जैमिनीय श्रौत सूत्र

जैमिनीय श्रौत सूत्र

अथ प्रथमः खण्डः
सोमप्रवाकमागतं प्रतिमन्त्रयेत महन्मेऽवोचो भगं मेऽवोचः पुष्टिं मेऽवोचो यशो मेऽवोच इति । अथैनमाह कच्चिन्नाहीनः । कच्चिन्नानूद्देश्यः । कच्चिदन्यस्तमार्त्विज्यम् के याजयन्ति । का दक्षिणा इति । तस्य त्रीणि मीमांसेत जन्मकर्मर्त्विज इति । एतान्येव यजमान ऋत्विजां मीमांसेत । तदाहुः कोऽहीन इति । अतिरात्रः प्रथमोऽहीन इत्याहुः । नहि सोऽहोरात्रयोर्हीयते किञ्चिदिति । तदानध्यायो भवति । अनूद्देश्येन न याजयेद् यत्र त्वन्तःशवो ग्रामो भवति । अन्तःशव एष यज्ञो योऽनूद्देश्यः इति । न्यस्तमार्त्विज्यं न कुर्याद् । ते यदेव पूर्वः परिचक्षाणो न्यस्यात्तदेव परिचक्ष्मह इति । अथापि न्यस्तमित्येतेनैव । के याजयन्तीति । अनूचाना एवानूचानं बन्धुमन्तो बन्धुमन्तं सुचरितिनः सुचरितिनम् इति । कृष्णजन्मानं न याजयेत् । पापकर्माणं न याजयेत् । कृष्णजन्मभिरृत्विग्भिः सह न याजयेत् । पापकर्मभिः सह न याजयेत् । का दक्षिणा इति । न दक्षिणाः पृच्छेदिति ह स्माह शाट्यायनिर् विक्रयस्यैतद् रूपमिति । पृच्छेदिति ह स्माह ताण्ड्य एतत्फलो वै यज्ञो यद्दक्षिणा इति । स यदि याजयिष्यन् स्यादभिद्रवेद् । स यद्यदीक्षितं यक्ष्यमाणं गच्छेदुत्तरत उपविश्य प्रवाचयेत । यजमान एवात ऊर्ध्वमभिद्रवति परिवेषणाय १

अथ द्वितीयः खण्डः
अथास्मा आसनमाहरन्ति तस्मिन्नुपविशति । अहे दैधिष व्योदतिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरस्तस्य सदने सीद निरस्तः परावसुरिति तृणं निरस्यति यत् प्रतिशुष्काग्रं नवति यद्वा प्रतिच्छिन्नाग्रम् । अप उपस्पृश्य आ वसोः सदने सीदामीति सीदति । अथास्मा उदकमाहरन्ति । तत् प्रतिगृह्णाति मयि वर्चो अथो भगमथो यज्ञस्य यत्पयः परमेष्ठी प्रजापतिर्दिवि द्यामिव दृंहत्विति । अथास्मै मध्वाहरन्ति । तत् प्राश्नाति चतसृभिरङ्गुलीभिः साङ्गुष्ठाभिः । त्रिः प्राश्नाति मध्वसि मधव्यो भूयासमिति । अथास्मै वाससी आहरन्ति । श्रियै रूपमिति । ते परिधत्ते श्रीरसि श्रीमान् भूयासमिति । प्रवर्तौ स्रजोऽलङ्करणमित्यस्मा आहरन्ति । अलङ्कृतमेनं वृणीते पर्जन्यो म उद्गाता स म उद्गाता त्वं म उद्गाता दिशो मे प्रस्तोतृप्रतिहर्तारौ सुब्रह्मण्य इति । तमुपांशु प्रतिमन्त्रयते । पर्जन्यस्य उद्गाता स त उद्गाताहं त उद्गाता दिशस्ते प्रस्तोतृप्रतिहर्तारौ । सुब्रह्मण्यः कर्मैव वयं करिष्यामः । ओमित्युच्चैः । अथैनं देवयजनं याचति उद्गातर्देवयजनं मे देहीति । तं तथेत्युपांशु प्रतिमन्त्रयते । ओमित्येवोच्चैः । अथास्मा आवसथमुपपन्नाय गामुपाञ्जन्ति । तामुपाष्टां हते पाप्मानमेव तद्धते । अथ यदि गामुत्सृजेत् तामेतेनैवोत्सृजेत्गौर्धेनुर्हव्या माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ पिबतूदकं तृणान्यत्तु ॥ ओमुत्सृजतेति २

अथ तृतीयः खण्डः
क्रीते राजनि सुब्रह्मण्यमामन्त्रयन्ते । स यज्ञोपवीतं कृत्वाप आचम्य दक्षिणेन पाणिना पलाशशाखां शमीशाखां वादायान्तरेण चक्रं चानड्वाहं च दक्षिणामीषामनुप्रसृप्य राजवाहनस्यान्तरीषे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिरनिरुक्ताम् । सुब्रह्मण्यॐ सुब्रह्मण्यॐ सुब्रह्मण्योमित्युपांशु । एवमेव प्राग्वर्तमान एवं दक्षिणत एवमुदगावर्ते । द्विर्दक्षिणमनड्वाहं शाखया संस्पृशति सकृद्वामम् । पर्यावहन्ति राजवाहनम् । विमुक्तयोरनुडुहो राजानं प्रपादयन्ति । प्रपन्ने राजनि यथैतमुपनिः सृप्य पूर्वया द्वारा शालां प्रपद्योत्तरतः शाखामुपगूहति यजमानस्य पशून् पाहीति । अत्रैतदनोयुक्तं ददाति सुब्रह्मण्याय । अतिथ्यया चरन्ति । अतिथ्यया चरित्वा प्रवर्ग्योपसद्भ्यां चरन्ति । संस्थितायामुपसद्युत्करे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिर्निरुक्ताम् । सुब्रह्मण्यॐ सुब्रह्मण्यॐ सुब्रह्मण्योम् इन्द्रागच्छ हरिव आगच्छ मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार कौशिक ब्राह्मण कौशिक ब्रुवाण सुत्यामागच्छ मघवन्देवा ब्रह्माण आगच्छतागच्छतागच्छतेति । आहूय सुब्रह्मण्यां यजमानं वाचयति । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादोऽग्निर्वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादो वायुर्वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते द्यौः पाद आदित्यो वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते दिशः पादोऽवान्तरदिशा वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये परोरजास्ते पञ्चमः पादः समुद्रः स्तनश्चन्द्रमा वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व प्रजां पशून् स्वर्गं लोकं मह्यं यजमानाय धुक्ष्वेत्युपांशु । एवमेवापराह्ण उपसदि संस्थितायाम् । एते एवोपवसथादनुवर्तयते । सुत्यामित्युपवसथात् । श्वः सुत्यामित्युपवसथे । अद्य सुत्यामिति सवे ३

