश्चिन्वन्ति ४ वार्त्रहत्याय शवसे वि न इन्द्र मृगो न भीमो वैश्वानरो न ऊतय इति चितिंचितिं पुरीषाच्छन्नाम् ५ अग्ने जातानिति द्वाभ्यां पञ्चम्यां चितावसपत्नेष्टका निधीयमानाः ६ एकान्नत्रिंशत्स्तोमभागैः स्तोमभागिकीः ७ त्वामग्ने पुष्करादधीति गायत्रीरबोध्यग्निरिति त्रैष्टुभीः सं समिदित्यानुष्टुभीरग्निं होतारं मन्य इत्यतिच्छान्दसीर्गार्हपत्य उक्थम् ८ अयमग्निः सत्पतिर्येना सहस्रमिति पुनश्चितौ ९ मा नो देवा भवाशर्वौ मृडतं यस्ते सर्प इति रौद्रा न् १० अश्मवर्म म इति परिश्रितः ११ हवनप्रासनादाग्नीध्रो या आपो दिव्या इति चितिं परिषिञ्चति १२ इदं व आपो हिमस्य त्वोप द्यामुप वेतसमपामिदमिति मण्डूकावकावेतसैर्दक्षिणादिक्प्रतिदिशं विकृष्यमाणाम् १३ यो विश्वचर्षणिरित्यौपवसथ्ये षोडशगृहीतार्धस्य । स नः पिता जनितेत्युत्तरार्धस्य १४ उदेनमुत्तरं नयेति समिध आधीयमानाः १५ संप्रेषितोऽप्रतिरथं जपति १६ क्रमध्वमग्निनेति चतसृभिश्चितिमारोहन्ति १७ तां सवितरिति समिध आधीयमानाः १८ चत्वारि शृङ्गाभ्यर्चतेति जपति । अग्ने अच्छेति तिस्रो । अर्यमणं बृहस्पतिमिति द्वे १९ वाजस्य नु प्रसव इति वाजप्रसवीयहोमान् २० सं मा सिञ्चन्त्वित्यभिषिच्यमानं वाचयति २१ ये भक्षयन्त एतं सधस्था इति द्वे २२ येना सहस्रमिति वैश्वकर्मणहोमान् २३ २ २९

अग्निचित्सोमातिपूतः सोमवामी सौत्रामण्याभिषिच्यते १ उत्क्रान्तश्रेयसः श्रैष्ठ्यकामस्य २ नानिष्टसोमः ३ आदित्येष्टिः ४ ऐन्द्रः पशुः ५ रसप्राशन्या या बभ्रव इत्योषधीभिः सुरां संधीयमानाम् ६ वायोः पूत इति सोमातिपूतस्य पाव्यमानाम् ७ सोमवामिनः प्राङ्सोम इति विकृतेन ८ अध्वर्यो अद्रि भिः सुतं सोमं पवित्र आसृज । पुनीहीन्द्रा य पातव इत्यध्वर्युं पावयन्तम् ९ गृहीतेष्वाज्येषु कुविदङ्ग यवमन्त इति पयोग्रहान्गृह्णन्तम् १० वपामार्जनाद्युवं सुराममश्विनेति चतसृभिः पयःसुराग्रहाणां सौराणां न भक्षणम् ११ आश्विनस्यैके यमश्विना नमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रि याय इमं तं शुक्रं मधुमन्तमिन्दुं सोमं राजानमिह भक्षयामीति १२ पुनन्तु मा गिरावरगराटेषु यद्गिरिष्विति शतातृणामासिच्यमानाम् १३ उदीरतामिति द्वे बर्हिषदः पितर उपहूता नः पितरोऽग्निष्वात्ता इति पञ्च जपति १४ आश्विनसार्स्वतैन्द्र पशूनां वनस्पतियागादभिषिच्यमानमॐ भूर्भुवः स्वर्जनदोमिति वाचयति १५ सामगानाय प्रेषितः बृहदिन्द्रा य गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवीत्यैन्द्र् यां बृहत्यां संशानानि गायति १६ सं त्वा हिन्वन्ति धा३यितायिभिः सं त्वा ऋणन्ति सं त्वा शिषन्ति सं त्वा ततक्षुरिति प्रतिपदः १७ संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति निधनानि १८ संजित्यै विजित्यै सत्यजित्यै जित्या इति क्षत्रियस्य । संपुष्ट्यै विपुष्ट्यै सत्यपुष्ट्यै पुष्ट्या इति वैश्यस्य १९ सर्वे निधनमुपयन्ति २० बर्हिर्होमादवभृथः २१ यद्देवा इति मासरकुम्भं प्लाव्यमानम् २२ द्रुपदादिवेति वासः २३ मैत्रावरुण्यामिक्षेष्टिः २४ इन्द्रा य वयोधसे पशुः २५ आदित्येष्टिः २६ दूरे चित्सन्तमिति प्रणवान्तया तानेन मन्त्रोक्तमुपतिष्ठन्ते २७ ३ ३०
इत्यथर्ववेदे वैतानसूत्रे पञ्चमोऽध्यायः समाप्तः


