बौधायन श्रौतसूत्रम्

बौधायन श्रौतसूत्रम्
प्रथमः प्रश्नः

आमावास्येन वा पौर्णमासेन वा हविषा यक्ष्यमाणो भवति
स पुरस्तादेव हविरातञ्चनमुपकल्पयत एकाहेन वा द्व्यहेन वा यथर्त्वथ वै ब्राह्मणं भवति
दध्नातनक्ति सेन्द्र त्वायाग्निहोत्रोच्छेषणमभ्यातनक्ति यज्ञस्य संतत्या इति
चन्द्र मसं वानिर्ज्ञाय संपूर्णं वा विज्ञायाग्नीनन्वादधाति
त्रीणि काष्ठानि गार्हपत्येऽभ्यादधाति त्रीण्यन्वाहार्यपचने त्रीण्याहवनीये
परिसमूहन्त्युपवसथस्य रूपं कुर्वन्त्यथास्य व्रतोपेतस्य पर्णशाखामाच्छैति प्राङ्वोदङ्वा वाचंयमो यत्र वा वेत्स्यन्मन्यते
सा या प्राची वोदीची वा बहुपर्णा बहुशाखाप्रतिशुष्काग्रा भवति तामाच्छिनत्ति इषे त्वोर्जे त्वेति
तया वत्सानपाकरोति वायव स्थोपायव स्थेत्यथैषां मातॄः प्रेरयति देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्निया देवभागमूर्जस्वतीः पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा व स्तेन ईशत माघशँ सो रुद्र स्य हेतिः परि वो वृणक्त्विति
ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानमीक्षतेऽथैताँ शाखामग्रेणाहवनीयं पर्याहृत्य पूर्वया द्वारा प्रपाद्य जघनेन गार्हपत्यमग्निष्ठेऽनस्युत्तरार्धे वाग्न्यगारस्योद्गूहति यजमानस्य पशून्पाहीति नु यदि संनयति
यद्यु वै न संनयति बर्हिः प्रतिपदेव भवति १

अथ जघनेन गार्हपत्यं तिष्ठन्नसिदं वाश्वपर्शुं वादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयते यज्ञस्य घोषदसीति
गार्हपत्ये प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इति त्रिरथाहवनीयमभिप्रैति प्रेयमगाद्धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा त आवहन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमितीह बर्हिरासद इति वेदिं प्रत्यवेक्षतेऽथ तां दिशमेति यत्र बर्हिर्वेत्स्यन्मन्यते
दर्भस्तम्बं परिगृह्णाति यावन्तमलं प्रस्तराय मन्यते देवानां परिषूतमसीत्यथैनमूर्ध्वमुन्मार्ष्टि वर्षवृद्धमसीत्यसिदेनोपयच्छति देवबर्हिर्मा त्वान्वङ्मा तिर्यक्पर्व ते राध्यासमित्याच्छिनत्त्याच्छेत्ता ते मा रिषमित्याच्छेदनान्यभिमृशति देवबर्हिः शतवल्शं विरोहेति
सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्यभिमृशते
सर्वश एवैनँ स्तम्बं लुनोति
कृत्वा प्रस्तरं निदधाति पृथिव्याः संपृचः पाहीति

तूष्णीमत ऊर्ध्वमयुजो मुष्टीन्लुनोति
त्रीन्वा पञ्च वा सप्त वा नव वैकादश वा यावतो वालं मन्यतेऽथ त्रिरन्वाहितँ शुल्बं कृत्वापसलैरावेष्टयत्यदित्यै रास्नासीति
तदुदीचीनाग्रं निधाय
तस्मिन्प्रस्तरमभिसंभरति सुसंभृता त्वा संभरामीति
संनह्यतीन्द्रा ण्यै संनहनमिति
ग्रन्थिं करोति पूषा ते ग्रन्थिं ग्रथ्नात्विति
स ते मास्थादिति पश्चात्प्राञ्चमुपगूहत्यथैनदुद्यच्छत इन्द्र स्य त्वा बाहुभ्यामुद्यच्छ इति
शीर्षन्नधिनिधत्ते बृहस्पतेर्मूध्ना हरामीत्यैत्युर्वन्तरिक्षमन्विहीत्येत्योत्तरेण गार्हपत्यमनधः सादयति देवंगममसीति
तदुपरीव निदधाति यत्र गुप्तं मन्यते
तूष्णीं परिभोजनीयानि लुनोति
सकृदाच्छिन्नं पितृभ्य आच्छिनत्त्यथ तथैव त्रिरन्वाहितँ शुल्बं कृत्वैकविँ शतिदारुमिध्मँ संनह्यति यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविँ शतिधा संभरामि सुसंभृतेति
वेदं करोति वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृतं तेजस्कामस्योर्ध्वाग्रँ स्वर्गकामस्य
वेदिं करोति प्रागुत्तरात्परिग्राहादथापराह्णे पिण्डपितृयज्ञेन चरति २

अथैतस्यै शाखायै पर्णानि प्रच्छिद्याग्रेण गार्हपत्यं निवपत्यथैनामधस्तात्परिवास्य जघनेन गार्हपत्यं स्थविमदुपवेषाय निदधात्यथास्याः प्रादेशमात्रं प्रमाय दर्भनाडीः प्रवेष्ट्य तत्त्रिवृच्छाखापवित्रं करोति त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु म इत्य्
अथ सायँ हुतेऽग्निहोत्र उत्तरेण गार्हपत्यं तृणानि सँ स्तीर्य तेषु चतुष्टयँ सँ सादयति दोहनं पवित्रँ साम्नाय्यतपन्यौ स्थालावित्यथैनान्यद्भिः प्रोक्षति शुन्धध्वं दैव्याय कर्मणे देवयज्याया इति त्रिरथ जघनेन गार्हपत्यमुपविश्योपवेषेणोदीचोऽङ्गारान्निरूहति मातरिश्वनो घर्मोऽसीति
तेषु सांनाय्यतपनीमधिश्रयति द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृँ हस्व मा ह्वारिति
तस्यां प्राचीनाग्रँ शाखापवित्रं निदधाति वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारमिति
तदन्वारभ्य वाचंयम आस्तेऽथ गा आयतीः प्रतीक्षत एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति महेन्द्र इति वा यदि महेन्द्र याजी भवत्यथाहोपसृष्टां मे प्रब्रूतादित्युपसृष्टां प्राहुर्दोह्यमानामनुमन्त्रयते हुत स्तोको हुतो द्र प्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्यामित्यथ पुरस्तात्प्रत्यगानयन्तं पृच्छति कामधुक्ष इत्यमूमितीतरः प्रत्याह
तामनुमन्त्रयते सा विश्वायुरिति
द्वितीयमानयन्तं पृच्छति कामधुक्ष इत्यमूमित्येवेतरः प्रत्याह
तामनुमन्त्रयते सा विश्वव्यचा इति
तृतीयमानयन्तं पृच्छति कामधुक्ष इत्य्
अमूमित्येवेतरः प्रत्याह
तामनुमन्त्रयते सा विश्वकर्मेति
तिसृषु दुग्धासु वाचं विसृजते बहु दुग्धीन्द्रा य देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पतामिति महेन्द्रा येति वा यदि महेन्द्र याजी भवति
विसृष्टवागनन्वारभ्य तूष्णीमुत्तरा दोहयित्वा
दोहनेऽप आनीय संक्षालनमानयति संपृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातय इत्यथैनत्तप्त्वोदगुद्वास्य शीतीकृत्वा तिरः पवित्रं दध्नातनक्ति सोमेन त्वा तनच्मीन्द्रा य दधीति महेन्द्रा येति वा यदि महेन्द्र याजी भवति
यावता मूर्च्छयिष्यन्मन्यते तावदानयत्यग्निहोत्रोच्छेषणमभ्यातनक्ति यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीत्यथैनदुदन्वता कँ सेन वा चमसेन वापिदधात्यदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम्। अद्भिररिक्तेन पात्रेण याः पूताः परिशेरत इति
तदुपरीव निदधाति यत्र गुप्तं मन्यते विष्णो हव्यँ रक्षस्वेत्येतस्मिन्काले दर्भैः प्रातर्दोहाय वत्सानपाकरोति तूष्णीम् ३

अथ प्रातर्हुतेऽग्निहोत्रे हस्तौ संमृशते कर्मणे वां देवेभ्यः शकेयमिति
नक्तं परिस्तीर्णा एवैतेऽग्नयो भवन्ति
यद्यु वा अपरिस्तीर्णा भवन्त्याहवनीयमेवाग्रे पुरस्तात्परिस्तृणात्यथ दक्षिणतोऽथ पश्चादथोत्तरत एवमेवान्वाहार्यपचनं परिस्तृणात्य्
एवं गार्हपत्यम्
अथाग्रेण गार्हपत्यं तृणानि सँ स्तीर्य तेषु द्वन्द्वं न्यञ्चि यज्ञायुधानि सँ सादयति
स्फ्यं च कपालानि चाग्निहोत्रहवणीं च शूर्पं च कृष्णाजिनं च शम्यां चोलूखलं च मुसलं च दृषदं चोपलां च जुहूं चोपभृतं च स्रुवं च ध्रुवां च प्राशित्रहरणं चेडापात्रं च मेक्षणं च पिष्टोद्वपनीं च प्राणीताप्रणयनं चाज्यस्थालीं च वेदं च दारुपात्रीं च योक्त्रं च वेदपरिवासनं च धृष्टिं चेध्मप्रव्रश्चनं चान्वाहार्यस्थालीं च मदन्तीं च यानि चान्यानि पात्राणि तान्येवमेव द्वन्द्वँ सँ साद्य
ब्रह्माणं दक्षिणत उपवेश्य
पृष्ठ्याँ स्तृणाति संततां गार्हपत्यादाहवनीयाद्यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्य स्तृणामीत्यथ बर्हिषः पवित्रे कुरुते प्रादेशमात्रे समे अप्रतिच्छिन्नाग्रे अनखच्छिन्ने इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरताम्पवित्रे हव्यशोधने इत्यथैने अद्भिरनुमार्ष्टि पवित्रे स्थो वैष्णवी स्थो यज्ञिये स्थो वायुपूते स्थो विष्णोर्मनसा पूते स्थो यज्ञस्य पवने स्थ इत्यथोत्तरेण गार्हपत्यमुपविश्य कँ सं वा चमसं वा प्रणीताप्रणयनम्याचति
तस्मिँ स्तिरः पवित्रमप आनयन्नाह ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेति
प्रसूतः समं प्राणैर्धारयमाणोऽविषिञ्चन्हृत्वोत्तरेणाहवनीयं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य
पवित्रमादाय्क्त प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्यादत्ते दक्षिणेनाग्निहोत्रहवणीँ सव्येन शूर्पं वेषाय त्वेति

गार्हपत्ये प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इति त्रिरथ जघनेन गार्हपत्यमग्निष्ठमनो भवति
तस्योत्तरां धुरमभिमृशति धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वाम इत्यनोऽभिमन्त्रयते त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममह्रुतमसि हविर्धानं दृँ हस्व मा ह्वारिति ४

अथ विष्णोः क्रमोऽसीति दक्षिणमक्षपालिं क्रमित्वाभ्यारुह्य प्रौगे शूर्पं निदधाति
शूर्पे स्रुचं स्रुचि पवित्रे
अथ पुरोडाशीयान्प्रेक्षते मित्रस्य त्वा चक्षुषा प्रेक्षे मा भेर्मा संविक्थार्मा त्वा हिँ सिषमित्युरु वातायेति तृणं वा किँ शारु वा निरस्यत्यथाप उपस्पृश्य दशहोतारं व्याख्याय हविर्निर्वप्स्यामीति यजमानमामन्त्र्य पवित्रवत्याग्निहोत्रहवण्या निर्वपति
यद्यु वै नानो भवति जघनेन गार्हपत्यँ स्फ्यं निदधाति स्फ्योपरि पात्रीं पात्र्यां पुरोडाशीयानावपत्यथ पूर्वार्धं पात्र्या अभिमृशति धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वामस्त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममह्रुतमसि हविर्धानं दृँ हस्व मा ह्वा इत्यथ पुरोडाशीयान्प्रेक्षते मित्रस्य त्वा चक्षुषा प्रेक्षे मा भेर्मा संविक्थार्मा त्वा हिँ सिषमित्युरु वातायेति तृणं वा किँ शारु वा निरस्यत्यथाप उपस्पृश्य दशहोतारं व्याख्याय हविर्निर्वप्स्यामीति यजमानमामन्त्र्य पवित्रवत्याग्निहोत्रहवण्या निर्वपत्य्
ॐ निर्वपेति यजमानोऽनुजानात्यथ निर्वपति
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामीति त्रिरेतेन यजुषा
सकृत्तूष्णीम्
एतामेव प्रतिपदं कृत्वाग्नीषोमाभ्यामिति पौर्णमास्यामिन्द्रा य वैमृधायेति चेन्द्रा ग्निभ्यामित्यमावास्यायामसंनयत इन्द्रा येति संनयतो महेन्द्रा येति वा यदि महेन्द्र याजी भवत्यथ निरुप्तानभिमृशतीदं देवानामितीदमु नः सहेति येऽतिशिष्टा भवन्ति
स्फात्यै त्वा नारात्या इत्यथाहवनीयमीक्षते सुवरभिविख्येषं वैश्वानरं ज्योतिरित्यथ गृहानन्वीक्षते दृँ हन्तां दुर्या द्यावापृथिव्योरित्यथैनानादायोपोत्तिष्ठत्यैत्युर्वन्तरिक्षमन्विहीत्येत्योत्तरेण गार्हपत्यमुपसादयत्यदित्यास्त्वोपस्थे सादयामीति
गार्हपत्यमभिमन्त्रयतेऽग्ने हव्यँ रक्षस्वेति ५

अथैतस्यामेव स्रुचि तिरः पवित्रमप आनीयोदीचीनाग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति देवो वः सवितोत्पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति पच्छोऽथैना उन्महयन्नुपोत्तिष्ठत्यापो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये यूयमिन्द्र मवृणीध्वं वृत्रतूर्य द्भिरेवापः प्रोक्षति प्रोक्षिता स्थ प्रोक्षिता स्थेति त्रिरथ पुरोडाशीयान्प्रोक्षति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्याममुष्मा अमुष्मा इति यथादेवतं त्रिर्
उत्तानानि पात्राणि कृत्वा प्रोक्षति शुन्धध्वं दैव्याय कर्मणे देवयज्याया इति त्रिरतिशिष्टाः प्रोक्षणीर्निधाय
कृष्णाजिनमवधूनोत्यूर्ध्वग्रीवमुदङ्ङावृत्यावधूतँ रक्षोऽवधूता अरातय इति त्रिरथैनत्पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणात्यदित्यास्त्वगसि प्रति त्वा पृथिवी वेत्त्विति
तस्मिन्नुलूखलमध्यूहत्यधिषवणमसि वानस्पत्यं प्रति त्वादित्यास्त्वग्वेत्त्विति
तस्मिन्पुरोडाशीयानावपत्यग्नेस्तनूरसि वाचो विसर्जनं देववीतये त्वा गृह्णामीति
मुसलमवदधात्यद्रि रसि वानस्पत्यः स इदं देवेभ्यो हव्यँ सुशमि शमिष्वेत्यथ हविष्कृतमाह्वयति हविष्कृदेहि हविष्कृदेहीति त्रिः समाहन्तवा इति च अथ दृषदुपले वृषारवेणोच्चैः समाहन्तीषमावदोर्जमावद द्युमद्वदत वयँ संघातं जेष्मेत्यवहत्योत्तुषान्कृत्वोत्तरतः शूर्पमुपयच्छति वर्षवृद्धमसीति
तस्मिन्पुरोडाशीयानुद्वपति प्रति त्वा वर्षवृद्धं वेत्त्वित्यथोदङ्पर्यावृत्य परापुनाति परापूतँ रक्षः परापूता अरातय इति
सव्येन तुषानुपहत्येमां दिशं निरस्यति रक्षसां भागोऽसीत्यथाप उपस्पृश्य विविनक्ति वायुर्वो विविनक्त्विति
पात्र्यां तण्डुलान्प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्यवहन्त्र्यै प्रयच्छन्नाह त्रिष्फलीकर्तवै त्रिष्फलीकृतान्मे प्रब्रूतादिति

त्रिष्फलीकृतान्प्राहुस्त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहतादित इति तण्डुलप्रक्षालनमन्तर्वेदि निनयत्युत्करदेशे वैतस्मिन्काले प्रातर्दोहं धेनूर्दोहयत्युदगग्रेण पवित्रेण
नात्रातनक्ति ६

अथ प्रोक्तेषु त्रिष्फलीकृतेषु तथैव कृष्णाजिनमवधूनोत्यूर्ध्वग्रीवमुदङ्ङावृत्यावधूतँ रक्षसवधूता अरातय इति त्रिरथैनत्पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणात्यदित्यास्त्वगसि प्रति त्वा पृथिवी वेत्त्विति
तस्मिन्नुदीचीनकुम्बाँ शम्यां निदधाति दिव स्कम्भनिरसि प्रति त्वादित्यास्त्वग्वेत्त्विति
तस्यां प्राचीं दृषदमध्यूहति धिषणासि पर्वत्या प्रति त्वा दिव स्कम्भनिर्वेत्त्विति
दृषद्युपलामध्यूहति धिषणासि पार्वतेयी प्रति त्वा पर्वतिर्वेत्त्विति
तस्यां पुरोडाशीयानधिवपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नीषोमाभ्याममुष्मा अमुष्मा इति यथादेवतम्
अधिवदते धान्यमसि धिनुहि देवान्धिनुहि यज्ञं धिनुहि यज्ञपतिं धिनुहि मां यज्ञनियमिति
पिँ षति प्राणाय त्वापानाय त्वा व्यानाय त्वेति
बाहू अन्ववेक्षते दीर्घामनु प्रसितिमायुषे धामिति
कृष्णाजिने पिष्टानि प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति

हविःपेष्यै प्रयच्छन्नाहासंवपन्ती पिँ षाणूनि कुरुतादिति
पिँ षन्ति पुरोडाशीयान्
नि चरव्यान्दधति
यदि चरुं करिष्यन्भवति प्रागधिवपनाच्चरुपुरोडाशीयान्विभजेरन् ७

अथैतानि कपालानि प्रक्षालितानि जघनेन गार्हपत्यमुपसादयत्यष्टौ दक्षिणत एकादशोत्तरतोऽथ जघनेन गार्हपत्यमुपविश्य धृष्टिमादत्ते धृष्टिरसि ब्रह्म यच्छेति
गार्हपत्यमभिमन्त्रयतेऽपाग्नेऽग्निमामादं जहीति
निष्क्रव्यादँ सेधेति दक्षिणाङ्गारं निरस्यत्यथान्यमावर्तयत्या देवयजं वहेति
तं दक्षिणेषां कपालानां मध्यमेनाभ्युपदधाति ध्रुवमसि पृथिवीं दृँ हायुर्दृँह प्रजां दृँ ह सजातानस्मै यजमानाय पर्यूहेत्यङ्गारमधिवर्तयति निर्दग्धँ रक्षो निर्दग्धा अरातय इत्यथ पूर्वार्ध्यमुपदधाति धर्त्रमस्यन्तरिक्षं दृँ ह प्राणं दृँ हापानं दृँ ह सजातानस्मै यजमानाय पर्यूहेत्यथापरार्ध्यमुपदधाति धरुणमसि दिवं दृँ ह चक्षुर्दृँ ह श्रोत्रं दृँ ह सजातानस्मै यजमानाय पर्यूहेत्यथ दक्षिणार्ध्यमुपदधाति धर्मासि दिशो दृँ ह योनिं दृँ ह प्रजां दृँ ह सजातानस्मै यजमानाय पर्यूहेत्यथ पूर्वमुपधिमुपदधाति चित स्थ प्रजामस्मै रयिमस्मै सजातानस्मै यजमानाय पर्यूहेत्यथापरमेवमेव
द्वे उत्तरतः सँ स्पृष्टे उपदधाति चित स्थ प्रजामस्मै रयिमस्मै सजातानस्मै यजमानाय पर्यूहेत्य्
अथैनान्यङ्गारैरधिवासयति भृगूणामङ्गिरसां तपसा तप्यध्वमित्यथैनानि योगेन युनक्ति यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू युङ्क्तामित्येवमेवोत्तराणि कपालान्युपदधात्यभीन्धते कपालान्युपेन्धते चरुस्थालीम्
अध्यस्यन्ति श्रपणानि
तपन्ति पिष्टसंयवनीया आपः ८

अथोत्तरेण गार्हपत्यमुपविश्य वाचंयमस्तिरः पवित्रं पात्र्यां कृष्णाजिनात्पिष्टानि संवपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टँ संवपाम्यग्नीषोमाभ्याममुष्मा अमुष्मा इति यथादेवतम्
अथ परिकर्मिणमाहाहराप आनयेत्याहरति प्रैषकारः प्रणीताभ्यः स्रुवेणोपहत्य वेदेनोपयम्य पाणिं वान्तर्धायैवं मदन्तीभ्यस्
ता उभयीरानीयमानाः प्रतिमन्त्रयते समापो अद्भिरग्मत समोषधयो रसेन सँ रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिः सृज्यध्वमित्यथानुपरिप्लावयत्यद्भ्यः परि प्रजाता स्थ समद्भिः पृच्यध्वमिति
संयौति जनयत्यै त्वा संयौमीति
संयुत्य व्यूह्याभिमृशत्यग्नये त्वाग्नीषोमाभ्याममुष्मा अमुष्मा इति यथादेवतम्पिण्डं करोति मखस्य शिरोऽसीति
तं दक्षिणेषां कपालानां प्रत्यूह्याङ्गाराँ स्तेष्वधिपृणक्ति घर्मोऽसि विश्वायुरिति
प्रथयत्युरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति

तं तन्वन्तं कूर्मप्रकारं करोति
सर्वाणि कपालान्यभिप्रथयतीति ब्राह्मणम् ९

अथ तिरः पवित्रमाज्यस्थाल्यामाज्यं निर्वपति महीनां पयोऽस्योषधीनाँ रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्याया इत्यथोत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेष्वधिश्रयत्येवमेवोत्तरं पुरोडाशमधिपृणक्त्यथ शृतमथ दध्यथ पात्र्यामप आनीय दक्षिणस्य पुरोडाशस्य त्वचं ग्राहयति त्वचं गृह्णीष्व त्वचं गृह्णीष्वेति त्रिरथोत्तरस्याथ पर्यग्नि करोत्यन्तरितँ रक्षोऽन्तरिता अरातय इति त्रिरथ दक्षिणं पुरोडाशँ श्रपयति देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाकेऽग्निस्ते तनुवं माति धागिति
गार्हपत्यमभिमन्त्रयते अग्ने हव्यँ रक्षस्वेत्येवमेवोत्तरं पुरोडाशँ श्रपयत्यथ दक्षिणं पुरोडाशं भस्मनाभिवास्य वेदेनाभिवासयति सं ब्रह्मणा पृच्यस्व सं ब्रह्मणा पृच्यस्वेति त्रिरथोत्तरम्
अविदहन्त श्रपयतेति वाचं विसृजतेऽत्रैतत्पात्रीसंक्षालनं गार्हपत्यादङ्गारेणाभितप्य हृत्वान्तर्वेदि प्रतीचीनं तिसृषु लेखासु निनयत्येकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहेत्यथ वेदमादत्तेऽयं वेदः पृथिवीमन्वविन्दद्गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोत्विति
वेदेन वेदिं त्रिः संमार्ष्टि वेदेन वेदिं विविदुः पृथिवीँ सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिरिति १०

अथ जघनेन वेद्यै तिष्ठन्स्फ्यमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयत इन्द्र स्य बाहुरसि दक्षिणः सहस्रभृष्टिः शततेजा इत्यथैनं बर्हिषा सँ श्यति वायुरसि तिग्मतेजाः शतभृष्टिरसि वानस्पत्यो द्विषतो वध इत्यथान्तर्वेद्युदीचीनाग्रं बर्हिर्निदधाति पृथिव्यै वर्मासि वर्म यजमानाय भवेति
तस्मिँ स्फ्येन प्रहरति पृथिवि देवयजन्योषध्यास्ते मूलं मा हिँ सिषमित्यपहतोऽररुः पृथिव्या इत्यादत्ते
व्रजं गच्छ गोस्थानमिति हरति
वेदिं प्रत्यवेक्षते वर्षतु ते द्यौरिति
हृत्वोत्करे निवपति बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति
द्वितीयं प्रहरति पृथिवि देवयजन्योषध्यास्ते मूलं मा हिँ सिषमित्यपहतोऽररुः पृथिव्यै देवयजन्या इत्यादत्ते
व्रजं गच्छ गोस्थानमिति हरति
वेदिं प्रत्यवेक्षते वर्षतु ते द्यौरिति
हृत्वोत्करे निवपति बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति
तृतीयं प्रहरति पृथिवि देवयजन्योषध्यास्ते मूलं मा हिँ सिषमित्यपहतोऽररुः पृथिव्या अदेवयजन इत्यादत्ते
व्रजं गच्छ गोस्थानमिति हरति
वेदिं प्रत्यवेक्षते वर्षतु ते द्यौरिति

हृत्वोत्करे निवपति बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगररुस्ते दिवं मा स्कानित्यत्रानुवर्तयति
तूष्णीं चतुर्थँ हरति सह बर्हिषाथ पूर्वं परिग्राहं परिगृह्णाति वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसेति दक्षिणतो रुद्रा स्त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसेति पश्चादादित्यास्त्वा परिगृह्णन्तु जागतेन छन्दसेत्युत्तरतोऽथ करणं जपतीमां नराः कृणुत वेदिमेत्य वसुमतीँ रुद्र वतीमादित्यवतीं वर्ष्मन्दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येदित्यथ प्राचीँ स्फ्येन वेदिमुद्धन्ति देवस्य सवितुः सवे कर्म कृण्वन्ति वेधस इत्यथाग्नीध्रमाहाग्नीदितस्त्रिर्हरेति
ततस्त्रिराग्नीध्रो हरति
यदाग्नीध्रस्त्रिर्हरत्यथ संप्रैषमाह ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीति
प्रसूत उत्तरं परिग्राहं परिगृह्णात्यृतमसीति दक्षिणत ऋतसदनमसीति पश्चादृतश्रीरसीत्युत्तरतोऽथ प्रतीचीँ स्फ्येन वेदिं योयुप्यते धा असि स्वधा अस्युर्वी चासि वस्वी चासि पुरा क्रूरस्य विसृपो विरप्शिन्नुदादाय पृथिवीं जीरदानुर्यामैरयञ्चन्द्र मसि स्वधाभिस्तां धीरासो अनुदृश्य यजन्त इत्यथान्तर्वेदि तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि पत्नीँ संनह्याज्येनोदेहीत्याहरन्त्येताः प्रोक्षणीरभिपूर्य

दक्षिणेनाध्वर्युस्ता स्फ्य उपनिनीय स्फ्यस्य वर्त्मन्सादयत्यथोत्करे स्फ्यं निहन्ति यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मीति
हस्तौ प्रक्षाल्य स्फ्यं च प्रक्षालयत्युपसादयन्त्येतदिध्माबर्हिर्दक्षिणमिध्ममुत्तरं बर्हिः ११

अथैताः स्रुचः समादत्ते दक्षिणेन स्रुवं जुहूपभृतौ सव्येन ध्रुवां प्राशित्रहरणं वेदपरिवासनानीति
गार्हपत्ये प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयोऽग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीत्यथ स्रुवँ संमार्ष्टि गोष्ठं मा निर्मृक्षम्वाजिनं त्वा सपत्नसाहँ संमार्ज्मीति
त्रिरन्तरतस्त्रिर्बाह्यतस्त्रिरेवं मूलैर्दण्डँ संमृज्याद्भिः सँ स्पर्श्य प्रतितप्योत्प्रयच्छत्यथ जुहूँ संमार्ष्टि वाचं प्राणं मा निमृक्षम्वाजिनीं त्वा सपत्नसाहीँ संमार्ज्मीति
तथिव संमृज्याद्भिः सँ स्पर्श्य प्रतितप्योत्प्रयच्छत्यथोपभृतँ संमार्ष्टि चक्षुः श्रोत्रं मा निर्मृक्षम्वाजिनीं त्वा सपत्नसाहीँ संमार्ज्मीति
तथैव संमृज्याद्भिः सँ स्पर्श्य प्रतितप्योत्प्रयच्छत्यथ ध्रुवाँ संमार्ष्टि प्रजां योनिं मा निर्मृक्षम्वाजिनीं त्वा सपत्नसाहीँ संमार्ज्मीति
तथैव संमृज्याद्भिः संस्पर्श्य प्रतितप्योत्प्रयच्छत्यथ प्राशित्रहरणँ संमार्ष्टि रूपं वर्णं पशुभ्यो मा निर्मृक्षम्वाजिनं त्वा सपत्नसाहँ संमार्ज्मीति

तथैव संमृज्याद्भिः सँ स्पर्श्य प्रतितप्योत्प्रयच्छत्यथैतानि स्रुक्संमार्जनान्यद्भिः सँ स्पर्श्य गार्हपत्येऽनुप्रहरति दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितं तेन वयँ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेत्यथाग्रेणोत्करं तृणानि सँ स्तीर्य तेषु स्रुचः सादयित्वाथैतां पत्नीमन्तरेण वेद्युत्करौ प्रपाद्य जघनेन दक्षिणेन गार्हपत्यमुदीचीमुपवेश्य योक्त्रेण संनह्यत्याशासाना सौमनसं प्रजाँ सौभाग्यं तनूमग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कमिति
अथैनां वाचयति युक्तं क्रियाता आशीः कामे युज्याता इति
अथैनां तिरः पवित्रमप आचामयति पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजेत्यथैनां गार्हपत्ये समिध आधापयत्यग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहेत्यथ जघनेन गार्हपत्यमुपसीदति सुप्रजसस्त्वा वयं सुपत्नीरुपसेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम्॥ इन्द्रा णीवाविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वाय ॥ मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट्
उताहमस्मि संजया पत्युर्मे श्लोक उत्तम इति
अथैनां वाचयत्यूनेऽतिरिक्तं धीयाता इति च

अथैनां गार्हपत्यमीक्षयत्यग्ने गृहपत उप मा ह्वयस्व देवानां पत्नीरुप मा ह्वयध्वम्पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिँ सीरित्यथैनामाज्यमवेक्षयति महीनां पयोऽस्योषधीनाँ रसोऽदब्धन त्वा चक्षुषावेक्षे सुप्रजास्त्वायेत्यथैनद्गार्हपत्येऽधिश्रयति तेजोऽसीति
समिधमुपयत्य प्राङ्हरति तेजोऽनु प्रेहीत्यथैनदाहवनीयेऽधिश्रयत्यग्निस्ते तेजो मा विनैदित्यत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधाति स्वाहेति
अथैनदग्रेण प्रोक्षणीः पर्याहृत्य दक्षिणार्धे वेद्यै निधाय यजमानमाज्यमवेक्षयति निमील्यावेक्षेतेति ब्राह्मणम्
अथैनद्यथाहृतं प्रतिपर्याहृत्योत्तरार्धे वेद्यै निधायाध्वर्युरवेक्षतेऽग्नेर्जिह्वासि सुभूर्देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवेत्यथैनदुदीचीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पुनाति शुक्रमसि ज्योतिरसि तेजोऽसीत्यथ प्रोक्षणीरुत्पुनाति देवो वः सवितोत्पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति पच्छः
प्रोक्षणीषु पवित्रे अवधायादत्ते दक्षिणेन स्रुवं सव्येन जुहूं वेदे प्रतिष्ठाप्य तस्यां गृह्णीते शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामीत्येतेन यजुषा चतुर्गृहीतं गृहीत्वा संमृश्योत्प्रयच्छत्य्
अथोपभृति गृह्णीते ज्योतिस्त्वा ज्योतिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामीत्येतेन यजुषाष्टगृहीतं गृहीत्वा भूयसो ग्रहान्गृह्णानः कनीय आज्यं गृह्णीते
तथैव संमृश्योत्प्रयच्छत्यथ ध्रुवायां गृह्णीतेऽर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामीत्येतेन यजुषा चतुर्गृहीतं गृहीत्वाभिपूर्य तथैव संमृश्योत्प्रयच्छति १२

अथैतामाज्यस्थालीँ सस्रुवां जघनेन वेद्यै निधाय प्रोक्षणीरुन्महयन्नुपोत्तिष्ठत्यापो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिम्धत्त युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये यूयमिन्द्र मवृणीध्वं वृत्रतूर्य इत्यद्भिरेवापः प्रोक्षति प्रोक्षिता स्थ प्रोक्षिता स्थेति त्रिरथेध्मं विस्रस्य प्रोक्षति कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहेति
वेदिं प्रोक्षति वेदिरसि बर्हिषे त्वा स्वाहेति
बर्हिः प्रोक्षति बर्हिरसि स्रुग्भ्यस्त्वा स्वाहेत्याहरन्त्येतद्बर्हिरन्तरेण प्रणीताश्चाहवनीयं च
तदन्तर्वेदि पुरोग्रन्थ्यासाद्य प्रोक्षति दिवे त्वेत्यग्राण्यन्तरिक्षाय त्वेति मध्यानि पृथिव्यै त्वेति मूलानि
सह स्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्ष्यातिशिष्टाः प्रोक्षणीर्निनयति दक्षिणायै श्रोणेरोत्तरायै श्रोणेः स्वधा पितृभ्य ऊर्ग्भव बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छतेत्युदूह्य प्रोक्षणीधानं बर्हिर्विस्रस्य पुरस्तात्प्रस्तरं गृह्णाति विष्णो स्तूपोऽसीति

तस्मिन्पवित्रे अपिसृजति यजमाने प्राणापानौ दधामीति वा तूष्णीं वा
तं यजमानाय वा ब्रह्मणे वा प्रयच्छत्यथैतानि बर्हिःसंनहनान्यायातयति दक्षिणायै श्रोणेरोत्तरादँ सादथ दक्षिणे वेद्यन्ते बर्हिर्मुष्टिँ स्तृणाति देवबर्हिरूर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्य इति
तां बहुलां पुरस्तात्प्रतीचीं त्रिवृतमनतिदृश्नँ स्तृणात्यथ प्रस्तरपाणिः प्राङभिसृप्य परिधीन्परिदधाति गन्धर्वोऽसि विश्वावसुर्विश्वस्मादीषत यजमानस्य परिधिरिड ईडित इति मध्यममिन्द्र स्य बाहुरसि दक्षिण यजमानस्य परिधिरिड ईडित इति दक्षिणम्मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा यजमानस्य परिधिरिड ईडित त्तरम्
अथ सूर्येण पुरस्तात्परिदधाति सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्या इत्यूर्ध्वे समिधावादधाति वीतिहोत्रं त्वा कवे द्युमन्तँ समिधीमह्यग्ने बृहन्तमध्वर इति दक्षिणां तूष्णीमुत्तरामभ्याधायान्तर्वेद्युदीचीनाग्रे विधृती तिरश्ची सादयति विशो यन्त्रे स्थ इति
विधृत्योः प्रस्तरम्वसूनाँ रुद्रा णामादित्यानाँ सदसि सीदेति
प्रस्तरे जुहूं जुहूरसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीदेत्युत्तरामुपभृतमुपभृदसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीदेत्युत्तरां ध्रुवां ध्रुवासि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीदेत्यथ स्रुचः सन्ना अभिमृशत्येता असदन्त्सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञम्पाहि यज्ञपतिम्पाहि मां यज्ञनियमित्य्
अथ विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानीत्याज्यान्यभिमन्त्रयते १३

अथादत्ते दक्षिणेनाज्यस्थालीँ सस्रुवाँ सव्येन पात्रीं वेदमित्येतत्समादाय प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यमुपविश्य पात्र्यां द्वेधोपस्तृणीते स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्त्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इत्यथ धृष्टिमादाय दक्षिणस्य पुरोडाशस्याङ्गारानपोहतीदमहँ सेनाया अभीत्वर्यै मुखमपोहामीत्यथैनं विदर्शयति सूर्य ज्योतिर्विभाहि महत इन्द्रि यायेति
वेदेन विरजसं कृत्वाभिघारयत्याप्यायतां घृतयोनिरग्निर्हव्यानुमन्यताम्। खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिघारयामीति
यद्देवत्यो वा भवत्यथैनमुद्वासयति शृत उत्स्नाति जनिता मतीनामित्याज्येन सुसंतर्पयत्यार्द्रः प्रथस्नुर्भुवनस्य गोपा इत्युपरिष्टादभ्यज्याधस्तादुपानक्ति यस्त आत्मा पशुषु प्रविष्टस्तमङ्क्ष्वेत्येवमेवोत्तरं पुरोडाशमुद्वासयत्यथ शृतमथ दध्यथ सांनाय्ये अलंकरोति यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्त्सोम घृतवान्हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यमिति
प्रत्यज्य कपालान्युद्वासयतीरा भूतिः पृथिव्यै रसो मोत्क्रमीदिति
संख्यायोद्वासयति यजमानस्य गोपीथायेति ब्राह्मणम्

अथैनँ स्रुवमाज्यस्य पूरयित्वानतरेण पुरोडाशाववदधात्यथैनानि संपरिगृह्यान्तर्वेद्यासादयति भूर्भुवः सुवरित्येताभिर्व्याहृतीभिर्मध्यतः पुरोडाशावासादयति दक्षिणतः शृतमुत्तरतो दध्यथैनँ स्रुवमग्रेण स्रुचः पर्याहृत्य दक्षिणेन जुहूं प्रसत्रे सादयति स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्ना इत्यथैनं यथाहृतं प्रतिपर्याहृत्य ध्रुवायामवदधात्यृषभोऽसि शाक्वरो घृताचीनाँ सूनुः प्रियेण नाम्ना प्रिये सदसि सीदेति १४

अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यथ यत्र होतुरभिजानाति प्र वो वाजा अभिद्यव इति तत्प्रथमामभ्यादधाति
प्रणवेप्रणवेऽभ्यादधात्यथ यत्र होतुरभिजानाति समिद्धो अग्न आहुतेति तदन्ततोऽभ्यादधाति
परि समिधँ शिनष्ट्यथ यत्र होतुरभिजानात्याजुहोता दुवस्यतेति तदेतेन वेदेन त्रिराहवनीयमुपवाजयत्यनूक्तासु सामिधेनीषु ध्रुवाज्यात्स्रुवेणोपहत्य वेदेनोपयम्य प्राजापत्यं तिर्यञ्चमाघारमाघारयति प्रजापतये स्वाहेति मनसाथ संप्रैषमाहाग्नीदग्नीँ स्त्रिस्त्रिः संमृड्ढीत्यथैष आग्नीध्र इध्मसंनहनानि स्फ्य उपसंगृह्य परिधीन्संमार्ष्टि त्रिर्मध्यमं त्रिर्दक्षिणार्ध्यं त्रिरुत्तरार्ध्यं त्रिराहवनीयमुपवाजयत्यग्ने वाजजिद्वाजं त्वाग्ने सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्यायेत्यथाग्रेण जुहूपभृतौ प्राञ्चमञ्जलिं करोति भुवनमसि विप्रथस्वाग्ने यष्टरिदं नम इत्यथादत्ते दक्षिणेन जुहूं जुह्वेह्यग्निस्त्वा ह्वयति देवयज्याया इति
सव्येनोपभृतमुपभृदेहि देवस्त्वा सविता ह्वयति देवयज्याया इति
सव्येनात्याक्रामञ्जपत्यग्नाविष्णू मा वामवक्रमिषम्विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृणुतमिति
स्थानं कल्पयते विष्णो स्थानमसीत्यन्वारब्धे यजमाने मध्यमे परिधौ सँ स्पर्श्यर्जुमाघारमाघारयति संततं प्राञ्चमव्यवच्छिन्दन्नित इन्द्रो अकृणोद्वीर्याणि समारभ्योर्ध्वो अध्वरो दिविस्पृशमह्रुतो यज्ञो यज्ञपतेरिन्द्रा वान्त्स्वाहेति
बृहद्भा इति स्रुचमुद्गृह्णात्यथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रामञ्जपति पाहि माग्ने दुश्चरितादा मा सुचरिते भजेति
जुह्वा ध्रुवाँ समनक्ति मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्तामिति त्रिरथ यथायतनँ स्रुचौ सादयित्वा प्रवरं प्रवृणीत उत्कर इध्मसंनहनानि स्फ्य उपसंगृह्य पृष्ठमाग्नीध्रोऽनूपश्लिष्यत्य्
अथाश्रावयत्यो श्रावयास्तु श्रौषडग्निर्देवो होता देवान्यक्षद्विद्वाँ श्चिकित्वान्मनुष्वद्भरतवदमुवदमुवद्ब्रह्मण्वदेह वक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावितार इत्यसौ मानुष इति होतुर्नाम गृह्णात्युपोत्थाय होता विमुञ्चति
विमुक्तोऽध्वर्युरुपविशति
प्रसवमाकाङ्क्षन्नास्ते १५

अथ यत्र होतुरभिजानाति घृतवतीमध्वर्यो स्रुचमास्यस्वेति तज्जुहूपभृतावादायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहोति यज यजेति
चतुर्थं यक्ष्यन्नर्धमौपभृतस्याज्यस्य जुह्वाँ समानयते
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँ स्रावेणानुपूर्वँ हवीँ ष्यभिघारयति ध्रुवामेवाग्रेऽथ दक्षिणं पुरोडाशमथ ध्रुवामथोत्तरं पुरोडाशमथ शृतमथ दध्युपभृतमन्ततोऽथ चतुर आज्यस्य गृह्णान आहाग्नयेऽनुब्रूहीत्यत्याक्रम्याश्राव्याहाग्निं यजेति
वषट्कृत उत्तरार्धपूर्वार्धे प्रतिमुखं प्रबाहुग्जुहोत्यथोदङ्ङत्याक्रम्य चतुर एवाज्यस्य गृह्णान आह सोमायानुब्रूहीत्यत्याक्रम्याश्राव्याह सोमं यजेति
वषट्कृते दक्षिणार्धपूर्वार्धे प्रतिमुखं प्रबाहुग्जुहोत्यथोपस्तीर्य दक्षिणस्य पुरोडाशस्य पूर्वार्धादवद्यन्नाहाग्नयेऽनुब्रूहीत्यथैनमुपतिष्ठते मा भेर्मा संविक्थार्मा त्वा हिँ सिषम्मा ते तेजोऽपक्रमीदित्य्
अथैनमभिमृशति भरतमुद्धरे मनुषिञ्चावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिँ सीरिति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति यदवदानानि तेऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्यायतां पुनरित्यत्याक्रम्याश्राव्याहाग्निं यजेति
वषट्कृते जुहोत्यथ चतुर आज्यस्य गृह्णान आह प्रजापतय इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह प्रजापतिमित्युपाँ शु यजेत्युच्चैर्वषट्कृते जुहोत्यथोपस्तीर्योत्तरस्य पुरोडाशस्यापरार्धादवद्यन्नाहाग्नीषोमाभ्यामिति पौर्णमास्यामिन्द्रा य वैमृधायेति चेन्द्रा ग्निभ्यामित्यमावास्यायामसंनयत इन्द्रा येति संनयतो महेन्द्रा येति वा यदि महेन्द्र याजी भवति १६

समान उपस्थानः
समानोऽभिमर्शनोऽपरार्धादवदाय पूर्वार्धादवद्यत्यभिघारयति
समानः प्रत्यञ्जनोऽत्याक्रम्याश्राव्याहाग्नीषोमौ यजेति
वषट्कृते जुहोत्यथोपस्तीर्य द्विः पुरोडाशस्यावद्यन्नाहेन्द्रा यानुब्रूहीति महेन्द्रा येति वा यदि महेन्द्र याजी भवति
द्विः पुरोडाशस्यावद्यति द्विः शृतस्य द्विर्दध्नोऽभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याहेन्द्रं यजेति महेन्द्र मिति वा यदि महेन्द्र याजी भवति
वषट्कृते जुहोत्यथोपस्तीर्य दक्षिणस्य पुरोडाशस्योत्तरार्धादवद्यन्नाहाग्नये स्विष्टकृतेऽनुब्रूहीति
सकृद्दक्षिणस्य पुरोडाशस्योत्तरार्धादवद्यति सकृद्ध्रुवाज्यात्सकृदुत्तरस्य पुरोडाशस्य सकृच्छृतस्य सकृद्दध्नो द्विरभिघारयति
न प्रत्यनक्त्यवत्ते स्विष्टकृति स्रुवेण पार्वणौ होमौ जुहोत्यृषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताँ सुवीर्यँ रायस्पोषँ सहस्रिणम्। प्राणाय सुराधसे पूर्णमासाय स्वाहेति पौर्णमास्याम्

अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहताँ सुवीर्यँ रायस्पोषँ सहस्रिणम्। अपानाय सुराधसेऽमावास्यायै स्वाहेत्यमावास्यायाम्
अत्याक्रम्याश्राव्याहाग्निँ स्विष्टकृतं यजेति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यत्रैतन्मेक्षणमाहवनीयेऽनुप्रहरत्यथैनत्सँ स्रावेणाभिजुहोत्यथोदङ्ङत्याक्रम्य जुह्वामप आनीय संक्षालनमन्तःपरिधि निनयति वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सँ शतधारमेतम्। स नः पितरं पितामहं प्रपितामहँ सुवर्गे लोके गच्छतु पिन्वमानँ स्वधा नम इति
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वा बहिःपरिधि निनयतीमँ समुद्रँ शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिँ सीः परमे व्योमन्नित्यत्रैतदौपभृतमाज्यँ सर्वश एव जुह्वाँ समानयतेऽथ यथायतनँ स्रुचौ सादयित्वा प्राशित्रमवद्यति दक्षिणस्य पुरोडाशस्योत्तरार्धाद्यवमात्रमज्यायो यवमात्रादाव्याधात्कृत्यतामिदम्। मा रूरुपाम यज्ञस्य शुद्धँ स्विष्टमिदँ हविरित्यथैनत्स्रुवदण्डेनाभिघार्य जघनेन प्रणीताः सादयित्वाद्भिः स्रुवदण्डँ संस्पर्श्यावदधाति १७

अथ कँ सं वा चमसं वेडोपहवनं याचति
तमन्तर्वेदि निधाय तस्मिन्नुपस्तीर्य दक्षिणस्य पुरोडाशस्य दक्षिणार्धात्प्ररुज्यावदधाति मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम्। दक्षिणार्धादसंभिन्दन्नवद्याम्येकतोमुखामिति

द्वितीयमवदानानि संभिद्यावदधात्यथ दक्षिणस्यैव पुरोडाशस्य पूर्वार्धात्त्र्यङ्गुलं वा चतुरङ्गुलं वाज्येन सुसंतृप्तँ संतर्प्याग्रेण ध्रुवां यजमानभागं निदधाति
द्विर्ध्रुवाज्यादवद्यति द्विरुत्तरस्य पुरोडाशस्य द्विः शृतस्य द्विर्दध्नोऽभिघारयत्यथ होतुर्द्विरङ्गुलावनक्ति
निघ्रेण भक्षयित्वा
चतुरवान्तरेडामवद्यत्युपस्तृणाति
द्विरादहात्यभिघारयति
समन्वारभन्तेऽध्वर्युश्च यजमानश्च ब्रह्मा चाग्नीध्रश्चाथ यत्र होतुरभिजानाति दैव्या अध्वर्यव उपहूता उपहूता मनुष्या इति तद्दक्षिणं पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोत्यथ यत्र होतुरभिजानात्युपहूतोऽयं यजमान इति तर्हि यजमानो होतारमीक्षमाणो वायुं मनसा ध्यायेदित्युपहूतायामिडायामग्नीध आदधाति षडवत्तम्
उपस्तृणात्यादधात्यभिघारयत्युपस्तृणात्यादधात्यभिघारयति
प्राश्नन्ति
मार्जयन्तेऽथाह ब्रह्मणे प्राशित्रं परिहरेति
परि प्राशित्रँ हरन्त्यन्वपोऽनु वेदेन ब्रह्मभागम्
अथान्वाहार्यं याचत्युद्वासयन्त्येतद्धविरुच्छिष्टम् १८

अथ संप्रैषमाह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीति
प्रसूतोऽत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधात्यथैष आग्नीध्रोऽस्फ्यैरेवेध्मसंनहनैः परिधीन्संमार्ष्टि सकृन्मध्यँ सकृद्दक्षिणार्ध्यँ सकृदुत्तरार्ध्यं सकृदाहवनीयमुपवाजयत्यग्ने वाजजिद्वाजं त्वाग्ने ससृवाँ सं वाजं जिगिवाँ सं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्यायेत्यथैतानीध्मसंनहनान्यद्भिः सँ स्पर्श्याहवनीयेऽनुप्रहरति यो भूतानामधिपती रुद्र स्तन्तिचरो वृषा । पशूनस्माकं मा हिँ सीरेतदस्तु हुतं तव स्वाहेत्यथ जुहूपभृतावादायात्याक्रम्याश्राव्याह देवान्यजेति
वषट्कृते जुहोति यज यजेति
त्रीन्प्रतीचोऽनूयाजान्यजति
प्राचान्ततः संभिनत्त्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा वाजवतीभ्याँ स्रुचौ व्यूहति वाजस्य मा प्रसवेनोद्ग्राभेणोदग्रभीदिति
दक्षिणेन जुहूमुद्गृह्णात्यथा सपत्नाँ इन्द्रो मे निग्राभेणाधराँ अकरिति सव्येनोपभृतं निगृह्णात्युद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्निति प्राचीं जुहूऊहत्यथा सपत्नानिन्द्रा ग्नी मे विषूचीनान्व्यस्यतामिति प्रतीचीमुपभृतं प्रत्यूहति
प्राच्या परिधीननक्ति वसुभ्यस्त्वेति मध्यमं रुद्रे भ्यस्त्वेति दक्षिणमादित्येभ्यस्त्वेत्युत्तरम्
अथोपभृतमद्भिः सँ स्पर्श्य ययायतनँ स्रुचौ सादयित्वा स्रुक्षु प्रस्तरमनक्त्यक्तँ रिहाणा इति जुह्वामग्राणि वियन्तु वय इत्युपभृति मध्यानि प्रजां योनिं मा निर्मृक्षमिति ध्रुवायां मूलान्यथ प्रस्तरात्तृणं प्रच्छिद्य जुह्वामवदधात्य्
अथाश्रावयत्यो श्रावयास्तु श्रौषडिषिता दैव्याहोतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति
तमुपरीव प्राञ्चं प्रहरति नात्यग्रं प्रहरति न पुरस्तात्प्रत्यस्यति न प्रतिशृणाति न विष्वञ्चं वियौत्यूर्ध्वमुद्यौत्याप्यायन्तामाप ओषधयो मरुतां पृषतय स्थ दिवं गच्छ ततो नो वृष्टिमेरयेत्यथाग्नीध्रमीक्षतेऽग्नीदिति
तमाहाग्नीध्रः संवदस्वेत्यगानग्नीधेत्याहाध्वर्युरगनित्याहाग्नीध्रः
श्रावयेत्याहाध्वर्युः
श्रौषडित्याहाग्नीध्र इदं ब्रूहीत्याहाध्वर्युरनुप्रहरेत्याहाग्नीध्रोऽनुप्रहरति
स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीत्यथोपोत्थायाहवनीयमुपतिष्ठत आयुष्पा अग्नेऽस्यायुर्मे पाह्य्चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहीत्यथेमामभिमृशति ध्रुवासीति
मध्यमं परिधिमनुप्रहरति यं परिधिं पर्यधत्था अग्ने देव पणिभिर्वीयमाणः । तं त एतमनु जोषं भरामि नेदेष त्वदपचेतयाता इत्यथेतरावुपसमस्यति यज्ञस्य पाथ उप समितमित्यथैनान्सँ स्रावेणाभिजुहोति
जुह्वामुपभृतँ संप्रस्रावयति सँ स्रावभागा स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवा इमां वाचमभि विश्वे गृणन्त आसद्यास्मिन्बर्हिषि मादयध्वँ स्वाहेत्यथ प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य धुरि स्रुचौ विमुञ्चत्यग्नेर्वामपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनी सुम्ने मा धत्तं धुरि धुर्यौ पातमिति
यद्यु वै नानो भवत्युत्कर एवैने स्फ्ये विमुञ्चत्येतेनैव मन्त्रेण १९

अथादत्ते दक्षिणेनाज्यस्थालीँ सस्रुवाँ सव्येन जुहूं होत्रे वेदं प्रदाय
प्रदक्षिणमावृत्य प्रत्यञ्चावाद्र वतो दक्षिणेनाध्वर्युर्गार्हपत्यं परिक्रामत्युत्तरेण होता
तौ जघनेन गार्हपत्यं पश्चात्प्राञ्चावुपविशतो दक्षिण एवाध्वर्युरुत्तरो होताथाध्वर्युर्वेदमुपभृतं कृत्वा चतुर आज्यस्य गृह्णान आह सोमायेत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याह सोममित्युपाँ शु यजेत्युच्चैर्वषट्कृते जुहोति
चतुर एवाज्यस्य गृह्णान आह त्वष्ट्र इत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याह त्वष्टारमित्युपाँ शु यजेत्युच्चैर्वषट्कृते जुहोति
चतुर एवाज्यस्य गृह्णान आह देवानां पत्नीभ्य इत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याह देवानां पत्नीरित्युपाँ शु यजेत्युच्चैर्वषट्कृते परिश्रिते देवानां पत्नीर्जुहोत्यथ चतुर एवाज्यस्य गृह्णान आहाग्नये गृहपतय इत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याहाग्निं गृहपतिमित्युपाँ शु यजेत्युच्चैर्वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथाग्रेण होतारमुपातीत्य होतुर्द्विरङ्गुलावनक्ति
निघ्रेण भक्षयित्वा
चतुर्हस्तेडाँ संपादयत्याज्यस्यैव
समन्वारभेते अध्वर्युश्चैव पत्नी चोपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नीतो मार्जयेते
अथ स्रुचि चतुर्गृहीतं गृहीत्वापसलैः पर्यावृत्यान्वाहार्यपचने प्रायश्चित्तं जुहोत्युलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि कृष्णाजिने यत्कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम्। यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सहुता जुहोमि स्वाहेत्य्
अपरं चतुर्गृहीतं गृहीत्वान्वाहार्यपचन एवेध्मप्रव्रश्चनान्यभ्याधाय फलीकरणानोप्य फलीकरणहोमं जुहोत्यग्नेऽदब्धायोऽशीततनो पाहि माद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितादविषं नः पितुं कृणु सुषदा योनिँ स्वाहेत्यथैतेनैव यथेतमेत्य वेदे यजमानं वाचयति वेदोऽसि वित्तिरसीत्यान्तादनुवाकस्य्क्त होत्रे वेदं प्रदाय पत्नीं विष्यतीमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमीत्यथास्यै योक्त्रमञ्जलावाधायोदपात्रमानयति समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गच्छे समात्मा तनुवा ममेत्यथ मुखं विमृष्टे यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वतीत्यपो निनयत्यवभृथस्यैव रूपं कृत्वोत्तिष्ठतीति ब्राह्मणम् २०

अथैनां तथैव तिरः पवित्रमप आचामयति पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजेत्य्
अथैनां गार्हपत्ये समिध आधापयत्यग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहा वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेत्यथ यथाप्रपन्नं निष्क्रामयत्यथ प्राङेत्य ध्रुवामाप्याययत्याप्यायतां ध्रुवा घृतेन यज्ञंयज्ञं प्रति देवयद्भ्यः । सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्नित्यथाज्यस्थाल्याः स्रुवेणोपघातं प्रायश्चित्तानि जुहोत्याश्रावितमत्याश्रावितम्वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्। स्वाहाकृताहुतिरेतु देवान्त्स्वाहेत्यथ यज्ञसमृद्धीर्जुहोतीष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा दौरार्द्ध्यै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहा ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा सर्वसमृद्ध्यै स्वाहा भूः स्वाहा भुवः स्वाहा सुवः स्वाहा भूर्भुवः सुवः स्वाहेमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्यया सन्मनसा हितः । अया सन्हव्यमूहिषे अया नो धेहि भेषजँ स्वाहायाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हवमूहिषेऽया नो धेहि भेषजँ स्वाहा यदस्मिन्कर्मण्यन्तरगाम मन्त्रतः कर्मतो वा । अनयाहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन स्वाहा यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम्। अग्निष्टत्स्विष्टकृद्विद्वान्सर्वँ स्विष्टँ सुहुतम्करोतु मे । अग्नये स्विष्टकृते सुहुतहुत आहुतीनां कामानाँ समर्धयित्रे स्वाहा । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाँ स्वाहेत्य्
अथ बर्हिषो धातूनाँ संप्रलुप्य ध्रुवायाँ समनक्ति समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रे ण विश्वेभिर्देवेभिरङ्क्तामित्यथैनदाहवनीयेऽनुप्रहरति दिव्यं नभो गच्छतु यत्स्वाहेत्यथोपोत्थाय दक्षिणेन पदा वेदिमवक्रम्य ध्रुवया समिष्टयजुर्जुहोति देवा गातुविदो गातुं वित्त्वा गातुमित मनसस्पत इमं नो देव देवेषु यज्ञँ स्वाहा वाचि स्वाहा वाते धाः स्वाहेत्युदूहति स्रुचं निनयति प्रणीता उपोत्थाय यजमानो दक्षिणेन पदा विष्णुक्रमान्क्रमते
संतिष्ठत आमावास्यं वा पौर्णमास्यं वा हविः २१

द्वितीयः प्रश्नः
अथोपव्याहरणम्विज्ञायते क्रत्वादौ क्रतुकामं कामयीत यज्ञाङ्गादौ यज्ञाङ्गकाममिति
प्राक्तूलान्दर्भान्सँ स्तीर्य तेषु प्राङ्मुखो यजमान उपविश्य जपति याः पुरस्तात्प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । आभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे ॥ देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामिति श्रद्ध एहि सत्येन त्वा ह्वयामीत्याकूत्या वेदनं करोत्याकूत्यै त्वा कामाय त्वा समृधे त्वा पुरो दधे । अमृतत्वाय जीवसे ॥ आकूतिमस्यावसे काममस्य समृध्यै । इन्द्र स्य युञ्जते धियः ॥ आकूतिं देवीं मनसः पुरो दधे यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा सकामो विदेयमेनद्धृदये निविष्टमिति
मनसा त्रिः संकल्पयते त्रिरुच्चैः
सर्वकामोऽग्नीनाधास्य इत्यग्न्याधेये
स्वर्गकामो दर्शपूर्णमासाभ्यां यक्ष्य इति दर्शपूर्णमासयोः
स्वर्गकामश्चातुर्मास्यैर्यक्ष्य इति चातुर्मास्येषु
स्वर्गकामः पशुना यक्ष्य इति पशुबन्धे
स्वर्गकामः सोमेन यक्ष्य इति सोमे
स्वर्गकामोऽग्निं चेष्य इत्यग्निचयेऽहीनेऽहर्गणे वा यथाकामो यत्कामो वा यजते
तन्म ऋध्यतां तन्मे समृध्यतां तन्मे संपद्यतां काम इत्यथर्त्विजां प्रतिवचनं तत्त ऋध्यतां तत्ते समृध्यतां तत्ते संपद्यतां काम इत्यॐ तथेति प्रतिवचनम् १

अथर्त्विजो देवयजनं याचतेऽध्वर्यो देवयजनं मे देहीत्यध्वर्युम्
आदित्यो देवो दैवोऽध्वर्युः स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनम्ब्रह्मन्देवयजनं मे देहीति ब्रह्माणं चन्द्र मा देवो दैवो ब्रह्मा स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनं होतर्देवयजनं मे देहीति होतारम्
अग्निर्देवो दैवो होता स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनम्
उद्गातर्देवयजनं मे देहीत्युद्गातारम्पर्जन्यो देवो दैव उद्गाता स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनं सदस्य देवयजनं मे देहीति सदस्यम्
आकाशो देवो दैवः सदस्यः स ते देवयजनं ददात्वित्यॐ तथेति प्रतिवचनं होत्रका देवयजनं मे दत्तेति होत्रकान्
आपो देव्यो दैव्या होत्राशँ सिन्यस्तास्ते देवयजनं ददत्वित्यॐ तथेति प्रतिवचनं चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून्
रश्मयो देवा दैवाश्चमसाध्वर्यवस्ते ते देवयजनं ददत्वित्यॐ तथेति प्रतिवचनम्
अपि वा न देवयजनं याचत आदित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधाय
शुद्धो हैव शुचिः पूतो मेध्यो विपाप्मा ब्रह्मचारी सहकारिप्रत्यय आ चतुर्थात्कर्मणोऽभिसमीक्षमाणो वेदकर्माणि प्रयोजयेत्
प्रागपवर्गाण्युदगपवर्गाणि वा प्राङ्मुखः प्रदक्षिणं यज्ञोपवीती दैवानि कर्माणि करोति
दक्षिणामुखः प्रसव्यं प्राचीनावीती पित्र्याणि
तिष्ठन्नासीनः प्रह्वो वा यथान्यायं छन्दोगब्राह्मणं यथा वै दक्षिणः पाणिरेवं देवयजनं
यथा सव्यस्तथा पितृयजनं यथा पितृयजनं तथा श्मशानकरणं यथा श्मशानकरणं तथाभिचरणीयेष्विष्टिपशुसोमेष्वादित एव पुरोदकं देवयजनं यस्मादन्यत्पुरस्तात्समन्तिकं देवयजनं न विन्देयुरुत्तरतो देवयजनमात्रमतिशिनष्टि २

अथर्त्विजां वरणम्विज्ञायते ब्राह्मणा ऋत्विजो योनिगोत्रश्रुतवृत्तसंपन्ना अविगुणाङ्गा अत्रिकिणिनो न परिखातिक्रान्ता नान्तगा नान्त्यजा नाननूचाना हालेयवालेयपुत्रिकापुत्रपरक्षेत्रसहोढकानीनानुजावरद्विप्रवरान्परिहाप्याङ्गिरसोऽध्वर्युर्वासिष्ठो ब्रह्मा वैश्वामित्रो होतायास्य उद्गाता कौषीतकः सदस्योऽवशिष्टा भृगवोऽङ्गिरसो वा
योनिवृत्तं विद्या च प्रमाणमित्येके
ताँ श्चेद्वृणीताव्यापन्नाङ्गानेव वृणीताकुनखिनमध्वर्युमकिलासिनं ब्रह्माणमखण्डँ होतारमकरालमुद्गातारमशिपिविष्टँ सदस्यम्
अथ प्रतिप्रस्थाता नेष्टोन्नेतेत्यध्वर्युपुरुषा ब्राह्मणाच्छँ स्याग्नीध्रः पोतेति ब्रह्मणो मैत्रावरुणोऽच्छावाको ग्रावस्तुदिति होतुः
प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्युद्गातुरभिगरो ध्रुवगोपः सँ श्राव इति सदस्यस्य
स्वप्रधाना अस्वप्रधाना इत्येके
दश वैकादश वा चमसाध्वर्यवोऽन्यदक्षिणाभिः परिक्रीता भवन्तीति विज्ञायते
तस्मादग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विग्
दर्शपूर्णमासयोश्चत्वार ऋत्विजोऽध्वर्युर्ब्रह्मा होताग्नीध्र इति
चातुर्मास्येषु प्रतिप्रस्थाता पञ्चमः
पशुबन्धे मैत्रावरुणः षष्ठः
सर्वे सौम्येऽध्वरे
तान्कर्मणःकर्मणो वृणीतैकैकमुपसंगृह्य चोदयेदसावहमाध्वर्यवेण त्वा गच्छामि याजयतु मां भवानिति
ब्रह्मत्वेन हौत्रेणौद्गात्रेण सादस्येनेति
न सदस्यो विद्यत इत्येके
स्वेनस्वेन कर्मणा होत्रकान्
न होत्रकानित्येके
तत्पुरुषा होत्रकाश्चमसाध्वर्यवश्चाध्वर्युर्वा ऋत्विजां प्रथमो युज्यते तेन स्तोमो योक्तव्य इति ३

आदित्यो देवो दैवोऽध्वर्युः स मेऽध्वर्युरध्वर्योऽध्वर्युं त्वा वृन इत्यध्वर्युम्
आदित्यो देवो दैवोऽध्वर्युः स तेऽध्वर्युस्तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनं चन्द्र मा देवो दैवो ब्रह्मा स मे ब्रह्मा ब्रह्मन्ब्रह्माणं त्वा वृण इति ब्रह्माणं चन्द्र मा देवो दैवो ब्रह्मा स ते ब्रह्मा तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम्
अग्निर्देवो दैवो होता स मे होता होतर्होतारं त्वा वृण इति होतारम्

अग्निर्देवो दैवो होता स ते होता तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम्पर्जन्यो देवो दैव उद्गाता स म उद्गातोद्गातरुद्गातारं त्वा वृण इत्युद्गातारम्पर्जन्यो देवो दैव उद्गाता स त उद्गाता तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम्
आकाशो देवो दैवो सदस्यः स मे सदस्यः सदस्य सदस्यं त्वा वृण इति सदस्यम्
आकाशो दैवो देवः सदस्यः स ते सदस्यस्तेनानुमतः कर्मैवाहं करिष्यामीत्यॐ तथेति प्रतिवचनम्
आपो देव्यो दैव्या होत्राशँ सिन्यस्ता मे होत्राशँ सिन्यो होत्रका होत्रकान्वो वृण इति होत्रकान्
आपो देव्यो दैव्या होत्राशँ सिन्यस्तास्ते होत्राशँ सिन्यस्ताभिरनुमताः कर्मैव वयं करिष्याम इत्यॐ तथेति प्रतिवचनं रश्मयो देवा दैवाश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यवश्चमसाध्वर्यून्वो वृण इति चमसाध्वर्यून्
रश्मयो देवा दैवाश्चमसाध्वर्यवस्ते ते चमसाध्वर्यवस्तैरनुमताः कर्मैव वयं करिष्याम इत्यॐ तथेति प्रतिवचनम्वृतोवृतो जपति महन्मेऽवोचो यशो मेऽवोचो भगो मेऽवोचो भर्गो मेऽवोचस्तपो मेऽवोच स्तोमं मेऽवोचः कॢप्तिं मेऽवोचो भुक्तिं मेऽवोचो विश्वं मेऽवोचः सर्वं मेऽवोचः सर्वं मे कल्याणमवोचस्तन्मावतु तन्माविशतु तन्मा जिन्वतु तेन भुक्षिषीय देवो देवमेतु सोमः सोममेत्वित्यॐ तथेति प्रतिवचनम् ४

सिँ हे मे मन्युर्व्याघ्रे मेऽन्तरामयो वृके मे क्षुदश्वे मे घसिर्धन्वनि मे पिपासा
राजगृहे मेऽशनायाश्मनि मे तन्द्रि र्गर्दभे मेऽर्शः
शल्यके मे ह्रीरश्वत्थे मे वेपथुः
कूर्मे मेऽङ्गरोगो बस्ते मेऽपसर्याप्रिये मे मृत्युर्भ्रातृव्ये मे पाप्मा
सपत्ने मे निरृतिर्दुष्कीर्तौ मे व्यृद्धिः
परस्वति मेऽसमृद्धिः
खड्गे म आर्तिर्गवये म आन्ध्यं गौरे मे बाधिर्यम्
ऋक्षे मे शोको गोधायां मे खेदो जरायां मे हिमः
कृष्णशकुनौ मे भीरुता
कशे मे पापो गन्ध उलूके मे श्वभ्यशः
क्लोके म ईर्ष्या
मर्कटे मे दुरृद्धिः
कुलले मे मँ स्योलले मे प्रध्योष्ट्रे मे तृष्णर्श्ये मे श्रमोऽव्यां म आव्यं कोशे मे गन्धः
कुमार्यां मेऽलङ्कारः
सूकरे मे क्लदथुः
पृदाखुनि मे स्वप्न
अजगरे मे दुस्वप्नो विद्युति मे स्मयशो लोभायां मे क्लेदः
शलभे मे पाप्मालक्ष्मी
स्त्रीषु मेऽनृतम्
अजासु मे कर्कशो व्रात्ये म ईत्या
शूद्रे मे स्तेयम्वैश्ये मेऽकार्मकृत्यं राजन्यबन्धुनि मेऽज्ञानं नैषादे मे ब्रह्महत्या
कुलिङ्गे मे क्षवथुरुलले मे विलास उद्रि णि मे वमतिः
किंपुरुषे मे रोदो द्वीपिनि मे निष्टपधस्तिनि मे किलासः
शुनि मे दुरिप्रं स्नावन्येषु मे म्लेच्छो विदेहेषु मे शीपथो महावर्षेषु मे ग्लौर्मूजवत्सु मे तप्ना
दुन्दुभौ मे कासिकेक्ष्वाकुषु मे पित्तं कलिङ्गेषु मेऽमेध्यम्
अश्वतर्यां मेऽप्रजस्ता
पुँ श्चल्यां मे दुश्चरितम्
आखुनि मे दन्तरोगो मक्षिकायां मे श्वल्कशः
शुके मे हरिमा
मयूरे मे जल्प्या
वृषे मे जरा
चाषे मे पापवादोऽप्सु मे श्रमो ब्रह्मोज्झे मे किल्बिषम्
अपेहि पाप्मन्पुनरपनाशितो भवा नः पाप्मन्सुकृतस्य लोके पाप्मन्धेह्यविहृतो यो नः पाप्मन्न जहाति तमु त्वा जहिमो वयमन्यत्रास्मन्निविशतां सहस्राक्षो अमर्त्यो यो नो द्वेष्टि स रिष्यतु यमु द्विष्मस्तमु जहीत्य्
अथाञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति
तां दिशमेता अप उत्सिञ्चति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्य यथेतं प्रविशन्ति ५

अथेदमग्न्याधेयं तस्य कः कर्मण उपक्रमो भवतीत्युक्तान्यृतुनक्षत्राण्युक्तमात्मनः पुरश्चरणं कथमत्रानुपूर्व्यं भवति
स्नानपवनमन्त्रप्रोक्षणपुण्याहवाचनानि श्रद्धामाहूयाकूत्या वेदनं कृत्वोपव्याहृत्यर्त्विजो वृत्वार्हयित्वा देवयजनं याचित्वा देवयजनमादाय स्फ्यमादायान्तरेण वेद्युत्करावुद्देशेन प्रपद्य जघनेन गार्हपत्यं तिष्ठन्प्राचीनँ स्फ्येन गार्हपत्यस्यायतनमुद्धन्त्युद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेत्यथैनदद्भिरवोक्षति शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु न इत्येवमेवान्वाहार्यपचनस्यायतनमुद्धन्त्येवमेवाहवनीयस्यैवमितरयोर्यदि करिष्यन्भवत्यथान्तरेण वेद्युत्करावुद्देशेनोदङ्ङुपनिष्क्रम्य तां दिशं यन्ति यत्रास्य संभारा उपकॢप्ता भवन्त्य्
अपि वोत्तरेण शालायाः सर्वे संभारा उपकॢप्ता भवन्त्यपि वान्तर्वेदि प्राचीनं तान्मन्त्रानुपूर्व्यमेकैकँ संभारमेकैकेन यजुषा संभरति
वैश्वानरस्य रूपं पृथिव्यां परिस्रसा । स्योनमाविशन्तु न इति सिकताः संभृत्य निदधात्येवमेवोत्तरमुत्तरँ संभारमुत्तरेणोत्तरेण यजुषा संभृत्यसंभृत्यैव निदधात्यूषाश्च सिकताश्चाखूत्करं च वल्मीकवपां च सूदं च वराहविहतं च पुष्करपर्णं च शर्कराश्चेत्यष्टौ पार्थिवा अथोत्तरेण यजुषा षड्ढिरण्यशल्कानाहरत्यथ वानस्पत्याभिर्वानस्पत्याः
शाखा आर्द्राः सपलाशाः सप्रारोहाः प्रादेशमात्रीरप्रतिशुष्काग्रा आहरत्यपि वा यथालाभम्पर्णं द्वाभ्यां चित्रियस्याश्वत्थस्य तिस्रः सभिध आर्द्राः सपालाशाः सप्रारोहाः प्रादेशमात्रीरप्रतिशुष्काग्रा आहरति चित्रियादश्वत्थात्संभृता बृहत्यः शरीरमभिसँ स्कृता स्थ । प्रजापतिना यज्ञमुखेन संमितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्या इत्यथ मुञ्जकुलायमाहरति या ते अग्न ओजस्विनी तनूरोषधीषु प्रविष्टा । तां त इह संभरामीत्यथास्मा अरणी आहरत्याश्वत्थीँ शमीगर्भीमप्यशमीगर्भीं वा चतुरङ्गुलमुत्सेधां द्वादशाङ्गुलं विस्तीर्णाँ षोडशाङ्गुलमायतामपि वा प्रादेशमात्रीँ सर्वतः समां चतुरङ्गुलमेवोत्सेधां तस्या उत्तानाया अनुलोममधस्तात्प्रतीचीनप्रवणं प्रजननं कुर्वन्ति

तावतीमेवोत्तरारणिम्
अथैने आहरत्यश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियाँ संभरामि । शान्तयोनिँ शमीगर्भमग्नये प्रजनयितवे ॥ यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यथैतान्सुसंभृतान्संभारान्पुनरेव संभरति यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम्। स संभृतः सीद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति ६