अथ चतुर्थः खण्डः
अथ यद्यग्निं चिन्वीत पञ्च स्वर्णज्योतिर्निधनानि सामानि गायेत् । सत्यमिति पुष्करपर्ण उपधीयमाने । पुरुष इति पुरुषे । भूरिति प्रथमायां स्वयमातृण्णायाम् । भुव इति मध्यमायाम् । स्वरित्युत्तमायाम् । सञ्चितमग्निं सामभिरुपतिष्ठते । अग्न आयूंषि पवस इत्येतासु शरीरवद् गायत्रं तेन शिरो रथन्तरेण दक्षिणं पक्षं बृहतोत्तरमृतुष्ठा यज्ञायज्ञीयेन पुच्छम् वारवन्तीयेन दक्षिणमंसं श्यैतेनोत्तरम् प्रजापतेर्हृदयेन दक्षिणमपि पक्षमग्नेर्व्रतेनोत्तरमग्नेरर्केण शिरो वामदेव्येनात्मानम् । अत्र शान्तोऽग्निर्भवति । अत्रोद्गात्रे वरं ददाति ४

अथ पञ्चमः खण्डः
उद्वास्य प्रवर्ग्यमथैनमामन्त्रयन्ते । स यज्ञोपवीतं कृत्वाप आचम्य तदेवानपगो भवति । तं यदाध्वर्युः संप्रेष्यति प्रस्तोतः साम गायेति स पदाय पदाय स्तोभमाह । सर्वे निधनमुपयन्ति सपत्नीकाः । देवान् वा एतस्मिन् काले रक्षांस्यन्वसचन्त । स एतदग्नीरक्षोहा सामापश्यत् । तेन रक्षांस्यपाघ्नत । तद्यत् सर्वे निधनमुपयन्ति रक्षसामेवापहत्यै । त्रिः प्रतिष्ठापं हरन्ति । प्रतिष्ठिते प्रतिष्ठिते गायति । त्रयो वा इमे लोकाः । एषां लोकानां विधृत्यै । अपरेणास्मिंस्तिष्ठति प्रवर्ग्यं युञ्जन्ति । यदा द्वितीयमपः परिषिञ्चत्यथैनमाह प्रस्तोतः साम गायेति । स हिंकृत्य वार्षाहरं त्रिर्गायति । अत्रैव तिष्ठन् हिंकृत्येष्टाहोत्रीयं त्रिर्गायति । इष्टाहोत्रीयस्य निधनमुपयन्ति न वार्षाहरस्य । अथैतत् प्रस्तोता वास आदत्ते येन पत्न्यावृता भवति । श्यैतं प्रत्याव्रजन् गायेत् ५

अथ षष्ठः खण्डः
यदा धिष्ण्यान् निवपन्त्यथाज्यस्थालीं सस्रु वामादायोत्तरेणाग्नीध्रं च सदश्च परीत्यापरया द्वारा सदः प्रपद्यौदुम्बरीमन्वारभते । आयोष्ट्वा सदने सादयाम्यवश्छायां समुद्रस्य हृदये । नमः समुद्राय नमः समुद्रस्य चक्षसे । मा मा योनोर्वां हासीरिति । अथैनामुच्छ्रयति उद्दिवं स्तभानान्तरिक्षं पृण । पृथिवीमुपरेण दृंहेति । अथैनां मिनोति । द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण धर्मणेति अथैनामाज्येनाभिजुहोति । अग्रादुपक्रम्यामूलात् सन्तन्वन्निव घृतेन द्यावापृथिवी आप्रीणीथां सुपिप्पला ओषधीः कृधि स्वाहेति । अथैनां त्रिः प्रसलीपुरीषेण पर्यूहति । ब्रह्मवनिं त्वा क्षत्रवनिं सुप्रजावनिं रायस्पोषवनिं पर्यूहामीति । अथैनां दीक्षितदण्डेन दृंहति । ब्रह्म दृंह क्षत्रं दृंह प्रजां दृंह रयिं दृंह रायस्पोषं दृंह सजातान् यजमानाय दृंहेति । अथैनामूर्ध्वाग्रैस्तृणैः प्रदक्षिणं परिवेष्टयति । अथैनां वाससा परिदधात्यनग्नत्वाय । अथैनां हस्ताभ्यां परिगृह्णाति । मय्यूर्जमन्नाद्यं धेहीति । एवमेव स्तोत्रे स्तोत्रे परिगृह्णाति ६

अथ सप्तमः खण्डः
अग्नीषोमौ प्रणीयाग्नीषोमीयमालभते । तस्मिन् वपान्त उत्करे तिष्ठन् सुब्रह्मण्यामाह्वयति पितापुत्रीयाम् । कौषिकब्राह्मण कौषिकब्रुवाणेति । आत उक्त्वा नामान्यावपति । असौ यजतेऽमुष्य पुत्रो यजतेऽमुष्य पौत्रो यजतेऽमुष्य नप्ता यजत इति चतुष्पुरुषम् । अमुष्य पितामुष्य पितेति पुत्राणां यथाजातम् । स्त्रीणामप्येके । जनिष्यमाणानां पिता पितामहः प्रपितामहो यजत इत्युत्तममाह । यथाम्नातं शेषम् । अत्रर्षभं ददाति सुब्रह्मण्याय । नैतां रात्रिं सदः कश्चन प्रपद्येत । ऋक्सामे अत्र मिथुनीभवतः इति ब्राह्मणम् । परिहृतासु वसतीवरीषु श्वः सुत्याप्रवचनीं सुब्रह्मण्यामाहूयाग्नीध्रे पत्नीशालायामिति संविशन्ति । श्वः कर्मणोऽनपगा भवन्ति ७