माध्याः पुरस्तादेकादश्यां सप्तदशावराः सत्त्रमुपयन्तो ब्राह्मणोक्तेन दीक्षेरन् १ इष्टप्रथमयज्ञाः । गृहपतिर्वा २ तस्याग्नौ समोप्याग्नीत्प्राजापत्येन यजन्ते ३ अह्नां विधान्यामेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षमुपोषेदयं नो नभसस्पतिरिति मन्त्रोक्तदेवताभ्यां संकल्पयन् ४ यदि दहति पुण्यसमं भवत्यथ न दहति पापसमम् ५ अथ गवामयनम् ६ प्रायणीयचतुर्विंशमभिप्लवाश्चत्वारः पृष्ठ्य इति प्रथमो मासः ७ एवं चत्वारः प्रायणीयचतुर्विंशवर्जम् ८ त्रयोऽभिप्लवाः पृष्ठ्योऽभिजित्स्वरसामान इति षष्ठः ९ अतिरिक्त आत्मा विषुवान् १० आवृत्त उत्तरः पक्षः ११ स्वरसामानो विश्वजित्पृष्ठ्योऽभिप्लवाश्चत्वार इति सप्तमः १२ एवं चत्वारः स्वरसामविश्वजिद्वर्जम् १३ अभिप्लवौ गवायुषी दशरात्र ऊर्ध्वस्तोमो महाव्रतमुदयनीय इति द्वादशः १४ तदेतच्छ्लोकोऽभिवदति द्वावतिरात्रौ षट्शतमग्निष्टोमा द्वे विंशतिशते उक्थ्यानाम् । द्वादश षोडशिनः षष्टिः षदहा वैषुवतं चेति १५ चतुर्विंश इन्द्र मिद्गाथिनो बृहदित्याज्यस्तोत्रियः । इन्द्रा याहि चित्रभानो इति वा १६ आभिप्लविकांस्तृतीयादीन्स्तोत्रियानावपते १७ अभि प्र वः सुराधसं प्र सु श्रुतं सुराधसमिति पृष्ठस्तोत्रियानुरूपौ बार्हतौ प्रगाथौ । मा चिदन्यद्वि शंसत यच्चिद्धि त्वा जना इम इति वा १८ अस्मा इदु प्र तवसे तुरायेत्यहीनसूक्तमावपते १९ अभिजिति विषुवति विश्वजिति महाव्रते च य एक इद्विदयते य इन्द्र सोमपातम इत्युक्थस्तोत्रियानुरूपौ २० अभिप्लव आ याहि सुषुमा हि त इति षडाज्यस्तोत्रिया आरम्भणीयापर्यासवर्जम् २१ वात्रेहत्याय शवसे शुष्मिन्तमं न ऊतय आ तू न इन्द्र मद्र य्गुप नः सुतमागहि यदिन्द्रा हं यथा त्वमपामूर्मिर्मदन्निवेति तृचानावपते २२ तं वो दस्ममृतीषहमिति पृष्ठस्तोत्रियानुरूपौ २३ अभि प्र वः सुराधसमिति युग्मेषु २४ इन्द्रः पूर्भिदातिरद्दासमर्कैर्य एक इद्धव्यश्चर्षणीनां यस्तिग्मशृङ्गो वृषभो न भीम इति संपातानामेकैकमहरहरावपते । पृष्ठ्ये छन्दोमेषु दशमे च २५ मध्यमेष्वेवा ह्यसि वीरयुरित्युक्थस्तोत्रियानुरूपाः २६ पृष्ठ्यषष्ठे वनोति हि सुन्वन्क्षयं परीणसो विश्वेषु हि त्वा सवनेषु तुञ्जत इति पारुच्छेपीरुपदधति द्वयोः सवनयोः पुरस्तात्प्रस्थितयाज्यानाम् । यज्ञैः संमिश्लाः पृषतीभिरृष्टिभिरित्यृतुयाज्यानामुपरिष्टात् २७ १ ३१