अथ वै भवतीन्द्रो वृत्रँ हत्वासुरान्पराभाव्य सोऽमावास्यां प्रत्यागच्छत्
ते पितरः पूर्वेद्युरागच्छन्
पितॄन्यज्ञोऽगच्छत्
तं देवाः पुनरयाचन्त
तमेभ्यो न पुनरददुस्तेऽब्रुवन्वरं वृणामहा अथ वः पुनर्दास्यामोऽस्मभ्यमेव पूर्वेद्युः क्रियाता इति
तमेभ्यः पुनरददुस्
तस्मात्पितृभ्यः पूर्वेद्युः क्रियते
यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानःप्रतनुत इति ब्राह्मणम्
अथ यदि गां न लभते मेषमजं वा लभतेऽपि वा द्यूतमोदनं पक्त्वा तस्योपरिष्टात्प्रभूतमाज्यं पयो वानीय तस्मादेतत्सर्वं करोति यद्गवा कार्यम्विज्ञायते च धेन्वै वा एतद्रे तो यदाज्यं पयो वानडुहस्तण्डुला इति

गौरेवाङ्गसामान्यात्
संप्रच्छन्ना अम्बरीषं वोत्तपनीयं वाभिप्रव्रजन्त्यपि वौपासनमेवाभिप्रव्रजन्त्यर्धमौपासनं कुर्वन्ति सर्वं वा
ब्राह्मौदनिकमौपासनं कुर्वन्ति
सोऽत्र वैव हि हूयत इति
समानं कर्मा संभारनिवपनादथ तृतीयँ संभाराणां त्रेधा विभज्य सभ्यावसथ्ययोराहवनीये वा सभ्यावसथ्ययोः संकल्पः
समानं कर्मा समिदाधानात्
पञ्चपञ्च नानावृक्ष्याः समिधोऽभ्यज्यादधाति
कथमत्रानुपूर्व्यं भवत्यश्वत्थश्चोदुम्बरश्च पर्णश्च शमी च विकङ्कतश्चेत्येतदत्रानुपूर्व्यम्भवति
कथमु खल्वैन्द्रा ग्नादित्ययोरन्त इत्यैन्द्रा ग्नादित्ययोरन्त उदश्वपदिकँ सृजेत्
ततोऽन्यं दशहोत्रर्थमुद्धरेदिति
तन्त्रसमास एवैतदुपपद्यते नान्यत्र प्रणीतस्याग्नेर्लौकिकत्वाद्यस्मिन्होत्रा हुतँ स्यात्सोऽग्निः
कर्मान्तं तस्य धारणमित्यपवृत्ते कर्मणि लौकिकः संपद्यते
प्रसिद्धानि तनूहवीँ षि
प्रसिद्धा अग्न्याधेयदक्षिणा ददाति
ताश्चेन्नाधिगच्छेद्वासाँ स्येतावन्ति मन्थान्वौदनान्वैतावतो दद्यात्
तेनो हैवैतं काममवाप्नोतीत्य्
अप्येकां गां दक्षिणां दद्यादिति पैङ्गलायनिब्राह्मणं भवति
न त्वेवानाहिताग्निः स्याद्विज्ञायते च देवानां वा एषोऽन्यतमो य आहिताग्निरित्यथ यदस्याग्निमुद्धरति सहस्रं तेन कामदुघा अवरुन्द्धेऽथ यदग्निहोत्रं जुहोति सहस्रं तेनेत्यपरिमितमेवेदमुक्तं भवति ७

अथाग्न्याधेयस्योपवसथ इत्युपकल्पयते गां माँ सलामहतं वासश्चतुर उदकुम्भाँ स्त्रीनौदुम्बराञ्छूलानौदुम्बरीं दर्वीमेकां वपाश्रपणीमविशाखामौदुम्बरीमेव सर्वानेवान्यान्स्थालीपाकात्पैतृयज्ञिकान्संभारानेरकोपबर्हणे आञ्जनाभ्यञ्जने आज्यं तृणमुष्टिँ स्फ्यँ सूत्रमिति
दक्षिणत एतत्परिश्रितं भवति
तस्यैतस्मिन्परिश्रिते प्राङावृत्तस्य केशान्तं करोति तूष्णीं त्रीणि दर्भपुञ्जीलान्युपनियत्य वपति वपे प्रवपे देवेन सवित्रा प्रसूतो ब्रह्मणा सँ शितोऽहं यानि म इत ऊर्ध्वं लोमानि तानि मे स्वस्तये सन्त्वित्यथैनमुप्तकेशश्मश्रुं निकृत्तनखमुदकुम्भेनाभ्यवनयन्वाचयतीमा म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे । शुद्धाः प्रयुञ्जीमहि क्रतूनिति

स्नातः प्राङुत्सृप्याहतं वासः परिधायालङ्कृत्याङ्क्तेऽथैनमेकविँ शत्या दर्भपुञ्जीलैस्त्रेधा विभक्तैः सप्तभिःसप्तभिस्तूष्णीं पवयित्वोदपात्रमादायेमां दिशं नीत्वा चतुष्पथ एतस्मिन्नेवोदपात्रेऽवेक्षमाणं पाप्मनो विनिधीन्वाचयति सिँ हे मे मन्युर्व्याघ्रे मेऽन्तरामय इत्यान्तमेतमनुवाकं निगद्य निनीयापः परास्य पात्रमनवेक्षमाणा आयन्ति
हस्तपादान्प्रक्षाल्यैतेनैव यथेतमेत्य पवमानः सुवर्जन इत्येतमनुवाकं यजमानं वाचयन्नद्भिर्मार्जयत्यामात्यादिध्ममादीप्यान्वाहार्यपचनवेलायाँ सादयित्वा शोधयित्वा बर्हिषा परिस्तीर्याज्यं विलाप्योत्पूयोत्तरत एतानुपसादयति चतुर उदकुम्भाँ स्त्रीनौदुम्बराञ्छूलानौदुम्बरीं दर्वीमेकां वपाश्रपणीमविशाखामौदुम्बरीमेव दक्षिणतः सर्वानेवान्यान्स्थालीपाकात्पैतृयज्ञिकान्संभारानेरकोपबर्हणे आञ्जनाभ्यञ्जने आज्यं तृणमुष्टिँ स्फ्यँ सूत्रमिति
दक्षिणतोऽधिदेवनं करोति
तदेकान्नपञ्चाशतोऽक्षान्निवपत्यथ स्फ्यमादाय सकृदेव दक्षिणोद्धन्त्यपहता असुरा रक्षाँ सि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मन इत्य्
अथैनदद्भिरवोक्षत्युदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेष्विति ८

अथोल्मुकमादत्ते य आददानाः स्वधया नवानि पित्र्याणि रूपाण्यसुराश्चरति । परापुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणुनोत्तु यज्ञादिति
तेनोद्धतमभितपत्यग्निः पावकः सुदिनानि कृण्वन्नितोऽसुरान्नुदताद्दूरमोकसः । पितॄणां ये वर्णं कृत्वेह भागमिच्छन्त इति
तदत्रैव व्यन्तं करोति
तस्मिन्नुल्मुक आज्यस्तोकं प्रश्चोतयति
तद्दक्षिणाग्रं बर्हि स्तृणाति सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम्। अस्मिन्त्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेत्यथ पितॄनावाहयत्युदीराणा इह सन्तु नः सोम्याः पितरः पितामहाः प्रपितामहाश्चानुगैः सह । असुंगमाः सत्ययुजोऽवृकास आ नो हवं पितरोऽद्यागमन्तु ॥ एह गच्छन्तु पितरो हविषे अत्तवे । अस्मिन्यज्ञे बर्हिष्या निषद्य मा वीरः प्र मा युनगित्यथैभ्य एरकोपबर्हणे निवेदयत आसनँ शयनं चेमे तयोः सोम्यास आगताः । प्रिया जनाय नो भूत्वा शिवा भवत शंकरा इत्यथैभ्यः पानान्याहरति मधुपानं क्षीरपानँ सक्तुपानं यद्वा भवत्य्
अन्यद्ब्राह्मणेभ्यो ददात्यन्यदुपनिनयति एतद्वः पितरः पितामहाः प्रपितामहाः पानमित्यत्रैकेनोदकुम्भेन मार्जयति तूष्णीं तदक्षान्पर्युपविशन्ति चत्वारः पितापुत्राः
पिता पुरस्ताज्ज्येष्ठो दक्षिणतोऽनुजः पश्चात्कनिष्ठ उत्तरतो द्वादशाक्षान्पिता प्रच्छिनत्ति
तद्विजयते
द्वादश ज्येष्ठस्
तद्विजयते
द्वादशानुजस्
तद्विजयतेऽथ येऽतिशिष्यन्ते तान्कनीयाँ समुपसमूहन्त्यथ यदि द्वौ भवतो द्विरायामः पिताथ यद्येको जाया तृतीयाथ यदि नैव भवन्त्युभौ द्विरायामौ जायापती
एष एव त्रिषु न्याय एष एव द्वयोः
कृतंकृतमित्येव व्यपगच्छन्ति
द्यूता गौरित्युक्त्वोत्तिष्ठन्त्यथैभ्यो बर्हिरादाय गामुपाकरोति पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टामुपाकरोमीति
तूष्णीमित्येकेऽथैनामद्भिः प्रोक्षति पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टां प्रोक्षामीति
तूष्णीमित्येके
तामत्रैव प्रतीचीनशिरसीं दक्षिणापदीँ संज्ञपयन्ति
तस्यै संज्ञप्ताया अद्भिरभिषेकं प्राणानाप्याययति तूष्णीं तूष्णीं वपामुत्खिद्य हृदयमुद्धरति प्रज्ञातानि चावदानानि प्रज्ञातौ च मतस्नू तान्येतेष्वेव शूलेषूपनिक्ष्यैतस्मिन्नेवाग्नौ श्रपयन्ति

शृतायां वपायां पञ्च स्रुवाहुतीर्जुहोति ९
आः प्राचीः संभवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमः स्वाहा ॥
अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमः स्वाहा ॥
अन्तर्दध ऋतुभिः सर्वैरहोरात्रैः सुसन्धिकैः । अर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमः स्वाहा ॥
यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्तामाभुरन्योपपद्यताम्स्वधा नमः स्वाहा ॥
यद्वः क्रव्यादङ्गमदहल्लोकान्नयन्प्रणयञ्जातवेदाः । तद्वोऽहं पुनरावेशयाम्यरिष्टाः सर्वैरङ्गैः संभवत पितरः स्वधा नमः स्वाहेति
त्रेधा वपां विच्छिद्यौदुम्बर्या दर्व्या जुहोति सोमाय पितृमते शुष्मिणे जुहुमो हविः । वाजिन्निदं जुषस्व नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा ॥ अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे । वैवस्वतेदमद्धि नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा ॥ यदग्ने कव्यवाहन पितॄन्यक्ष्यृतावृधः । प्र देवेभ्यो वहा हव्यं पितृभ्यश्च स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहेति

तूष्णीं दर्वीमभ्याधाय पिण्डानामावृतैतान्यवदानानि ददाति हृदयमेवाग्रेऽथ सव्यं मतस्नुमथ दक्षिणम्
एतत्ते ततासौ ये च त्वामनु याँ श्च त्वमत्रान्वस्येषा ते तत स्वधाक्षितिर्यावती पृथिवी तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददामि पृथिव्या मितमसि तताय मा क्षेष्ठा इति
द्वितीयं ददात्येतत्ते पितामहासौ ये च त्वामनु याँ श्च त्वमत्रान्वस्येषा ते पितामह स्वधाक्षितिर्यावदन्तरिक्षं तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददाम्यन्तरिक्षेण मितमसि पितामहाय मा क्षेष्ठा इति
तृतीयं ददात्येतत्ते प्रपितामहासौ ये च त्वामनु याँ श्च त्वमत्रान्वस्येषा ते प्रपितामह स्वधाक्षितिर्यावती द्यौस्तावती ते मात्रा तावतीं त एतां मात्रां भूतां ददामि दिवा मितमसि प्रपितामहाय मा क्षेष्ठा इत्यत्र पितरो यथाभागं मन्दध्वमित्युक्त्वात्रैकेनोदकुम्भेन मार्जयति तूष्णीम्
अथैभ्यो गामुपपरेत्य लोहितमुपप्रवर्तयति यानि रक्षाँ स्यसृग्भागानि ये चापि पितरो हरन्तां विहरन्तां तृप्यन्तु रुधिरस्य ते ॥ ये नः पतिता गर्भा असृग्भाज उपासते । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु मदन्तु च ॥ य आमा ये च पक्वा ये च दुष्टाः पतन्ति नः । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु अदन्तु च ॥ ये कुमारा या स्त्रियो येऽविज्ञाताः पतन्ति नः । तेभ्यः स्वजा स्वधा नमस्तृप्णुवन्तु मदन्तु चेत्य्
आगत्याञ्जनं ददात्यथाभ्यञ्जनं ददात्यथ वासाँ सि ददात्यथ षड्भिर्नमस्कारैर्विपर्यासमुपतिष्ठतेऽथ वीरं याचतेऽथैनानुत्थाप्य प्रवाह्य तिषृभिर्मन आह्वयते मनो न्वाहुवामह आ न एतु मनः पुनः पुनर्नः पितरो मन इत्यत्रैतदहतं वास एवंविदे ब्राह्मणाय दत्त्वान्यदसनीयं वासः परिधाय दक्षिणोपपरेत्याद्भिर्मार्जयते १०

यासु गन्धा रसा वर्णा बलं च निहिते उभे । ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ या ऊर्जमभिषिञ्चन्ति देवप्रेषिता महीम्। ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ यासां निष्क्रमणे सर्वमिदं जायते जगत्। ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ यासामिमे त्रयो लोकास्तेजसा यशसावृताः । ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥ याः प्राचीर्या दक्षिणा याः प्रतीचीर्या उदीचीर्या ऊर्ध्वा रेवतीर्मधुमतीरापः स्रवन्ति शुक्राः । ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु म इत्यत्रैतदसनीयं वासो विमुच्यान्यत्परिधाय प्राजापत्ययर्चाग्नेरुदेति प्रजापते न त्वदेतान्यन्य इत्यथोल्मुकमपिसृजत्यभूद्दतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येहि देवानित्य्
अत्रैतान्यवदानानि ब्राह्मणेभ्यो ददाति हृदयमेवाग्रेऽथ सव्यं मतस्नुमथ दक्षिणं यथाश्रद्धमन्नं कुरुते
गामेतामँ शशः कृत्वा ब्राह्मणेभ्यो वरं ददाति
स ये ह के चैतस्यै माँ सं लभन्ते सर्वे ह वा अस्यै ते गोभाजशो भवन्त्यामात्ये जयानभ्यातानान्राष्ट्रभृत इति हुत्वामात्यहोमाञ्जुहोत्येष ह वा उपवसथ उप ह्यस्मिन्देवा वसन्ति प्रातर्जेष्यामो वामं वस्वित्येतद्ध वै देवानां वामं वसु यदाग्नेयोऽष्टाकपाल उप हैनं वामं वसु गच्छति यस्य ह वा एतामेवं विद्वान्गां कल्पयते
सर्वं पाप्मानं तरति
तरति ब्रह्महत्याम्
अप पुनर्मृत्युं जयतीति होवाच प्रजापतिस्
तानि ह वा एतानि कूश्माण्डानीत्याचक्षते काजवानीति वामात्यहोमा इति वातीमोक्षा इति वा
स यत्किं चास्मिन्लोके पापं कर्म करोति सर्वस्मात्तस्मान्निर्मुच्यानृणः स्वर्गं लोकमेतीति होवाच प्रजापतिः ११

अग्नीनाधास्यमानो भवति स उपकल्पयत ऊषाश्च सिकताश्चाखूत्करं च वल्मीकवपां च सूदं च वराहविहतं च पुष्करपर्णं च शर्कराश्चेत्यष्टौ पार्थिवा अथ वानस्पत्या अश्वत्थश्चोदुम्बरश्च पर्णश्च शमी च विकङ्कतश्चाशनिहतश्च शमीगर्भावरणी मुञ्जकुलायं चित्रियस्याश्वत्थस्य तिस्रः समिध आर्द्राः सपलाशाः सप्रारोहाः प्रादेशमात्रीरप्रतिशुष्काग्राः षड्ढिरण्यशल्काँ स्त्रीन्सौवर्णाँ स्त्रीन्राजतानश्वं पूर्ववाहँ रथचक्रं ब्राह्मौदनिकान्व्रीहीन्सर्वौषधँ रोहितं चर्मानडुहं नवानि यज्ञपात्राणीत्यथास्मा अरणी आहरति यो अश्वत्थः शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्यथातो नक्षत्राणामेव मीमाँ सा
कृत्तिकास्वग्निमादधीत
रोहिण्यामग्निमादधीत
पुनर्वस्वोरग्निमादधीत
पूर्वयोः फल्गुण्योरुत्तरयोः फल्गुण्योश्चित्रायामित्यथात ऋतूनामेव मीमाँ सा
वसन्ते ब्राह्मणोऽग्निमादधीत
ग्रीष्मे राजन्यः
शरदि वैश्यः
वर्षासु रथकार इत्यथो खलु यदैवैनँ श्रद्धोपनमेदथादधीत
सैवास्यर्द्धिरिति
तदेतदार्तस्यातिवेलं वा श्रद्धायुक्तस्याथ वै ब्राह्मणं भवति
यो रोहिण्यामग्निमाधत्त ऋध्नोत्येव सर्वान्रोहान्रोहतीति
सा या वैशाख्याः पौर्णमास्या उपरिष्टादमावास्या भवति सा सकृत्संवत्सरस्य रोहिण्या संपद्यते तस्यामादधीतेत्यथास्यैतत्पुरस्ताएव जुष्टे देवयजनेऽगारं वा विमितं वा कारितं भवति
तस्य द्वे द्वारौ कुर्वन्ति प्राचीं च दक्षिणां च
मध्ये गार्हपत्यस्यायतनं कुर्वन्ति
पुरस्ताद्द्वादशसु विक्रामेष्वाहवनीयस्यापि वा चक्षुर्निमिते
दक्षिणतो विषुवत्यन्वाहार्यपचनस्यापि वा यथा द्वौ भागौ प्राक्स्यातामेकः पश्चादित्येवं त्रेधोद्धत्यावोक्ष्य केशश्मश्रु वपते
नखानि निकृन्तत एवं पत्नी केशवर्जम्
उभौ मानुषेणालङ्कारेणालङ्कृतौ भवतोऽहतवाससवथाभ्यां व्रतोपायनीयं पाचयति
तस्याशितौ भवतः सर्पिर्मिश्रस्य पयोमिश्रस्य १२

अथाधिवृक्षसूर्ये याचति सर्वौषधमाज्यस्थालीँ सस्रुवाँ स्रुचं बर्हिर्वासो दीप्याञ्छकलानित्येतत्समादाय संप्रच्छन्ना अम्बरीषं वोत्तपनीयं वाभिप्रव्रजन्ति
तस्मिन्दीप्याञ्छकलान्संप्रकीर्य बर्हिषा परिस्तीर्याज्यं विलाप्योत्पूयाञ्जलिनोपस्तीर्णाभिघारितँ सर्वौषधं जुहोत्यग्नये सर्वौषधाय पुष्ट्यै प्रजननाय स्वाहेत्य्
अथ जयानभ्यातानान्राष्ट्रभृत इति हुत्वामात्यहोमाञ्जुहोत्यथ स्रुचि चतुर्गृहीतं गृहीत्वा प्राजापत्यां जुहोति प्रजापते न त्वदेतान्यन्य इत्यपरं चतुर्गृहीतं गृहीत्वानुख्यां जुहोत्यन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततान स्वाहेत्यथैतानङ्गारान्सते वा शरावे वा यजमानो गृह्णाति आयुषे वो गृह्णामि तेजसे वो गृह्णामि तपसे वो गृह्णामि वीर्याय वो गृह्णामि ब्रह्मवर्चसाय वो गृह्णामीत्यथैनानादायोपोत्तिष्ठत्यायुर्मामाविशतु भूतिर्मामाविशतु ब्रह्मवर्चसं मामाविशत्विति
तानध्वर्यवे संप्रदायोदायन्त्यन्वारब्धे यजमान एतेनैव यथेतमेत्योत्तरेणागारं परीत्य पूर्वया द्वारा प्रपाद्य गार्हपत्यस्यायतने न्युप्योपसमादधाति
परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चाथैतद्रो हितं चर्मानडुहं जघनेनाग्निं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तस्य वहसः काले चतुरः पात्रान्व्रीहीन्निर्वपति ब्रह्मणे जुष्टं निर्वपामीति वा तूष्णीं वाथ निरुप्तानभिमृशत्याकूत्यै त्वा कामाय त्वा समृधे त्वेति
अथैतान्व्रीहीञ्छूर्पे समुप्याद्भिरभ्युक्ष्य चर्मोदूहत्यथैतस्मिन्नेव चर्मण्युलूखलमुसले निधायावहन्त्य्
अथैतेनैव पात्रेण चतुर उदपात्रानानयति यदि वीडिता स्थाली भवति
यद्यु वा अवीडिता पञ्च वा भूयसो वा
स समोदकः संपद्यते १३

तं य एव कश्च कुशलः परीन्धेन श्रपयित्वाभिघार्योदञ्चमुद्वासयत्यथैनमायतिगव ऋत्विग्भ्यः प्राहुरुपसंगच्छन्त एनमेत ऋत्विजोऽथैतां पात्रीं निर्णिज्योपस्तीर्य तस्यामेनमसंघ्नन्निवोद्धरति
सर्पिरासेचनं कृत्वा प्रभूतमाज्यमानीयाथैतस्यैवौदनस्योपघातं जुहोत्युपतिष्ठते वा प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान्यजे हेड्यान्स्वाहेत्यथैताँ श्चतुर आर्षेयानुत्तरतोऽनुदिशमुपवेश्य ताननुपूर्वमाचमय्य तेभ्य एनं भूमिँ स्पृशन्ननुच्छिन्दन्निवोपोहति
त्रिः प्राश्य प्रशँ सन्ति राद्धस्ते ब्रह्मौदन इति
तेभ्यः साण्डं वत्सतरं ददात्यथैष उत्तरत आसीनो ब्राह्मणः क्षामकाषं प्राश्नाति
तस्मै यदस्योपकल्पते तद्ददात्यथ यदाज्यमुच्छिष्यते तेन समिधोऽभ्यज्यादधाति समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्। आस्मिन्हव्या जुहोतन स्वाहा ॥ उप त्वाग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम स्वाहा ॥ तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य स्वाहेति गायत्रीभिर्ब्राह्मणस्य

त्रिष्टुग्भी राजन्यस्य जिघर्म्यग्निमा त्वा जिघर्म्यायुर्दा अग्ने हविषो जुषाण इति
जगतीभिर्वैश्यस्य जनस्य गोपा अजनिष्ट जागृविस्त्वामग्ने मानुषीरीडते विशः सप्त ते अग्ने समिधः सप्त जिह्वा इति
समित्सु वत्सतरीं ददाति १४

अथास्मा अरणी प्रयच्छन्नाह वाचंयमो भविष्यसि सँ शाधि यत्ते सँ शिष्यमिति
स आह ब्राह्मणानाशयताश्वं गोपायत संभारान्निधत्तेति
तस्य सुभिक्षमग्न्याधेयं भवति
साग्न्याधेयस्य समृद्धिस्
तदाहुर्नाग्न्याधेये गां कुर्वीत घोररूपमिति
कुर्वीतैवापि त्वेव न कुर्वीतापि बह्वीरपि कुर्वीतानु चैतस्य भवेत्पुण्या प्रशँ सेति कात्योऽथास्मा अरणी प्रयच्छति
ते प्रतिगृह्णाति मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम्। अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगाम्॥ आरोहतं दशतँ शक्वरीर्ममर्त्वेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराँ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इत्यथैने उपनिगृह्णात्यृत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं ददे । तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजनिष्येथे ते मा प्रजाते प्रजनयिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इत्य्
अथैनमनृतात्सत्यमुपनयति मानुषाद्दैव्यमुपनयतीदमहमनृतात्सत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामीति
तं वाचंयमँ रात्रिं जागरयन्त आसते
शल्कैस्ताँ रात्रिमग्निमिन्धते शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम्। उभयोर्लोकयोरृध्वाति मृत्युं तराम्यहमित्युत्तरेण गार्हपत्यस्यायतनं कल्माषमजं बध्नाति तेनैनमाधास्यमानँ संख्यापयति प्रजा अग्ने संवासयाशाश्च पशुभिः सह । राष्ट्राण्यस्मा आधेहि यान्यासन्त्सवितुः सव इति १५

अथाध्वर्युरपररात्र आद्रुत्यारणी निष्टपति जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूः ॥ अयं ते योनिरृत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथा नो वर्धया रयिमित्यथैतमग्निँ सते समुप्य दक्षिणतो ज्वलयन्त आसत
अथैतान्यग्न्यायतनानि शकृत्पिण्डेन परिलेपयत्यथ तृतीयँ संभाराणामादाय गार्हपत्यस्यायतने निवपति यत्पृथिव्या अनामृतँ संबभूव त्वे सचा । तदग्निरग्नयेऽददात्तस्मिन्नाधीयतामयमिति
स यत्रोषानुपाधिगच्छति तज्जपति यददश्चन्द्र मसि कृष्णं तदपीहेत्यथैनानादधाति दिवस्त्वा वीर्येण पृथिव्यै महिम्ना । अन्तरिक्षस्य पोषेण सर्वपशुमादध इत्यथैनान्संप्रयौति सं वः सृजामि हृदयानि सँ सृष्टं मनो अस्तु वः । सँ सृष्ठः प्राणो अस्तु वः ॥ सं या वः प्रियास्तनुवः संप्रिया हृदयानि वः । आत्मा वो अस्तु संप्रियः संप्रियास्तनुवो ममेत्यथैनान्कल्पयति कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रताः ॥ येऽग्नयः समनसोऽन्तरा द्यावापृथिवी । वासन्तिकावृतू अभि कल्पमाना इन्द्र मिव देवा अभिसंविशन्त्वित्यथातिशिष्टानाँ संभाराणामर्धानादाय दक्षिणया द्वारोपनिर्हृत्यान्वाहार्यपचनस्यायतने निवपति यदन्तरिक्षस्यानामृतँ संबभूव त्वे सचा । तद्वायुरग्नयेऽदादात्तस्मिन्नाधीयतामयमिति
स यत्रोषानुपाधिगच्छति तज्जपति यददश्चन्द्र मसि कृष्णं तदपीहेति
तथादधाति
तथा संप्रयौति
तथा कल्पयत्यथैतेनैव यथेतमेत्यातिशिष्टान्संभारानादाय पूर्वया द्वारोपनिर्हृत्याहवनीयस्यायतने निवपति यद्दिवोऽनामृतँ संबभूव त्वे सचा तदादित्योऽग्नयेऽददात्तस्मिन्नाधीयतामयमिति
स यत्रोषानुपाधिगच्छति तज्जपति यददश्चन्द्र मसि कृष्णं तदपीहेति

तथादधाति
तथा संप्रयौति
तथा कल्पयत्यथ गोप्तारँ समादिशति
स आह विहृता अग्नयो मा कश्चनान्तरेण संचारीदित्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य गार्हपत्यस्यायतन उपरि संभारेषु मुञ्जकुलायं निदधाति
तस्मिन्प्रतीचीनप्रजननामरणिं निधाय दशहोत्रोत्तरारणिमवदधाति
स आह मन्थतेति
यजमानः प्रथमो मन्थति
यजमान उत्तमो मन्थति
जनयति
जाते वरं ददामीति वाचं विसृजतेऽथैनमुपतिष्ठतेऽजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम्। दश स्वसारो अग्रुवः समीचीः पुमाँ सं जातमभिसँ रभन्तामित्यथैनमभिप्राणिति प्रजापतेस्त्वा प्राणेनाभिप्राणिमि पूष्णः पोषेण मह्यम्। दीर्घायुत्वाय शतशारदाय शतँ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्याय ॥ प्राणे त्वामृतमादधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्या इत्यथोद्गातारमाह रथन्तरं ब्रूहीत्यथैनमादधाति
भूर्भुवो घर्मः शिरस्तदयमग्निः संप्रियः पशुभिर्भुवत्। छर्दिस्तोकाय तनयाय यच्छ ॥ भृगूणां त्वाङ्गिरसां व्रतपते व्रतेनादधामीति भृग्वङ्गिरसामादध्यादादित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्यन्यासां ब्राह्मणीनां प्रजानाम्वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राज्ञ इन्द्र स्य त्वेन्द्रि येण व्रतपते व्रतेनादधामीति राजन्यस्य
मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामीति वैश्यस्य

ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामीति रथकारस्येति
यथर्षि यथागोत्रं गायत्रेण छन्दसेत्युत्तरतो हिरण्यशल्कमुपास्यति स्वया तनुवा संभवेत्यथैतँ राजतं वृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणम्
अथैनमुपतिष्ठते अहं त्वदस्मि मदसि त्वमेतद्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः ॥ सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीःश्रेयसीर्दधत्। अग्ने सपत्नाँ पबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहीति १६

अथैतमग्निमाददते य एष सते समुप्तो भवति
तं दक्षिणया द्वारोपनिर्हृत्यान्वाहार्यपचनमादधाति भूर्भुवो वातः प्राणस्तदयमग्निः संप्रियः पशुभिर्भुवत्। स्वदितं तोकाय तनयाय पितुं पच ॥ अमीषां त्वा देवानां व्रतपते व्रतेनादधामीति
यथर्षि यथागोत्रं गायत्रेण छन्दसेत्युत्तरतो हिरण्यशल्कमुपास्यति स्वया तनुवा संभवेत्यथैतँ राजतं वृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणम्
अपि वा गार्हपत्यादेवान्वाहार्यपचनमादधाति
प्रजापतिरग्निमसृजत सोऽबिभेत्प्र मा धक्ष्यतीति तस्य त्रेधा महिमानं व्यौहच्छान्त्या अप्रदाहायेत्येतस्माद्ब्राह्मणादथैनमुपतिष्ठत इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इत्यथैतेनैव यथेतमेत्याभ्यादधातीध्मं प्रणयनीयं तं तथाभ्यादधाति यथा मन्यतेऽर्धोदिते सूर्य आहवनीय आधीयमानः संपत्स्यत इति

तस्य तथा संपद्यत उपोपयमनीः कल्पयन्त्यश्व एष पूर्ववाट पल्पूलितः पुरस्तात्तिष्ठत्यथोद्गातारमाह वामदेव्यं ब्रूहीत्यथैनमुद्यच्छत ओजसे बलाय त्वोद्यच्छे वृषणे शुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः ॥ यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि ॥ दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः । यत्रयत्र जातवेदः संबभूथ ततो नो अग्ने जुषमाण एहीतीयत्यग्रे हरत्यथेयत्यथेयत्यधोऽधः शिरो हरतीति ब्राह्मणम्
आददान एवैता मात्रा अभिसंपादयेदित्येतदपरम्
अश्वं पूर्वं नयन्ति
तमनुमन्त्रयते प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो विभाह्यूर्जं नो धेहि द्विपदे चतुष्पद इति
विषुवत्युपरमन्ति विक्रमस्व महाँ असि वेदिषन्मानुषेभ्यस्त्रिषु लोकेषु जागृहीत्यथोपातियन्त्यन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततानेत्यथैतेनाश्वेन प्राचोत्तरतः पार्श्वतः संभाराणामाक्रमयति यथाहितस्याग्नेरङ्गारा अभ्यववर्तेरन्नित्यथैनं प्रदक्षिणमावर्त्याद्भिरभ्युक्ष्योदञ्चमुत्सृजति
स एषोऽध्वर्योर्भवत्यन्यं ब्रह्मणे ददात्यथ प्रदक्षिणमावृत्येध्मं प्रतिष्ठापयति यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाः शम्भूः प्रजाभ्यस्तनुवे स्योनः ॥ प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्या इत्य्
अथोद्गातारमाह बृहद्वारवन्तीयँ श्यैतमिति गायेति
सर्वाणि संप्रेष्यति
बृहति गीयमान आहवनीयमादधाति भूर्भुवः सुवरर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः संप्रियः पशुभिर्भुवत्। यत्ते शुक्र शुक्रं वर्चः शुक्रा तनूः शुक्रं ज्योतिरजस्रं तेन मे दीदिहि तेन त्वादधेऽग्निनाग्ने ब्रह्मणा अमीषां त्वा देवानां व्रतपते व्रतेनादधामीति
यथर्षि यथागोत्रं गायत्रेण छन्दसेत्युत्तरतो हिरण्यशल्कमुपास्यति स्वया तनुवा संभवेत्यथैतँ राजतं वृषलाय वाज्ञाताय वातिप्रयच्छत्यार्तिमेवातिप्रयच्छतीति ब्राह्मणम्
अथैनमुपतिष्ठत आनशे व्यानशे सर्वमायुर्व्यानश इत्यत्रैतावग्नी आदधाति सभ्यं चावसथीयं च
रथचक्रं प्रवर्तयति संततं गार्हपत्यादाहवनीयात् १७

सर्वौषधेन व्याहृतीभिरग्नीञ्छमयित्वा पञ्चपञ्च नानावृक्ष्याः समिधोऽभ्यज्याभिदधाति समिध्यमानः प्रथमो नु धर्म इत्येताभिः पञ्चभिरायुर्दा अग्ने हविषो जुषाण इत्येतामपोद्धृत्याथ प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यं तिष्ठँ स्तनूभिरुपतिष्ठते ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वताम्। ये ते अग्ने शिवे तनुवौ प्रभ्वी च प्रभूतिश्च ते मा विशतां ते मा जिन्वताम्। यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वादध इति
सर्वाभिर्गार्हपत्यं सर्वाभिरन्वाहार्यपचनं सर्वाभिराहवनीयम्
अथ घोरास्तनूरनुदिशति यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्य विराजक्रमैरुपतिष्ठते
नर्य प्रजां मे गोपाय । अमृतत्वाय जीवसे । जातां जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठितामिति गार्हपत्यम्
अथर्व पितुं मे गोपाय । रसमन्नमिहायुषे । अदब्धायोऽशीततनो । अविषन्नः पितुं कृण्वित्यन्वाहार्यपचनं शँ स्य पशून्मे गोपाय । द्विपादो ये चतुष्पदः । अष्टाशफाश्च य इहाग्ने । ये चैकशफा आशुगा इत्याहवनीयं सप्रथ सभां मे गोपाय । ये च सभ्याः सभासदः । तानिन्द्रि यावतः कुरु । सर्वमायुरुपासतामिति सभ्यम्
अहे बुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रयिविदा विदुः । ऋचः सामानि यजूँ षि । सा हि श्रीरमृता सतामित्यावसथीयम्

अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्याहवनीये पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधः सप्त जिह्वा इति
पूर्णाहुतौ वरं ददात्यथैतान्यग्निहोत्रपात्राणि प्रक्षालितान्युत्तरेण गार्हपत्यमुपसादयति कूर्चे वा सूनायां वा स्थालीँ सस्रुवाँ स्रुचमभिद्योतनँ समिधमित्यथैतामग्निहोत्रीं दक्षिणत उदीचीँ स्थापयित्वा ब्राह्मणो दोग्धि
पूर्वौ दुह्यादपरौ दुह्याद्न संमृशेद्द्वयोर्दुह्यात्पशुकामस्येत्यधिश्रित्योत्तरमानयत्यथैतदग्निहोत्रमग्रेणाहवनीयं पर्याहृत्य पूर्वया द्वारा प्रपाद्य जघनेन गार्हपत्यमुपसाद्य तस्मिन्नग्निहोत्रविधिं चेष्टित्वा समिधमुपयत्य प्राङ्हरति
जघनेनाहवनीयमुपसादयति कूर्चेऽत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधाति तूष्णीं तस्यामादीप्तायां प्रतिमुखं द्विर्जुहोत्युच्च मार्ष्ट्यव च मार्ष्ट्युभयमवाप्नोतीति ब्राह्मणं द्विरङ्गुल्या प्राश्योदङ्पर्यावृत्य प्राचीनदण्डया स्रुचा भक्षयति
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वोदगुद्दिशति
सप्तर्षीनेव प्रीणातीति ब्राह्मणं हुत्वोपसमिन्द्धे ब्रह्मवर्चसस्य समिद्ध्ययपो निनयत्यवभृथस्यैव रूपमकरिति ब्राह्मणम् १८

अथ परिकर्मिणं बर्हिर्लावं प्रहिणोत्याहृतं वा यजुषा करोत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नेयमष्टाकपालं निर्वप्स्यन्दशहोतारं व्याचक्षीत
सामिधेनीरनुवक्ष्यन्दशहोतारं व्याचक्षीत
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोऽग्निर्मूर्धा भुव इति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्याग्न्याधेयदक्षिणा ददात्या द्वादशभ्यो ददाति
कामं भूयसीर्ददाति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतम्
अथ तदानीमेव पृष्ठ्याँ स्तीर्त्वापः प्रणीयैन्द्रा ग्नमेकादशकपालं निर्वपत्यादित्यं चरुं घृत एष चरुर्भवति
शृते नेदीयसि वाज्यमानयति
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोरिन्द्रा ग्नी रोचना दिवः श्नथद्वृत्रमित्यैन्द्रा ग्नस्यादितिर्न उरुष्यतु महीमू षु मातरमित्यादित्यस्य
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्याथैतं चरुं व्युद्धृत्य चत्वार आर्षेयाः प्राश्नन्ति
दिशामेव ज्योतिषि जुहोतीति ब्राह्मणं संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतम् १९

अत्रैतद्द्वादशाहं व्रतं चरति
तस्यैतद्व्रतं नानृतं वदति
न माँ समश्नाति
न स्त्रियमुपैति
नास्य पल्पूलनेन वासः पल्पूलयन्त्यमृन्मयपाय्यशूद्रो च्छिष्टी
स्वयं पादौ प्रक्षालयते

न लवणमश्नाति
न कौशीधान्यमन्यत्र तिलेभ्यः
प्राङुच्चारः स्वयँ समिध आहरमाणोऽग्नीनामन्ते संविशत्यजस्रा अस्यैते द्वादशाहमग्नयो भवन्ति
नास्य ब्राह्मणोऽनाश्वान्गृहे वसत्यग्निहोत्रोच्छेषणव्रतो वा यजमानो भवति
भक्तमु पत्न्या आहरन्त्यथ द्वादशसु व्युष्टासु पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपति
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोऽग्न आयूँ षि पवसेऽग्ने पवस्वेति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्य त्रिँ शन्मानँ हिरण्यं ददाति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतम्
अथ तदानीमेव पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नये पावकाय पुरोडाशमष्टाकपालं निर्वपत्यग्नये शुचये
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोरग्ने पावक स नः पावकाग्निः शुचिव्रततम उदग्ने शुचयस्तवेति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्य त्रिँ शन्मानचत्वारिँ शन्माने हिरण्ये ददाति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतम् २०

अथातोऽन्वारम्भस्यैव मीमाँ सान्वारम्भं पौर्णमास्याः समानोपवसथं करोत्यथ प्रातर्हुतेऽग्निहोत्रे पुरापां प्रणयनाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा चतुर्होतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्य्
अपरं चतुर्गृहीतं गृहीत्वा सारस्वतौ होमौ जुहोति
पूर्णा पश्चादित्यनुद्रुत्याग्नीषोमविति जुहोत्यपरं चतुर्गृहीतं गृहीत्वा निवेशनी संगमनी वसूनामित्यनुद्रुत्य यत्ते देवा अदधुर्भागधेयमिति जुहोत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नावैश्णवमेकादशकपालं निर्वपति सरस्वत्यै चरुँ सरस्वते द्वादशकपालमिति
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषामग्नाविष्णू अग्नाविष्णू प्र णो देव्या नो दिवः पीपिवाँ सँ सरस्वत स्तनं ये ते सरस्व ऊर्मय इति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्य मिथुनौ गावौ ददाति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतम्
अथ पौर्णमासवैमृधाभ्यां यजते
संतिष्ठतेऽग्न्याधेयँ संतिष्ठतेऽग्न्याधेयम् २१

तृतीयः प्रश्नः
अग्नीन्पुनराधास्यमानो भवति
तदाहुः कृतयजुः संभृतसंभारो भवति न संभृत्याः संभारा न यजुः कर्तव्यमित्यथो खलु संभृत्या एव संभाराः कर्तव्यं यजुः पुनराधेयस्य समृद्ध्या इति
स उपकल्पयते पुनर्निष्कृतँ रथं पुनरुत्स्यूतं वासः पुनरुत्सृष्टमनड्वाहं दर्भकुलायं तिस्रो दर्भमयीर्विसूर्मिकाः
प्रज्ञाता आग्न्याधेयिकाः संभाराः
सा याषाढ्याः पौर्णमास्याः पुरस्तादमावास्या भवति सा सकृत्संवत्सरस्य पुनर्वसुभ्याँ संपद्यते तस्यामादधीतेति
तस्या उपवसथेऽरण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्याग्नेयमष्टाकपालं निर्वपति वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्निति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ तदानीमेवाद्भिरग्नीन्समुक्ष्य ब्रह्मौदनँ श्रपयित्वोपवसत्यथ प्रातराग्न्याधेयिकं कर्म तायत एतावदेव नाना
यदमुत्र मुञ्जकुलायं तदिह दर्भकुलायं योऽमुत्रेध्मः प्रणयनीयः स इह दर्भमयीर्विसूर्मिका
दर्भैर्गार्हपत्यमादधाति दर्भैरन्वाहार्यपचनं दर्भैराहवनीयं दर्भैर्गार्हपत्यमादधात्याधाने सर्पराज्ञीरृचोऽनुवर्तयति १

भूमिर्भूम्ना द्यौर्वरिणेति चतस्रो गार्हपत्ये तिस्र आहवनीये

समानं कर्मा रथचक्रादेतावदेव नाना
यदमुत्र तूष्णीमग्निहोत्रं तदिह सप्त ते अग्ने समिधः सप्त जिह्वा इति जुहोति
योऽमुत्राग्नेयोऽष्टाकपालः स इहाग्नेयः पञ्चकपालस्
तस्य प्रयाजेषु चतस्रो विभक्तीर्दधात्यग्न आयाहि वीतये समिधो अग्न आज्यस्य वियन्त्वग्निं दूतं वृणीमहे तनूनपादग्न आज्यस्य वेत्वग्निनाग्निः समिध्यत इडो अग्न आज्यस्य वियन्त्वग्निर्वृत्राणि जङ्घनद्बर्हिरग्न आज्यस्य वेत्विति
स्वयँ संपन्न उत्तमः प्रयाजोऽथात आज्यभागयोरेव मीमाँ सा
वार्त्रघ्नावाज्यभागौ स्यातामित्येके
वृधन्वन्तावाज्यभागौ स्यातामित्येकेऽग्निँ स्तोमेन बोधय त्वं नः सोमेत्येतौ स्यातामित्येकेऽग्न आयूँ षि पवसेऽग्ने पवस्वेत्येतौ स्यातामित्येके
यत्पवमानं तत्सोमरूपम्पङ्क्त्यौ हविषोऽग्ने तमद्याधा ह्यग्न इत्यथ पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुती जुहोत्यग्निं प्रति स्विष्टकृतं निराहाभिष्टे अद्य एभिर्नो अर्कैरिति संयाज्ये
अन्वाहार्यमासाद्य २

पुनराधेयदक्षिणा ददाति पुनर्निष्कृतँ रथं पुनरुत्स्यूतं वासः पुनरुत्सृष्टमनड्वाहं तस्यानूयाजेषु विभक्ती दधात्यग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः । भसन्नु ष प्र पूर्व्य इषं वुरीतावसे । देवं बर्हिर्वसुवने वसुधेयस्य वेत्वग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्र विणस्यवो देवो नराशँ सो वसुवने वसुधेयस्य वेत्विति

स्वयँ संपन्न उत्तमोऽनूयाजः
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतम्
अथ तदानीमेव पृष्ठ्याँ स्तीर्त्वापः प्राणीयाग्निवारुणमेकादशकपालमनुनिर्वपति
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषस्त्वं नो अग्ने स त्वं नो अग्न इति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्यानड्वाहं ददाति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतं संतिष्ठते पुनराधेयम्
इति न्वृद्धिपुनराधेयम्
अथ वै भवति
यः पराचीनं पुनराधेयादग्निमादधीत स एतान्होमाञ्जुहुयादिति
तृतीयमाधान आग्नेयस्य पञ्चकपालस्य पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति लेकः सलेकः सुलेकस्ते न आदित्या आज्यं जुषाणा वियन्तु स्वाहा । केतः सकेतः सुकेतस्ते न आदित्या आज्यं जुषाणा वियन्तु स्वाहा । विवस्वाँ अदितिर्देवजूतिस्ते न आदित्या आज्यं जुषाणा वियन्तु स्वाहेति
संतिष्ठते तृतीयमाधानम्
अथापहृताग्नेर्नष्टारणीकस्य च ब्रह्मौदनेनैव प्रतिपद्यते

सिद्धमग्न्याधेयम् ३

पुरस्तादित्यस्यास्तमयाद्गार्हपत्यमुपसमाधायान्वाहार्यपचनमाहृत्य ज्वलन्तमाहवनीयमुद्धरति सायमाहुतये
पुरस्तादित्यस्योदयाद्गार्हपत्यमुपसमाधायान्वाहार्यपचनमाहृत्य ज्वलन्तमाहवनीयमुद्धरति प्रातराहुतये
वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामि भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वाँ श्चकार । अह्ना यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति सायं रात्रिया यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातर्
अग्निं निदधात्यमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयानन्तं काममितो जयेम प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहेति सायं सूर्यमग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहेति प्रातः
सायंप्रातरेवैषा पत्न्यन्वास्ते
सायँ सायमित्येकेऽथैतान्यग्निहोत्रपात्राणि प्रक्षालितान्युत्तरेण गार्हपत्यमुपसादयति कूर्चे वा सूनायां वा स्थालीं सस्रुवाँ स्रुचमभिद्योतनँ समिधमित्यथैतामग्निहोत्रीं दक्षिणत उदीचीँ स्थापयित्वा ब्राह्मणो दोग्धि

पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीः स्यादपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य यो वा बुभूषेद्न संमृशेद्द्वयोर्दुह्यात्पशुकामस्येत्यधिश्रित्योत्तरमानयत्यथैतदग्निहोत्रमग्रेणाहवनीयं पर्याहृत्य पूर्वया द्वारा प्रपाद्य जघनेन गार्हपत्यमुपसाद्याथ परिषिञ्चति ४

ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति
सत्यं त्वर्तेन परिषिञ्चामीति प्रातरेवमेव हुत्वा परिषिञ्चत्यथ प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यमुपविश्योदीचोऽङ्गारान्निरूह्य व्यन्तान्कृत्वा तेष्वधिश्रित्याभिद्योतनेनाभिद्योतयत्यग्निस्ते तेजो मा प्रतिधाक्षीदिति
स्रुवेणापः प्रत्यानयत्यमृतमसीति
पुनरेवाभिद्योत्य त्रिः पर्यग्नि करोत्यन्तरितँ रक्षोऽन्तरिता अरातय इति
वर्त्म कुर्वन्नुदगुद्वास्य प्रत्यूह्याङ्गारानादत्ते दक्षिणेन स्रुवँ समिधं च सव्येनाग्निहोत्रहवणीं देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूण्षो हस्ताभ्यामादद इति
गार्हपत्ये प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इति त्रिरथ कूर्चे स्रुचं निधाय यजमानमामन्त्रयत ओमुन्नेष्यामीत्योमुन्नयेति यजमानोऽनुजानात्यथ चतुरः स्रुवानुन्नयति पूर्णान्वानूचो वा भूरिडा भुव इडा सुवरिडा भूर्भुवः सुवरिडेति
स्थाल्याँ स्रुवं प्रत्यवधायाथैने संमृशति सजूर्देवैः सायंयावभिः सायंयावानो मा देवाः स्वस्ति संपारयन्तु पशुभिसिति सायं
सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो मा देवाः स्वस्ति संपारयन्तु पशुभिरिति प्रातर्
अत्रैताँ समिधँ स्रुग्दण्ड उपसंगृह्य जघनेन गार्हपत्यमुपसादयति कूर्चे नम ईशानाय प्रजाः पशवो मे वर्धन्तामहं यजमानो मा रिषमिति
दशहोत्रोद्द्रुत्य प्राङ्हरति भूर्भुवः सुवरुर्वन्तरिक्षमन्विह्ययं पन्था विततो देवयानो येनायन्नृषयः स्वर्गकामास्तेन गच्छामि परमं व्योम यथा न हीये सुकृताँ सकाशादिति
जघनेनाहवनीयमुपसादयति कूर्चे नम ईशानाय प्रजा मे वर्धतामहं यजमानो मा रिषमित्यत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधाति ५

रजतां त्वाग्निज्योतिषं वायुमतीँ स्वर्ग्याँ स्वर्गाय लोकाय रात्रिमक्षितिमिष्टकामुपदधेऽमृतं प्राणे दधामि प्रजापतिस्त्वा सादयत्विति
तयादेवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ सूददोहसं करोति ता अस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिव इति सायम्
अथ प्रातर्हरिणीं त्वा सूर्यज्योतिषं वायुमतीँ स्वर्ग्याँ स्वर्गाय लोकायाहरक्षितिमिष्टकामुपदधेऽमृतमपाने दधामि प्रजापतिस्त्वा सादयदिति
तयादेवतं कृत्वा सूददोहसं करोति
तस्यामादीप्तायां प्रतिमुखं जुहोत्यग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति सायं
सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातर्
इति नु सँ सृष्टम्
अथासँ सृष्टमग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्
अथ सकृदतिवाल्य कूर्चे स्रुचं निधाय दक्षिणावृद्गार्हपत्यं प्रतीक्षत उपप्रेत संगच्छध्वं मा भागिनां भागधेयं प्रमायि । सप्तर्षीणाँ सुकृताम्यत्र लोकस्तत्रेमं यज्ञं यजमानं च धत्तेत्यतिहाय पूर्वामाहुतिमुत्तरां भूयः समिध्येव जुहोति प्रजापतये स्वाहेति मनसाथ त्रिरतिवाल्य कूर्चे स्रुचं निधायावाचीनमवमृज्य प्रतीचा नीचा पाणिनौषधीषु लेपं निमाऋष्ट्योषधीभ्यस्त्वौषधीर्जिन्वेत्येवमेव द्वितीयमवमृज्यौषधीष्वेव निमार्ष्टि दक्षिणतः प्राचीनावीती पितृभ्यस्त्वा पितॄञ्जिन्वेति सायम्
अथ प्रातरूर्ध्वमुन्मृज्य प्राचोत्तानेन पाणिनौषधीषु लेपमुन्मार्ष्ट्योषधीभ्यस्त्वौषधीर्जिन्वेत्य्
एवमेव द्वितीयमवमृज्यौषधीष्वेव निमाऋष्टि दक्षिणतः प्राचीनावीती पितृभ्यस्त्वा पितॄञ्जिन्वेत्यथाप उपस्पृश्य द्विरङ्गुल्या प्राश्नाति प्रजा ज्योतिरित्यथोदङ्पर्यावृत्य प्राचीनदण्डया स्रुचा भक्षयति ६

इदँ हविः प्रजननं मे अस्तु दशवीरँ सर्वगणँ सवस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि ॥ अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति सायं सूर्यः प्रजां बहुलां मे करोत्विति प्रातर्
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वोदगुद्दिशति सप्तर्षीन्प्रीणीहि सप्तर्षीञ्जिन्व सप्तर्षिभ्यः स्वाहेति
सप्तर्षीनेव प्रीणातीति ब्राह्मणम्
अथ जघनेन गार्हपत्यमपो निनयतीदमहमग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहेत्यक्षित्यामक्षिताहुतिं जुहोमि स्वाहेत्यन्तर्वेदि निनयति
हुत्वोपसमिन्द्धे ब्रह्मवर्चसस्य समिद्ध्ययपो निनयत्यवभृथस्यैव रूपमकरिति ब्राह्मणम् ७

अथ सायँ हुतेऽग्निहोत्रे यज्ञोपवीत्यप आचम्य यजमानायतने तिष्ठन्नाहवनीयमुपतिष्ठत उपप्रयन्तो अध्वरमिति षड्भिरनुच्छन्दसं षड्भिरेवोत्तराभिराग्निपावमानीभिराहवनीयमेवोपतिष्ठतेऽग्न आयूँ षि पवसेऽग्ने पवस्वाग्ने पावक स नः पावकाग्निः शुचिव्रततम उदग्ने शुचयस्तवेत्य्
अथाहवनीयमेवोपतिष्ठत आयुर्दा अग्नेऽस्यायुर्मे देहि वर्चोदा अग्नेऽसि वर्चो मे देहि तनूपा अग्नेऽसि तनुवं मे पाह्यग्ने यन्मे तनुवा ऊनं तन्म आपृणेत्यथ रात्रिमुपतिष्ठते चित्रावसो स्वस्ति ते पारमशीयेत्यथाहवनीये समिधमादधातीन्धानास्त्वा शतँ हिमा द्युमन्तः समिधीमहि वयस्वन्तो वयस्कृतं यशस्वन्तो यशस्कृतं सुवीरासो अदाभ्यम्। अग्ने सपत्नदम्भनम्वर्षिष्ठे अधि नाके स्वाहेत्यथाहवनीयमेवोपतिष्ठते सं त्वमग्ने सूर्यस्य वर्चसागथाः समृषीणाँ स्तुतेन सं प्रियेण धाम्ना ॥ त्वमग्ने सूर्यवर्चा असि सं मामायुषा वर्चसा प्रजया सृजेत्यथ वै भवति
यथा वै पुरुषोऽश्वो गौर्जीर्यत्येवमग्निराहितो जीर्यति संवत्सरस्य परस्तादाग्निपावमानीभिरुपतिष्ठत इति
स संवत्सरस्य परस्तादाग्निपावमानीभिर्गार्हपत्यमुपतिष्ठते
पुनर्नवमेवैनमजरं करोतीति ब्राह्मणम्
अथ गृहाँ श्च पशूँ श्चोपतिष्ठते संपश्यामि प्रजा अहमिडप्रजसो मानवीः । सर्वा भवन्तु नो गृहे ॥ अम्भ स्थाम्भो वो भक्षीय मह स्थ महो वो भक्षीय सह स्थ सहो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय । रेवती रमध्वमस्मिन्लोकेऽस्मिन्गोष्ठेऽस्मिन्क्षयेऽस्मिन्योनाविहैव स्तेतो माप गात बह्वीर्मे भूयास्तेत्य्
अथाग्निहोत्रियै वत्समभिमृशति सँ हितासि विश्वरूपीरा मोर्जा विशा गौपत्येना रायस्पोषेण । सहस्रपोषं वः पुष्यासं मयि वो रायः श्रयन्तामित्यथ द्विपदत्रिपदाभिर्गार्हपत्यमुपतिष्ठत उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्। नमो भरन्त एमसि ॥ राजन्तमध्वराणां गोपामृतस्य दीदिविम्। वर्धमानँ स्वे दमे ॥ स नः पितेव सूनवे अग्ने सूपायनो भव । सचस्वा अः स्वस्तये ॥ अग्ने त्वं नो अन्तम उत त्राता शिवो भव वरूथ्यः ॥ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दा इत्यथ गृहाँ श्चैव पशूँ श्चैवोपतिष्ठते ८

ऊर्जा वः पश्याम्यूर्जा मा पश्यत रायस्पोषेण वः पश्यामि रायस्पोषेण मा पश्यतेडा स्थ मधुकृतः स्योना मा विशतेरा मदः । सहस्रपोषं वः पुष्यासम्मयि वो रायः श्रयन्तामित्यथाहवनीयमुपतिष्ठते तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयादित्याहवनीयमेवोपतिष्ठते सोमानँ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजमित्यथ रात्रिमुपतिष्ठते कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत इत्यथ गार्हपत्यमुपतिष्ठते परि त्वाग्ने पुरं वयं विप्रँ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारं भङ्गुरावत इत्य्
अथ गार्हपत्यमेवोपतिष्ठतेऽग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं सुगृहपतिर्मया त्वं गृहपतिना भूयाः शतँ हिमास्तामाशिषमाशासे मह्यममुष्मै ज्योतिष्मतीं तामाशिषमाशासेऽमुष्मा अमुष्मा इति
यावन्तोऽस्य पुत्रा जाता भवन्ति तन्तव इत्यन्ततोऽथ वै भवति
यो वा अग्निं प्रत्यङ्ङुपतिष्ठते प्रत्येनमोषति यः पराङ्विष्वङ्प्रजया पशुभिरेति कवातिर्यङ्ङिवोपतिष्ठेतेति
स कवातिर्यङ्ङिवोपतिष्ठते नैव प्रत्यङ्न पराङ् ९

पिण्डपितृयज्ञं करिष्यन्नुपकल्पयते सकृदाछिन्नं बर्हिर्दर्भाँ श्च परिस्तरणीयान्व्रीहीँ श्च शूर्पं च प्रक्षालिते चोलूखलमुसले स्थालीँ स्रुवाँ समेक्षणामेरकोपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भं यज्ञायुधानीत्यथान्वाहार्यपचनं परिस्तृणाति
तमुत्तरेणैकैकँ सँ सादयत्येरकोपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भं यज्ञायुधानीत्यथ प्राचीनावीतं कृत्वा जघनेनान्वाहार्यपचनमुपविश्य पवित्रवत्याँ स्थाल्यां व्रीहीन्निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति वा तूष्णीं वोपर्यर्धाँ स्थालीं कृत्वैतस्मिन्नेव चर्मण्युलूखलमुसले निधायावहन्ति सकृदेव दक्षिणामुखोऽथैनानविविच्याथैतस्यामेव स्थाल्यां तिरः पवित्रमप आनीयाधिश्रित्य तिरः पवित्रं तण्डुलानावपत्य्
अथाज्यं निर्वपत्यथाज्यमधिश्रयत्युभयं पर्यग्नि कृत्वा मेक्षणँ स्रुवं च संमाऋष्ट्यथैतं चरुँ श्रपयित्वाभिघार्योदञ्चमुद्वासयत्यथ यज्ञोपवीतं कृत्वान्वाहार्यपचनमुपसमाधाय मेक्षणेनोपघातं तिस्र आहुतीर्जुहोति सोमाय पितृपीताय स्वधा नमः स्वाहा यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहाग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहेति दक्षिणार्धपूर्वार्धे
तूष्णीं मेक्षणमभ्याधाय प्राचीनावीतं कृत्वा दक्षिणेनान्वाहार्यपचनँ स्फ्येनोद्धत्यावोक्ष्य दक्षिणाग्रं बर्हि स्तीर्त्वाद्भिर्मार्जयति मार्जयन्तां पितरो मार्जयन्तां पितामहार्मार्ययन्तां प्रपितामहा इत्यथ स्रुवेणोपस्तीर्णाभिघारिताँ स्त्रीन्पिण्डान्ददात्येतत्ते ततासौ ये च त्वामन्वेतत्ते पितामहासौ ये च त्वामन्वेतत्ते प्रपितामहासौ ये च त्वामन्वित्यत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदङ्पर्यावृत्योष्मणो व्यावृत उपास्ते
व्यावृत्त ऊष्मेति प्राहुरथाभिपर्याऋत्यैतं चरुमवजिघ्रति १०

ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम्॥ ये सजाताः समनसो जीवा जीवेषु मामकाः । तेषाँ श्रीर्मयि कल्पतामस्मिँ लोके शतँ समा इत्यथ तथैवाद्भिर्मार्जयति मार्जयन्तां पितरो मार्जयन्तां पितामहार्मार्जयन्तां प्रपितामहा इत्यथाञ्जनं ददात्याञ्जतां पितर आञ्जतां पितामहा आञ्जतां प्रपितामहेत्यथाभ्यञ्जनं ददात्यभ्यञ्जतां पितरोऽभ्यञ्जतां पितामहा अभ्यञ्ज्तां प्रपितामहा इत्य्
अथ वासाँ सि ददात्येतानि वः पितरो वासाँ स्येतानि वः पितामहा वासाँ स्येतानि वः प्रपितामहा वासाँ सीत्युत्तर आयुषि लोम छिन्दीतेति ब्राह्मणम्
अथ षड्भिर्नमस्कारैर्विपर्यासमुपतिष्ठते नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वो य एतस्मिँ लोके स्थ युष्माँ स्तेऽनु येऽस्मिँ लोके मां तेऽनु य एतस्मिँ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिँ लोकेऽहं तेषां वसिष्ठो भूयासमित्यथ वीरं याचते वीरं मे पितरो दत्त वीरं मे पितामहा दत्त वीरम्मे प्रपितामहा दत्त पितृमानहं युष्माभिर्भूयासँ सुप्रजसो मया यूयं भूयास्तेत्यथैनानुत्थापयत्युत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुयाता पुराणम्। धत्तादस्मासु द्र विणं यच्च भद्र म्प्र णो ब्रूताद्भागधान्देवतास्वित्यथैनान्सँ साधयति यन्तु पितरो यथालोकं मनसा जवेन परेत पितरः सोम्यास्गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त्सुविदत्राँ पीत यमेन ये सधमादं मदन्तीत्यथ तिसृभिर्मन आह्वयते मनो न्वाहुवामह आ न एतु मनः पुनः पुनर्नः पितरो मन इत्यत्रैतान्पिण्डान्सह बर्हिषाग्नावनुप्रहरत्यथैतेषाँ शस्त्राणां द्वेद्वे उदाहरन्त्यथ यज्ञोपवीतं कृत्वा प्राजापत्ययर्चा गार्हपत्यमुपतिष्ठते प्रजापते न त्वदेतान्यन्य इत्य्
अत्रैतां द्वितीयां जपति यदन्तरिक्षं पृथिवीमुत द्यामिति
संतिष्ठते पिण्डपितृयज्ञः ११

वर्षासु श्यामाकानामाग्रयणं करिष्यन्भवति
तस्य प्रज्ञात उपवसथोऽथ प्रातर्हुतेऽग्निहोत्रे पृष्ठ्याँ स्तीर्त्वापः प्रणीय सौम्यँ श्यामाकं चरुं निर्वपति
हविष्कृता वाचं विसृज्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीयेऽज्यानीर्जुहोति शतायुधाय शतवीर्यायेति पञ्च
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविष आप्यायस्व सं त इति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्य वासो ददात्यथ यजमानभागं प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
अथ शरदि व्रीहीणामाग्रयणं करिष्यन्भवति
तस्य प्रज्ञात उपवसथोऽथ प्रातर्हुतेऽग्निहोत्रे पृष्ठ्याँ स्तीर्त्वापः प्रणीयैन्द्रा ग्नं द्वादशकपालं निर्वपति वैश्वदेवं चरुं द्यावापृथिव्यमेककपालमिति
हविष्वृता वाचं विसृज्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृःतं गृहीत्वाहवनीयेऽज्यानीर्जुहोति शतायुधाय शतवीर्यायेति पञ्च
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषामिन्द्रा ग्नी रोचना दिवः श्नथद्वृत्रमित्यैन्द्रा ग्नस्य
विश्वे देवा विश्वे देवा इति वैश्वदेवस्य

द्यावा नः पृथिवी प्र पूर्वजे पितरेति द्यावापृथिव्यस्य
त्रिष्टुभौ संयाजे
अन्वाहार्यमासाद्य प्रथमजं वत्सं ददात्यथ यजमानभागं प्राश्नाति भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितो आ विशस्व शं तोकाय तनुवे स्योन इति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
अथ वसन्ते यवानामाग्रयणं करिष्यन्भवति
तस्य प्रज्ञात उपवसथः
समानं कर्म यथा व्रीह्याग्रयणस्यैतावदेव नानाथ यजमानभागं प्राश्नात्येतमु त्यं मधुना संयुतं यवँ सरस्वत्या अधि मनावचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् १२

अग्निभ्यः प्रवत्स्यन्यज्ञोपवीत्यप आचम्याग्रेणाहवनीयं परीत्य यजमानायतने तिष्ठन्नाहवनीयमुपतिष्ठते मम नाम प्रथमं जातवेदः पिता मात च दधतुर्यदग्रे । तत्त्वं बिभृहि पुनरा मदैतोस्तवाहं नाम बिभ्राण्यग्न इत्यथ वाचंयमोऽभिप्रव्रजत्यग्नीनामसकाशे वाचं विसृजते
सोऽधःसंवेश्यमाँ साश्य स्त्र्युपायी प्रवसति
न द्वादशीमतिप्रवसति
नोपवसथमुपात्येत्यायन्प्रपथे समिधः कुरुतेऽग्नीन्पराख्याय वाचं यच्छत्याहवनीयमेवोपतिष्ठते मम नाम तव च जातवेदो वाससी इव विवसानौ ये चरावः । आयुषे त्वं जीवसे वयं यथायथं विपरिदधावहै पुनस्त इत्य्
अथ गार्हपत्यमुपतिष्ठते नमोऽग्नयेऽप्रतिविद्धाय नमोऽनाधृष्टाय नमः सम्राजे । अषाढो अग्निर्बृहद्वया विश्वजित्सहन्त्यः श्रेष्ठो गन्धर्व इत्यथान्वाहार्यपचनमुपतिष्ठते त्वत्पितारो अग्ने देवास्त्वामाहुतयस्त्वद्विवाचनाः । सं मामायुष सं नौपत्येन सुहिते मा धा इत्यथाहवनीयमुपतिष्ठते १३

अयमग्निः श्रेष्ठतमोऽयं भगवत्तमोऽयँ सहस्रसातमः । अस्मा अस्तु सुवीर्यमिति
स यद्यस्मै यज्ञभ्रेषमाचक्षते न तेऽहौषीदिति तद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये संतनीं जुहोति मनो ज्योतिर्जुषतामाज्यम्विच्छिन्नं यज्ञँ समिमं दधातु । या इष्टा उषसो निम्रुचश्च ताः संदधामि हविषा घृतेन स्वाहेत्यथाग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपति
शरावं दक्षिणां ददाति
सा प्रसिद्धेष्टः संतिष्ठतेऽथातिपन्नाः प्रतिजुहोत्येतेन ह स्म वै पूर्वे श्रोत्रिया ऋतायवस्तेजस्कामा यशस्कामा ब्रह्मवर्चसकामा उपतिष्ठन्ते
तदेतदुत्सन्नं व्रतस्यैव गरिम्णाथातो वैराजमेवोपस्थानं नर्य प्रजां मे गोपायेति गार्हपत्यम्
अथर्व पितुं मे गोपायेत्यन्वाहार्यपचनं शँ स्य पशून्मे गोपायेत्याहवनीयं
सप्रथ सभां मे गोपायेति सभ्यम्
अहे बुध्निय मन्त्रं मे गोपायेत्यावसथीयं सोऽपरिमितं प्रवसति
पुनरायन्प्रपथे समिधः कुरुतेऽग्नीन्पराख्याय वाचं यच्छत्यागत्यैतेनैवोपतिष्ठते
समानी प्रायश्चित्तिः १४

अथोपवसथीयेऽहन्यज्ञोपवीत्यप आचम्याग्रेणाहवनीयं परीत्य यजमानायतन उपविश्य तिरः पवित्रमप आचामति पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजेत्यथाहवनीये समिध आदधात्यग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहेत्यथ श्वो भूते हविर्निरुप्यमाणमभिमन्त्रयतेऽग्निँ होतारमिह तँ हुवे देवान्यज्ञियानिह यान्हवामहे । आयन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्येति
तदुदित्वा वाचं यच्छत्या हविष्कृतो हविष्कृता वाचं विसृज्य यज्ञं योगेन युनक्ति कस्त्वा युनक्ति स त्वा युनक्त्विति
काले कपालानि युनक्ति यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू युङ्क्तामिति
तेषां यजुष्कृतानां यद्भिद्यते तदुत्कर उदस्यत्यभिन्नो घर्मो जीरदानुर्यत आत्तस्तदगन्पुनरित्य्
अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये संतनीं जुहोतीध्मो वेदिः परिधयश्च सर्वे यज्ञस्यायुरनुसंचरन्ति । त्रयस्त्रिँ शत्तन्तवो ये वितत्निरे य इमं यज्ञँ स्वधया ददन्ते तेषां धिन्नं प्रत्येतद्दधामि स्वाहेत्यथान्यदपिसृजति घर्मो देवाँ अप्येत्वित्यथ वै भवति
यदि नश्येदाश्विनं द्विकपालं निर्वपेद्द्यावापृथिव्यमेककपालमिति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ तथैव गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये संतनीं जुहोतीध्मो वेदिः परिधयश्च सर्वे यज्ञस्यायुरनुसंचरन्ति । त्रयस्त्रिँ शत्तन्तवो ये वितत्निरे य इमं यज्ञँ स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहेत्यथान्यदपिसृजति घर्मो देवाँ अप्येत्वित्यथ यद्याज्यस्य वा सांनाय्यस्य वान्यत्र बर्हिषः पुरोत्तमात्प्रयाजात्स्कन्दति तस्य स्वधाँ संभरति १५

सं त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च । बृहस्पतिप्रसूतो यजमान इह मा रिषदिति
स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेत्यथ यावत्परिशिष्टेन प्रचरत्यथ यजमानमाज्यमवेक्षयत्याजयमसि सत्यमसि सत्यस्याध्यक्षमसि हविरसि वैश्वानरं वैश्वदेवमुत्पूतशुष्मँ सत्यौजाः सहोऽसि सहमानमसि सहस्वारातीः सहस्वारातीयतः सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्यमसि तन्मा जिन्वाज्यस्याज्यमसि सत्यस्य सत्यमसि सत्यायुरसि सत्यशुष्ममसि सत्येन त्वाभिघारयामि तस्य ते भक्षीयेत्य्
अथाज्यग्रहाणां गृहीतंगृहीतमनुमन्त्रयते पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि पञ्चनां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामीति चतुर्भिर्जुहूम्
अष्टाभिरुपभृतं चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि क्षत्रस्य त्वौजसे यन्त्राय धर्त्राय गृह्णामि विशे त्वा यन्त्राय धर्त्राय गृह्णामि सुवीर्याय त्वा गृह्णामि सुप्रजास्त्वाय त्वा गृह्णामि रायस्पोषाय त्वा गृह्णामि ब्रह्मवर्चसाय त्वा गृह्णामीति
चतुर्भिर्ध्रुवाम्भूरस्माकँ हविर्देवानामाशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामीत्यभिपूर्यमाणामनुमन्त्रयते कामाय त्वा गृह्णामीति
परिधीन्परिधीयमानाननुमन्त्रयते ध्रुवोऽसि ध्रुवोऽहँ सजातेषु भूयासं धीरश्चेत्ता वसुविदिति मध्यम्
उग्रोऽस्युग्रोऽहँ सजातेषु भूयासमुग्रश्चेत्ता वसुविदिति दक्षिणम्
अभिभूरस्यभिभूरहँ सजातेषु भूयासमभिभूश्चेत्ता वसुविदित्युत्तरम्

अथाग्निं योगेन युनक्ति युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेद इति
समिधोरभ्याधीयमानयोर्जपतीन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं त इत्यथान्तर्वेदि हवीँ ष्यासन्नान्यभिमन्त्रयते यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो । तेन हन्मि सपत्नं दुर्मरायुमैनं दधामि निरृत्या उपस्थ इति १६

अथ भूर्भुवः सुवरित्यग्निहोत्रमेताभिर्व्याहृतीभिरुपसादयेद्यज्ञमुखं वा अग्निहोत्रं ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते
संवत्सरे पर्यागत एताभिरेवोपसादयेद्ब्रह्मणैवोभयतः संवत्सरं परिगृह्णातीति ब्राह्मणम्
अथ वै भवति
दर्शपूर्णमासावालभमान एताभिर्व्याहृतीभिर्हवीँ ष्यासादयेद्यज्ञमुखं वै दर्शपूर्णमासौ ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते
संवत्सरे पर्यागत एताभिरेवासादयेद्ब्रह्मणैवोभयतः संवत्सरं परिगृह्णातीति ब्राह्मणम्
अथ वै भवति
चातुर्मास्यान्यालभमान एताभिर्व्याहृतीभिर्हवीँ ष्यासादयेद्यज्ञमुखं वै चातुर्मास्यानि ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते
संवत्सरे पर्यागत एताभिरेवासादयेद्ब्रह्मणैवोभयतः संवत्सरं परिगृह्णातीति ब्राह्मणम्
अथ वै भवति
यद्वै यज्ञस्य साम्ना क्रियते राष्ट्रं यज्ञस्याशीर्गच्छति यदृचा विशं यज्ञस्याशीर्गच्छत्यथ ब्राह्मणोऽनाशीर्केण यज्ञेन यजते
सामिधेनीरनुवक्ष्यन्नेता व्याहृतीः पुरस्ताद्दध्याद्ब्रह्मैव प्रतिपदं कुरुते
तथा ब्रामणः साशीर्केण यज्ञेन यजत इति ब्राह्मणम्