अथाष्टमः खण्डः
काल एनमामन्त्रयन्ते । स यज्ञोपवीतं कृत्वाप आचम्यान्तरेण चात्वालं चोत्करं च प्रपद्यते । ज्या असि सुधां मे धेह्यायुष्मन्तस्तद्वर्चस्वन्त उद्गेष्म । एतदेव प्रपदनमेतदुदयनम् आज्यग्रहान् गृह्णत्सूत्करे तिष्ठन् सुब्रह्मण्यामाह्वयत्यद्यसुत्यामिति । तं यदि ब्रूयुर्विश्वरूपा गायेत्यकर्मण एतत्त्रयोदशं स्तोत्रमिति ब्रूयाद् विराजं लोभयतीति । संसवे तु कार्यम् । अभिषवस्य काल आगच्छति स पूर्वया द्वारा हविर्धानं प्रपद्यविष्णोः पृष्ठमसीति दक्षिणं हविर्धानमभिमृशति । विष्णो रराटमसीत्युत्तरम् । सोऽन्तरेण हविर्धाने गत्वा दक्षिणस्य हविर्धानस्य पश्चादक्षमुपविशति । अहे दैधिष व्योदतिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरस्तस्य सदने सीद निरस्तः परावसुरिति । तृणं निरस्यति यत् प्रतिशुष्काग्रं भवति यद्वा प्रतिच्छिन्नाग्रम् । अप उपस्पृश्य आ वसोः सदने सीदामीति सीदति । एतेनैवोपविशति यत्र यत्र करिष्यन् भवति । अथाह नमः पितृभ्यः पूर्वसद्भ्यो नमः साकं निषद्भ्यः । युञ्जते वाचं शतपदीं गाये सहस्रवर्तनीम् । गायत्रं त्रैष्टुभं जगद् विश्वारूपाणि संभृतं देवा ओकांसि चक्रिर इति । अथास्मा अधोऽक्षं द्रोणकलशं प्रयच्छति । तं प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति । तं प्रतिगृह्य दक्षिण ऊरौ निधायोपर्यक्षं पवित्रमपहृत्य पवयति । वसयस्त्वा पुनन्तु गायत्रेण छन्दसा सुप्रजावनिं रायस्पोषवनिमिति । तं पवयित्वा पश्चादक्षं सादयति । बार्हस्पत्यमसि वानस्पत्यं प्रजापतेर्मूर्धात्यायुपात्रमिति । तं पश्चादक्षं सादयित्वा गायत्रं विश्वरूपासु गायतीति ब्राह्मणम् ८

अथ नवमः खण्डः
तं प्रोहति वसवस्त्वा प्रोहन्तु गायत्रेण च्छन्दसा रुद्रास्त्वा प्रोहन्तु त्रैष्टुभेन च्छन्दसादित्यास्त्वा प्रोहन्तु जागतेन च्छन्दसेति । उपर्युपर्यक्षं पवित्रमत्यस्यति । नाक्षमुपस्पृशेत् । यथैतं परेत्यापरेणोपरवान् प्राङ्मुख उपविश्य द्रोणकलशमभिमृशति तनूपा असि तन्वं मे पाहि वर्चोधा असि वर्चो मे धेहि आयुर्धा असि आयुर्मे धेहि वयोधा असि वयो मे धेहीति । सम्मुखान् ग्राव्णः कृत्वाभिमृशति श्येना अजिरा ऋतस्य गर्भाः प्रयुतो नपातः पर्वतानां ककुभ आ नस्तं वीरं वहत यं बहव उपजीवामोऽभिशस्तिकृतमनभिशस्त्यमन्यस्याभिशस्त्याः कर्तारमिति । तेषु द्रोणकलशमध्यूहतीदमहं मा ब्रह्मवर्चसेऽध्यूहामि यजमानं स्वर्गे लोक इति । तं दृंहति देवी त्वा धिषणे निपातां ध्रुवे सदसि सीदेष ऊर्जे सीदेति । तमन्तरीषे पवित्रमपहृत्य संमार्ष्टि वसवस्त्वा संमृजन्तु गायत्रेण च्छन्दसा रुद्रास्त्वा संमृजन्तु त्रैष्टुभेन च्छन्दसादित्यास्त्वा संमृजन्तु जागतेन च्छन्दसेति । तदुदीचीनदशं पवित्रं वितनोति पवित्रं ते विततं ब्रह्मणस्पत इत्येतेन तृचेन । राजानमानयन्ति । तमभिमन्त्रयते स पवस्व सुधामा देवानामभि प्रियाणि धामा त्रिर्देवेभ्योऽपवथास्त्रिरादित्येभ्यस्त्रिरङ्गिरोभ्यो येन तुर्येण ब्रह्मणा बृहस्पतयेऽपवथास्तेन मह्यं पवस्व । स नःपवस्व शं गवे शं जनाय शमर्वते शं राजन्नोषदीभ्य इति । संततं शुक्रं पवयन्ति । ग्रहान् गृह्णन्त्यध्वर्यवः । आग्रयणग्रहं गृह्णन् हिंकरोति । तदेव हिंकृतं भवति । अथोद्गातैकर्चं गायत्रं गायत्युच्चा ते जातमन्धसेति । गृहीतेषु ग्रहेष्वप उपस्पृश्य पृथिवीमभिमृशति द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्रा इति । आ मास्कान्सह प्रजया रायस्पोषेणेन्द्रियं मे वीर्यं मा निर्वधीरित्यात्मानं प्रत्यभिमृशति ९

अथ दशमः खण्डः
अप उपस्पृश्य सन्तताः सर्पन्ति । अध्वर्युप्रथमः सर्पत्यथ प्रस्तोताथोद्गाता यजमानो ब्रह्मा षष्ठः सर्पति । प्रवृतहोमाञ्जुह्वति । जुष्टो वाचो भूयासं जुष्टो वाचस्पत्युर्देवि वाक् । यत्ते वाचो मधुमत्तस्मिन् मा धाः स्वाहा सरस्वत्या इति । द्वितीयां जुहोति सूर्यो मा देवो दिव्येभ्यो रक्षोभ्यः पातु वात आन्तरिक्षेभ्योऽग्निः पार्थिवेभ्यः स्वाहेति । त उचञ्चो बहिष्पवमानाय सर्पन्ति । सर्पत्स्वध्वर्युमनुमन्त्रयत एतदहं दैव्यं वाजिनं सम्मार्ज्मीति । दक्षिणेन चात्वालं तृणानि संस्तृणात्युदपात्रेण सह । तेषूपवेशनस्यावृतोपविशन्ति १०