षडहेऽभिप्लववदाज्यस्तोत्रियाः । प्रथमयोरावापः पृष्ठस्तोत्रियानुरूपौ च १ तृतीये वाजेषु सासहिर्भवेति पञ्चर्चः २ चतुर्थे पुरुष्टुतस्य धामभिरिति नव ३ पञ्चमे यहिन्द्रा हं यथा त्वमिति पञ्चदश ४ षष्ठेऽभि प्र गोपतिं गिरेत्येकविंशतिः ५ तृतीयादीनां वयं घ त्वा सुतावन्त इति पृष्ठस्तोत्रियानुरूपाः ६ चतुर्थे तुभ्येदिमा सवना शूर विश्वेति षट् पुरस्तात्संपाताः । तिस्रोऽर्धर्चशः ७ पञ्चमे यच्चिद्धि सत्य सोमपा इति पाङ्क्तं सप्तर्चम् । द्वौद्वाववसाय पञ्चमं संतनोति । त्रयं वावसाय द्वयम् ८ षष्ठे वि त्वा ततस्रे मिथुना अवस्यव इति सप्त । पदानामेकैकमवसाय द्वयं संतनोति । द्वयमवसाय द्वयम् ९ वने न वा यो न्यधायि चाकन्नित्यष्टर्चं च १० मध्यमेष्वभिप्लववदुक्थस्तोत्रियानुरूपाः ११ षष्ठ इमा नु कं भुवना सीषधाम हत्वाय देवा असुरान्यदायन्निति द्वैपदौ पच्छः १२ अपेन्द्र प्राचो मघवन्नमित्रानिति सुकीर्तिम् । चतुर्थीमर्धर्चशः १३ वि हि सोतोरसृक्षतेति वृषाकपिं पदावग्राहमनवानम् । द्वितीयेष्ववस्यति । तृतीयेषु द्वितीयान्त्यस्वरयोस्तदाद्योश्च न्यूङ्खनिनर्दान्कृत्वा द्वयं संतनोति १४ न्यूङ्खप्रतिगरेषु प्रथमचतुर्थाष्टमद्वादशेषु प्लुतिः । निनर्देष्वाद्यतृतीययोः । मध्यमं स्वरितः १५ निदर्शनम् १६ वि हि सोतोरसृक्षत नेन्द्रं देवममंमत । यत्रो३ ओ ओ ओ३ ओ ओ ओ ओ३ ओ ओ ओ ओ३ मदद्वृषाकपो३ ओ ओ३ अर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उक्तरोम् । परा हीन्द्रे ति १७ प्रतिगर ओ३ ओ ओ ओ३ ओ ओ ओ ओ३ ओ ओ ओ ओ३ । निनर्दस्य मदेथ मदैवो३ ओ ओ३थामो दैवेति १८ इदं जना उप श्रुतेति कुन्तापमर्धर्चशः । चतुर्दश पदावग्राहम् १९ एता अश्वा आ प्लवन्त इत्यैतशप्रलापं पदावग्राहम् । तासामुत्तमेन पदेन प्रणौति २० विततौ किरणौ द्वाविति प्रवल्हिकाः २१ इहेत्थ प्रागपागुदगधरागिति प्रतिराधान् । न संतनोति २२ भुगित्यभिगत इत्याजिज्ञासेन्यास्तिस्रः २३ प्रवल्हिकादिषु पञ्चदश प्रतिगराः २४ दुन्दुभिमाहननाभ्यां जरितरोथामो दैव । कोशबिले । रजनि ग्रन्थेर्दानम् । उपानहि पादम् । उत्तमाञ्जनिमाञ्जन्याम् । उत्तामाञ्जनी न्वर्त्मन्यात् । अलाबूनि । पृषातकानि । अश्वत्थपलाशम् । पिपोलिकावटः । चमसः । विप्रुट् । श्वा । पर्णशदः । गोशफो जरितरिति पूर्वासु पूर्वेषु २५ वीमे देवा अक्रंसतेत्यतीवादम् २६ पत्नी यद्दृश्यते जरितर्होता विष्टीमेन जरितरिति प्रतिगरौ २७ आदित्या ह जरितरिति देवनीथमैतशप्रलापवत् २८ ॐ ह जरितस्तथा ह जरितरिति प्रतिगरौ व्यत्यासम् २९ त्वमिन्द्र शर्म रिणेति भूतेच्छदः ३० यदस्या अंहुभेद्या इत्याहनस्या वृषाकपिवत् ३१ प्रतिगर ईकारः । निनर्दस्य किमयमिदमाहो३ ओ ओ३थामो दैवेति ३२ दधिक्राव्णो अकारिषमित्यर्धर्चशः । सुतासो मधुमत्तमा इति पावमानीः । अव द्र प्सो अंशुमतीमतिष्ठदिति पच्छः ३३ अस्योत्तमया परिदधाति नित्यया वा ३४ ऐन्द्रा जागतमुत्सृजन्त्येके । ऐन्द्रा बार्हस्पत्यं तृचमन्त्यमैन्द्रा जागतं च शस्त्वेत्यपरे ३५ २ ३२

नवरात्रेऽभिजिद्विषुवान्विश्वजिच्चतुर्विंशवदुक्थवर्जम् । आभिप्लविकांस्तु सर्वान् १ अभि त्वा वृषभा सुत उद्घेदभि श्रुतामघं युञ्जन्ति ब्रध्नमरुषं चरन्तमित्याज्यस्तोत्रियाः २ स्वरसामस्वा याहि सुषुमा हि त इन्द्र मिद्गाथिनो बृहदिन्द्रे ण सं हि दृक्षस इति ३ शेषमभिप्लवस्य द्वितीयादि त्र्यहवत् । पञ्चर्चस्त्वावापः ४ विषुवति सौर्यपृष्ठ उदु त्यं जातवेदसमिति षट् स्तोत्रियः ५ चित्रं देवानामुदगादनीकं तत्सूर्यस्य देवत्वं तन्महित्वमिति पृष्ठस्तोत्रियानुरूपौ । बण्महाँ असि सूर्य श्रायन्त इव सूर्यमिति वा । इन्द्र क्रतुं न आ भरेन्द्र ज्येष्टं न आ भरेति वा नित्यौ वा ६ उत्तरे पक्षेऽनुरूपात्तं वो दस्ममृतीषहमभि प्र वः सुराधसमिति नौधसश्यैतयोनी ७ कामं वैश्वानरस्य प्रतिमोपरि द्यौश्चित्तश्चिकित्वान्महिषः सुपर्ण इति सूक्तशेषावावपते ८ विश्वजिति वैराजपृष्ठे यद्द्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति पृष्ठस्तोत्रियानुरूपौ ९ बार्हतावुक्ते योनी । इन्द्र क्रतुं न आ भरेति तृतीयाम् १० इन्द्र त्रिधातु शरणमिति सामप्रगाथः ११ सुकीर्तिवृषाकपी यो जात एव प्रथमो मनस्वानिति सामसूक्तमहीनसूक्तमावपते १२ दशरात्र उक्तः १३ पृष्ठ्यछन्दोमेष्विन्द्रा याहि चित्रभानो तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसेत्याज्यस्तोत्रियाः १४ सुरूपकृत्नुमूतय इति द्वादशर्चः स घा नो योग आ भुवदिति द्वात्रिंशतम् । वीलु चिदारुजत्नुभिरिति षट्त्रिंशतमावपते १५ वयं घ त्वा सुतावन्त इत्यादि बण्महाँ असि सूर्येत्यन्ताः पृष्ठस्तोत्रियानुरूपौ १६ उत्तरयोरष्टचर्मा सत्यो यातु मघवाँ ऋजीषीति चावपते १७ अन्येषु महास्तोत्रेष्वष्टर्चेषु य एक इद्विदयत षडुक्थस्तोत्रियानुरूपौ १८ द्वितीयेऽध्वर्यवोऽरुणं दुग्धमंशुं यस्तस्तम्भ सहसा वि ज्मो अन्तानस्तेव सु प्रतरं लायमस्यन्नित्यैकाहिकानि १९ तृतीयेऽध्वर्यवोऽरुणं यो अद्रि भित्प्रथमजा ऋतावा यात्विन्द्रः स्वपतिर्मदायेति २० यो अद्रि भिदिमां धियं सप्तशीर्ष्णीं पिता न इत्युभयोरेकैकं मध्यमस्यादावन्त्ये वा २१ दशमं पृष्ठ्यचतुर्थवदुक्थवर्जम् २२ उत्त्वा मन्दन्त्वित्याज्यस्तोत्रियः २३ उदु त्ये मधुमत्तमा उदिन्न्वस्य रिच्यत इति पृष्ठस्तोत्रियानुरूपौ २४ पत्नीसंयाजेभ्यो मानसस्तोत्राय कृतसंज्ञाः सदोऽभिव्रजन्ति २५ मनसा सर्वमभ्रेषे २६ होत्र आरोहोऽसि मानसो मनसे त्वा मनो जिन्वेति प्रसौति २७ आयं गौरिति चानुमन्त्रयते २८ धृतिरसि स्वधृतिरसीत्यौदुम्बरीं मध्येऽन्वालभ्यासते २९ ३ ३३