अथ वै भवति
यं कामयेत यजमानं भ्रातृव्यमस्य यज्ञस्याशीर्गच्छेदिति तस्यैता व्याहृतीः पुरोऽनुवाक्यायां दध्याद्भ्रातृव्यदेवत्या वै पुरोऽनुवाक्या
भ्रातृव्यमेवास्य यज्ञस्याशीर्गच्छतीति ब्राह्मणम्
अथ वै भवति
यान्कामयेत यजमानान्त्समावत्येनान्यज्ञस्याशीर्गच्छेदिति तेषामेता व्याहृतीः पुरोऽनुवाक्याया अर्धर्च एकां दध्याद्याज्यायै पुरस्तादेकां याज्याया अर्धर्च एकां
तथैनान्त्समावती यज्ञस्याशीर्गच्छतीति ब्राह्मणम्
अथ वै भवति
यथा वै पर्जन्यः सुवृष्टः वर्षत्येवं यज्ञो यजमानाय वर्षति
स्थलयोदकं परिगृह्णन्त्याशिषा यज्ञं यजमानः परिगृह्णातीति ब्राह्मणम्व्याहृतीभिर्ब्राह्मणस्य प्रतिपद्यते हिङ्कारेण राजन्यस्यर्चा वैश्यस्य सर्वमेवैतत्त्रयं कुर्यादित्येतदपरम्
इध्ममभ्याधीयमानमनुमन्त्रयते १७

उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते । अग्ने देवेद्ध मन्विद्ध मन्द्र जिह्वेति
प्रवरं प्रव्रियमाणमनुमन्त्रयतेऽमर्त्यस्य ते होतर्मूर्धन्नाजिघर्मि रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति
स्रुवेणाघारमाघार्यमाणमनुमन्त्रयते मनोऽसि प्रजापत्यं मनसा मा भूतेनाविशेति
स्रुच्यमाघारमाघार्यमाणमनुमन्त्रयते वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रि येणाविशेति
प्रयाजानामिष्टमिष्टमनुमन्त्रयते वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीतामित्य्
आज्यभागाविष्टावनुमन्त्रयतेऽग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमित्यग्निमिष्टमनुमन्त्रयतेऽग्नेरहं देवयज्ययान्नादो भूयासमित्युपाँ शुयाजमिष्टमनुमन्त्रयते दब्धिरस्यदब्धो भूयासममुं दभेयमित्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्याग्नीषोमाविष्टावनुमन्त्रयतेऽग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासमितीन्द्रा ग्नी इष्टावनुमन्त्रयत इन्द्रा ग्नियोरहं देवयज्ययेन्द्रि याव्यन्नादो भूयासमितीन्द्र मिष्टमनुमन्त्रयत इन्द्र स्याहं देवयज्ययेन्द्रि यावी भूयासमिति
महेन्द्र मिष्टमनुमन्त्रयते महेन्द्र स्याहं देवयज्यया जेमानं महिमानं गमेयमिति
स्विष्टकृतमिष्टमनुमन्त्रयतेऽग्नेः स्विष्टकृतोऽहं देवयज्ययायुष्मान्यज्ञेन प्रतिष्ठां गमेयमिति
प्राशित्रेऽवदीयमाने जपत्यग्निर्मा दुरिष्टात्पातु सविताघशँ सादिति
यजमानभागे यो मेऽन्ति दूरेऽरातीयति तमेतेन जेषमितीडामाह्रियमाणामनुमन्त्रयते सुरूपवर्षवर्ण एहीति प्रतिपद्य मघोनीत्यातोऽवान्तरेडां प्राश्यमानामनुमन्त्रयते जुष्टिरसि जुषस्व नो जुष्टा नोऽसि जुष्टिं ते गमेयमित्यथान्तर्वेद्यद्भिर्माजयते मनो ज्योतिर्जुषतामाज्यम्विच्छिन्नं यज्ञँ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्तामिति

बर्हिषदं पुरोडाशमभिमन्त्रयते ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसदित्यथान्वाहार्यं याचति
तमन्तर्वेद्यासन्नमभिमन्त्रयते प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वानित्यान्तादनुवाकस्य १८

अनूयाजानामिष्टमिष्टमनुमन्त्रयते बर्हिषोऽहं देवयज्यया प्रजावान्भूयासं नराशँ सस्याहं देवयज्यया पशुमान्भूयासमग्नेः स्विष्टकृतोऽहं देवयज्ययायुष्मान्यज्ञेन प्रतिष्ठां गमेयमित्यथ यत्र होतुरभिजानात्यग्निरिदं हविरजुषतेति तद्यजमानमुज्जितिं वाचयत्यग्नेरहमुज्जितिमनूज्जेषमिति यथेष्टम्
उक्तं वाजवत्योर्व्यूहनम्
अथ यत्र होतुरभिजानात्याशास्तेऽयं यजमानोऽसविति तद्यजमानं यज्ञस्य दोहं वाचयत्येमा अग्मन्नाशिषो दोहकामा इन्द्र वन्तो वनामहे धुक्षीमहि प्रजामिषमिति
प्रस्तरं प्रह्रियमाणमनुमन्त्रयते रोहितेन त्वाग्निर्देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्वेतशेन त्वा सूर्यो देवतां गमयत्विति
परिधीन्विमुच्यमानाननुमन्त्रयते वि ते मुञ्चामि रशना वि रश्मीन्वि योक्त्रा यानि परिचर्तनानि । धत्तादस्मासु द्र विणं यच्च भद्र म्प्र णो ब्रूताद्भागधान्देवतास्विति
शंयुवाकमुक्तमनुमन्त्रयते विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमिति

पत्नीसंयाजानामिष्टमिष्टमनुमन्त्रयते १९

सोमस्याहं देवयज्यया सुरेता रेतो धिषीय त्वष्टुरहं देवयज्यया पशूनाँ रूपं पुषेयमित्यथेतरावुपसमस्यति देवानां पत्वीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्रभूयासमिति
वेदे यजमानं वाचयति वेदोऽसि वित्तिरसि विदेयेत्यान्तादनुवाकस्य
ध्रुवामाप्याय्यमानामनुमन्त्रयत आप्यायतां ध्रुवा घृतेन यज्ञंयज्ञं प्रति देवयद्भ्यः । सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्नित्यथ यजमानभागं प्राश्नाति प्रजापतेर्विभान्नाम लोकस्तस्मिँ स्त्वा दधामि सह यजमानेनेति सं यज्ञपतिराशिषेति वात्रैतत्पूर्णपात्रं याचति
तमन्तर्वेदि निधाय पूर्णपात्रे यजमानं वाचयति सदसि सन्मे भूयाः सर्वस्मसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठा इत्यथ दिशो व्युन्नयति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर्मार्जयन्तामित्यथैना निनयति समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासम्मा परासेचि मत्पय इत्य्
अथोपोत्थाय दक्षिणेन पदा विष्णुक्रमान्क्रमते २०

विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु विक्रमे निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति
न चतुर्थाय प्रक्रामति
नाहवनीयमुपात्येत्यथात्रैव तिष्ठन्नाहवनीयमुपतिष्ठतेऽगन्म सुवः सुवरगन्म संदृशस्ते मा छित्सि यत्ते तपस्तस्मै ते मावृक्षीत्यथादित्यमुपतिष्ठते सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे धेहि वर्चोधा असि वर्चो मयि धेहीत्यथैभ्यो लोकेभ्यो भ्रातृव्यं निर्भजतीदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिवोऽस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्यान्निर्भजामि निर्भक्तः स यं द्विष्म इत्यथाप उपस्पृश्य
सं ज्योतिषाभुवमित्युरः प्रत्यात्मानं प्रत्यभिमृशतेऽथ दक्षिणमँ समभि पर्यावर्ततेऽइन्द्री मावृतमन्वावर्त इत्यथोदङ्पर्यावर्तते समहं प्रजया सं मया प्रजा समहँ रायस्पोषेण सं मया रयस्पोष इत्यथाहवनीये समिधमादधाति समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासँ स्वाहेत्यथाहवनीयमुपतिष्ठते वसुमान्यज्ञो वसीयान्भूयासमित्यथाग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्न आयूँ षि पवसेऽग्ने पवस्वेत्यथ गार्हपत्यमेवोपतिष्ठतेऽग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं सुगृहपतिर्मया त्वं गृहपतिना भूयाः शतँ हिमास्तामाशिषमाशसे मह्यममुष्मै ज्योतिष्मतीं तामाशिषमाशसेऽमुष्मा अमुष्मा इति

यावन्तोऽस्य पुत्रा जाता भवन्ति तन्तव इत्यन्ततः २१

अथ वै भवति
यो वै यज्ञं प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवति
कस्त्वा युनक्ति स त्वा विमुञ्चत्विति
काले कपालानि विमुञ्चति यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू विमुञ्चतामित्यथैतेनैव यथेतमेत्य यजमानायतन उपविश्य तथैव तिरः पवित्रमप आचामति पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजेत्यथाहवनीये समिध आदधात्यग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहा वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेत्यथोपोत्थाय यज्ञस्य पुनरालम्भं जपति यज्ञो बभूव स आबभूव स प्रजज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माँ धिपतीन्करोतु वयँ स्याम पतयो रयीणमित्यथ प्राङुत्क्रम्य जपति गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । इडावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावानित्यथ ब्राह्मणाँ स्तर्पयितवा इति संप्रेष्यति २२

ब्रह्मत्वं करिष्यन्यज्ञोपवीत्यप आचम्याग्रेणाहवनीयं परीत्य दक्षिणत उदङ्मुखस्तिष्ठन्ब्रह्मसदनमुपतिष्ठते नमो ब्रह्मणे नमो ब्रह्मसदनायेत्यथासनात्तृणं निरस्यत्यहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इत्युपविशत्युन्निवत उदुद्वतश्च गेषमित्यथेमे समीक्षते पातं मा द्यावापृथिवी अद्याह्न इत्युपविश्य जपति भूर्भुवः सुवः क इदं ब्रह्मा भविष्यति स इदं ब्रह्मा भविष्यति प्राणः प्रजापतियुक्तोऽहं युज्ये ब्रह्मणार्वेव वाजी सुधुर इव वह्निर्बलीवर्द इव युक्तो हव्यं वक्ष्याम्यहं देवताभ्यो भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवः सुवः प्रपद्ये वायुं प्रपद्ये ब्रह्म प्रपद्ये क्षत्रं प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं प्रपद्येऽनार्तां देवतां वाचं प्रपद्य ॐ प्रपद्य इति
तं यजमानो ब्रह्माणं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे वीतहव्ये पुरोहितं येनायन्नुत्तमँ सुवर्देवा अङ्गिरसो दिवमिति
वृतो ब्रह्मा जपत्यहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि ब्रह्माणं मावृथा वीतहव्ये पुरोहितं येनायन्नुत्तमँ सुवर्देवा अङ्गिरसो दिवं देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ब्रह्म भूर्भुवः सुवर्बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणाम्बृहस्पते यज्ञं गोपायेति
स यत्राह ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेति तद्ब्रह्मा प्रसौति २३

देव सवितः प्रणय यज्ञं देवता वर्धयैता नाकस्य पृष्ठे सुवर्गे लोके यजमानो अस्तु । सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ प्रणयेति
स वाचंयमो भवति प्रणीतासु प्रणीयमानास्वा हविष्कृतः
सांनाय्ये दोह्यमान आ ततो यदाह बहु दुग्धीन्द्रा य देवेभ्यो हव्यमिति महेन्द्रा येति वा यदि महेन्द्र याजी भवत्यधिवपने वाचं यच्छत्या कपालोपधानात्
संवपने वाचं यच्छत्या समभिवासनात्
स्तम्बयजुषि ह्रियमाण आ प्रोक्षणीनामासादनात्
स यत्राह ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीति तद्ब्रह्मा प्रसौति बृहस्पते परिगृहाण वेदिं ब्रह्मणा यज्ञं परिगृह्णीहीमम्। सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ परिगृहाणेत्याज्येषु गृह्यमाणेषु वाचं यच्छत्या ध्रुवासादनात्
सामिधेनीष्वनूच्यमानास्वा प्रवरादनूक्तायां पुरोऽनुवाक्यायामा वषट्कारात्
प्राशित्रेऽवदीयमान आ प्रसवात्
परिहरन्त्यस्मा एतत्प्राशित्रमग्रेणाहवनीयं तदाह्रियमाणं प्रतिपश्यति २४

सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्यथैनदुभाभ्याँ हस्ताभ्यां प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीत्य्
अथैनत्सादयति पृथिव्यास्त्वा नाभौ सादयामीत्यथैनदवेक्षते सुपर्णस्य त्वा गरुत्मतश्चक्षुषावेक्ष इत्यथैनदङ्गुष्ठेन च महानाम्न्या चोपसंगृह्यातिहाय दतः पूर्वं जिह्वाग्रे निदधात्यग्नेस्त्वास्येन प्राश्नामीति
प्राश्याप आचम्य सहाद्भिरवगिरति ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेत्यथाद्भिर्मार्जयित्वा प्राणान्संमृशते वाङ्म आसन्नसोः प्राणोऽक्ष्योश्चक्षुः कर्णयोः श्रोत्रं बाहुवोर्बलमूरुवोरोजोऽरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिँ सीरिति
मयि प्राणा मयि प्राणा इति वाहृतं ब्रह्मभागं प्राशित्रहरणे निदधात्यथान्वाहार्यं याचति
तमन्तर्वेद्यासन्नमभिमन्त्रयते २५

ब्रह्मन्ब्रह्मासि नमस्ते ब्रह्मन्ब्रह्मणे पाहि मामहुताद्य सर्वो मह्यं हुतो भवेत्यथास्य यावन्मात्रमवदाय प्राशित्रहरणे निदधाति श्रीरस्येहि मामभ्यन्नवानन्नादो भूयासमित्यथैनमग्रेण स्रुच उदञ्चं नीयमानमनुमन्त्रयते यज्ञो दिवँ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाँ अप्येत्विति
स यत्राह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीति तद्ब्रह्मा प्रसौति देव सवितरेतत्ते प्राह तत्प्र च सुव प्रच यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यॐ प्रतिष्ठेति
प्रचरतेति प्रवर्ग्ये
सोऽत्रैवास्त आ समिष्टयजुषो होमाद्धुते समिष्टयजुष्युपोत्थायाहवनीयमुपतिष्ठतेऽयाड्यज्ञँ हविषो जातवेदा अदब्धो अन्ततः पूर्वो अस्मिन्निषद्य । सन्वन्सनिँ सुविमुचा नो विमुञ्च धेह्यस्मासु द्र विणं जातवेदो यच्च भद्र मिति

स एतेनैव ब्रह्मा भवति दर्शपूर्णमासयोरिष्टीनां चातुर्मास्यानां पशुबन्धस्य सौत्रामण्या इति २६

हवीँ ष्यासाद्य होतारमामन्त्रयते
स यज्ञोपवीत्यप आचम्य हस्तौ संमृशते कर्मणे वां देवेभ्यः शकेयँ शक्त्यै वाँ सुकृताय वामित्यथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरित्यथान्तरेण वेद्युत्करौ प्रपद्यते सत्यं प्रपद्य ऋतं प्रपद्येऽमृतं प्रपद्ये प्रजापतेः प्रियां तनुवमनार्तां प्रपद्य इदमहं पञ्चदशेन वज्रेण द्विषन्तं भ्रातृव्यमवक्रामामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मो भूर्भुवः सुवर्विष्णो स्थाने तिष्ठामीति
दक्षिणेन प्रपदेनोत्तरं वेद्यन्तमवक्रम्य तिष्ठति
यदा जानात्यग्नये समिध्यमानायानुब्रूहीति तदेदँ हौत्रं जपति कं प्रपद्ये तं प्रपद्ये यत्ते प्रजापते शरणं छन्दस्तत्प्रपद्ये यावत्ते विष्णो वेद तावते करिष्यामि देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि नमोऽग्नय उपद्र ष्ट्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे जुष्टामद्य देवेभ्यो वाचमुद्यासं शुश्रूषेण्यां मनुष्येभ्यः स्वधावतीं पितृभ्यः प्रतिष्ठां विश्वस्मै भूताय भूर्भुवः सुवः प्रशास्त आत्मना प्रजया पशुभिः प्रजापतिं प्रपद्ये अभयं मे अस्तु प्राजापत्यमनुवक्ष्यामि वाचं प्रपद्ये वागार्त्विज्यं करिष्यति यशसे त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वा यज्ञो यज्ञाय महि शर्म यच्छतामित्य्
अत्र त्रिरभिहिङ्कृत्यानवानमभि हिङ्कारादृचमुपसंदधाति
प्र वो वाजा अभिद्यव इति त्रिः प्रथमामन्वाह
त्रिरुत्तमां सर्वा अर्धर्चशोऽपानित्यनूक्तासु सामिधेनीषु देवता आवाह्य भूमौ प्रादेशं कृत्वोपविशतीदमहं गायत्रेण छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना वषट्कारेण वज्रेण द्विषन्तं भ्रातृव्यमवबाधेऽवबाढो द्विषन्निति
स आहवनीयं प्रेक्षमाण आस्ते प्रणीता वोभयं वान्तरेण
नेति वेति वा वीक्षतेऽनप्रगल्भो हास्माज्जायते
यदा जानात्यग्निर्देवो होतेत्येतज्जपति देव सवितरेतं त्वा वृणतेऽग्निहोत्राय सह पित्रा वैश्वानरेणेत्यथोपोत्थाय दक्षिणेन हस्तेन दक्षिणेँ सेऽध्वर्युमन्वारभते सव्येन दक्षिणेँ स आग्नीध्रं
यद्यु वै स्वयं प्रत्याश्रावयेन्नीविदेश एनं दक्षिणस्याँ श्रोण्यामन्वारभेताग्निमन्वारभामहे होतृवूर्ये पुरोहितम्। येनायन्नुत्तमँ स्वर्देवा अङ्गिरसो दिवम्॥ देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा अनुसँ रभध्वमित्यथाध्वर्यवे नाम प्रब्रूतेऽथ दक्षिणमँ समभि पर्यावर्ततेऽइन्द्री मावृतमन्वावर्त इत्यथ होतृषदनमभिव्रजञ्जपति २७

षण्मोर्वीरँ हसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च ता मा रक्षन्तु ता मा गोपायन्तु ताभ्यो नम इत्यथासमात्तृणं निरस्यति शुष्कं वा प्रतिच्छिन्नाग्रं वा दक्षिणायै च सन्धिमनु प्रतीच्यै च निरस्तः परावसुरित्यथाप उपस्पृश्योपस्तीर्योपविशतीदमहमर्वावसोः सदने सीदामीति दक्षिणोत्तर्यथ दक्षिणावृद्गार्हपत्यं प्रतीक्षते विश्वकर्मँ स्तनूपा असि तनुवं मे पाहीत्युभौ समीक्षत आहवनीयं चाग्नाविष्णू मा वामवक्रमिषमोजोऽशिष्टम्विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृणुतमित्येष वां लोक इति मनागिवोदङ्सर्पत्यथ तिस्र ऋचो जपति विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥ तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम्॥ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्नवाम मा ज्यायसः शँ समा वृक्षि देवा इत्य्
अथ स्रुगादापनेन स्रुचावादाप्य यथादेवतँ हविषो यजत्यथ वषट्काराणामनुमन्त्रणो वषट्कार मा मे प्रवृण्मो अहं त्वां बृहता मन उपह्वये मातरिश्वना प्राणान्न मे वाचं हव्यं देवेभ्योऽभिवहाम्योजः सहः सह ओजो वागिति
यद्यु वा अभ्यग्रा वषट्काराः स्युरेतावतैवानुमन्त्रयत ओजः सह ओजो वागित्यथ होतुर्द्विरङ्गुलावनक्ति
यत्पूर्वाक्तं तदुत्तरोष्ठे प्रोहति वाचस्पतये त्वा हुतं प्राश्नामीषे प्राणायेति
सदसस्पतये त्वा हुतं प्राश्नाम्यूर्जेऽपानायेत्यधरोष्ठेऽपोहत्य्
अथाप उपस्पृश्य चतुरवान्तरेडामवदापयतेऽप्रसृतेन पाणिनासमस्तेनेडां मुखसंमितामुपह्वयते २८

उपहूतँ रथन्तरँ सह पृथिव्या सहाग्निना सहान्नाद्येन सह वाचोप मा रथन्तरँ सह पृथिव्या सहाग्निना सहान्नाद्येन सह वाचा ह्वयताम्
उपहूतं वामदेव्यँ सहान्तरिक्षेण सह वायुना सह प्राणेन सह पशुभिरुप मा वामदेव्यँ सहान्तरिक्षेण सह वायुना सह प्राणेन सह पशुभिर्ह्वयताम्
उपहूतं बृहत्सह दिवा सहादित्येन सह चक्षुषोप मा बृहत्सह दिवा सहादित्येन सह चक्षुषा ह्वयताम्
उपहूतँ स्थास्नु भुवनमुप मा स्थास्नु भुवनँ ह्वयताम्
उपहूतं चरिष्णु हुवनमुप मा चरिष्णु भुवनं ह्वयताम्
उपहूताः सप्त होत्रा उप मा सप्त होत्रा ह्वयन्ताम्
उपहूता गावः सहाशिरोप मा धेनुः सहर्षभा ह्वयताम्
उपहूता धेनुः सहर्षभोप मा धेनुः सहर्षभा ह्वयताम्
उपहूतेडा वृष्तिरुप मामिडा वृष्टिर्ह्वयताम्
उपहूतो भक्षः सखोप मा भक्षः सखा ह्वयताम्

उपहूताँ हो इडोपहूता हे सासि जुषस्व मेड इत्युपाँ शूक्त्वोच्चैर्निरुक्तामुपह्वयते
स यदि सर्वां प्राशिष्यन्स्यात्पाणौ कृतानि प्राश्य चमसादेव प्राश्नीयादथ यदि दित्सेद्वा निधित्सेत वा पुरोडाशशकलमवच्छिद्यैव प्राश्नीयादिडासि स्योनासि स्योनकृत्सा नो रायस्पोषे सुप्रजास्त्वे धार्मुखस्य त्वा द्युम्नाय सुरभ्यास्यत्वाय प्राश्नामीति
प्राश्याप आचम्य प्राचीं वोदीचीं वोदकराजिं निनयति तूष्णीमिति न्वे वाज्यस्य वचोऽथाप्येतं जपं जपति मनो ज्योतिर्जुषतामाज्यम्विच्छिन्नं यज्ञँ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्तामित्यनूयाजानिष्ट्वा शंयुवाकमुक्त्वा बर्हिष्यञ्जलिं कृत्वा निह्नुते यज्ञ शं च म उप च मे प्रजापते यज्ञ यत्ते न्यूनं यदु तेऽतिरिक्तं कर्म प्रजापतौ यज्ञ तदित्य्
अथ दक्षिणार्धे वेद्यै वेदं निधाय यजमानं वाचयति २९

येन त्वं देव वेद देवेभ्यो वेदोऽभवस्तेनास्मभ्यं वेद एधि । वेदोऽसि वित्तिरसि विदेयाहं प्रजां पशून्स्वर्गं लोकम्। कर्मासि करुणमसि क्रियासमहं पुण्यं कर्म । सनिरसि सनितासि सनेयमहमदो घृतवन्तं कुलायिनँ राय अस्पोषँ सहस्रिणं वेदो ददातु वाजिनमिति
पत्नीसंयाजानिष्ट्वा फलीकरहोमे हुते वेदे पत्नीं वाचयति वेदोऽसि वित्तिरसि विदेयाहमदः । कर्मासि करुणमसि क्रियासमहमदः सनिरसि सनितासि सनेयमहमदो घृतवन्तं कुलायिनँ रायस्पोषँ सहस्रिणं वेदो ददातु वाजिनमिति
विस्रस्य वेदमर्धानि पत्न्यै प्रयच्छति
तानि पत्न्यन्तरोरू वा न्यस्यति दक्षिणेन वोरुण्पनिगृह्णीत
अथेतराणि प्राङावृत्त स्तृणन्नेति तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृताननुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमित्यथ यान्यतिशिष्यन्ते तानि बर्हिषि संन्यस्यत्यापृणोऽसि संपृण प्रजया मा पशुभिरापृणेत्यथ यथाप्रपन्नं निष्क्रम्याग्रेणाहवनीयं परीत्य दक्षिणत उदङ्मुखस्तिष्ठन्नाहवनीयमुपतिष्ठतेऽयाड्यज्ञँ हविषो जातवेदा अदब्धो अन्ततः पूर्वो अस्मिन्निषद्य । सन्वन्सनिँ सुविमुचा नो विमुञ्च धेह्यस्मासु द्र विणं जातवेदो यच्च भद्र म्॥ एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा । उत प्रणेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नो अग्निरिन्द्रो बृहस्पतिर्विश्वे मुञ्चन्तु मरुतः स्वर्का इत्येते न्वेव जपा दर्शपूर्णमासयोरिष्टीनां चातुर्मास्यानां पशुबन्धस्य सौत्रामण्या इति ३०

अथ पशावुपधीयन्ते
यदा जानात्यग्नये मथ्यमानायानुब्रूहीति तदेते ऋचौ जपति यद्वो वयं प्रमिनाम व्रतानि ॥ यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजातीति
मैत्रावरुणदण्डेऽध्वर्युर्यजमानं वाचयति त्वां गावोऽवृणत राज्याय त्वाँ हवन्त मरुतः स्वर्काः । वर्ष्मन्क्षत्रस्य ककुभि शिश्रियाणस्ततो न उग्रो विभजा वसूनीति

तमग्रे गृहीत्वा मैत्राव्रुणाय प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छामीति
तँ स स्थूरतः प्रतिगृह्णाति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रतिगृह्णामीति दक्षिणोत्तर्यथैनमूर्ध्वमुन्मार्ष्ट्यवक्रोऽविधुरो भूयासमिति
तमादाय संप्रेष्यति होता यक्षदग्निँ समिधा सुषमिधा समिद्धमितीध्मान्तं पशोः ३१

चतुर्थः प्रश्नः
पशुना यक्ष्यमाणो भवति
स उपकल्पयते पौतुद्र वान्परिधीन्गुल्गुलु सुगन्धितेजनँ शुक्लामूर्णास्तुकां या पेत्वस्यान्तरा शृङ्गे द्वे रशने द्विगुणां च त्रिगुणां च द्वे वपाश्रपणी विशाखां चाविशाखां च हृदयशूलं कार्ष्मर्यमयान्परिधीनौदुम्बरं मैत्रावरुणदण्डं मुखेन संमितमिध्माबर्हिरिध्मं प्रणयनीयं प्लक्षशाखामिडसूनं यवान्यवमतीभ्यः सक्तून्सक्तुहोमाय पृषदाज्याय दधि हिरण्यमित्यथामावास्येन वा हविषेष्ट्वा नक्षत्रे वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा षड्ढोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा यूपाहुतिं जुहोत्युरु विष्णो विक्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाथ याचत्याज्यस्थालीँ सस्रुवां बर्हिर्हिरण्यमुदपात्रं ह्वयन्ति तक्षाणँ सपरशुमाहैहि यजमानेति पूर्वया द्वारोपनिष्क्रम्य तां दिशं यन्ति यत्रास्य यूप स्पष्टो भवति यत्र वा वेत्स्यन्मन्यते
स यः समे भूम्यै स्वाद्योने रूढो बहुपर्णो बहुशाखोऽप्रतिशुष्काग्रः प्रत्यङ्ङुपनतस्तमुपतिष्ठतेऽत्यन्यानगां नान्यानुपागामर्वाक्त्वा परैरविदं परोऽवरैस्तं त्वा जुषे वैष्णवं देवयज्याया इत्यथैनमाज्येनानक्ति देवस्त्वा सविता मध्वानक्त्वित्यूर्ध्वाग्रं बर्हिरनूच्छ्रयत्योषधे त्रायस्वैनमिति
स्वधितिना तिर्यञ्चं प्रहरति स्वधिते मैनँ हिँ सीरिति

यः प्रथमः शकलः परापतति तं प्रज्ञातं निदधाति
तमपरिभिन्दन्ननक्षमङ्गं वृश्चति
प्राञ्चं वोदञ्चं वा प्रयान्तमनुमन्त्रयते दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिँ सीः पृथिव्या संभवेत्यथाव्रश्चने हिरण्यं निधाय संपरिस्तीर्याभिजुहोति वनस्पते शतवल्शो विरोह स्वाहेति
सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्यभिमृशतेऽन्वग्रँ शाखाः प्रसूदयति यं त्वायँ स्वधितिस्तेतिजानः प्रणिनाय महते सौभगायेति
पञ्चारत्निं तस्मै वृश्चेदित्येष ब्राह्मणवतामवमस्
तं परिष्वङ्गपरमं प्रादेशावमं चषालस्य काले परिवासयत्यच्छिन्नो रायः सुवीर इति
यत्परं भवति तस्य चतुरङ्गुलं चषालाय प्रच्छेदयति
तं चतुरश्रिं वाष्टाश्रिं वा कृत्वा वा हरत्या वा हारयत्योह्य निस्तिष्ठत्यवतक्षणानामेव स्वरुं कुरुतेऽथास्यैषा पूर्वेद्युरेव पशुबन्धिकी वेदिर्विमिता भवति दशपदा पश्चात्तिरश्ची द्वादशपदा प्राच्यष्टापदा पुरस्तात्तिरश्ची
तां परिस्तीर्य स्तम्बयजुर्हरति १

इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथ याचति स्फ्यमुदपात्रं बर्हिः शम्यामित्य्
एतत्समादायाहैहि यजमानेत्युत्तरेण वेदिं द्वयोर्वा त्रिषु वा प्रक्रमेषु स्फ्येनोद्धत्यावोक्ष्य शम्यया चात्वालं परिमिमीते
वित्तायनी मेऽसीति पुरस्तादुचीचीनकुम्बयान्तरत स्फ्येनालिखति
तिक्तायनी मेऽसीति दक्षिणतः प्राचीनकुम्बयान्तरत स्फ्येनालिखत्यवतान्मा नाथितमिति पश्चादुदीचीनकुम्बयान्तरत स्फ्येनालिखत्यवतान्मा व्यथितमित्युत्तरतः प्राचीनकुम्बयान्तरत स्फ्येनालिखत्यथ चात्वाले बर्हिर्निधाय तस्मिन्स्फ्येन प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामसीत्यादत्त आयुषा नाम्नेहीति
हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वादध इति
द्वितीयं प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामसीत्यादत्त आयुषा नाम्नेहीति
हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वादध इति
तृतीयं प्रहरति विदेरग्निर्नभो नामाग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामसीत्यादत्त आयुषा नाम्नेहीति
हृत्वोत्तरवेद्यां निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वादध इति
तूष्णीं चतुर्थँ हरति सह बर्हिषाथाध्वर्यु स्फ्येन चात्वालात्पुरीषमुद्धन्त्यथाग्नीध्रमाहाग्नीदितस्त्रिर्हरेति
ततस्त्रिराग्नीध्रो हरति
यदाग्नीध्रस्त्रिर्हरत्यथाध्वर्युरुत्तरवेद्यै पुरीषँ संप्रयौति सिँ हीरसि महिषीरसीति
प्रथयत्युरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति
स्फ्येन सँ हन्ति ध्रुवासीत्यथैनामद्भिरवोक्षति
देवेभ्यः शुन्धस्वेति देवेभ्यः शुम्भस्वेति सिकताभिरनुप्रकिरति
तां प्रादेशमात्रीं चतुरश्रां निष्ठाय शम्यया परिमिमीत

उत्तरनाभिमुत्साद्याथैनां प्रतिच्छाद्याभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
तया यूपावटं परिलिखति यथान्तर्वेद्यर्धँ स्याद्बहिर्वेद्यर्धम्परिलिखितँ रक्षः परिलिखिता अरातय इदमहँ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीत्यथाग्नीध्रमाहाग्नीदेहीमं यूपावटं खनोपरसंमितं प्राक्पुरीषमुद्वपताद्चतुरङ्गुलेनोपरमतिखनतादिति
तँ स खनति वा खानयति वा
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाताभ्यादधातीध्मं प्रणयनीयम्
उपोपयमनीः कल्पयन्ति चात्वालाद्
आत्मनेन्द्र घोषवतीः प्रोक्षणीरध्वर्युरादत्ते
परिकर्मिणे पञ्चगृहीतमाज्यं प्रयच्छति
ब्रह्मणि संभारा भवन्त्यथ संप्रैषमाहाग्नये प्रणीयमानायानुब्रूह्यग्नीदेकस्फ्ययानुसंधेहीति
त्रिरुक्तायामुद्यच्छन्ते
होतुर्वशं यन्त्युत्तरेण वेदिं प्रतिपद्यन्ते
धारयन्त्येतमग्निम्
अथाध्वर्युरिन्द्र घोषवतीभिः प्रोक्षणीभिरुत्तरवेदिं प्रोक्षति २

इन्द्र घोषस्त्वा वसुभिः पुरस्तात्पात्विति पुरस्तान्
मनोजवास्त्वा पितृभिर्दक्षिणतः पात्विति दक्षिणतः
प्रचेतास्त्वा रुद्रैः पश्चात्पात्विति पश्चाद्
विश्वकर्मा त्वादित्यैरुत्तरतः पात्वित्युत्तरतोऽथ यत्प्रोक्षणीनामुच्छिष्यते तद्दक्षिणत उत्तरवेद्यै निनयति
यदेव तत्र क्रूरं तत्तेन शमयतीति ब्राह्मणमथैनाँ हिरण्यमन्तर्धायाक्ष्णया पञ्चगृहीतेन व्याघारयति
सिँहीरसि सपत्नसाही स्वाहेति दक्षिणेँऽसे
सिँ हीरसि सुप्रजावनिः स्वाहेत्युत्तरस्याँ श्रोण्यां सिँ हीरसि रायस्पोषवनिः स्वाहेति दक्षिणस्याँ श्रोण्यां सिँ हीरस्यादित्यवनिः स्वाहेत्युत्तरेऽँसे
सिँ हीरस्यावह देवान्देवयते यजमानाय स्वाहेति मध्येऽथ भूतेभ्यस्त्वेति स्रुचमुद्गृह्णात्यथ पौतुद्र वान्परिधीन्परिदधाति
विश्वायुरसि पृथिवीं दृँ हेति मध्यमं ध्रुवक्षिदस्यन्तरिक्षं दृँ हेति दक्षिणम्
अच्युतक्षिदसि दिवं दृँ हेत्युत्तरम्
अथातिशिष्टान्संभारान्निवपति गुल्गुलु सुगन्धितेजनँ शुक्लामूर्णास्तुकामग्नेर्भस्मास्यग्नेः पुरीषमसीत्यथैनान्सँ स्रावेणाभिघारयत्यथ प्रदक्षिणमावृत्येध्मं प्रतिष्ठापयति यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नथामृतेन जरितारमङ्ग्धीत्यथैनं विस्रस्याहुतिषाहं कृत्वाध्वराहुतिभिरभिजुहोत्यग्निर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्। देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहा ॥
वायुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्। देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहा ॥
सूर्यो यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्। देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहा ॥
यज्ञो यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्। देवेभ्यः प्रब्रूताद्यज्ञम्प्रप्र यज्ञपतिं तिर स्वाहेत्य्
अथैता यजमान एव स्वयं जुहोत्यग्निरन्नादोऽन्नपतिरन्नस्येशे स मेऽन्नं ददातु स्वाहा । वायुः प्राणदाः प्राणस्येशे स मे प्राणं ददातु स्वाहा । आदित्यो भूरिदा भूयिष्ठानां पशूनामीशे स मे भूयिष्ठान्पशून्ददातु स्वाहेत्यग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवँ स्वधितिँ स्रुचश्च संमृड्ढि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेहीत्याहृतासु प्रोक्षणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रद्क्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवँ स्वधितिँ स्रुचश्च संमार्ष्टि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धमाज्यानि गृहीत्वा पृषदाज्यग्रहण्यामुपस्तृणीते महीनां पयोऽसीति
विश्वेषां देवानां तनूसिति द्वितीयम्बर्हिषी अन्तर्धाय दध्यानयत्यृध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसीत्यपोद्धृत्य बर्हिषी अथाभिघारयति विष्णोर्हृदयमसीत्येकमिष विष्णुस्त्वानु विचक्रम इति द्वितीयम् ३

अथ प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्प्रस्तरं गृह्णाति

पञ्चविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधाति
विधृती तिरश्ची सादयति
विधृत्योः प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य याचति यवमतीः प्रोक्षणीर्बर्हिर्हस्तमाज्यस्थालीँ सस्रुवाँ स्वरुरशनं मैत्रावरुणदण्डं यूपशकलँ हिरण्यमुदपात्रमित्येतत्संनिधाय यूपं प्रक्षालयति यत्ते शिक्वः परावधीत्तक्षा हस्तेन वास्या । आपस्ते तद्वनस्पतेऽपनुदन्तु शुन्धनीरिति
यूप एष प्रक्षालितः प्रपन्नः संपन्नचषालः प्रागवटादुपशेते
तमुत्तरेणाहवनीयं तिष्ठन्पराञ्चं प्रोक्षति पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेत्यवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति
यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति
बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणाँ सदनमसीत्य्यूपशकलमवास्यति स्वावेशोऽस्यग्रेगा नेतृणां वनस्पतिरधि त्वा स्थास्यति तस्य वित्तादित्यथादत्त आज्यस्थालीँ सस्रुवाँ स्वरुरशनं मैत्रावरुणदण्डमुदपात्रमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्न्यग्रेण यूपं परीत्य दक्षिणत उदङ्मुखास्तिष्ठन्ति पूर्व एवाध्वर्युरपरो यजमानोऽपरा पत्नी

अथ प्रवृह्य चषालं यूपस्याग्रमनक्ति देवस्त्वा सविता मध्वानक्त्वित्यन्तरतश्च बाह्यतश्च
स्वभ्यक्तं कृत्वा चषालं प्रतिमुञ्चति सुपिप्पलाभ्यस्त्वौषधीभ्य इत्यथ स्रुवेणाग्निष्ठामश्रिमभिघारयन्नाह यूपायाज्यमानायानुब्रूहीत्यान्तमनक्त्यान्तमेव यजमानं तेजसानक्ति
नोपरमनक्ति
पत्न्युपरमनक्ति
सर्वतः परिमृशत्यपरिवर्गमेवास्मिन्तेजो दधातीति ब्राह्मणम्
उच्छ्रयन्नाहोच्छ्रीयमाणायानुब्रूहीत्युच्छ्रयत्युद्दिवँ स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृँ हेत्यथैनं वैष्णवीभ्यामृग्भ्यां कल्पयति ते ते धामानि विष्णोः कर्माणि पश्यतेति द्वाभ्यां स यत्राग्निष्ठामश्रिमाहवनीयेन संपादयति तद्ध्रुवस्य चषालं परेक्षयति तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततमित्यथैनं प्रदक्षिणं पुरीषेण पर्यूहति ब्रह्मवनिं त्वा क्षत्रवनिँ सुप्रजावनिँ रायस्पोषवनिं पर्यूहामीति
मैत्रावरुणदण्डेन सँ हन्ति ब्रह्म दृँ ह क्षत्रं दृँ ह प्रजां दृँ ह रायस्पोषं दृँ हेत्यन्यूनमनतिरिक्तं परिन्यस्योदपात्रमुपनिनीयाथैतां त्रिगुणाँ रशनां त्रिः संभुज्य मध्यमेन गुणेन नाभिदघ्ने परिव्ययन्नाह परिवीयमाणायानुब्रूहीति
त्रिः प्रदक्षिणं परिव्ययति परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमँ रायस्पोषो यजमानं मनुष्या इत्युपान्ते व्यतिषजत्यान्तं प्रवेष्टयत्यणिमति स्थविमत्प्रवयत्यथोत्तरेणाग्निष्ठामश्रिं मध्यमे गुणे स्वरुमवगूहत्यन्तरिक्षस्य त्वा सानाववगूहामीति
स्वर्वन्तं यूपमुत्सृजति ४

अथैतं पशुं पल्पूलितमन्तरेण चात्वालोत्करौ प्रपाद्याग्रेण यूपं पुरस्तात्प्रत्यङ्मुखमुपस्थापयति
तमिषे त्वेति बर्हिषी आदायोपाकरोत्युपवीरस्युपो देवान्दैवीर्विशः प्रागुर्वह्नीरुशिजो बृहस्पते धारया वसूनि हव्या ते स्वदन्तां देव त्वष्टर्वसु रण्व रेवती रमध्वम्प्रजापतेर्जायमाना इमं पशुं पशुपते ते अद्येन्द्रा ग्निभ्यां त्वा जुष्टमुपाकरोमीति
यद्देवत्यो वा भवति
प्रज्ञाते बर्हिषी निधायाधिमन्थनँ शकलं निदधात्यग्नेर्जनित्रमसीति
वृषणावन्वञ्चौ वृषणौ स्थ इत्यथारणी आदत्त उर्वश्यस्यायुरसि पुरूरवा इत्यथैते आज्यस्थाल्याँ समनक्ति घृतेनाक्ते वृषणं दधाथामित्यथ प्रजातीर्वाचयति गायत्रं छन्दोऽनु प्रजायस्व त्रैष्टुभं छन्दोऽनु प्रजायस्व जागतं छन्दोऽनु प्रजायस्वेत्यथाहाग्नये मथ्यमानायानुब्रूहीति
जात आह जातायानुब्रूहीति
प्रहरन्नाह प्रह्रियमाणायानुब्रूहीति
प्रहरति भवतं नः समनसविति
प्रहृत्याभिजुहोत्यग्नावग्निश्चरति प्रविष्ट इत्यथ रशनामादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इति
तयाक्ष्णया पशुमभिदधाति दक्षिणमध्यर्धशीर्षमृतस्य त्वा देवहविः पाशेनारभ इति
द्विगुणायै च त्रिगुणायै चान्तौ संदधाति धर्षा मानुषानिति
नियुनक्त्यथैनमद्भिः प्रोक्षत्यद्भ्यस्त्वौषधीभ्य इन्द्रा ग्निभ्यां त्वा जुष्टं प्रोक्षामीति
यद्देवत्यो वा भवति
पाययत्यपां पेरुरसीति

स्वात्तं चित्सदेवँ हव्यमापो देवीः स्वदतैनमित्युपरिष्टात्प्रोक्ष्याधस्तादुपोक्षति
सर्वत एवैनं मेध्यं करोतीति ब्राह्मणम्
उदूह्य प्रोक्षणीधानम् ५

अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मम्परि समिधँ शिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्टे स्रुग्भ्यामुत्तरम्
अथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा पशुँ समनक्ति
सं ते प्राणो वायुना गच्छतामिति ललाटे
सं यजत्रैरङ्गानीति ककुदि
सं यज्ञपतिराशिषेति दक्षिणस्याँ श्रोण्याम्
अथ यथायतनँ स्रुचौ सादयित्वा प्रवरं प्रवृणीते
प्रसिद्धँ होतारं वृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषड्मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादित्यसौ मानुष इति मैत्रावरुणस्य नाम गृह्णात्यथाश्रावयति
यद्यत्रात्याश्रावयत्यो श्रावयास्तु श्रौषडग्निर्ह दैवीनां विशां पुरएतायं यजमानो मनुष्याणां तयोरस्थूरि गार्हपत्यं दीदयच्छतँ हिमा द्वा यू राधाँ सीत्संपृञ्चानावसंपृञ्चानौ तन्व इति
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिद्भ्यः प्रेष्येति
वषट्कृते जुहोति प्रेष्य प्रेष्येति
चतुर्थाष्टमयोः समानयमानोऽष्टमे सर्वँ समानयते
परि स्वाहाकृतीभ्यः सँ स्रावँ शिनष्टि
दश प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य स्वरुं च शासं च याचति

तौ जुह्वामङ्क्त्वा ताभ्यां पशुँ समनक्ति घृतेनाक्तौ पशुं त्रायेथामिति
प्रयच्छति शासम्
अवगूहति स्वरुम्
अथ यथायतनँ स्रुचौ सादयित्वाह पर्यग्नये क्रियमाणायानुब्रूहीत्यथैष आग्नीध्र आहवनीयादुल्मुकमादायान्तरेण चात्वालोत्करावुत्तरेण शामित्रदेशमग्रेण पशुं जघनेन स्रुच इत्येवं त्रिः प्रदक्षिणं पर्येत्यथानुपरिसरणमपाव्यानि जुहोति प्रजानन्तः प्रतिगृह्णन्ति पूर्वे येषामीशे पशुपतिः पशूनां ये बध्यमानमनु बध्यमाना य आरण्याः पशवो विश्वरूपाः प्रमुञ्चमाना भुवनस्य रेत इति
निधायाग्नीध्र उल्मुकं यथेतं त्रिः पुनः प्रतिपर्येत्यथोल्मुकप्रथमाः प्रतिपद्यन्तेऽन्वक्छमिता पशुना
पशुमध्वर्युर्वपाश्रपणीभ्यामन्वारभते
वपाश्रपणी यजमानोऽथाश्राव्य संप्रेष्यत्युपप्रेष्य होतर्हव्या देवेभ्य इत्यथैतं पशुमन्तरेण चात्वालोत्करावुदञ्चं नीयमानमनुमन्त्रयते नाना प्राणो यजमानस्य पशुना रेवतीर्यज्ञपतिं प्रियधा विशतेति द्वाभ्यां स यत्रैतदाग्नीध्र उल्मुकं निदधाति तदग्रेण वोत्तरेण वा पशवे निहन्यमानाय बर्हिरुपास्यति पृथिव्याः संपृचः पाहीति
तदेतं पशुं प्रतीचीनशिरसमुदीचीनपादं निघ्नन्त्यकृण्वन्तं मायुँ संज्ञपयतेत्युक्त्वैतेनैव यथेतमेत्य पृषदाज्यावकाश आसत इह प्रजा विश्वरूपा रमन्तामस्मिन्यज्ञे विश्वविदो घृताचीः । अग्निं कुलायमभिसंवसाना अस्माँ वन्तु पयसा घृतेनेति

संज्ञप्तं प्राहुर्
जुहोति संज्ञप्ताहुतिं यत्पशुर्मायुमकृतेत्यथाभ्यैति शमितार उपेतनेति
पाशात्पशुं प्रमुच्यमानमनुमन्त्रयतेऽदितिः पाशं प्रमुमोक्त्वेतमित्यविशाखयोपसज्येमां दिशं निरस्यत्यरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशमित्यथ प्रतिप्रस्थाता पत्नीमुदानयत्युदकमण्डलुमुत्थाप्याथैनामादित्यमुदीक्षयति नमस्त आतानेत्यथैनामन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य प्राचीमुदानयन्वाचयत्यनर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्यागतामध्वर्युरप्सु वाचयत्यापो देवीः शुद्धायुवः शुद्धा यूयं देवाँ ऊढ्वं शुद्धा वयं परिविष्टाः परिवेष्टारो वो भूयास्मेति
सानुपूर्वं पशोः प्राणानाप्याययति
वाक्त आप्यायतामिति वाचम्प्राणस्त आप्यायतामिति प्राणं चक्षुस्त आप्यायतामिति चक्षुः
श्रोत्रं त आप्यायतामिति श्रोत्रम्
एतानेव पुनः संमृशति या ते प्राणाञ्छुग्जगाम या चक्षुर्या श्रोत्रं यत्ते क्रूरं यदास्थितं तत्त आ प्यायतां तत्त एतेन शुन्धतामिति
नाभिस्त आप्यायतामिति नाभिम्पायुस्त आप्यायतामिति पायुं संप्रगृह्य पदः प्रक्षालयति शुद्धाश्चरित्राः शमद्भ्यः शमोषधीभ्यः शं पृथिव्या इति

शमहोभ्यामित्यतिशिष्टा दक्षिणतोऽनुपृष्ठं निनयति
नयन्ति पत्नीम्
उत्तानं पशुं पर्यस्यन्ति
तस्य दक्षिणस्य पार्श्वस्य विवृत्तमनु प्राचीनाग्रं बर्हिर्निदधात्योषधे त्रायस्वैनमिति
स्वधितिं तिर्यञ्चं निदधाति स्वधिते मैनँ हिँ सीरिति
छिनत्ति बर्हिर्वि त्वचं कृणत्त्यथैतस्यैव बर्हिषोऽणिमत्सचते
स्थविमदुभयतो लोहितेनाङ्क्त्वेमां दिशं निरस्यति रक्षसां भागोऽसीदमहँ रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमेनमधमं तमो नयामीत्यथाप उपस्पृश्य वरीय आच्छायेषे त्वेति वपामुत्खिदति
तया वपाश्रपणी प्रोर्णोति घृतेन द्यावापृथिवी प्रोर्ण्वाथामित्यविशाखयोपतृद्याधस्तात्परिवासयत्यच्छिन्नो रायः सुवीर इत्यथैनां प्रदक्षिणमावृत्याद्भिरभ्युक्ष्य शामित्रे प्रतितपत्यथोल्मुकप्रथमाः प्रतिपद्यन्ते ६

अन्वगध्वर्युर्वपयात्र वपाश्रपणी पुनरन्वारभते यजमान
ऐत्युर्वन्तरिक्षमन्विहीत्येत्याहवनीयस्यान्तमेष्वङ्गारेषु वपायै प्रतितप्यमानायै बर्हिषोऽग्रमुपास्यति वायो वीहि स्तोकानामित्यथैनामन्तरेण यूपं चाहवनीयं चोपातिहृत्य तां दक्षिणत उदङ्मुखः प्रतिप्रस्थाता श्रपयत्यथैनाँ स्रुवाहुत्याभिजुहोति त्वामु ते दधिरे हव्यवाहमित्यथाह स्तोकेभ्योऽनुब्रूहीति
परिहितासु स्तोकीयासु शृतायां वपायां जुहूपभृतावादायात्याक्रम्याश्राव्याह स्वाहाकृतीभ्यः प्रेष्येति

वषट्कृते जुहोत्यथोदङ्ङत्याक्रम्य सँ स्रावेण पृषदाज्यमभिघार्य वपामभिघारयत्यथोपस्तीर्य द्विः स्रुवेण वपाँ समवलुम्पन्नाहेन्द्रा ग्निभ्यां छागस्य वपाया मेदसोऽवदीयमानस्यानुब्रूहीति
द्विरभिघारयत्यत्याक्रम्याश्राव्याहेन्द्रा ग्निभ्यां छागस्य वपां मेदः प्रस्थितं प्रेष्येत्यथ पुरस्तात्स्वाहाकृतिँ स्रुवाहुतिं जुहोति स्वाहा देवेभ्य इति
वषट्कृते वपां जुहोति जातवेदो वपया गच्छ देवान्त्वँ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतँ हविरदन्तु देवाः स्वाहेत्यथोपरिष्टात्स्वाहाकृतिँ स्रुवाहुतिं जुहोति देवेभ्यः स्वाहेत्यत्र वपाश्रपणी अनुप्रहरति प्राचीं विशाखां प्रतीचीमविशाखाँ स्वाहोर्ध्वनभसं मारुतं गच्छतमित्यथैने सँ स्रावेणाभिजुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा समुत्क्रम्य चात्वाले मार्जयन्ते
ह्वयन्ति पत्नीँ ह्वयन्ति होतारँ ह्वयन्ति ब्रह्माणँ ह्वयन्ति प्रतिप्रस्थातारँ ह्वयन्ति प्रशास्तारँ ह्वयन्त्याग्नीध्रमेहि यजमानेतीदमापः प्रवहतावद्यं च मलं च यत्। यच्चाभिदुद्रो हानृतं यच्च शेपे अभीरुणम्॥ निर्मा मुञ्चामि शपथान्निर्मा वरुणादुत । निर्मा यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषादित्यथाञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति
तां दिशम्निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्य्
अथाप उपस्पृश्य यथायतनमुपविशन्ति ७

अथ संप्रैषमाहाग्नीत्पशुपुरोडाशं निर्वप प्रतिप्रस्थातः पशुं विशाधीति
निर्वपत्येष आग्नीध्र ऐन्द्रा ग्नमेकादशकपालम्
अथ प्रतिप्रस्थाता पशुं विशास्ति शमितर्हृदयं जिह्वां वक्षस्तानि सार्धं कुरुतात्तनिम मतस्नौ तानि सार्धँ सव्यं दोरेकचरं कुरुताद्नाना पार्श्वे अवधत्ताद्दक्षिणाँ श्रोणिमध्युद्धिं कुरुताद्दक्षिणं दोः सव्याँ श्रोणिमणिमद्गुदस्य तानि त्र्यङ्गानि कुरुताद्वनिष्ठुं च जाघनीं चावधत्ताद्बहु यूः कुरुतात्त्रिः पशुं प्रच्यावयतात्त्रिः प्रच्युतस्य पशोर्हृदयमुत्तमं कुरुतादिति
शृते पशौ पशुपुरोडाशं याचति
तमुपस्तीर्णाभिघारितमुद्वास्यान्तर्वेद्यासादयत्यथ जुहूपभृतोरुपस्तृणान आहेन्द्रा ग्निभ्यां पुरोडाशस्यावदीयमानस्यानुब्रूहीति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्त्यथोपभृति स्विष्टकृते सकृदुत्तरार्धादवद्यति
द्विरभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याहेन्द्रा ग्निभ्यां पुरोडाशं प्रस्थितं प्रेष्येति
वषट्कृते जुहोत्यथ समावपमान आहाग्नयेऽनुब्रूहीत्याश्राव्याहाग्नये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा प्राशित्रमवदायेडामवद्यत्युपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्त
अथ संप्रैषमाहाग्नीदुत्तरबर्हिरुपसादय प्रतिप्रस्थातः पशौ संवदस्वेत्यथैष आग्नीध्रः प्लक्षशाखायामिडसूनमुपगूहति
तदुत्तरबर्हिर्भवत्यथ प्रतिप्रस्थाता पृषदाज्यं विहत्य जुह्वाँ समानीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य पृच्छति शृतँ हवी३ः शमितरिति
शमितैष उत्तरतो हृदयशूलं धारयँ स्तिष्ठति
स शृतमिति प्रत्याह
तं तथैव द्वितीयमुत्क्रम्य पृच्छति
तं तथैवेतरः प्रत्याह
तं तथैव तृतीयमुत्क्रम्य पृच्छति
तं तथैवेतरः प्रत्याहाथ शमितुर्हृदयशूलमादाय तेन हृदयमुपतृद्य तं शमित्रे संप्रदाय पृषदाज्येन हृदयमभिघारयति सं ते मनसा मनः सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत्स्वाहेति
वियूः कृत्वा हरतेत्युक्त्वैतेनैव यथेतमेत्य चतसृषूपस्तृणीते जुहूपभृतोरिडाधाने यस्मिँ श्च वसाहोमं ग्रहीष्यन्भवत्याहरन्ति तं पशुमन्तरेण चात्वालोत्करावन्तरेण यूपं चाहवनीयं चोपातिहृत्य तं दक्षिणतः पञ्चहोत्रासादयत्येतेनैव यूराहरन्त्येतेनैवेडसूनम्
अथ प्लक्षशाखायाँ हृदयं निधाय स्वधितिना तस्याग्रेऽवद्यन्नाह ८

मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति
हृदयस्यैवाग्रे द्विरवद्यत्यथ जिह्वाया अथ वक्षसोऽथ तनिम्नोऽथ वृक्ययोरथ सव्यस्य दोष्णोऽथ दक्षिणस्य पार्श्वस्याथ सव्यस्याथ दक्षिणायै श्रोणेरध्युद्ध्यै
त्रैधं गुदं कृत्वाणिमत्स्विष्टकृते निदधाति स्थविमदुपयड्भ्यो मध्यं द्वैधं कृत्वा जुह्वामवदधात्य्
अथ वृक्यमेदो यूषन्नवधाय तेन जुहूं प्रोर्णोति
यूष्णोपसिञ्चत्यभिघारयत्यथोपभृति स्विष्टकृते सर्वेषां त्र्यङ्गाणाँ सकृत्सकृत्समवद्यति
सकृद्दक्षिणस्य दोष्णः पिशितं प्रच्छिद्यावदधाति सकृत्सव्यायै श्रोणेरणिमद्गुदस्याथ वृक्यमेदो यूषन्नवधाय तेनोपभृतं प्रोर्णोति
यूष्णोपसिञ्चति
द्विरभिघारयत्यथ हृदयं जिह्वां वक्षस्तनिम मतस्नौ वनिष्ठुमिति पात्र्याँ समवधाय यूष्णोपसिञ्चत्यभिघारयत्यथ कँ से वा चमसे वा वसाहोमं गृह्णाति
यूष्णोपसिञ्चत्यभिघारयत्यथ पशोरवदानानि संमृशत्यैन्द्रः प्राणो अङ्गेअङ्गे निदेध्यदैन्द्रो ऽपानो अङ्गेअङ्गे विबोभुवद्देव त्वष्टर्भूरि ते संसमेतु विषुरूपा यत्सलक्ष्माणो भवथ । देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्त्वित्यथ दक्षिणेन पार्श्वेन वसाहोमं प्रयौति कुम्बतः श्रीरस्यग्निस्त्वा श्रीणात्वापः समरिणन्वातस्य त्वा ध्रज्यै पूष्णो रँ ह्या अपामोषधीनाँ रोहिष्या इति
संमृष्टस्य पशोः प्रतीचीं जाघनीँ हरन्ति
प्रतिपरिहरन्ति पशुम्
अथ जुहूपभृतावाददान आहेन्द्रा ग्निभ्यां छागस्य हविषोऽनुब्रूहीत्यत्याक्रम्याश्राव्याहेन्द्रा ग्निभ्यां छागस्य हविः प्रस्थितं प्रेष्येति
प्रतिप्रस्थातैष उत्तरतो वसाहोमं धारयँ स्तिष्ठति

सोऽर्धर्चे याज्यायै वसाहोमं जुहोति घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा त्वान्तरिक्षाय स्वाहेति
वषट्कृते हविर्जुहोत्येतस्य होममनु प्रतिप्रस्थाता वसाहोमोद्रे केण दिशो जुहोति दिशः प्रदिश आदिशो विदिश उद्दिशः स्वाहा दिग्भ्यो नमो दिग्भ्यः स्वाहेत्यथ प्रदक्षिणमावृत्य पृषदाज्यात्स्रुवेणोपघ्नन्नाह वनस्पतयेऽनुब्रूहीत्याश्राव्याह वनस्पतये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथ समावपमान आहाग्नये स्विष्टकृतेऽनुब्रूहीत्याश्राव्याहाग्नये स्विष्टकृते प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा होत्र इडामुपोद्यच्छन्ते मेदस उपहूतायामिडायामग्नीध आदधाति षडवत्तमर्धवनिष्ठुमथार्धवनिष्ठुं मेदस्वत्
प्राश्नन्ति
मार्जयन्तेऽथाह ब्रह्मणे वक्षः परिहरेति
तद्ब्रह्मा प्रतिगृह्णाति ९

वयँ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहीत्यथ संप्रैषमाहाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्याहरन्त्येताञ्छामित्रादौपयजानङ्गारांस्तानग्रेण होतारं निवपत्युपसीदत्युपयष्टा गुदतृतीयेनाथाध्वर्युः पृषदाज्यं विहत्य जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवेभ्यः प्रेष्येति

वषट्कृते जुहोति प्रेष्य प्रेष्येत्येवमेवोपयष्टोपयजति गुदस्य प्रच्छेदँ समुद्रं गच्छ स्वाहेत्येतैरेकादशभिर्
अग्निं वैश्वानरं गच्छ स्वाहेति सर्वमन्ततोऽनुप्रहरत्यथ बर्हिषि हस्तौ निमार्ष्ट्यद्भ्यस्त्वौषधीभ्यो मनो मे हार्दि यच्छेत्यथास्य धूममन्वीक्षते तनूं त्वचं पुत्रं नप्तारमशीयेत्येकादशानूयाजानिष्ट्वोदङ्ङत्याक्रम्य जुह्वाँ स्वरुमवधाय पुरस्तात्प्रत्यङ्तिष्ठञ्जुहोति दिवं ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहेत्यथ यथायतनँ स्रुचौ सादयित्वा वाजवतीभ्याँ स्रुचौ व्यूहति
शंयुना प्रस्तरपरिधि संप्रकीर्य संप्रस्राव्य स्रुचौ विमुच्य जाघन्या पत्नीं संयाजयन्त्याज्यस्यैव सोमं च त्वष्टारं च यजत्युत्तानायै जाघन्यै देवानां पत्नीर्यजति
नीच्या अग्निं गृहपतिम्
उत्तानायै जाघन्यै होत्र इडामवद्यति
नीच्या अग्नीधे षडवत्तम्प्राश्नीतो
मार्जयेते
अथ स्रुचि चतुर्गृहीतं गृहीत्वापसलैः पर्यावृत्यान्वाहार्यपचने प्रायश्चित्तं हुत्वा न फलीकरणहोमेन चरत्यथ प्राङेत्य ध्रुवामाप्याय्य त्रीणि समिष्टयजूँ षि जुहोति यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहेति
स्रुवेणैव द्वितीयमेष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरः स्वाहेति
स्रुचा तृतीयं देवा गातुविदो गातुं वित्त्वा गातुमित । मनसस्पत इमं नो देव देवेषु यज्ञँ स्वाहा वाचि स्वाहा वाते धाः स्वाहेत्य्
उदूहति स्रुचम्
अथ याचति स्फ्यमुदपात्रँ हृदयशूलमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्न्यन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्याग्रेण यूपँ स्फ्येनोद्धत्यावोक्ष्य शुष्कस्य चार्द्र स्य च सन्धौ हृदयशूलमुद्वासयति १०

शुगसि तमभि शोच योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाद्भिर्मार्जयन्ते धाम्नोधाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्चेत्यथाप्रतीक्षमायन्ति वरुणस्यान्तर्हित्यै
प्रपथे समिधः कुर्वत एधोऽस्येधिषीमहीत्येत्याहवनीयेऽभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्यथाहवनीयमुपतिष्ठन्तेऽपो अन्वचारिषँ रसेन समसृक्ष्महि । पयस्वाँ अग्न आगमं तं मा सँ सृज वर्चसेत्यथौपयजिकेऽग्नौ बर्हिरुपोषति यत्कुसीदमप्रतीत्तं मयि येन यमस्य बलिना चरामि । इहैव सन्निरवदये तदेतत्तदग्ने अनृणो भवामीत्यथाञ्जलिनोपस्तीर्णाभिघारितान्सक्तून्प्रदाव्ये जुहोति विश्वलोप विश्वदावस्य त्वासञ्जुहोमि स्वाहेति
हस्तौ प्रध्वँ सयतेऽग्धादेकोऽहुतादेकः समनसादेकस्ते नः कृण्वन्तु भेषजं सदः सहो वरेण्यमिति
द्वितीयं जुहोति यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि । इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत्स्वाहेति

हस्तौ प्रध्वँ सयतेऽग्धादेकोऽहुतादेकः समनसादेकस्ते नः कृण्वन्तु भेषजं सदः सहो वरेण्यमिति
तृतीयं जुहोत्यनृणा अस्मिन्ननृणाः परस्मिँ स्तृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः सर्वान्पथो अनृणा आक्षीयेम स्वाहेति
हस्तौ प्रध्वँ सयतेऽग्धादेकोऽहुतादेकः समनसादेकस्ते नः कृण्वन्तु भेषजं सदः सहो वरेण्यमित्यथ देवता उपतिष्ठतेऽयं नो नभसा पुर इत्यग्निँ स त्वं नो नभसस्पत इति वायुं देव सँ स्फानेत्यादित्यम्
अथ यूपमुपतिष्ठत आशासानः सुवीर्यँ रायस्पोषँ स्वश्वियम्। बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठेत्यथ पूर्वाग्निँ शकले समारोपयत्ययं ते योनिरृत्विय इति
तं मध्यमेऽग्नावपिसृजत्याजुह्वान उद्बुध्यस्वाग्न इति द्वाभ्याम्
अथ मध्यममग्निमुपसमाधाय मध्यमेऽग्नौ पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधः सप्त जिह्वा इति
पूर्णाहुतौ वरं ददाति
धेनुवरं वानडुद्वरं वा दद्यादिति ह स्माह बौधायनः
संतिष्ठते पशुबन्धः संतिष्ठते पशुबन्धः ११

पञ्चमः प्रश्नः
वैश्वदेवहविर्भिर्यक्ष्यमाणो भवति फाल्गुन्यां वा चैत्र्यां वा पौर्णमास्यां नक्षत्रप्रयोग इत्येक आहुरुदगयन आपूर्यमाणपक्षस्य पुण्याहे प्रयुञ्जीतेति
स उपकल्पयते त्रेणीँ शललीं लोहितायसस्य च क्षुरं चतुष्टयानि पुरोडाशकपालानि चतस्रश्चरुस्थालीस्तावन्ति मेक्षणानि द्वयं पयः पृषदाज्याय च दधि हविरातञ्चनाय च त्रेधा बर्हिः संनद्धं तदेकधा पुनः संनद्धं प्रसूमयं प्रस्तरमित्यथोपवस्थीयेऽहन्द्विहविषमारम्भणीयामिष्टिं निर्वपति वैश्वानरं द्वादशकपालं पार्जन्यं चरुं सा प्रसिद्धेष्टिः संतिष्ठतेऽथास्यैतदहर्विश्वेभ्यो देवेभ्यो वत्सा अपाकृता भवन्ति
वैश्वदेवं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातर्हुतेऽग्निहोत्रे पुरापां प्रणयनाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा पञ्चहोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नेयमष्टाकपालं निर्वपति सौम्यं चरुँ सावित्रं द्वादशकपालँ सारस्वतं चरुं पौष्णं चरुं मारुतँ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालमिति
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनादध्युप्य दक्षिणार्धे गार्हपत्यस्याष्टौ कपालान्युपदधात्यथोत्तरतस्तिरः पवित्रमप आनीय सौम्याय चरवेऽधिश्रयत्यथोत्तरतः सावित्राय द्वादशकपालान्युपदधात्य्
अथोत्तरतस्तिरः पवित्रमप आनीय सारस्वतपौष्णाभ्यामधिश्रयत्यथोत्तरतो मारुताय सप्त कपालान्युपदधात्यथोत्तरत स्तिरः पवित्रं पय आनीयामिक्षाया अधिश्रयत्यथोत्तरतो द्यावापृथिव्यमेककपालमुपदधात्यभीन्धते कपालान्युपेन्धते चरुस्थालीः
कृतानि पिष्टानि समुप्य संयुत्याथाधिपृणक्त्याग्नेयमष्टाकपालं तिरः पवित्रँ सौम्ये चरव्यानावपत्यथाधिपृणक्ति सावित्रं द्वादशकपालं तिरः पवित्रँ सारस्वतपौष्णयोश्चरव्यानावपत्यथाधिपृणक्ति मारुतँ सप्तकपालं तिरः पवित्रं तप्ते पयसि दध्यानयति
सामिक्षा भवति
तां य एव कश्च कुशलः परीन्धेन श्रपयित्वा विवाजिनां कृत्वाप्रतापे निदधात्यथाधिपृणक्ति द्यावापृथिव्यमेककपालमिति
त्वचं पुरोडाशानां ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरति १

इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहंपरिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेहीत्याहृतासु प्रोक्षाणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचश्च संमार्ष्टि तूष्णीं पृषदाज्यग्रहणीं
पत्नीँ संनह्याज्येन च दध्ना चोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धं पृषदाज्यवन्त्याज्यानि गृहीत्वा प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्प्रसूमयं प्रस्तरं गृह्णाति
त्रिविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधाति
विधृती तिरश्ची सादयति
विधृत्योः प्रसूमयं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्यानुपूर्वँ हवीँ ष्युद्वासयत्युपस्तीर्णाभिघारितान्पुरोडाशानभिघार्य चरून्
प्रसिद्धमा मारुतादथ कँ से वा चमसे वामिक्षां व्युद्धृत्य वाजिनमानीयाथाभिघारयत्यथैककपालमुद्वास्य बह्वानीयाविःपृष्ठं करोत्यथैतानि संपरिगृह्यान्तर्वेद्यासादयति भूर्भुवः सुवरित्येताभिर्व्याहृतीभिरुत्करे वा विशये वा वाजिनम्
अथ निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति
प्रहृत्याभिहुत्य २

अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मम्परि समिधँ शिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्टे स्रुग्भ्यामुत्तरम्
अथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा ध्रुवाँ समज्य सादयित्वा स्रुचौ प्रवरं प्रवृणीते

प्रसिद्धँ होतारं वृणीते
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहोति यज यजेति चतुर्थाष्टमयोः समानयमानोऽष्टमे सर्वँ समानयते
नव प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँ स्रावेणानुपूर्वँ हवीँ ष्यभिघारयत्यथाग्नये सोमायेत्याज्यभागाभ्यां चरत्यथानुपूर्वँ हविर्भिश्चरति
प्रसिद्धमा मारुताद्विश्वेभ्यो देवेभ्योऽनुब्रूहि विश्वान्देवान्यजेत्यामिक्षया चरत्युपाँ श्वेककपालेन चरति द्यावापृथिवीभ्यामनुब्रूहि द्यावापृथिवी यजेत्यथ स्विष्टकृता चरत्यत्रैतानि मेक्षणान्याहवनीयेऽनुप्रहरत्यथैनानि सँ स्रावेणाभिजुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा प्राशित्रमवदायेडामवद्यति ३

उपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्तेऽथाह ब्रह्मणे प्राशित्रं परिहरेति
परि प्राशित्रँ हरन्त्यन्वपोऽनु वेदेन ब्रह्मभागम्
अथान्वाहार्यं याचति
तस्मिन्प्रथमजं वत्सं ददात्युद्वासयन्त्येतद्धविरुच्छिष्टम्
आसादयन्ति वाजिनम्
अथ संप्रैषमाह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्यथाध्वर्युः पृषदाज्यं विहत्य जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवान्यजेति
वषट्कृते जुहोति यज यजेति नवानूयाजानिष्ट्वोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा वाजवतीभ्याँ स्रुचौ व्यूहति

शंयुना प्रस्तरपरिधि संप्रकीर्य सम्प्रस्राव्य स्रुचौ विमुच्याथ कँ सं वा चमसं वानाज्यलिप्तं याचति
तमन्तर्वेदि निधाय तस्मिन्बर्हिषि विषिञ्चन्वाजिनमानयन्नाह वाजिभ्योऽनुब्रूहीत्यत्याक्रम्याश्राव्याह वाजिनो यजेति
वषट्कृते जुहोति वाजिभ्यः स्वाहेत्यनुवषट्कृते हुत्वा हरति भक्षं स यावन्त ऋत्विजस्तेषूपहवमिष्ट्वा यजमान एव प्रत्यक्षं भक्षयति यन्मे रेतः प्रसिच्यते यन्म आप्यायते यद्वा जायते पुनः । यद्वा मे प्रतितिष्ठति तेन मा वाजिनं कुरु तेन मा रेतस्विनं कुरु तेन मा शिवमाविश तस्य ते वाजिपीतस्य वाजिभिः पीतस्येति वा मधुमत उपहूतस्योपहूतो भक्षयामीति
अथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य त्रीणि पाशुबन्धिकानि समिष्टयजूँ षि जुहोति यज्ञ यज्ञं गच्छैष ते यज्ञो यज्ञपते देवा गातुविद इत्यथ पूर्णपात्रविष्णुक्रमैश्चरित्वा विसृजते व्रतम्
अथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपत ऋतमेव परमेष्ट्यृतं नात्येति किं चन । ऋते समुद्र आहित ऋते भूमिरियँ श्रिता ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम्वैश्वानरस्य तेजसा ॥ ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये ॥ शीर्ष्णस्तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्

संतिष्ठन्ते वैश्वदेवहवीँ षि
संवत्सरीणाँ स्वस्तिमाशास्त इत्याशास्ते ४

अथातश्चतुर्षु मासेषु वरुणप्रघासहविर्भिर्यक्ष्यमाणो भवति
स उपकल्पयते त्रेणीँ शललीं लोहितायसस्य च क्षुरं चतुष्टयानि पुरोडाशकपालानि पञ्च चरुस्थालीस्तावन्ति मेक्षणानि द्वयं पयः पृषदाज्याय च दधि हविरातञ्चनाय च शमीपर्णकरीरसक्तूनैषीकँ शूर्पं मनागुपतप्तानां यवानामवाञ्जनपिष्टानां प्रतिपूरुषं करम्भपात्राण्येकातिरिक्तानि भवन्ति
तेषामेव मेषीं च मेषं च कुर्वन्ति
शृङ्गवान्मेषो भवत्यशृङ्गा मेषी
तौ शुक्लाभिरूर्णाभिः संप्रच्छन्नौ भवतो द्वावध्वर्यू
द्वयानि यज्ञपात्राणि
द्वयमिध्माबर्हिर्द्वे वेदी
तयोः पाशुबन्धिकीवोत्तरा दार्शपौर्णमासिकीव दक्षिणा
ते पश्चात्समे पुरस्ताद्विषमे पृथमात्राद्वेदी असंभिन्ने भवतोऽथास्यैतदहर्द्वया वत्सा अपाकृता भवन्ति मरुद्भ्यो वरुणायेति
द्वयं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातर्हुतेऽग्निहोत्रे पृष्ठ्याँ स्तीर्त्वापः प्रणीय निर्वपत्याग्नेयमष्टाकपालमिति पञ्च संचराण्यैन्द्रा ग्नमेकादशकपालं मारुतीमामिक्षां वारुणीमामिक्षां कायमेककपालमिति