एकादशः खण्डः
उदगावृत्त उद्गाता । पुरस्तात् प्रस्तोता प्रत्यङ्मुखः । पश्चात् प्रतिहर्ता दक्षिणामुखः । स्तोत्रं प्रतिगृह्य पवमानजपं जपति । भूर्भुवः स्वर्मधु करिष्यामि मधु जनयिष्यामि मधु भविष्यति भद्रं भद्रमिषमूर्जं सोमोद्गयोद्गाय सोम मह्यं तेजसे मह्यं ब्रह्मवर्चसाय मह्यमन्नाद्याय मह्यं भूम्ने मह्यं पुष्ट्यै मह्यं प्रजननाय प्रजानां भूम्ने प्रजानां पुष्ट्यै प्रजानां मह्यं प्रजननाय प्रजानां भूम्ने प्रजानां पुष्ट्यै प्रजननाय सोमस्य राज्ञो राज्याय मम ग्रामणेयाय । दिशः प्रदिश आदिशो विदिश उद्दिशो दिशि इति । प्रत्येति वाग् भूर्भुवः स्वरोमित्यावर्तिषु । दिश स्थ श्रोत्रं मे मा हिंसिष्ठेत्युपगातॄन् प्रत्यभिमृशति । अथ संप्रेष्यति । ब्रह्मन् स्तोष्यामः प्रशास्तरिति । प्रस्तोता ब्रह्माणमाह प्रसव उक्त उपदधाति । ते सकृद्धिंकृतेन पराचा बहिष्पवमानेन स्तुवते । अहिंकृता रेतस्या भवति हिंकृतानीतराणि गायत्राणि । स्तुते यजमानं वाचयति श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा संपारया मा स्तुतस्य स्तुतं गम्यदिन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषमापं समापं साम्ना समापमिति । वृषकोऽसि त्रिष्टुप्छन्देति माध्यन्दिने पवमाने । स्वरोऽसि गयोऽसि जगतीछन्देत्यार्भवे । स्तुतस्य स्तुतमस्यूर्जस्वत् पयस्वदित्यावर्तिषु । अथ स्तुवानः पवमानेषु मध्यमामध्वर्यवे प्राहोत्तमामावर्तिषु होत्रे । अथैतदुदपात्रं चात्वालेऽवनयति समुद्रं वः प्रहिणोम्यक्षिता स्वां योनिमपिगच्छतारिष्टा अस्माकं वीराः सन्तु मा परासेचि न स्वमिति । स यदेवान्य उत्तिष्ठेत्तमुत्तिष्ठन्तमारभ्यानूत्तिष्ठेत् । उत्थायोत्तरे वेद्यन्ते यजमानं विक्रमयति मा स्वर्गाल्लोकादवच्छैत्सीरिति । दक्षिणं पादमन्तर्वेदि मास्मदिति सव्यं बहिर्वेदि ११

अथ द्वादशः खण्डः
यदा सवनीयस्य वपया चरितं भवत्यथोद्गातारश्चात्वाले मार्जयन्त आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः । इदमापः प्र वहतावद्यं च मलं च यत् । यद्वाभि दुद्रोहानृतं यद्वा शेपे अभीरुणम् । आपो मा तस्मादेनसो विश्वान्मुञ्चन्त्वंहस इति १२

त्रयोदशः खण्डः
प्रपदनस्यावृता प्रपद्य वेद्याक्रमणेन वेदिमाक्रामति । मृदा शिथिरा देवानां वेदिरसि नमस्ते अस्तु । मा मा हिंसीरित्यादित्यमुपतिष्ठतेऽध्वनामध्वपते स्वस्ति मेऽस्मिन् देवयाने पथि कृण् रौद्रेणानीकेन स्वस्त्यग्ने परिदेहीति । धिष्ण्यानुपतिष्ठते सम्राडसि कृशानू रौद्रेणानीकेन पाहि माग्ने पिपृहि मा नमस्ते अस्तु मा मा हिंसीरित्याहवनीयम् । तुथोऽसि जनधा इति बाहिष्पवमानीयमास्तावं । नभोऽसि प्रतक्वा इति चात्वालम् । असंमृष्टोऽसि हव्यसूदन इति शामित्रम् । कृष्णोऽस्याखरेष्ठ इत्युत्करम् । ऐन्द्रीमावृतमन्वावर्त इति दक्षिणं बाहुमनु पर्यावृत्योत्तरेणाग्नीध्रं परीत्य पश्चात् प्रागावृत्तस्तिष्ठन् विभूरसि प्रवाहण इत्याग्नीध्रमुपतिष्ठते । पुरस्तात् सदसः प्रत्यगावृत्तस्तिष्ठन् वह्निरसि हव्यवाहन इति होतुर्धिष्ण्यम् । श्वात्रोऽसि प्रचेता इति मैत्रावरुणस्य । तुथोऽसि विश्ववेदा इति ब्राह्मणाच्छंसिनः । उशिगसि कविरिति पोतुः । अंघारिरसि बम्भारिरिति नेष्टुः । अवस्युरसि दुवस्वान् इत्यच्छावाकस्य । शुन्ध्युरसि मार्जालीय इति मार्जालीयम् । अमृतधामासि स्वर्ज्योतिरित्यौदुम्बरीम् । परिषद्योऽस्यास्ताव इत्यास्तावम् । समुद्रोऽस्युरुव्यचा इति ब्रह्मसदनम् । समुद्रोऽसि विश्वव्यचा इति होतृषदनम् । उत्तरेण सदः परीत्य पश्चात् प्रत्यगावृत्तस्तिष्ठन्नजोऽस्येकपात् इति गार्हपत्यमुपतिष्ठते । अहिरसि बुÞय इति प्राजहितम् । सगरोऽसि बुÞय इतीतरं प्राजहितम् । कव्योऽसि कव्यवाहन इति दक्षिणं वेद्यन्तम् । सव्यमंसमनु पर्यावृत्य समस्तान् धिष्ण्यानुपतिष्ठतेऽग्नयः सगराः सगरैर्नामभी रौद्रैरनीकैः पात माग्नयः पिपृत मा । नमो वो अस्तु मा मा हिंसिष्टेति । सदसो द्वारौ समीक्षत ऋतस्य द्वारौ विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृतमिति । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं सनिं मेधामयासिषमित्वेतयर्चा सदः प्रपद्य दक्षिणेनौदुम्बरीं परोत्योत्तरत उपवेशनस्यावतोपविशन्ति उदगावृत्त उद्गाता पुरस्तात् प्रस्तोता प्रत्यङ्मुखः पश्चात् प्रतिहर्ता दक्षिणामुखः १३