प्रादुर्भूतेषु नक्षत्रेषु निष्क्रम्य जपन्ति युवं तमिन्द्रा पर्वता पुरोयोधा यो नः पृतन्यादप तंतमिद्धतं वज्रेन तंतमिद्धतम् । दूरे चत्ताय छन्त्सद्गहनं यदिनक्षत् । अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वत इति १ अध्वर्युपथेन गत्वा दक्षिणपश्चादग्नेरुपविश्य कामान्कामयित्वा यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति २ तिष्ठन्तो वाचमाह्वयन्ते वागैतु वागुपैतु वागुप मैतु वागिति ३ सुब्रह्मण्यां च ४ अनधीयानः सुब्रह्मण्यो३मिति त्रिः ५ महाव्रते सुरूपकृत्नुमूतय इत्याज्यस्तोत्रियः ६ ईङ्खयन्तीरपस्युव इत्यावपते । अभिप्लवस्तोत्रियांश्च माध्यंदिने ७ होत्रकाः कूर्चान्कृत्वोपविशन्ति ८ कुम्भि
नीर्मार्जालीयं परियान्तीरनुमन्त्रयते
गाव एव सुरभयो गावो गुग्गुलुगन्धयः
गावो घृतस्य मातरस्ता इह सन्तु भूयसीरिदं मधु
न वै गावो मङ्गीरस्य गङ्गाया उदकं पपुः ।
पपुः सरस्वत्या नद्यास्ताः प्राच्यः संजिगाइर इदं मधु
एता वयं प्लवामहे शम्याः प्रतरता इव
निकीर्य तुभ्यमभ्य आसं गीः कोश्वोष्यौर्यदा गिर इदं मधु
यदाराघटी वरदो व्याघ्रं मङ्गीरदास गौः
जनः स भद्र मेधति राष्ट्रे राज्ञः परिक्षित इति ९
इदं मध्विदं मध्विति १० पत्नीशाले भूमिदुन्दुभिमौष्ट्रेणापिनद्धं
पुच्छेनाघ्नन्त्युच्चैर्घोष उप श्वासयेति ११ तीर्थदेशे राजानमन्यं वा मर्माणि त इति १२ संनद्धमिन्द्रो जयातीत्यनुमन्त्रयते १३ संनद्धाय मधुपर्कमाहारयति । तं स ब्राह्मणेन प्रतिग्राहयति १४ वनस्पते वीड्वङ्ग इत्यभिमन्त्रितं रथमारोहयति १५ उद्धर्षन्तामित्यारूढमनुमन्त्रयते १६ अवसृष्टा परा पतेति चतुर्थीमिषुमवसृष्टम् १७ स यदा ब्राह्मणधनं गृह्णाति तद्वजमानो निष्क्रीणाति १८ त्रिकद्रुकेषु महिषः प्रो ष्वस्मै पुरोरथमिति स्तोत्रियानुरूपौ १९ तीव्रस्याभिवयसो अस्य पाहीति चतुर्विंशतिमावपते २० अथ ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन
सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत २१ ४ ३४

यथास्तुतमनुशंसति १ एकया द्वाभ्यां वा स्तोममतिशंसेत् । न प्राग्द्वादशात् २ षडहस्तोत्रियावापे च ३ अपरिमिताभिरुत्तरयोः सवनयोः ४ छन्दोदैवतप्रतिरूपोऽनुरूपः ५ अप्रज्ञाने स्तोत्रियं द्विरेकाहेषु ६ ऊर्ध्वमनुरूपादावापः ७ प्रगाथान्माध्यंदिने ८ संवत्सर आरम्भणीयायाश्च स्तोत्रियानुरूपः ९ इन्द्रं वो विश्वतस्परीत्यारम्भणीया १० व्यन्तरिक्षमतिरदिति पर्यासः ११ माध्यंदिने कन्नव्यो अतसीनामिति कद्वान्त्सामप्रगाथः १२ ब्रह्मणा ते ब्रह्मयुजा युनज्मीत्यारम्भणीया १३ अतिशंसनाय स्तोमान्व्याख्यास्यामः १४ गोराज्ये त्रिवृत् । पञ्चदश आयुषः । उभयोः पृष्ठे सप्तदशः १५ उक्थ्य एकविंशः । पृष्ठे त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशाः १६ अभिजिद्विश्वजितोराज्ये पञ्चदशैकविंशौ । पृष्ठे त्रिणवत्रयस्त्रिंशौ १७ स्वरसामसु सप्तदशः १८ विषुवत्येकविंशः १९ छन्दोमेषु चतुर्विंशचतुश्चत्वारिंशाष्टाचत्वारिंशाः २० दशम आज्यपृष्ठयोरेकविंशः २१ महाव्रते पञ्चविंशः २२ सर्वत्र संस्थास्तोमस्तोत्रियं सामवेदप्रत्ययम् २३ ५ ३५
इत्यथर्ववेदे वैतानसूत्रे षष्ठोऽध्यायः समाप्तः