हविष्कृता वाचं विसृजते
समानं कर्मा पर्यग्निकरणादत्रैतानि करम्भपात्राण्यभिपर्यग्निकुर्वन्ति मेषीं च मेषं च शमीपर्णकरीरसक्तूनैषीकँ शूर्पमिति
त्वचं पुरोडाशानां ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुषी हरतोऽध्वर्युरेवोत्तरस्यां वेद्याँ हरति प्रतिप्रस्थाता दक्षिणस्यां तयोर्हरतोरध्वर्युः पूर्व एति पुनरायतोः प्रतिप्रस्थाता पूर्व एतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वौ परिग्राहौ परिगृह्णीतोऽध्वर्युरेव करणं जपत्युद्धत उद्धताभ्यामाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यध्वर्युरेव चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याग्नेरावृता द्वावग्नी प्रणयतोऽध्वर्युरेवोत्तरस्यां वेद्यामग्निं निधायाध्वराहुतिभिरभिजुहोति
प्रतिप्रस्थाता दक्षिणस्यामग्निं निधायाभिजुहोति तूष्णीम्
अग्निवत्युत्तरौ परिग्राहौ परिगृह्य योयुपित्वा तिर्यञ्चौ स्फ्यौ स्तब्ध्वाध्वर्युरेव संप्रैषमाह प्रोक्षणीरासादयतमिध्माबर्हिषी उपसादयतं स्रुवौ च स्रुचश्च संमृष्टं तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्याभ्यां च दध्ना चोदेतमित्याहृतासु प्रोक्षणीषूदस्य स्फ्यौ मार्जयित्वेध्माबर्हिषी उपसाद्य प्रदक्षिणमावृत्य प्रत्यञ्चावाद्रुत्य स्रुवौ च स्रुचश्च संमृष्टस्तूष्णीं पृषदाज्यग्रहणीं
पत्नीँ संनह्याज्याभ्यां च दध्ना चोदेत आज्ये च प्रोक्षणीश्चोत्पूय प्रसिद्धं पृषदाज्यवन्त्येवाज्यान्यध्वर्युरुत्तरस्यां वेद्यां गृह्णीते
दार्शपौर्णमासिकानि प्रतिप्रस्थाता दक्षिणस्याम् ५

अथ प्रोक्षणीभिरुपोत्तिष्ठत इध्मौ प्रोक्षतो वेदी प्रोक्षतो बर्हिषी प्रोक्षतो बर्हिषी आसन्ने प्रोक्ष्योपनिनीय पुरस्तात्प्रस्तरौ गृह्णीतः
पञ्चविधमेवाध्वर्युरुत्तरस्यां वेद्यां बर्हि स्तृणाति
त्रिविधं प्रतिप्रस्थाता दक्षिणस्याम्
अथ प्रस्तरपाणी प्राञ्चावभिसृप्य कार्ष्मर्यमयान्परिधीन्परिधत्त ऊर्ध्वाः समिध आधत्तो विधृतीस्तिरश्चीः सादयतो विधृतीषु प्रस्तरौ
प्रस्तरयोर्जुह्वौ
बर्हिषोरितरा एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यञ्चावाद्र वतो दक्षिणत एवाध्वर्युरुत्तरतः प्रतिप्रस्थातानुपूर्वँ हवीँ ष्युद्वासयत आग्नेयप्रभृतीन्येवाध्वर्युरुद्वासयति प्रसिद्धमैन्द्रा ग्नाद्मारुतीं प्रतिप्रस्थाता कँ से वा चमसे वामिक्षां व्युद्धृत्य तस्यां मेषीमवदधात्य्
अथास्यै शमीपर्णकरीरसक्तूनामिक्षामित्युपवपति
वाजिनमानीयाथाभिघारयति
वारुणीमध्वर्युस्तथैव कँ से वा चमसे वामिक्षां व्युद्धृत्य तस्यां मेषमवदधात्यथास्मै शमीपर्णकरीरसक्तूनामिक्षामित्युपवपति
वाजिनमानीयाथाभिघारयति
तथैककपालमुद्वास्य बह्वानीयाविःपृष्ठं करोत्यथैतानि संपरिगृह्यान्तर्वेद्यासाद्यत आग्नेयप्रभृतीन्येवाध्वर्युरुत्तरस्यां वेद्यामासादयति प्रसिद्धमैन्द्रा ग्नाद्मारुतीं प्रतिप्रस्थाता दक्षिणस्याम्वारुणीमध्वर्युरुत्तरस्यां कायं चैककपालं तथैवोतकरे वा विशये वा वाजिने
अध्वर्युरेव निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति
प्रहृत्याभिहुत्य ६

अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्याधत्त इध्मौ
परि समिधौ शिनष्टो वेदाभ्यामुपवाजयतोऽनूक्तासु सामिधेनीषु स्रुवाभ्यामाघारावाघारयतोऽध्वर्युरेव संप्रैषमाहाग्नीदग्नीँ स्त्रिस्त्रिः संमृड्ढीति
संमृष्ट उत्तरोऽग्निर्भवत्यसंमृष्टो दक्षिणोऽथ प्रतिप्रस्थाता पत्नीं पृच्छति पत्नि कस्ते जार इत्यसविति
तं वरुणो गृह्णात्विति निर्दिशति
यज्जारँ सन्तं न ब्रूयात्प्रियं ज्ञातिँ रुन्ध्यादसौ मे जार इति निर्दिशेद्निर्दिश्यैवैनं वरुणपाशेन ग्राहयतीति ब्राह्मणम्
अत्रैतानि करम्भपात्राण्यभिपर्यग्निकृतान्यैषीके शूर्पे समुप्य पत्न्यै प्रयच्छति

तानि पत्नी शीर्षन्नधिनिधत्तेऽथैनां दक्षिणया द्वारोपनिष्क्रमय्य दक्षिणेनान्वाहार्यपचनं दक्षिणेनोभे वेदी परीत्य प्राचीमुदानयन्वाचयति प्रघास्यान्हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषस इत्यथ दक्षिणमग्निमग्रेण पुरस्तात्प्रत्यङ्मुखास्तिष्ठन्त्युत्तर एवाध्वर्युर्दक्षिणो यजमानो दक्षिणा पत्न्यत्रैतानि करम्भपात्राणि पत्नी यजमानाय प्रयच्छति
तानि यजमानः शीर्षन्नधिनिधत्तेऽथ पुरोऽनुवाक्यामन्वाह ७

मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्नवया । मही ह्यस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीरित्युभौ याज्यां पत्नी च यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रि ये । यच्छूद्रे यदर्य एनश्चकृमा वयम्। यदेकस्याधि धर्मणि तस्यावयजनमसि स्वाहेत्यत्रैतदैषीकँ शूर्पमग्नावनुप्रहरत्यपि वाद्भिरभ्युक्ष्य भुञ्जते
व्यवयतोऽध्वर्युरनुमन्त्रयतेऽक्रन्कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वास्तं प्रेत सुदानव इत्यथ प्रतिप्रस्थाता दक्षिणमग्निँ संमार्ष्ट्युभौ स्रुच्यावाघारावाघारयतोऽध्वर्युरेव प्रवरं प्रवृणीते
प्रसिद्धँ होतारं वृणीते
सीदति होता
प्रसवमाकाङ्क्षतः
प्रसूतौ स्रुच आदायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहुतो यज यजेति चतुर्थाष्टमयोः समानयमानवष्टमेऽध्वर्युः सर्वँ समानयते

परि प्रतिप्रस्थाता सँ स्रावँ शिनष्ट्यनूयाजेभ्यो नव प्रयाजानिष्ट्वोदञ्चावत्याक्रम्य सँ स्रावाभ्यामानुपूर्वँ हवीँ ष्यभिघारयत आग्नेयप्रभृतीन्येवाध्वर्युरभिघारयति प्रसिद्धमैन्द्रा ग्नाद्मारुतीं प्रतिप्रस्थाता
वारुणीमध्वर्युः कायं चैककपालम्
अथाग्नये सोमायेत्याज्यभागाभ्यां चरतोऽथ प्रतिप्रस्थातोपरमत्यथाध्वर्युरानुपूर्वँ हविर्भिश्चरति प्रसिद्धमैन्द्रा ग्नादथाध्वर्युरुपरमत्यथ प्रतिप्रस्थाता मारुत्या अवद्यन्नाह मरुद्भ्योऽनुब्रूहीति
प्रथमेनावदानेन शमीपर्णकरीरसक्तूनामिक्षाया इत्यवद्यति
द्वितीयेनावदानेन शमीपर्णकरीरसक्तूनामिक्षां मेषीमित्यवदधात्यभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याह मरुतो यजेति
वषट्कृते जुहोत्यथ प्रतिप्रस्थातोपरमत्यथाध्वर्युर्वारुण्या अवद्यन्नाह वरुणायानुब्रूहीति
प्रथमेनावदानेन शमीपणकरीरसक्तूनामिक्षाया इत्यवद्यति
द्वितीयेनावदाएन शमीपर्णकरीरसक्तूनामिक्षां मेषमित्यवदधात्यभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याह वरुणं यजेति
वषट्कृते जुहोत्युपाँ श्वेककपालेन चरति कायानुब्रूहि कं यजेत्यथ स्विष्टकृता चरत आग्नेयप्रभृतीनामेवाध्वर्युरवद्यति प्रसिद्धमैन्द्रा ग्नाद्मारुत्यै प्रतिप्रस्थाता

वारुण्या अध्वर्युराशयादेककपालस्य च
द्विरभिघारयतो न प्रत्यङ्क्तोऽत्याक्रम्याश्राव्याहाग्निँ स्विष्टकृतं यजेति
वषट्कृत उत्तरार्धपूर्वार्धयोरतिहाय पूर्वा आहुतीर्जुहुतोऽत्रैतानि मेक्षणान्याहवनीययोरनुप्रहरतोऽथैनानि सँ स्रावाभ्यामभिजुहुतोऽथोदञ्चावत्याक्रम्य यथायतनँ स्रुचः सादयित्वा प्राशित्रमवदायेडामवद्यत आग्नेयप्रभृतीनामेवाध्वर्युरवद्यति प्रसिद्धमैन्द्रा ग्नाद्मारुत्यै प्रतिप्रस्थाता
वारुण्या अध्वर्युराशयादेककपालस्य चाभिघारयत्यथ प्रतिप्रस्थातोत्तरां वेदिमुपसर्पति ८

उपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्तेऽथाह ब्रह्मणे प्राशित्रं परिहरेति
परि प्राशित्रँ हरन्त्यन्वपोऽनु वेदेन ब्रह्मभागम्
अथान्वाहार्यं याचति
तस्मिन्यथाश्रद्धं ददात्युद्वासयन्त्येतद्धविरुच्छिष्टम्
आसादयन्ति वाजिने
अध्वर्युरेव संप्रैषमाह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्यथाध्वर्युः पृषदाज्यं विहत्य जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवान्यजेति

वषट्कृते जुहुतो यज यजेति नवानूयाजानिष्ट्वोदञ्चावत्याक्रम्य यथायतनँ स्रुचः सादयित्वा वाजवतीभ्याँ स्रुचो व्यूहतः
शंयुना प्रस्तरपरिधि संप्रकीर्य संप्रस्राव्य स्रुचो विमुच्य
तथैव कँ सौ वा चमसौ वानाज्यलिप्तौ याचतः
समानी वाजिनयोश्चर्याध्वर्युरेव प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य त्रीणि पाशुबन्धिकानि समिष्टयजूँ षि जुहोत्येकं प्रतिप्रस्थाता दार्शपौर्णमासिकं दक्षिणेऽथ पूर्णपात्रविष्णुक्रमैश्चरित्वा न विसृजते व्रतम्
अथ याचत्याज्यस्थालीँ सस्रुवाँ स्रुचं बर्हिः प्रतिवसनीये वाससी वारुण्यै निष्कासं तुषानित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्न्यन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तद्यन्ति
प्रसिद्धोऽवभृथः
साम चैव नाह देवीराप एष वो गर्भ इति चाथाप्रतीक्षमायन्ति वरुणस्यान्तर्हित्यै
प्रपथे समिधः कुर्वत एधोऽस्येधिषीमहीत्येत्याहवनीयेऽभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्यथाहवनीयमुपतिष्ठन्तेऽपो अन्वचारिषँ रसेन समसृक्ष्महि । पयस्वाँ अग्न आगमं तं मा संसृज वर्चसेत्यत्र विसृजते व्रतम्

अथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपते यद्घर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः । अग्निरीशान ओजसा वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम्वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये ॥ शीर्ष्णस्तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्
संतिष्ठन्ते वरुणप्रघासहवीँ षि
परिवत्सरीणाँ स्वस्तिमाशास्त इत्याशास्ते ९

अथातश्चतुर्षु मासेषु साकमेधहविर्भिर्यक्ष्यमाणो भवति
स उपकल्पयते त्रेणीँ शललीं लोहितायसस्य च क्षुरं चतुष्टयानि पुरोडाशकपालानि चतस्रश्चरुस्थालीस्तावन्ति मेक्षणानि पृषदाज्याय दध्यथ पौर्णमास्या उपवसथेऽग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकँ सूर्येणोदयता
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ मध्यंदिने मरुद्भ्यः सांतपनेभ्यश्चरुं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथास्यैतदहर्मरुद्भ्यो गृहमेधिभ्यो वत्सा अपाकृता भवन्त्यथ सायँ हुतेऽग्निहोत्रे सर्वासां दुग्धे गार्हपत्ये गृहमेधीयं चरुँ श्रपयित्वाभिघार्योदञ्चमुद्वासयत्यथैतां पात्रीं निर्णिज्योपस्तीर्य तस्यामेनमसंघ्नन्निवोद्धरति
सर्पिरासेचनं कृत्वा प्रभूतमाज्यमानीयान्तर्वेद्यासादयत्यथाग्नये सोमायेत्याज्यभागाभ्यां चरत्य्
अथोपस्तीर्य पूर्वार्धाच्चरोरवद्यन्नाह मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहीति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याह मरुतो गृहमेधिनो यजेति
वषट्कृते जुहोत्यथ स्विष्टकृता चरतीडान्तो गृहमेधीयः संतिष्ठते
पूर्णदर्व्याय क्षामकाषं परिशिनष्टि
प्रतिवेशँ स्त्रीकुमारेभ्यः पचन्त्याशिता भवन्त्याञ्जतेऽभ्यञ्जतेऽनु वत्सान्वासयन्ति
सवात्योरेवैताँ रात्रिं वत्सं बध्नन्त्यथाध्वर्युरपररात्र आद्रुत्य नित्यवत्सायै पयसाग्निहोत्रं जुहोत्यथैतां दर्वीं निर्णिज्योपस्तीर्य तस्यामेतँ सर्वश एव क्षामकाषमवदधाति
द्विरभिघारयत्यथ पुरोऽनुवाक्यामन्वाह पूर्णा दर्वि परापत सुपूर्णा पुनरापत । वस्नेव विक्रीणावहा इषमूर्जँ शतक्रतो इति
यजति देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारमिन्नि मे हरा निहारं निहरामि ते स्वाहेत्यृषभ एहीत्यृषभस्य रवथे जुहुयाद्ब्रह्मणो हिंकार इत्येतदपरं गार्हपत्ये जुहोत्यन्वारब्धे यजमाने स्वाहेत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीय मरुद्भ्यः क्रीडिभ्यः पुरोडाशँ सप्तकपालं निर्वपति साकँ सुर्येणोद्यता
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ तदानीमेव पृष्ठ्याँ स्तीत्वापः प्रणीय निर्वपत्याग्नेयमष्टाकपालमिति पञ्च संचराण्यैन्द्रा ग्नमेकादशकपालमैन्द्रं चरुं वैश्वकर्मणमेककपालमिति

त्वचं पुरोडाशानां ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथ चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याग्नेरावृताग्निं प्रणयत्यग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेहीत्याहृतासु प्रोक्षाणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचश्च संमार्ष्टि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धं यथा वैश्वदेवहवीँ ष्येवँ संतिष्ठतेऽन्यत्र वाजिनादथ पूर्णपात्रविष्णुक्रमैश्चरित्वा न विसृजते व्रतम् १०

महापितृयज्ञं करिष्यन्नुपकल्पयते व्रीहीँ श्च यवाँ श्च षट्कपालान्यभिवान्यायै दुग्धमर्धपात्रं द्वे नवे पात्रे इक्षुशलाकां त्रीन्पर्णसेवान्समूलम्बर्हिर्वर्षीयाँ समिध्ममिध्मात्परिश्रयणं कशिपूपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भौ यज्ञायुधानीत्यथ गार्हपत्यं परिस्तृणाति

तमुत्तरेणैकैकँ सँ सादयति कशिपूपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भौ यज्ञायुधानीत्यथ यज्ञोपवीतं कृत्वोत्तरेण गार्हपत्यमुपविश्य पवित्रवत्याग्निहोत्रहवण्या निर्वपति
देवस्य त्वा सवितुः प्रसवेऽश्विणोर्बाहुभ्यां पूष्णो हस्ताभ्याँ सोमाय पितृमते जुष्टं निर्वपामीति चतुरो मुष्टीन्व्रीहीणां निर्वपत्येतामेव प्रतिपदं कृत्वा पितृभ्यो बर्हिषद्भ्यो जुष्टं निर्वपामीति चतुरो यवानाम्
एतामेव प्रतिपदं कृत्वा पितृभ्योऽग्निष्वात्तेभ्यो जुष्टं निर्वपामीति चतुर एव यवानां तेषां व्रीहिष्वेव हविष्कृतमुद्वादयत्युपोद्यच्छन्ते यवान्
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनादध्युप्य दक्षिणार्धे गार्हपत्यस्य षट्कपालान्युपदधात्यथैतान्यवानुलूखले परिक्षुद्य गार्हपत्य एककपालमधिश्रित्य भर्जयन्ति
बहुरूपा धानाः कृत्वा तेषामर्धा धाना भवन्त्यथेतरान्सक्तून्कुर्वन्ति
कृतानि पिष्टानि समुप्य संयुत्याधिपृणक्ति पुरोडाशँ षट्कपालम्
अथोत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु नवं पात्रमधिश्रित्य तिरः पवित्रमाज्यमानीय तिरः पवित्रं धाना आवपत्यथैतदभिवान्यायै दुग्धमर्धपात्रं याचति
तस्मिँ स्तिरः पवित्रँ सक्तूनोप्यैकयेक्षुशलाकयोपमन्थति
दक्षिणोपमन्थत्यनारभ्योपमन्थतीति ब्राह्मणम्
अथोत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेष्वधिश्रयति
त्वचं पुरोडाशस्य ग्राहयित्वाभिवास्यात्रैवाप्येभ्यो निनयति

दक्षिणत एष सम स्थण्डिलः कृतो भवति
तदेतां चतुरश्रां वेदिमालिखत्येव न खनति
तस्यै मध्यतोऽन्वाहार्यपचनमुपसमाधाय स्तम्बयजुर्हरति ११

इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहीत्याहृतासु प्रोक्षणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचश्च संमार्ष्ट्याज्येनोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धंपञ्चगृहीतानि वा षड्गृहीतानि वाज्यानि गृहीत्वा प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्समूलं प्रस्तरं गृह्णाति तूष्णीम्
अथ प्राचीनावीतं कृत्वा त्रिरपसलैः परिस्तृणन्पर्येति
संतरामेवाग्रेऽथ वितराम्
अथ वितराम्
अथ यज्ञोपवीतं कृत्वा यथेतं त्रिः पुनः प्रतिपर्येत्यथ प्रस्तरपाणिर्द्वौ परिधी परिदधाति मध्यमं चैव दक्षिणं चोर्ध्वे समिधावादधाति
विधृती तिरश्ची सादयति
विधृत्योः समूलं प्रस्तरं न्यस्यति तूष्णीं
प्रस्तरे जुहूम्बर्हिषीतरे
एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्यानुपूर्वँ हवीँ ष्युद्वासयत्युपस्तीर्णाभिघारितं पुरोडाशमभिघार्य धानाः करम्भमिति
तेषामेकैकमनूचीनान्युदाहरन्ति
दक्षिणतः पुरोडाशमासादयत्युत्तरतो धाना उत्तरतः करम्भं दक्षिणत एतत्परिश्रयणं कशिपूपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमिति निदधात्युत्तरत उदकुम्भौ
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चोत्तरतोऽध्वर्युश्चाग्नीध्रश्च १२

अथेध्मात्समिधमाददान आहाग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मँ सकृद्वा त्रिर्वा
परि समिधँ शिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्टे स्रुग्भ्यामुत्तरम्
अथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा ध्रुवाँ समज्य सादयित्वा स्रुचौ प्रवरं प्रवृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषडग्निर्देवो होता देवान्पितॄन्यक्षत्सीदेत्येतावान्प्रवरः
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहोति
यज यजेत्यपबर्हिषश्चतुरः प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँ स्रावेणानुपूर्वँ हवीँ ष्यभिघारत्य्
अथाग्नये सोमायेत्याज्यभागाभ्यां चरत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा प्राचीनावीतानि कुर्वते
विपरिक्रामन्त्येत ऋत्विजो विपरिहरन्ति हवीँ ष्युत्तरतः पुरोडाशमासादयति
दक्षिणतः करम्भम्
आशय एव धाना भवन्त्युत्तरत उपविशतो ब्रह्मा च यजमानश्च दक्षिणतोऽध्वर्युश्चाग्नीध्रश्चाथैनत्परिश्रयन्ति
तस्योदीचीं द्वारं कुर्वन्ति
स यो बलवाँ स्तमाहानेनोदकुम्भेन संततया धारया त्रिरपसलैः परिषिञ्चन्परीहीति
स तथा करोति
निधाय कुम्भं यथेतं त्रिः पुनः प्रतिपर्येत्यथोपस्तीर्य पूर्वार्धात्पुरोडाशस्यावद्यन्नाह १३

सोमाय पितृमतेऽनु स्वधेति
पूर्वार्धात्पुरोडाशस्यावद्यति
पूर्वार्धाद्धानानाम्पूर्वार्धात्करम्भस्याभिघारयति
प्रत्यनक्ति
दक्षिणतोऽवदायोदङ्ङतिक्रामत्यो स्वधेत्याश्राव्यत्यस्तु स्वधेति प्रत्याश्रावयति
सोमं पितृमन्तँ स्वधा कुर्विति
ये स्वधेत्यागूर्ये स्वधामह इति वा
स्वधा नम इति वषट्करोति
वषट्कृते जुहोत्य्
अथोपस्तीर्य मध्याद्धानानामवद्यन्नाह पितृभ्यो बर्हिषद्भ्योऽनु स्वधेति
मध्याद्धानानामवद्यति
मध्यात्करम्भस्य
मध्यात्पुरोडाशस्याभिघारयति
प्रत्यनक्ति
दक्षिणतोऽवदायोदङ्ङतिक्रामत्यो स्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति
पितॄन्बर्हिषदः स्वधा कुर्विति
ये स्वधेत्यागूर्ये स्वधामह इति वा
स्वधा नम इति वषट्करोति
वषट्कृते जुहोत्यथोपस्तीर्यापरार्धात्करम्भस्यावद्यन्नाह पितृभ्योऽग्निष्वात्तेभ्योऽनु स्वधेत्यपरार्धात्करम्भस्यावद्यत्यपरार्धात्पुरोडाशस्यापरार्धाद्धानानाम्
अभिघारयति
प्रत्यनक्ति
दक्षिणतोऽवदायोदङ्ङतिक्रामत्यो स्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति
पितॄनग्निष्वात्तान्स्वधा कुर्विति
ये स्वधेत्यागूर्ये स्वधामह इति वा
स्वधा नम इति वषट्करोति
वषट्कृते जुहोत्यथोपस्तीर्य दक्षिणार्धात्पुरोडाशस्यावद्यन्नाहाग्नये कव्यवाहनाय स्विष्टकृतेऽनु स्वधेति
दक्षिणार्धात्पुरोडाशस्यावद्यति
दक्षिणार्धाद्धानानां दक्षिणार्धात्करम्भस्य
द्विरभिघारयति
न प्रत्यनक्ति
दक्षिणतोऽवदायोदङ्ङतिक्रामत्यो स्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयत्यग्निं कव्यवाहनँ स्विष्टकृतँ स्वधा कुर्विति
ये स्वधेत्यागूर्ये स्वधामह इति वा
स्वधा नम इति वषट्करोति
वषट्कृते दक्षिणार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यत्रैतन्मेक्षणँ शलाकामित्यग्नावनुप्रहरत्यथैने सँ स्रावेणाभिजुहोत्यथ दक्षिणतोऽत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा यज्ञोपवीतानि कुर्वते
विपरिक्रामन्त्येत ऋत्विजो विपरिहरन्ति हवीँ षि
दक्षिणतः पुरोडाशमासादयत्य्
उत्तरतः करम्भम्
आशय एव धाना भवन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चोत्तरतोऽध्वर्युश्चाग्नीध्रश्चाथ प्राशित्रमवदायेडामवद्यति १४

उपहूतायामिडायामग्नीध आदधाति षडवत्तं निघ्रेण भक्षयित्वा बर्हिषि संन्यस्यन्त्यथ प्राचीनावीतानि कृत्वा पुरोडाशं धानाः करम्भमिति पात्र्याँ संप्रयौति
तिसृषु स्रक्तिषु पर्णसेवेषु त्रीन्पिण्डान्ददात्येतत्ते ततासौ ये च त्वामन्विति दक्षिणस्याँ श्रोण्याम्
एतत्ते पितामहासौ ये च त्वामन्विति दक्षिणेऽँ स एतत्ते प्रपितामहासौ ये च त्वामन्वित्युत्तरेऽँ स उत्तरस्याँ श्रोण्यां लेपं निमार्ष्ट्येषा युष्माकमियमस्माकमिमां वयं जीवा जीवन्तोऽनुसंचरन्तो भूयास्मेत्यत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदञ्चो निष्क्रम्य यज्ञोपवीतानि कृत्वाहवनीयमुपतिष्ठन्ते सुसंदृशं त्वा वयं मघवन्मन्दिषीमहि । प्र नूनं पूर्णवन्धुर स्तुतो यासि वशाँ अनु । योजा न्विन्द्र ते हरी इत्या तमितोरुपतिष्ठन्तेऽथ गार्हपत्यमुपतिष्ठन्तेऽक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती । योजा न्विन्द्र ते हरी इत्य्
आ तमितोरुपतिष्ठन्तेऽथ प्राचीनावीतानि कृत्वान्वाहार्यपचनमभिप्रपद्यन्तेऽक्षन्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरोऽमीमृजन्त पितरः । परेत पितरः सोम्या इत्या तमितोरुपतिष्ठन्ते
स यो बलवाँ स्तमाहानेनोदकुम्भेन संततया धारया त्रिरपसलैः परिषिञ्चन्परीहीति
स तथा करोति
निधाय कुम्भं यथेतं त्रिः पुनः प्रतिपर्येत्याहरणप्रीत्येव कशिपूपबर्हणे आञ्जनाभ्यञ्जने ददात्यथ वासाँ सि ददात्यथ षड्भिर्नमस्कारैर्विपर्यासमुपतिष्ठतेऽथ वीरं याचतेऽथैनानुत्थाप्य प्रवाह्य तिसृभिर्मन आह्वयते मनो न्वाहुवामह आ न एतु मनः पुनः पुनर्नः पितरो मन इत्यत्रैतान्पिण्डान्सह पर्णसेवैरग्नावनुप्रहरति
व्यवच्छिन्दन्ति परिश्रयणम्
अथ यज्ञोपवीतानि कुर्वतेऽथ संप्रैषमाह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्यथ जुहूपभृतावादायात्याक्रम्याश्राव्याह देवौ यजेति
वषट्कृते जुहोति
यज यजेत्यपबर्हिषौ द्वावनूयाजाविष्ट्वोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा वाजवतीभ्याँ स्रुचौ व्यूहति
शंयुना प्रस्तरपरिधि संप्रकीर्य संप्रस्राव्य स्रुचौ विमुच्यात्रैव समिष्टयजुर्जुहोत्य्
अथैतेषाँ शस्त्राणां द्वेद्वे उदाहरन्त्यथ यज्ञोपवीतानि कृत्वा प्राजापत्ययर्चा गार्हपत्यमुपतिष्ठन्ते प्रजापते न त्वदेतान्यन्य इत्यत्रैतां द्वितीयां जपति यदन्तरिक्षं पृथिवीमुत द्यामिति
संतिष्ठते महापितृयज्ञः १५

यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता प्रतिपूरुषं त्रैयम्बकानेककपालानेकातिरिक्तान्गार्हपत्ये श्रपयित्वानभिघारितानुद्वास्य सते वा श्रावे वा जरत्कोशबिले वा समुप्योपास्तेऽथ याचति नीललोहिते सूत्रे अन्तमं पर्णमन्तमागारादेकोल्मुकमुदपात्रमित्येतत्समादाय गार्हपत्यमुपतिष्ठन्ते यावन्तो गृह्या स्मस्तेभ्यः कमकरम्पशूनाँ शर्मासि शर्म यजमानस्य शर्म मे यच्छेत्यथोदञ्चो निष्क्रम्य तां दिशं यन्ति यत्रास्य नित्यसंपन्नश्चतुष्पथ स्पष्टो भवति
यद्यु वै न भवत्यनसा वा रथेन वा वियान्ति
तदेतदेकोल्मुकमुपसमाधाय संपरिस्तीर्यान्तमे पर्णे सर्वेषां त्रैयम्बकाणाँ सकृत्सकृत्समवदाय जुहोत्येक एव रुद्रो न द्वितीयाय तस्थ आखुस्ते रुद्र पशुस्तं जुषस्वैष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजँ सुभेषजं यथासति सुगम्मेषाय मेष्ययवाम्ब रुद्र मदिमह्यव देवं त्र्यम्बकम्। यथा नः श्रेयसः करद्यथा नो वस्यसः करद्यथा नः पशुमतः करद्यथा नो व्यवसाययात्स्वाहेत्यत्रैतदन्तमं पर्णं यं द्वेष्टि तस्य संचरे पशूनां न्यस्यति

यद्यु वै न द्वेष्ट्याख्ववटे न्यस्यत्यथैतेषां त्रैयम्बकाणामेकैकं व्युत्प्रयच्छति द्वौ यजमानायाथैतमग्निं त्रिः प्रदक्षिणं परियन्ति दक्षिणानूरूनुपाघ्नानास्त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतादिति
सकृत्परीत्योत्तरतस्तिष्ठन्त्युत्खिदन्ति
भगाय त्वेति लिप्सन्त एवमेव द्वितीयं परियन्त्येवं तृतीयम्
अथैषा पतिकामा त्रिरपसलैः पर्येति सव्यमूरुमुपाघ्नाना त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम्। उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेरिति
सकृत्परीत्योत्तर्तस्तिष्ठत्युत्खिदति
भगाय त्वेति लिप्सत एवमेव द्वितीयं पर्येत्येवं तृतीयम्
अथैनान्यजमानस्याञ्जलावावपति १६

प्रजया त्वा सँ सृजामि मासरेण सुरामिवेति
तान्यजमानः पत्न्यञ्जलावावपति प्रजया त्वा पशुभिः सँ सृजामि मासरेण सुरामिवेति
तान्पत्नी दुहित्रे भगकामायै भगेन त्वा सँ सृजामि मासरेण सुरामिवेत्य्
अथैनान्मूत ओप्य नीललोहिताभ्याँ सूत्राभ्यां विग्रथ्य शुष्के वा स्थाणौ विशाखायां वा बध्नात्येष ते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतोऽतीह्यवततधन्वा पिनाकहस्तः कृत्तिवासोमित्या तमितोरुपतिष्ठन्तेऽथापो व्यतिषिच्य परास्य पात्रमनवेक्षमाणा आयन्ति
हस्तपादान्प्रक्षाल्यैतेनैव यथेतमेत्यादित्यं चरुं पुनरेत्य निर्वपतीयं वा अदितिरस्यामेव प्रतितिष्ठन्तीति ब्राह्मणं सा प्रसिद्धेष्टिः संतिष्ठतेऽत्र विसृजते व्रतम्
अथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपते य इमां महीं पृथिवीमृतुभिः पर्यवर्तयद्यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीः । अग्निरीशान ओजसा वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम्वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये ॥ शीर्ष्णस्तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन आध्यासमिति पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्
संतिष्ठन्ते साकमेधहवीँ षीदावत्सरीणाँ स्वस्तिमाशास्त इत्याशास्ते १७

अथातश्चतुर्षु मासेषु शुनासीरीयहविर्भिर्यक्ष्यमाणो भवति

स उपकल्पयते त्रेणीँ शललीं लोहितायसस्य च क्षुरं पञ्चतयानि पुरोडाशकपालानि पञ्च चरुस्थालीस्तावन्ति मेक्षणानि पृषदाज्याय दधीत्यथास्यैताँ रात्रिं वायवे वत्सा अपाकृता भवन्ति
प्रातर्वायव्यं पयो दोहयति संनाय्यस्य वावृता तूष्णीं वाथ प्रातर्हुतेऽग्निहोत्रे पृष्ठ्याँ स्तीर्त्वापः प्रणीय निर्वपत्याग्नेयमष्टाकपालमिति पञ्च संचराण्यैन्द्रा ग्नं द्वादशकपालं वैश्वदेवं चरुमिन्द्रा य शुनासीराय पुरोडाशं द्वादशकपालं वायव्यं पयः सौर्यमेककपालमिति
त्वचं पुरोडाशानां ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
स यद्युत्तरवेदिं करोति यथा महाहवीँ ष्येवँ संतिष्ठते
यद्यु वा उत्तरवेदिं न करोति यथा वैश्वदेवहवीँ ष्येवँ संतिष्ठ्तेऽन्यत्र वाजिनादथ पूर्णपात्रविष्णुक्रमैश्चरित्वा विसृजते व्रतम्
अथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपत एकं मासमुदसृजत्परमेष्ठी प्रजाभ्यः । तेनाभ्यो मह आवहदमृतं मर्त्याभ्यः ॥ प्रजामनु प्रजायसे तदु ते मर्त्यामृतम्। येन मासा अर्धमासा ऋतवः परिवत्सराः ॥ येन ते ते प्रजापते ईजानस्य न्यवर्तयन्। तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा

शिरस्तपस्याहितम्वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये
तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये ॥ शीष्णस्तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्
संतिष्ठन्ते शुनासीरीयहवीँ ष्यनुवत्सरीणाँ स्वस्तिमाशास्त इत्याशास्ते १८

षष्ठः प्रश्नः
अग्निष्टोमेन यक्ष्यमाणो भवति
स उपकल्पयते कृष्णाजिनं च कृष्णविषाणां च वासश्च मेखलां च सैषा पृथ्वी वेणीकार्या भवति त्रिवृदेकतःपाशा द्वाविँ शतिं च दर्भपुञ्जीलानि नवनीतं चाञ्जनं च सतूलां च शरेषीकामौदुम्बरं च दण्डं चमसं च व्रतप्रदानँ स्थालीँ सशिक्याँ समेक्षणाम्
एतानि त्रयोदश यजमानस्
तावन्त्येव पत्नीमभितो भवन्ति कुम्बं च कुरीरं च वासश्च योक्त्रं चापरिमितानि च दर्भपुञ्जीलानि नवनीतं चाञ्जनं च सतूला च शरेषीकामृन्मयश्च पात्रः शङ्कुश्च स्थाली सशिक्या समेक्षणा
जुष्टे देवयजने शाला कारिता भवति
पुरोहविषि देवयजने याज्येदित्येतेषां यज्जोषयते
प्राचीनवँ शा दिक्ष्वतीकाशा दक्षिणतो वर्षीयसी
तस्यै चतस्रो द्वारः कुर्वन्ति प्राचीं दक्षिणां प्रतीचीमुदीचीं दक्षिणतो व्रतश्रपणागारं कुर्वन्ति पश्चात्पत्नीशालम्
अथ यदि दूरे तीर्थं भवत्युत्तरेण शालां द्वौ कटपरिवारौ कुर्वन्ति पूर्वं यजमानायापरं पत्न्यै
तयोः प्राची द्वारौ कुर्वन्ति
तदुदकुम्भौ निधापयत्यथामावास्येन वा हविषेष्ट्वा नक्षत्रे वारण्योरग्नीन्समारोह्य शालामभिप्रैत्युत्तरेण शालां परीत्य पूर्वया द्वारा शालां प्रपाद्य गार्हपत्यस्यायतने मथित्वाग्नीन्विहृत्य मध्यमे वँ शे राजानं प्रग्रथ्नन्ति
परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा सप्तहोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्य्
अपरं चतुर्गृहीतं गृहीत्वा यूपाहुतिं जुहोति यद्यत्र जुहोति
पूर्वाह्ण एवैतौ व्रतदुघयोर्वत्सौ बध्नन्त्यथाभ्यां व्रतोपायनीयं पाचयति
तस्याशितौ भवतः सर्पिर्मिश्रस्य पयोमिश्रस्याथाध्वर्युस्तीर्थ्यान्संभारान्याचत्यथाहैहि यजमानेति
पूर्वया द्वारोपनिष्क्रम्य यत्रापस्तद्यन्त्यथास्य प्राङ्मुखस्य दक्षिणं गोदानमद्भिरुनत्ति १

आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इत्यूर्ध्वाग्रं बर्हिरनूच्छ्रयत्योषधे त्रायस्वैनमिति
स्वधितिं तिर्यञ्चं निदधाति स्वधिते मैनँ हिँ सीरिति
प्रवपति देवश्रूरेतानि प्रवप इति
स्वस्त्युत्तराण्यशीयेत्युप्तान्तं प्रत्यभिमृशत एतयैवावृतोत्तरं गोदानमद्भिरुनत्ति यजुषा वा तूष्णीं वा
नापिताय क्षुरं प्रयच्छन्नाह नापितोप्तकेशश्मश्रुं मे निकृत्तनखं प्रब्रूतादिति
तं तथा प्राहाथैनमद्भिरभिषिञ्चत्यापो अस्मान्मातरः शुन्धन्तु घृतेन नो घृतपुवः पुनन्त्विति
संप्रधाव्य रजः प्रप्लावयति विश्वमस्मत्प्रवहन्तु रिप्रमित्युदेत्युदाभ्यः शुचिरा पूत एमीति
वसनस्यान्तेन प्रतिच्छाद्याप आचामत्यपोऽश्नादिति ब्राह्मणम्
अथ प्रदक्षिणमहतं वासः परिधत्ते सोमस्य तनूरसि तनुवं मे पाहीत्यथास्यैतन्नवनीतं विचितमुदशराव उपशेते
तस्य पाणिभ्याँ संप्रम्लाय मुखमेव प्रथममभ्यङ्क्ते महीनां पयोऽसि वर्चोधा असि वर्चो मयि धेहीत्य्
अनुलोममा पादाभ्याम्
अन्योऽस्य पृष्ठमभ्यनक्त्यथास्यैतदाञ्जनं पिष्टं दृषद्युपशेते सतूला च शरेषीका
तस्य प्राङ्मुखस्य प्रत्यङ्मुख उपविश्य सव्येन पाणिना दक्षिणमक्ष्यनक्ति वृत्रस्य कनीनिकासि चक्षुष्पा असि चक्षुर्मे पाहीति त्रिरनिधावं द्विरुत्तरम्
अप्यु पञ्च कृत्व आङ्क्त इति ब्राह्मणम्पञ्च कृत्व एव दक्षिणं पञ्च कृत्व उत्तरम्
अथैनमेकविँ शत्या दर्भपुञ्जीलैः पवयति चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति
यजमानमतिवाचयति तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमित्यथैनँ सव्ये पाणावभिपात्य शालामानयत्या वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामह इति
पूर्वया द्वारा शालां प्रपादयतीन्द्रा ग्नी द्यावापृथिवी आप ओषधीरित्यथैनमग्रेणाहवनीयं पर्याणीय दक्षिणत उदङ्मुखमुपवेश्याहवनीयमीक्षयति त्वं दीक्षाणामधिपतिरसीतीह मा सन्तं पाहीत्यात्मानम् २

यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता पत्न्यै दक्षिणमुपपक्षमद्भिरुनत्ति तूष्णीं तूष्णीमूर्ध्वाग्रं बर्हिरनूच्छ्रयति
तूष्णीँ स्वधितिं तिर्यञ्चं निदधाति
तूष्णीं प्रवपति
तूष्णीमुप्तान्तं प्रत्यभिमृशत एतयैवावृतोत्तरमुपपक्षमद्भिरुनत्ति तूष्णीमेव
नापिताय क्षुरं प्रयच्छन्नाह नापितोप्तोपपक्षां मे निकृत्तनखां प्रब्रूतादिति
तां तथा प्राहाथैनामद्भिरभिषिञ्चति तूष्णीं
तूष्णीँ संप्रधाव्य रजः प्रप्लावयति तूष्णीम्
अद्भिरुदेति तूष्णीम्वसनस्यान्तेन प्रतिच्छाद्याप आचामति
तूष्णीं प्रदक्षिणमहतं वासः परिधत्ते
तूष्णीमभ्यङ्क्ते
तूष्णीमाङ्क्तेऽथैनामपरिमितैर्दर्भपुञ्जीलैः पवयति तूष्णींतूष्णीमेवाथैनामानीयापरया द्वारा शालां प्रपाद्य प्राचीमुदानयन्वाचयति प्रैतु ब्रह्मणस्पत्नी वेदिं वर्णेन सीदतु । अथाहमनुकामिनी स्वे लोके विशा इहेत्यथ जघनेन गार्हपत्यमुपसीदति सुप्रजसस्त्वा वयं सुपत्नीरुपसेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यमित्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नावैष्णवमेकादशकपालं दीक्षणीयामिष्टिं निर्वपति
तस्यै दशतयमुत्सीदति न यजमानं व्रतमुपनयति न पत्नीँ संनह्यति न यजमानभागं करोति न ब्रह्मभागं न बर्हिषदं पुरोडाशं करोति नान्वाहार्यं याचति न फलीकरणहोमेन चरति न समिष्टयजुर्जुहोति न पूर्णपात्रे यजमानं वाचयति न विष्णुक्रमान्क्रमतेऽथाध्वयुः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्याज्यस्थाल्यां प्रत्यवनीयाज्यस्थाल्याः स्रुवेणोपघातं दीक्षाहुतीर्जुहोति ३

आकूत्यै प्रयुजेऽग्नये स्वाहा मेधायै मनसेऽग्नये स्वाहा दीक्षायै तपसेऽग्नये स्वाहा सरस्वत्यै पूष्णेऽग्नये स्वाहेत्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्रुचा पञ्चमीं जुहोत्यापो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उर्वन्तरिक्षं बृहस्पतिर्नो हविषा वृधातु स्वाहेत्य्
अपरं चतुर्गृहीतं गृहीत्वाज्यस्य पूर्णाँ स्रुचमौद्ग्रहणं जुहोति विस्वे देवस्य नेतुर्मर्तो वृणीत सख्यम्। विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहेत्यत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथाग्रेणाहवनीयं पर्याहृत्य यजमानाय प्रयच्छति कृष्णाजिनं च कृष्णविषाणां च वासश्च मेखलां चौदुम्बरं दण्डं पञ्चममुष्णीषँ षष्ठम्
अथ प्रतिप्रस्थाता पत्न्यै प्रयच्छति कुम्बं च कुरीरं च वासश्च योक्त्रं च शङ्कुं च ४

अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तस्य शुक्लकृष्णे संमृशति शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिरृक्सामयोः शिल्पे स्थस्ते वामारभे ते मा पातमास्य यज्ञस्योदृच इत्यथ दक्षिणं जान्वाच्याभिसर्पतीमां धियँ शिक्षमाणस्य देव क्रतुं दक्षं वरुण सँ शिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावँ रुहेमेत्यथोपस्थं कृत्वा प्रदक्षिणं मेखलां पर्यस्यत्यूर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मे यच्छेति
पाहि मा मा मा हिँ सीरिति निष्टर्क्यं ग्रन्थिं ग्रथ्नात्येतस्मिन्काले प्रतिप्रस्थाता योक्त्रेण पत्नीँ संनह्यत्याशासाना सौमनसं सं त्वा नह्यामीति द्वाभ्याम्
अथ यजमानं वाससा प्रोर्णोति विष्णोः शर्मासि शर्म यजमानस्य शर्म मे यच्छेति
वसनस्यातीकाशेषु वाचयति नक्षत्राणां मातीकाशात्पाहीति
प्रतिकृष्य वसनस्यान्तान्प्रदक्षिणमुष्णीषेण शिरो वेष्टयति श्रिया ते शिरो वेष्टयामि श्रियै यशसे ब्रह्मवर्चसायेत्य्
एतस्मिन्काले प्रतिप्रस्थाता पत्न्यै कुम्बकुरीरमध्यूहति तूष्णीम्
अथास्यैषा कृष्णविषाणा त्रिवलिर्वा पञ्चवलिर्वा शाण्या रज्ज्वा परितृणा मण्डचरवद्विग्रथिता
तां यजमानाय प्रयच्छतीन्द्र स्य योनिरसीति
मा मा हिँ सीरिति यजमानः प्रतिगृह्णाति
तां वसनस्यान्तमायां दशायां बद्ध्वा तयान्तर्वेदि लोष्टमुद्धन्ति कृष्यै त्वा सुसस्याया इति
सुपिप्पलाभ्यस्त्वौषधीभ्य इति दक्षिणं गोदानं कण्डूयत एतस्मिन्काले प्रतिप्रस्थाता पत्न्यै शङ्कुमाबध्नात्येतेन कण्डूयस्वेत्यथास्मा ऊर्ध्वाग्रमौदुम्बरं दण्डं प्रयच्छति मुखेन संमितं सूपस्था देवो वनस्पतिरित्यूर्ध्वो मा पाह्योदृच इति यजमानः प्रतिगृह्णात्यथैनं यज्ञस्यान्वारम्भं वाचयति स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याँ स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इत्यत्र मुष्टी करोति वाचं यच्छत्यथाहादीक्षिष्टायं ब्राह्मणोऽसावित्थंगोत्रोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ता तमिन्द्रा येन्द्रा ग्निभ्यां वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभो देवेभ्यो ब्राह्मणेभ्यश्च सोमपेभ्यः प्रब्रूम इति

त्रिरुपाँ श्वाह
देवेभ्य एवैनं प्राह
त्रिरुच्चैरुपनिष्क्रम्योभयेभ्य एवैनं देवमनुष्येभ्यः प्राहेति ब्राह्मणम्
अथैनँ सँ शास्ति ५

दीक्षितोऽसि दीक्षितवादं वद सत्यमेव वद मानृतम्मा स्मयिष्ठार्मा कण्डूयथार्मापावृथा यदि स्मयासा अपिगृह्य स्मयासै यदि कण्डूयासै कृष्णविषाणया कण्डूयासै यदि वाचं विसृजेर्वैष्णवीमृचमनुद्र वताद्मा त्वान्यत्र दीक्षितविमितात्सूर्योऽभ्युदियाद्माभिनिम्रुक्ताद्यानि देवतानामानि यथाख्यातं तान्याचक्ष्वाथ यान्यदेवतानामानि यथाख्यातं तान्याचक्षाण उपरिष्टाद्विचक्षणं धेहि चनसितवतीं विचक्षणवतीं वाचं वद कृष्णाजिनान्मा व्यवच्छेत्था दण्डाच्चेति
स एवमेवैतत्सर्वं करोत्यथोपसमिन्धनवेलायामुत्तरेणाहवनीयं तिष्ठन्संप्रैषमाहाग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति
संप्रेष्य वाचंयमयोर्व्रते दोहयतोऽथाध्वर्युः पूर्वया द्वारोपनिष्क्रम्य दोहयित्वैतेनैव यथेतमेत्य गार्हपत्येऽग्निहोत्रविधिं चेष्टित्वा तप्त्वोदगुद्वास्य शीतीकृत्वातच्य वानातच्य वोत्तरे शालाखण्डे शिक्य आसजत्यथ प्रतिप्रस्थाता दक्षिणया द्वारोपनिष्क्रम्य दोहयित्वैतेनैव यथेतमेत्य व्रतश्रपणे तप्त्वोदगुद्वास्य शीतीकृत्वातच्य वानातच्य वा दक्षिणे शालाखण्डे शिक्य आसजत्य्
अथोदितेषु नक्षत्रेषु यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुवः सुवर्व्रतं कृणुत व्रतं कृणुतेति त्रिर्वाचं विसृजतेऽथातिथीनामुपस्थामेति
चनसितवतीं विचक्षणवतीं वाचं वदति
स यद्यु हामेध्यमुपाधिगच्छति तज्जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षे मा मा हासीरित्यथ यद्येनमभिवर्षत्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त म मे दीक्षां मा तपो निर्वधिष्टेत्येवं तत्र जपति
तस्यैते यजुषी परिप्लवे आ सँ स्थायै भवतोऽथास्मै निपतः काले यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
स यदि बहुतयमुपस्तीर्णं भवति कृष्णाजिनादेवानन्तर्हितः संविशत्यथ संवेशनयजुर्जपति ६

अग्ने त्वँ सु जागृहि वयँ सु मन्दिषीमहि । गोपाय नः स्वस्तये प्रबुधे नः पुनर्दद इति
दक्षिणतः शय एतद्वै यजमानस्यायतनँ स्व एवायतने शयेऽग्निमभ्यावृत्य शये देवता एव यज्ञमभ्यावृत्य शय इति ब्राह्मणम्
अथैषा पत्नी जघनेन गार्हपत्यँ संविशति तूष्णीम्
अथाध्वर्युर्मध्यरात्र आद्रुत्य प्रबुद्धयजुर्वाचयति त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्य इत्यथाप आचामति दैवीं धियं मनामहे सुमृडीकामभिष्टये । वर्चोधाम्यज्ञवाहसं सुपारा नो असद्वश इत्य्
अथास्मै कँ से वा चमसे वा निःषिच्य व्रतं प्रयच्छति
तद्दक्षिणतः परिश्रित्य व्रतयति ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्य्यजुषा यावन्मात्रं व्रतयित्वा तूष्णीं भूयो व्रतयत्येतस्मिन्काले प्रतिप्रस्थाता पत्न्यै पात्रे निःषिच्य व्रतं प्रयच्छति
तत्सा परिश्रित्य व्रतयति तूष्णीं निर्णिज्य पात्रे प्रयच्छतोऽथ तथैव पुरा नक्षत्राणामन्तर्धानात्संप्रेष्य वाचंयमयोर्व्रते दोहयतोऽथोदित आदित्ये यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुवः सुवर्व्रतं कृणुत व्रतं कृणुतेति त्रिर्वाचं विसृजते
समानो वाचो विसर्गः समानँ संवेशनयजुः समानं प्रबुद्धयजुः समानमपामाचमनँ समानं व्रतनम्
अथ सनीहारान्प्रहिणोति
स यं मन्यते न मा प्रत्याख्यास्यतीति तं प्रथममभि प्रहिणोति विश्वे देवा अभि मामाववृत्रन्पूषा सन्या सोमो राधसा देवः सविता वसोर्वसुदावेत्याहरन्तं दृष्ट्वा जपति नानाहरन्तं रास्वेयत्सोमा भूयो भर मा पृणन्पूर्त्या विराधि माहमायुषेति
स यथारूपं प्रतिगृह्णाति ७

चन्द्र मसीति हिरण्यम्वस्त्रमसीति वास उस्रासीति गां हयोऽसीत्यश्वं छागोऽसीति छागम्मेषोऽसीति मेषम्
अथ यद्ब्राह्मणेनानादिष्टं भवति प्राजापत्यमसि मम भोगाय भवेत्येव तत्प्रतिगृह्णाति
ताः समुदायुत्य रक्षन्ति
तासां या नश्यति वा म्रियते वा वायवे त्वेति तामनुदिशति

याप्सु वा पाशे वा वरुणाय त्वेति तां या सं वा शीर्यते गर्तं वा पतति निरृत्यै त्वेति तां यामहिर्वा व्याघ्रो वा हन्ति रुद्रा य त्वेति तां तासां तिस्रः पराच्योऽथ येयं नष्टा यदि विन्देयुः कथँ स्यादित्येतदनुदिष्टैव स्यादित्येतदेकं कमस्या अतः श्रेयाँ सं प्रतिग्रहीतारं लभेत
दक्षिणाभिरेवैनाँ सह दद्यादित्येकम्वायव्ययैवैनया यजेतेत्येतदपरम् ८

अथातः प्रयाणस्यैव मीमाँ सा
दीक्ष्तितं वायोगक्षेमो विन्दत्यन्यत्र वा देवयजनाद्दीक्षते सँ सृजन्ति व्रते
संबध्नन्ति व्रतदुघयोर्वत्सवादधति यदाघेयं भवति नीडे गार्हपत्यं प्रौग आहवनीयम्
अपि वारण्योरग्नीन्समारोह्य बृहस्पतिवत्यर्चा प्रयाति भद्रा दभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्यथ यद्येनं यान्तं व्रतनवेलोपाधिगच्छत्युत्तरतोऽरणी निधाय दक्षिणतः परिश्रित्य व्रतयति
तूष्णीं तृणोदकायावस्यत्यथ यद्यपर्याणा अप उपाधिगच्छति तज्जपति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रि यावान्मदिन्तमस्तं वो मावक्रमिषमच्छिन्नं तन्तुं पृथिव्या अनु गेषमिति

सं वा गाहते सं वा तरति
सेतुमेव कृत्वात्येतीति ब्राह्मणम्
अथ यत्र वत्स्यन्भवति तदवस्यत्यथेमवस्य वर आ पृथिव्या इत्यथादित्यमुद्यन्तमुपतिष्ठत आरे शत्रून्कृणुहि सर्ववीर इत्यथ यत्र यक्ष्यमाणो भवति तदवस्यत्येदमगन्म देवयजनं पृथिव्या इत्यान्तादनुवाकस्य ९


अथातः क्रयस्यैवोपवसथः पर्याप्लवते
स उपकल्पयते चन्द्रं च छागां च कृष्णबलक्ष्यावूर्णास्तुके उष्णीषं द्वे वाससी द्वे कृष्णाजिने सोमक्रयणीँ सैषारुणा पिङ्गलैकहायनी भवति सोमवाहनावनड्वाहौ सोमवाहनमनः प्रक्षालितमुद्धृतफलकँ रोहितं चर्मानडुहं द्वयमिध्माबर्हिः कार्ष्मर्यमयान्परिधीनाश्ववालं प्रस्तरमैक्षवी विधृती स्थालीं पद्धरणीमँ शुग्रहणँ हिरण्यमौदुम्बरीँ राजासन्दीं तस्यै नाभिदघ्नाः पादा भवन्त्यरत्निमात्राणि शीर्षाण्यनूच्यानि
सा मौञ्जीभी रज्जुभिर्व्यूता भवत्येकसराभिर्मनाग्वर्षीयसीमिव सम्राडासन्दीं यदि प्रवर्ग्यवान्सोमो भवत्यथाध्वर्युरपररात्र आद्रुत्य सँ शास्ति त्रिस्तनव्रतं दोहयतेति

प्रातरुदित आदित्ये विसृष्टायां वाच्यग्रेण शालां तिष्ठन्देवयजनमध्यवस्यति यदि पुरस्तादनध्यवसितं भवत्यथाहैहि यजमानेति
पूर्वया द्वारा शालां प्रपाद्य पृष्ठ्याँ स्तीर्त्वापः प्रणीयादित्यं चरुम्प्रायणीयामिष्टिं निर्वपति
हविष्कृता वाचं विसृज्य गार्हपत्य आज्यं विलाप्योत्पूयाहवनीये स्रुवाहुतिं जुहोति कविर्यज्ञस्य वितनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतः सनीयान्स्वाहेत्यथोपनिष्क्रम्य संप्रैषमाह सोमविक्रयिन्सोमँ शोधयोपरवाणां काले रोहिते चर्मण्यानडुहेऽपामन्ते ब्राह्मणो दक्षिणत आस्तां ता गावो दूरं मा गुर्यासु सोमक्रयणी च सोमवाहनौ चानड्वाहौ सोमवाहनमनः प्रक्षालयतोद्धृतफलकमिति
यथासंप्रैषं ते कुर्वन्त्यथैतेनैव यथेतमेत्याथैतं चरुँ श्रपयित्वाभिघार्योदञ्चमुद्वास्य षड्ढोत्रा प्रायणीयमासादयति
समानं कर्मा प्रयाजेभ्यः
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँ स्रावेण पञ्चकृत्वो ध्रुवामभिघार्य चरुमभिघारयत्युपभृतमन्ततोऽथ चतुर आज्यस्य गृह्णान आह १०

पथ्यायै स्वस्तय इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह पथ्याँ स्वस्तिमित्युपाँ शु यजेत्युच्चैर्वषट्कृते पूर्वार्धे जुहोत्यथ चतुर एवाज्यस्य गृह्णान आहाग्नय इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याहाग्निमित्युपाँ शु यजेत्युच्चैर्वषट्कृते दक्षिणार्धे जुहोत्य्
अथ चतुर एवाज्यस्य गृह्णान आह सोमायेत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह सोममित्युपाँ शु यजेत्युच्चैर्वषट्कृतेऽपरार्धे जुहोत्यथ चतुर एवाज्यस्य गृह्णान आह सवित्र इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह सवितारमित्युपाँ शु यजेत्युच्चैर्वषट्कृत उत्तरार्धे जुहोत्यथोपस्तीर्य पूर्वार्धाच्चरोरवद्यन्नाहादित्यईत्युपाँ श्वनुब्रूहीत्युच्चैः
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्त्यत्याक्रम्याश्राव्याहादितिमित्युपाँ शु यजेत्युच्चैर्वषट्कृते मध्ये जुहोत्यथ वै भवत्यदितिमिष्ट्वा मारुतीमृचमन्वाह
मरुतो यद्ध वो दिव इत्यथोपस्तीर्योत्तरार्धाच्चरोरवद्यन्नाहाग्नये स्विष्टकृतेऽनुब्रूहीत्यथ वै भवत्यष्टावत्तः स्विष्टकृद्द्वादशावत्तेडा
द्विरभिघारयति न प्रत्यनक्त्यथैतन्मेक्षणमधोऽधः स्रुचावाग्नीध्रायोत्प्रयच्छन्नाहातिवालयतादेव मानुप्रहार्षीरित्यत्याक्रम्याश्राव्याहाग्निँ स्विष्टकृतं यजेति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यत्रैतन्मेक्षणमाहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा प्राशित्रमवदायेडामवद्यत्युपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्ते ११

अथ परिक्रमिणः सँ शास्त्यनुच्छिष्टीकुर्वन्त एतं चरुं व्युद्धृत्य प्राश्नीताथैतां चरुस्थालीँ सक्षामकाषामेतन्मेक्षणमेतं वेदमेतद्बर्हिश्चतुष्टयमुदयनीयाय निधत्तादिति
शंय्वन्तः प्रायणीयः संतिष्ठत
अत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथैतद्ध्रुवाज्यमाप्याय्य स्रुचि चतुर्गृहीतं गृहीत्वा सूत्रेण हिरण्यं निष्टर्क्यं बद्ध्वा दर्भनाड्यां प्रग्रथ्य स्रुच्यवदधातीयं ते शुक्र तनूरिदं वर्चस्तया संभव भ्राजं गच्छेत्यत्रैतां दर्भनाडीँ स्रुग्दण्ड उपसंगृह्याहवनीये जुहोत्यन्वारब्धे यजमाने जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे वाचो यन्त्रमशीय स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाथ याचति स्फ्यमुदपात्रं बर्हिर्हिरण्यमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्नी स्थालीं पद्धरणीमादाय पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्यजमानमाज्यमवेक्षयति शुक्रमस्यमृतमसि वैश्वदेवँ हविरित्यथैनँ हिरण्यमन्तर्धायादित्यमुदीक्षयति सूर्यस्य चक्षुरारुहमग्नेरक्ष्णः कनीनिकां यदेतशेभिरीयसे भ्राजमानो विपश्चितेत्यथैताँ सोमक्रयणीमग्रेण शालामुदीचीमतिवित्सयन्ति
तामनुमन्त्रयते चिदसि मनासीत्यान्तादनुवाकस्याथाह दक्षिणस्येर्मस्य सप्तमं पदं जोषयध्वमिति
तस्यै षट्पदान्यनुनिक्रामति १२

वस्व्यसि रुद्रा स्यदितिरस्यादित्यासि शुक्रासि चन्द्रा सीति
सप्तमं पदमभिगृह्णाति बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिराचिकेत्वित्यथैतस्मिन्पदे हिरण्यं निधाय संपरिस्तीर्याभिजुहोति पृथिव्यास्त्वा मूर्धन्नाजिघर्मि देवयजन इडायाः पदे घृतवति स्वाहेत्यपोद्धृत्य हिरण्यँ स्फ्येन वा कृष्णविषाणया वा पदं परिलिखति परिलिखितँ रक्षः परिलिखिता अरातय इदमहँ रक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीत्य्
अथैनत्स्फ्येनोपसंग्राहं यावत्त्मूतं पद्धरण्याँ संवपत्यस्मे रायोऽस्मे राय इति त्रिस्त्वे राय इति यजमानाय प्रयच्छति
तोते राय इति यजमानः पत्न्या अथ पत्नीँ सोमक्रयण्या समीक्षयति सं देवि देव्योर्वश्या पश्यस्वेत्यथ पत्नी यजमानमीक्षते त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशीत्यथ यजमानः सोमक्रयणीमीक्षते माहँ रायस्पोषेण वियोषमित्यथैनद्धिरण्यमद्भिः प्रक्षाल्य मध्यमायामङ्गुलौ बध्नीतेऽथैनं पदाशयमद्भिरुपसृजत्युत्सृजन्ति सोमक्रयणीं नयन्ति पत्नीं नि पद दधति १३

अथात्रैव तिष्ठन्याचति चन्द्रं च छागां च कृष्णबलक्ष्यावूर्णास्तुके उष्णीषं द्वे वाससी द्वे कृष्णाजिने सोमक्रयणीमित्यथ पृच्छति सोमविक्रयिञ्छुद्धस्ते सोमा३ इति
शुद्ध इतीतरः प्रत्याह

सुविचितँ राजानं पुरस्ताद्भागाभिरुपतिष्ठत एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताद्छन्दोमानाँ साम्राज्यं गच्छेति मे सोमाय ब्रूतादित्यथैतद्रो हितं चर्मानडुहमुत्तरलोमास्तीर्याथैतद्द्विगुणं वासः प्राचीनदशमुत्तरार्धे चर्मण उपस्तृणात्यथ हिरण्यवता पाणिना राजानमभिमृशत्यँ शुना ते अँ शुः पृच्यतां परुषा परुर्गन्धस्ते काममवतु मदाय रसो अच्युतोऽमात्योऽसि शुक्रस्ते ग्रह इत्यथैनमतिच्छन्दसर्चा मिमीत एकयैकयोत्सगं मिमीतेऽयातयाम्नियायातयाम्नियैवैनं मिमीते
सर्वास्वङ्गुष्ठमुपनिगृह्णात्यभि त्यं देवँ सवितारमूण्योः कविक्रतुमर्चामि सत्यसवसँ रत्नधामभि प्रियं मतिम्। ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा सुवरिति
पञ्चकृत्वो यजुषा पञ्चकृत्वस्तूष्णीं दशकृत्वो मिमानोऽर्धवेलाँ राज्ञो मिमीतेऽथातिशिष्टँ राजानं प्रजाभ्यस्त्वेत्युपसमूहति
समुच्चित्य वसनस्यान्तान्प्रदक्षिणमुष्णीषेणोपनह्यति प्राणाय त्वेति
व्यानाय त्वेत्यनुशृन्थत्यथोपरिष्टादङ्गुल्यावकाशं कृत्वा यजमानमवेक्षयति प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्त्वित्यथैनं चर्मणि निदधाति
तं ततः कौत्स आदत्तेऽद्भिरभ्युक्ष्य चर्मोदूहत्य्
अथोपोत्थाय पृच्छति सोमविक्रयिन्क्रय्यस्ते सोमा३ इति
क्रय्य इतीतरः प्रत्याह
मूजवता३ इति
मूजवतो हीतीतरः प्रत्याहाथैनं गवा पणते गवा ते क्रीणानीति
क्रीतः सोम इत्याह सोमविक्रयी वयाँ सि व्याचक्ष्वेत्येषा ते सोमक्रयणी चन्द्रं ते छागा ते वस्त्रं त इत्यथैनँ हिरण्येन पणते १४

सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यवन्तमभिमातिषाहँ शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रे णामृतममृतेन संयत्ते गोरित्युक्त्वास्मे चन्द्रा णीति यजमानाय प्रयच्छत्यथैनं प्रतीचीनग्रीवयाजया पणते तपसस्तनूरसि प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोषं पुष्यन्त्याश्चरमेण पशुना क्रीणामीत्यस्मे ते बन्धुरिति यजमानमीक्षते
मयि ते रायः श्रयन्तामित्यात्मानम्
अथैनां प्रदक्षिणमावर्त्याद्भिरभ्युक्ष्योदीचीमुत्सृजति
सैषा कौत्सस्य भवत्यथ कौत्साद्रा जानमादत्ते मित्रो न एहि सुमित्रधा इति
तं यजमानस्योरौ दक्षिण आसादयतीन्द्र स्योरुमाविश दक्षिणमुशन्नुशन्तँ स्योनः स्योनमित्यथैनं प्रत्यपोर्णुते यजमानोऽद्भिरभ्युक्ष्य कौत्साय वा परिकर्मिणे वोष्णीषं प्रयच्छत्यथ यजमानँ शुक्लयोर्णास्तुकयाध्यस्यत्यस्मे ज्योतिरित्यथैतां कृष्णामुपग्रथ्नातीदमहँ सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीति
तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इत्यथ सोमक्रयणाननुदिशति स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन्नित्य्
अथैनमादायोपोत्तिष्ठत्युदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अन्विति
दक्षिणत एतत्सोमवाहनमनः प्रागीषं योग्यकृतमुपस्थितं भवति
तदभिप्रैत्युर्वन्तरिक्षमन्विहीति
तस्य नीडे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
अथैनमुपतिष्ठतेऽस्तभ्नाद्द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानीत्यथैनं वाससा परितनोति वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्नियासु हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात्सोममद्र वित्यथोदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यथ सोमवाहनावानीयमानौ प्रतिमन्त्रयत उस्रावेतं धूर्षाहावनश्रू अवीरहणौ ब्रह्मचोदनविति
तयोर्दक्षिणं पूर्वं युनक्ति वरुणस्य स्कम्भनमसीति
वरुणस्य स्कम्भसर्जनमसीति शम्यामवगूहति
प्रत्यस्तो वरुणस्य पाश इति योक्त्रम्
एतयैवावृतोत्तरमनड्वाहं युनक्त्यथ दक्षिणामीषामन्वारभ्य संप्रैषमाह १५

सोमाय क्रीताय प्रोह्यमाणायानुब्रूहि सुब्रह्मण्य सुब्रह्मण्यामाह्वय मा तु त्वमाह्वा यजमान आह्वास्यतीति
यदा यजमानस्त्रिरुपाँ श्वाह्वयतेऽथैष सुब्रह्मण्योऽन्तरेणेषे तिष्ठन्पलाशशाखां धारयन्सुब्रह्मण्यामाह्वयति सुब्रह्मण्योँ सुब्रह्मण्योमिति त्रिस्
त्रिरुक्तायां प्रच्यावयन्ति प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुरादघद्श्येनो भूत्वा परापत यजमानस्य नो गृहे देवैः सँ स्कृतमिति

प्रदक्षिणँ राजानं परिवहन्त्यथैतावञ्जसोपसंक्रामतोऽध्वर्युश्च यजमानश्च यजमानस्य स्वस्त्ययन्यस्यपि पन्थामगस्महि स्वस्तिगामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्वित्यथाग्रेण शालां तिष्ठन्नोह्यमानँ राजानं प्रतिमन्त्रयते नमो मित्रस्य वरुणस्य चक्षसे महो द्वाय तदृतँ सपर्यत दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शँ सतेत्यथैतत्सोमवाहनमनोऽग्रेण शालामुदगीषमुपस्थापयन्ति
तदुपस्तभ्नोति वरुणस्य स्कम्भनमसीति
वरुणस्य स्कम्भसर्जनमसीति शम्यामुद्गूहत्युन्मुक्तो वरुणस्य पाश इति योक्त्रम्
अथ वै भवति
विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथातिथ्यं गृह्णाति यज्ञस्य संतत्यै पत्न्यन्वारभत इति ब्राह्मणम्
अथाहैहि यजमानेति
पूर्वया द्वारा शालां प्रपाद्य पृष्ठ्याँ स्तीर्त्वापः प्रणीयातिथ्यं निर्वपत्यन्वारब्धायां पत्न्याम्
अथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वा १६

अग्नेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा सोमस्यातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वातिथेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वाग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा श्येनाय त्वा सोमभृते विष्णवे त्वा जुष्टं निर्वपामीति

पञ्चकृत्वो यजुषा
हविष्कृता वाचं विसृज्यैतयैवावृतोत्तरमनड्वाहं विमुञ्चत्यथैते ब्राह्मणाश्चत्वार आसन्दीमाददतेऽथ यजमानो नीडाद्रा जानमादत्ते या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञमिति
पूर्व एवासन्द्या प्रतिपद्यन्तेऽन्वग्राज्ञा यजमानोऽन्वक्छूद्र उदपात्रेण
पूर्वया द्वारा शालां प्रपादयति गयस्फानः प्रतरणः सुवीरोऽवीरः प्रचरा सोम दूर्यानित्यथैतामासन्दीमग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निदधति
तस्यां कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
अथैनमुपतिष्ठते वरुणोऽसि धृतव्रतो वारुणमसीति
समुच्चित्य कृष्णाजिनस्यान्तान्स्पन्द्यया विग्रथ्य वँ शे प्रग्रथ्नाति शंयोर्देवानाँ सख्यादित्यथापरावासन्दीपादावन्तरेण ब्राह्मणोऽभिषिञ्चति शूद्रः प्रक्षालयति मा देवानामपसश्छित्स्महीत्यथैनं वारुण्यर्चा परिचरति तत्त्वा यामि ब्रह्मणा वन्दमान इत्यथैनँ सँ शास्ति मा राजानं चाहवनीयं चान्तरेण कश्चन संचारीद्मैनँ सायुधो मा सदण्डो मा सच्छत्त्रो मा सोष्णीषो मा साधस्पाद्योऽनुप्रपादीदित्यथास्मै मधुपर्कं च गां च प्राहुस्
तामध्वर्युर्विशास्ति १७

श्रपयन्त्येतमातिथ्यं वैष्णवं नवकपालं तेन सह मदन्तीरधिश्रयति
शिल्पवदेतदिध्माबर्हिरातिथ्यस्य भवति
कार्ष्मर्यमयैः परिधिभिराश्ववालेन प्रस्तरेणैक्षवीभ्यां विधृतीभ्यां तेन शिल्पवत्

त्वचं पुरोडाशस्य ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिग्राह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहीत्याहृतासु प्रोक्षाणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचश्च संमार्ष्ट्याज्येनोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धं चतुर्गृहीतानि वा पञ्चगृहीतानि वाज्यानि गृहीत्वा प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णाति
पञ्चविधं बर्हि स्तीर्त्वा प्रस्तर पाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरे
एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याथैतं पुरोडाशमुपस्तीर्णाभिघारितमुद्वास्य चतुर्होत्रातिथ्यमासादयत्यत्र संभारान्व्याचष्टेऽथ निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति
प्रहृत्याभिहुत्याथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मं न समिधं पैशिनष्टि
वेदेनोपवाज्ययत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति

संमृष्टे स्रुग्भ्यामुत्तरम्
अथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा ध्रुवाँ समज्य सादयित्वा स्रुचौ प्रवरं प्रवृनीते
प्रसिद्धँ होतारं वृणीते
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहोति यज यजेति
चतुर्थं यक्ष्यन्नत्रैतदौपभृतमाज्यँ सर्वश एव जुह्वाँ समानयते
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँ स्रावेण ध्रुवामभिघार्य पुरोडाशमभिघारयति नोपभृतम्
अथाग्नये सोमायेत्याज्यभागाभ्यां चरत्युपाँ शु हविषा चरति विष्णवेऽनुब्रूहि विष्णुं यजेत्यथ स्विष्टकृता चरतीडान्त आतिथ्यः संतिष्ठतेऽत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यत्रैतद्ध्रुवाज्यमाप्याय्य कँ सं वा चमसं वा याचति
तमन्तर्वेदि निधाय तस्मिन्नेतत्तानूनप्त्रं निगृह्णाति १८

आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्नोजिष्ठाय त्वा गृह्णामीति
स यावन्त ऋत्विजस्त एनत्समवमृशन्त्यनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तेन्यमिति
यजमानमतिवाचयत्यनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा सत्यमुपगेषं सुविते मा धा इति
स यावन्त ऋत्विजस्तेषूपहवमिष्ट्वा यजमान एव त्रिरवजिघ्रति प्रजापतौ त्वा मनसि जुहोमीत्यथैनदद्भिरभ्युन्नीयोत्तरतः सिञ्चत्यथाहाग्नीन्मदन्त्यापा३ इति
मदन्ति देवीरमृता ऋतावृध इति
ताभिराद्र वेत्यथ मदन्तीरुपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययन्त्यँ शुरँ शुस्ते देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्रा य प्यायस्वेति