चतुर्दशः खण्डः
चमसानाहरन्ति । इडायामुपहूयमानायां चमसानुद्गृह्णान्ति । हुतस्य भक्षयन्ति नाहुतस्य । होतुर्भक्षमनु भक्षयन्ति । पुरोडाशान् भक्षयन्ति । पुरोडाशान् भक्षयित्वा राजानं भक्षयन्ति । राजानं भक्षयित्वा वा पुरोडाशान् । अत्रास्मै स्वर्यमाहरन्ति । यदु चान्यद् भक्षयिष्यन् भवति । अथ चमसमवेक्षत उद्गाता श्येनो नृचक्षा अस्यग्नेस्त्वा चक्षुषावपश्यामीति । एवमेवेतरे यथापूर्वम् । अथोपहवमिच्छते होतरुपह्वयस्व प्रस्तोतरुपह्वयस्व प्रतिहर्तरुपह्वयस्व सुब्रह्मण्योपह्वयस्वेति उद्गातैव होतर्युपहवमिच्छते । उद्गातरि प्रस्तोतृप्रतिहर्तारौ सुब्रह्मण्यश्च १४

अथ पञ्चदशः खण्डः
उपहवमिष्ट्वा भक्षयन्तीन्दविन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः प्रातःसवनस्य मधुमतो विचक्षणस्य सर्वगणस्य सर्वगण उपहूतस्योपहूतो भक्षयामि वाग्जुषाणा सोमस्य तृप्यत्विति । एवमेवेतरयोः सवनयोश्छन्दःसवनोपदेशं गणवत्सवनमुखीयेषु । गणांश्च परिहाप्य विचक्षणं च नाराशंसेष्वनाराशंसेषु च गणान् । भक्षयित्वेन्द्रियाणि संमृशते नृमणसि त्वा दधामि पिन्व मे गात्रा हरिवो गणान्मे मा वितीतृष इति । अथात्मानं प्रत्यभिमृशत्यूर्ध्वः सप्तर्षीनुप तिष्ठस्वेन्द्रपीतो वाचस्पते सप्तर्त्विजोऽभ्युच्छ्रयस्व जुषस्व लोकं मा मावगाः सोम रारन्धि नो हृदि पिता नोऽसि भगवो नमस्ते अस्तु मा मा हिंसीरिति । प्रस्तोता दक्षिण ऊरौ निधाय चमसमाप्याययत्याप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यं भबा वाजस्य संगथ इत्येतया गायत्र्या प्रातःसवने । तदसर्वभक्षेषु सं ते पयांसि समु यन्तु वाजा इत्येतया त्रिष्टुभा माध्यन्दिने सवने । आप्यायस्व समेतु त इत्येतयैव द्विरुक्तया तृतीयसवने । सा जगती संपद्यते १५

अथ षोडशः खण्डः
सीदन्ति नाराशंसाः । ऋतुयाजैश्चरन्ति । शस्त आज्ये नाराशंसान् भक्षयन्ति । अवमैस्ते पितृभिर्भक्षितस्य गायत्रच्छन्दसः प्रातःसवनस्य मधुमतो नाराशंसस्योपहूतोपहूतो भक्षयामि । वाजुषाणा सोमस्य तृप्यत्विति । ऊर्वैरिति माध्यन्दिने सवने । काव्यैरिति तृतीयसवने । अनुष्टुप्छन्दस इति षोडशिनि रात्रेश्च । हिरण्यं संप्रदाय षोडशिना स्तुवन्ति । अश्व उपतिष्ठते साम्येक्षाय । यस्माज्जातो न परोऽन्यो अस्ति य आ बभूव भुवनानि विश्वा । प्रजापतिः प्रजया सं रराणस्त्रीणि ज्योतींषि सचते स षोडशीति षोडशिग्रहमवेक्षते । अथ यदि हरिवतीषु षोडशी स्यादिन्द्रश्च सम्राड् वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतत् । तयोरहं भक्षमनु भक्षयामि । वाग्जुषाणा सोमस्य तृप्यत्विति । बृहतीच्छन्दस इति सन्धेरिष्टयजुष इति वा । कस्त्वा कं भक्षयामीति । मानसस्य मनसा । कस्मै त्वा कं भक्षयामीति वा । अतिच्छन्दस इति वाजपेयसाम्न्यतिरिक्तोक्थेषु च । द्विः पूर्वयोः सवनयोर्नाराशंसाः सीदन्ति । सकृत्तृतीयसवने । अथाह वैष्टुतं वास आहरेति । श्रीर्वा एषा साम्नां यद्विष्टावाः । श्रीर्वासः । श्रियमेवास्मिंस्तद्दधाति । औदुम्बराः प्रादेशमात्रा विष्टुतयो भवन्ति । ऊर्ग्वा अन्नमुदुम्बरः । ऊर्ज एवान्नाद्यस्यावरुद्ध्यै । स्तोत्रमाहरति । दक्षिणेन होतुर्धिष्ण्यं द्विरुत्तरेण द्विः । ते पञ्चदशेनाग्नेयेनाज्येन स्तुवते यथास्तोमं वा । अथ मैत्रावरुणेनाथैन्द्रेणाथैन्द्राग्नेनेति । सन्तिष्ठते प्रातः सवनम् १६

अथ सप्तदशः खण्डः
एतयैवावृता माध्यन्दिनं सवनं प्रसिद्धम् । संप्रसर्प्य सदसि पवमानेन स्तुवते । साम्ने साम्ने हिं कुर्वन्ति । स्तुते दधिघर्मेण चरन्ति । अथ पुरोडाशैरथ राज्ञा । राजनि भक्षिते दाक्षिणानि जुहोति । अथ दक्षिणा नयन्ति । आत्रेयाय प्रथमां गां दत्वा ब्रह्मणे दक्षिणा नयन्त्यथ होत्रेऽथाध्वर्यवेऽथोद्गात्रेऽथ सदस्यायाथ होत्रकेभ्योऽथ प्रसर्पकेभ्यः । दक्षिणासु नीयमानासूत्करे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिरनिरुक्ताम् । यत् प्रायणं तदुदयनमसदिति १७