अथ राजसूयः १ तैष्याः पुरस्तात्पवित्रः २ मासान्तरेषु दश संसृपः ३ माघ्या अभिषेचनीयः ४ मरुत्वतीयाद्बार्हस्पत्येष्टिः ५ हविर्धानयोः पुरस्ताद्वैयाघ्रं चर्म ६ उपबर्हणायामासन्द्यां भूतो भूतेष्वित्यारोहयत्यभिषिञ्चति च ७ फाल्गुन्या दशपेयः ८ सांवत्सरिकाणि चातुर्मास्यानि ९ संस्थितेषु चैत्र्याः प्रत्यवरोहणीयः १० वैशाख्या व्युष्टिद्व्यहः ११ ज्यैष्ठ्याः क्षत्रधृतिः १२ आषाढ्याः पवित्रः संस्थित्यै १३ अथाश्वमेधः १४ फाल्गुन्या ब्रह्मौदनमुद्गातृचतुर्थेभ्यो ददाति १५ हुतायां प्रातराहुतौ ब्रह्मणे वरम् १६ आग्नेयीष्टिः पौष्णी च १७ वातरंहा भवेत्यश्वं नियुज्यमानमनुमन्त्रयते १८ अभि त्वा जरिमाहितेत्युन्मुच्यामानम् १९ आशापालीयेनोत्सृष्टं संवत्सरम् २० सावित्र्यस्तिस्र इष्टयः २१ पारिप्लवाख्यानाय दक्षिणेन वेदिं हिरण्मयेष्वासनेषूपविशन्ति २२ कशिपूपबर्हणं ब्रह्मणः । कूर्चो यजमानस्य २३ आख्यानेषु यथावेदं व्याहृतीर्वाचयति २४ संवत्सरान्ते दीक्षणम् । एकविंशतिर्दीक्षाः २५ अभिप्लवप्रथमवत्प्रथममहः । पृष्ठ्यचतुर्थवद्द्वितीयम् २६ बहिष्पवमानादश्वं नियुज्यमानमनुमन्त्रयते सं त्वां गन्धर्वाः समु युञ्जन्त्वापो नद्योः सांवैद्ये परिवत्सराय । ये त्वा रक्षन्ति सदमप्रमादं तेभ्य आयुः सविता बोधि गोपायेति २७ दिव्यो गन्धर्व इत्येतया कौशिकः २८ संज्ञप्तं महिषीमुपवेश्याधीवाससा संप्रोर्णुवन्ति २९ तौ यजमानोऽभिमेथति स्वर्गेण लोकेन संप्रोर्णुवाथामधाम सक्थ्योरव गुदं धेहि । अर्वाञ्चमञ्जिमाभर यत्स्त्रीणां जीवभोजनमिति ३० होत्रभिमेथनादेवं वावातां ब्रह्मा ऊर्ध्वामेनामुच्छ्रयताद्गिरौ भारं हरन्निव । अथास्यै मध्यमेधतु शीते वाते पनन्निवेति ३१ ऊर्ध्वमेनमित्यनुचर्यो ब्रह्माणम् ३२ सदसि होत्रध्वर्य्वोर्ब्रह्मोद्याद्ब्रह्मोद्गातारं पृच्छति ३३ १ ३६