यजमानमतिवाचयत्याप्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेत्यथाप उपस्पृश्य यथायतनमुपविशन्त्यथाध्वर्युर्वाजवतीभ्याँ स्रुचौ व्यूहति
विधृतीभ्यां प्रस्तरँ समुल्लुप्याप्रतिशृणँ स्त्रेधानक्ति
न प्रस्तरायाश्रावयति
न बर्हिरनुप्रहरति
तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरिणो निह्नुवत एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति
परिधिषु शकलानुपसंगृह्णाति प्रस्तरे बर्हिर्यावन्मात्रँ स्पन्द्यया विग्रथ्याहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्यथ यजमानमवान्तरदीक्षामुपनयत्यग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूरेषा सा त्वयि या तव तनूरियँ सा मयि सह नौ व्रतपते व्रतिनोर्व्रतानीत्यथैनँ सँ शास्ति संतरं मेखलाँ समायच्छस्व संतरां मुष्टी कुरुष्व तप्तव्रत एधि मदन्तीभिर्मार्जयस्वोत्पूर्वं व्रतनँ सृज या ते अग्ने रुद्रि या तनूस्तया नः पाहि तस्यास्ते स्वाहेत्येतेनातोऽधि व्रतयेति
स एवमेवैतत्सर्वं करोति १९

अथ प्रवर्ग्यस्यावृता प्रवर्ग्येण चरत्यथ स्फ्यमाददान आहाग्नीन्मदन्तीरधिश्रय हविरधिश्रयेह्युपसीदेत्येतास्वेव मदन्तीषु भूयसीरप आनयत्याज्यमधिश्रयति
तद्धविरथैतस्यैव बर्हिष स्तीर्णस्य पर्यवलोपँ स्तम्बयजुर्हरत्य्
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह मदन्तीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचौ च संमृड्ढि हविषोदेहीत्याहृतासु मदन्तीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचौ च संमार्ष्टि
हविषोदेति
हविश्च मदन्तीश्चोत्पूयाष्टौ कृत्वो जुह्वां गृह्णीते
चतुरुपभृत्याज्यस्थाल्यां तृतीयामुत्प्रदाय मदन्तीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णात्येकविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरे
एते असदतामिति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यमुपविश्य देवपत्नीर्व्याचष्टेऽथैतेनैव यथेतमेत्याथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मँ सकृद्वा त्रिर्वा
न समिधं परिशिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्टे न स्रुग्भ्यामुत्तरम्
अथ प्रवरं प्रवृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषट्सीद होतरित्येतावान्प्रवरः
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावाददान आह २०

अग्नय इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याहाग्निमित्युपाँ शु यजेत्युच्चैर्वषट्कृते पूर्वार्धेऽर्धवेलां जुहोत्यथात्रैव तिष्ठन्नाह सोमायेत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याह सोममित्युपाँ शु यजेत्युच्चैर्वषट्कृते मध्ये जुहोत्यथ समानयमान आह विष्णव इत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याह विष्णुमित्युपाँ शु यजेत्युच्चैर्वषट्कृते पश्चात्सर्वं जुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वाथाहाग्नीन्मदन्त्यापा३ इति
मदन्ति देवीरमृता ऋतावृध इति
ताभिराद्र वेत्यथ मदन्तीरुपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययन्त्यँ शुरँ शुस्ते देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्रा य प्यायस्वेति
यजमानमतिवाचयत्याप्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेत्यथाप उपस्पृश्य यथायतनमुपविशन्त्यथाध्वर्युर्वाजवतीभ्याँ स्रुचौ व्यूहति
विधृतीभ्यां प्रस्तरँ समुल्लुप्याप्रतिशृणँ स्त्रेधानक्ति
न प्रस्तरायाश्रावयति
न बर्हिरनुप्रहरति
तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरिणो निह्नुवत एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति
सव्ये पाणौ प्रस्तरँ समावृत्याज्यस्थाल्याः स्रुवेणोपहत्य प्रथमामुपसदं जुहोति या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीम्त्वेषं वचो अपावधीँ स्वाहेति
परिधिषु शकलानुपसंगृह्णाति प्रस्तरे बर्हिर्यावन्मात्रँ स्पन्द्यया विग्रथ्याहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्य्
अथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं प्रयच्छत्यथापराह्ण आपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
तयोः समानी चर्यैतावदेव नाना
सव्योत्तरिणो निह्नुवतेऽथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं दोहयतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं दोहयति
तदर्धरात्रे प्रयच्छति २१

अथाध्वर्युरपररात्र आद्रुत्य सँ शास्ति द्विस्तनव्रतं दोहयतेति
प्रातरुदित आदित्ये विसृष्टायां वाचि मध्यमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
रजाशयामत्र जुहोत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय द्विस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां द्विस्तनव्रतं प्रयच्छति
स आहवनीयादेवाग्रे षट्प्राचः प्रक्रमान्प्रक्रामति
तच्छङ्कुं निहन्ति
स शालामुखीयः शङ्कुः
शालामुखीयाच्छङ्कोः षट्त्रिँ शत्प्राचः प्रक्रमान्प्रक्रामति
तच्छङ्कुं निहन्ति
स यूपावटीयः शङ्कुः
शालामुखीयाच्छङ्कोः पञ्चदश दक्षिणा प्रक्रमान्प्रक्रामति पञ्चदशोदीचस्
तच्छङ्कू निहन्ति
ते श्रोणी
यूपावटीयाच्छङ्कोर्द्वादश दक्षिणा प्रक्रमान्प्रक्रामति द्वादशोदीचस्
तच्छङ्कू निहन्ति

तावँ सवथैनामक्ष्णया मानेन प्रमाय समन्तँ स्पन्द्यया परितनोति
पृष्ठ्यामातनोति
यूपावटीयाच्छङ्कोरनुस्पन्द्यं द्वादश प्रत्यञ्चि क्षुद्र पदानि प्रक्रामति
स मध्यम औत्तरवेदिकः शङ्कुर्मध्यमादौत्तरवेदिकाच्छङ्कोः पञ्च दक्षिणा क्षुद्र पदानि प्रक्रामति पञ्चोदञ्चि
तच्छङ्कू निहन्ति
ते श्रोणी
यूपावटीयाच्छङ्कोश्चत्वारि दक्षिणा क्षुद्र पदानि प्रक्रामति चत्वार्युदञ्चि
तच्छङ्कू निहन्ति
तावँ सवथैनामक्ष्णया मानेन प्रमाय समन्तँ स्पन्द्यया परितनोति
पृष्ठ्यामातनोति
मध्यमादौत्तरवेदिकाच्छङ्कोरनुस्पन्द्यँ षट्प्रतीचः प्रक्रमान्प्रक्रामति दक्षिणा सप्तमं तत्स्फ्यं निदधाति
स उपरवाणां कालोऽथ महावेद्या उत्तरादँ सीयाच्छङ्कोर्वेद्यन्तेन द्वादश प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं त्रयोदशं तदाग्नीध्र उपसीदति
स उत्करस्य कालोऽथोपरवाणां कालात्स्तम्बयजुर्हरति २२

इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपतीमां नराः कृणुत वेदिमेत्य वसुमतीँ रुद्र वतीमादित्यवतीं विश्वदेव्यावतीम्वर्ष्मन्दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येदित्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथाग्रेण शालां तिष्ठन्संप्रैषमाह वेदिकारा वेदिं कल्पयत प्र स्थलानि भिन्दत प्रति निम्नान्पूरयत किँ शारूणि निरस्यत प्राचीमुदीचीं प्रणवां निस्तिष्ठतेति
यथासंप्रैषं ते कुर्वन्त्यथ महावेद्या उत्तरादँ सीयाच्छङ्कोर्वेद्यन्तेन त्रीन्प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं चतुर्थं
तच्चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याथैनां प्रतिच्छाद्यापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय द्विस्तनव्रतं दोहयतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां द्विस्तनव्रतं दोहयति
तदर्धरात्रे प्रयच्छति २३

अथाध्वर्युरपररात्र आद्रुत्य सँ शास्त्येकस्तनव्रतं दोहयतेति
प्रातरुदित आदित्ये विसृष्टायां वाच्युत्तमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
हराशयामत्र जुहोत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वयार्धस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्याम्
अर्धस्तनव्रतं प्रयच्छत्यथ तदानीमेवापराह्णिकी प्रवर्ग्योपसदौ समस्योपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः प्रवर्ग्यस्यावृता प्रवर्ग्यँ सँ सादयोद्वासनायेति
त्रेधैतत्पदं कुर्वन्ति
गार्हपत्ये तृतीयमुपयमनीषु तृतीयं नि तृतीयं दधत्यथ प्रवर्ग्यस्यावृता प्रवर्ग्यमुद्वासयत्यग्नेरावृताग्निं प्रणयत्यग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादयेत्येतावान्संप्रैषोऽत्रैवैतद्बर्हिरनुस्पन्द्यँ स्तृणाति सकृदेवैतदेवेध्माबर्हिरग्नीषोमीयाय पशवे परिशयीतेत्येक आहुरथास्यैते अनसी प्रक्षालिते प्रपन्ने योग्यकृते अभितः शालां तिष्ठतस्

तयोर्दक्षिणं वर्षीय उत्तरँ ह्रसीय उद्धृतफलकं दक्षिणमनुद्धृतफलकमुत्तरं तयोर्यदक्षे बद्धं तदवस्यत्यथैने अन्तर्वेद्यभ्यावर्तयन्त्यथाग्रेण शालामरत्निमात्रमभित स्पन्द्याँ स्थापयित्वाथैने प्रोक्षति वैष्णवी विष्णवे शुन्धेथामित्यथाहैहि यजमानेति
पूर्वया द्वारा शालां प्रपाद्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये सावित्रं जुहोत्यन्वारब्धे यजमाने युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इद्मही देवस्य सवितुः परिष्टुतिः स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाथ याचत्याज्यस्थालीँ सस्रुवाँ स्फ्यमुदपात्रं बर्हिर्हिरण्यमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्नी पदतृतीयमादाय पूर्वया द्वारोपनिष्क्रम्य दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य दक्षिणस्यां वर्तन्याँ स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्याभिजुहोतीदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पाँ सुरे स्वाहेत्यथैतेषां पदपाँ सूनामर्धान्पत्न्यञ्जलावावपत्यथैनान्संस्रावेणाभिघारयति
सा प्राचोत्तानेन पाणिना दक्षिणमक्षधुरमुपानक्त्या नो वीरो जायतां कर्मण्यो यँ सर्वेऽनुजीवाम यो बहूनामसद्वशीत्यपरं चतुर्गृहीतं गृहीत्वोत्तरस्य हविर्धानस्य पश्चादक्षमुपसृप्योत्तरस्यां वर्तन्याँ स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्याभिजुहोतीरावती धेनुमती हि भूतँ सूयवसिनी मनवे यशस्ये । व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः स्वाहेत्य्
अत्रैतान्पदपाँ सून्सर्वश एव पत्न्यञ्जलावावपत्यथैनान्सँ स्रावेणाभिघारयति
सा प्राचोत्तानेनैव पाणिनोत्तरमक्षधुरमुपानक्ति
समान उपाञ्जनोऽथैतानि शस्त्राणि प्रतिप्रस्थात्र उत्प्रयच्छति
नयन्ति पत्नीँ ह्वयन्ति होतारम्
अथैने संपरिगृह्य संप्रैषमाह २४

हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति
त्रिरुक्तायां प्रवर्तयन्ति प्राची प्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जीह्वरतमित्यथ यद्यक्ष उत्सर्जति सुवाग्देव दुर्याँ आवदेत्येव तत्र जपत्यथैतावञ्जसोपसंक्रामतोऽध्वर्युश्च प्रतिप्रस्थाता चोत्तरेण हविर्धाने परीत्य पूर्वाव्युपातीत्य मध्यमादौत्तरवेदिकाच्छङ्कोरनुस्पन्द्यं त्रीन्प्रतीचः प्रक्रमान्प्रक्रामतस्
तदेनयोर्नभ्यस्थयोश्चुबुके रमयतोऽत्र रमेथां वर्ष्मन्पृथिव्या इत्यथ दिवो वा विष्णवुत वा पृथिव्या इत्याशीर्पदयर्चाध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणतो मेथीं निहन्त्यथैनाँ स्पन्द्यया सूपनिबद्धामुपनिबध्नाति विष्णोर्नुकं वीर्याणि प्रवोचमित्येवमेव प्रतिप्रस्थातोत्तरस्य हविर्धानस्योत्तरतो मेथीं निहन्त्य्
अथैनाँ स्पन्द्यया सूपनिबद्धामुपनिबध्नात्येतेनैव मन्त्रेणाथाध्वर्युर्दक्षिणस्य हविर्धानस्य चुबुकात्प्राञ्चमरत्निं मीत्वा लोके न्यस्य गर्तं खानयत्यथ दक्षिणाद्युगान्तात्प्राञ्चं बाहुं मीत्वा लोके न्यस्य गर्तं खानयति
तावुभावुत्तरेणान्यं गर्तं खानयत्येवमेव प्रतिप्रस्थातोत्तरतस्त्रीन्गर्तान्खानयत्येवमपरतस्
तेषु प्राचीनकर्णा स्थूणा उच्छ्रयन्ति
तासूदञ्चौ वँ शौ प्रोहन्त्यध्यस्यन्ति पुरस्ताद्र राटीं विष्णो रराटमसीति
विष्णोः पृष्ठमसीति मध्यमं छदिरधिनिदधाति
विष्णो श्न्यप्त्रे स्थ इति ये अभितो भवतो दक्षिणतश्चोत्तरतश्च परिश्रयन्ति
प्राचीं च प्रतीचीं च द्वारौ कुर्वन्त्यथ दक्षिणे द्वार्बाहौ कुशहस्तमुपनिगृह्य दर्भणं प्रवयति दर्भणे स्पन्द्याम्विष्णोः स्यूरसीति
विष्णोर्ध्रुवमसीति ग्रन्थिं करोति
तं तदानीमेव विस्रस्याहाकुर्वन्तो ग्रन्थीन्हस्तकौशलैर्निस्तिष्ठतेत्येवमेवोत्तरं द्वार्बाहुम्
एवमपरे द्वार्बाहू निस्तिष्ठत्यथैनदभिमृशति वैष्णवमसि विष्णवे त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य शालामुखीयाच्छङ्कोरनुस्पन्द्यँ षट्प्राचः प्रक्रमान्प्रक्रामति दक्षिणा सप्तमं
तदभ्रिं निदधाति
स औदुम्बर्यै कालेऽउदुम्बर्यै कालादभ्रिमादत्ते २५

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
तयौदुम्बर्या अवटं परिलिखति परिलिखितँ रक्षः परिलिखिता अरातय इदमहँ रक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीत्यथोद्गातारमाहोद्गातरेहीममौदुम्बर्या अवटं खन प्राक्पुरीषमुद्वपतादिति
तँ स खनति वा खानयति वा
सोऽत एव सदो विमिमीते
यथा त्रीणि छदीँ षि तिर्यञ्च्येवं प्राक्शो यथा त्रीणि छदीँ ष्यन्वञ्च्येवमुदक्शोऽपि वा यथा द्वौ भागावुदक्स्पन्द्यायै स्यातामेको दक्षिणत इति
तस्य त्रिश्रेणिगर्तान्खानयति
सोऽत एव प्राङ्द्रुत्वा दक्षिणस्य हविर्धानस्य पुरोऽक्षमुपरवान्विमिमीते प्रादेशमुखान्प्रादेशान्तस्पादान्
अथोन्नेतारमाहोन्नेतरे हीमानुपरवान्खन प्रादेशमुखान्प्रादेशान्तस्पादान्बाहुमात्रानवाचोऽसंभिन्दन्नुपरिष्टादधस्तात्संतृण्णानिति

तान्स खनति वा खानयति वाथैषां पुरीषं दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं निवपति
तं चतुरश्रं खरं करोत्यथैनँ सिकताभिराभ्राशिनं करोत्यथोपरवाणां कालादभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
तया यूपावटं परिलिखति यथान्तर्वेद्यर्धँ स्याद्बहिर्वेद्यर्धम्परिलिखितँ रक्षः परिलिखिता अरातय इदमहँ रक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीत्यथाग्नीध्रमाहाग्नीदेहीमं यूपावटं खनोपरसंमितं प्राक्पुरीषमुद्वपताद्चतुरङ्गुलेनोपरमतिखनतादिति
तँ स खनति वा खानयति वा
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थातौदुम्बरीँ स्थूणां यजमानेन संमायाधस्तात्परिवासयत्यच्छिन्नो रायः सुवीर इत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य याचति यवमतीः प्रोक्षणीर्बर्हिर्हस्तमाज्यस्थालीँ सस्रुवां मैत्रावरुणदण्डँ हिरण्यमुदपात्रमित्येतत्समादायाहैहि यजमानेत्यौदुम्बर्येषा स्थूणा प्रक्षालिता प्रपन्ना प्रागवटादुपशेते
तां परस्तादर्वाचीं प्रोक्षति २६

दिवे त्वानतरिक्षाय त्वा पृथिव्यै त्वेत्यवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति
यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति
बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणाँ सदनमसीत्य्
अथैनद्धिरण्यमन्तर्धाय स्रुवाहुत्याभिजुहोति पितृभ्यः स्वाहेत्यथैनामुच्छ्रयत्युद्दिवँ स्तभानान्तरिक्षं पृण पृथिवीं दृँ हेत्यथैनां प्राचीनकर्णां मिनोति द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण धर्मणेत्यथैना प्रदक्षिणं पुरीषेण पर्यूहति ब्रह्मवनिं त्वा क्षत्रवनिँ सुप्रजावनिँ रायस्पोषवनिं पर्यूहामीति
मैत्रावरुणदण्डेन सँ हन्ति ब्रह्म दृँ ह क्षत्रँ दृँ ह प्रजां दृँ ह आयस्पोषं दृँ हेत्यन्यूनमनतिरिक्तं परिन्यस्योदपात्रमुपनिनीयाथास्यै विशाखे हिरण्यं निधाय स्रुवाहुत्याभिजुहोति घृतेन द्यावापृथिवी आपृणेथाँ स्वाहेत्यान्तमन्ववस्रावयत्यान्तमेव यजमानं तेजसानक्तीति ब्राह्मणम्
अथैनामुद्गातृभ्यः प्राहुस्
तस्यां तच्चेष्टन्ति यत्ते विदुरेतस्या उच्छ्रयणमनु प्राचीनकर्णा स्तूणा उच्छ्रयन्ति
तासूदीचो वँ शान्प्रोहन्त्यध्यस्यन्ति मध्यमं छदिरिन्द्र स्य सदोऽसीति
विश्वजनस्य छायेति ये अभितो भवतो नवच्छदि तेजस्कामस्य मिनुयादिति
त्रीणित्रीण्येव सर्वाणि भवन्ति
दक्षिणान्युत्तराणि करोति
स दक्षिणानिदक्षिणान्येवोत्तराणि करोत्यन्तर्वर्तान्करोति व्यावृत्त्या इति
सन्धिषु तृणवर्तान्प्रत्यस्यति
तेऽन्तर्वर्ता अथैनत्परिश्रयन्ति परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इति

दक्षिणतश्चोत्तरतश्च परिश्रयन्ति
प्राचीं च प्रतीचीं च द्वारौ कुर्वन्त्यथ दक्षिणे द्वार्बाहौ कुशहस्तमुपनिगृह्य दर्भणं प्रवयति दर्भणे स्पन्द्यामिन्द्र स्य स्यूरसीतीन्द्र स्य ध्रुवमसीति ग्रन्थिं करोति
तं तदानीमेव विस्रस्याहाकुर्वन्तो ग्रन्थीन्हस्तकौशलैर्निस्तिष्ठतेत्येवमेवोत्तरं द्वार्बाहुम्
एवमपरे द्वार्बाहू निस्तिष्ठत्यथैनदभिमृशत्यैन्द्र मसीन्द्रा य त्वेत्यथ महावेद्या उत्तरादँ सीयाच्छङ्कोर्वेद्यन्ते नाष्टादश प्रतीचः प्रक्रमान्प्रक्रामति
तदाग्नीध्रागारं विमिमीते यथान्तर्वेद्यर्धँ स्याद्बहिर्वेद्यर्धम्
अथैनत्समुच्चित्य परिश्रयन्ति
तस्य दक्षिणां द्वारं कुर्वन्त्याग्नीध्रागारस्य पार्श्वमानी पञ्चारत्निरेतेन मार्जालीयो व्याख्यातस्
तस्योदीचीं द्वारं कुर्वन्ति २७

अथात्रैव तिष्ठन्याचत्यभ्रिं यवमतीः प्रोक्षणीर्बर्हिर्हस्तमाज्यस्थालीँ सस्रुवामधिषवणं चर्माधिषवणे फलके षट्छङ्कून्ग्रावाणँ हिरण्यमुदपात्रमित्येतत्समादायाहैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य दक्षिणस्य हविर्धानस्य नीड एतच्चर्मोत्सादयति
पुरोऽक्षमितराणि सँ सादयन्त्यथोपरवाणां कालादभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इ इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
तयोपरवान्परिलिखति पूर्वयोर्दक्षिणमेवाग्रे परिलिखितँ रक्षः परिलिखिता अरातय इदमहँ रक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीति सर्वानेवानुपूर्वं
खनति रक्षोहणो वलगहनो वैष्णवान्खनामीति सर्वानेवानुपूर्वम्
अथैभ्यः पाँ सूनुद्वपतीदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेदमेनमधरं करोमि यो नः समानो योऽसमानोऽरातीयति गायत्रेण छन्दसेत्यवबाढो वलग इति यजमानस्याधस्पदं पाँ सूनुद्वपति पूर्वयोर्दक्षिणात्
त्रैष्टुभेन छन्दसेत्यपरयोर्दक्षिणाद्जागतेन छन्दसेत्यपरयोरुत्तरादानुष्टुभेन छन्दसेति पूर्वयोरुत्तरादत्रैतान्पदपाँ सूनसञ्चरे परावपत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्याथैनानवमृशतोऽध्वर्युश्च यजमानश्च पूर्वयोर्दक्षिणमेवाध्वर्युरवमृशत्युत्तरं यजमानोऽथ यजमानः पृच्छति अध्वर्यो किमत्रेति
भद्र मिति
तन्नौ सहेत्यथाध्वर्युः पृच्छति यजमान किमत्रेति
भद्र मिति
तन्नौ सहेति
यमेवाध्वर्युः प्रजहाति तं यजमानोऽवमृशति
दक्षिणयोरपरमेवाध्वर्युरवमृशति पूर्वं यजमानोऽध्वर्युरत्र पृच्छत्यथ यजमानोऽपरयोरुत्तरमेवाध्वर्युरवमृशति दक्षिणं यजमानो यजमानोऽत्र पृच्छत्यथाध्वर्युरुत्तरयोः पूर्वमेवाध्वर्युरवमृशत्यपरं यजमानोऽध्वर्युरत्र पृच्छत्यथ यजमानो यजमानः प्रथमः पृच्छति यजमान उत्तमोऽथैनानभिमृशति विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणाँ हन्तेति सर्वानेवानुपूर्वम्

अथैनानद्भिः प्रोक्षति रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति सर्वानेवानुपूर्वम्
अथैष्वपोऽवनयति रक्षोहणो वलगहनेऽवनयामि वैष्णवानिति सर्वेष्वेवानुपूर्वम्
अथैषु यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति सर्वेष्वेवानुपूर्वम्
अथैनान्बर्हिषावस्तृणाति रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवानिति सर्वानेवानुपूर्वम्
अथैनान्हिरण्यमन्तर्धाय स्रुवाहुत्याभिजुहोति रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवान्स्वाहेति सर्वानेवानुपूर्वम्
अथास्यैते फलके दीर्घसोमे संतृण्णे भवतोऽसंतृण्णे एकाहे
ते सँ स्पृष्टे उपदधाति रक्षोहणौ वलगहनावुपदधामि वैष्णवी इत्यथैने शङ्कुभिः परिणिहन्ति द्वाभ्यां पुरस्ताद्द्वाभ्यां पश्चाद्द्वाभ्यामभितोऽनवसर्पणायाथैने प्रदक्षिणं पुरीषेण पर्यूहति रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इत्यथैने बर्हिषा परिस्तृणाति रक्षोहणौ वलगहनौ परिष्तृणामि वैष्णवी इत्यथैने अभिमृशति रक्षोहणौ वलगहनौ वैष्णवी इत्यथैतच्चर्म फलकयोः प्राचीनग्रीवमुत्तरलोमोपस्तृणाति यज्ञ प्रतितिष्ठेति वा तूष्णीं वा
तिरश्चर्मन्फलके ग्राव्णोद्वादयति २८

बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्रा य वाचं वदेति
नीड एतच्चर्मोत्सादयति

ग्रावसु ग्रावाणमप्यर्जत्यथ दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं बर्हिर्मुष्टिमुपनिबध्नाति स्तोत्रेभ्योऽथ याचति स्फ्यमुदपात्रं चात्वालात्पुरीषँ सिकता इत्येतत्समादायाहैहि यजमानेत्याग्नीध्रं द्रुत्वा स्फ्येनोद्धत्यावोक्ष्य चात्वालात्पुरीषँ सिकता इति निवपति विभूरसि प्रवाहणो रौद्रे णानीकेन पाहि माग्ने पिपृहि मा मा मा हिँ सीरिति
तं परिमण्डलं धिष्णियं करोत्यथैनँ सिकताभिराभ्राशिनं करोत्यथान्तःसदसं धिष्णियान्निवपति होतुः प्रथमम्वह्निरसि हव्यवाहन इति
श्वात्रोऽसि प्रचेता इति दक्षिणतो मैत्रावरुणस्य
तुथोऽसि विश्ववेदा इत्युत्तरतो ब्राह्मणाच्छँ सिन उशिगसि कविरित्युत्तरतः पोतुरङ्घारिरसि बम्भारिरित्युत्तरतो नेष्टुरवस्युरसि दुवस्वानित्युत्तरतोऽच्छावाकस्याथ दक्षिणे वेद्यन्ते मार्जालीयं धिष्णियं निवपति शुन्ध्यूरसि मार्जालीय इति
सर्वेष्वेव रौद्र मनुवर्तयत्याग्नीध्रेऽन्ततो निवपत्युदक्सँ स्थताया इत्यष्टौ न्यवाप्सीदित्यथाष्टावनुदिशति
सम्राडसि कृशानुरित्याहवनीयमुपतिष्ठते
परिषद्योऽसि पवमान इत्यास्तावम्प्रतक्वासि नभस्वानिति चात्वालम्
असंमृष्टोऽसि हव्यसूद इति पशुश्रपणम्
अथ सदसो द्वारि तिष्ठन्नौदुम्बरीमुपतिष्ठत ऋतधामासि सुवर्ज्योतिरिति

ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनम्
अथात्रैव तिष्ठन्गार्हपत्यमुपतिष्ठतेऽजोऽस्येकपादित्यहिरसि बुध्निय इति यं प्रहास्यन्तो भवन्ति २९

अथात्रैव तिष्ठन्संप्रैषमाह स्तृणीत बर्हिः प्र व्रतं यच्छत समपिव्रतान्ह्वयध्वमास्तावं बहुलँ स्तृणीत सदोहविर्धाने बहुले स्तृणीतोन्नेतर्ग्राव्णो वायव्यानि द्रो णकलशे दशपवित्रे समवधाय पत्नीशाले सँ सादयाग्नीदाज्यमधिश्रय प्रतिप्रस्थातः स्रुचः संमृड्ढ्याज्येनोदेहि पृषदाज्याय दध्याहरेति
यथासंप्रैषं ते कुर्वन्त्यथ दक्षिणे वेद्यन्ते बर्हिर्मुष्टिँ स्तृणाति देवबर्हिरूर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्य इति
तां बहुलां पुरस्तात्प्रत्यञ्च स्तृणन्तो यन्त्यथान्तःशालं पृषदाज्यवन्त्याज्यानि गृहीत्वा परिकर्मिभ्य उत्प्रदाय ब्रह्मणे राजानमुत्प्रयच्छति
तं ब्रह्मादायोत्तरतस्तिष्ठत्युत्तरतस्तिष्ठन्नग्निमन्वानयत्युदग्ने तिष्ठानु मानुदेहि विश्वैर्देवैर्यज्ञियैः संविदानः । सुवर्गे लोके यजमानँ हि धेहि मास्यै हास्था आहुत्यै यामुपेम इत्यथाभ्यादधातीध्मं प्रणयनीयम्
उपोपयमनीः कल्पयन्ति चात्वालात्
समन्वारब्धेष्वपिव्रतेषु संप्रच्छन्नेषु गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये वैसर्जनानि जुहोति त्वँ सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरूथँ स्वाहेति

स्रुवेणाप्तुं प्रस्कन्दयति जुषाणो अप्तुराज्यस्य वेतु स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा संप्रैषमाहाग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति
त्रिरुक्तायामुद्यच्छन्ते
होतुर्वशं यन्त्यथ वै भवति
प्राञ्चमग्निं प्रहरन्त्युत्पत्नीमानयन्त्यन्वनाँ सि प्रवर्तयन्तीति
यदस्यात्र शस्त्रं भवति पूर्वं तेनाग्निमन्ववस्यन्त्यथाग्निप्रथमाः प्रतिपद्यन्तेऽन्वग्राज्ञा चाज्यैश्चान्वग्ग्राव्णो वायव्यानि
पूर्वया द्वारोपनिष्क्रामन्त्ययं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन्। अयं शत्रूञ्जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातवित्युत्तरेण सदः परीत्याग्नीधागारेऽग्निं निधाय नयवत्यर्चाग्नीध्रे जुहोत्यग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम स्वाहेत्यत्रैवैतद्ग्रावोवायव्यँ समुपसाद्योपातियन्ति राज्ञा चाज्यैश्चाहवनीये स्रुवाहुतिं जुहोत्युरु विष्णो विक्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति ३०

अथ प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णाति
पञ्चविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्याथाप उपस्पृश्य ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयति सोमो जिगाति गातुविद्देवानामेति निष्कृतमृतस्य योनिमासदमित्यथ दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
अथैनं देवताभ्यः संप्रयच्छत्येष वो देव सवतितः सोमस्तँ रक्षध्वं मा वो दभदिति
संप्रदायोपतिष्ठत एतत्त्वँ सोम देवो देवानुपागा इदमहं मनुष्यो मनुष्यान्सह प्रजया सह रायस्पोषेणेति
नमो देवेभ्य इति प्राञ्चमञ्जलिं करोति
स्वधा पितृभ्य इति दक्षिणा न्यचत्यथोपनिष्क्रामतीदमहं निर्वरुणस्य पाशादित्यथाहवनीयमुपतिष्ठते सुवरभिविख्येषं वैश्वानरं ज्योतिरित्यथ यजमानमवान्तरदीक्षां विसर्जयत्यग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूस्त्वय्यभूदियँ सा मयि या तव तनूर्मय्यभूदेषा सा त्व्ययि यथायथं नौ व्रतपते व्रतिनोर्व्रतानीत्यथैनँ सँ शास्ति स्रस्नीष्व मेखलां प्र मुष्टी सारय मैत्रावरुणाय दण्डं प्रयच्छ यजमान इति त्वाचक्षतां नामग्राहं ते पितृभिः पितामहैः प्रपितामहैः पुत्रैः पौत्रैः सुब्रह्मण्यः सुब्रह्मण्यामाह्वयत्विति

स एवमेवैतत्सर्वं करोत्यथ यूपाहुतिँ हुत्वा यूपं यजुषा करोति
यूपावटं यजुषा करोति
तदेतद्यूपावटान्तम् ३१

अथ यूपस्यावृता यूपमुच्छ्रयति
स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरोति
तस्य प्रसिद्धं वपया चरित्वा वपाश्रपणी अनुप्रहृत्य समुत्क्रम्य चात्वाले मार्जयन्तेऽथ यो वीडितः कुम्भस्तं याचति
तमादायान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तद्यन्ति
नान्तमा वहन्तीरत्येति
न स्थावराणां गृह्णाति
प्रतीपं तिष्ठन्गृह्णाति
छायायै चातपतश्च संधौ गृह्णाति हविष्मतीरिमा आपो हविष्मान्देवो अध्वरो हविष्माँ आविवासति हविष्माँ स्तु सूर्य इत्यथैना आदाय प्रदक्षिणमावृत्य सव्येऽँ से निधायैतेनैव यथेतमेत्योत्तरेणाग्नीध्रीयं परीत्योत्तरेण सदः परीत्य पूर्वया द्वारा शालां प्रपाद्य जघनेन गार्हपत्यमौपसदायां वेद्याँ सँ स्पृष्टाः सादयत्यग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीः सुम्ने मा धत्तेत्यथ पशुपुरोडाशं निर्वपतीडान्तः पशुपुरोडाशः संतिष्ठते
पत्नीसंयाजान्तः पशुर्हृदयशूलान्त इत्येके ३२

अथ वसतीवरीः परिहरिष्यन्नाह व्यपक्रामत मा वोऽभिपरिहारिषमिति
यजमानायतने यजमान उपविशति
जघनेन गार्हपत्यं पत्न्यथैना आदाय दक्षिणया द्वारोपनिर्हृत्य सव्येऽँ से निधाय दक्षिणेन सदः परीत्य दक्षिणेन मार्जालीयं धिष्णियं पर्याहृत्य दक्षिणतो यूपेन सँ स्पृष्टाः सादयतीन्द्रा ग्नियोर्भागधेयी स्थेत्यथैना आदायोदङ्ङावृत्य दक्षिणेऽँ से निधायैतेनैव यथेतमेत्य जघनेन गार्हपत्यमौपसदायां वेद्याँ सँ स्पृष्टाः सादयति मित्रावरुणयोर्भागधेयी स्थेत्यथैना आदाय पूर्वया द्वारोपनिर्हृत्य दक्षिण एवाँ से निधायोत्तरेण सदः परीत्योत्तरेणाग्नीध्रीयं धिष्णियं पर्याहृत्योत्तरतो यूपेन सँ स्पृष्टाः सादयति विश्वेषां देवानां भागधेयी स्थेत्यथैना आदाय प्रदक्षिणमावृत्य सव्येऽँ से निधायैतेनैव यथेतमेत्य जघनेनाग्नीध्रीयं धिष्णियँ सँ स्पृष्टाः सादयति यज्ञे जागृतेति ३३

अथ पयाँ सि विशास्ति या सम्राड्धुक्तस्यै दधिघर्माय दधि कुरुत या यजमानस्य तस्या आमिक्षायै या पत्न्यै तस्या आशिरे पयश्च सक्तूँ श्च कुरुत शृतातङ्क्यमादित्यग्रहाय दधि कुरुत पुरोडाशीयानि पिष्टानि कुरुत धाना हारियोजनीः कुरुत चतुरोऽम्भृणाँ स्त्रीनुदचनानयुज एकधनाँ स्त्र्यवमानेकादशपरमाँ श्चतस्रो रशनाश्चतस्रो वपाश्रपणीर्द्वयमिध्माबर्हिरौदुम्बरान्महापरिधीन्कुरुत सुब्रह्मण्यः सुब्रह्मण्यामाह्वयत्विति

यथासंप्रैषं ते कुर्वन्त्यथैतानम्भृणानायातयत्युत्तरस्य हविर्धानस्य नीड आधवनीयम्प्रौगे पूतभृतं तयोः समान उदचन आग्नीध्र एकँ सोदचनम्मार्जालीय एकँ सोदचनम्
आग्नीध्र एताँ रात्रिं यजमानः संविशति
हविर्धाने राजानं गोपायन्ति ३४

सप्तमः प्रश्नः
अथातो महारात्र एव बुध्यन्ते
संबोधयन्त्येतानृत्विजोऽध्वर्युँ होतारं ब्रह्माणमुद्गातारं प्रतिप्रस्थातारं प्रस्तोतारं प्रशास्तारं ब्राह्मणाच्छँ सिनमच्छावाकं नेष्टारं पोतारँ सदस्यमुन्नेतारमाग्नीध्रं ग्रावस्तुतँ सुब्रह्मण्यं प्रतिहर्तारं ये चान्ये परिकर्मिणो भवन्ति
ते हस्तपादान्प्रक्षाल्याग्नीध्रे यजमानमुपसंगच्छन्तेऽथाध्वर्युर्हस्तौ संमृशते कर्मणे वां देवेभ्यः शकेयमित्यथात्रैव तिष्ठन्संप्रैषमाहोन्नेतर्ग्राव्णो वायव्यानि द्रो णकलशे दशापवित्रे समवधाय दक्षिणस्य हविर्धानस्य पुरोऽक्षँ सँ सादयाग्नीदाज्यमधिश्रय प्रतिप्रस्थातः स्रुचः संमृड्ढ्याज्येनोदेहि पृषदाज्याय दध्याहरेति
यथासंप्रैषं ते कुर्वन्त्यथाध्वर्युराग्नेय्यर्चाग्नीध्रमभिमृशत्यग्निर्मूर्धा दिव इति
वैष्णव्या हविर्धानम्विष्णो त्वं नो अन्तम इत्याग्नेय्या स्रुचोऽयमग्निः सहस्रिण इति
वायव्यया वायव्यानि वायो शतँ हरीणामित्यैन्द्र् या सद इन्द्रं विश्वा अवीवृधन्नित्यथ पृषदाज्यवन्त्याज्यानि गृहीत्वा प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्प्रस्तरं गृह्णात्येकविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्यौदुम्बरान्महापरिधीन्परिदधाति नित्येन परिधानेनाथैनान्योगेन युनक्ति
युनज्मि ते पृथिवीं ज्योतिषा सहेति मध्यमं युनज्मि वायुमन्तरिक्षेण ते सहेति दक्षिणम्मृशति युनज्मि तिस्रो विपृचः सूर्यस्य त इत्यथाप उपस्पृश्याहैहि यजमानेति

पूर्वया द्वारा हविर्धानं प्रपाद्याथैतच्चर्म फलकयोः प्राचीनग्रीवमुत्तरलोमोपस्तृणाति यज्ञ प्रतितिष्ठेति वा तूष्णीं वा
तस्मिन्संमुखान्ग्राव्णः कृत्वा दक्षिणस्य हविर्धानस्यान्तरेणेषे राजानमुपावहरति हृदे त्वा मनसे त्वा सोम राजन्नेह्यवरोहेति द्वाभ्याम्
अथैनमुद्गातृभ्यः प्राहुस्तस्मिँ स्तच्चेष्टन्ति यत्ते विदुरथाप उपस्पृश्याहैहि यजमानेत्याग्नीध्रं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा पञ्चहोतारं मनसानुद्रुत्याग्नीध्रे जुहोत्यन्वारब्धे यजमाने स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाग्नीध्र एवासन्यां जुहोत्यासन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्याः स्वाहेत्यथाहवनीये घृतानुषिक्तँ शकलमभ्यादधाति तूष्णीम्
अथात्रैव तिष्ठन्संप्रैषमाह १

प्रातर्यावभ्यो देवेभ्यो होतरनुब्रूहि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वयाग्नीत्सवनीयान्निर्वप प्रतिप्रस्थातः खरे पात्राणि युङ्धीति
यथासंप्रैषं ते कुर्वन्ति
प्रतिपद्यत एष होता प्रातरनुवाकं यच्छति ब्रह्मा वाचम्
आह्वयति सुब्रह्मण्यः सुब्रह्मण्यां तस्यामाहुतायां ब्रह्मा वाचं विसृजते
निर्वपत्येष आग्नीध्र ऐन्द्रा नेकादशकपालान्सवनीयांस्तेषां व्रीहिष्वेव हविष्कृतमुद्वादयत्युपोद्यच्छन्ते यावान्
अथ प्रतिप्रस्थाता खरे पात्राणि युनक्ति

पूर्वार्धे खरस्य दक्षिणाशिरसमुपाँ शुसवनं निदधाति दक्षिणत उपाँ शुपात्रमुत्तरतोऽन्तर्यामपात्रमुपसँ स्पृष्टे
असँ स्पृष्टे अभिचरतः
पश्चाद्द्विदेवत्यपात्राण्यन्वञ्च्यैन्द्र वायवपात्रं मैत्रावरुणपात्रमाश्विनपात्रम्पश्चाच्छुक्रामन्थिनोः प्रबाहुग्दक्षिणँ शुक्रपात्रमुत्तरं मन्थिपात्रम्
अग्रेण मन्थिपात्रमृतुपात्रे
पश्चादाग्रयणस्थालीं दक्षिणस्यां खरश्रोण्यामादित्यस्थालीँ सोपशयाम्
उत्तरस्यां खरश्रोण्यामुक्थ्यस्थालीँ सोपशयाम्
उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम्
अन्तरेण पूतभृदाधवनीयौ चमसान्
दक्षिणस्य हविर्धानस्य पश्चादक्षं द्रो णकलशं दशापवित्रे इति निदधात्यथैनान्यभिमृशत्यग्निर्देवता गायत्री छन्द उपाँ शोः पात्रमसीति दशभिर्दशाथाध्वर्युः सं वा विशति कर्माणि वानुप्रेक्षमाण आस्ते २

अथ यत्र होतुरभिजानात्यभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः । अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवमिति तत्प्रचर्ण्याँ स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने शृणोत्वग्निः समिधा हवं मे शृण्वन्त्वापो धिषणाश्च देवीः । शृणोत ग्रावाणो विदुषो नु यज्ञं शृणोतु देवः सविता हवं मे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा बर्हिरादाय संप्रैषमाहाप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्र वैकधनिन एत नेष्टः पत्नीमुदानयाग्नीद्धोतृचमसेन च मा वसतीवरीभिश्च चात्वाले प्रत्युपलम्बस्वेति
यथासंप्रैषं ते कुर्वन्त्य्
आनयति नेष्टा पत्नीं पान्नेजनं कलशमादाय प्रेह्युदेहीत्येतेन निगदेनाथैनां पूर्वया द्वारोपनिष्क्रमय्योत्तरेण सदः परीत्योत्तरेणाग्नीधीयं धिष्णियं पर्याणीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तद्यन्त्यथाप्सु बर्हिः प्रास्याभिजुहोति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रि यावान्मदिन्तमस्तं देवेभ्यो देवत्रा धत्त शुक्रँ शुक्रपेभ्यो येषां भाग स्थ स्वाहेति
मैत्रावरुणचमसेनाहुतिमपप्लावयति कार्षिरस्यपापां मृध्रमिति
बर्हिषी अन्तर्धायोन्नयति समुद्र स्य वोऽक्षित्या उन्नय इत्यथैकधनान्गृह्णातीन्द्रा य वो जुष्टान्गृह्णामीति वा तूष्णीं वाथ पन्नेजनीर्गृह्णाति वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर्गृह्णामि यज्ञाय वः पन्नेजनीर्गृह्णामीति
ताः पत्न्यै संप्रदायोदायन्त्यन्वारब्धे यजमान एतेनैव यथेतमेत्य चात्वाले होतृचमसं च मैत्रावरुणचमसं च सँ स्पर्श्य वसतीवरीर्व्यानयति
पूरयति होतृचमसम्
अप्तुं मैत्रावरुणचमसे प्रस्कन्दयत्यथ होतृचमसं वसतीवरीर्मैत्रावरुणचमसमिति त्रयँ संनिधाय प्रतिस्तोमं प्रचरण्या समनक्ति सं ज्योतिषा ज्योतिरङ्क्ताँ सँ शुक्राः शुक्रेण सँ हविषा हविः सं यज्ञपतिराशिषेत्यथैषा पत्न्येतेनैव यथेतमेत्य जघनेन गार्हपत्यमौपसदायां वेद्याँ संस्पृष्टाः सादयति तूष्णीम् ३

अथाध्वर्युर्होतुरुत्काशमेति
होताध्वर्युं पृच्छत्यध्वर्योऽवेरपा३ इत्युतेमनन्नमुरुतेमाः पश्येतीतरः प्रत्याहाथ यद्यग्निष्टोमो जुहोति यमग्ने पृत्सु मर्त्यमावो वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः स्वाहेत्य्
अथ यद्युक्थ्य एतेनैव यजुषा मध्यमे परिधौ निमार्ष्ट्यथ यद्यतिरात्र एतदेव यजुर्वदन्प्रपद्यते
यज्ञक्रतूनां व्यावृत्त्या इति ब्राह्मणम्
अथैता होतृचमसीया दक्षिणस्य हविर्धानस्यान्तरेणेषेऽपातिहृत्य नीड उत्सादयत्यथोदुब्ज्याधवनीयँ सर्वश एव मैत्रावरुणचमसीयाः पर्यस्यति
तृतीयं वसतीवरीणामवनयति
तृतीयमेकधनानाम्पुरोऽक्षं वसतीवरीः सादयति
पश्चादक्षमेकधननान्
अथान्तरेण हविर्धाने उपविश्यौदुम्बरं पात्रं चतुःस्रक्ति याचति
तस्मिन्बर्हिषी अन्तर्धाय प्राजापत्यं दधिग्रहं गृह्णात्युपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दक्षाय दक्षवृधे रातं देवेभ्योऽग्निजिह्वेभ्यस्त्वर्तायुभ्य इन्द्र ज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्य इति
अपोद्धृत्य बर्हिषी अथैनमादायोपोत्तिष्ठति दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति
पूर्वया द्वारोपनिष्क्रामत्यपेन्द्र द्विषतो मनोऽप जिज्यासतो जह्यप यो नोऽरातीयति तं जहीत्येत्याहवनीये जुहोत्यन्वारब्धे यजमाने प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वासते त्वाद्भ्यस्त्वौषधीभ्यो विश्वेभ्यस्त्वा भुतेभ्यो यतः प्रजा अक्खिद्रा अजायन्त तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि स्वाहेति

अथास्य संक्षालनमन्तःपरिधि निनयति
धेनुवरं वानडुद्वरं वा दद्यादिति ह स्माह बौधायनो द्वादश पष्ठौहीरित्याञ्जीगविरृषभमिति कात्यो मणिकुण्डलमिति राथीतरः ४

अथैता होतृचमसीया दक्षिणस्य हविर्धानस्यान्तरेणेषे उपावहृत्य चर्मणि निदधाति
तासु निग्राभ्यासु यजमानं वाचयति निग्राभ्या स्थ देवश्रुत आयुर्मे तर्पयतेति प्रतिपद्य गणा मे मा वितृषन्नित्यातस्ता यजमानाय संप्रदायाथैतेषां ग्राव्णां यः सुजन्तुरिव तमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयते ग्रावास्यध्वरकृद्देवेभ्यो गम्भीरमिममध्वरं कृध्युत्तमेन पविनेन्द्रा य सोमँ सुषुतं मधुमन्तं पयस्वन्तं वृष्टिवनिमित्यथैनं प्राञ्चं प्रश्रित्य विस्रस्य राजानं ग्रावाणमुपाँ शुसवनमभि मिमीत इन्द्रा य त्वा वृत्रघ्न इन्द्रा य त्वा वृत्रतुर इन्द्रा य त्वाभिमातिघ्न इन्द्रा य त्वादित्यवत इन्द्रा य त्वा विश्वदेव्यावत इति
पञ्चकृत्वो यजुषा
पञ्चकृत्वस्तूष्णीं दशकृत्वो मिमानोऽर्धवेलाँ राज्ञो मिमीतेऽथातिशिष्टँ राजानमुष्णीषेण विग्रथ्य दक्षिणस्य हविर्धानस्यान्तरेणेषे उपातिहृत्य नीड उत्सादयत्यथ मितँ राजानँ होतृचमसीयाभिरुपसृजति श्वात्रा स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस्ता देवीर्देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकँ सोमः पिबत्वित्य्
अथैनँ संप्रयौति यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्यधि दात्रे वोच इति
तिरश्चर्मन्फलके अभिमृशति धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जं मे धत्तं मा वाँ हिँ सिषं मा मा हिँ सिष्टमित्यथ वृद्धीर्वाचयत्यवीवृधं वो मनसा सुजाता ऋतप्रजाता भग इद्वः स्याम । इन्द्रे ण देवीर्वीरुधः संविदाना अनु मन्यन्ताँ सवनाय सोममिति
संतृप्तस्य राज्ञः प्रतिप्रस्थाता सव्ये पाणौ षडँ शून्सचतेऽथैतेनैव पाणिनोपाँ शुपात्रमादत्तेऽथोपसृष्टँ राजानमष्टौ कृत्वोऽग्रेऽभिषुणोति
सोऽँ शौ स्कन्ने वाचयत्या मास्कान्त्सह प्रजया सह रायस्पोषेणेन्द्रि यं मे वीर्यं मा निर्वधीरित्यथाञ्जलिनोपहन्ति तूष्णीम्
अन्तर्दधाति प्रतिप्रस्थाता
प्रथमाभ्यामँ शुभ्यामानयत्यध्वर्युर्वाचस्पतये पवस्व वाजिन्निति
सचत एतावँ शू
तथोपसृष्टँ राजानमेकादशकृत्वो द्वितीयमभिषुणोति
नात्राँ शौ स्कन्ने वाचयति
तथाञ्जलिनोपहन्ति तूष्णीमेवान्तर्दधाति प्रतिप्रस्थाता
मध्यमाभ्यामँ शुभ्यामानयत्यध्वर्युर्वृषा वृष्णो अँ शुभ्यां गभस्तिपूत इति
सचत एतावँ शू
तथैवोपसृष्टँ राजानं द्वादशकृत्वस्तृतीयमभिषुणोति
नैवात्राँ शौ स्कन्ने वाचयति
तथैवाञ्जलिनोपहन्ति तूष्णीमेवान्तर्दधाति प्रतिप्रस्थातोत्तमाभ्यामँ शुभ्यामानयत्यध्वर्युर्देवो देवानां पवित्रमसि येषां भागोऽसि तेभ्यस्त्वेति

सचत एतावँ शू
अथैनमुपाँ शुसवनं दशापवित्रेण परिमृज्य पूर्वार्धे खरस्य दक्षिणाशिरसं निदधात्यथ प्रतिप्रस्थातुर्ग्रहमादत्ते स्वांकृतोऽसीति
ग्रहमपयच्छत्यथैनमवेक्षते मधुमतीर्न इषस्कृधीत्यथैनमूर्ध्वमुन्मार्ष्टि विश्वेभ्यस्त्वेन्द्रि येभ्यो दिव्येभ्यः पार्थिवेभ्य इत्यथैनमादायोपोत्तिष्ठति मनस्त्वाष्ट्वित्यैत्युर्वन्तरिक्षमन्विहीत्येत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहा त्वा सुभवः सूर्याय स्वाहेति
हुत्वानुप्राणिति
वाचयति भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहीत्यथैनमवाचीनमवमृज्य प्रतीचा नीचा पाणिना मध्यमे परिधौ निमार्ष्टि देवेभ्यस्त्वा मरीचिपेभ्य इत्यथ प्रदक्षिणमावृत्याग्रयणस्थाल्यां ग्रहस्य सँ स्रावमवनयत्येष ते योनिरित्यथैतस्मिन्नुपाँ सुपात्रेऽँ शुं प्रास्यत्यथैनं दक्षिणत उपाँ शुसवनेन सँ स्पृष्टँ सादयति प्राणाय त्वेति
व्यानाय त्वेत्युपाँ शुसवनं प्रत्यभिमृशते ५

यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता राजन्येवाँ शूनां द्वौद्वावपिसृजति यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेति यत्ते सोम यत्ते सोमेत्यथाभिषोष्यन्तः सर्वश एव राजानं पर्युपविशन्ति
पश्चात्प्राङ्मुखोऽध्वर्युरुपविशति
तस्य दक्षिणं बाहुमनु यजमानो दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रोऽन्तरेण प्रतिप्रस्थातारं चाग्नीद्र् हं च यश्चतुर्थोऽभिषुणोत्यथोन्नेतारमाहाहरोपसृजेत्युपसृजत्युन्नेताधवनीयादुदचनेनोपर्यर्धे होतृचमसेऽँ शून्परिप्लावयन्ति प्रागपागुदगधराक्तास्त्वा दिश आधावन्त्वम्ब निष्वरेत्येष निग्राभ आप्याययन्ति
व्यपोहन्तेऽभिषुण्वन्ति
निग्राभमुपयन्त्याप्याययन्ति
व्यपोहन्तेऽभिषुण्वन्ति
निग्राभमुपयन्त्याप्याययन्ति
व्यपोहन्तेऽभिषुण्वन्ति
न चतुर्थे निग्राभमुपयन्त्यथैनँ सुसंभृतँ संभरण्याँ संभृत्योन्नेत्र उत्प्रयच्छति
एवमेव द्वितीयः पर्यायः संतिष्ठत एवं तृतीय ऋजीषमन्ततो दशापवित्रेण परिवेष्ट्योन्नेत्र उत्प्रयच्छति
तदुन्नेताधवनीये विक्षाल्य प्रपीड्य दक्षिणस्य हविर्धानस्यान्तरेणेषे उपावहृत्य चर्मणि निदधाति
तस्मिन्संमुखान्ग्राव्णः कृत्वा चतुर्धैतदृजीषं ग्रावमुखेभ्यो व्यपोहत्यथोद्गाता वा प्रस्तोता वा दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य प्राञ्चं ग्रावसु द्रो णकलशमध्यूहति
तस्मिन्नुदीचीनदशं दशापवित्रं वितन्वन्ति
तेन तथा कृतेनादित्यस्योदयमाकाङ्क्षन्त उदित आदित्येऽन्तर्यामं गृह्णात्यतिपवमानस्य राज्ञ उपयामगृहीतोऽस्यन्तर्यच्छ मघवन्पाहि सोममुरुष्य रायः समिषो यजस्वान्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षँ सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन्मादयस्वेति

स्वांकृतोऽसीति ग्रहमपयच्छत्यथैनमवेक्षते मधुमतीर्न इषस्कृधीत्यथैनमूर्ध्वमुन्मार्ष्टि विश्वेभ्यस्त्वेन्द्रि येभ्यो दिव्येभ्यः पार्थिवेभ्य इत्यथैनमादायोपोत्तिष्ठति मनस्त्वाष्ट्वित्यैत्युर्वन्तरिक्षमन्विहीत्येत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहा त्वा सुभवः सूर्याय स्वाहेति
हुत्वान्वपानिति
वाचयति धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहीत्यथैनमूर्ध्वमुन्मृज्य प्राचोत्तानेन पाणिना मध्यमे परिधावुन्मार्ष्टि देवेभ्यस्त्वा मरीचिपेभ्य इत्यथ प्रदक्षिणमावृत्याग्रयणस्थायां ग्रहस्य सँ स्रावमवनयत्येष ते योनिरित्यथैनमुत्तरत उपाँ शुसवनेन सँ स्पृष्टँ सादयत्यपानाय त्वेति
व्यानाय त्वेत्युपाँ शुसवनं प्रत्यभिमृशतेऽथोन्नेतारमाहाप्रमत्तः संततमानयोपाँ शु ग्रहान्ग्रहीष्यामीत्यथादत्त ऐन्द्र वायवपात्रं तदेतद्रा स्नावत्परिग्रीवि भवति
तेन गृह्णात्यतिपवमानस्य राज्ञ आ वायो भूष शुचिपा इत्यनुद्रुत्योपयामगृहीतोऽसि वायवे त्वा जुष्टं गृह्णामीत्यथैनमपयत्य पुनरेवोपयच्छतीन्द्र वायू इमे सुता इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्र वायुभ्यां त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिः सजोषाभ्यां त्वेत्यथादत्ते मैत्रावरुणपात्रं तदेतत्पिलकावद्भवति
तेन गृह्णात्यतिपवमानस्य राज्ञोऽयं वां मित्रावरुणेत्यनुद्रुत्योपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामीति

बर्हिषी अन्तर्धाय पयसा श्रीणात्यपोद्धृत्य बर्हिषी दशापवित्रेण परिमृज्य सादयत्येष ते योनिरृतायुभ्यां त्वेत्यथोपातीत्याश्विनपात्रँ शुक्रपात्रमादत्ते
तदेतद्बैल्वं वा पालाशं वा श्लक्ष्णं भवति
तेन गृह्णात्यतिपवमानस्य राज्ञोऽयं वेनश्चोदयदित्यनुद्रुत्योपयामगृहीतोऽसि शण्डाय त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्वीरतां पाहीत्यथादत्ते मन्थिपात्रं तदेतद्वैकङ्कतँ श्लक्ष्णं भवति
तेन गृह्णात्यतिपवमानस्य राज्ञस्तं प्रत्नथेत्यनुद्रुत्योपयामगृहीतोऽसि मर्काय त्वा जुष्टं गृह्णामीति
बर्हिषी अन्तर्धाय सक्तुभिः श्रीणात्यपोद्धृत्य बर्हिषी दशापवित्रेण परिमृज्य साद्यत्येष ते योनिः प्रजाः पाहीत्यथादत्त आग्रयणस्थालीं तया गृह्णात्यतिपवमानस्य राज्ञो ये देवा दिव्येकादश स्थेत्यनुद्रुत्योपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्यो जुष्टं गृह्णामीत्यथैनां त्रिरभिहिङ्करोति ६

हिं हिं हिं सोमः पवते सोमः पवते सोमः पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्यै विशे पवत इषे पवत ऊर्जे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते ब्रह्मवर्चसाय पवतेऽस्मै सुन्वते यजमानाय पवते मह्यमित्युपाँ शूक्त्वा ज्यैष्ठ्याय पवत इत्युच्चैर्
अथैनमधिवदत आग्रयणोऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिमभि सवना पाहि विष्णुस्त्वां पातु विशं त्वं पाहीन्द्रि येणेति
परिमृज्य सादयत्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्युपब्दिमतोऽत ऊर्ध्वं ग्रहान्गृह्णाति त्रिँ शत्त्रयश्च गणिनो रुजन्त इति
रुग्णवत्यर्चा भ्रातृव्यतो गृह्णीयादिति ब्राह्मणम्
अथादत्त उक्थ्यस्थालीं तया गृह्णात्यतिपवमानस्य राज्ञ उपयामगृहीतोऽसीन्द्रा य त्वा बृहद्वते वयस्वत उक्थायुवे यत्त इन्द्र बृहद्वयस्तस्मै त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वोक्थायुव इत्यथादत्ते ध्रुवस्थालीं स आह ये पूर्वया द्वारा प्रापत्सत प्राञ्चस्ते निष्क्रामन्तु येऽपरया प्रत्यञ्चस्ते मा वोऽभिपरिहारिषमिति
जघनेनाभिषोतॄन्सोन्नेतृकानभिपरिहृत्योत्तरत उपयच्छति मूर्धानं दिवो अरतिं पृथिव्या इत्यनुद्रुत्योपयामगृहीतोऽस्यग्नये त्वा वैश्वानराय जुष्टं गृह्णामीत्यथैनमधिवदते ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तम इत्यथैनद्यथाहृतं प्रतिपर्याहृत्योत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते सादयत्येष ते योनिरग्नये त्वा वैश्वानरायेति
ध्रुवेण राजानं परिदधात्यथोपर्यर्धे द्रो णकलशे परिप्लु पात्रं प्रास्य द्र प्साननुमन्त्रयते द्र प्सश्चस्कन्द यस्ते द्र प्सो यो द्र प्सो यस्ते द्र प्स इत्य्
अथोन्नेतारमाहारिक्तं पूतभृतं कुरु पवमानस्य ग्रहान्ग्रहीष्यामीति
तच्छ्रुत्वोन्नेता पूतभृतो बिले पवित्रं वितत्य द्वौ वा त्रीन्वा राज्ञ उदचनानानयत्यथारिक्ते पूतभृति पवमानस्य ग्रहान्गृह्णात्युपयामगृहीतोऽसि प्रजापतये त्वेति द्रो णकलशमभिमृशतीन्द्रा य त्वेत्याधवनीय
विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम्
अथोन्नेतरित्याह प्राञ्चँ राजानं पूतभृततमभि संपवयताद्दशाभ्राधवनीयं मृष्ट्वा न्युब्जतादिति
स तथा करोत्यथाप उपस्पृश्य बर्हिषी आदायोपनिःसर्पति
तं निःसर्पन्तमन्वारभत उद्गातोद्गातारं प्रस्तोता
प्रस्तोतारं प्रतिहर्ता
प्रतिहर्तारं यजमानो यजमानं ब्रह्मा
प्रतिप्रस्थाता सप्तमः सर्पति
तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति ७

अग्निः प्रातःसवने पात्वस्मान्वैश्वानरो महिना विश्वशंभूः । स नः पावको द्र विणं दधात्वायुष्मन्तः सहभक्षाः स्याम स्वाहेत्येतयाध्वर्यू जुहुतो यथावेदमितरे जुह्वत्यथोदञ्चोऽभि पवमानँ सर्पन्ति
प्रह्व एवाध्वर्युः प्रथमो बर्हिषी धुवानः सर्पति वागग्रेगा अग्र एत्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यथास्तावे यथायतनमुपविशन्त्यथोद्गात्रे वा प्रस्तोत्रे वा बर्हिषी प्रयच्छत्यृक्सामयोरुपस्तरणमसि मिथुनस्य प्रजात्या इति वा तूष्णीं वाथोपाकरणं जपति वायुर्हिङ्कर्ताग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिरुद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणं मयि दधत्वोँ स्तुध्वमिति
स एष त्रिवृद्बहिष्पवमानो भवति
तस्य पञ्चम्यां प्रस्तुतायां वाचयति श्येनोऽसि गायत्रच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेत्यत्र दशहोतारं व्याचष्ट उद्द्रुते साम्नि संप्रैषमाहाग्नीदग्नीन्विहर बर्हि स्तृणाहि पुरोदाशाँ अलंकुरु प्रतिप्रस्थातः पशुरन्तिकेऽस्त्विति
यथासंप्रैषं तौ कुरुतोऽथाप उपस्पृश्याहैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य समस्तँ राजानमुपतिष्ठते विष्णो त्वं नो अन्तम इत्यथादत्त आश्विनपात्रं तदेतद्द्व्यश्रि भवति
तस्मिन्गृह्नाति द्रो णकलशात्परिप्लुना पात्रेण या वां कशेत्यनुद्रुत्योपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्माध्वीभ्यां त्वेत्यथाप उपस्पृश्याहैहि यजमानेत्याहवनीयं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा सप्तहोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्यथावकाशैश्चरति परिभूरग्निं परिभूरिन्द्र मित्येतेनानुवाकेनाथ प्रचरण्यां नवकृत्वो गृह्णीतेऽथैष आग्नीध्र आग्नीध्रीयाद्धिष्णियादनुपूर्वं धिष्णियेष्वङ्गारान्विहरत्यथ पुरस्तात्प्रत्यङ्ङासीनो विहृतान्धिष्णियान्व्याघारयति यथान्युप्तैर्मन्त्रैः

स यद्यु ह यथान्युप्तमभिजुहोति सप्त त इत्याग्नीध्रेऽन्ततो जुहोति
यद्यु वै स्वाहा स्वाहेति स्वाहेत्येवान्तत आग्नीध्रीये जुहोत्युदक्सँ स्थताया इत्यथोत्तरस्य हविर्धानस्य चुबुके प्रचरणीँ सादयत्यथ सांकाशिनेन पथा पृष्ठ्याँ स्तृणाति संततां गार्हपत्यादाहवनीयात् ८

अथाध्वर्यू रशनाहस्तो यूपमभ्यैत्युदूह्य पूर्वाँ रशनां नाभिदघ्ने परिव्ययन्नाह परिवीयमाणायानुब्रूहीति
स्वर्वन्तं यूपमुत्सृज्याग्नेयं पशुमुपाकरोति
समानं कर्मा प्रवरात्
प्रसिद्धँ होतारं वृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषडश्विनाध्वर्यू आध्वर्यवादित्यहं चासौ च मानुषविति
प्रतिप्रस्थातुर्नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषड्मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादित्यसौ मानुष इति
मैत्रावरुणस्य नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषडिन्द्रो ब्रह्मा ब्राह्मणादित्यसौ मानुष इति
ब्राह्मणाच्छँ सिनो नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषड्मरुतः पोत्रादित्यसौ मानुष इति
पोतुर्नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषड्ग्नावो नेष्ट्रादित्यसौ मानुष इति
नेष्टुर्नाम गृह्णात्यथाश्रावयत्यो श्रावयास्तु श्रौषडग्निमाग्नीध्रादित्यसौ मानुष इत्यग्नीधो नाम गृह्णाति
तेषां प्रवृतःप्रवृत एव प्रवृताहुतीर्जुहोति
जुष्टो वाचो भूयासमृचा स्तोमँ समर्धय सूर्यो मा देवो देवेभ्यः पात्वित्येताभिरध्वर्यू जुहुतो
यथावेदमितरे जुह्वत्यथाश्रावयत्यो श्रावयास्तु श्रौषडग्निर्ह दैवीनां विशां पुरएतायँ सुन्वन्यजमानो मनुष्याणां तयोरस्थूरि गार्हपत्यं दीदयच्छतँ हिमा द्वा यू राधाँ सीत्संपृञ्चानावसंपृञ्चानौ तन्व इति
समानं कर्मा वपायै
वपया प्रचर्य वपाश्रपणी अनुप्रहृत्य समुत्क्रम्य चात्वाले मार्जयन्तेऽथ यजमानमुत्करे स्फ्यविघनानुपस्थापयति ९

स्फ्यः स्वस्तिर्विघनः स्वस्तिः पर्शुर्वेदिः परशुर्नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन्यज्ञ उपह्वयध्वमुप मा द्यावापृथिवी ह्वयेतामुपास्तावः कलशः सोमो अग्निरुप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्तामित्यथ नमोऽग्नये मखघ्ने मखस्य मा यशोऽर्यादित्याहवनीयमुपतिष्ठते
नमो रुद्रा य मखघ्ने नमस्कृत्या मा पाहीत्याग्नीध्रं नम इन्द्रा य मखघ्न इन्द्रि यं मे वीर्यं मा निर्वधीरिति होत्रीयम्
अथ प्राङावृत्य जपति दृढे स्थः शिथिरे समीची माँ हसस्पातं सूर्यो मा देवो दिव्यादँ हसस्पातु वायुरन्तरिक्षादग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्य इत्यथ प्रदक्षिणमावृत्य पूर्वे द्वारौ सदसः संमृशति देवी द्वारौ मा मा संताप्तमित्यथ सदः प्रपद्यते नमः सदसे नमः सदसस्पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्या इत्यथासनाद्बहिःसदसं तृणं निरस्यत्यहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इत्य्
उपविशत्युन्निवत उदुद्वतश्च गेषमित्यथेमे समीक्षते पातं मा द्यावापृथिवी अद्याह्न इत्यथ दक्षिणार्धं परेक्षत आगन्त पितरः पितृमानहं युष्माभिर्भूयासँ सुप्रजसो मया यूयं भूयास्तेत्यथोत्तरार्धं परेक्षत उदक्सँ स्थताया इति १०

अथेमावध्वर्यू आहवनीयप्रभृत्येवमेवाहवनीयमुपतिष्ठेते
एवमाग्नीध्रीयम्
एवँ होत्रीयम्
एवं प्राञ्चावावृत्य जपत एवं प्रदक्षिणमावृत्य पूर्वे द्वारौ सदसः संमृशत एवँ सदः प्रपद्येते
एवमासनाभ्यां बहिःसदसं तृणे निरस्यतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपविशत्युत्तरं प्रतिप्रस्थातैवमिमे समीक्षेते
एवं दक्षिणार्धं चोत्तरार्धं च परेक्षेते
उदक्सँ स्थताया इत्यथेमे वषट्कर्तार आहवनीयप्रभृत्येवमेवाहवनीयमुपतिष्ठन्त एवमाग्नीध्रीयं तमुत्तरेण परियन्त्येवँ होत्रीयम्
एवं प्राञ्च आवृत्य जपन्त्येवं प्रदक्षिणमावृत्य पूर्वे द्वारौ सदसः संमृशन्त्येवँ सदः प्रपद्यन्तेऽग्रेण धिष्णियानुत्तरेणाच्छावाकस्य धिष्णियं परीत्यैवमासनेभ्यो बहिःसदसं तृणानि निरस्यन्त्येवँ स्वँ स्वमेव धिष्णियमनूपविशन्त्येवमिमे समीक्षन्त एवं दक्षिणार्धं चोत्तरार्धं च परेक्षन्त उदक्सँ स्थताया इत्यथेमे सर्व उद्गातारो ब्रह्मा सदस्य इत्यवषत्कर्तार आहवनीयप्रभृत्येवमेवाहवनीयमुपतिष्ठन्त एवमाग्नीध्रीयं तमुत्तरेण परियन्त्येवँ होत्रीयम्
एवं प्राञ्च आवृत्य जपन्त्य्
एवं प्रदक्षिणमावृत्योत्तरेण सदः परीत्यैवमपरे द्वारौ सदसः संमृशन्त्येवँ सदः प्रपद्यन्त एवमामनेभ्यो बहिःसदसं तृणानि निरस्यन्त्यौदुम्बरीमेवोद्गातारः पर्युपविशन्ति
दक्षिणत उदङ्मुखौ ब्रह्मा सदस्य इत्युपविशत एवमिमे समीक्षन्त एवं दक्षिणार्धं चोत्तरार्धं च परेक्षन्त उदक्सँ स्थताया इत्यथैतेषां विसँ स्थितसंचरोऽन्तरेण होतुश्च धिष्णियं ब्राह्मणाच्छँ सिनश्च येऽधिष्णिया अथ धिष्णियवन्तः स्वँ स्वमेव धिष्णियमुत्तरेणोत्तरेण परियन्ति
ते सँ स्थिते सवने यथाप्रसृप्तमेव विनिःसर्पन्ति ११

संप्रसृप्तान्विदित्वाध्वर्युः सवनीयान्पुरोडाशान्याचत्यथैष आग्नीध्रो जघनेन गार्हपत्यमुपविश्य पात्र्यां पञ्चधोपस्तृणीते
मध्यतः पुरोडाशमुपस्तीर्णाभिघारितमुद्वासयति
पुरस्ताद्धाना दक्षिणतः करम्भम्पश्चात्परिवापम्
आमिक्षामुत्तरतोऽथैनानि संपरिगृह्य पूर्वया द्वारोपनिर्हृत्योत्तरेण सदः परीत्योत्तरेणाग्नीध्रीयं धिष्णियं पर्याहृत्यान्तर्वेद्यासादयत्यथ जुहूपभृतोरुपस्तृणान आह प्रातः प्रातःसावस्येन्द्रा य पुरोडाशानामवदीयमानानामनुब्रूहीति
द्विः पुरोडाशस्यावद्यति
द्विर्धानानां द्विः करम्भस्य
द्विः परिवापस्य
द्विरामिक्षाया अभिघारयति
प्रत्यनक्त्यथोपभृति स्विष्टकृते सर्वेषाँ सकृत्सकृदुत्तरार्धादवद्यति

द्विरभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याह प्रातः प्रातःसावस्येन्द्रा य पुरोडाशान्प्रस्थितान्प्रेष्येति
वषट्कृते जुहोत्यथ समावपमान आहाग्नयेऽनुब्रूहीत्याश्राव्याहाग्नये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा पात्र्यामिडाँ समवधाय प्रतीचः पुरोडाशान्प्रहिणोत्यनु हैके संयन्ति पशव इडेति वदन्तोऽथ प्राङायन्नाह वायव इन्द्र वायुभ्यामनुब्रूहीति
तच्छ्रुत्वा प्रतिप्रस्थातैन्द्र वायवस्य प्रतिनिर्ग्राह्यं गृह्णाति द्रो णकलशात्परिप्लुना पात्रेणादित्यस्थाल्या औपशये पात्र उपयामगृहीतोऽसि वाक्षसदसि वाक्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामीति
ग्रहावादायोपनिष्क्रामत्युपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्त उत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्यं प्रयच्छत्यथ वै भवत्यैन्द्र वायवमादायाघारमाघारयेदिति
स आज्यस्थाल्याः स्रुवेणोपहत्यैन्द्र वायवमादायाघारमाघारयत्यध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशवे नो जनाय विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव सोम स्वाहेत्यथाश्रावयत्यो श्रावयास्तु श्रौषड्वायव इन्द्र वायुभ्यां प्रेष्येति
वषट्कृतेऽध्वर्युः पूर्वो जुहोति
द्वितीयं वषट्कृते सहोभौ जुहुतो हुत्वा वाचयति यो न इन्द्र वायू अभिदासति भ्रातृव्य उत्पिपीते शुभस्पती इदमहं तमधरं पादयामि यथेन्द्रा हमुत्तमश्चेतयानीत्य्
अथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सँ स्रावमवनयत्युभयोरर्धमध्वर्युः प्रतिप्रस्थातुः पात्रेऽवनयति
तं प्रतिप्रस्थातादित्यस्थाल्यामवनयति देवेभ्यस्त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रे पात्रं प्रदाय प्राङायन्नाह मित्रावरुणाभ्यामनुब्रूहीति
तच्छ्रुत्वा प्रतिप्रस्थाता मैत्रावरुणस्य प्रतिनिर्ग्राह्यं गृह्णाति द्रो णकलशात्परिप्लुना पात्रेणादित्यस्थाल्या औपशये पात्र उपयामगृहीतोऽस्यृतसदसि चक्षुष्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामीति
ग्रहावादायोपनिष्क्रामत्युपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्त उत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्यं प्रयच्छत्यथाश्रावयत्यो श्रावयास्तु श्रौषड्मित्रावरुणाभ्यां प्रेष्येति
वषट्कृते सहोभौ जुहुतो हुत्वा वाचयति यो नो मित्रावरुणावभिदासति भ्रातृव्य उत्पिपीते शुभस्पती इदमहं तमधरं पादयामि यथेन्द्रा हमुत्तमश्चेतयानीत्यथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सँ स्रावमवनयत्युभयोरर्धमध्वर्युः प्रतिप्रस्थातुः पात्रेऽवनयति
तं प्रतिप्रस्थातादित्यस्थाल्यामवनयति विश्वदेवेभ्यस्त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रे पात्रं प्रदाय प्राङायन्नाहाश्विभ्यामनुब्रूहीति
तच्छ्रुत्वा प्रतिप्रस्थाताश्विनस्य प्रतिनिर्ग्राह्यं गृह्णाति द्रो णकलशात्परिप्लुना पात्रेणादित्यस्थाल्या औपशये पात्र उपयामगृहीतोऽसि श्रुतसदसि श्रोत्रपाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामीति
ग्रहावादायोपनिष्क्रामत्य्
उपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्त उत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्यं प्रयच्छत्यथाश्रावयत्यो श्रावयास्तु श्रौषडश्विभ्यां प्रेष्येति
वषट्कृते सहोभौ जुहुतो हुत्वा वाचयति यो नोऽश्विनावभिदासति भ्रातृव्य उत्पिपीते शुभस्पती इदमहं तमधरं पादयामि यथेन्द्रा हमुत्तमश्चेतयानीत्यथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सँ स्रावमवनयत्युभ्योरर्धमध्वर्युः प्रतिप्रस्थातुः पात्रेऽवनयति
तं प्रतिप्रस्थातादित्यस्थाल्यामवनयति विश्वेभ्यस्त्वा देवेभ्य इति १२