अथ अष्टादशः खण्डः
शस्ते मरुत्वतीये नाराशंसान् भक्षयन्ति । भक्षितेषु नाराशंसेषु पूर्वया द्वारा सदसोऽधि निष्क्रम्यापरया द्वाराग्नीध्रं प्रपद्याग्नीध्रे पृष्ठाहुती जुहोति । रथंतरं पिबतु सोम्यं मध्वायुर्दद्यद्यज्ञपतावविह्रुतम् । इमं यज्ञमभिसंवसाना होत्रास्तृप्यन्तु सुमनस्यमानाः स्वाहेति । तूष्णीमुत्तराम् । बृहदिति वा । यत्पृष्ठं स्यात्तदादिशेत् । रथन्तरस्य स्तोत्रमाहरति । तत्प्रतिगृह्य पृथिवोमभिमृशति नमो मात्रे पृथिव्यै रथंतरं मामा हिंसीरिति । अथ महिम्नः संभरति यस्ते अग्नौ महिमा यस्ते अप्सु रथे यस्ते महिमा स्तनयित्नौ य उ ते वाते यस्ते महिमा तेन संभव रथंतर द्रविणस्वन्न एधीति । अथ वामदेव्यं पुरस्ताच्छान्तिमभिव्याहरति प्रजापतिरसि वामदेव्यं ब्रह्मणः शरणं तन्मा पाहीति । अथैता अमृता व्याहृतीरभिव्याहरति भूर्भुवः स्वः । क इदमृद्गास्यति स इदमुद्गास्यतीत्येतदुक्त्वाभ्यानिति । यदि बार्हतं स्तोत्रं स्याद् बृहतः स्तोत्रं प्रतिगृह्य ब्रूयाद् दिवं पितरमुपश्रये बृहन् मा मा हिंसीरिति । समानं परम् । स रथन्तरेण स्तुते बृहता वा । रथन्तरे स्तुते हो इत्युक्त्वादिमाददीत । बृहति प्रस्तुत आ इति । रथन्तरे प्रस्तूयमाने संमीलयेत् । स्वर्दृशं प्रति विपश्येद् । यावत् स्तोभेत् तावत् पृथिव्यां हस्तौ स्याताम् । देवरथस्यानपव्याथाय । वामदेव्यस्य स्तोत्रमाहरति । तत्प्रतिगृह्यैता व्याहृतीरभिव्याहरति गौश्चाश्वश्चाजाश्चाविश्च व्रीहिश्च यवश्चापो वायुरापो वायुरिति । स वामदेव्येन मध्यमया वाचानेजत् । आप्रतिहारादनवानं गायेत् । प्रतिहार एव प्रतिह्रियमाणे वागित्युद्गाता ब्रूयात् । अथ नौधसेनाथ कालेयेनेति । सन्तिष्ठते माध्यन्दिनं सवनम् १८

अथ एकोनविंशः खण्डः
अथ तृतीयसवने प्रपदनस्यावृता प्रपद्य वेद्याक्रमणेन वेदिमाक्रम्यादित्यमुपतिष्ठतेऽध्वनामध्वपत इत्येतेनैव । अथैन्द्रीमावृतमन्वावर्त इति दक्षिणं बाहुमनु पर्यावृत्योत्तरेणाग्नीध्रं च सदश्च परीत्य पश्चात्सदस ईक्षमाणः समस्तान् धिष्ण्यानुपतिष्ठतेऽग्नयः सगरा इत्येतेनैव । अथ सदः प्रपेद्यतेयैवावृतोपविश्य दक्षिणेन होतुर्धिष्ण्यं पूर्वया द्वारा सदसोऽधि निष्क्रम्य पूर्वया द्वारा हविर्धानं प्रपद्योत्तरस्मिन् हविर्धाने पूतभृतं पवयति वसवस्त्वा पुनन्त्वित्येतेनैव । पूर्व एव पूतभृदपर आधवनीयः । पूतभृतो मुखे पवित्रं वितनोति पवित्रं ते विततं ब्रह्मणस्पत इत्येतेनैव । तत्र यथादेशं शुक्रपवितारः कुर्वन्ति । तयैवावृता संप्रसर्प्य सदसि पवमानेन स्तुवते । साम्ने साम्ने हिं कुर्वन्ति । अनवानमुष्णिक्ककुभौ गायत्याप्रतिहारात् । स्तुते पशुना चरन्ति । अथ पुरोडाशैरथ राज्ञा । राजनि भक्षिते सीदन्ति नाराशंसाः । सन्नेषु नाराशंसेषु त्र्यावृत्पुरोडाशशकलान्युपास्यन्त्यत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति । अत्र पितामहाः । अत्र प्रपितामहा इति १९

अथ विंशः खण्डः
शस्ते वैश्वदेवे नाराशंसान् भक्षयन्ति । भक्षितेष्वग्नीञ्छालाकानुपकल्पयते । सौम्येन चरन्ति । चरित्वैनमाहरन्ति । तमवेक्षते यन्मे मनोयन्मे मनो यमं गतं यद्वा मे अपरागतम् राज्ञा सोमेन तद्वयं पुनरस्मासु दध्मसि । मनसि मे चक्षुराधाश्चक्षुषि मे मनः आयुष्मत्या ऋचो मा छेत्सि मा साम्नो भागधेयाद् वियोषमिति । तद्धापि छायां पर्यवेक्षेत आत्मनोऽप्रणाशाय । अथो सर्पिषोऽक्ष्णोरादधीत । चक्षुष आप्यायनाय । तदपि विज्ञानमसद् । य आत्मानं न परिपश्येदपेतासुः स स्यात् । तस्मात् सत्यादप्याज्यं भूय आनीय पर्येवात्मानं दिदृक्षेत । सर्वस्यायुषोऽवरुद्ध्यै । अथो सौम्यस्योपहत्यौक्ष्णोरादधीतयेन ह्याजिमजयन्नृचक्षा येन श्येनं शकुनं सुपर्णम् । यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधात्विति । तमवेक्ष्य दक्षिणेनौदुम्बरीं पर्याहृत्य जघनार्धे सदसः सादयति । प्रजापतेर्भागोऽसीति । यज्ञायज्ञीयस्य स्तोत्रमाहरति । तेन प्रावृत उद्गायति । द्वितीयां रथंतरवर्णां करोति । निधनमनु पत्नीमवेक्षते वामी नाम संदृशि विश्वा वामानि धीमहीति । वृष्णस्ते वृष्ण्यावतो विश्वा रेतांसि धीमहीतीतरा प्रतिसमीक्षते । भक्षितेषु यज्ञायज्ञीयस्य सोमेष्वपरया द्वारा सदसोऽधि निष्क्रम्यापरया द्वाराग्नीध्रं प्रपद्याग्नीध्रे स्रुवाहुती जुहोति अपां पुष्पमस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहेति । तूष्णीमुत्तराम् । इति तृतीयसवनम् २०