पृच्छामि त्वा चितये देवसख यदि त्वं तत्र मनसा जगन्थ । केषु विष्णुस्त्रिषु पदेषु जिष्णुः केष्विदं विश्वं भुवनमाविवेशेति १ तस्य प्रतिप्रश्नादाह पञ्चस्वन्तः पुरुष आविवेश तान्यन्तः पुरुष आर्पितानि । एतत्त्वात्र प्रतिमन्वानो अस्मि न यज्ञपा भवस्युत्तरो मत् ॥ न त्वं परो वरो मन्न पूर्वः किमङ्ग वा मतिमत्क्षम तेन । शिक्षेण्यां वदसि वाचमेनां न मया त्वं संसमको भवासीति २ निष्क्रम्य सर्वे यजमानं पृच्छामि त्वा परमन्तं पृथिव्या इति । इयं वेदिरिति यजमानः ३ तृतीये चतुर्विंशवद्द्वे सवने ४ प्राकृतावाज्यस्तोत्रियानुरूपौ ५ तृतीयसवनाद्यतिरात्रवत् ६ संस्थिते पञ्चपशुर्विशाखयूपः ७ प्रत्यृतु षट् पशव आग्नेया ऐन्द्रा मारुता मैत्रावरुणा ऐन्द्रा वरुणा आग्नावैष्णवा इति ८ विशाखयूपर्तुपशवो द्विगुणाः पुरुषमेधे । चतुर्गुणाः सर्वमेधे ९ पुरुषमेधोऽश्वमेधवत् १० चैत्र्याः पुरस्ताद्वरदानान्तः ११ इष्टयोऽग्नये कामाय दात्रे पथिकृते १२ यजमानस्य विजितं सर्वं समैत्विति जनपदमुच्चैः श्रावयति १३ कस्मै सहस्रं शताश्वं स्वं ज्ञातिभ्यो दद्याम् । केन समाप्नुयामिति यजमानः १४ यदि ब्राह्मणः क्षत्रियो वा प्रतिपद्येत सिद्धं कर्मेत्याचक्षते १५ न चेत्प्रतिपद्येत नेदिष्ठं सपत्नं विजित्य तेन यजेत १६ तस्मै ज्ञातिभ्यस्तद्दद्यात् १७ यस्य स्त्री संभाषेत तस्य सर्वस्वमादाय तामब्राह्मणीं हनिष्य इत्युच्चैः श्रावयेत् १८ तं ह स्नातमलंकृतमुत्सृज्यमानं सहस्रबाहुः पुरुषः केन पार्ष्णी इत्यनुमन्त्रयते १९ संवत्सरमिष्टयः पथ्यायै स्वस्तये अदित्या अनुमतये २० संवत्सरान्त ऐन्द्रा पौष्णः पशुः २१ महाव्रतं तृतीयम् २२ उदीरतामिति तिसृभिर्यूपे बध्यमानमनुमन्त्रयते । उत्थापनीभिश्च विमुच्यमानम् २३ हरिणीभिः शामित्रे ह्रियमाणम् २४ स्योनास्मै भवेति द्वाभ्यां निपात्यमानम् २५ सहस्रबाहुयामसारस्वतैः संज्ञप्तम् २६ २ ३७

अथ भैषज्याय यजमानमक्षीभ्यां ते मुञ्चामि त्वेति देवा यस्यास्तेऽपेत एतु वात आ वात्विति मेथने ब्रह्मा १ सुप्रपाणा च वेशन्तेति पूर्वेणानुचर्यः २ उदीर्ष्व नारीत्युक्तम् ३ यन्न इदं पितृभिरिति सर्वे ४ ब्रह्मोद्यात् गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्वरन्तीः । हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयात इत्युद्गातारम् ५ प्रतिप्रश्ने यस्यानक्षा दुहिता जात्वास कस्तां विद्वाँ अभि मन्याते अन्धाम् । कतरो मेनिं प्रति तं मुञ्चाते य रिं वहाते य रिं वा वरेयादिति ६ पृष्ठ्यचतुर्थं चतुर्थम् । अतिरात्रः पञ्चमम् ७ मध्यमं चेदुक्थ्याग्निष्टोमौ ८ उत्तमे साश्वमेध ऋत्विक्पत्नीप्रैषकृतो द्वयाः ९ द्व्यहोऽश्वमेधस्य त्र्यहः पुरुषमेधस्य सर्वमेधः पुरुषमेधवत् १० अहान्यग्निष्टुदिन्द्र स्तुत्सुर्यस्तुद्वैश्वदेवस्तुत्पौरुषमेधिकं तृतीयं पञ्चमं वाजपेयोऽप्तोर्यामा ११ एतस्मिन्सर्वान्मेधानालभन्ते १२ पृष्ठ्योत्तमे विश्वजिदतिरात्रो दशमम् १३ संवत्सरान्ते गार्हपत्येऽधरारणिं प्रहृत्याहवनीय उत्तरारणिमयं ते योनिरित्यात्मन्नग्निं संस्पृश्यारण्याय प्रव्रजेत् १४ इति मेधाः क्षत्रियस्य
१५ ३ ३८
इत्यथर्ववेदे वैतानसूत्रे सप्तमोऽध्यायः समाप्तः


अथ स्तोत्रियविकाराः १ एकाहेषु तं ते मदं गृणीमसीति २ बृहस्पतिसवे तद्वो गाय सुते सचा वयमेनमिदा ह्य इति सवनयोरुक्थमुखीयतृचपर्यासौ । माध्यंदिने पर्यासाद्यतृचवर्जम् ३ गोसवाभिषेचनीययोर्मुञ्जन्ति ब्रध्नमरुषमिति ४ श्येनसंदंशाजिरवज्रेषु सुरूपकृत्नुमूतय उत्त्वा मन्दन्तु स्तोमास्त्वामिद्धि हवामह इति ५ अपूर्वेऽभि त्वा पूर्वपीतय इति ६ व्रात्यस्तोमेष्वा त्वेता नि षीदताधा हीन्द्र गिर्वण इति ७ अग्निष्टुत्स्वीलेन्यो नमस्योऽग्निं दूतं वृणीमहेऽग्निमीलिष्वावसेऽग्न आ याह्यग्निभिरिति ८ तीव्रसुदुपशदोपहव्येष्वयमु ते समतसीमा उ त्वा पुरूवसो इति व्युष्टिद्व्यहे च ९ गोसवविवधवैश्यस्तोमेष्विन्द्रं वो विश्वतस्पर्या णो विश्वासु हव्य इति १० प्रतीचीनस्तोमे त्वमिन्द्र प्रतूर्तिष्विति ११ राजि यो राजा चर्षणीनामिति १२ उद्भिद्बलभिदोर्यज्ञ इन्द्र मवर्धयदिति १३ इन्द्र स्तोम इन्द्र क्रतुं न आ भर तव त्यदिन्द्रि यं बृहदिति १४ विघने समस्य मन्यवे विशस्तदिदास भुवनेषु ज्येष्ठमिति १५ सूर्यस्तुत्युदु त्यं जातवेदसं चित्रं देवानां केतुरनीकमिति १६ वज्रे पुनःस्तोमे त्वं न इन्द्रा भरेति १७ सर्वजित्यृषभे मरुत्स्तोमे साहस्रान्त्ये तद्वो गाय सुते सचा वयमेनमिदा ह्य इति १८ साहस्राद्ययोः स्वादोरित्था विषूवत इति १९ १ ३९