स यद्यु हैतैः सँ स्रावैरुपर्यर्धा स्थाली भवत्येतेनैनां पात्रेणापिदधाति
यद्यु वै नोपर्यर्धा भवति द्रो णकलशादेनामुपर्यर्धां कृत्वैतेनैव पात्रेणापिदधाति विष्ण्वुरुक्रमैष ते सोमस्तँ रक्षस्व तं ते दुश्चक्षा मावख्यदित्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रे पात्रं प्रदाय प्राङायन्नाहोन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वमुभयतःशुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्यो मा तु त्वमुन्नेष्ठाः प्रतिप्रस्थातश्चतुर्भिर्मा शकलैः प्रोक्षिताप्रोक्षितैः प्रत्युपलम्बस्वेति
यथासंप्रैषं ते कुर्वन्ति
द्रो णकलशादेव प्रथममुन्नयन्त्यथ पूतभृतोऽथ द्रो णकलशात्
त उभयतःशुक्रा होतृचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथ प्रतिप्रस्थाता चतुर्णाँ शकलानां द्वौ प्रोक्षति

द्वावप्रोक्षितौ भवतः
प्रोक्षिताभ्यामपिधायाप्रोक्षिताभ्यामुपयच्छतः
शुक्रमेवाध्वर्युरादत्ते
मन्थिनं प्रतिप्रस्थाता
ग्रहावादायोपनिष्क्रामतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपनिष्क्रामत्युत्तरं प्रतिप्रस्थाता
तौ जघनेनोत्तरवेदिं ग्रहौ संधत्त आयुः संधत्तं तन्मे जिन्वतं प्राणँ संधत्तं तं मे जिन्वतमपानँ संधत्तं तं मे जिन्वतं व्यानँ संधत्तं तं मे जिन्वतं चक्षुः संधत्तं तन्मे जिन्वतँ श्रोत्रँ संधत्तं तन्मे जिन्वतमिति
स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्तु सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषेत्यध्वर्युर्दक्षिणेनोत्तरवेदिं परिक्रामति
स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्तु सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिषेति प्रतिप्रस्थातोत्तरेणोत्तरवेदिं परिक्रामति
तौ पुरस्तात्प्रत्यञ्चावुत्तरवेदिमधिद्र वत इन्द्रे ण सयुजो वयँ सासह्याम पृतन्यतः । घ्नन्तो वृत्राण्यप्रति ॥ यत्ते अग्ने तेजस्तेनाहं तेजस्वी हूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहँ हरस्वी भूयासमित्यथान्तरेण यूपं चाहवनीयं च ग्रहौ संधत्त आयु स्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तम्प्राण स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तमपान स्थोऽपानं मे धत्तमपानं यज्ञाय धत्तमपानं यज्ञपतये धत्तम्व्यान स्थो व्यानं मे धत्तं व्यानं यज्ञाय धत्तं व्यानं यज्ञपतये धत्तं चक्षु स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये धत्तं श्रोत्रँ स्थः श्रोत्रं मे धत्तँ श्रोत्रं यज्ञाय धत्तँ श्रोत्रं यज्ञपतये धत्तमिति

षड्भिः संधाभिः संधाय व्युत्क्रामतः १३

तौ देवौ शुक्रामन्थिनौ कल्पयतं दैवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यथाप्रोक्षितौ शकलौ बहिर्वेदि निरस्यतो निरस्तः शण्डः सहामुनेत्यध्वर्युर्यं यजमानो द्वेष्टि तं मनसा ध्यायति
निरस्तो मर्कः सहामुनेति प्रतिप्रस्थाता यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्य प्रोक्षितावभ्याधत्तः
शुक्रैषा ते समित्तया समिध्यस्व स्वाहेत्यध्वर्युर्मन्थिन्नेषा ते समित्तया समिध्यस्व स्वाहेति प्रतिप्रस्थातैतस्मिन्काले चमसाध्वर्यवश्चमसानुपोद्यच्छन्तेऽथाध्वर्युः पुरस्तात्प्रत्यङ्तिष्ठन्नाश्रावयत्यो श्रावयास्तु श्रौषट्प्रातः प्रातःसावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति
वषट्कृते सहोभौ जुहुतः स प्रथमः संकृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वान्तस्मा इन्द्रा य सुतमाजुहोमि स्वाहेति
वषट्कृतानुवषट्कृते द्विर्जुहुतस्
तथैव द्विर्द्विः सर्वाँ श्चमसाञ्जुह्वत्यथ संप्रैषमाह प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य प्र सदस्यस्य होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्द्रोणकलशादभ्युन्नीयोपावर्तध्वँ होतुश्चमसाध्वर्यवुपरमैहि प्रतिप्रस्थातरुत्तरार्ध आहवनीयस्य मन्थिनः सँ स्रावं जुहुधीति
यथासंप्रैषं ते कुर्वन्त्यथ प्रदक्षिणमावृत्य होतृचमसे ग्रहस्य सँ स्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति वा तूष्णीं वाथ प्रतिप्रस्थातोत्तरार्ध आहवनीयस्य मन्थिनः सँ स्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथास्तं जुषस्व विदेर्गौपत्यँ रायस्पोषँ सुवीर्यँ संवत्सरीणाँ स्वस्तिँ स्वाहेत्यथाप उपस्पृश्य शुक्रपात्रं च मन्थिपात्रं च खरे यथायतनँ सादयति
यन्त्येते महर्त्विजां चमसा अथैते होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्द्रोणकलशादभ्युन्नीयोपावर्तन्ते
तेषां मैत्रावरुणचमसमादायाश्राव्याह प्रशास्तर्यजेति
वषट्कृतानुवषट्कृते द्विर्जुहोति
ब्रह्मन्यज पोतर्यज नेष्टर्यजाग्नीद्यजेति पञ्च होत्राः संयाज्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याग्रेण होतारमुपविशत्ययाडग्नीदिति
स भद्र मकरित्याह होता यो नः सोमँ राजानं पाययिष्यतीत्यथ होतादत्त ऐन्द्र वायवपात्रम्
आत्तमेवाध्वर्युरन्वारभतेऽन्वारब्धेऽध्वर्यौ होतोपहवमिष्ट्वा भक्षयति यथा स वेद
तथान्वारब्धे होतर्यध्वर्युरुपहवमिष्ट्वा भक्षयति मयि वसुः पुरोवसुर्वाक्पा वाचं मे पाहीत्यथ होता भक्षयत्यथाध्वर्युरथैनद्धोत्रेऽनुषजति
तद्धोता यथायतनँ सादयत्यथ होतादत्ते मैत्रावरुणपात्रम्
आत्तमेवाध्वर्युरन्वारभतेऽन्वारब्धेऽध्वर्यौ होतोपहवमिष्ट्वा भक्षयति यथा स वेद
तथान्वारब्धे होतर्यध्वर्युरुपहवमिष्ट्वा भक्षयति मयि वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाहीत्यथैनद्धोत्रेऽनुषजति
तद्धोता यथायतनँ सादयत्यथ होतादत्त आश्विनपात्रम्
आत्तमेवाध्वर्युरन्वारभत
अन्वारब्धेऽध्वर्यौ होतोपहवमिष्ट्वा भक्षयति यथा स वेद
तथान्वारब्धे होतर्यध्वर्युरुपहवमिष्ट्वा भक्षयति मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पाहीति
सर्वतः परिहारमाश्विनं भक्षयतीति ब्राह्मणम्
अथैनद्धोत्रेऽनुषजति
तद्धोता यथायतनँ सादयत्यथाप उपस्पृश्य होत्र इडामुपोद्यच्छन्ते १४

उपहूयमानायामिडायामुपप्रगृह्णन्ति चमसान्
उपहूतायामिडायामनाहितमग्नीधे भवत्यथैतानि द्विदेवत्यपाराण्यरिक्तानि करोति
पुरोडाशशकलमैन्द्र वायवपात्रे प्रास्यत्यामिक्षां मैत्रावरुणपात्रे
धाना आश्विनपात्रेऽथैनानि संपरिगृह्य पूर्वया द्वारोपनिर्हृत्यापरया द्वारा हविर्धानं प्रपाद्य दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याँ सादयति
तान्या तृतीयसवनात्परिशेरेऽथाग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्त इडोपहूताँ श्चमसान्भक्षयन्ति भक्षेहि माविशेति दीर्घभक्षमनुद्रुत्य वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रच्छन्दस इन्द्र पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशँ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽध ऐन्द्रा ग्नायाथैषोऽच्छावाकोऽग्रेण सद आस्ते
तस्मै महत्पुरोडाशशकलमादधदाहाच्छावाक वदस्व यत्ते वाद्यमिति

स यत्राच्छावाकस्याभिजानात्युपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमिति तदाह होतरच्छावाको वा अयमुपहवमिच्छते तमुपह्वयस्वेति
तमृचा होतोपह्वयतेऽथ प्राङायन्नाहोन्नीयमानायानुब्रूह्यच्छावाकस्य चमसाध्वर्यवुन्नयस्वोभयतःशुक्रं कुरुष्वेति
स तथा करोत्यथ प्राङेत्याच्छावाकचमसमादायाश्राव्याहाच्छावाक यजेति
वषट्कृतानुवषट्कृते हुत्वा हरति भक्षं स यद्यस्मिन्नच्छावाक उपहवमिच्छत उपैवैनँ ह्वयते
नो त्वेव संभक्षयतः
सीदत्यस्य नाराशँ स आप्यायितोऽथाहाच्छावाक सीद नेष्टः पत्नीमुदानयाग्नीदच्छावाकं मे सन्नं प्रब्रूतादिति
सीदत्येषोऽच्छावाको जघनेन स्वं धिष्णियम्
आनयति नेष्टा पत्नीं पन्नेजनीरादाय प्रेह्युदेहीत्येतेन निगदेनाथैनां पूर्वया द्वारोपनिष्क्रमय्यापरया द्वारा सदः प्रपाद्य जघनेन नेष्टुर्धिष्णियमसंचरे सामपथे पन्नेजनीः सादयति वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीः सादयामि यज्ञाय वः पन्नेजनीः सादयामीत्यथाहाग्नीध्रः सन्नोऽच्छावाकोऽच्छावाकँ सन्नमुप पन्नेजनीरसीषदन्नित्येतस्मिन्काल आग्नीध्रे यजमानः पुरोडाशानां प्राश्नाति
यदशना स्यात्पत्नी पत्नीशाले १५

अथर्तुपात्रे आददाते दक्षिणमेवाध्वर्युरुत्तरं प्रतिप्रस्थाताध्वर्युः पूर्वो वायव्येन द्रो णकलशाद्गृह्णात्युपयामगृहीतोऽसि मधवे त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाता गृह्णात्युपयामगृहीतोऽसि माधवाय त्वा जुष्टं गृह्णामीति
ग्रहावादायोपनिष्क्रामतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपनिष्क्रामत्युत्तरं प्रतिप्रस्थाता द्वार्बाहुं निश्रयमाण उपरमत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिप्रस्थाता
प्रपद्यतेऽध्वर्युः
स गृह्णात्युपयामगृहीतोऽसि शुक्राय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
प्रपद्यते प्रतिप्रस्थाता
स गृह्णात्युपयामगृहीतोऽसि शुचये त्वा जुष्टं गृह्णामीत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिप्रस्थाता
प्रपद्यतेऽध्वर्युः
स गृह्णात्युपयामगृहीतोऽसि नभाय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
प्रपद्यते प्रतिप्रस्थाता
स गृह्णात्युपयामगृहीतोऽसि नभस्याय त्वा जुष्टं गृह्णामीत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिप्रस्थाता
प्रपद्यतेऽध्वर्युर्विपर्यस्य पात्रं स गृह्णात्युपयामगृहीतोऽसीषाय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
प्रपद्यते प्रतिप्रस्थाता विपर्यस्य पात्रं
स गृह्णात्युपयामगृहीतोऽस्यूर्जाय त्वा जुष्टं गृह्णामीत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुभिः प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिर्पस्थाता
प्रपद्यतेऽध्वर्युः
स गृह्णात्युपयामगृहीतोऽसि सहाय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुभिः प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
प्रपद्यते प्रतिप्रस्थाता
स गृह्णात्युपयामगृहीतोऽसि सहस्याय त्वा जुष्टं गृह्णामीत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुभिः प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येव प्रतिप्रस्थाता
प्रपद्यतेऽध्वर्युर्विपर्यस्य पात्रं स गृह्णात्युपयामगृहीतोऽसि तपाय त्वा जुष्टं गृह्णामीत्यथ प्रतिप्रस्थाताश्रावयत्यो श्रावयास्तु श्रौषडृतुभिः प्रेष्येति
वषट्कृते जुहोति
निष्क्रामत्येवाध्वर्युः
प्रपद्यते प्रतिप्रस्थाता विपर्यस्य पात्रं तमाह प्रतिप्रस्थातरुपैतेन पात्रेण रमेत्यथाध्वर्युराश्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येत्यध्वर्यू यजतमित्याह प्रशास्ता
होतरेतद्यजेत्याहाध्वर्युर्वषट्कृते जुहोति
सोऽत्रैवासीनं प्रतिप्रस्थातारमनुप्रपद्यते
प्रतिप्रस्थातात्र पूर्वो गृह्णात्युपयामगृहीतोऽसि तपस्याय त्वा जुष्टं गृह्णामीत्यथाध्वर्युर्गृह्णात्युपयामगृहीतोऽसि सँ सर्पोऽस्यँ हस्पत्याय त्वा जुष्टं गृह्णामीति
ग्रहावादायोपनिष्क्रामतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपनिष्क्रामत्युत्तरं प्रतिप्रस्थाता
प्रतिप्रस्थातात्र श्रावयत्यो श्रावयास्तु श्रौषडृतुना प्रेष्येति
गृहपते यजेत्याह प्रशास्ता

होतरेतद्यजेत्याह गृहपतिः
वषट्कृते सहोभौ जुहुतोऽथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सँ स्रावमवनयति
तमाह प्रतिप्रस्थातरेतेन पात्रेणैन्द्रा ग्नं ग्रहं गृहाणेति
तेन प्रतिप्रस्थातैन्द्रा ग्नं ग्रहं गृह्णाति द्रो णकलशात्परिप्लुना पात्रेणाइन्द्रा ग्नी आगतँ सुतमित्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा ग्निभ्यां त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा ग्निभ्यां त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रैतत्पात्रँ संभक्षयत्यृतुना पीतस्येति होत्रा पोत्रा नेष्ट्राग्नीधा ब्राह्मणाच्छँ सिना मैत्रावरुणेनेत्यथ विपर्यस्य पात्रँ होत्रैव चतुः संभक्षयत्यृतुभिः पीतस्येति होत्रा पोत्रा नेष्ट्राच्छावाकेनेत्यथ विपर्यस्यैव पात्रँ होत्रैव द्विः संभक्षयत्यृतुना पीतस्येति १६

अथ होतारं विपृच्छति प्रणवमुपाँ शुशँ सँ शँ सिष्यसी३ विग्राहा३मिति
स यथैनँ होता प्रत्याह तच्छ्रुत्वा निगृह्य पात्रं पराङावर्तत इडा देवहूरिति यावदेतस्य यजुषः पर्याप्नोति तावज्जपत्यभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणाति
यदुपाँ शु शँ सति तदुपाँ शु प्रतिगृणाति
यदुच्चैः शँ सति तदुच्चैः प्रतिगृणति
संततं वा विग्राहं वा
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतमैन्द्रा ग्नं ग्रहम्
अनूद्यच्छन्ते नाराशँ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशँ साननुप्रकम्पयन्त्य्
एतत्पात्रं नाराशँ सा अन्वायन्त्यनुसवनभक्ष इन्द्रा ग्निभ्यां पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रँ संभक्षयतो नराशँ सपीतेन नाराशँ सान्नराशँ सपीतस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रच्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशँ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽधो वैश्वदेवायाथ प्राङेत्य शुक्रपात्रमाददान आहोन्नेतर्यदेमं वैश्वदेवं ग्रहम्गृह्णाम्यथोदञ्चँ राजानं पूतभृतमभि संपवयताद्दशाभिर्द्रोणकलशं मृष्ट्वा न्युब्जतादिति
स तथा करोति
स शुक्रपात्रेण वैश्वदेवं कलशाद्गृह्णात्योमासश्चर्षणीधृत इत्यनुद्रुत्योपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्यो जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते वैश्वदेवाय
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं वैश्वदेवं ग्रहम्
अनूद्यच्छन्ते नाराशँ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति

तथैव द्विर्द्विर्नाराशँ साननुप्रकम्पयन्त्येतत्पात्रं नाराशँ सा अन्वायन्त्यनुसवनभक्षो विश्वैर्देवैः पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रँ संभक्षयतो नराशँ सपीतेन नाराशँ सान्नरशँ सपीतस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रच्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथाह प्रतिप्रस्थातरिमे चतुर्पात्रे एतच्च शुक्रपात्रं मार्जालीये मार्जयित्वा पात्रेष्वपिसृजेति
स तथा करोत्यथ प्राङायन्नाह १७

मैत्रावरुणस्य चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति
मैत्रावरुणचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथादत्त उक्थ्यस्थाल्या औपशयं पात्रं तस्मिन्नेतस्य राज्ञस्तृतीयवेलां गृह्णाति य उक्थ्यस्थाल्यां भवत्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थ्यायुवं यज्ञस्यायुषे मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामीति
पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति
परिमृज्य सादयत्येष ते योनिर्मित्रावरुणाभ्यां त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
मैत्रावरुणायैषोत्तमेति प्राहुर्
मैत्रावरुणस्य कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते मैत्रावरुणः
प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं ग्रहम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सर्वाँ श्चमसाञ्जुह्वत्यथ प्रदक्षिणमावृत्य मैत्रावरुणस्य चमसे ग्रहस्य सँ स्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति आ तूष्णीं वात्रैवैतत्पात्रमुपनिधाय भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्षो मित्रावरुणाभ्यां पीतस्येति
मैत्रावरुणचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथाह प्रतिप्रस्थातर्ग्रहौ ते प्रचरेति
तच्छ्रुत्वा प्रतिप्रस्थाता प्राङायन्नाह १८

ब्राह्मणाच्छँ सिनश्चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति
ब्राह्मणाच्छँ सिनश्चमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथादत्त उक्थ्यस्थाल्या औपशयं पात्रं तस्मिन्नेतस्य राज्ञोऽर्धवेलां गृह्णाति य उक्थ्यस्थाल्यां भवत्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थायुवं यज्ञस्यायुष इन्द्रा य त्वा जुष्टं गृह्णामीति
पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
ब्राह्मणाच्छँ सिन एषोत्तमेति प्राहुर्
ब्राह्मणाच्छँ सिनः कालात्पराङावर्तते प्रतिप्रस्थाताभ्येनमाह्वयते ब्राह्मणाच्छँ सी
प्रत्याह्वयते प्रतिप्रस्थाता
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं ग्रहम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थयशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सर्वाँ श्चमसाञ्जुह्वत्यथ प्रदक्षिणमावृत्य ब्राह्मणाच्छँ सिनश्चमसे ग्रहस्य सँ स्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति आ तूष्णीं वात्रैवैतत्पात्रमुपनिधाय भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्ष इन्द्रे ण पीतस्येति
ब्राह्मणाच्छँ सिनश्चमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथ प्राङायन्नाह १९

अच्छावाकस्य चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिचः प्रतिप्रस्थातरुपैतेन ग्रहेण रमैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्याथैतच्चर्म फलकयोः प्राचीनग्रीवमुत्तरलोमोपस्तृणाति यज्ञ प्रतितिष्ठेति वा तूष्णीं वा
तस्मिन्संमुखान्ग्राव्णः कृत्वा दक्षिणस्य हविर्धानस्यान्तरेणेषे राजानमुपावहरति हृदे त्वा मनसे त्वा सोम राजन्नेह्यवरोहेति द्वाभ्याम्
अथैनमुद्गातृभ्यः प्राहुस्तस्मिँ स्तच्चेष्टन्ति यत्ते विदुरथोदुब्ज्याधवनीयमर्धं वसतीवरीणामवनयत्यर्धमेकधनानाम्पुरोऽक्षं वसतीवरीः सादयति
पश्चादक्षमेकधनान्
अच्छावाकचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
सर्वश एव राजानँ समुन्नीयोत्तरवेद्याँ सँ सादयन्त्य्
अथादत्त उक्थ्यस्थाल्या औपशयं पात्रं तस्मिन्नेतँ सर्वश एव राजानं गृह्णाति य उक्थ्यस्थाल्यां भवत्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थायुवं यज्ञस्यायुष इन्द्रा ग्निभ्यां त्वा जुष्टं गृह्णामीति
नात्र पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति
दशाभिरेवैनां मृष्ट्वा न्युब्जति
परिमृज्य सादयत्येष ते योनिरिन्द्रा ग्निभ्यां त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवतेऽच्छावाकाय एषोत्तमेति प्राहुरच्छावाकस्य कालात्पराङावर्तते प्रतिप्रस्थाताभ्येनमाह्वयतेऽच्छावाकः
प्रत्याह्वयते प्रतिप्रस्थाता
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं ग्रहम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सर्वाँ श्चमसाञ्जुह्वत्यथ प्रदक्षिणमावृत्याच्छावाकस्य चमसे ग्रहस्य सँ स्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति वा तूष्णीं वात्रैवैतत्पात्रमुपनिधाय भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्ष इन्द्रा ग्निभ्यां पीतस्येत्यच्छावाकचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्यायन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथोक्थशा इत्याह
प्रातःसवनं प्रतिगीर्य प्रशास्तः प्रसुहीति
सर्पतेत्याह प्रशास्ता
संतिष्ठते प्रातःसवनम् २०

अष्टमः प्रश्नः
प्रसर्पन्ति माध्यंदिनाय सवनाय देवी द्वारवित्यत एवोर्ध्वेन
संप्रसृप्तान्विदित्वाध्वर्युः प्राङायन्नाहाभिषोतार एत ह्वयत ग्रावस्तुतमेहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तासु तथैव निग्राभ्यासु यजमानं वाचयति तास्तथैव यजमानाय संप्रदाय ग्रावाणमादत्तेऽन्यमुपाँ शुसवनात्
तं तथैव प्राञ्चं प्रश्रित्य विस्रस्य राजानं ग्रावाणमभि मिमीत इन्द्रा य त्वेन्द्रा य त्वेति
पञ्चकृत्वो यजुषा पञ्चकृत्वस्तूष्णीं दशकृत्वो मिमानः सर्वश एव राजानं मिमीतेऽद्भिरभ्युक्ष्य ग्रावस्तुत उष्णीषं प्रयच्छत्यद्भिरेवाभ्युक्ष्याध्वर्योरावसथं वासो हरन्ति
तथा मितँ राजानँ होतृचमसीयाभिरुपसृजति
तथा संप्रयौति
तथा तिरश्चर्मन्फलके अभिमृशति
तथा वृद्धीर्वाचयति
नात्राँ शून्सचते
घोषवन्त एवाभिषुण्वन्तीहा३ इहा३ इहेति
तदेव सद्विनयन्तीहा३ इह इहा३ इह इहा३ इहेत्यथ संभरणीये निष्क्रीडयन्तीहा३ इहा३ इहेत्यथैनँ सुसंभृतँ संभरण्याँ संभृत्योन्नेत्र उत्प्रयच्छति

तमुन्नेताध्वनीयेऽवनयत्येवमेव द्वितीयः पर्यायः संतिष्ठत एवं तृतीयस्
तृतीयस्य तृतीये बृहदुपयन्ति बृहद्बृहद्बृहदित्यृजीषमन्ततो दशापवित्रेण परिवेष्ट्योन्नेत्र उत्प्रयच्छति
तदुन्नेताधवनीये विक्षाल्य प्रपीड्य दक्षिणस्य हविर्धानस्यान्तरेणेषे उपावहृत्य चर्मणि निदधाति
तस्मिँ स्तथैव संमुखान्ग्राव्णः कृत्वा चतुर्धैतदृजीषं ग्रावमुखेभ्यो व्यपोहति
तथोद्गाता वा प्रस्तोता वा दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य प्राञ्चं ग्रावसु द्रो णकलशमध्यूहति
तस्मिँ स्तथैवोदीचीनदशं दशापवित्रं वितत्य प्रसिद्धँ शुक्रामन्थिनौ ग्रहौ गृह्णात्यथर्तुपात्राभ्यां द्वौ मरुत्वतीयौ ग्रहौ गृह्णाति १

मरुत्वन्तं वृषभं वावृधानमिन्द्र मरुत्व इह पाहि सोममिति द्वाभ्याम्
अथोपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति
तं तथैव त्रिरभिहिङ्कृत्य परिमृज्य सादयति
तथोक्थ्यं गृह्णात्युक्थ्येन राजानं परिदधाति
तथोपर्यर्धे द्रो णकलशे परिप्लु पात्रं प्रास्य द्र प्साननुमन्त्रयते द्र प्सश्चस्कन्द यस्ते द्र प्सो यो द्र प्सो यस्ते द्र प्स इति
तथोन्नेतारमाहारिक्तं पूतभृतं कुरु पवमानस्य ग्रहान्ग्रहीष्यामीति
तथारिक्ते पूतभृति पवमानस्य ग्रहान्गृह्णात्युपयामगृहीतोऽसीन्द्रा य त्वेति द्रो णकलशमभिमृशतीन्द्रा य त्वेत्याधवनीयम्
इन्द्रा य त्वेति पूतभृतं तथोन्नेतरित्याह प्राञ्चँ राजानं पूतभृतमभि संपवयताद्दशाभिराधवनीयं मृष्ट्वा न्युब्जतादिति

स तथा करोति
तथाप उपस्पृश्य बर्हिषी आदायोपनिःसर्पति
तेषु तथैव समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति
विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः । आयुष्मन्तः प्रैयमेषां वदन्तो वयं देवानाँ सुमतौ स्याम स्वाहेत्येतयाध्वर्यू जुहुतो यथावेदमितरे जुह्वत्यथ प्रदक्षिणमावृत्य सदोऽभि पवमानँ सर्पन्ति
तथा सदसि यथायतनमुपविशन्ति
तथोद्गात्रे वा प्रस्तोत्रे वा बर्हिषी प्रयच्छत्यृक्सामयोरुपस्तरणमसि मिथुनस्य प्रजात्या इति वा तूष्णीं वा
तथोपाकरणं जपति वायुर्हिङ्कर्तेति
स एष पञ्चदशो माध्यंदिनः पवमानो भवति
तस्याष्टम्यां प्रस्तुतायां वाचयति सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा संपारयेत्यत्र चतुर्होतारं व्याचष्ट उद्द्रुते साम्नि संप्रैषमाहाग्नीअग्नीन्विहर बर्हि स्तृणाहि पुरोडाशाँ अलंकुरु प्रतिप्रस्थातर्दधिघर्माय दध्याहरेति
यथासंप्रैषं तौ कुरुतस्
तथाप उपस्पृश्याहैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य तथा समस्तँ राजानमुपतिष्ठते
तथावकाशैश्चरति
तथा प्रचरण्यां नवकृत्वो गृह्णीते
तथैष आग्नीध्र आग्नीध्रीयाद्धिष्णियादनुपूर्वं धिष्णियेष्वङ्गारान्विहरति
तथा पुरस्तात्प्रत्यङ्ङासीनो विहृतान्धिष्णियान्व्याघारयति
तथोत्तरस्य हविर्धानस्य चुबुके प्रचरणीँ सादयति

तथा सांकाशिनेन पथा पृष्ठ्याँ स्तृणाति संततां गार्हपत्यादाहवनीयात् २

अथान्तरेण हविर्धाने उपविश्य दधिघर्माय दधि याचति
तदाहृतमवेक्षते ज्योतिरसि वैश्वानरं पृश्नियै दुग्धमिति
बर्हिषी अन्तर्धाय कँ से वा चमसे वा गृह्णाति यावती द्यावापृथिवी महित्वा यावच्च सप्त सिन्धवो वितस्थुः । तावन्तमिन्द्र ते ग्रहँ सहोर्जा गृह्णाम्यस्तृतमित्यपोद्धृत्य बर्हिषी अथैनँ श्रीणाति वाक्च त्वा मनश्च श्रीणीतां प्राणश्च त्वापानश्च श्रीणीतां चक्षुश्च त्वा श्रोत्रं च श्रीणीतां दक्षश्च त्वा बलं च श्रीणीतामोजश्च त्वा सहश्च श्रीणीतामायुश्च त्वा जरा च श्रीणीतामात्मा च त्वा तनूश्च श्रीणीताँ शृतोऽसि शृतंकृतः शृताय त्वा शृतेभ्यस्त्वा शृतं कृण्वित्यथाह होतर्वदस्व यत्ते वाद्यमित्यथैनमादायोपोत्तिष्ठन्नाह श्रातँ हविरित्यत्याक्रम्याश्राव्याह दधिघर्मस्य यजेति
वषट्कृते जुहोति यमिन्द्र माहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्तपोजास्तस्मै त्वा तेभ्यस्त्वा स्वाहेत्यनुवषट्कृते हुत्वा हरति भक्षं स यावन्तः प्रवर्ग्यस्यर्त्विजस्तेषूपहवमिष्ट्वा यजमान एव प्रत्यक्षं भक्षयति मयि त्यदिन्द्रि यं महन्मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यं त्रिशुग्घर्मो विभातु मे ॥ आकूत्या मनसा सह विराजा ज्योतिषा सह । यज्ञेन पयसा सह ब्रह्मणा तेजसा सह । क्षत्रेण यशसा सह सत्येन तपसा सह । तस्य दोहमशीमहि तस्य सुम्नमशीमहि । तस्य भक्षमशीमहि तस्य त इन्द्रे ण पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति

निर्णिज्य पात्रं प्रयच्छति
तथा सवनीयान्पुरोडाशान्याचति
तेषां तथैव समवद्यन्नाह माध्यंदिनस्य सवनस्येन्द्रा य पुरोडाशानामवदीयमानानामनुब्रूहीति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्ति
तथोपभृति स्विष्टकृते सर्वेषाँ सकृत्सकृदुत्तरार्धादवद्यति
द्विरभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याह माध्यंदिनस्य सवनस्येन्द्रा य पुरोडाशान्प्रस्थितान्प्रेष्येति
वषट्कृते जुहोति
तथा समावपमान आहाग्नयेऽनुब्रूहीत्याश्राव्याहाग्नये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोति
तथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा तथैव पात्र्यामिडाँ समवधाय प्रतीचः पुरोडाशान्प्रहिणोत्यनु हैके संयन्ति पशव इडेति वदन्तोऽथ प्राङायन्नाहोन्नीयमानेभ्योऽनुब्रूहि ३

होतुश्चमसमनून्नयध्वमुभयतःशुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्योऽपि त्वमुन्नयस्व प्रतिप्रस्थातश्चतुर्भिर्मा शकलैः प्रोक्षिताप्रोक्षितैः प्रत्युपलम्बस्वेति
यथासंप्रैषं ते कुर्वन्ति
समानं कर्माश्रावणादाश्रावण एव व्येत्यथाध्वर्युः पुरस्तात्प्रत्यङ्तिष्ठन्नाश्रावयत्यो श्रावयास्तु श्रौषड्माध्यंदिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति
वषट्कृते सहोभौ जुहुतः स प्रथमः संकृतिर्विश्वकर्मेति

वषट्कृतानुवषट्कृते द्विर्जुहुतस्
तथैव द्विर्द्विः सर्वाँ श्चमसाञ्जुह्वति
तथा संप्रैषमाह प्रैतु होतुश्चमसः प्र ब्रह्मण इति
तथा प्रदक्षिणमावृत्य होतृचमसे ग्रहस्य सँ स्रावमवनयति हुतं त्वा हुतेऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति वा तूष्णीं वा
तथा प्रतिप्रस्थातोत्तरार्ध आहवनीयस्य मन्थिनः सँ स्रावं जुहोति
तथाप उपस्पृश्य शुक्रपात्रं च मन्थिपात्रं च खरे यथायतनँ सादयति
यन्त्येते महर्त्विजां चमसास्
तथैते होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्द्रोणकलशादभ्युन्नीयोपावर्तन्ते
तेषां तथैव मैत्रावरुणचमसमादायाश्राव्याह प्रशास्तर्यजेति
ब्रह्मन्यज पोतर्यज नेष्टर्यजाच्छावाक यजाग्नीद्यजेति
षड्ढोत्राः संयाज्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याग्रेण होतारमुपविशत्ययाडग्नीदिति
स भद्र मकरित्याह होता यो नः सोमँ राजानं पाययिष्यतीति
तथाप उपस्पृश्य होत्र इडामुपोद्यच्छन्त उपहूयमानायामिडायामुपप्रगृह्णन्ति चमसान्
उपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्त इडोपहूताँ श्चमसान्भक्षयन्ति भक्षेहि माविशेति दीर्घभक्षमनुद्रुत्य रुद्र वद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्र पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त
आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशँ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽधस्तृतीयाय मरुत्वतीयायैतस्मिन्काल आग्नीध्रे यजमानः पुरोडाशानां प्राश्नाति
यदशना स्यात्पत्नी पत्नीशाले ४

अथ दाक्षिणानि होष्यन्याचत्याज्यस्थालीँ सस्रुवाँ स्रुचं वासस्
तस्यैतस्य वसनस्यान्तमायां दशायां हिरण्यशल्कः प्रग्रथितो भवत्येतत्समादायाहैहि यजमानेत्युत्तरेणाग्नीध्रीयं परीत्योत्तरेण सदः परीत्य पूर्वया द्वारा शालां प्रपाद्य समन्वारब्धेष्वपिव्रतेषु संप्रच्छन्नेषु गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा वसनस्यान्तँ स्रुग्दण्ड उपसंगृह्य सौरीभ्यामृग्भ्यां गार्हपत्ये जुहोत्युदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यँ स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा गार्हपत्य एव जुहोति चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च स्वाहेत्यथाग्नीध्रं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा वसनस्यैवान्तँ स्रुग्दण्ड उपसंगृह्य नयवत्यर्चाग्नीध्रे जुहोत्यग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम स्वाहेत्यथ दिवं गच्छ सुवः पतेति हिरण्यँ हुत्वोद्गृह्णाति
सृज्यन्ते दक्षिणा दक्षिणापथेनान्तरेण सदश्च गार्हपत्यं चान्तरेण सदश्चाग्नीध्रं चान्तरेण चात्वालोत्करव्
एवमुदीच्यः प्रतिपद्यन्ते
ताः प्रदक्षिणं कृत्वाभ्यैति रूपेण वो रूपमभ्यैमि वयसा वय इत्यथैना विभजति तुथो वो विश्ववेदा विभजतु वर्षिष्ठे अधि नाक इत्यथ सदोऽभ्यैत्येतत्ते अग्ने राध ऐति सोमच्युतं तन्मित्रस्य पथा नयर्तस्य पथा प्रेत चन्द्र दक्षिणा यज्ञस्य पथा सुविता नयन्तीरिति ५

अथैष आत्रेयोऽग्रेण सद आस्ते
तमभ्यैति ब्राह्मणमद्य राध्यासमृषिमार्षेयं पितृमन्तं पैतृमत्यँ सुधातुदक्षिणमित्यथैनमुत्क्रम्य पृच्छति क आत्रेय इत्ययमहमितीतरः प्रत्याह
तं तथैव द्वितीयमुत्क्रम्य पृच्छति क आत्रेय इत्ययमहमित्येवेतरः प्रत्याह
तं तथैव तृतीयमुत्क्रम्य पृच्छति क आत्रेय इत्ययमहमित्येवेतरः प्रत्याह
तस्य पाणौ हिरण्यमादधाति चन्द्र मँ हेति यदु चान्यदुपकल्पतेऽथाग्नीध्रं द्रुत्वा हिरण्यमुखमग्नीधे ददात्यथ सद आगत्य ब्रह्मणे ददाति होत्र उद्गात्रेऽथ हविर्धानं द्रुत्वाध्वर्यवे ददाति य उ चैनमन्येऽभितो भवन्त्यथ सद आगत्य प्रस्तोत्रे ददाति प्रशास्त्रे ब्रह्मणाच्छँ सिनेऽच्छावाकस्य सदस्यस्याग्नीधः पोतुर्नेष्टुर्ग्रावस्तुत उन्नेतुः सुब्रह्मण्यस्य प्रतिहर्तुरन्ततो यथासमुदितं प्रसर्पकेभ्योऽथाहैहि यजमानेत्याग्नीध्रं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वाग्नीध्रे पञ्च वैश्वकर्मणानि जुहोति यज्ञपतिमृषय एनसाहुरित्य्
अथातिक्रामातीमोक्षैश्चरत्यग्निना देवेन ये देवा यज्ञहन इत्येताभ्यामनुवाकाभ्याम्
अथ यजमानं प्राञ्चमीक्षयति वि सुवः पश्य व्यन्तरिक्षमित्यथैनँ सदस्युपवेशयति यतस्व सदस्यैरित्यथ दक्षिणाः समनुदिशत्यस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारमाविशतानवहायास्मान्देवयानेन पथेत सुकृतां लोके सीदत तन्नः सँ स्कृतमिति ६

अथ प्राङायन्नाहेन्द्रा य मरुत्वतेऽनुब्रूहीति
तच्छ्रुत्वा प्रतिप्रस्थाता ग्रहावादायोपनिष्क्रामत्युपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्त उत्तरतस्तिष्ठते प्रतिप्रस्थात्रेऽन्यतरं प्रयच्छत्यथाश्रावयत्यो श्रावयास्तु श्रौषडिन्द्रा य मरुत्वते प्रेष्येति
वषट्कृते सहोभौ जुहुतोऽथ प्रतिप्रस्थाताध्वर्योः पात्रे ग्रहस्य सँ स्रावमवनयति
तमाह प्रतिप्रस्थातरेतेन पात्रेण तृतीयं मरुत्वतीयं ग्रहं गृहाणेति
तेन प्रतिप्रस्थाता तृतीयं मरुत्वतीयं ग्रहं गृह्णाति द्रोणकलशात्परिप्लुना पात्रेण मरुत्वाँ इन्द्र वृषभो रणायेत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वा मरुत्वते जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा मरुत्वत इत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य होत्रैतत्पात्रँ संभक्षयतीन्द्रे ण मरुत्वता पीतस्येत्यथ निगृह्य पात्रं पराङावर्तत इडा देवहूरिति
यावदेतस्य यजुषः पर्याप्नोति तावज्जपत्यभ्येनमाह्वयते होता

प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं तृतीयं मरुत्वतीयं ग्रहम्
अनूद्यच्छन्ते नाराशँ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशँ साननुप्रकम्पयन्त्येतत्पात्रं नाराशँ सा अन्वायन्त्यनुसवनभक्ष इन्द्रे ण मरुत्वता पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रँ संभक्षयतो नराशँ सपीतेन नाराशँ सान्नराशँ सपीतस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशँ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽधो माहेन्द्रा य ७

अथ प्राङेत्य शुक्रपात्रमाददान आहोन्नेतर्यदेमं माहेन्द्रं ग्रहं गृह्णाम्यथोदञ्चँ राजानं पूतभृतमभि संपवयताद्दशाभिर्द्रोणकलशं मृष्ट्वा न्युब्जतादिति
स तथा करोति
स शुक्रपात्रेण माहेन्द्रं द्रो णकलशाद्गृह्णाति महाँ इन्द्रो य ओजसेत्यनुद्रुत्योपयामगृहीतोऽसि महेन्द्रा य त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्महेन्द्रा य त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते माहेन्द्रा य

प्रस्तुते साम्नि संप्रैषमाहाभिषोतारोऽभिषुणुताग्नीदाशिरं विनयोलूखलमुद्वादय प्रतिप्रस्थातर्वारुणमेककपालं निर्वप सौम्यस्य विद्धीति
यथासंप्रैषं ते कुर्वन्ति
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं माहेन्द्रं ग्रहम्
अनूद्यच्छन्ते नाराशँ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशँ साननुप्रकम्पयन्त्येतत्पात्रं नाराशँ सा अन्वायन्त्यनुसवनभक्षो महेन्द्रे ण पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रँ संभक्षयतो नराशँ सपीतेन नाराशँ सान्नरशँ सपीतस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथेन्द्रा य त्वेन्द्रा य त्वेत्येवं त्रिभिरुक्थ्यपर्यायैश्चरति
तं तथैवोत्तमेऽतिशिष्ट आहाच्छावाकस्य चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिचः प्रतिप्रस्थातरुपैतेन ग्रहेण रमैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्याथोदुब्ज्याधवनीयँ सर्वश एव वसतीवरीः पर्यस्यति
सर्वश एवैकधनान्
पुरोऽक्षमेव वसतीवरीकलशं मृष्ट्वा न्युब्जति

पश्चादक्षमेकधनान्
अच्छावाकचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
सर्वश एव राजानँ समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथादत्त उक्थ्यस्थाल्या औपशयं पात्रं तस्मिन्नेतँ सर्वश एव राजानं गृह्णाति य उक्थ्यस्थाल्यां भवति
स उ वा ऐन्द्र एव भवत्यथोक्थं वाचीत्याह माध्यंदिनँ सवनं प्रतिगीर्य प्रशास्तः प्रसुहीति
सर्पतेत्याह प्रशास्ता
संतिष्ठते माध्यंदिनँ सवनम् ८

प्रसर्पन्ति तृतीयसवनाय देवी द्वारवित्यत एवोर्ध्वेन
प्रस्थातराशिरमानय शृतातङ्क्यमादित्यग्रहाय दध्याहरैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य य एष उपाँ शुपात्रेऽँ शुः प्रास्तो भवति तं माध्यंदिनीय ऋजीषेऽपिसृज्य यमेव कं च ग्रावाणमादायोन्नेतारमाहाहरोपसृजेत्युपसृजत्युन्नेताधवनीयादुदचनेनापरिमितमभिषुत्याथैनँ सुसंभृतँ संभरण्याँ संभृत्योन्नेत्र उत्प्रयच्छति
तमुन्नेताधवनीयेऽवनयत्येवमेव द्वितीयः पर्यायः संतिष्ठत एवं तृतीय ऋजीषमन्ततो दशापवित्रेण परिवेष्ट्योन्नेत्र उत्प्रयच्छति
तदुन्नेताधवनीये विक्षाल्य प्रपीड्य दक्षिणस्य हविर्धानस्यान्तरेणेषे उपातिहृत्य नीड उत्सादयति
परिश्रयन्ति पूर्वां द्वारमपरां चाथादत्त आदित्यस्थाल्या औपशयं पात्रं
तस्मिन्नेतस्य राज्ञस्तृतीयवेलां गृह्णाति य आदित्यस्थाल्यां भवति कदा चन स्तरीरसीत्यनुद्रुत्योपयामगृहीतोऽस्यादित्येभ्यस्त्वा जुष्टं गृह्णामीति
बर्हिषी अन्तर्धाय शृतातङ्क्येन श्रीणाति कदा चन प्रयुच्छसीत्यनुद्रुत्योपयामगृहीतोऽस्यादित्येभ्यस्त्वा जुष्टं गृह्णामीत्यपोद्धृत्य बर्हिषी अर्धवेलाँ राज्ञो गृह्णाति यज्ञो देवानां प्रत्येति सुम्नमित्यनुद्रुत्योपयामगृहीतोऽस्यादित्येभ्यस्त्वा जुष्टं गृह्णामीत्यथैनँ स्थविमत उपाँ शुसवनेन श्रीणाति विवस्व आदित्यैष ते सोमपीथस्तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारो या दिव्या वृष्टिस्तया त्वा श्रीणामीत्यथैनमुद्गृह्णात्यत्र विज्ञानमुपैति यदि ताजक्प्रस्कन्देद्वर्षुकः पर्जन्यो भवति
यदि चिरमवर्षुको न सादयतीति ब्राह्मणम्
अथैनमुपाँ शुसवनं दशापवित्रेण परिवेष्ट्य तेनाधस्तात्पात्रमुद्धन्त्यूर्मिकारमविषिञ्चन् ९

आ समुद्रा दान्तरिक्षात्प्रजापतिरुदधिं च्यावयातीन्द्रः प्रस्नौतु मरुतो वर्षयन्तून्नम्भय पृथिवीं भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो विसृजा दृतिमित्यथैनमुपाँ शुसवनं दशापवित्रेण परिमृज्य ग्रावस्वपिसृजति
विवृण्वन्ति पूर्वां द्वारमपरां चाथैतं ग्रहं बर्हिर्हस्तेनापिधायोपोत्तिष्ठन्नाहादित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूहीत्य्
अत्याक्रम्याश्राव्याहादित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्येति
वषट्कृत ओषधीः प्रास्याग्नावादित्यं जुहोति सकृदेव
न हुत्वान्वीक्षते
पर्यावृत्तस्यैव प्रतिप्रस्थाता पात्रमादत्त एतस्मिन्काले प्रतिहर्ता पूतभृतो बिले पवित्रं वितत्य द्वौ वा त्रीन्वा राज्ञ उदचनानानयत्याग्रयणमेवाध्वर्युरादत्त आदित्यस्थालीं प्रतिप्रस्थाता सोपशयाँ संप्रगृह्णाति
तासां तिसृणां चतसृणां वा धाराणां तथोपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति
तं तथैव त्रिरभिहिङ्कृत्य परिमृज्य सादयत्यपोद्धृत्य पवित्रं बर्हिषी अन्तर्धायाशिरमवनयत्यन्वारब्धायां पत्न्यामस्मे देवासो वपुषे चिकित्सतेति चतसृभिरनुच्छन्दसम्
अपोद्धृत्य बर्हिषीपूतभृतो बिले द्र प्साननुमन्त्रयते
द्वौ पवमानस्य ग्रहौ गृह्णाति
तथोन्नेतरित्याह प्राञ्चँ राजानं पूतभृतमभि संपवयताद्दशाभिराधवनीयं मृष्ट्वा न्युब्जतादिति
स तथा करोति
तथाप उपस्पृश्य बर्हिषी आदायोपनिःसर्पति
तेषु तथैव समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति १०

इदं तृतीयँ सवनं कवीनामृतेन ये चमसमैरयन्त । ते सौधन्वनाः सुवरानशानाः स्विष्टिं नो अभि वसीयो नयन्तु स्वाहेत्येतयाध्वर्यू जुहुतो यथावेदमितरे जुह्वति
तथा प्रदक्षिणमावृत्य सदोऽभिपवमानँ सर्पन्ति

तथा सदसि यथायतनमुपविशन्ति
तथोद्गात्रे वा प्रस्तोत्रे वा बर्हिषी प्रयच्छत्यृक्सामयोरुपस्तरणमसि मिथुनस्य प्रजात्या इति वा तूष्णीं वा
तथोपाकरणं जपति वायुर्हिङ्कर्तेति
स एष सप्तदश आर्भवः पवमानो भवति
तस्य नवम्यां प्रस्तुतायां वाचयति सघासि जगतीच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेत्यत्र पञ्चहोतारं व्याचष्ट उद्द्रुते साम्नि संप्रैषमाहाग्नीच्छालाकान्विहर बर्हि स्तृणाहि पुरोडाशाँ अलंकुरु प्रतिप्रस्थातः पशौ संवदस्वेति
यथासंप्रैषं तौ कुरुतस्
तथाप उपस्पृश्याहैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य तथा समस्तँ राजानमुपतिष्ठते
नात्रावकाशैश्चरति
तथा प्रचरण्यां नवकृत्वो गृह्णीते
तथैष आग्नीध्र आग्नीध्रीयाद्धिष्णियादनुपूर्वं धिष्णियेषु शालाकान्विहरति
तथा पुरस्तात्प्रत्यङ्ङासीनो विहृतञ्छालाकान्व्याघारयति
तथोत्तरस्य हविर्धानस्य चुबुके प्रचरणीँ सादयति
तथा सांकाशिनेन पथा पृष्ठ्याँ स्तृणाति संततां गार्हपत्यादाहवनीयात् ११

अथ पशुना चरति मनोताप्रभृतिनेडान्तेन
तथा सवनीयान्पुरोडाशान्याचति
तेषां तथैव समवद्यन्नाह तृतीयस्य सवनस्येन्द्रा य पुरोडाशानामवदीयमानानामनुब्रूहीति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्ति
तथोपभृति स्विष्टकृते सर्वेषाँ सकृत्सकृदुत्तरार्धादवद्यति
द्विरभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याह तृतीयस्य सवनस्येन्द्रा य पुरोडाशान्प्रस्थितान्प्रेष्येति
वषट्कृते जुहोति
तथा समावपमान आहाग्नयेऽनुब्रूहीत्याश्राव्याहाग्नये प्रेष्येति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा तथैव पात्र्यामिडाँ समवधाय प्रतीचः पुरोडाशान्प्रहिणोत्यनु हैके संयन्ति पशव इडेति वदन्तोऽथ प्राङायन्नाहोन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वं तीव्राँ आशीर्वतः कुरुध्वमुन्नेतः सोमं प्रभावयेति
होतृचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथ प्राङेत्य होतृचमसमादायाश्राव्याह तृतीयस्य सवनस्यर्भुमतो विभुमतः प्रभुमतो वाजवतः सवितृवतो बृहस्पतिवतो विश्वदेव्यावतस्तीव्राँ आशीर्वत इन्द्रा य सोमान्प्रस्थितान्प्रेष्येति
वषट्कृते जुहोति श्येनाय पत्वने स्वाहेत्यनुवषट्कृते तृम्पन्ताँ होत्रा मधोर्घृतस्य स्वाहेति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सर्वाँ श्चमसाञ्जुह्वति
तथा संप्रैषमाह प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य प्र सदस्यस्य होत्रकाणां चमसाध्वर्यवः सकृत्सकृदाशीर्वतोऽभ्युन्नीयोपावर्तध्वमिति
यन्त्येते महर्त्विजां चमसास्
तथैते होत्रकाणां चमसाध्वर्यवः सकृत्सकृदाशीर्वतोऽभ्युन्नीयोपावर्तन्ते

तेषां तथैव मैत्रावरुणचमसमादायाश्राव्याह प्रशास्तर्यजेति
वषट्कृते जुहोति विष्टम्भाय धर्मणे स्वाहेति
परिधये जनप्रथनायेति ब्राह्मणाच्छँ सिन ऊर्जे होत्राणामिति पोतुः
पयसे होत्राणामिति नेष्टुः
प्रजापतये मनव इत्यच्छावाकस्यर्तमृतपाः सुवर्वाडित्यग्नीधश्चमसं चमसमेवानुवषट्करोति तृम्पन्ताँ होत्रा मधोर्घृतस्य स्वाहेति
सप्त होत्राः संयाज्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याग्रेण होतारमुपविशत्ययाडग्नीदिति
स भद्र मकरित्याह होता यो नः सोमँ राजानं पाययिष्यतीति
तथाप उपस्पृश्य होत्र इडामुपोद्यच्छन्त उपहूयमानायामिडायामुपप्रगृह्णन्ति चमसान्
उपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्त इडोपहूताँ श्चमसान्भक्षयन्ति भक्षेहि माविशेति दीर्घभक्षमनुद्रुत्यादित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्र पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्त आप्याययन्ति चमसानाप्यायस्व समेतु त इति
सीदन्ति नाराशँ सा आप्यायिता दक्षिणस्य हविर्धानस्यापालम्बमधोऽध उपासनवन्तो वैश्वदेवाय

चमसायचमसायैव त्रीँ स्त्रीन्पुरोडाशशकलानुपास्यति
नव होतृचमसे
तानत एवानुमन्त्रयतेऽत्र पितरो यथाभागं मन्दध्वमित्येतस्मिन्काल आग्नीध्रे यजमानः पुरोडाशानां प्राश्नाति
यदशना स्यात्पत्नी पत्नीशाले १२

अथ प्राङायन्नाह देवाय सवित्रेऽनुब्रूहि प्रतिप्रस्थातरन्तर्यामपात्रेण सावित्रमाग्रयणाद्ग्रहं गृहीत्वोपास्व मा सीषद इति
तच्छ्रुत्वा प्रतिप्रस्थातान्तर्यामपात्रेण सावित्रमाग्रयणाद्ग्रहं गृह्णाति वाममद्य सवितरित्यनुद्रुत्योपयामगृहीतोऽसि देवाय त्वा सवित्रे जुष्टं गृह्णामीति
न सादयतीति ब्राह्मणम्
असादयित्वैवोपनिष्क्रम्याश्राव्याह देवाय सवित्रे प्रेष्येति
वषट्कृते जुहोत्यथ वै भवति
सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सोमे सोममभिगृह्णातीति
स सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सोमे सोममभिगृह्णात्युपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षे नमो विश्वेभ्यस्त्वा देवेभ्यो जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्र् तुय होत्रा समीक्ष्य पराङावर्तत इडा देवहूरिति
यावदेतस्य यजुषः पर्याप्नोति तावज्जपत्यभ्येनमाह्वयते होता

प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणात्यथ यत्र होतुरभिजानात्येकया च दशभिश्च स्वभूत इति तत्प्रतिप्रस्थाता द्विदेवत्यपात्राणि मार्जालीये मार्जायित्वा पात्रेष्वपिसृजत्यथ यत्र होतुरभिजानाति प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति तदन्यतोमदं प्रतिगृणात्योथा मोद इव मदा मोद इवेत्या व्याहावादथ यत्र होतुरभिजानाति तद्रा धो अद्य सवितुर्वरेण्यमिति तदुभयतोमदमेव प्रतिगृणाति मदा मोद इव मदा मोद इवेत्या व्याहावात्
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं वैश्वदेवं ग्रहम्
अनूद्यच्छन्ते नाराशँ सान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमस्येति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विर्नाराशँ साननुप्रकम्पयन्त्येतत्पात्रं नाराशँ सा अन्वायन्त्यनुसवनभक्षो विश्वैर्देवैः पीतस्येति
होता चैवाध्वर्युश्चैतत्पात्रँ संभक्षयतो नराशँ सपीतेन नाराशँ सान्नराशँ सपीतस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दसः पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति

होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्ते १३

अथ होतारं विपृच्छति परियक्ष्यसि सौम्या३ं न परियक्ष्यसी३ इति
स यथैनँ होता प्रत्याह तच्छ्रुत्वासन्नँ सौम्यमागच्छत्यथ स्रुचि चतुर्गृहीतं गृहीत्वात्याक्रम्याश्राव्याह घृतस्य यजेति
वषट्कृते जुहोत्यथोपस्तीर्य द्विश्चरोरवद्यति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
न प्रत्यनक्त्यत्याक्रम्याश्राव्याह सौम्यस्य यजेति
वषट्कृते दक्षिणार्धपूर्वार्धे प्राचीनावीती सौम्यं जुहोत्यथैनं वैष्णव्यर्चा स्रुवाहुत्याभिजुहोति विष्णो त्वं नो अन्तम इति
यद्यु वै होताग्नावैष्णव्यर्चा परियजति संपन्नमिति नाद्रि येत
तस्मिन्नाज्यमानीयावेक्षते
पवित्रं वै सौम्य आत्मानमेव पवयन्ते
य आत्मानं न परिपश्येदितासुः स्यादभिददिं कृत्वावेक्षेतेति
तस्मिन्भूय आज्यमानीयावेक्षते यन्मे मनः परागतं यद्वा मे अपरागतम्। राज्ञा सोमेन तद्वयमस्मासु धारयामसीति
मन एवात्मन्दधार न गतमना भवतीति ब्राह्मणम्
अथैनमुद्गातृभ्यो हरन्ति
तस्मिँ स्तच्चेष्टन्ति यत्ते विदुरथ प्राङायन्नाह प्रतिप्रस्थातरुपाँ शुपात्रेण पात्नीवतमाग्रयणाद्ग्रहं गृहीत्वोपास्व मा सीषद इति
तच्छ्रुत्वा प्रतिप्रस्थातोपाँ शुपात्रेण पात्नीवतमाग्रयणाद्ग्रहं गृह्णात्युपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्दो इन्द्रि यावतः पत्नीवन्तं ग्रहं गृह्णाम्यग्ना३इ पत्नीवा३ इति
बर्हिषी अन्तर्धाय घृतेन श्रीणात्यहं परस्तादहमवस्तादहं ज्योतिषा वि तमो ववार । यदन्तरिक्षं तदु मे पिताभूदहँ सूर्यमुभयतो ददर्शाहं भूयासमुत्तमः समानानामित्यपोद्धृत्य बर्हिषी न सादयतीति ब्राह्मणम्
असादयित्वोपनिष्क्रम्याश्राव्याहाग्नीत्पात्नीवतस्य यजेति
वषट्कृते जुहोति सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहेत्युपाँ श्वनुवषट्कृते हुत्वा हरति भक्षं स यद्यस्मिन्नाग्नीध्र उपहवमिच्छत उपैवैनँ ह्वयते
नो त्वेव संभक्षयतोऽथाहाग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा संख्याप्याप उपप्रवर्तयतादूरुणोपप्रवर्तयताद्नग्नं कृत्वोरुमुपप्रवर्तयताधोतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिचः प्रतिप्रस्थातर्होतृचमसे ध्रुवायावकाशं कुरुतादेहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य यजमानं ध्रुवमुपस्थापयति भूतमसि भूते मा धा मुखमसि मुखं भूयासमिति
होतृचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
सर्वश एव राजानँ समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते यज्ञायज्ञियेनात्र सप्तहोतारं व्याचष्टे
प्रस्तुते साम्नि नेष्टा पत्नीमुद्गात्रा संख्याप्य वाचयति विश्वस्य ते विश्वावतो वृष्णियावतस्तवाग्ने वामीरनु संदृशि विश्वा रेताँ सि धिषीयागन्देवान्यज्ञो नि देवीर्देवेभ्यो यज्ञमशिषन्नस्मिन्त्सुन्वति यजमान आशिषः स्वाहाकृताः समुद्रे ष्ठा गन्धर्वमातिष्ठतानु वातस्य पत्मन्निड ईडिता इति
स यदेवैनामुद्गातोपमीवति तदेषा पत्न्यूरुणा पन्नेजनीरुपप्रवर्तयति
नग्नं कृत्वोरुमुपप्रवर्तयति १४

होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणात्यथ यत्र होतुरभिजानाति स्वादुष्किलायं मधुमाँ उतायमिति तदुभयतोमोदं प्रतिगृणाति मोदा मोद इव मदा मोद इवेत्या व्याहावादथ यत्र होतुरभिजानाति तन्तुं तन्वन्रजसो भानुमन्विहीति तत्प्रतिप्रस्थाता ध्रुवम्परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्यथैनं प्रच्यावयति विश्वे त्वा देवा वैश्वानराः प्रच्यावयन्त्वित्य्
अथैनमाहरति दिवि देवान्दृँ हान्तरिक्षे वयाँ सि पृथिव्यां पार्थिवानित्यथैनँ होतृचम्सेऽवनयति ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वमिज्जगदयक्ष्मँ सौमना असत्॥ यथा न इन्द्र इद्विशः केवलीः सर्वाः समनसः करत्। यथा नः सर्वा इद्दिशोऽस्माकं केवलीरसन्निति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतँ होतृचमसम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सर्वाँ श्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्षोऽग्निना वैश्वानरेण मरुद्भिः पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथैताँ श्चमसानद्भिः पूरयित्वोत्तरेणाहवनीयं प्राचो वोदीचो वायातयति
तेषु त्रीँ स्त्रीँ श्च दूर्वाग्रन्थीन्प्रास्यत्येकैकं च दर्भपुञ्जीलम्
अथोक्थं वाचीन्द्रा येत्याह तृतीयसवनं प्रतिगीर्य प्रशास्तः प्रसुहीति
सर्पतेत्याह प्रशास्ता
संतिष्ठते तृतीयसवनम् १५

अथ संप्रैषमाहाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्याहरन्त्येतानाग्नीध्रादौपयजानङ्गारांस्तानग्रेण होतारं निवपत्युपसीदत्युपयष्टा गुदतृतीयेनाथाध्वर्युः पृषदाज्यं विहत्य जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवेभ्यः प्रेष्येति

वषट्कृते जुहोति प्रेष्य प्रेष्येत्येकादशानूयाजानिष्ट्वोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा वाजवतीभ्याँ स्रुचौ व्यूहति
शंयुना प्रस्तरपरिधि संप्रकीर्य संप्रस्राव्य स्रुचौ विमुच्योन्नेतारमाहोन्नेतर्ग्रहस्ते प्रचरेति
तच्छ्रुत्वोन्नेता द्रो णकलश आग्रयणतृतीयं ग्रहं गृह्णात्युपयामगृहीतोऽसि हरिरसि हारियोजनो हर्यो स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामीति
बर्हिषी अन्तर्धाय धानाभिः श्रीणाति हरी स्थ हर्योर्धाना इत्यपोद्धृत्य बर्हिषी अथैनमादायोपोत्तिष्ठन्नाहेन्द्रा य हरिवते धानासोमानामनुब्रूहीति
शीर्षन्नधिनिधाय विक्रम्याश्राव्याहेन्द्रा य हरिवते धानासोमान्प्रस्थ्तान्प्रेष्येति
वषट्कृते जुहोति सहसोमा इन्द्रा य स्वाहेत्यनुवषट्कृते हुत्वा हरति भक्षं स यावन्त ऋत्विजस्तेभ्य उन्नेता धाना व्यावपति
त उन्नेतर्युपहवमिष्ट्वैकैकामन्वस्यन्ते
मनसा संबाधते १६

इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य हरिवत इन्द्र पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्यथैना निर्णिज्योत्तरवेद्याँ संनिवपन्त्यापूर्या स्था मा पूरयत प्रजया च धनेन चेति
निवपन्नेव यजमानस्तिस्रो धानाः सचतेऽथ याचति स्फ्यमुदपात्रं बर्हिरित्येतत्समादायाहैहि यजमानेति

जघनेन दक्षिणेन हविर्धाने परीत्य दक्षिणेन मार्जालीयं धिष्णियँ स्फ्येनोद्धत्यावोक्ष्य दक्षिणाग्रं बर्हि स्तीर्त्वाद्भिर्मार्जयति मार्जयन्तां पितरो मार्जयन्तां पितामहार्मार्जयन्तां प्रपितामहा इत्यथ तिस्रो धाना ददात्येतत्ते ततासौ ये च त्वामन्वेतत्ते पितामहासौ ये च त्वामन्वेतत्ते प्रपितामहासौ ये च त्वामन्वित्यत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदङ्पर्यावृत्यात्र षड्ढोतारं व्याचष्टेऽथाभिपर्यावृत्य तथैवाद्भिर्मार्जयित्वैतेनैव यथेतमेत्याग्नीध्रीये द्वे स्रुवाहुती जुहोति यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादिति द्वाभ्याम्
अथाहवनीये शाकलैश्चरन्ति देवकृतस्यैनसोऽवयजनमसि स्वाहा मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा पितृकृतस्यैनसोऽवयजनमसि स्वाहेत्यथाप्सुषोमान्पर्युपविश्यावघ्रेण भक्षयन्त्यप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर्यो गोसनिस्तस्य ते पितृभिर्भक्षंकृतस्योपहूतस्योपहूतो भक्षयामीत्यथैना निनीयोपोत्थायादित्यमुपतिष्ठन्ते १७

अपाम सोमममृता अभूमादर्श्म ज्योतिरविदाम देवान्। किमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्येति
यद्यु वा अस्तमित आदित्यो भवत्याहवनीयमेवैतेन यजुषोपतिष्ठन्तेऽथाग्नीध्रं द्रुत्वाग्नीध्रे दधिद्र प्सान्भक्षयन्ति दधिक्राव्णो अकारिषमित्य्
अथ सख्यवैसर्जनं जपन्त्युभा कवी युवाना सत्या ता धर्मणस्पती । सत्यस्य धर्मणस्पते वि सख्यानि सृजामह इत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य षडृग्मियाणि जुहोति धाता रातिः सवितेदं जुषन्तामिति
त्रीणि यजूँ षि यज्ञ यज्ञं गच्छैष ते यज्ञो यज्ञपते देवा गातुविद इत्यथ स्रुचि चतुर्गृहीतं गृहीत्वायुर्दां दशमीं जुहोत्यायुर्दा अग्ने हविषो जुषाण इत्येतस्मिन्काले चात्वाले यजमानः कृष्णविषाणां प्रास्यतीन्द्र स्य योनिरसि यज्ञस्य त्वा योनौ सादयामीति वा तूष्णीं वाथ प्रतिप्रस्थाता पत्नीमुदानयति सा चात्वाले शङ्कुं प्रास्यति तूष्णीम् १८

अत्रैतमवभृथँ सँ सादयन्त्यग्रेणाग्नीध्रमुच्छ्राय्यां वा चर्मणि वा
पत्नीशालादाददते वारुणमुपस्तीर्णाभिघारितमाज्यस्थालीँ सस्रुवाँ स्रुचं बर्हिः प्रतिवसनीये वाससी औदुम्बरीँ राजासन्दीं सदस औदुम्बरीँ स्थूणां मैत्रावरुणदण्डं हविर्धानाभ्यां पूतभृदाधवनीयौ चमसानधिषवणं चर्माधिषवणे फलके षट्छङ्कून्ग्राव्णो वायव्यानि स्थालीर्द्रोणकलशं दशापवित्रे ऋजीषमित्येतत्सह कृष्णाजिने यत्किञ्चित्सोमलिप्तं भवत्यथ वै भवति
परा स्थालीरस्यन्त्युद्वायव्यानि हरन्तीत्येतत्समादाय प्रस्तोतारमाह प्रस्तोतः साम गायेति

साम्ना प्रस्तोतान्ववैति
त्रिर्निधनमुपैति
पुरुषःपुरुषो निधनमुपैतीति ब्राह्मणम्
अथान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रामन्त्युरुँ हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ । अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चिदिति
विषुवति द्वितीयं निधनमुपयन्त्यपः पराख्याय वाचयति शतं ते राजन्भिषजः सहस्रमुर्वी गम्भीरा सुमतिष्टे अस्तु । बाधस्व द्वेषो निरृतिं पराचैः कृतं चिदेनः प्रमुमुग्ध्यस्मदित्युदकान्ते तृतीयं निधनमुपयन्त्यथापामन्तमभितिष्ठन्त्यभिष्ठितो वरुणस्य पाश इत्यथाप्सु बर्हिः प्रास्यत्यग्नेरनीकमप आविवेश । अपां नपात्प्रतिरक्षन्नसुर्यं दमेदमे समिधं यक्ष्यग्न इत्यथैनत्स्रुवाहुत्याभिजुहोति प्रति ते जिह्वा घृतमुच्चरण्येत्स्वाहेत्यथ स्रुचि चतुर्गृहीतं गृहीत्वापबर्हिषश्चतुरः प्रयाजान्यजत्यथाग्नये सोमायेत्याज्यभागाभ्यां चरत्यथोपस्तीर्य पूर्वार्धात्पुरोडाशस्यावद्यन्नाह १९

वरुणायानुब्रूहीति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याह वरुणं यजेति
वषट्कृते जुहोत्यथोपस्तीर्य सर्वश एव वारुणमवदधदाहाग्नीवरुणाभ्याँ स्विष्टकृद्भ्यामनुब्रूहीति
द्विरभिघारयत्याश्राव्याहाग्नीवरुणौ स्विष्टकृतौ यजेति

वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथ स्रुचि चतुर्गृहीतं गृहीत्वापबर्हिषौ द्वावनूयाजौ यजत्यथाप्सु स्रुचं प्रतिष्ठापयति समुद्रे ते हृदयमप्स्वन्तरित्यथैनामद्भिः पूरयति सं त्वा विशन्त्वोषधीरुताप इत्यप्स्वेवापो जुहोति यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम स्वाहेत्यत्रैतमवभृथँ संप्रकिरन्ति यत्किंचित्सोमलिप्तं भवत्यवभृथ निचंकुण निचेरुरसि निचंकुणाव देवैर्देवकृतमेनोऽयाडव मर्त्यैर्मर्त्यकृतमुरोरा नो देव रिषस्पाहीत्यथाञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति
तां दिशं निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्यात्रैतदृजीषं प्रप्लावयन्ति सह कृष्णाजिनेन देवीराप एष वो गर्भस्तं वः सुप्रीतँ सुभृतमकर्म देवेषु नः सुकृतो ब्रूतादिति
बिन्दूनुपैव स्पृशति
न भक्षयत्यथानुपमज्जन्तावन्योन्यस्य पृष्ठे धावयतो विस्रस्य मेखले प्रतिवसनीये वाससी परिधायोन्नेतारमाहोन्नेतरुन्नो नयेति
तिसृभिरुद्वतीभिरुदायन्त्युद्वयं तमसस्पर्युदु त्यं चित्रमित्यथापामन्तं प्रतियौति प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाश इत्यथाप्रतीक्षमायन्ति
वरुणस्यान्तर्हित्यै
प्रपथे समिधः कुर्वत एधोऽस्येधिषीमहीत्य्
एत्याहवनीयेऽभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्यथाहवनीयमुपतिष्ठन्तेऽपो अन्वचारिषँ रसेन समसृक्ष्महि । पयस्वाँ अग्न आगमं तं मा सँ सृज वर्चसेति
व्यवच्छिन्दन्ति परिश्रयणानि
विवर्तयन्ति हविर्धाने दक्षिणेन दक्षिणमुत्तरेणोत्तरम् २०

यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपत्येष एव वेद एतन्मेक्षणमेतद्बर्हिरथैतां चरुस्थालीँ सक्षामकाषामुत्खिद्य निर्णिज्य तयोदयनीयँ श्रपयति
तस्मिँ स्तथैव श्रप्यमाणे जघनेन गार्हपत्यमौपसदायां वेद्याँ स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
समानं कर्म यथा प्रायणीयस्यैतावदेव नाना
पथ्याममुत्र स्वस्तिंप्रथमां यजति तामिहोपोत्तमां यजति
नो तु दिशश्च्यवन्तेऽथ पुरस्तात्स्विष्टकृतः स्रुवाहुतिमुपजुहोति यास्ते विश्वाः समिधः सन्त्यग्न इत्युपस्तरणाभिघार्णाभ्यामेवैतद्ध्रुवाजयं विच्छिँ षन्ति
समिष्टयजुरु हैके जुह्वति

शंय्वन्त उदयनीयः संतिष्ठतेऽत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथ पृषदाज्यवन्त्याज्यानि गृहीत्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै प्रसिद्धं वपया चरित्वा दक्षिणे वेद्यन्ते केशश्मश्रु वपते
नखानि निकृन्तते
सर्वसँ स्थां पशोः कुर्वन्त्यथ यदि वशां न लभते मैत्रावरुणीमामिक्षां गार्हपत्ये श्रपयित्वा तयाहवनीये प्रचरति
साज्यभागप्रतिपत्केडान्ता संतिष्ठते २१

अथारण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्याग्नेयमष्टाकपालमुदवसानीयामिष्टिं निर्वपति
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः
पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषोऽग्ने तमद्याधा ह्यग्न इति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्यानड्वाहं ददाति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथारण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्य पूर्वाणि देविकाहवीँ षि निर्वपत्यनुमत्यै चरुँ राकायै चरुं धात्रे पुरोडाशं द्वादशकपालमित्य्
अन्वाहार्यमासाद्य वत्सतरीं ददाति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ तदानीमेव पृष्ठ्याँ स्तीर्त्वापः प्रणीयोत्तराणि देविकाहवीँ षि निर्वपति सिनीवाल्यै चरुं कुह्वै चरुं धात्र एव पुरोडाशं द्वादशकपालमित्यन्वाहार्यमासाद्य वत्सतरं ददाति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथारण्योरग्नीन्समारोह्य स्वान्यग्न्यायतनान्यध्यवसाय मथित्वाग्नीन्विहृत्य सायंप्रातरग्निहोत्रे प्रतिजुहोति
संतिष्ठतेऽग्निष्टोमः संतिष्ठतेऽग्निष्टोमः २२