अथ एकविंशः खण्डः
अनूयाजैश्चरन्ति । अनूयाजैश्चरित्वा हारियोजनेन चरन्ति । हारियोजनस्योच्छेषणादियतीर्वेयतीर्वा धाना आदायाहवनीयस्यान्ते निदधति । आपूर्या स्था मा पूरयत प्रजया च धनेन चेति ॥ शाकलैरेनांस्यवयजन्तेदेवकृतस्यैनसोऽवयजनमसि ऋषिकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसि परकृतस्यैनसोऽवयजनमसि आत्मकृतस्यैनसोऽवयजनमसि एनस एनसोऽवयजनमसि स्वाहेति । दक्षिणेन चात्वालमप्सुषोमान् सोमभक्षावृतावघ्रेण भक्षयन्ति युगपत्समुपहूता इत्यभिव्याहृत्याप्सु धौतस्य देव सोम ते मतिविदो नृभि स्तुतस्य स्तुतस्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षोऽश्वसनिर्गोसनिस्तस्य त उपहूतस्योपहूतो भक्षयामि । वाग्जुषाणा सोमस्य तृप्यत्विति । कामकाममावर्त इति दक्षिणं बाहुमनुपर्यावर्तते । तूष्णीं पुनः सव्यं बाहुमनुपर्यावृत्य शमद्भ्यः शमोषधीभ्यः प्राण सोमपीथे मे जागृहीति द्वितीयम् । भक्षयित्वा चात्वालेऽवनयति समुद्रं वः प्रहिणोमीत्येतेनैव । आग्नीध्रं दधिषोमान् भक्षयन्ति चमसेन यथापूर्वं पाणिभिर्वा युगपद् दधिक्राव्णो अकारिषमित्येतयर्चा २१

अथ द्वाविंशः खण्डः
पत्नीसंयाजैश्चरन्ति । पत्नीसंयाजैश्चरित्वावभृथं संसादयन्ति । अवभृथे विष्टुतीरप्यजत्यौदुम्बरीं चासन्दीं च । अन्तरेण चात्वालं चोत्करं च निष्क्रामन्नाह प्रस्तोतः साम गायेति । स हिंकृत्य साम त्रिर्गायत्यग्निं होतारं मन्ये दास्वन्तमित्येतेषां तृतीयम् । पदाय पदाय स्तोभमाह । सर्वे निधनमुपयन्ति सपत्नीकाः । देवान् वा एतस्मिन् काले रक्षांस्यन्वसचन्त । स एतदग्नी रक्षोहा सामापश्यत्तेन रक्षांस्यपाघ्नत तद्यत् सर्वे निधनमुपयन्ति रक्षसामेवापहत्यै । त्रिः प्रतिष्ठापं हरन्ति । प्रतिष्ठिते प्रतिष्ठिते गायति । त्रयो वा इमे लोकाः । एषां लोकानां समष्ट्यै । अवभृथेष्ट्या चरन्ति । संस्थितायामवभृथेष्ट्यामुपावसृप्याप आचामति भक्षस्यावभृथोऽसि भक्षणस्यावभृथोऽसि भक्षितस्यावभृथोऽसीति । औदुम्बरीरार्द्राः सपलाशाः समिधः कुर्वत एधोऽस्येधिषीमहीति । गत्वाहवनीये समिधोऽभ्यादधाति समिदसि तेजोऽसि तेजोऽसि तेजो मयि धेहि स्वाहेति । अभ्याधायोपतिष्ठतेऽपोऽन्वचारिषं रसेन समसृक्ष्महि पयस्वा अग्न आगमं तं मा संसृज वर्चसेति । अथैतज्जपति शं च म उप च म आयुश्च मे भूयश्च मे यज्ञ शिवो मे संतिष्ठस्व यज्ञ स्विष्टो मे संतिष्ठस्व यज्ञारिष्टो मे संतिष्ठस्वेति । संतिष्ठते सुत्या । यथायथं विसृज्यन्त उद्गातारः । इत्यैकाहिकस्य कर्मणः २२

अथ त्रयोविंशः खण्डः
अग्न्याधेये साम्नां गानकालमुपदेक्ष्यामः । यज्ञोपवीतं कृत्वाप आचम्योत्तरेण विहारदेशं परीत्यापरेण गार्हपत्यायतनं प्राङ्मुखस्तिष्ठन्नरण्योर्निहितो जातवेद इति । अरण्योः संधीयमानयोर्घृताचेराङ्गिरसस्य साम गायति । अग्निं नर इति मथ्यमाने राशिमरायम् । त्वेषस्ते धूम ऋण्वतीति धूम उद्यति कौल्मुदम् । अदर्शि गातुवित्तम इति जाते गाथिनः कौशिकस्य सामाग्नेश्च श्रैष्ठ्यम् । गार्हपत्य आधीयमाने रथन्तरम् । उद्ध्रियमाणे वामदेव्यम् । अन्वाहार्यपचन आधीयमाने यज्ञायज्ञीयम् । प्राञ्चं प्राणीयाहवनीयायतने निदधाति । तदग्नेर्निधि गायति । आहवनीय आधीयमाने बृहत् । आधिते वारवन्तीयं श्यैतमिति । सभ्यावसथ्यौ सभपौष्कलाभ्याम् । सर्वाञ्छ्यैतेनेत्येके । तान्युद्गाता गायेद् गानसंयोगाद् । वेदाधिकृतत्वाद् । अथ ब्रह्मौदने च लिङ्गदर्शनात् । तेषां यानि तृचस्थानानि तृचेषु तानि गायेद् । यान्येकर्चानि त्रिस्त्रिस्तानि । तिष्ठन् । न स्तोत्रभूतानि । मध्यमया वाचा । मनसा वा । ब्रह्मा सामानि गायेदित्येके । सदाग्निहोत्रे गौषूक्ताश्वसूक्ते गेये । सायं गौषूक्तं प्रातरश्वसूक्तमिति । पूर्वस्यामाहुतौ हुतायाम् । कमहमस्मि कं ममेत्येतदुक्त्वा वा । अग्न्याधेयस्य दक्षिणा षट् द्वादश चतुर्विंशतिः । अश्वश्च वानड्वांश्च वा । बहु देयम् । अपरिमितं देयम् । यावतीः संवत्सरस्य रात्रयस्तावतीर्देयाः । आग्नेयस्येडान्तेऽपि सहस्रं दद्यादित्येके समामनन्ति । अनाढ्योऽग्नीनादधानोऽप्येकां गां दद्यादिति पैङ्गकम् । अनग्न्याधेयमेव तद् यत्र गौर्न दीयते २३