विराजि भूमिस्तोमे वनस्पतिसवे त्विष्यपचित्योरिन्द्रा ग्न्योःस्तोम इन्द्रा ग्न्योःकुलाय इन्द्रा य मद्वने सुतं यत्सोममिन्द्र विष्णवीति १ विराजेऽग्नेःस्तोमेऽग्नेःकुलायेऽग्निं दूतं वृणीमहेऽग्निमीलिष्वावस इति २ विनुत्त्यभिभूत्यो राशिमराययोः शदोपशदयोः सम्राट्स्वराजोर्यदद्य कच्च वृत्रहन्नुभयं शृणवच्च न इति ३ राजसूयेषु यत्सोममिन्द्र विष्णव्यधा हीन्द्र गिर्वणोऽभ्रातृव्यो अना त्वं त्वं न इन्द्रा भरेति च । चतुरहपञ्चाहाहीनदशाहच्छन्दोमदशाहेषु च ४ तीव्रसुच्चतुःपर्याययोः साहस्रान्त्ययोर्दशपेये विभ्रंशयज्ञे श्रायन्त इव सूर्यमिति ५ साद्यःक्रेषु श्येनवर्जमहमिद्धि पितुष्परीति च ६ अतिरात्राणां सर्वस्तोमयोर्मा भूम निष्ट्या इव विधुं दद्रा णं सलिलस्य पृष्ठ इति ७ त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशनवसप्तदशेषूभयं शृणवच्च नो वयमेनमिदा ह्यः पिबा सोममिन्द्र मन्दतु त्वेति ८ अभिजित्यभि प्र गोपतिं गिरेति च ९ अनतिरात्रेऽभि त्वा वृषभा सुत इति १० चतुर्विंश इन्द्रा याहि चित्रभानो मा चिदन्यद्वि शंसतेति ११ विश्वजिति य एक इद्विदयत इति १२ विषुवतीन्द्र क्रतुं न आ भरेति १३ स्वरसामाभिप्लवगवायुषि शेषेषु पृष्ठस्यैकविंश इन्द्रो दधीचो अस्थभिर्विश्वाः पृतना अभिभूतरं नरमेवा ह्यसि वीरयुरिति १४ २ ४०

व्युष्ट्याङ्गिरसकापिवनचैत्ररथद्व्यहानां तं ते मदं गृणीमसीति । द्वितीयेषु विश्वाः पृतना अभिभूतरं नरमिति १ चातुर्मास्यवैश्वदेवगर्गवैदच्छन्दोमवत्पराकान्तर्वस्वश्वमेधत्र्यहाणां शग्ध्यू षु शचीपत इति २ साकमेधस्येन्द्र मिद्देवतातय इति ३ वैदस्वरसाम्नोस्त्वं न इन्द्रा भरेति ४ द्वितीयेषु तमिन्द्रं वाजयामस्यस्तावि मन्म पूर्व्यं तं ते मदं गृणीमसीति ५ अश्वमेधस्य वाचमष्टापदीमहं स्वाधोरित्था विषूवत इति ६ पृष्ठ्यत्र्यहस्यैवा ह्यसि वीरयुरित्युक्थे ७ तृतीयेषु महाँ इन्द्रो य ओजसाभि प्र वः सुराधसमेवा ह्यसि वीरयुरिति ८ साकमेधस्य तमिन्द्रं वाजयामसि श्रायन्त इव सूर्यमिति ९ चतुरहाणां श्रायन्त इव सूर्यं त्वं न इन्द्रा भरेति १० चतुर्थेषु महाँ इन्द्रो य ओजसा य एक इद्विदयत इति ११ सर्वेषु मा भूम निष्ट्या इव विधुं दद्रा णं सलिलस्य पृष्ठ इति १२ संसर्पचतुर्वीरयोरयमु ते समतसीमा उ त्वा पुरूवसो इति १३ पञ्चाहेषु त्रिवृदादिवत् १४ अभ्यासङ्ग्ग्यपञ्चशारदीययोर्द्वितीये त्वं न इन्द्रा भरेति १५ पृष्ठ्यपञ्चाहस्यैवा ह्यसि वीरयुरिति १६ पञ्चम उत्तिष्ठन्नोजसा सहेन्द्रो मदाय वावृध इन्द्रा य साम गायतेति १७ अभिप्लवपञ्चाहस्य य एक इद्विदयत इति १८ अभ्यासङ्ग्ग्यपञ्चशारदीययोः श्रायन्त इव सूर्यमिति च १९ षडहस्य गव्यभ्रातृव्यो अना त्वमिति आयुषि त्वं न इन्द्रा भरेति २० पञ्चम एन्द्र नो गधि प्रिय इति २१ षष्ठमुक्थ्यं चेद्य एक इद्विदयते यत्सोममिन्द्र विष्णवीति २२ ३ ४१