नवमः प्रश्नः
प्रवर्ग्यँ संभरिष्यन्नुपकल्पयते खादिरीमौदुम्बरीं वैणवीं वैकङ्कतीं वाभ्रिं व्याममात्रीं वारत्निमात्रीं वोभयतःक्ष्णूं मृदं च भावितां करणीयां कृष्णाजिनं वराहविहतं वल्मीकवपामूतीकस्तम्बं वादारस्तम्बं वा छागापयोऽर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजिनलोमानि सूनामधिकरणीं कर्तारं कुशलं वेणुकाण्डं मदन्तीरित्यथामावास्येन वा हविषेष्ट्वा नक्षत्रे वा पूर्वाँ शान्तिमुपयन्ति नमो वाच इत्यथाग्रेण शालां धनुर्मात्रे वेद्यै गर्तं खानयति
तद्भावितां मृदमवलेपयति
समां बिलेन करोति
तदुपसादयति वराहविहतं वल्मीकवपामूतीकस्तम्बं वादारस्तम्बं वा स्थाले छागापय इत्यथोत्तरतः पार्श्वतः संभाराणां प्राचीनाग्राणि तृणानि सँ स्तीर्य तेषूपरि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणात्यथोत्तरँ शालाखण्डमग्रेण स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं परिमण्डलं खरं करोत्यथैनँ सिकताभिराभ्राशिनं करोति
तं कुशतरुणकैर्दूर्वाग्रन्थिभिरिति संप्रच्छाद्याथैनं परिश्रयन्ति
तस्योदीचीं द्वारं कुर्वन्ति
तदुपसादयत्यर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजिनलोमानि सूनामधिकरणीं कर्तारं कुशलं वेणुकाण्डमित्यथ गार्हपत्ये मदन्तीरपोऽधिश्रयत्यन्तर्वेद्यभ्रिं निदधाति
परिश्रयन्ति द्वाराणि
पत्नीशाले पत्नीं परिश्रयन्ति

परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चात्र पूर्वाँ शान्तिमुपयन्ति येषामनुपेता भवत्य्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये सावित्रं जुहोत्यन्वारब्धे यजमाने १

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इद्मही देवस्य सवितुः परिष्टुतिः स्वाहेति
जुहोत्यदीक्षितस्य
जपति दीक्षितस्याथाभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरस्यध्वरकृद्देवेभ्य इत्यथैनामादायोपोत्तिष्ठत्युत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचेति
प्रैति प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसम्देवा यज्ञं नयन्तु न इत्यथ भावितां मृदमुपतिष्ठते देवी द्यावापृथिवी अनु मेऽमँ साथामित्यभ्रिया प्रहरत्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने निवपत्युदूह्योपस्थानम्
एवमेव द्वितीयँ हरत्येवं तृतीयं तूष्णीं चतुर्थं पर्येतस्यै श्नष्ट्यथ वराहविहतमुपतिष्ठत इयत्यग्र आसीरित्यभ्रिया प्रहरत्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने निवपत्युदूह्योपस्थानम्
एवमेव द्वितीयँ हरत्य्
एवं तृतीयं तूष्णीं चतुर्थम्पर्येतस्य शिनष्ट्यथ वल्मीकवपामुपतिष्ठते देवीर्वम्रीरस्य भूतस्य प्रथमजा ऋतावरीरित्यभ्रिया प्रहरत्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने निवपत्युदूह्योपस्थानम्
एवमेव द्वितीयँ हरत्येवं तृतीयं तूष्णीं चतुर्थम्पर्येतस्यै शिनष्ट्यथोतीकस्तम्बं वादारस्तम्बं वोपतिष्ठत इन्द्र स्यौजोऽसीत्यभ्रिया प्रहरत्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने निवपत्युदूह्योपस्थानम्
एवमेव द्वितीयँ हरत्येवं तृतीयं तूष्णीं चतुर्थं पर्येतस्य शिनष्ट्यथ छागापय उपतिष्ठतेऽग्निजा असि प्रजापते रेत इत्यभ्रिमवदधात्यृध्यासमद्य मखस्य शिर इति
मखाय त्वेति हरति
मखस्य त्वा शीर्ष्ण इत्युत्तरतः कृष्णाजिने मृदि प्रश्चोतयत्युदूह्योपस्थानम्
एवमेव द्वितीयं प्रश्चोतयत्येवं तृतीयं तूष्णीं चतुर्थं चतुर्थेन सह सर्वश एवैतच्छागापय स्थालेन मृदि परिषिञ्चत्यत्रैतानतिशेषानपोऽभ्यवहरन्त्यत्रैव वा प्रकिरन्ति
प्रायश्चित्ताय वा परिशाययन्ति २

अथ प्रवर्ग्यमाददतेऽवनाम्य मुखान्यनभिप्रश्वसन्तो न प्रवर्ग्यं चादित्यं चान्तर्दधति
बहवो हरन्तीति विज्ञायतेऽथैनमानयन्त्यैतु ब्रह्मणस्पतिरा देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु न इत्य्
अथैनं खर उपावहरन्त्यायुर्धेहि प्राणं धेह्यपानं धेहि व्यानं धेहि चक्षुर्धेहि श्रोत्रं धेहि मनो धेहि वाचं धेह्यात्मानं धेहि प्रतिष्ठां धेहि मां धेहि मयि धेहीत्यथैनमर्मकपालैः शर्कराभिरवाञ्जनपिष्टाभिरजलोमैः कृष्णाजिनलोमैरिति सँ सृज्य मदन्तीभिरुपसृजति मधु त्वा मधुला करोत्विति
पिण्डं करोति मखस्य शिरोऽसीति
यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यामुपनिगृह्णात्यथ तृतीयं मृदोऽपच्छिद्य त्रीन्पिण्डान्करोति
तेषामेकं कर्त्रे प्रयच्छति गायत्रोऽसीति
तेनास्य बुध्नं करोति गायत्रेण त्वा छन्दसा करोमीत्यतिशिष्टायै मृदोऽर्धं प्रयच्छति त्रैष्टुभोऽसीति
तेनास्य मध्यं करोति त्रैष्टुभेन त्वा छन्दसा करोमीति
सर्वामन्ततो मृदं प्रयच्छति जागतोऽसीति
तेनास्य बिलं करोति जागतेन त्वा छन्दसा करोमीति
तं प्रादेशमात्रं पृथुबुध्नं मध्ये लग्नं करोत्यथास्य वेणुकाण्डेन द्विभागमवविध्यति
तदस्य पिन्वनं भवत्यथास्य त्र्यङ्गुले वा चतुरङ्गुले वा रास्नां पर्यस्यति मखस्य रास्नासीत्यथास्य बिलं गृह्णात्यदितिस्ते बिलं गृह्णातु पाङ्क्तेन छन्दसेत्यथैनमादित्येनाभितपति सूर्यस्य हरसा श्रायेत्यथैनं खरे निदधाति
निहितमनुमन्त्रयते मखोऽसीत्येवमेव द्वितीयं महावीरं करोत्येवं तृतीयं तूष्णीं पिन्वने रौहिणकपाले चाज्यस्थालीम्चाथ या मृदतिशिष्यते तया प्रवाते प्रतिलेपमुपवातयति
तेषूपवातेषूपकल्पयत एकविँ शतिं वृष्णो अश्वस्य शकृत्पिण्डानभ्रिमग्निं पचनमित्यथाश्वशकमादीप्य मुख्यं महावीरं धूपयति वृष्णो अश्वस्य निष्पदसि वरुणस्त्वा धृतव्रत आधूपयतु मित्रावरुणयोर्ध्रुवेण धर्मणेत्य्
अन्तरतश्च बाह्यतश्च सुधूपितं कृत्वा निदधात्येवमेव द्वितीयं महावीरं धूपयत्येवं तृतीयं तूष्णीं पिन्वने रौहिणकपाले चाज्यस्थालीं चाथोत्तरेण शालामुरुबिलमिवावटं खानयति
तं पचनेनावस्तीर्य तस्मिन्प्राचो वोदीचो वा महावीरानायातयति
पुरस्तात्पिन्वने
पश्चाद्रौ हिणकपाले चाज्यस्थालीं चाथैनान्पचनेनोपरिष्टात्संप्रच्छाद्य मृदावलिम्पति
चतुरङ्गुलमनुदिशमादीपनायातिशिनष्ट्यथोपोषति ३

अर्चिषे त्वेति पुरस्ताद्शोचिषे त्वेति दक्षिणतो ज्योतिषे त्वेति पश्चात्
तपसे त्वेत्युत्तरतस्
तेऽह्ना वा रात्र्या वा पच्यन्ते
यदि प्रातरुपोषति सायमुपैति
यदि सायं प्रातस्
तेषु पक्वेषूपकल्पयते गोपयश्छागापयो धृष्टिमश्मसंदावँ सतँ संदँ शं खारीँ शिक्यं कृष्णाजिनमित्येतत्समादायाभ्यैत्यभीमं महिना दिवम्मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम्॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम्। द्युम्नं चित्रश्रवस्तममित्यथ धृष्टिमादत्ते सिद्ध्यै त्वेति
तया मुख्यान्महावीरादङ्गारानुद्वपति देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः । सुबाहुरुत शक्त्येत्यथैनमुच्छ्रयत्युत्तिष्ठ बृहन्भवोर्ध्वस्तिष्ठ ध्रुवस्त्वमित्यथैनमाशये प्रतिष्ठापयत्यपद्यमानः पृथिव्यामाशा दिश आपृणेत्य्
अथैनमन्वीक्षते सूर्यस्य त्वा चतुषान्वीक्ष ऋजवे त्वा साधवे त्वा सुक्षित्यै त्वा भूत्यै त्वेत्यथैनं प्रदक्षिणं पुरीषेण पर्यूहतीदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीति यथावर्णम्
अथैनँ संदँ शेन परिगृह्य सतेऽवधाय छागापयसाच्छृणत्ति गायत्रेण त्वा छन्दसाच्छृणद्मि त्रैष्टुभेन त्वा छन्दसाच्छृणद्मि जागतेन त्वा छन्दसाच्छृणद्मि छृणत्तु त्वा वाक्छृणत्तु त्वोर्क्छृणत्तु त्वा हविश्छृन्द्धि वाचं छृन्द्ध्यूर्जं छृन्द्धि हविर्देव पुरश्चर सघ्यासं त्वेत्यन्तरतश्च बाह्यतश्च स्वाच्छृणं कृत्वा गोपयसाभिविष्यन्दयत्येवमेव द्वितीयं महावीरमाच्छृणत्त्येवं तृतीयं तूष्णीं पिन्वने रौहिणकपाले चाज्यस्थालीं चाथ यदि विधुर्वा प्रदरो वा जायतेऽश्मचूर्णानि छागापयसि संप्रकीर्य तैः प्रत्युक्ष्योल्मुकेनाभितपति विधुं दद्रा णं यदृते चिदभिश्रिष इति द्वाभ्यां सँ हैव रोहति
यद्यु वै सर्वश एव भिद्यत एतान्येव कपालान्यवाञ्जनं पिष्ट्वा यैषा मृत्प्रायश्चित्ताय परिशेते तया सँ सृज्य कृत्वा पक्त्वाच्छृद्य निदधाति
तेषां यदा श्वसथ उपरमत्यथैनान्खार्याँ समवधाय कृष्णाजिनेनोपरिष्टात्संप्रच्छाद्योत्तरे शालाखण्डे शिक्य आसजति
यथा पत्नी न पश्यति तथा
त आ कालात्परिशेरेऽथोत्तराँ शान्तिमुपयन्ति शं नो वातः पवतां मातरिश्वेति ४

श्वो राज्ञः क्रय इत्युपकल्पयत औदुम्बरीँ सम्राडासन्दीमौदुम्बरीँ स्थूणां गोदोहनीमौदुम्बरं छागायै शङ्कुमौदुम्बरँ शफोपयमनमौदुम्बरँ स्रुवमौदुम्बर्यौ स्रुचावनिष्कीर्णे रौहिणहवणी द्वे औदुम्बरी धृष्टी त्रीणि धवित्राणि कार्ष्णाजिनान्यौदुम्बरदण्डानि

वैणवदण्डानीत्येके
षडौदुम्बराञ्छकलान्वैकङ्कतीं च समिधं त्रयोदश वैकङ्कतान्परिधीन्वैकङ्कतीँ स्रुचं प्रचरणीं कार्ष्मर्यमयान्परिधीन्सुवर्णरजतौ च रुक्मौ द्वे घर्मदुघे धेनुं च छागां च द्वौ कुशमयौ वेदावेकं मौञ्जं वेदमपरिवासितं मौञ्जं रज्जुदाम मुञ्जप्रलवान्रौहिणपिष्टानि खरेभ्यः सिकता इत्यथ प्रायणीयेन चरति
प्रायणीयेन चरित्वा पदेन चरति
पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यातिथ्येन प्रचर्य पूर्वाँ शान्तिमुपयन्ति नमो वाच इत्यथाग्रेण गार्हपत्यं तृणानि सँ स्तीर्य तदेतत्परिघर्म्यँ सर्वँ सँ सादयन्त्यत्र सम्राडासन्दीमत्र स्थूणां गोदोहनीमत्र छागायै शङ्कुमित्यथोत्तरेण गार्हपत्यँ स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं प्रादेशमात्रं परिमण्डलं प्रवृञ्जनीयं खरं करोत्यथैनँ सिकताभिराभ्राशिनं करोत्यथोत्तरेणाहवनीयँ स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं प्रादेशमात्रं परिमण्डलमुद्वासनीयं खरं करोत्यथैनँ सिकताभिराभ्राशिनं करोत्यथोत्तरे शलाखण्डे स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं चतुरश्रं निष्यन्दनवन्तमुच्छिष्टखरं करोत्यथिनँ सिकताभिराभ्राशिनं करोत्यथाध्वर्युः प्रचरणीयं महावीरँ शफाभ्यां परिगृह्य प्रवृञ्जनीये खरे सादयत्य्
अथैनं मौञ्जेन वेदेनापिदधात्यथैतामासन्दीमग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निदधाति
तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणात्यथैतावुपशयौ महावीरौ वेदाभ्यां परिगृह्याग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने प्राचीनबिलौ सादयत्यथैतामभ्रिमग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने सादयत्यथैतां मृदमतिशिष्टामग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने सादयत्यथैताँ स्थूणां गोदोहनीं छागायै शङ्कुमित्यादाय जघनेन दक्षिणेन गार्हपत्यं परिक्रम्य दक्षिणया द्वारोपनिर्हृत्य होतुः संदर्शे स्थूणां निहत्य्मौञ्जेन दाम्ना घर्मदुघो वत्सं बध्नन्ति
तमुत्तरेण छागायै शङ्कुं निहत्य छागां निग्रथ्नन्ति
प्रत्युब्जति छगलम्
अथैतेनैव यथेतमेत्य निष्क्रमयन्ति वृषलान्
ह्वयन्ति होतारं ह्वयन्ति ब्रह्माणं ह्वयन्ति प्रतिप्रस्थातारं ह्वयन्ति प्रस्तोतारं ह्वयन्त्याग्नीध्रम्परिश्रयन्ति द्वाराणि
पत्नीशाले पत्नीं परिश्रयन्ति
परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चात्र पूर्वाँ शान्तिमुपयन्ति येषामनुपेता भवति ५

अथाध्वर्युः सपवित्राः प्रोक्षणीराददान आह ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामो होतर्घर्ममभिष्टुह्यग्नीद्रौ हिणौ पुरोडाशावधिश्रय प्रतिप्रस्थातः प्रवर्ग्यं विहर प्रस्तोतः सामानि गायेति
तद्ब्रह्मा प्रसौति यजुर्युक्तँ सामभिराक्तखं त्वा विश्वैर्देवैरनुमतं मरुद्भिः । दक्षिणाभिः प्रततं पारयिष्णुं स्तुभो वहन्तु सुमनस्यमानं स नो रुचं धेह्यहृणीयमानो भूर्भुवः सुवरोमिन्द्र वन्तः प्रचरतेत्यथाध्वर्युः प्रचरणीयं महावीरं प्रोक्षति यमाय त्वा मखाय त्वा सूर्यस्य हरसे त्वेत्यभिप्राप्नुवन्परान्परान्संभारान्प्रोक्षति
तमेव प्रतिप्रस्थाता प्रवर्ग्यं विहरत्यथाहवनीये कार्ष्मर्यमयान्परिधीन्परिदधाति
तदुपसादयति षडौदुम्बराञ्छकलान्वैकङ्कतीं च समिधं गार्हपत्ये त्रयोदश वैकङ्कतान्परिधीन्सुवर्णरजतौ च रुक्मौ मुञ्जप्रलवान्रौहिणपिष्टानीत्यथैष आग्नीध्रो जघनेन गार्हपत्यमुपविश्य धृष्टीभ्यां प्रतीचोऽङ्गारान्निरूह्य तेषु रौहिणकपाले उपदधात्यथ दारुणसंयुतानि पिष्टानि संयुत्य रौहिणौ पुरोडाशावधिश्रयत्यथाज्यं निर्वपत्यथाज्यमधिश्रयत्युभयं पर्यग्निकृत्वा रौहिणौ पुरोडाशौ श्रपयत्येतस्मिन्काले प्रतिप्रस्थाता मौञ्जेन वेदेन होमार्थानि पात्राणि संमृशति महावीरँ स्रुवं पिन्वने रौहिणहवनी उपयमनमित्यथ प्रतिप्रस्थाताज्यमुत्पूय रौहिणौ पुरोडाशावुपस्तीर्णाभिघारितावुद्वास्य रौहिणहवनीभ्यां परिगृह्यान्तर्वेद्यासादयति
दक्षिणं परिधिसन्धिमन्वेकम्
उत्तरं परिधिसन्धिमन्वितरम्प्राञ्चौ पूर्वाह्णिके
प्रत्यञ्चावापराह्णिकेऽथाध्वर्युः प्रचरणीयं महावीरँ शफाभ्यां परिगृह्य सव्ये पाणौ समावृत्याज्यस्थाल्याः सकृदुपहतेनाज्येन गार्हपत्येऽनवानँ संतताः सप्त प्राणाहुतीर्जुहोति प्राणाय स्वाहा व्यानाय स्वाहा अपानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा मनसे स्वाहा वाचे सरस्वत्यै स्वाहेति
चतस्र उत्तरा यथोपपादं दक्षाय स्वाहा क्रतवे स्वाहा जसे स्वाहा बलाय स्वाहेत्यथैनमाज्येनानक्ति देवस्त्वा सविता मध्वानक्त्वित्येतस्मिन्काले प्रतिप्रस्थाता राजतँ रुक्मं प्रवृञ्जनीये खर उपगूहति पृथिवीं तपसस्त्रायस्वेत्यथ मुञ्जप्रलवान्व्यतिषज्यादीपयत्यर्चिरसि शोचिरसि ज्योतिरसि तपोऽसीति
तान्प्रवृञ्जनीये खरे संप्रकीर्य तेषु प्रचर्णीयं महावीरँ सँ सादयति ६

सँ सीदस्व महाँ असि शोचस्व देववीतमः । वि धूममग्ने अरुषम्मियेध्य सृज प्रशस्त दर्शतमित्यथैनमाज्येन पूरयत्यञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादीदित्यथास्य प्रादेशेन दिशो व्यास्थापयत्यनाधृष्या पुरस्तादग्नेराधिपत्य आयुर्मे दा इति पुरस्तात्
पुत्रवती दक्षिणत इन्द्र स्याधिपत्ये प्रजां मे दा इति दक्षिणतः
सुषदा पश्चाद्देवस्य सवितुराधिपत्ये प्राणं मे दा इति पश्चादाश्रुतिरुत्तरतो मित्रावरुणयोराधिपत्ये श्रोत्रं मे दा इत्युत्तरतो
विधृतिरुपरिष्टाद्बृहस्पतेराधिपत्ये ब्रह्म मे दाः क्षत्रं मे दास्तेजो मे धा वर्चो मे धा यशो मे धास्तपो मे धार्मनो मे धा इत्युपरिष्टादथेमामभिमृशति मनोरश्वासि भूरिपुत्रा विश्वाभ्यो मा नाष्ट्राभ्यः पाहि सूपसदा मे भूयार्मा मा हिँ सीरित्यथ धृष्टीभ्यामुदीचोऽङ्गारान्निरूहति तपो ष्वग्ने अन्तराँ अमित्रान्तपा शँ समररुषः परस्य । तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयास इति
तैरेनं प्रदक्षिणं परिचिनोति चित स्थ परिचितः स्वाहा मरुद्भिः परिश्रयस्वेत्यथैनं त्रयोदशभिर्वैकङ्कतैः परिधिभिः परिचिनुतोऽध्वर्युश्च प्रतिप्रस्थाता च
मा असीति प्राञ्चावध्वर्युः
प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता
तावेवमेव व्यतिषङ्गं प्रतिमा असि संमा असि विमा अस्युन्मा असीत्यथैनं त्रयोदशं परिधिं दक्षिणत ऊर्ध्वाग्रं निमिनोत्यन्तरिक्षस्यान्तर्धिरसीत्यथैनँ सौवर्णेन रुक्मेनापिदधाति दिवं तपसस्त्रायस्वेत्यथैनमुपतिष्ठत आभिर्गीर्भिश्छुक्रं ते अन्यदर्हन्बिभर्षि सायकानि धन्वेति
प्रज्वलिते रुक्ममपकर्षति ७

अथ धवित्राण्यादत्ते गायत्रमसीत्यन्यतरत्त्रैष्टुभमसीत्यन्यतरद्जागतमसीत्यन्यतरत्
तैर्तैरेनं पश्चात्प्राङ्जान्वाच्योर्ध्वं धूनोति मधु मध्वित्युत्तरतस्तिष्ठते प्रतिप्रस्थात्रे द्वे धवित्रे प्रयच्छति

तयोरन्यतरदाग्नीध्रायोत्प्रयच्छत्यथैनं त्रिः प्रदक्षिणं परियन्ति प्रणवेप्रणवे धून्वन्तस्
त्रिः परीत्योत्तरतस्तिष्ठन्त्यथ धवित्राण्यादत्तेऽपरेण परिक्रान्तायोत्तरतस्तिष्ठते प्रतिप्रस्थात्रे द्वे धवित्रे प्रयच्छति
तयोरन्यतरदाग्नीध्रायोत्प्रयच्छत्यथैनं पर्युपविशन्ति
पश्चात्प्राङ्मुखोऽध्वर्युरुपविशति
पुरस्तात्प्रत्यङ्मुखः प्रतिप्रस्थातोत्तरतो दक्षिणामुख आग्नीध्रस्
त एवमेव प्रणवेप्रणवे धून्वन्त आसत उपसमासमुल्मुकान्याप्याययन्तो महावीरम्
अथ यत्र होतुरभिजानाति याभिर्वर्तिकां ग्रसिताममुञ्चतमिति तदेनमुपोत्थाय रोचयतोऽध्वर्युश्च यजमानश्च दश प्राचीर्दश भासि दक्षिणेत्येतेतानुवाकेन
अथ यत्र होतुरभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति तद्धवित्राण्युपोद्यच्छन्तेऽथ यत्र होतुरभिजानात्यरूरुचदुषसः पृश्निरग्रिय इति तद्रुचितो घर्म इत्युक्त्वा यथेतं त्रिः पुनः प्रतिपरियन्ति निधाय धवित्राण्यवकाशैरवेक्षमाणा उपतिष्ठन्तेऽपश्यं गोपामिति प्रतिपद्याशीमहि त्वा मा मा हिँ सीरित्यातोऽथ गार्हपत्यमुपतिष्ठते त्वमग्ने गृहपतिर्विशामसि विश्वासां मानुषीणां शतं पूर्भिर्यविष्ठ पाह्यँ हसः समेद्धारँ शतँ हिमास्तन्द्रा विणँ हार्दिवानमिहैव रातयः सन्त्वित्यन्तर्हिते प्रतिप्रस्थाता वेदे पत्नीं वाचयति त्वष्ट्रीमती ते सपेयेत्यान्तादनुवाकस्यैतस्मिन्काले प्रतिप्रस्थाता दक्षिणँ रौहिणं जुहोत्यहर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषाँ स्वाहेति ८

अथ रशनामादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽदित्यै रास्नासीति
दोहनं कँ सं पिन्वने इति प्रतिप्रस्थातापरेण परिक्रम्याथैतां घर्मदुघं त्रिरुपाँ शु देवनामभिराह्वयतीड एह्यदित एहि सरस्वत्येहीति
त्रिरुच्चैर्दक्षिणया द्वारोपनिष्क्रम्य यदस्यै नाम भवति तेनासावेह्यसावेहीत्यथैनाँ रशनयाभिदधात्यदित्या उष्णीषमसीति
वायुरस्यैड इति घर्मदुघो वत्समभिमृशत्यथैनमुपावसृजति पूषा त्वोपावसृजत्वश्विभ्यां प्रदापयेति
धयन्तमनुमन्त्रयते यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे करिति
प्रत्तायामुन्नयत्युस्र घर्मँ शिँ षोस्र घर्मं पाहि घर्माय शिँ षेति
नियुज्य संधायोपसीदति बृहस्पतिस्त्वोपसीदत्विति
स्तनान्संमृशति दानव स्थ पेरवो विश्वग्वृतो लोहितेनेत्यथ यत्र होतुरभिजानात्या दशभिर्विवस्वत इति तदेनां पिन्वने पिन्वयत्यश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेन्द्रा य पिन्वस्वेन्द्रा य पिन्वस्वेत्यतिशिष्टं कँ से दोहयत्येतस्मिन्काले प्रतिप्रस्थाता पिन्वने छागां पिन्वयति तूष्णीम्

अथ यत्र होतुरभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति तत्प्रतिप्रस्थात्रे पयसी संप्रदायैतेनैव यथेतमेत्य शफोपयमानादत्ते गायत्रोऽसीत्यन्यतरत्त्रैष्टुभोऽसीत्यन्यतरद्जागतमसीत्युपयमनम्
अथ यत्र होतुरभिजानात्युपद्र व पयसा गोधुगोषमिति तत्पयसी आह्रियमाणे अभिमन्त्रयते सहोर्जो भागेनोप मेहीन्द्रा श्विना मधुनः सारघस्य घर्मं पात वसवो यजता वडित्यथ पुरस्तात्प्रत्यञ्चावुपविश्य महावीरे पयसी अवनयतोऽध्वर्युश्च प्रतिप्रस्थाता चाध्वर्युः पूर्वो गोपयोऽवनयति स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि स्वाहेत्यथास्योष्माणमन्वीक्षते मधु हविरसि सूर्यस्य तपस्तपेत्येतस्मिन्काले प्रतिप्रस्थाता छागापयोऽवनयति तूष्णीम्
उभयँ समानीयाध्वर्युस्तृतीयमवनयत्यत्र यत्कँ से पयस्तदुपयमने समवनयति प्रत्यूह्याङ्गारान्
अथाध्वर्युः प्रचरणीयं महावीरँ शफाभ्यां परिग्राह्णाति ९

द्यावापृथिवीभ्यां त्वा परिगृह्णामीति वेदेनाधस्तादुपमृज्योपयमनेनोपयच्छत्यन्तरिक्षेण त्वोपयच्छामीत्यथैनमादायोपोत्तिष्ठति देवानां त्वा पितृणामनुमतो भर्तुँ शकेयमिति प्राङ् हरति तेजोऽसि तेजोऽनु प्रेह्यग्निर्मा पृथिव्याः पातु वायुरन्तरिक्षात्सूर्यो दिवो दिविस्पृङ्मा मा हिँसीरन्तरिक्षस्पृङ्मा मा हिँसीः पृथिविस्पृङ्मा मा हिँसीः सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीत्यथ वातनामानि व्याचष्टे समुद्रा य त्वा वाताय स्वाहेति पञ्चानवानम् एवमेव द्वे उत्तरे षडुत्तराणि यथोपपादमग्नये त्वा वसुमते स्वाहा सोमाय त्वा रुद्र वते स्वाहा वरुणाय त्वादित्यवते स्वाहा बृहस्पतये त्वा विश्वदेव्यावते स्वाहा सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहा यमाय त्वाङ्गिरस्वते पितृमते स्वाहेति विश्वा आशा दक्षिणसदिति दक्षिणत आसीनं ब्रह्माणमीक्षते विश्वान्देवानयाडिहेति पश्चादासीनँ होतारं सव्येनात्याक्रामञ्जपति स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना स्वाहाग्नये यज्ञियाय शं यजुर्भिरिति यजमानमतिवाचयत्यश्विना घर्मं पातँ हार्दिवानमहर्दिवाभिरूतिभिरनु वां द्यावापृथिवी मँसातामित्युच्चैराश्राव्याह घर्मस्य यजेति वषट्कृते जुहोति स्वाहेन्द्रायेति स्वाहेन्द्रावडित्यनुवषट्कृते हुत्वा वाचयति घर्ममपातमश्विना हार्दिवानमहर्दिवाभिरूतिभिरनु वां द्यावापृथिवी अमँ सातां तं प्राव्यं यथावट् नमो दिवे नमः पृथिव्यै दिवि धा इमं यज्ञं यज्ञमिमं दिवि धा दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छ पञ्च प्रदिशो गच्छ देवान्घर्मपान्गच्छ पितॄन्घर्मपान्गच्छेत्येतस्मिन्काले प्रतिप्रस्थाता पिन्वनेनोपयमनादुपहत्य प्रचरणीयं महावीरं पूरयत्यथैनमन्तःपरिध्यभिपीपयतोऽध्वर्युश्च प्रतिप्रस्थाता च सहैवेषे पीपिह्यूर्जे पीपिहि ब्रह्मणे पीपिहि क्षत्राय पीपिह्यद्भ्यः पीपिह्योषधीभ्यः पीपिहि वनस्पतिभ्यः पीपिहि द्यावापृथिवीभ्यां पीपिहि सुभूताय पीपिहि ब्रह्मवर्चसाय पीपिहि यजमानाय पीपिहि मह्यमित्युपाँ शूक्त्वा ज्यैष्ठ्याय पीपिहीत्युच्चैर् अथैनमनुदिशमात्मानमभि पीपयति त्विष्यै त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वेत्यत्र यन्महावीरे पयस्तदुपयमने समवनयत्यथोदङ्ङत्याक्रम्याथैतदुपयमनमन्तर्वेदि प्राचीनबिलँ सादयत्येतस्मिन्काले प्रतिप्रस्थाता राजतँ रुक्ममुद्वासनीये खर उपगूहति तस्मिन्प्रचरणीयं महावीरँ सादयति १०

धर्मासि सुधर्मामेन्यस्मे ब्रह्माणि धारय क्षत्राणि धारय विशं धारय नेत्त्वा वात स्कन्दयादित्यथ यद्यभिचरेदमुष्य त्वा प्राणे सादयाम्यमुना सह निरर्थं गच्छ योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्य षडौदुम्बराञ्छकलान्याचति
तेषामेकैकेनोपयमनादुपहत्य पूर्वार्ध आहवनीयस्य प्रश्चोतयति पूष्णे शरसे स्वाहेत्यथैनमन्तराञ्जनं मध्यमे परिधौ सँ स्पृष्टँ सादयत्येवमेव द्वितीयेनोपयमनादुपहत्य पूर्वार्ध एवाहवनीयस्य प्रश्चोतयति ग्रावभ्यः स्वाहेति
तं तथान्तराञ्जनं मध्यमे परिधौ सँ स्पृष्टँ सादयत्य्
एवमेव तृतीयेनोपयमनादुपहत्य मध्यत आहवनीयस्य प्रश्चोतयति प्रतिरेभ्यः स्वाहेति
तं तथैवान्तराञ्जनं मध्यमे परिधौ सँ स्पृष्टँ सादयत्येवमेव चतुर्थेनोपयमनादुपहृत्यापरार्ध आहवनीयस्य प्रश्चोतयति द्यावापृथिवीभ्याँ स्वाहेत्यथैनमूर्ध्वाञ्जनं भस्मान्त उपगूहत्येवमेव पञ्चमेनोपयमनादुपहत्य दक्षिणार्ध आहवनीयस्य प्रश्चोतयति पितृभ्यो घर्मपेभ्यः स्वाहेत्यथैनं बहिराञ्जनं दक्षिणे परिधौ सँ स्पृष्टँ सादयत्यथैतँ षष्ठँ शकलँ सर्वेषु लेपेषु समज्योपयमनादन्तत उपहत्योत्तरार्ध आहवनीयस्य प्रश्चोतयति रुद्रा य रुद्र होत्रे स्वाहेत्यथैनमुत्तरेण शालाया अतीकाशेनानन्वीक्षमाणो निरस्यत्यमुना सह निरर्थं गच्छ योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्यातिशिष्टाञ्छकलानद्भिः सँ स्पर्श्याहवनीयेऽनुप्रहरत्येतस्मिन्काले प्रतिप्रस्थातोत्तरँ सौहिणं जुहोत्यहर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषाँ स्वाहेत्यत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधाति तूष्णीं तस्यामादीप्तायां प्रतिमुखं द्विर्जुहोति भूः स्वाहेत्यथैतदुपयमनमन्तर्वेदि प्राचीनबिलँ सादयित्वा तस्मिन्नग्निहोत्रविधिं चेष्टित्वा
स यावन्तः प्रवर्ग्यस्यर्त्विजस्तेषूपहवमिष्ट्वा यजमान एव प्रत्यक्षं भक्षयति हुतँ हविर्मधु हविरिन्द्र तमेऽग्नौ पिता नोऽसि मा मा हिँ सीरश्याम ते देव घर्म मधुमतो वाजवतः पितुमतोऽङ्गिरस्वतः स्वधाविनोऽशीमहि त्वा मा मा हिँ सीरित्य्
अथैतदुपयमनं परिकर्मी वाग्नीध्रो वोच्छिष्टखरे मार्जायित्वान्तर्वेदि प्राचीनबिलँ सादयित्वा तस्मिन्सुवर्णरजतौ च रुक्मौ प्रास्य मदन्तीरप आनीय हिरण्यवतीभिर्मार्जयन्ते ११

हिरण्यवर्णाः शुचयः पावका इति चतसृभिरत्रैव मदन्तीरपो निनीयाज्यस्थाल्याः स्रुवेणोपघातं घर्मप्रायश्चित्तानि जुहोति प्राणाय स्वाहा पूष्णे स्वाहेत्येताभ्यामनुवाकाभ्याम्
अथैतदुपयमनमन्तर्वेदि प्राचीनबिलँ सादयित्वा तदेतत्परिघर्म्यँ सर्वँ समवशमयन्नाह घर्मायोत्साद्यमानायानुब्रूहीत्यथैतदुपयमनमग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने प्राचीनबिलँ सादयति स्वाहा त्वा सूर्यस्य रश्मिभ्य इत्यथोत्तराँ शान्तिमुपयन्ति शं नो वातः पवतां मातरिश्वेत्यथापराह्ण आपराह्णिकेन प्रवर्ग्येण प्रचरति
तस्य यद्विहितं विहितमेवास्य तत्
समानं कर्मा दक्षिणस्य रौहिणस्य होमादथ दक्षिणँ रौहिणं जुहोति रात्रिर्ज्योतिः केतुना जुषतां सुज्योतिर्ज्योतिषाँ स्वाहेत्येवमेवोत्तरँ रौहिणं जुहोति
समानं कर्मा समिदाधानादत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधात्यपीपरो माह्नो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरिति सायमपीपरो मा रात्रिया अह्नो मा पाहीति प्रातः

प्रातर्मन्त्रेणात ऊर्ध्वं पूर्वाह्णिकेऽभ्यादधाति
सायंमन्त्रेणापराह्णिके
तस्यामादीप्तायां प्रतिमुखं द्विर्जुहोत्यग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः
समानं कर्मा संप्रैषात्
अथैतदुपयमनमग्रेणाहवनीयं पर्याहृत्य दक्षिणतः सम्राडासन्द्यां कृष्णाजिने प्रतीचीनबिलँ सादयति स्वाहा त्वा नक्षत्रेभ्य इत्यथोत्तराँ शान्तिमुपयन्ति शं नो वातः पवतां मातरिश्वेति
स एवमेव प्रवर्ग्येण प्रचरति त्र्यहँ षडहं द्वादशाहँ संवत्सरं चतुरो वा मासाँ स्तापश्चितेऽग्नौ
प्रवर्ग्यं भक्षयित्वा संवत्सरं न माँ समश्नीयाद्न रामामुपेयाद्न मृन्मयेन पिबेद्नास्य राम उच्छिष्टं पिबेत्
तेज एव तत्सँ श्यतीति ब्राह्मणम् १२

प्रवर्ग्यमुद्वासयिष्यन्नुपकल्पयते त्रीञ्छालाकानिध्माँ स्त्रीणि सतान्युदकुम्भौ दधि मधुमिश्रं ग्रुमुष्टिमवकाभारं विँ शतिमौदुम्बरीः समिधो मुञ्जप्रलवान्रौहिणपिष्टानि खरेभ्यः सिकता इत्य्
अत्र पूर्वाँ शान्तिमुपयन्ति नमो वाच इत्यथाग्रेणाहवनीयं तृणानि सँ स्तीर्य तदेतत्परिघर्म्यँ सर्वँ सह सँ सादयन्त्यत्र सम्राडासन्दीमत्र स्थूणां गोदोहनीमत्र छागायै शङ्कुमित्यथैतौ खरौ नानैव सतयोः समुप्यात्रैव सह सँ सादयन्त्यथैतमुच्छिष्टखरं परिकर्मी वाग्नीध्रो वा सते समुप्य दक्षिणया द्वारोपनिर्हृत्य मार्जालीयदेशे निवपत्यथैतेनैव यथेतमेत्य निष्क्रमयन्ति वृषलान्
ह्वयन्ति पत्नीं ह्वयन्ति होतारं ह्वयन्ति ब्रह्माणं ह्वयन्ति प्रतिप्रस्थातारं ह्वयन्ति प्रस्तोतारं ह्वयन्त्याग्नीध्रम्परिश्रयन्ति द्वाराण्यथितां पत्नीमुदग्दशेन वाससान्तर्दधति
परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चात्र पूर्वाँ शान्तिमुपयन्ति येषामनुपेता भवत्यथ गार्हपत्य आज्यं विलाप्योत्पुनात्येतस्मिन्काले प्रतिप्रस्थाताहवनीये शालाकमिध्ममादीप्य मुखदघ्ने धारयन्पुरस्तात्प्रत्यङ्मुखस्तिष्ठति
तमध्वर्युः पश्चात्प्राङ्मुखस्तिष्ठन्स्रुवाहुत्याभिजुहोति घर्म या ते दिवि शुग्या गायत्रे छन्दसि या ब्राह्मणे या हविर्धाने तां त एतेनावयजे स्वाहेति
तमत्रैव प्रास्यापरमादीप्य नाभिदघ्ने धारयन्पुरस्तात्प्रत्यङ्मुखस्तिष्ठति
तमध्वर्युः पश्चात्प्राङ्मुखस्तिष्ठन्स्रुवाहुत्याभिजुहोति घर्म या तेऽन्तरिक्षे शुग्या त्रैष्टुभे छन्दसि या राजन्ये याग्नीध्रे तां त एतेनावयजे स्वाहेति

तमत्रैव प्रास्यापरमादीप्य जानुदघ्ने धारयन्पुरस्तात्प्रत्यङ्मुखस्तिष्ठति
तमध्वर्युः पश्चात्प्राङ्मुखस्तिष्ठन्स्रुवाहुत्याभिजुहोति घर्म या ते पृथिव्याँ शुग्या जागते छन्दसि या वैश्ये या सदसि तां त एतेनावयजे स्वाहेति
तमत्रैव प्रास्य विवृत्य द्वाराण्यथ प्रवर्ग्यमादाय पूर्वया द्वारोपनिष्क्रामन्त्यनु नोऽद्यानुमतिरन्विदनुमते त्वमिति द्वाभ्याम्
अथ महावेदिमवक्रम्य प्रस्तोतारमाह प्रस्तोतः साम गायेति
साम्ना प्रस्तोतान्ववैति
त्रिर्निधनमुपैति
पुरुषःपुरुषो निधनमुपैतीति ब्राह्मणम्
अथाभिक्रामन्ति १३

दिवस्त्वा परस्पाया अन्तरिक्षस्य तनुवः पाहि पृथिव्यास्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इति
विषुवति द्वितीयं निधनमुपयन्त्यथाभिक्रामन्ति ब्रह्मणस्त्वा परस्पायाः क्षत्रस्य तनुवः पाहि विशस्त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इत्युपरवकाले तृतीयं निधनमुपयन्त्यथाभिक्रामन्ति प्राणस्य त्वा परस्पायै चक्षुषस्तनुवः पाहि श्रोत्रस्य त्वा धर्मणा वयमनुक्रामाम सुविताय नव्यस इत्यथोत्तरेणोत्तरवेदिमुपरमन्ति
स यो बलवाँ स्तमाहानेनोदकुम्भेन संततया धारया त्रिः प्रदक्षिणं परिषिञ्चन्परीहीति
स तथा करोति
परिषिच्यमाने यजमानं वाचयति वल्गुरसि शंयुधायाः शिशुर्जनधायाश्छं च वक्षि परि च वक्षीति

निधाय कुम्भं यथेतं त्रिः पुनः प्रतिपर्येत्यथोत्तरनाभिमभिमृशति चतुःस्रक्तिर्नाभिरृतस्य सदो विश्वायुः शर्म सप्रथा अप द्वेषो अप ह्वरोऽन्यद्व्रतस्य सश्चिमेत्यथैतौ खरावुत्तरेणोत्तरनाभिमवकिरति
तं धृष्टीभ्यां प्राग्दीर्घं खरं करोति
तस्मिन्सुवर्णँ हिरण्यं निधाय कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणात्यथैनँ रौहिणपिष्टैरनुप्रकीर्य मुञ्जप्रलवैरनुविशाद्य सिकताभिरनुप्रकिरत्यथाध्वर्युः प्रचरणीयं महावीरँ शफाभ्यां परिगृह्य दध्ना मधुमिश्रेण पूरयति घर्मैतत्तेऽन्नमेतत्पुरीषं तेन वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहीत्यथैनमभिपूरयति महीनां पयोऽसि विहितं देवत्रा ज्योतिर्भा असि वनस्पतीनामोषधीनाँ रसो वाजिनं त्वा वाजिनोऽवनयाम इत्यथैनं पूर्वार्धे खरस्य सादयत्यूर्ध्वं मनः सुवर्गमिति १४

अथैतावुपशयौ महावीरौ वेदाभ्यां परिगृह्य दध्ना मधुमिश्रेण पूरयित्वाग्रेण प्रचरणीयं महावीरँ सँ स्पृष्टौ सादयत्यथैतां प्रचरणीं दध्ना मधुमिश्रेण पूरयित्वोपरिष्टान्महावीरेषु प्रतीचीनबिलाँ सादयत्यथैतौ रुक्मौ दध्ना मधुमिश्रेण समज्याभितः प्रचरणीयं महावीरँ सँ स्पृष्टौ सादयत्यथैते पिन्वने दध्ना मधुमिश्रेण पूरयित्वाभितः प्रचरणीयं महावीरं प्रतीचीनबिले सँ स्पृष्टे सादयत्य्
अथैतं मौञ्जं वेदं विस्रस्य दध्ना मधुमिश्रेण समज्याग्रेण महावीरान्प्रतीचीनाग्रँ सँ स्पृष्टं विस्तृणात्यथैतौ शफौ दध्ना मधुमिश्रेण समज्य जघनेन प्रचरणीयं महावीरं तिरश्चीनाग्रौ व्यतिषक्तौ सँ स्पृष्टौ सादयत्यथैते रौहिणहवनी दध्ना मधुमिश्रेण समज्य शफाग्राभ्यां प्रतीचीनाग्रे सँ स्पृष्टे सादयत्यथैता दशौदुम्बरीः समिधो दध्ना मधुमिश्रेण समज्य जघनेन रौहिणहवनी प्रतीचीनाग्राः सँ स्पृष्टा विस्तृणात्यथैतं कुशमयं वेदं विस्रस्य दध्ना मधुमिश्रेण समज्य जघनेन प्रचरणीयं महावीरं प्रतीचीनाग्रँ सँ स्पृष्टं विस्तृणात्यथैते स्थूणे दध्ना मधुमिश्रेण समज्य जघनेन शफौ प्रतीचीनाग्रे सँ स्पृष्टे सादयत्यथैतदुपयमनं दध्ना मधुमिश्रेण पूरयित्वोपरिष्टात्स्थूणयोः प्रतीचीनबिलँ सादयत्यथैतद्र ज्जुद्र व्यं विस्रस्य दध्ना मधुमिश्रेण समज्यात्रैवोपयमने समवशमयत्यथैतान्कार्ष्मर्यमयान्परिधीन्धवित्रदण्डानिति विस्रस्य दध्ना मधुमिश्रेण समज्योपरिष्टादुपयमनं तिरश्चीनाग्रान्व्यतिषक्तान्सँ स्पृष्टान्विस्तृणात्यथैतामभ्रिं दध्ना मधुमिश्रेण समज्य जघनेन स्थूणे तिरश्चीनाग्राँ सँ स्पृष्टाँ सादयत्यथैते धृष्टी दध्ना मधुमिश्रेण समज्याभ्र्यग्राभ्यां प्रतीचीनाग्रे सँ स्पृष्टे सादयत्य्
अथैते धवित्रे दध्ना मधुमिश्रेण समज्य जघनेन धृष्टी सँ स्पृष्टे सादयत्यथैता दशौदुम्बरीः समिधो दध्ना मधुमिश्रेण समज्य जघनेन धवित्रे प्रतीचीनाग्राः सँ स्पृष्टा विस्तृणात्यथैतामाज्यस्थालीं दध्ना मधुमिश्रेण पूरयित्वा जघनेनाभ्रिँ सँ स्पृष्टाँ सादयत्यथैतद्धवित्रं दध्ना मधुमिश्रेण समज्य तेनाज्यस्थालीमपिदधात्यथैते रौहिणकपाले दध्ना मधुमिश्रेण समज्य जघनेनाज्यस्थालीँ सँ स्पृष्टे सादयत्यथैतँ स्रुवं दध्ना मधुमिश्रेण पूरयित्वा जघनेनाज्यस्थालीमन्तरेण रौहिणकपाले प्रतीचीनबिलँ सँ स्पृष्टँ सादयत्यथैतं कुशमयं वेदं विस्रस्य दध्ना मधुमिश्रेण समज्य जघनेनाज्यस्थालीं प्रतीचीनाग्रँ सँ स्पृष्टं विस्तृणात्यथैतामासन्दीं विस्रस्य दध्ना मधुमिश्रेण समज्यात्रैवोत्तरतः सँ स्पृष्टाँ सादयत्यथैतां मृदमतिशिष्टां दध्ना मधुमिश्रेण समज्यान्तरेण सक्थिनी निवपति १५

घर्मैतत्तेऽन्नमेतत्पुरीषं तेन वर्धस्व चा च प्यायस्व वर्धिषीमहि च वयमा च प्यासिषीमहीत्यथैनँ सिकताभिरनुप्रकीर्य मुञ्जप्रलवैरनुविशाद्य रौहिणपिष्टैरनुप्रकीर्य कृष्णाजिनेन प्राचीनग्रीवेणोत्तरलोम्ना प्रोर्णेत्यपि वाभितः प्रचरणीयं महावीरं परिचिनोत्यादित्यमण्डलवदथैनमुपतिष्ठतेऽयं यः पुरुषरूपोऽसि स न आस्ये न तिष्ठसि । नोर्ध्वो न तिर्यग्विधां तेऽनु विहितोऽस्मि विधां मेऽनु विहितोऽसि यस्त्वमसि सोऽहमस्मि योऽहमस्मि स त्वं नाकमारोह सह यजमानेन साकमित्य्
अथ ग्रुमुष्टिमादाय दध्ना मधुमिश्रेणावोक्षत्यस्कान्द्यौः पृथिवीमस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजनि । आ स्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहीत्यथ प्रस्तोतारमाह प्रस्तोतर्वार्षाहरँ साम गायेष्टाहोत्रीयं चेति
स यो बलवाँ स्तमाहानेनोदकुम्भेन संततया धारया त्रिः प्रदक्षिणं परिषिञ्चन्परीहीति
परिषिच्यमाने यजमानं गन्धर्वयजूँ षि वाचयति रन्तिर्नामासि दिव्यो गन्धर्व इति प्रतिपद्येन्द्रो दक्षं परिजानादहीनमित्यातो निधाय कुम्भं यथेतं त्रिः पुनः प्रतिपर्येत्यथैनमुपतिष्ठत एतत्त्वं देव घर्म देवो देवानुपागा इदमहं मनुष्यो मनुष्यान्सोमपीथानु मेहि सह प्रजया सह रायस्पोषेणेत्यथाञ्जलिनाप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति
तां दिशं निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपसृश्य ज्योतिष्मत्यादित्यमुपतिष्ठत उद्वयं तमसस्परीत्यथैनमवकाभारेण प्रतिच्छाद्य गोप्तारँ समादिशति वयोभ्यो महावीरं गोपाय
प्रस्तोतः श्यैतेनान्वेहीति प्रस्तोतारमाहाथैतेनैव यथेतमेत्य गार्हपत्ये द्वे स्रुवाहुती जुहोत्युदु त्यं चित्रमित्य्
अथाहवनीयमुपतिष्ठन्त इममू षु त्यमस्मभ्यँ सनिं गायत्रं नवीयाँ समग्ने देवेषु प्रवोच इत्यथाग्नीध्रदेशं द्रुत्वाग्नीध्रदेश उत्तराँ शान्तिमुपयन्ति शं नो वातः पवतां मातरिश्वेति १६

अथातो घर्मप्रायश्चित्तानि व्याख्यास्यामोऽथ यदि प्रवर्ग्यमप्रवृत्तमादित्योऽभ्यस्तमियाद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्युपसदा प्रचर्य श्वो भूते प्रवर्ग्येण प्रचरेदथ यदि प्रवर्ग्यं प्रवृत्तमादित्योऽभ्यस्तमियाद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्यथापरस्यां द्वारि सूत्रेण हिरण्यं प्रग्रथ्य प्रचरेदथ यदि प्रवृत्तः प्रपतेद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्यथैनमुच्छ्रयत्यूर्ध्व ऊ षु ण ऊतय ऊर्ध्वो नः पाह्यँ हस इति द्वाभ्याम्
अथैनमाज्येन पूरयत्यञ्जन्ति यं प्रथयन्तो न विप्रा इत्यथ यदि विधुर्वा प्रदरो वा जायतेऽश्मचूर्णानि छागापयसि संप्रकीर्य तैः प्रत्युक्ष्योल्मुकेनाभितपति विधुं दद्रा णं यदृते चिदभिश्रिष इति द्वाभ्यां सँ हैव रोहति
यद्यु वै सर्वश एव भिद्यत एतान्येव कपालान्यवाञ्जनं पिष्ट्वा यैषा मृत्प्रायश्चित्ताय परिशेते तया सँ सृज्य कृत्वा पक्त्वाच्छृद्य निदधात्यथान्यं प्रचरणीयं महावीरं प्रवृणक्त्यथ यदि प्रमत्ता अतिपरियन्ति गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्य्
अथ पुनरूर्जा सह रय्येति पुनः प्रतिपरियन्त्यथ यद्युद्यतः प्रपतेद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्यथैनमभिमृशति मा नो घर्म व्यथितो विव्यथो नो मा नः क्रतुभिर्हीडितेभिरस्मानिति द्वाभ्याम्
अथ यदि घर्मदुघं वा महावीरं वा वयोऽभिप्रस्रावयेत्तावुष्णोदकेन प्रक्षालयेदुप नो मित्रावरुणाविहावतमित्यथ गार्हपत्ये नव स्रुवाहुतीर्जुहुयादिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्युद्वयं तमसस्पर्युदु त्यं चित्रम्वयः सुपर्णा इत्यथ यदि घर्मदुघं न विन्देतान्यां दोहयेदथ यद्यन्यां न विन्देताजां दोहयेदथ यद्यजां न विन्देतार्कक्षीरैः प्रचरेदथ यद्यर्कक्षीरं न विन्देत यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वाद्भिः सँ सृज्य तैः प्रचरेदप्यद्भिः प्रचरेद्न त्वेव न प्रचरेद्महीनां पयोऽसीत्युक्तं महावीरेऽवनयनम्
अस्कान्द्यौः पृथिवीमिति स्कन्नानुमन्त्रणम्
अथ यदि विद्युदापतेद्गार्हपत्ये स्रुवाहुतिं जुहुयाद्या पुरस्ताद्विद्युदापतदित्येतैर्यथारूपम्
प्राणाय स्वाहा पूष्णे स्वाहेत्युक्तानि घर्मप्रायश्चित्तानि
यत्किंचिद्घर्मकार्यविपर्यासे चैता आहुतीर्जुहुयाद्नमस्ते घर्म भूपतये स्वाहा नमस्ते घर्म भुवनपतये स्वाहा नमस्ते घर्म भूतानां पतये स्वाहा घर्माय स्वाहाश्विभ्याँ स्वाहेन्द्रा य स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहेत्य्
अथाषाढां त्र्यालिखितामुत्तरलक्ष्माणमुपधायात्र घर्मेष्टकां कुलायिनीं चोपदधात्युदस्य शुष्माद्भानुरिति घर्मेष्टकां यास्ते अग्न आद्रा र्योनयो या इति कुलायिनीं संचितमग्निँ सामभिरुपस्थायोक्थेनानुशस्तमुत्तरे श्रोण्यन्ते तिष्ठन्नग्निमभिमृशत्यग्निरसि वैश्वानरोऽसि इत्येतेनानुवाकेनात्राध्वर्यवेऽग्निदक्षिणां ददाति शतँ सहस्रमन्विष्टकं वा १७

प्रवर्ग्यवति सोमे दधिघर्मं भक्षयन्ति भूर्भुवः सुवर्मयि त्यदिन्द्रि यं महदित्येतेनानुवाकेनाथ घोरास्तनूरनुदिशति
यास्ते अग्ने घोरास्तनुव तनुवस्स्निक्च स्नीहीतिश्च स्नीहितिश्चेति घोरास्तनुवो धुनिश्च ध्वान्तश्चेति राजसूयिको गण उग्रश्च धुनिश्चेत्याग्निचित्योऽथ यदि घर्मदुघं वा महावीरं वा स्तेनोऽपहरेद्गार्हपत्ये स्रुवाहुतिं जुहुयादहोरात्रे त्वोदीरयतामिति
खडिति वाचः क्रूराणीत्यथ यद्येकसृको वाश्येन तमनुमन्त्रयते वि गा इन्द्र विचरन्स्पाशयस्वेत्यथास्मा उभयतआदीप्तमुल्मुकं क्षिपेदग्ने अग्निना संवदस्व मृत्यो मृत्युना संवदस्वेत्यथैनमुपतिष्ठते सकृत्ते अग्ने नमो द्विस्ते नमस्त्रिस्ते नम इत्य्
अथ यदि गृध्रो वाश्येत तमनुमन्त्रयतेऽसृङ्मुखो रुधिरेणाव्यक्त इत्यथ यद्यार्ता वागुदियात्तामनुमन्त्रयते यदेतद्वृकसो भूत्वेत्यथ यदि भयेडकः काकपिञ्जको वाश्येत तमनुमन्त्रयते यदीषितो यदि वा स्वकामीत्यथ यदि सालावृकी वाश्येत तामनुमन्त्रयते दीर्घमुखि दुर्हण्वित्यथ यद्युलूकोलूकी वाश्येत तमनुमन्त्रयत इत्थादुलूक आपप्तदित्यथ यद्युन्मत्ता वागुदियात्तामनुमन्त्रयते यदेतद्भूतान्यन्वाविश्येत्यथ यदि घर्मदुघं वा महावीरं वा वयोऽभिप्रपतेत्तमनुमन्त्रयते प्रसार्य सक्थ्यौ पतसीत्यथ यदि घर्मदुघं वा महावीरं वा क्रिमय उपाधिगच्छेयुस्तानद्भिः प्रक्षालयेदत्रिणा त्वा क्रिमे हन्मीत्यथ यदि प्रवृत्तं प्रवर्ग्यं भ्रातृव्योऽभिप्रपद्येत गार्हपत्ये स्रुवाहुतिं जुहुयादाहरावद्येत्यथैनमनुव्याहरिष्यन्भवति
तमनुव्याहरेद्ब्रह्मणा त्वा शपामीत्यथ यं द्वेष्टि तस्य दक्षिणं द्वार्बाहुमनुप्रचालयेदुत्तुद शिमिजावरीति
स योऽन्य एतेभ्यो वाश्येत तस्मा उभयतआदीप्तमुल्मुकं क्षिपेदुत्तुद शिमिजावरीत्यथ यद्युद्धून्वन्निव वातो वायात्तमनुमन्त्रयते भूर्भुवः सुवो भूर्भुवः सुवो भूर्भुवः सुवो भुवोऽधायि भुवोऽधायि भुवोऽधायीत्य्
अथ यद्यवृतः शालां प्रपद्येताभिर्गीर्भिर्यदतो न ऊनमित्येतया प्रपद्येत
यद्यु वै प्रवृत एतयैव १८

अथातोऽवान्तरदीक्षां व्याख्यास्याम उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे केशश्मश्रु वापयित्वा पूर्ववदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयत्यग्रेणाग्निम्प्रवर्ग्याय कल्पयामि घर्माय कल्पयामि महावीराय कल्पयामि सम्राज्ञे कल्पयामीति
दक्षिणेनाग्निम्ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीत्युत्तरेणाग्निमृषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यः कल्पयामि देवेभ्यो घर्मपेभ्यः कल्पयामीत्यथ दक्षिणतः प्राचीनावीती पितृभ्यो घर्मपेभ्यः कल्पयामि यमायाङ्गिरस्वते पितृमते कल्पयामीत्यथाप उपस्पृश्योत्तरतो यज्ञोपवीती रुद्रा य रुद्र होत्रे कल्पयामीत्यथाप उपस्पृश्य सर्वाभ्यः प्रवर्ग्यदेवताभ्यः कल्पयामीति

प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयत्यग्रेणाग्निम्प्रवर्ग्यं तर्पयामि घर्मं तर्पयामि महावीरं तर्पयामि सम्राजं तर्पयामीति
दक्षिणेनाग्निम्ब्रह्माणं तर्पयामि प्रजापतिं तर्पयामीत्युत्तरेणाग्निमृषीन्मन्त्रकृतो मन्त्रपतीँ स्तर्पयामि देवान्घर्मपाँ स्तर्पयामीत्यथ दक्षिणतः प्राचीनावीती पितॄन्घर्मपाँ स्तर्पयामि यममङ्गिरस्वन्तं पितृमन्तं तर्पयामीत्यथाप उपस्पृश्योत्तरतो यज्ञोपवीती रुद्रँ रुद्र होतारं तर्पयामीत्यथाप उपस्पृश्य सर्वाः प्रवर्ग्यदेवतास्तर्पयामीति
चतस्र औदुम्बरीः समिधोऽप्रतिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति पृथिवी समिदित्येतैः प्रतिमन्त्रम्
अथ देवता उपतिष्ठतेऽग्ने व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामित्यथैतेषामनुवाकानां प्रभृतीर्वाचयति प्रथमोत्तमयोर्वाथैनँ सँ शास्ति संमील्य वाचं यच्छेत्यथास्याहतेन वाससा त्रिः प्रदक्षिणँ संमुखँ शिरो वेष्टयति चित स्थ परिचितः स्वाहा मरुद्भिः परिश्रयस्वेति
प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वाथास्तमित आदित्ये ग्राममायन्ति
वाग्यतस्तिष्ठेदेताँ रात्रिमुपविशेत्संविशेद्वाथ प्रातरुदित आदित्ये ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य मदन्तीरधिश्रित्य प्रथमेननुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयित्वा वयः सुपर्णा इति वासो विमुच्याथास्य षट्तयमभिविदर्शयत्यग्निमप आदित्यं गां ब्राह्मणँ हिरण्यमिति
त्रीनादितोऽनुदर्शयित्वा यथोपपादमितराणि दर्शयित्वा प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वाथास्य व्रतचर्यामुपदिशेद्न यानमारोहेद्न वृक्षमधिरोहेद्न कूपमवरोहेद्न छत्त्रं धारयीत
नोपानहौ धारयीत
नासन्द्याँ शयीत
न स्त्रिया न शूद्रे ण संभाषेत
यदि संभाषेत ब्राह्मणेन संभाषेत
न सायं बुञ्जीत
यदि सयं भुञ्जीतावज्वलितं बुञ्जीत
न स्नायादष्टम्यां पर्वणि चोपवसेत्तदहश्च स्नायाद्वाग्यतस्तिष्ठेदेताँ रात्रिमुपविशेत्संविशेद्वामेध्यलोहितशवापपात्रदर्शने ज्योतिषां संदर्शनम्
अमेध्यं दृष्ट्वा जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षे मा मा हासीरित्यथ यद्येनमभिवर्षत्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेति जपति १९

संवत्सरमेतद्व्रतं चरेत्
संवत्सरँ हि व्रतं नातीत्येतस्मिँ स्त्वेवैतत्संवत्सरेऽधीयीत
यद्यु वा एतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेदथ संवत्सरे पर्यवेतेऽध्यापयते श्रावयते वा
पूर्ववदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयित्वाथाव्रत्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादिति द्वाभ्याम्प्रदक्षिणमग्निं परिषिच्य व्याहृतीभिर्वैकङ्कतीः समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वा
चतस्र औदुम्बरीः समिधोऽप्रतिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति द्यौः समिदित्येतैः प्रतिमन्त्रम्
अथ देवता उपतिष्ठत आदित्य व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मेऽराधि वायो व्रतपतेऽग्ने व्रतपते व्रतानां व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मेऽराधीति
मदन्तीभिः प्रवर्ग्यदेवतास्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वा
तस्यानध्यायानुपदिशेद्नाधीयीतास्तमित आदित्ये
नानुदिते

न विप्रुषिते
न पर्यावृत्ते
नाभ्रच्छायायां न ग्राम्यस्य पशोरन्ते
नारण्यस्य
नापामन्ते
न हरितयवान्प्रेक्षमाणो न हर्म्याणि
न शरीराणि
न लोहितमुत्पतितं दृष्ट्वा
न माँ समशित्वा
न श्राद्धं भुक्त्वा
न केशश्मश्रु वापयित्वा
न केशान्प्रसार्य
न दतो धावते
नाङ्क्ते
नाभ्यङ्क्ते
नार्द्रः
नार्द्रे ण वाससा
नार्द्र इत्यथ स्वाध्यायमधीयीतापरेणाग्निं दर्भेष्वासीनो दर्भान्धारयमाणः पराचीनँ स्वाध्यायमधीयीत
यत्र क्वचाशान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वाधीयीताधीत्य चोत्तमेन प्रवर्ग्यायोपनिष्क्रम्य नाप्रविश्य ग्राममन्यदधीयीतान्यदधीयीत २०

दशमः प्रश्नः
उखाः संभरिष्यन्नुपकल्पयतेऽश्वं च गर्दभं च तयोरेव रशने मौञ्ज्यौ वा कुशमय्यौ वाभ्रिं च ब्राह्मणसंपन्नां मृदं च भावितां करणीयां वल्मीकवपां कृष्णाजिनं च पुष्करपर्णं च योक्त्रमुदकुम्भँ हिरण्यमर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजिनलोमानि वैश्यँ सप्तदशँ सूनामधिकरणीमुखाकृतं कुशलमित्यथामावास्येन वा हविषेष्ट्वा नक्षत्रे वाग्रेण शालाँ शम्यान्यासे गर्तं खानयति
तद्भावितां मृदमवलेपयति
समां बिलेन करोति
तदुपसादयति कृष्णाजिनं च पुष्करपर्णं च योक्त्रमुदकुम्भँ हिरण्यमित्यथ विषुवति स्फ्येनोद्धत्यावोक्ष्य वल्मीकवपां निदधाति
तां दक्षिणतो वैश्यो गोपायन्नास्तेऽथोत्तरँ शालाखण्डमग्रेण स्फ्येनोद्धत्यावोक्ष्य सिकता निवपति
तं परिमण्डलं खरं करोत्यथैनँ सिकताभिराभ्राशिनं करोति
तं कुशतरुणकैर्दूर्वाग्रन्थिभिरिति संप्रच्छाद्याथैनं परिश्रयन्ति
तस्योदीचीं द्वारं कुर्वन्ति
तदुपसादयत्यर्मकपालानि शर्करा अवाञ्जनपिष्टा अजलोमानि कृष्णाजिनलोमानि सूनामधिकरणीमुखाकृतं कुशलमित्यथैतावश्वगर्दभावग्रेण शालां पल्पूलितौ तिष्ठतोऽन्तर्वेद्यभ्रिं निदधात्युत्तरे वेद्यन्ते रशने
परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये सावित्राणि जुहोत्यन्वारब्धे यजमाने १

युञ्जानः प्रथमं मन इति षडृचोऽनन्तर्हिता देव सवितरित्यृगेषेमं नो देव सवितरिति यजुरेतद्
ऋचा वा यजुषा वावस्यत्याहुतिं नवमीँ हुत्वोपतिष्ठति ऋचा स्तोमँ समर्धयेत्यथाभ्रिमादत्ते देवस्य त्वा सवितुः प्रसव इति चतुर्भिर्पर्यायैस्
तामग्रेणाहवनीयं पर्याहृत्य दक्षिणत आसीनाय ब्रह्मणे प्रयच्छत्यथ रशनामादत्त इमामगृभ्णन्रशनामृतस्येति
तयाश्वमभिदधाति प्रतूर्तं वाजिन्नाद्र वेत्येवमेव द्वितीयाँ रशनामादत्ते
तया गर्दभमभ्दधाति युञ्जाथाँ रासभं युवं योगेयोगे तवस्तरमिति द्वाभ्याम्
अश्वं पूर्वं नयन्ति
तमनुमन्त्रयते प्रतूर्वन्नेह्यवक्रामन्नशस्तीरित्यन्वञ्चं गर्दभं पूष्णा सयुजा सह पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदच्छेहीति
प्रदक्षिणी वैश्यं कुर्वते
वैश्यः पृच्छति पुरुषाः किमच्छेथेत्यग्निं पुरीष्यमङ्गिरस्वदच्छेम इतीतरे प्रत्याहुरथ वल्मीकवपामुपतिष्ठतेऽग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इत्यथोपातियन्त्यन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवी आततानेत्यथैतेनाश्वेन प्राचा मृदमाक्रमयत्यागत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्याम्
अथास्य पृष्ठं मर्मृज्यते द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मान्तरिक्षँ समुद्र स्ते योनिः । विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यत इत्यत्र यं यजमानो द्वेष्टि तमश्वस्याधस्पदं ध्यायत्यथैनं प्राञ्चमुत्क्रमयत्युत्क्रामोदक्रमीदिति द्वाभ्याम्
अथैतं पदाशयमद्भिरुपसृजति २

आपो देवीरुपसृज मधुमतीरयक्ष्माय प्रजाभ्यः । तासाँ स्थानादुज्जिहतामोषधयः सुपिप्पला इत्यथ स्रुचि चतुर्गृहीतं गृहीत्वा दक्षिणेऽवान्तरशफे हिरण्यं निधाय संपरिस्तीर्याभिजुहोति जिघर्म्यग्निं मनसा घृतेनेत्य्
अपरं चतुर्गृहीतं गृहीत्वोत्तरेऽवान्तरशफे हिरण्यं निधाय संपरिस्तीर्यैवाभिजुहोत्या त्वा जिघर्मि वचसा घृतेनेत्यपोद्धृत्य हिरण्यमभ्रिमादाय पदं परिलिखति परि वाजपतिः कविः परि त्वाग्ने पुरं वयं त्वमग्ने द्युभिरिति तिसृभिः
खनति देवस्य त्वा सवितुः प्रसवे ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमिति द्वाभ्याम्
अथोत्तरतः पार्श्वतः संभाराणां प्रचीनाग्राणि तृणानि सँ स्तीर्य तेषूपरि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणात्यथापां पृष्ठमसीति पुष्करपर्णमाहरति
तदुपरिष्टात्कृष्णाजिने निधायाथैने संमृशति शर्म च स्थः सं वसातामिति द्वाभ्याम्
अपोद्धृत्य पुष्करपर्णमष्टाभिर्मृदँ हरति ३

पुरीष्योऽसि विश्वभरा इति
तासां चतस्रो गायत्र्यश्चतस्रस्त्रिष्टुभः
स पिण्डंपिण्डं वैवर्चा हरत्यपि वाष्टाभिरेकमेव पिण्डँ हरत्यथैतमवटं विश्वलोपेन पूरयित्वाद्भिरुपसृजति सं ते वायुर्मातरिश्वा दधातूत्तानायै हृदयं यद्विलिष्टम्। देवानां यश्चरति प्राणथेन तस्मै च देवि वषडस्तु तुभ्यमित्यथोपरिष्टात्पुष्करपर्णं मृदि निधाय समुच्चित्य कृष्णाजिनस्यान्तान्योक्त्रेणोपनह्यति सुजातो ज्योतिषा सह शर्म वरूथमासदः सुवः । वासो अग्ने विश्वरूपँ संव्ययस्व विभावसो इत्यथैनमादायोपोत्तिष्ठत्युदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति द्वाभ्याम्

अथैनमाहरति स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु । चित्रः शिशुः परि तमाँ स्यक्तः प्र मातृभ्यो अधि कनिक्रदद्गा इत्यथैनं गर्दभ आसादयति स्थिरो भव वीड्वङ्ग आशुर्भव वाज्यर्वन्। पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहन इत्यथैनमुपतिष्ठते शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः । मा द्यावापृथिवी अभिशूशुचो मान्तरिक्षं मा वनस्पतीनित्यश्वं पूर्वं नयन्ति
तमनुमन्त्रयते प्रैतु वाजी कनिक्रददित्यन्वञ्चं गर्दभं नानदद्रा सभः पत्वा । भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा ॥ रासभो वां कनिक्रदत्सुयुक्तो वृषणा रथे । स वामग्निं पुरीष्यमाशुर्दूतो वहादितः ॥ वृषाग्निं वृषणं भरन्नपां गर्भँ समुद्रि यम्। अग्न आयाहि वीतय इत्यथेमे समीक्षत ऋतँ सत्यमृतँ सत्यमिति
प्रदक्षिणी वैश्यं कुर्वते
वैश्यः पृच्छति पुरुषाः किं भरथेत्यग्निं पुरीष्यमङ्गिरस्वद्भराम इतीतरे प्रत्याहुरथैनं खर उपावहरन्त्योषधयः प्रतिगृह्णीताग्निमेतमोषधयः प्रतिमोदध्वमेनमिति द्वाभ्याम्
अद्भिरभ्युक्ष्याश्वगर्दभावुत्सृजन्त्यपो रशने अभ्यवहरन्त्यपि वाद्भिरभ्युक्ष्य भुञ्जते ४

अथैनं विस्रँ सयति वि पाजसा पृथुना शोशुचान इत्यतहिनमद्भिरुपसृजत्यापो हि ष्ठा मयोभुव इति तिसृभिरनुच्छन्दसम्

अथैनमर्मकपालैः शर्कराभिरवाञ्जनपिष्टाभिरजलोमैः कृष्णाजिनलोमैरिति सँ सृजति मित्रः सँ सृज्य पृथिवीमयक्ष्माय त्वा सँ सृजामीति द्वाभ्याम्
अथैनँ संभरति रुद्राः संभृत्य पृथिवीमिति
पिण्डं करोति मखस्य शिरोऽसीति
यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यामुपनिगृह्णात्यथ तृतीयं मृदोऽपच्छिद्य त्रीन्पिण्डान्करोति
तेषामेकमुखाकृते प्रयच्छति सँ सृष्टां वसुभी रुद्रै रित्यनुमन्त्रयते वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसेत्यतिशिष्टायै मृदोऽर्धं प्रयच्छति सिनीवाली सुकपर्देत्यनुमन्त्रयते रुद्रा स्त्वा कृण्वन्तु त्रैष्टुभेन छन्दसेति
सर्वामन्ततो मृदं प्रयच्छत्युखां करोतु शक्त्येत्यनुमन्त्रयत आदित्यास्त्वा कृण्वन्तु जागतेन छन्दसा विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसेत्यथ वै भवति
प्रान्याभिर्यच्छत्यन्वन्यैर्मन्त्रयते मिथुनत्वाय
त्र्युद्धिं करोतीति
स यदेव त्रिर्हरति त्रिरनुलिम्पति तेन त्र्युद्धिस्
तां प्रादेशमात्रीमूर्ध्वामपरिमितां तिरश्चीं करोत्यथास्यै त्र्यङ्गुले वा चतुरङ्गुले वा रास्नां पर्यस्यत्यदित्यै रास्नासीत्यथास्या अनुदिशमष्टावश्रीरुन्नयति
रानासन्धिषु चाश्रिसन्धिषु चाष्टौ स्तनान्करोति
नवाश्रिमभिचरतः कुर्यादिति ब्राह्मणम्
अस्तनां नवमीं करोत्यथास्यै बिलं गृह्णात्यदितिस्ते बिलं गृह्णातु पाङ्क्तेन छन्दसेत्यथैनां खरे निदधाति कृत्वाय सा महीमुखामित्यान्तादनुवाकस्यैवमेव द्वितीयां करोत्येवं तृतीयां तूष्णीं पञ्च चर्षभाँ स्तिस्रश्च मण्डलेष्टकाः ५