अथ चतुर्विंशः खण्ड
प्रवर्ग्ये साम्नां गानकालमुपदेक्ष्यामः । यज्ञोपवीतं कृत्वाप आचम्यान्तरेण वेद्युत्करौ प्रपद्यापरेण होतारं परीत्य दक्षिणतो धर्ममभिमुख उपविश्य वामदेव्येन मदन्तीभिः शान्तिं कुरुते । तं यदाध्वर्युः संप्रेष्यति ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामो होतर्धर्ममभिष्टुहि प्रस्तोतः सामानि गायेति । ब्रह्मजज्ञानमित्येतयोः पूर्वं त्रिर्गायति । अज्यमाने महावीरे शार्ङ्गम् । रुक्म उपधीयमाने शुक्रम् । उत्तरस्मिञ्चन्द्रमभिधीयमाने । घर्मेन्धने घर्मस्य तनू घर्मव्रते च । रुचिते घर्मस्य रोचनम् । राजानं पूर्वस्मिन् रोहिणे हूयमाने । गव्युपसृष्टायां धेनु ककुभं वा । प्रत्तायां पूर्वं श्यावाश्वं गौर्धयति मरुतामिति । दुह्यमाने दोहादोहीयम् । पयस्याह्रियमाणे पयः । सिन्धु पयस्यासिच्यमाने । वसिष्ठस्य शफौ परिगृह्यमाणे । ब्राह्मणस्पत्यं ह्रियमाणे व्रतपक्षौ वा । घर्मे हुतेऽश्विनोर्व्रते । रौहिणकमुत्तरस्मिन् रौहिणे हूयमाने । धर्मे साद्यमान आरूढवदाङ्गिरसं त्रिर्गायति कावं वा । वामदेव्येन मदन्तीभिः शान्तिं कृत्वा यथाप्रपन्नं निष्क्रम्य संस्थितायामुपसद्युत्करे तिष्ठन् सुब्रह्मण्यामाहूय यथार्थमेति २४

अथ पञ्चविंशः खण्डः
अथ परिगाणानि । न गेयानि नाध्वर्युः संप्रेष्यति यदाध्वर्युः संप्रेष्यति गेयानीति । स्वे वा यज्ञे गायेद् यं वा श्रेयांसं कामयेत तस्य वा । दीक्षणीयायां तार्क्ष्यसामती गायेत् । प्रायणीयायां प्रवद्भार्गवम् । आतिथ्यायामौशनं प्रेष्ठं वो अतिथिमिति । प्रवर्ग्ये च यथालिङ्गमुपतिष्ठेत् । अग्नेर्व्रतं सोमस्य व्रतं विष्णोर्व्रतमित्युपसस्तु । सदा निमीयमाने सदसा । हविर्धाने हविर्धानाभ्याम् । अग्निं प्रणयन्ति तदग्नेर्व्रतम् । अग्नीषोमौ प्रणयन्ति तदग्नेर्व्रतं सोमस्य चैव व्रतं तृतीयम् । पवित्रे राजन्यानीयमाने त्रीणि सोमसामानि गायेत् सोमः पवत इति यानि प्रथमादूर्ध्वम् । अहरहः सत्रे सत्रस्यर्द्धि गायेत् । संस्थितेऽहनि पश्चाद् गार्हपत्यं यज्ञसारथ्यहीनैकाहेषु च । प्राक्छ्वःसुत्यां पश्चादेव गार्हपत्यमग्नेरगस्त्यस्यात्रेरिति राक्षोघ्नानि सामानि गायेत् । सर्वान् संश्रावयेद्यजमानान् सपत्नीकान् । अनूबन्ध्येषु च यथालिङ्गम् । औक्ष्णोरन्ध्रमुक्षणि । आर्षभमृषभे । वाशं वशायाम् । उन्नते त्रैककुभम् । आजीकमजे । पय आमिक्षायाम् । दधिनि दधिक्रम् । मधुनि मधुश्च्युन्निधनम् । आज्ये घृतश्च्युन्निधनम् । और्णायवमाविके मेषे च । अथोदयनीयायामुद्वत् । उदवसनीयायामुद्वंशीयम् । सौत्रामण्यां सुरायां सांशानानि सामानि गायेत् २५

अथ षड्विंशः खण्डः
अथ पशुबन्धेषु । सावित्राणि सावित्रे । आग्नेयान्याग्नेये । ऐन्द्राण्यैन्द्रे । वैश्वदेवानि वैश्वदेवे । प्राजापत्यानि प्राजापत्ये । यथालिङ्गं च यथादैवतं चान्येषु । तेषां यानि पशौ शिष्टानि वपान्ते तानि गायेत् । प्रदानकाल उपसत्सु चेष्टिषु च । तानि तत्तत्कर्मापन्नो यज्ञोपवीती प्रागावृत्तस्तिष्ठन्नुपविष्टो वा मध्यमया वाचा गायेत् । तेषां यानि तृचस्थानि तृचेषु तानि गायेत् । यान्येकर्चानि त्रिस्त्रिस्तानि तृचेप्सतायै । तत्र पदाय पदाय स्तोभाननुसंहरेदित्याचार्यसमयः । यथाधीतान्येव गेयानीत्यनुब्राह्मणो वचनात् । तस्मान्मन्त्रैकदेशाभ्यासः स्याद् उद्वासनीय एव सर्वो निधनमुपेयादवभृथसाम्नि च । न वार्षाहरे । आवर्तिव्रतशुक्रियेषु चतुःकर्मापन्नाः कुर्युः । भ्राजाभ्राजाभ्यां तूपद्रवनिधने त्रिरुक्ते स्याताम् । कस्य हेतोरिति । एकविंशे भवतः । सर्वमावर्ति पञ्चोक्तं महाव्रते । अन्यत्र प्रक्षावेभ्यः प्रक्षावेभ्यः २६

इत्यग्निष्टोमस्य जैमिनिसूत्रं समाप्तम्