पृष्ठस्य द्वितीय एवा ह्यसि वीरयुरिति १ तृतीय इन्द्रे ण सं हि दृक्षसे वयं घ त्वा सुतावन्तस्त्वं न इन्द्रा भरेति २ दशाहस्याष्टमे यदिन्द्र प्रागपागुदगिति ३ नवम एतो न्विन्द्रं स्तवामेति ४ त्रिककुद्दशाहस्य नवसु शग्ध्यू षु शचीपतेऽभि प्र गोपतिं गिरा तं वो दस्ममृतीषहं वयमेनमिदा ह्य इन्द्र मिद्गाथिनो बृहच्छ्रायन्त इव सूर्यं क रिं वेद सुते सचा विश्वाः पृतना अभिभूतरं नरं यदिन्द्र प्रागपागुदगिति ५ अष्टमे महाँ इन्द्रो य ओजसेति ६ द्वादशाहस्य छन्दोमप्रथमान्त्ययोस्त्वं न इन्द्रा भर य एक इद्विदयत इति ७ स्वरसामसु सं चोदय चित्रमर्वाक् प्रणेतारं वस्यो अच्छेति पर्यायेण । अभिप्लवे च ८ तनूपृष्ठेऽभि त्वा शूर नोनुमस्त्वामिद्धिहवामहे यद्द्याव इन्द्र ते शतं पिबा सोममिन्द्र मन्दतु त्वा कया नश्चित्र आ भुवद्रे वतीर्नः सधमाद इति ९ एतेषामनन्तरोऽनुरूपः संभवे स्तोत्रियनियमच्छन्दसा १० गवामयनेन सांवत्सरिकाणि व्याख्यातानि ११ एतस्मादेवाहीना रात्रिसत्त्राण्येकाहा अपि केचित् १२ सर्वत्र कामकॢप्तीः सामवेदात् १३ द्व्यहप्रभृतयोऽहीना आ द्वादशाहादन्यतरतोऽतिरात्रात् १४ द्वादशाहप्रभृतीनि रात्रिसत्त्राण्यर्वाञ्चि संवत्सरात् १५ दशरात्र उभयतोऽतिरात्रः १६ द्वादशाहः पुरस्तादग्निष्टोमोऽहीनः १७ सहस्रसंवत्सरपर्यन्तान्ययनानि विश्वजिता सहस्रसंवत्सरप्रतिमेन यजेत १८ ४ ४२

अग्न्याधेयं वसन्ते ब्राह्मणस्य ब्रह्मवर्चसकामस्य । ग्रीषो राजन्यस्य तेजस्कामस्य । वर्षासु वैश्यस्य पुष्टिकामस्य । शरदि सर्वेषाम् १ गदापनुत्तये पूर्णाहुत्यन्तमित्येके २ अग्निहोत्रायणिनामिति युवा कौशिकः ३ तेषामाग्रयणे नवस्य ४ स्थालीपाकेनाग्निहोत्रं यवाग्वा वा ५ अभावे गवीडां नवघासमाशयित्वा तस्याः पयसा श्रीकामस्य ६ नित्यमग्नीनां जागरणम् ७ अग्निहोत्रं स्वर्गकामस्य ८ पयसा सर्वकामस्य ९ दध्नेन्द्रि यकामस्य १० आज्येन तेजस्कामस्य ११ तैलेन श्रीकामस्य १२ ओदनेन प्रजाकामस्य १३ यवाग्वा ग्रामकामस्य १४ तण्डुलैर्बलकामस्य १५ सोमेन ब्रह्मवर्चसकामस्य १६ मांसेन पुष्टिकामस्य १७ उदकेनायुष्कामस्य १८ दर्शपूर्णमासौ सर्वकामस्य १९ दाक्षायणयज्ञः प्रजाकामस्य २० साकंप्रस्थाय्ययज्ञः पशुकामस्य २१ संक्रमयज्ञः सर्वकामस्य २२ इडादधः पशुकामस्य २३ सार्वसेनयज्ञः प्रजाकामस्य २४ शौनकयज्ञोऽभिचारकामस्य २५ वसिष्ठयज्ञः प्रजाकामस्य २६ द्यावापृथिव्योरयनं प्रतिष्ठाकामस्य २७ एतानि दर्शपूर्णमासायनानि २८ आग्रयणमन्नकामस्य २९ चातुर्मास्यानि सर्वकामस्य ३० ऐन्द्रा ग्नः पशुरायुष्प्रजापशुकामस्य ३१ यामः शुकहरिः शुण्ठो वानामयकामस्य पितृलोककामस्य च ३२ त्वाष्ट्रो वडवः प्रजाकामस्य ३३ काम्यावेतौ ३४ सुत्याः सर्वकामस्य ३५ उक्थ्यः पशुकामस्य ३६ वाजपेयः स्वाराज्यकामस्य ३७ अतिरात्र ऋद्धिकामस्य ३८ गवामयनं द्वादशाहस्य ३९ राजसूयः स्वाराज्यकामस्य ४० अश्वमेधः परुषमेधो सर्वकामस्य ४१ सर्वमेधः श्रैष्ठ्यकामस्य ४२ कामानन्त्यादपरिमिता यज्ञाः ४३ ते प्रकृतिभिर्व्याख्याताः ४४ यज्ञक्रमो ब्राह्मणात् । विरिष्टसंधानं च ४५ य इमौ कल्पावधीते य उ चैवं वेद तेन सर्वैः क्रतुभिरिष्टं भवति सर्वांश्च कामानाप्नोति ४६ अथाप्युदाहरन्ति यथा यष्टुस्तथाध्येतुरेषा ब्राह्मी प्रतिश्रुतिरिति ४७ ५ ४३
इत्यथर्ववेदे वैतानसूत्रेऽष्टमोऽध्यायः समाप्तः


Reference:
Garbe, Richard, VaitŒna Sªtra: The Ritual of the Atharvaveda, Edited with Critical Notes and Indices, (New Delhi: Mahalakshmi Publishing House, 1982).