अथ या मृदतिशिष्यते तया प्रवाते प्रतिलेपमुपवातयति
तासूपवातासूपकल्पयत एकविँ शतिं वृष्णो अश्वस्य शकृत्पिण्डानभ्रिमग्निं पचनमित्यथाश्वशकमादीप्य मुख्यामुखां धूपयति वसवस्त्वा धूपयन्तु गायत्रेण छन्दसेति प्रतिपद्य वरुणस्त्वा धूपयत्वित्यातोऽन्तरतश्च बाह्यतश्च
सुधूपितां कृत्वा निदधात्येवमेव द्वितीयां धूपयत्येवं तृतीयां तूष्णीं पञ्च चर्षभाँ स्तिस्रश्च मण्डलेष्टका अथोत्तरेण शालामुरुबिलमिवावटं खानयत्यदितिस्त्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थेऽङ्गिरस्वत्खनत्ववटेति
तं पचनेनावस्तीर्य तस्मिन्मुख्यामुखां प्रवृणक्ति देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वद्दधतूख इत्येवमेव द्वितीयां प्रवृणक्त्येवं तृतीयां तूष्णीं पञ्च चर्षभाँ स्तिस्रश्च मण्डलेष्टकास्
ताः प्राचीर्वोदीचीर्वायातयत्यथैनाः पचनेनोपरिष्टात्संप्रच्छाद्य मृदावलिम्पति
चतुरङ्गुलमनुदिशमादीपनायातिशिनष्ट्यथोपोषति ६

धिषणास्त्वेति पुरस्ताद्ग्नास्त्वेति दक्षिणतो वरूत्रयस्त्वेति पश्चाद्जनयस्त्वेत्युत्तरतोऽथैनाः परिददाति मित्रैतामुखां पचैषा मा भेद्येतां ते परिददाम्यभित्त्या इति
ता अह्ना वा रात्र्या वा पच्यन्ते
यदि प्रातरुपोषति सायमुपैति यदि सायं प्रातस्तासु पक्वासूपकल्पयते गोपयश्छागापयो धृष्टिमश्मसंदावँ सतँ संदँ शं खारीँ शिक्यं कृष्णाजिनमित्येतत्समादायाभ्यैत्यभीमां महिना दिवम्मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम्॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम्। द्युम्नं चित्रश्रवस्तममित्यथ धृष्टिमादाय मुख्याया उखाया अङ्गारानुद्वपति देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः । सुबाहुरुत शक्त्येत्यथैनामुच्छ्रयत्युत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वमित्यथैनामाशये प्रतिष्ठापयत्यपद्यमाना पृथिव्याशा दिश आपृणेत्यतैनाँ संदँ शेन परिगृह्य सतेऽवधाय छागापयसाच्छृणत्ति ७

वसवस्त्वाच्छृन्दन्तु गायत्रेण छन्दसेति प्रतिपद्य विश्वे त्वा देवा वैश्वानरा आच्छृन्दन्त्वानुष्टुभेन छन्दसेत्यातोऽन्तरतश्च बाह्यतश्च
स्वाच्छृणां कृत्वा गोपयसाभिविष्यन्दयत्येवमेव द्वितीयामाच्छृणत्त्येवं तृतीयां तूष्णीं पञ्च चर्षभाँ स्तिस्रश्च मण्डलेष्टका अथ यदि विधुर्वा प्रदरो वा जायतेऽश्मचूर्णानि छागापयसि संप्रकीर्य तैः प्रत्युक्ष्योल्मुकेनाभितपति
सँ हैव रोहति
यद्यु वै सर्वश एव भिद्यत एतान्येव कपालान्यवाञ्चनं पिष्ट्वा यैषां मृत्प्रायश्चित्ताय परिशेते तया सँ सृज्य कृत्वा पक्त्वाच्छृद्य निदधाति

तासां यदा श्वसथ उपरमत्यथैनाः खार्याँ समवधाय कृष्णाजिनेनोपरिष्टात्संप्रच्छाद्योत्तरे शालाखण्डे शिक्य आसजति
ता आ कालात्परिशेरे ८

अथैतस्मिन्नेव पूर्वपक्षे वायव्येन पशुना यजते
तस्य तदुपकॢप्तं भवति यत्पशुना यक्ष्यमाणस्य संग्रामे हतयोरश्वस्य च वैश्यस्य च शिरसी
दीव्यन्त ऋषभं पचन्ते
वृष्णिं च बस्तं चाहरन्त्येतत्सर्पशिरोऽथास्यैषा पूर्वेद्युरेव पाशुबन्धिकी वेदिर्विमिता भवति
तां परिस्तीर्य स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथ चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याग्नेरावृताग्निं प्रणयत्यग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवँ स्वधितिँ स्रुचश्च संमृड्ढि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेहि प्रतिप्रस्थातः पशुशीर्षाणि विद्धीत्यध्वर्युरेव प्रसिद्धं पाशुबन्धिकं कर्म चेष्टत्यथ प्रतिप्रस्थाता याचत्येकविँ शतिं माषान्पर्णशाखां मृत्पिण्डमुदपात्रमुत्कुषीँ सप्तधा वितृण्णां वल्मीकवपाँ संदँ शमित्य्
एतत्समादाय पशुषीर्षाण्यभ्यैति
दक्षिणत एतत्पुरुषशिर उपशेतेऽग्रेणेतराण्यथ प्राचीनावीतं कृत्वा सप्तभिर्माषैः पुरुषशिरः परिकीर्य त्रिरपसलैः पर्णशाखया परिकर्षति ९

अहरहर्नयमानो गामश्वं पुरुषं जगत्। वैवस्वतो न तृप्यति पञ्चभिर्मानवैर्यम इत्यपरैः सप्तभिः परिकीर्यैव परिकर्षति वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह सत्येनेच्छन्ते य उ चानृतवादिन इत्यपरैः सप्तभिः परिकीर्यैव परिकर्षति ते राजन्निह विविच्यन्तेऽथा यन्ति त्वामुप । देवाँ श्च ये नमस्यन्ति ब्राह्मणाँ श्चापचित्यतीत्यथादत्ते दक्षिणेन वल्मीकवपाँ सव्येन संदँ शेन पुरुषशिरः
प्राणैः प्राणान्संनिधायाशये वल्मीकवपां निदधात्यथैतत्पुरुषशिरोऽभ्युक्ष्योत्कुष्य प्रक्षाल्य मृदाभिलिम्पत्यनभिलिम्पन्प्राणान्
अथेतराणि त्रयेणैव निस्तिष्ठन्त्यभ्युत्कुष्यैव प्रक्षाल्य मृदाभिलिम्पन्त्यनभिलिम्पन्तः प्राणान्

अथैनान्यद्भिः प्रोक्षणतो निदधाति
तान्या कालात्परिशेरे १०

अथ पशोः सामिधेनीकल्पः
प्र वो वाजा अभिद्यव इत्येकादश
समास्त्वाग्न ऋतवो वर्धयन्त्विति दश
तासां ज्योतिष्मतीमपोद्धृत्य नव धाय्यालोके दधात्यथ पृथुपाजवत्यौ धाय्ये दधात्यथ युक्ष्वा हि देवहूतमानित्येतां दधाति
ताः पराचीरनूच्यमानाश्चतुर्विँशतिः संपद्यन्ते
ज्योतिष्मतीं त्वेवोत्तमामन्वाहाथ हिरण्यगर्भः समवर्तताग्र इत्याघारमाघारयत्यथात आप्रीणामेव मीमाँ सोर्ध्वा अस्य समिधो भवन्तीति द्वादश
तासां तानूनपातीमपोद्धृत्य नाराशँ सीं वसिष्ठानां दधात्यपोद्धृत्य नाराशँ सीं तानूनपातीमन्येषां गोत्राणाम्

अथ पीवोऽन्नान्रायेऽनु यमिति वपायै यः प्राणतो य आत्मदा इति पशुपुरोडाशस्य प्र वायुमच्छा नो नियुद्भिरिति हविष इति नु यदि मिश्रो भवति
यद्यु वै सर्ववायव्य एव भवति पीवोऽन्नान्रायेऽनु यमित्येतासां द्वे वपायै द्वे पशुपुरोडाशस्य द्वे हविषोऽथ यदि सर्वप्राजापत्य एव भवति यः प्राणतो य आत्मदा इत्येतासां द्वे वपायै द्वे पशुपुरोडाशस्य द्वे हविषः
सर्वसँ स्थां पशोः कुर्वन्त्यथैतानि पशुशीर्षाण्यभिपर्यग्निकृतान्युत्तरे शालाखण्डे शिक्येष्वासजत्यथैतत्सर्पशिर स्पन्द्यया विग्रथ्य शिक्यपाशे प्रग्रथ्नाति
तान्या कालात्परिशेरे ११

अथापरपक्षः प्रतिधीयते
स उपकल्पयत इष्टकाश्चाग्निदक्षिणाश्च यदि रात्रिभृतं चेष्यमाणो भवति
यद्यु वै संवत्सरभृतं दीर्घोऽध्वाजिरिति नाद्रि येत
स उपकल्पयत औदुम्बरीमुख्यासन्दीं तस्याः प्रादेशमात्राः पादा भवन्त्यरत्निमात्राणि शीर्षाण्यनूच्यानि सा मौञ्जीभी रज्जुभिर्व्यूता भवत्येकसराभिः फलकाभिस्तीर्णा मृदावलिप्ता षडुद्यामं द्वादशोद्यामं वा मौञ्जँ शिक्यं मुञ्जकुलायं क्रुमुकमाज्यसंयुतं वैकङ्कतीं च शमीमयीं च समिधौ सप्तौदुम्बरीः समिधस्तिस्रो नानावृक्ष्या एकविँ शतिनिर्बाधँ रुक्मं
प्रज्ञाता आग्निष्टोमिकाः संभारा जुष्टे देवयजने शाला कारिता भवत्यथिनं तीर्थादानीय पवयित्वा त्रिहविषमग्निदीक्षणीयामिष्टिं निर्वपत्याग्नावैष्णवमेकादशकपालमदित्यै घृते चरुं वैश्वानरं द्वादशकपालमिति
तस्यै तावन्त्युत्सीदन्ति यावन्ति दीक्षणीयाययथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्याज्यस्थाल्यां प्रत्यवनीयाज्यस्थाल्याः स्रुवेणोपघातमग्निदीक्षाहुतीर्जुहोति १२

आकूतिमग्निं प्रयुजँ स्वाहा मनो मेधामग्निं प्रयुजँ स्वाहा चित्तं विज्ञातमग्निं प्रयुजँ स्वाहा वाचो विधृतिमग्निं प्रयुजँ स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहेत्यथ स्रुचि चतुर्गृहीतं गृहीत्वाज्यस्य पूर्णाँ स्रुचमौद्ग्रहणं जुहोति विश्वे देवस्य नेतुर्मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहेत्यत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथाग्रेणाहवनीयं पर्याहृत्य यजमानाय प्रयच्छत्यथ मुख्यामुखां याचति

तस्याँ शकृत्पिण्डान्पूतितृणानीति संप्रकीर्याज्यस्रुवं प्रत्यस्याहवनीयस्यान्तमेष्वङ्गारेषु प्रवृणक्ति मा सु भित्था दृँ हस्वेति द्वाभ्याम्
अथिनां परिददाति मित्रैतामुखां तपैषा मा भेद्येतां ते परिददाम्यभित्त्या इत्यथ वै भवति
यदि भिद्येत तैरेव कपालैः सँ सृजेदिति
सा यदि भिद्यत एतान्येव कपालान्यवाञ्चनं पिष्ट्वा यैषा मृत्प्रायश्चित्ताय परिशेते तया सँ सृज्य कृत्वा पक्त्वाच्छृद्य निदधात्यथान्यां प्रवृणक्त्यथ वै भवत्यम्बरीषादन्नकामस्यावदध्यादित्यथ वै भवति
यं कामयेत यजमानं भ्रातृव्यमस्मै जनयेयमित्यन्यतस्तस्याहृत्यावदध्यादित्यथ वै भवति
यो गतश्रीः स्यान्मथित्वा तस्यावदध्यादित्यथ वै भवति
यो भूतिकामः स्याद्य उखायै संभवेत्स एव तस्य स्यादिति
स य एवैष उखायै संतापाज्जायते तस्मिन्मुञ्जकुलायमवदधाति या ते अग्न ओजस्विनी तनूरोषधीषु प्रविष्टा तां त एतेनावयजे स्वाहेत्यथ क्रुमुकमाज्यसंयुतमवदधाति द्र् वन्नः सर्पिरासुतिरित्यथ वैकङ्कतीं च शमीमयीं च समिधावादधाति परस्या अधि संवत इति वैकङ्कतीं परमस्याः परावत इति शमीमयीम्
अथ सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुपतिष्ठतेऽथ पञ्चौदुम्बरीः समिध आदधाति १३

यदग्ने यानि कानि च यदत्त्युपजिह्विका रात्रिँ रात्रिमप्रयावं नाभा पृथिव्या याः सेना अभीत्वरीरित्यथैनं पञ्चर्चेन राक्षोघ्नेनोपतिष्ठते कृणुष्व पाजः प्रसितिं न पृथ्वीमित्यथ तिस्रो नानावृक्ष्याः समिधोऽभ्यज्यादधाति दँ ष्ट्राभ्यां मलिम्लूनित्याश्वत्थीं ये जनेषु मलिम्लव इति वैकङ्कतीं यो अस्मभ्यमरातीयादिति शमीमयीम्
अथ सँ शितं मे ब्रह्मोदेषां बाहू अतिरमित्युत्तमे औदुम्बरी वाचयन्नेवाभ्यादधात्यत्र कृष्णाजिने यजमानं वाचयति
मुष्टी चैव न करोति वाचं च न यच्छत्यथैतामासन्दीं व्यस्तशिक्यपाशां जघनेनाहवनीयं निदधाति
तस्यामिण्ड्वाभ्यां परिगृह्योख्यमासादयति १४

मातेव पुत्रं पृथिवी पुरीष्यमग्निँ स्वे योनौ बिभर्त्युखा । तां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्मा युनक्त्वित्यथासीन उत्तरनिर्बाधँ रुक्मं प्रतिमुञ्चते दृशानो रुक्म इत्यथ शिक्यपाशं प्रतिमुञ्चते विश्वा रूपानि प्रतिमुञ्चते कविर्नक्तोषासेति द्वाभ्यां तूष्णीं कृष्णाजिनमुत्तरम्
अथैनमवेक्षते सुपर्णोऽसि गरुत्मान्त्रिवृत्ते शिरो गायत्रं चक्षु स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्र थन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दाँ स्यङ्गानि धिष्णियाः शफा यजूँ षि नामेत्यथैनमुद्गृह्णाति सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुवः पतेति
पुरस्तादेवास्यैते दीर्घाः शिक्यपाशाः कारिता भवन्ति

सोऽत्र वैव सति क्रमतेऽपि वैनमुपोद्यच्छते १५

विष्णोः क्रमोऽस्यभिमातिहा गायत्रं छन्द आ रोह पृथिवीमनुविक्रमस्व निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति
न चतुर्थाय प्रक्रामति
नाहवनीयमुपात्येत्यथाक्रन्ददित्येतामन्वाहाथ दक्षिणमँ समभि पर्यावर्ततेऽग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येति चतसृभिरथोदङ्पर्यावृत्य कृष्णाजिनमुन्मुच्य शिक्यपाशामुन्मुञ्चत उदुत्तमं वरुण पाशमस्मदित्यथैनमाहरत्या त्वाहार्षमग्रे बृहन्नुषसामूर्ध्वो अस्थादिति द्वाभ्याम्
अत्र यं कामयेत राजन्यँ राष्ट्रँ स्यादिति तं मनसा ध्यायेद्रा ष्ट्रमेव भवतीति ब्राह्मणम्
अथिनं यथाहृतं प्रतिपर्याहृत्यान्तर्वेद्यासादयति सीद त्वं मातुरस्या उपस्थ इति चतसृभिः सहँ साभिरत्र मुष्टी च करोति वाचं च यच्छत्यथास्मै व्रतं प्रदास्यन्नन्नपतीयाँ समिधमभ्यादधाति वा जपति वान्नपतेऽन्नस्य नो देहीत्यथोख्यमुपसमिन्द्धे येन देवा ज्योतिषोर्ध्वा उदायन्निति
स यावत्कृत्वोऽस्मै व्रतं प्रदास्यन्भवत्येवमेवान्नपतीयाँ समिधमभ्यादधाति वा जपति वैवमुख्यमुपसमिन्द्धेऽथ प्रातरुदित आदित्ये विसृष्टायां वाचि वात्सप्रेणोपतिष्ठते दिवस्परि प्रथमं जज्ञे अग्निरित्येतेनैकादशर्चेन

स एवमेव पूर्वेद्युः प्रक्रामत्युत्तरेद्युरुपतिष्ठतेऽथास्योपवसथीयेऽहन्वात्सप्रँ संपद्यते १६

अथातः प्रयाणस्यैव मीमाँ सा
दीक्षितं वायोगक्षेमो विन्दत्यन्यत्र वा देवयजनाद्दीक्षते सँ सृजन्ति व्रते
संबध्नन्ति व्रतदुघयोर्वत्सवादधति यदाधेयं भवति नीडे गार्हपत्यं प्रौग आहवनीयमित्यथोख्यमुद्यच्छत उदु त्वा विश्वे देवा इत्यथैनमनसः प्रौग आसादयति सीद त्वं मातुरस्या उपस्थ इति चतसृभिः सहँ साभिरथैतानासन्दीपादान्फलकेषु यथासुष्ठु विनिबध्नन्ति
मध्यमे वँ शे शिक्यपाशं प्रग्रथ्नन्त्यपि वारण्योरग्नीन्समारोह्य प्रयाति भद्रा दभि श्रेयः प्रेहि प्रेदग्ने ज्योतिष्मान्याहीति द्वाभ्याम्
अथ यद्यक्ष उत्सर्जत्यक्रन्ददित्येतामन्वाहाथावसिते घृतानुषिक्ताँ समिधमभ्यादधाति समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्। आस्मिन्हव्या जुहोतन स्वाहेति गायत्र्या ब्राह्मणस्य प्रप्रायमग्निर्भरतस्य शृण्व इति त्रिष्टुभा राजन्यस्य
स यावत्कृत्वः प्रयास्यन्भवत्येवमेवैतत्सर्वं करोति १७

अथातो भस्मन एवातिवृद्धस्य मीमाँ सा
भस्म चेदतिवर्धते स उपकल्पयते सतमयोदर्वीँ संदँ शमित्येतत्समादाय यत्रापस्तद्यन्ति सोख्या
अथैतमग्निँ संदँ शेन परिगृह्य सतेऽवधायायोदर्व्याप्सु भस्म प्रवेशयत्यापो देवीः प्रतिगृह्णीत भस्मैतदप्स्वग्ने सधिष्टव गर्भो अस्योषधीनामिति तिसृभिरनुच्छन्दसम्
अथैनं ज्योतिष्मतीभ्यां प्रत्यवदधाति प्रसद्य भस्मना योनिम्पुनरासद्य सदनमपश्चेति द्वाभ्याम्
अथ पुनरूर्जा सह रय्येति द्वाभ्यां पुनरुदैत्यथोख्यमुपसमिन्द्धे पुनस्त्वादित्या रुद्रा वसवः समिन्धतामित्यथैनं यथाहृतं प्रतिपर्याहृत्य यजमानायतने तिष्ठन्नुपतिष्ठते बोधा स बोधीत्यान्तादनुवाकस्य
स यावत्कृत्वो भस्मातिवर्धत एवमेवैतत्सर्वं करोत्यथातः कालायैवोपशेते संभारेभ्यः १८

अथातः क्रयस्यैवोपवसथः पर्याप्लवते
स उपकल्पयते पञ्चशतमिष्टका अपरिमिता अपस्या नैरृतीः कृष्णास्तिस्रस्तुषपक्वा भस्म पुरीषमूषान्सिकता इत्यथोपवसथीयेऽहन्देवयजनमध्यवस्यत्येदमगन्मापेतेति द्वाभ्याम्
अथ महावेदिं विमिमीत एतानेव ज्यायसः प्रक्रमान्प्रक्रम्याक्ष्णया मानेन प्रमाय समन्तँ स्पन्द्यया परितनोति
पृष्ठ्यामातनोत्यथैतमग्निं प्रत्यञ्चं यूपावटीयाच्छङ्कोर्विमिमीते पुरुषमात्रेण वेणुना समपक्षपुच्छम्
अरत्निना पक्षौ द्रा घीयाँ सौ भवतः
षड्विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवत्यथैनमक्ष्णया मानेन प्रमाय समन्तँ स्पन्द्यया परितनोत्य्
अनुस्पन्द्यं लेखां लिखत्यपोद्धृत्य स्पन्द्यां कर्षूः खानयन्त्युच्छ्रयन्त्यपस्या दक्षिणतश्च पश्चाच्च वर्षीयसीः कुर्वन्त्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताँ रात्रिम्
अथाध्वर्युरपररात्र आद्रुत्य सँ शास्ति त्रिस्तनव्रतं दोहयतेत्यथैतमग्निँ सते समुप्य दक्षिणतो ज्वलयन्त आसतेऽथैतदग्न्यायतनँ शकृत्पिण्डेन परिलेपयति
तस्मिँ श्चतस्रः प्राचीरिष्टका आयातयति द्वे पुरस्तात्समीची द्वे पश्चात्समीची
अथैनं प्रदक्षिणं त्रयोदशभिरिष्टकाभिः परिचिनोत्यन्विष्टकं लेखां लिखत्यपोद्धृत्येष्टकाः कर्षूः खानयन्त्युच्छ्रयन्त्यपस्या दक्षिणतश्च पश्चाच्च वर्षीयसीः कुर्वन्ति १९

अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्यान्तःशर्करमिमामुपदधाति प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यत्र संभारान्निवपत्यग्नेर्भस्मासीति भस्माग्नेः पुरीषमसीति पुरीषं संज्ञानमसि कामधरणमित्यूषान्मयि ते कामधरणं भूयादिति सिकता अथैनान्संप्रयौति सं या वः प्रियास्तनुवः सं प्रिया हृदयानि वः । आत्मा वो अस्तु संप्रियः संप्रियास्तनुवो ममेत्यथैनान्कल्पयति कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रता इत्यथोर्ध्वचित उपदधाति चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाङ्गिरस्वद्ध्रुवाः सीदतेत्य्
अथानुव्यूहत्याप्यायस्वेति गायत्र्या ब्राह्मणस्य सं ते पयाँ सीति त्रिष्टुभा राजन्यस्य
यथासुष्ठु यथाशर्करमनुव्यूहति
तस्मिँ श्चतस्रः प्राचीर्याजुषीरुपदधाति २०

अयँ सो अग्निरग्ने दिवो अर्णमच्छा जिगास्यग्ने यत्ते दिवि वर्चः पृथिव्याम्पुरीष्यासो अग्नय इति
द्वे पुरस्तात्समीची इडामग्न इति दक्षिणामयं ते योनिरृत्विय इत्युत्तरां द्वे पश्चात्समीची चिदसीति दक्षिणाम्परिचिदसीत्युत्तराम्
अथैनं प्रदक्षिणं त्रयोदशभिर्लोकं पृणाभिः परिचिनोति लोकं पृण छिद्रं पृणाथो सीद शिवा त्वम्। इन्द्रा ग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्निति
तयादेवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ सूददोहसं करोति ता अस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिव इत्यथावद्रुत्य कृष्णमश्वमभिमृश्य तनुपुरीषमुपदधाति पृष्टो दिवीति
तयादेवतं कृत्वा सूददोहसं करोतीति न्वा इयं प्रथमा चितिर्निष्ठीयत एवमेव द्वितीया निष्ठीयत एवं तृतीयैवं चतुर्थ्येवं पञ्चमी
तान्यदि चेष्यत आदित्योऽभ्युदियाद्वाचंयमोऽध्वर्युं यजमानोऽन्वारभत उख्यमेवाध्वर्युरादत्ते प्रतिसमेधनीयं प्रतिप्रस्थाता
तौ पुरस्तात्प्रत्यञ्चौ समितमिति चतसृभिः संनिवपतोऽथ शिक्यादुखां निरूहति २१

मातेव पुत्रं पृथिवी पुरीष्यमग्निँ स्वे योनावभारुखा । तां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चत्विति
तां नावेक्षेतेत्याहुः शुग्वत्येव हि भवतीति
तस्यामन्यत्रावेक्षमाणो दधिद्र प्सान्प्रास्यत्यमुं ते शुचि दधामीति वा तूष्णीं वाथैनाँ सिकताभिः पूरयित्वा दध्नोपरिष्टात्संप्रच्छाद्योत्तरे शालाखण्डे निदधात्येवमेव द्वितीयां पूरयत्येवं तृतीयां ता आ कालात्परिशेरेऽथ वैश्वानर्या शिक्यमादत्ते यदस्य पारे रजसः शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विष इत्यथ याचति नैरृतीः कृष्णास्तिस्रस्तुषपक्वा आसन्दीँ रुक्मस्य प्रबन्धनमुदपात्रमित्येतत्समादाय दक्षिणया द्वारोपनिष्क्रम्य तां दिशं यन्ति यत्रास्य स्वकृतमिरिणँ स्पष्टं भवति प्रदरो वा
तदेतत्पराचीनपाशँ शिक्यं न्यस्यत्यग्ने वैश्वानर स्वाहेति
शिक्यपाशमनु पराचीर्नैरृतीरुपदधाति नमः सु ते निरृते विश्वरूपे यत्ते देवी निरृतिराबबन्ध यस्यास्ते अस्याः क्रूर आसञ्जुहोमीत्युपास्यत्यासन्दीँ रुक्मस्य प्रबन्धनम्
अथोपतिष्ठतेऽसुन्वन्तमयजमानमिच्छ देवीमहं निरृतिं वन्दमान इति द्वाभ्याम्
अथापो व्यतिषिच्य परास्य पात्रमनवेक्षमाणा आयन्ति

हस्तपादान्प्रक्षाल्यैतेनैव यथेतमेत्य गार्हपत्यमुपतिष्ठन्ते निवेशनः संगमनो वसूनामित्याहवनीयमु हैक उपतिष्ठन्तेऽयमितोऽधि गार्हपत्यो भविष्यतीति २२

अथ प्रायणीयेन चरति
प्रायणीयेन चरित्वा पदेन चरति
पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यातिथ्येन प्रचर्य प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं प्रयच्छति
स पुच्छादेवाग्रे चतुरः प्रतीचः प्रक्रमान्प्रक्रामति दक्षिणा पञ्चमं तत्स्फ्यं निदधाति
स उपरवाणां कालोऽथ महावेद्या उत्तरादँ सीयाच्छङ्कोर्वेद्यन्तेन द्वादश प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं त्रयोदशं तदाग्नीध्र उपसीदति
स उत्करस्य कालोऽथोपरवाणां कालात्स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथाग्रेण शालां तिष्ठन्संप्रैषमाह वेदिकारा वेदिं कल्पयतेति
यथासंप्रैषं ते कुर्वन्त्यथ कार्ष्णाजिनीरुपानह उपमुञ्चन्ते चिते त्वेत्यध्वर्युराचिते त्वेति प्रतिप्रस्थाता मनश्चिते त्वेति ब्रह्मा तपश्चिते त्वेति यजमानश्चिते त्वा चिते त्वेत्येव वा सर्वेऽपि वा तूष्णीमेवाथ याचति धनुर्बाणवच्चतुरोऽश्मन ऐन्द्री मिष्टकां विभक्तिमुदपात्रं दर्भस्तम्बं दूर्वामाज्यस्थालीँ सस्रुवामित्येतत्समादायोत्तरे श्रोण्यन्ते सँ सादयन्त्य्
अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्यान्तःशर्करमिमामुपदधाति प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथादत्ते धनुर्बाणवच्चतुरोऽश्मन इत्येतत्समादाय जघनेन दक्षिणेनाग्निं परीत्याग्रेण यूपावटीयँ शङ्कुं तिष्ठन्धनुरधिज्यं कृत्वायत्यान्तःशर्करमिषुं निहन्ति २३

इन्द्र स्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पश इत्यावृह्याश्मानमुपदधाति यो नः पुरस्तादघायुरभिदासत्येतँ सोऽश्मानमृच्छत्वित्यथ दक्षिणस्य पक्षस्य दक्षिणे पक्षोपप्लव आयत्यान्तःशर्करमिषुं निहन्त्यावृह्याश्मानमुपदधाति यो नो दक्षिणत इत्यथ पुच्छस्यापरे पुच्छोपप्लव आयत्यान्तःशर्करमिषुं निहन्त्यावृह्याश्मानमुपदधाति यो नः पश्चादित्यथोत्तरस्य पक्षस्योत्तरे पक्षोपप्लव आयत्यान्तःशर्करमिषुं निहन्त्यावृह्यश्मानमुपदधाति यो न उत्तरत इति

दिक्षूपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथैतामैन्द्री मिष्टकामाक्रमणं प्रत्युपदधाति स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम्। यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राँ भितृन्धि वाजानिति
तयादेवतं कृत्वा सूददोहसं करोत्यथ दक्षिणतो विभक्तिमुपदधात्यग्न आयाहि वीतय इति
तयादेवतं कृत्वा सूददोहसं करोत्यथाधिद्रुत्य स्वयमातृण्णीयँ शङ्कुमुद्वृह्योदपात्रमुपनिनीय दर्भस्तम्बमुपदधाति वाक्त्वा समुद्र उपदधात्विति वा तूष्णीं वाथैनँ स्रुवाहुतिभिरभिजुहोति सजूरब्दोऽयावभिरिति पञ्चभिरथ दूर्वामुपदधात्यायने ते परायणे दूर्वा रोहन्तु पुष्पिणीः । उत्सो वा तत्र जायातै ह्रदो वा पुण्डरीकवानिति
तयादेवतं कृत्वा सूददोहसौ करोत्यथास्यैतत्पुरस्तादेवौदुम्बरं युगलाङ्गलं कारितं भवति २४

षड्गवं वा द्वादशगवं वा
तस्य वरत्राः संमृशति सं वरत्रा दधातन निष्कृताहावमवटमिति द्वाभ्यां युनक्ति सीरा युञ्जन्ति कवयो युगा युनक्त सीरेति द्वाभ्यां
कृषति लाङ्गलं पवीरवं शुनं नः फाला इति द्वाभ्यां सीतां प्रत्यवेक्षते कामं कामदुघे धुक्ष्व घृतेन सीतेति द्वाभ्यां स पुच्छादेवाग्रे तिस्रः प्राचीः सीताः कृषत्युत्तरायै श्रोणेर्दक्षिणमँ समभि तिस्रो दक्षिणायै श्रोणेरुत्तरमँ समभि तिस्रो दक्षिणात्पक्षादुत्तरं पक्षमभि तिस्रोऽथैतान्विमुच्य प्रदक्षिणमावर्त्याद्भिरभ्युक्ष्योदीच उत्सृजति
त एतेऽध्वर्योर्भवन्ति यदि दक्षिणावता यजते
यद्यु वै सत्त्रियोऽग्निर्यथागवं व्युदचन्ति
यत्रैवानड्वागस्तद्युगलाङ्गलम्
अथास्यैतत्पुरस्तादेवौदुम्बरे द्रो णे सर्वौषधं दध्नाज्येन समुदायुतं भवति
स पुच्छादेवाग्रे तिस्रः प्राचीः सीता वपति या जाता ओषधय इति तिसृभिरनुच्छन्दसम्
उत्तरायै श्रोणेर्दक्षिणमँ समभि तिसृभिर्दक्षिणायै श्रोणेरुत्तरमँ समभि तिसृभिर्दक्षिणात्पक्षादुत्तरं पक्षमभि पञ्चभिश्चतुर्दशभिर्वपतीति ब्राह्मणम्
अथ दिग्भ्यो लोष्टान्समस्यति
सोऽत एव प्राङ्द्रुत्वा बहिःशर्कराल्लोष्टमादत्ते
तमन्तःशर्करं न्यस्यति २५

मा नो हिँ सीज्जनिता यः पृथिव्या इत्यथ दक्षिणं पक्षमनुद्रुत्य बहिःशर्कराल्लोष्टमादत्ते
तमन्तःशर्करं न्यस्यत्यभ्यावर्तस्व पृथिवीत्यथ पुच्छमनुद्रुत्य बहिःशर्कराल्लोष्टमादत्ते
तमन्तःशर्करं न्यस्यत्यग्ने यत्ते शुक्रं यच्चन्द्र मित्यथोत्तरं पक्षमनुद्रुत्य बहिःशर्कराद्द्वौ लोष्टावादत्त इषमूर्जमहमित आदद इति
तयोरन्यतरमन्तःशर्करं न्यस्यत्या नो गोषु विशत्वौषधीष्विति
तां दिशमितरं निरस्यति यस्यामस्य दिशि द्वेष्यो भवति जहामि सेदिमनिराममीवामित्याददान एवैतां दिशमभि संपादयेदित्येतदेकं यजुषा यजुर्विपरिहरेदित्येतदपरम्
अथ महावेद्या उत्तरादँ सीयाच्छङ्कोर्वेद्यन्तेन त्रीन्प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं चतुर्थं तच्चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्य सिकता निवपत्यग्ने तव श्रवो वय इति षड्भिरनुच्छन्दसम्
अथोर्ध्वचित उपदधाति चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाङ्गिरस्वद्ध्रुवाः सीदतेत्यथानुव्यूहत्याप्यायस्वेति गायत्र्या ब्राह्मणस्य सं ते पयाँ सीति त्रिष्टुभा राजन्यस्य
यथासुष्ठु यथाशर्करमनुव्यूहति २६

अथैतां महाचितिँ सँ सादयन्त्यग्रेण शालामुच्छ्राय्यां वा चर्मणि वा द्वाविँ शतिं च दर्भपुञ्जीलानि पयःप्रोक्षं चाज्यप्रोक्षं चाश्वं चौत्तरवेदिकाँ श्च संभारान्बार्हस्पत्यत्रयोदशाश्च कुम्भेष्टकास्तावत एव हिरण्यशल्कान्सतं चोदकुम्भं च पुष्करपर्णं च रुक्मं च हिरण्मयं च पुरुषं स्रुचौ च सर्पशिरश्च सर्वं च स्वयमातृण्णानिकोतं दश च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति ता दधि च मधुमिश्रं कूर्मं चौदुम्बरं चोलूखलमुसलँ सर्वौषधं चोखाश्च पशुशीर्षाणि चेति

द्वाविँ शतिं दर्भपुञ्जीलानि पयःप्रोक्षेऽवधाय तैः प्रोक्षत्यग्नीन्वोऽग्निभ्यो जुष्टान्प्रोक्षामीति वा तूष्णीं वाग्निनाग्निः समिध्यत इत्याज्यप्रोक्षेणाथ संप्रैषमाहाग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीति
यदि होता न कामयते यजमान एव पुरीष्यासो अग्नय इत्येतामेकां त्रिरन्वाहाथाग्निप्रथमाः प्रतिपद्यन्तेऽथैतेनाश्वेन प्राचाधिद्र वति २७

अभ्यस्थाद्विश्वाः पृतना अरातीरित्यथ दक्षिणमँ समभ्यवक्रामन्तमनुमन्त्रयते यदक्रन्दः प्रथमं जायमान इत्युत्तरे श्रोण्यन्ते सँ सादयन्त्य्
अथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथ पुच्छसन्धौ चात्मसन्धौ च सतं निदधात्यथोदकुम्भं पर्यस्यत्यादत्ते दक्षिणेन कुम्भँ सव्येन कुम्भीँ सतात्पूरयित्वा हिरण्यशल्कौ प्रत्यस्य या एता दक्षिणादँ सात्स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति २८

हिरण्यवर्णाः शुचयः पावका यासाँ राजा वरुणो याति मध्य इति द्वाभ्याम्
एवमेव पूरयित्वैवं प्रत्यस्य या एता उत्तरायै श्रोणेः स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति तृतीयया च चतुर्थ्या चैवमेव पूरयित्वैवं प्रत्यस्य या एता दक्षिणायै श्रोणेः स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति पञ्चम्या च षष्ठ्या चैवमेव पूरयित्वैवं प्रत्यस्य या एता उत्तरादँ सात्स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति सप्तम्या चाष्टम्या चैवमेव पूरयित्वैवं प्रत्यस्य या एता दक्षिणात्पक्षात्स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधाति नवम्या च दशम्या चैवमेव पूरयित्वैवं प्रत्यस्य या एता उत्तरात्पक्षात्स्वयमातृण्णामभ्याद्र वन्ति तासु विषुवत्यनुसीतमुपदधात्येकादश्या च द्वादश्या च

तासां बार्हस्पत्यं मध्य उपदधाति दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्या संभव ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वेत्यनुसीतमुपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोति २९

अथोत्तरवेदेरावृतोत्तरवेदिमलङ्करोत्यथोत्तरवेद्यामपां पृष्ठमसीति पुष्करपर्णमुपदधाति
तयादेवतं कृत्वा सूददोहसं करोत्यथोत्तरवेद्यामेवोत्तरनिर्बाधँ रुक्ममुपदधाति ब्रह्म जज्ञानमित्यथैनमक्ष्णया पञ्चगृहीतेन व्याघारयति कृणुष्व पाजः प्रसितिं न पृथ्वीमित्यथ दक्षिणतः प्राञ्चँ हिरण्मयं पुरुषमुपदधाति हिरण्यगर्भः समवर्तताग्र इत्यथैनमभिमृशति द्र प्सश्चस्कन्देति
तयादेवतं कृत्वा सूददोहसौ करोत्यथोत्तरतः प्रक्रमवेलायाँ स्रुचावुपदधात्याज्यस्यपूर्णां कार्ष्मर्यमयीं दध्नः पूर्णामौदुम्बरीं दक्षिणां कार्ष्मर्यमयीमुत्तरामौदुम्बरीमियमसीति कार्ष्मर्यमयीमसावसीत्यौदुम्बरीं मनसैव
तयादेवतं कृत्वा सूददोहसौ करोत्यथ दक्षिणे प्रललाटे सर्पशिर उपदधाति नमो अस्तु सर्पेभ्य इति तिसृभिरनुच्छन्दसम्
अपि वा यतौच्चारं जनपदस्य जन्यं भयं मन्यते
तयादेवतं कृत्वा सूददोहसं करोति ३०

अथ स्वयमातृण्णां यजुषा करोति ध्रुवासि धरुणास्तृता विश्वकर्मणा सुकृता । मा त्वा समुद्र उद्वधीन्मा सुपर्णोऽव्यथमाना पृथिवीं दृँ हेत्य्
अथैनामश्वमवघ्राप्याविदुषा ब्राह्मणेन सहाधिद्रुत्योपदधाति यथैतस्य पुरुषस्य प्राणैः प्राणाः संनिधीयेरन्नापिधीयेरन्भूः प्रजापतिस्त्वा सादयत्वित्यनुद्रुत्याग्निस्त्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यनु प्राण्यात्प्रथमाँ स्वयमातृण्णामुपधायेत्यनुप्राणित्यथैष ब्राह्मणो वरं ददात्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्वयमातृण्णावकाशे जुहोति चित्तिं जुहोमि मनसा घृतेनेत्यङ्गुष्ठाभ्यामन्वारभ्यान्वारोहं वाचयति पृथिवीमाक्रमिषं प्राणो मा मा हासीदित्यपरे बिले हिरण्येष्टकामुपदधाति तेजोऽसि तेजो मे यच्छ पृथिवीं यच्छ पृथिव्यै मा पाहीति
तां जघनेन प्रक्रमवेलायां मण्डलेष्टकामुपदधाति पृथिव्युदपुरमन्नेन विष्टेति
दक्षिणतो रेतःसिचमुपदधाति पृथिवी रेतःसिक्सा मे रेतो दधातु सा मे रेतः प्रजनयत्विति
तयादेवतं कृत्वा सूददोहसः करोति ३१

अथैता दश स्कन्ध्याः प्राचीरायातयति द्वे ऋतव्ये द्वे द्वियजुषी विराजं च विश्वज्योतिषं च सयुजं चाषाढां च द्वे संयान्यवृतव्ये उपदधाति मधुश्च माधवश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीत्यथ द्वियजुषी उपदधाति काण्डात्काण्डात्प्ररोहन्ती या शतेन प्रतनोषीति द्वाभ्यां दूर्वेष्टकाम्
अथ हिरण्यमूर्ध्नीमुपदधाति यास्ते अग्ने सूर्ये रुचो या वो देवाः सूर्ये रुच इति
विराजं च विश्वज्योतिषं च विराट्ज्योतिरधारयद्बृहस्पतिस्त्वा सादयत्वित्युत्त्राम्
अथ सयुजमुपदधातीन्द्रा ग्निभ्यां त्वा सयुजा युजा युनज्मीत्य्
अथाषाढां त्र्यालिखितामुत्तरलक्ष्माणमुपदधात्यषाढासि सहमानेत्यथ संयान्यावुपदधात्यग्नेर्यान्यसि देवानामग्नेयान्यसीति
तयादेवतं कृत्वा सूददोहसः करोति ३२

अथोत्तरेण त्र्यालिखितामुपविश्य याचति दधि च मधुमिश्रं कूर्मं च
तं दध्ना मधुमिश्रेणाभ्यनक्ति मधु वाता ऋतायत इति तिसृभिरनुच्छन्दसम्
अथैनमवकाभारेण परिवेष्ट्य पुरस्तात्प्रत्यञ्चमुपदधाति मही द्यौः पृथिवी च नश्चतस्र आशाः प्रचरन्त्वग्नय इति द्वाभ्याम्
अथैनँ शङ्कुभिः परिणिहन्त्यभितोऽनवसर्पणाय
तयादेवतं कृत्वा सूददोहसं करोत्यथात्रैव तिष्ठन्याचत्यौदुम्बरं चोलूखलमुसलँ सर्वौषधं च
तदेतत्प्रादेशमात्रमुलूखलं भवत्यरत्निमात्रं मुसलं तस्मिन्सर्वौषधमवहन्त्यूर्जो भागोऽस्यूर्जः पवित्रमूर्गन्नमन्नाद्यायेत्यथैनदुत्तरतः प्रक्रमवेलायामुपदधाति तद्विष्णोः परमं पदमिति
लोकंपृणामुत्तरतो मुसलं करोति
तयादेवतं कृत्वा सूददोहसौ करोत्यथ मुख्यामुखां याचति
तस्यामन्तरवस्राविणी द्वे स्रुवाहुती जुहोत्यग्ने युक्ष्वा हि ये तवेति दक्षिणे बिले जुहोति युक्ष्वा हि देवहूतमानित्युत्तरेऽथैनामुत्तरतः प्रक्रमवेलायामुपदधाति धुर्वासि पृथिवि सहस्व पृतन्यत इति
लोकंपृणे उत्तरत इतरे करोति
तयादेवतं कृत्वा सूददोहसः करोत्यथितत्पुरुषशिरो याचति
तस्य प्राणेषु हिरण्यशल्कान्प्रत्यस्यति द्र प्सश्चस्कन्देत्यास्येऽभूदिदं विश्वस्य भुवनस्य वाजिनमिति दक्षिणस्यां नासिकायामग्नेर्वैश्वानरस्य चेत्युत्तरस्यामग्निर्ज्योतिषा ज्योतिष्मानिति दक्षिणेऽक्ष्णि रुक्मो वर्चसा वर्चस्वानित्युत्तर ऋचे त्वेति दक्षिणे कर्णे रुचे त्वेत्युत्तरेऽथ स्रुचि चतुर्गृहीतं गृहीत्वा दक्षिणेऽक्ष्णि जुहोति चित्रं देवानामुदगादनीकमित्यपरं चतुर्गृहीतं गृहीत्वोत्तरेऽक्ष्णि जुहोति चित्रं देवानामिति
समान्या जुहोतीति ब्राह्मणम्
अथैनद्दध्ना मधुमिश्रेण पूरयति समित्स्रवन्ति सरितो न धेना इत्यान्तादनुवाकस्याथैनत्प्राचीनमुत्तानमुखायामुपदधाति ३३

आदित्यं गर्भं पयसा समञ्जन्नित्यनुद्रुत्येमं मा हिँ सीर्द्विपादं पशूनामिति
मयुमारण्यमनु ते दिशामीति शुचमनूत्सृजति
ललाटे हिरण्येष्टकामुपदहाति विश्वकर्मा दिशां पतिरित्यथ पुरस्तात्प्रत्यङ्मुख उपविश्यान्तरात्मन्नश्वस्य शिर उपदधाति वातस्य ध्राजिं वरुणस्य नाभिमित्यनुद्रुत्येमं मा हिँ सीरेकशफं पशूनामिति
गौरमारण्यमनु ते दिशामीति शुचमनूत्सृजति
ललाटे हिरण्येष्टकामुपदधाति प्रजापतिर्दिशां पतिरित्यथ पश्चात्प्राङ्मुख उपविश्यान्तरात्मन्नृषभस्य शिर उपदधात्यजस्रमिन्दुमरुषं भुरण्युमित्यनुद्रुत्येमँ समुद्रँ शतधारमुत्समिति
गवयमारण्यमनु ते दिशामीति शुचमनूत्सृजति
ललाटे हिरण्येष्टकामुपदधाति रुद्रो दिशां पतिरित्यथ दक्षिणत उदङ्मुख उपविश्यान्तरात्मन्वृष्णेः शिर उपदधाति वरूत्रिं त्वष्टुर्वरुणस्य नाभिमित्यनुद्रुत्येमामूर्णायुं वरुणस्य मायामित्युष्ट्रमारण्यमनु ते दिशामीति शुचमनूत्सृजति

ललाटे हिरण्येष्टकामुपदधाति वरुणो दिशां पतिरित्यथोत्तरतो दक्षिणामुख उपविश्यान्तरात्मन्बस्तस्य शिर उपदधाति यो अग्निरग्नेस्तपसोऽधि जात इत्यनुद्रुत्याजा ह्यग्नेरजनिष्ट गर्भादिति
शरभमारण्यमनु ते दिशामीति शुचमनूत्सृजति
ललाटे हिरण्येष्टकामुपदधात्यग्निर्दिशां पतिरित्यन्तेषु तस्य व्युदूह्योपदध्यादिति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोति ३४

अथापस्या उपदधात्यपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीरुपदधाति पञ्च दक्षिणतः पञ्च पश्चात्प्राचीः पञ्चोत्तरतश्छन्दस्यास्
तयादेवतं कृत्वा सूददोहसः करोत्यथ प्राणभृत उपदधात्ययं पुरो भुवस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्र्यै गायत्रं गायत्रादुपाँ शुरुपाँ शोस्त्रिवृत्त्रिवृतो रथंतरँ रथंतराद्वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्य इति
दश प्राचीरायातयति स्वयमातृण्णाया अयं दक्षिणा विश्वकर्मेति
दश दक्षिणा आयातयति स्वयमातृण्णाया अयं पश्चाद्विश्वव्यचा इति
दश प्रतीचीरायातयति स्वयमातृण्णाया इदमुत्तरात्सुवरिति
दशोदीचीरायातयति स्वयमातृण्णाया इयमुपरि मतिरिति
दशभिरुपरिष्टात्प्रदक्षिणं परिचिनोत्यक्ष्णयोपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथ संयत उपदधात्यायुषः प्राणँ संतन्विति द्वादश तिस्रस्तिस्रो दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्य्
अथापानभृत उपदधाति प्राची दिशां वसन्त ऋतूनामग्निर्देवता ब्रह्म द्र विणं त्रिवृत्स्तोमः स उ पञ्चदशवर्तनिस्त्र्यविर्वयः कृतमयानां पुरोवातो वातः सानग ऋषिरिति
वाचयति पितरः पितामहा इति
दक्षिणेन प्राणभृतो दश प्रतीचीरायातयति स्वयमातृण्णामभि दक्षिणा दिशामिति
जघनेन प्राणभृतो दशोदीचीरायातयति स्वयमातृण्णामभि प्रतीची दिशामित्युत्तरेण प्राणभृतो दश प्राचीरायातयति स्वयमातृण्णामभ्युदीची दिशामित्यग्रेण प्राणभृतो दश दक्षिणा आयातयति स्वयमातृण्णामभ्यूर्ध्वा दिशामिति
बाह्येन प्राणभृतो दशभिरुपरिष्टादपसलैः परिचिनोति
विषूचीरुपदधातीति ब्राह्मणम्
अपानभृद्भिश्चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्निँ सर्वतोमुखं चिनुते ३५

गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मधे
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्नेरङ्गान्युपदधाति प्राच्या त्वा दिशा सादयामि गायत्रेण छन्दसाग्निना देवतयाग्नेः शीर्ष्णाग्नेः शिर उपदधामि दक्षिणया त्वा दिशा सादयामि प्रतीच्या त्वा दिशा सादयाम्युदीच्या त्वा दिशा सादयाम्यूर्ध्वया त्वा दिशा सादयामि पाङ्क्तेन छन्दसेति
तयादेवतं कृत्वा सूददोहसः करोत्यथोत्तरतः प्राजापत्यामुपदधाति संवत्सरस्य प्रतिमामिति

तां जघनेन प्रक्रमवेलायां प्राञ्चमृषभमुपदधाति त्वामग्ने वृषभं चेकितानमिति
तयादेवतं कृत्वा सूददोहसौ करोत्यथ लोकंपृणा उपदधाति लोकं पृण छिद्रं पृणाथो सीद शिवा त्वम्। इन्द्रा ग्नी त्वा बृहस्पतिरस्मिन्योनावसीषदन्निति
तयादेवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ सूददोहसं करोति ता अस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिव इति
प्राच्यात्र लोकंपृणया प्रसौत्यग्निं प्राचीभिः सम्प्रच्छादयन्ति
संप्रच्छन्नं पलाशशाखया परिकर्षति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्याग्नेय्या गायत्र्यैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताँ रात्रिम् ३६

अथ द्वितीयेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरत्यथ कार्ष्णाजिनी उपानहावुपमुञ्चेते अध्वर्युश्च यजमानश्चाथ द्वाभ्यामात्मन्यग्निं गृःनीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति

कृष्णमश्वमभिमृश्य तनुपुरीषमुपदधाति पृष्टो दिवीति
तयादेवतं कृत्वा सूददोहसं करोत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताँ रातिर्म्
अथ तृतीयेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
सर्व एव कार्ष्णाजिनीरुपानह उपमुञ्चन्तेऽथ याचत्याज्यस्थालीँ सस्रुवां विभक्तिमुदपात्रं पञ्च च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति ता
एतत्समादायोत्तरे श्रोण्यन्त सँ सादयन्त्यथ द्वाभ्यामात्मन्यग्निं गृणीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथाधिद्रुत्य प्रथमे संचिताहुती जुहोत्यग्न उदधे तत्त्वा यामीति
दक्षिणतो विभक्तिमुपदधात्यग्निं दूतं वृणीमह इति
तयादेवतं कृत्वा सूददोहसं करोति ३७

अथैताः पञ्च स्कन्ध्याः प्राचीरायातयति द्वे ऋतव्ये द्वे सयुजावेकाँ संयानीम्
ऋतव्ये उपदधाति शुक्रश्च शुचिश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीत्यथ सयुजावुपदधात्याघाराभ्यां त्वा सयुजा युजा युनज्मि तेजसा त्वा सयुजा युजा युनज्मीत्यथ संयानीमुपदधाति वायोर्यान्यसीति
तयादेवतं कृत्वा सूददोहसः करोत्यथाश्विनीरुपदधाति ध्रुवक्षितिर्ध्रुवयोनिरिति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्य्
अथर्तव्या उपदधाति सजूरृतुभिः सजूर्विधाभिरिति पञ्चैकैकां दिक्ष्वेकां मध्ये
समानप्रभृतयो भवन्ति समानोदर्का इति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथ प्राणभृत उपदधाति प्राणं मे पाह्यपानं मे पाहीति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ वृष्टिसनीरुपदधात्यपस्पिन्वौषधीर्जिन्वेति पञ्चैकैकां दिक्ष्वेकां मध्येऽनुपरिहारँ सादयतीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथ मूर्धन्वतीरुपदधाति विष्टम्भो वय इति चतस्रः पुरस्ताद्धँ सपातिनीस्
तयादेवतं कृत्वा सूददोहसः करोत्यथ वसस्या उपदधाति
त्र्यविर्वय इति पञ्च दक्षिणायाँ श्रोण्यामुपदधाति पष्ठवाद्वय इति पञ्चोत्तरस्याम्बस्तो वय इति दक्षिणेऽँ स उपदधाति
वृष्णिर्वय इत्युत्तरे
व्याघ्रो वय इति दक्षिणे पक्ष उपदधाति
सिँ हो वय इत्युत्तरे
पुरुषो वय इति मध्ये
पुरुषेण चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्निँ सर्वतोमुखं चितुतेऽग्नेरङ्गानि प्राजापत्यामृषभं लोकंपृणा उदीच्यात्र लोकंपृणया प्रसौत्यग्निमुदीचीभिः संप्रच्छादयन्ति
संप्रच्छन्नं पलाशशाखया परिकर्षति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्य्
आग्नेय्या त्रिष्टुभैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताँ रात्रिम् ३८

अथ चतुर्थेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
समानं पुरीषस्योपधानम्
अथ पञ्चमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
सर्व एव कार्ष्णाजिनीरुपानह उपमुञ्चन्तेऽथ याचत्याज्यस्थालीँ सस्रुवां विभक्तिमुदपात्रँ सर्वं च स्वयमातृण्णानिकोतं दश च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति
एतत्समादायोत्तरे श्रोण्यन्ते सँ सादयन्त्यथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथाधिद्रुत्य द्वितीये संचिताहुती जुहोत्यग्ने दुध्र तत्त्वा यामीति
दक्षिणतो विभक्तिमुपदधात्यग्निनाग्निः समिध्यत इति
तयादेवतं कृत्वा सूददोहसं करोत्यथ स्वयमातृण्णामश्वमवघ्राप्याविदुषा ब्राह्मणेन सहाधिद्रुत्योपदधाति भुव इन्द्रा ग्नी अव्यथमानामित्यनुद्रुत्य वायुस्त्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति
व्यन्याद्द्वितीयामुपधायेति
प्राण्यापानिति
स व्यानोऽथैष ब्राह्मणो वरं ददात्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्वयमातृण्णावकाशे जुहोति चित्तिं जुहोमि मनसा घृतेनेत्यङ्गुष्ठाभ्यामन्वारभ्यान्वारोहं वाचयत्यन्तरिक्षमाक्रमिषं प्रजा मा मा हासीदित्य्
अपरे बिले हिरण्येष्टकामुपदधाति ज्योतिरसि ज्योतिर्मे यच्छान्तरिक्षं यच्छान्तरिक्षान्मा पाहीति
तां जघनेन प्रक्रमवेलायां मण्डलेष्टकामुपदधात्यधिद्यौरन्तरिक्षं ब्रह्मणा विष्टेति
दक्षिणतो रेतःसिचमुपदधात्यन्तरिक्षँ रेतःसिक्तन्मे रेतो दधातु तन्मे रेतः प्रजनयत्विति मनसैव
तयादेवतं कृत्वा सूददोहसः करोति ३९

अथैता दश स्कन्ध्याः प्राचीरायातयति चतस्र ऋतव्याः सम्राजं च विश्वज्योतिषं च द्वे सयुजौ द्वे संयान्यवृतव्या उपदधाति नभश्च नभस्यश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीतीषश्चोर्जश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीति सम्राजं च विश्वज्योतिषं च सम्राट्ज्योतिरधारयद्विश्वकर्मा त्वा सादयत्वित्युत्तराम्
अथ सयुजावुपदधाति वर्चसा त्वा सयुजा युजा युनज्म्युक्थेभिस्त्वा सयुजा युजा युनज्मीत्यथ संयान्यावुपदधाति देवानां वायोयान्यस्यन्तरिक्षस्य यान्यसीति
तयादेवतं कृत्वा सूददोहसः करोत्यथ दिश्या उपदधाति राज्ञ्यसि प्राची दिगिति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ प्राणभृत उपदधात्यायुर्मे पाहि प्राणं मे पाहीति दश पुरस्तात्प्राचीस्
तासां ज्योतिष्मतीमुत्तमामुपदधाति
तयादेवतं कृत्वा सूददोहसः करोत्यथ बृहतीरुपदधाति मा छन्द इति द्वादश दक्षिणतः पृथिवी छन्द इति द्वादश पश्चादग्निर्देवतेति द्वादशोत्तरतस्
तयादेवतं कृत्वा सूददोहसः करोत्य्
मूर्धासि राडिति सप्त पुरस्तात्प्रतीचीरुपदधाति यन्त्री राडिति सप्त पश्चात्प्राची
वालखिल्याभिश्चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्निँ सर्वतोमुखं चिनुतेऽग्नेरङ्गानि प्राजापत्यामृषभं लोकंपृणाः
प्राच्यात्र लोकंपृणया प्रसौत्यग्रिं प्राचीभिः संप्रच्छादयन्ति
संप्रच्छन्नं पलाशशास्वया परिकर्षति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्याग्नेय्या जगत्यैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताँ रात्रिम् ४०

अथ षष्ठेऽन्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
समानं पुरीषस्योपधानम्
अथ सप्तमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
सर्व एव कार्ष्णाजिनीरुपानह उपमुञ्चन्तेऽथ याचत्याज्यस्थालीँ सस्रुवां विभक्तिमुदपात्रं पञ्च च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति ता एतत्समादायोत्तरे श्रोण्यन्ते सँ सादयन्त्यथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथाधिद्रुत्य तृतीये संचिताहुती जुहोत्यग्ने गह्य तत्त्वा यामीति
दक्षिणतो विभक्तिमुपदधात्यग्निर्वृत्राणि जङ्घनदिति
तयादेवतं कृत्वा सूददोहसं करोत्यथैताः पञ्च स्कन्ध्याः प्राचीरायातयति द्वे ऋतव्ये द्वे सयुजावेकाँ संयानीम्

ऋतव्ये उपदधाति सहश्च सहस्यश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीत्यथ सयुजावुपदधाति स्तोमेभिस्त्वा सयुजा युजा युनज्मि छन्दोभिस्त्वा सयुजा युजा युनज्मीत्यथ संयानीमुपदधाति देवानामन्तरिक्षयान्यसीति
तयादेवतं कृत्वा सूददोहसः करोति ४१

अथाक्ष्णयास्तोमीया उपदधात्याशुस्त्रिवृदिति पुरस्तादुपदधाति व्योम सप्तदश इति दक्षिणतो धरुण एकविँ श इति पश्चाद्भान्तः पञ्चदश इत्युत्तर्तः
प्रतूर्तिरष्टादश इति पुरस्तादुपदधात्यभिवर्तः सविँ श इति दक्षिणतो वर्चो द्वाविँ श इति पश्चात्तपो नवदश इत्युत्तरतो
योनिश्चतुर्विँश इति पुरस्तादुपदधाति गर्भाः पञ्चविँ श इति दक्षिणत ओजस्त्रिणव इति पश्चात्संभरणस्त्रयोविँ श इत्युत्तरतः
क्रतुरेकत्रिँ श इति पुरस्तादुपदधाति ब्रध्नस्य विष्टपं चतुस्त्रिँ श इति दक्षिणतः प्रतिष्ठा त्रयस्त्रिँ श इति पश्चाद्नाकः षट्त्रिँ श इत्युत्तरतोऽग्नेर्भागोऽसीति पुरस्तादुपदधाति नृचक्षसां भागोऽसीति दक्षिणतो मित्रस्य भागोऽसीति पश्चादिन्द्र स्य भागोऽसीत्युत्तरतो
वसूनां भागोऽसीति पुरस्तादुपदधात्यादित्यानां भागोऽसीति दक्षिणतोऽदित्यै भागोऽसीति पश्चाद्देवस्य सवितुर्भागोऽसीत्युत्तरतो
धर्त्रश्चतुष्टोम इति पुरस्तादुपदधाति यावानां भागोऽसीति दक्षिणत ऋभूणां भागोऽसीति पश्चाद्विवर्तोऽष्टाचत्वारिँ श इत्युत्तरतोऽन्यथानूच्यान्यथोपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्य्
अथ सृष्टीरुपदधात्येकयास्तुवत प्रजा अधीयन्तेति सप्तदश
चतस्रो दक्षिणेऽँ स उपदधात्यथ तिस्रोऽथ तिस्रोऽथ तिस्रोऽथ चतस्रो दक्षिणादँ साद्दक्षिणाँ श्रोणिमभ्यायातयति
तयादेवतं कृत्वा सूददोहसः करोत्यथ व्युष्टीरुपदधातीयमेव सा या प्रथमा व्यौच्छदिति पञ्चदश
तिस्रस्तिस्रो दिक्षु तिस्रो मध्ये
व्युष्टीभिश्चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोति ४२

अथाग्निँ सर्वतोमुखं चिनुतेऽग्नेरङ्गानि प्राजापत्यामृषभं लोकंपृणा उदीच्यात्र लोकंपृणया प्रसौत्यग्निमुदीचीभिः संप्रच्छाद्यन्ति
संप्रच्छन्नं पलाशशाखया परिकर्षति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्याग्नेय्यानुष्टुभैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताँ रात्रिम् ४३

अथाष्टमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
समानं पुरीषस्योपधानम्
अथ नवमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
सर्व एव कार्ष्णाजिनीरुपानह उपमुञ्चन्तेऽथ याचत्याज्यस्थालीँ सस्रुवां विभक्तिमुदपात्रँ सर्वं च स्वयमातृण्णानिकोतँ सप्त च स्कन्ध्या अवकाश्च या उ चान्या उपधास्यन्भवति ता
एतत्समादायोत्तरे श्रोण्यन्ते सँ सादयन्त्यथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याधिद्र वत्यपामिदं न्ययनं नमस्त इति द्वाभ्याम्
अथाधिद्रुत्य चतुर्थे संचिताहुती जुहोत्यग्ने किँ शिल तत्त्वा यामीति
दक्षिणतो विभक्तिमुपदधात्यग्ने स्तोमं मनामह इति
तयादेवतं कृत्वा सूददोहसं करोत्यथैताः सप्त स्कन्ध्याः प्राचीरायातयति द्वे ऋतव्ये स्वराजं च विश्वज्योतिषं चैकाँ सयुजं द्वे संयान्यवृतव्ये उपदधाति तपश्च तपस्यश्चेत्यवकामनूपदधात्यग्नेर्योनिरसीति स्वराजं च विश्वज्योतिषं च स्वराट्ज्योतिरधारयत्प्रजापतिस्त्वा सादयत्वित्युत्तराम्
अथ सयुजमुपदधाति रय्यै पोषाय सजातानां मध्यमस्थेयाय मया त्वा सयुजा युजा युनज्मीत्यथ संयान्यावुपदधात्यन्तरिक्षमस्यन्तरिक्षाय त्वेति
तयादेवतं कृत्वा सूददोहसः करोति ४४

अथासपत्ना उपदधात्यग्ने जातान्प्रणुदा नः सपत्नानिति पुरस्तादुपदधाति सहसा जातानिति पश्चाद्चतुश्चत्वारिँ श स्तोम इति दक्षिणतः षोडश स्तोम इत्युत्तरतस्
तासां पुरीषवतीं मध्य उपदधाति पृथिव्याः पुरीषमस्यप्सो नामेति
तयादेवतं कृत्वा सूददोहसः करोत्यथ विराज उपदधात्येवश्छन्दो वरिवश्छन्द इति चत्वारिँ शतं दशदश दिक्षु न मध्येऽक्ष्णयोपदधातीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्य्
अथ स्तोमभागा उपदधाति रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येकत्रिँ शतँ सप्तसप्त दिक्षु तिस्रो मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ नाकसद उपदधाति राज्ञ्यसि प्राची दिग्वसवस्ते देवा अधिपतय इति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ पञ्चचोडा उपरिष्टान्नाकसदामुपदधात्ययं पुरो हरिकेशः सूर्यरश्मिरिति पञ्चैकैकां दिक्ष्वेकां मध्ये
तासां पश्चात्प्राचीमुत्तमामुपदधात्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायति
तयादेवतं कृत्वा सूददोहसः करोत्यथ छन्दाँ स्युपदधात्यग्निर्मूर्धा दिव इत्येतस्यानुवाकस्य तिस्रस्तिस्रो यथाम्नातं गायत्रीः पुरस्तादुपदधाति त्रिष्टुभो दक्षिणतो जगतीः पश्चादनुष्टुभ उत्तरतो बृहतीर्मध्य उष्णिहः पुरस्तादुपदधाति पङ्क्तीर्दक्षिणतोऽक्षरपङ्क्तीः पश्चादतिच्छन्दसमुत्तरतो द्विपदा मध्येऽपि वातिच्छन्दसं मध्ये द्विपदा उत्तरतस्
तयादेवतं कृत्वा सूददोहसः करोत्यथ दक्षिणेऽँ से कृत्तिका उपदधात्यम्बा नामासि दुला नामासीति सप्त गुल्मकृतास्
तयादेवतं कृत्वा सूददोहसः करोत्यथ वृष्टिसनीरुपदधाति पुरोवातसनिरस्यभ्रसनिरसीति पञ्चैकैकां दिक्ष्वेकां मध्येऽनुपरिहारँ सादयतीति ब्राह्मणं तयादेवतं कृत्वा सूददोहसः करोत्यथादित्येष्टका उपदधाति सलिलाय त्वा सर्णीकाय त्वेत्यष्टौ द्वेद्वे दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ घृतेष्टका उपदधात्यृचे त्वा रुचे त्वेति पञ्चैकैकां दिक्ष्वेकाम्मध्येऽनुपरिहारँ सादयतीति ब्राह्मणं
तयादेवतं कृत्वा सूददोहसः करोत्यथ यशोदा उपदधाति यशोदां त्वा यशसि सादयामीति पञ्चैकैकां दिक्ष्वेकां मध्ये
अथ भूयस्कृत उपदधाति भूयस्कृदसि वरिवस्कृदसीति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथाप्सुषद उपदधात्यप्सुषदसि श्येनसदसीति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ द्र विणोदा उपदधाति पृथिव्यास्त्वा द्र विणे सादयामीति पण्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथायुष्या उपदधाति प्राणं मे पाह्यपानं मे पाहीति सप्तैकैकां दिक्षु तिस्रो मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथर्तुनामान्युपदधाति यावा अयावा इति सप्तैकैकां दिक्षु तिस्रो मध्ये
तयादेवतं कृत्वा सूददोहसः करोति ४५

अथेन्द्र तनूरुपदधात्यग्निना विश्वाषाडिति द्वाविँ शतिं पञ्चपञ्च दिक्षु द्वे मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ यज्ञतनूरुपदधाति प्रजापतिर्मनसान्धोऽच्छेत इति त्रयस्त्रिँ शतमष्टावष्टौ दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ ज्योतिष्मतीरुपदधाति ज्योतिष्मतीं त्वा सादयामीति द्वादश तिस्रस्तिस्रो दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ भूतेष्टका उपदधाति पृथिव्यै स्वाहान्तरिक्षाय स्वाहेति द्वादश तिस्रस्तिस्रो दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथाज्यानीरुपदधाति शतायुधाय शतवीर्यायेति पञ्चैकैकां दिक्ष्वेकां मध्ये

तयादेवतं कृत्वा सूददोहसः करोत्यथ राष्ट्रभृत उपदधात्यग्ने यशस्विन्यशसेममर्पयेति चतस्र एकैकां दिक्षु न मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथ दक्षिणेऽँ से पौर्णमासीमुपदधाति पूर्णा पश्चादिति
तयादेवतं कृत्वा सूददोहसं करोत्यथ दक्षिण एवाँ से नक्षत्रेष्टका उपदधाति कृत्तिका नक्षत्रमग्निर्देवतेत्यथैना रोचयत्यग्ने रुच स्थ प्रजापतेर्धातुः सोमस्य ऋचे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वेत्यथैतं नक्षत्रपथँ रोहिणीप्रभृत्या विशाखाभ्यामायातयति
दक्षिणादँ साद्दक्षिणाँ श्रोणिमभ्यायातयत्यथ पुच्छसन्धौ चात्मसन्धौ चामावास्यामुपदधाति यत्ते देवा अदधुर्भागधेयमित्यथैतं नक्षत्रपथमनूराधाप्रभृत्यापभरणीभ्य आयातयत्युत्तरायै श्रोणेरुत्तरमँ समभ्यायातयत्यथोत्तर एवाँ से पौर्णमासीमुपदधाति पूर्णा पश्चादित्यसँ स्पृष्टा उपदधातीति ब्राह्मणं नक्षत्रेष्टकाभिश्चितिराप्यते
तयादेवतं कृत्वा सूददोहसः करोत्यथावद्रुत्य कृष्णमश्वमभिमृश्य तनुपुरीषमुपदधाति पृष्टो दिवीति
तयादेवतं कृत्वा सूददोहसं करोत्यत्र षष्ठीं चितिं चिनुते संयच्च प्रचेताश्चेति पञ्चैकैकां दिक्ष्वेकां मध्ये
तयादेवतं कृत्वा सूददोहसः करोत्यथाग्निँ सर्वतोमुखं चिनुतेऽग्नेरङ्गानि प्राजापत्यामृषभं लोकंपृणाः

प्राच्यात्र लोकंपृणया प्रसौत्यग्निं प्राचीभिः संप्रच्छादयन्त्यथोदीचीभिः
पाचीभिस्त्वेव निस्तिष्ठन्ति
यावद्दघ्नं चेष्यमाणो भवति तावद्दघ्नं चिनुतेऽथानभिमृष्टं चितिकॢप्त्याभवति
तदेताश्चतस्रः स्वयमातृण्णा याचति
ता दिक्षूपदधाति प्राणाय त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद्ध्रुवा सीद व्यानाय त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद्ध्रुवा सीदापानाय त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद्ध्रुवा सीद वाचे त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ स्वयमातृण्णामश्वमवघ्राप्याविदुषा ब्राह्मणेन सहाधिद्रुत्योपदधाति सुवरायोस्त्वा सदने सादयामीत्यनुद्रुत्य सूर्यस्त्वाभिपातु मह्या स्वस्त्या छर्दिषा शतमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यपान्यात्तृतीयामुपधायेत्यपानित्यथैष ब्राह्मणो वरं ददात्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्वयमातृण्णावकाशे जुहोति चित्तिं जुहोमि मनसा घृतेनेत्यङ्गुष्ठाभ्यामन्वारभ्यान्वारोहं वाचयति दिवमाक्रमिषं सुवरगन्मेत्यपरे बिले हिरण्येष्टकामुपदधाति सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीति
तां जघनेन प्रक्रमवेलायां मण्डलेष्टकामुपदधाति द्यौरपराजितामृतेन विष्टेति
दक्षिणतो रेतःसिचमुपदधाति द्यौ रेतःसिक्सा मे रेतो दधातु सा मे रेतः प्रजनयत्विति

तयादेवतं कृत्वा सूददोहसः करोत्यथोत्तरतः प्रक्रमवेलायां विकर्णीमुपदधाति प्रोथदश्वो न यवसे अविष्यन्निति
तयादेवतं कृत्वा सूददोहसं करोत्यथ लोकंपृणा उपदधाति लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्याग्नेय्या पङ्क्त्यैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इत्यथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताँ रात्रीम् ४६

अथैतस्मिन्नेव नवमेऽह्नि दशमायाह्न उपकल्पयते सहस्रँ हिरण्यशल्कान्
ऊर्ध्वं त्रिभ्योऽपरिमितानित्येक आहुस्
ते यदि सहस्रं भवन्ति द्वेद्वे शते पत्त्रनाडीष्वेते भवतोऽथ दशमेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
समानं पुरीषस्योपधानम्
अथ पात्र्यामप आनीय हिरण्यशल्कान्संप्रकीर्य द्वाभ्यांद्वाभ्याँ शताभ्यां प्रोक्षति सहस्रस्य प्रमा असीति यत्प्राक्स्वयमातृण्णायै भवति सहस्रस्य प्रतिमा असीति यद्दक्षिणा स्वयमातृण्णायै भवति सहस्रस्य विमा असीति यत्प्रत्यक्स्वयमातृण्णायै भवति सहस्रस्योन्मा असीति यदुदक्स्वयमातृण्णायै भवत्यथ मध्यं द्वाभ्याँ शताभ्यां प्रोक्षति साहसरोऽसि सहस्राय त्वेत्यथोत्तरे श्रोण्यन्ते तिष्ठन्निष्टका धेनूः कुरुत इमा मे अग्न इष्टका धेनवः सन्त्वित्यान्तादनुवाकस्याथापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्येतावदेवैतदहः कर्म क्रियते
वसन्त्येताँ रात्रिम्
अथैतस्मिन्नेव दशमेऽह्न्येकादशायाह्न उपकल्पयतेऽर्कपर्णमजक्षीरं गावीधुकं चरुं तिसृधन्वमश्मानमुदकुम्भं मण्डूकमवकां वेतसशाखां दर्भस्तम्बमाज्यस्थालीँ सस्रुवां दीर्घवँ शं द्वादशमित्यथैकादशेऽह्न्युदित आदित्ये प्रवर्ग्योपसद्भ्यां प्रचरति
स दीर्घवँ शे स्रुवं प्रग्रथ्योत्तमे संचिताहुती जुहोत्यग्ने वन्य तत्त्वा यामीति ४७

यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थातोत्तरस्य पक्षस्य चरमयेष्टकया प्रत्यूढपुरीषयोपरमत्यथैतस्यार्कपर्णस्य पुटमन्तरवस्त्राविणं कृत्वोदङ्तिष्ठन्मुखदघ्ने धारयन्नाहाहरानयेति
स यत्र धरेष्टकां प्राप्नोति तत्प्रतिपद्यते नमस्ते रुद्र मन्यव इत्यान्तमेतमनुवाकं निगद्य द्वितीयं तृतीयं चतुर्थस्य य