कौषीतकगृह्यसूत्रम्
कौषीतकगृह्यसूत्रम्
प्रथमाध्याये प्रथमः खण्डः
उत्थाय प्रातराचम्याहरहः स्वाध्यायमधीयीत अद्या नो देव सवितः इति द्वे अपेहि मनसस्पते इति सूक्तम् ऋतं च सत्यं च इति सूक्तमादित्या अवहिख्यत इति वर्गद्वयम् महि वो महतामिति सूक्तशेषः इन्द्रश्रेष्ठानि इत्येका हंसः शुचिषत् इत्येका नमो महद्भ्यः इत्येका ममाग्ने वर्चः इति सूक्तम् येनेदमिति सूक्तम् स्वस्ति नो मिमीतामिति पञ्च ऋचः १
चत्वारः पाकयज्ञाः २
हुतोऽहुतः प्रहुतः प्राशित इति ३
पञ्चसु बहिः शालायाः ४
विवाहे चूळाकरण उपनयने केशान्ते सीमन्तोन्नयन इति ५
उपलिप्योद्धत्य प्रोक्ष्य अग्निमुपसमाधाय ६
निर्मन्थ्यैके विवाहे ७
उदगयन आपूर्यमाणपक्षे पुण्याहे कुमार्यै पाणिं गृह्णीयात् । जाया लक्षणसंपन्ना स्यात् ८
यस्या अभ्यात्ममङ्गानि स्युः समाः केशान्ताः ९
आवर्तावपि यस्यै स्यातां प्रदक्षिणौ ग्रीवायां षड्वीरान् जनयिष्यतीति विद्यात् १०
अथ द्वितीयः खण्डः
जायामुपग्रहीष्यमाणः अनृक्षराः इति वरकान् गच्छतोऽनुमन्त्रयते १
अभिगमने पुष्पफलयवानादाय उदकुम्भं च अहमयं भो इति त्रिः प्रोच्य वरिते प्राङ्मुखा गृह्याः प्रत्यङ्मुखा आवहमानाः कन्यां वरयन्ति इमाममुष्मा इत्थं गोत्राय इति २
उभयतो रुचिते पूर्णपात्रीमभिमृशन्ति पुष्पाक्षतफलहिरण्यमिश्रान् । अनाधृष्टमस्यनाधृष्यं देवानामोजो अभिशस्तिपा अनभिशस्त्यञ्जसा सत्यमुपगेषं सुविते मा धाः इत्युत्थाय कन्याया आचार्यः आ नः प्रजाम् इति मूर्ध्नि निषिञ्चति प्रजास्त्वयि दधामि । पशूंस्त्वयि दधामि । तेजो
ब्रह्मवर्चस्यं त्वयि दधामि इति च ३
अथ तृतीयः खण्डः
प्रतिश्रुते जुहोति १
चतुरश्रं गोमयेन स्थण्डिलमुपलिप्य पूर्वयोर्विदिशयोः
दक्षिणां प्राचीं प्रित्र्य उत्तरां दैवे प्राचीमेवैक उदक्संस्थां मध्ये रेखां लिखित्वा तस्या दक्षिणत उपरिष्टादूर्ध्वामेकां मध्य एकामुत्तरत एकां तामभ्युक्ष्य
अग्निं दधामि मनसा शिवेनायमस्तु सङ्गमनो वसूनाम्
मा नो हिंसीः स्थविरं मा कुमारं शं नो भव द्विपदे शं चतुष्पदे
इत्यग्निं प्रणीय तूष्णीं वा प्रदक्षिणम् । अग्नेः समन्तात् पाणिना सोदकेन
त्रिः परिमार्ष्टि २
तत् समूहनमित्याचक्षते ३
सकृदपसव्यं पित्र्ये ४
अथ परिस्तरणम् ५
दक्षिणेन कुशानादाय सव्येनापनोति ६
दक्षिणं जान्वाच्य प्रागग्रैः कुशैः परिस्तृणाति ७
त्रिवृत् पञ्चवृद्वा ८
पुरस्तात् प्रथमम् ९
अथ पश्चान्मूलान्यग्रैः प्रच्छादयति सर्वाश्चावृतो दक्षिणतः प्रवृत्तय उदक्संस्था भवन्ति १०
सकृदपसव्यं पित्र्ये ११
नाज्याहुतिषु नित्यं परिस्तरणम् १२
नित्याहुतिषु वा १३
अथ चतुर्थः खण्डः
दक्षिणतो ब्रह्माणं प्रतिष्ठाप्य उदपात्रं वा भूर्भुवः सुवः इत्युत्तरतः
प्रणीताः कुशतरुणे अविषमे अविच्छिन्नाग्रे अनन्तर्गर्भे प्रादेशेन प्रमाय कुशेन १
छिनत्ति पवित्रे स्थः इति १
द्वे त्रीणि वा भवन्ति २
वैष्णव्यौ इत्यभ्युक्ष्य त्यं चिदश्वमिति प्रदक्षिणग्रन्थिम् ३
प्रागग्रे धारयन् आज्यस्थाल्या
उपरि महीनां पयोऽसि इत्याज्यं निर्वपति ४
उदीचोऽङ्गारान्निरूह्य इषे त्वा इत्यधिश्रित्य त्रिरवद्योत्य कुशतरुणे प्रत्यस्य ऊर्जे त्वा इति त्रिरुदगुद्वास्याङ्गरान् प्रत्यूह्य अङ्गुष्ठोपकनिष्ठिकाभ्यामूर्ध्वाग्रे प्रह्वीकृत्य आज्ये प्रत्यस्य त्रिरुत्पुनाति सावितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः इति ५
आज्यसंस्कारः सर्वत्र ६
नासंस्कृतेन जुहुयात् ७
स्रुवे चापः सवितुर्वः इति ८
ताः प्रोक्षणीः स्रुवं प्रतितप्य कुशैः संमृज्य पुनः प्रतितप्य निधाय एवं स्रुचं च सस्थालीपाके प्रोक्षिता आपः प्रणीताः प्रोक्षणीश्च ९
स्रुचः पात्रमर्थलक्षणग्रहणम् १०
अथ पञ्चमः खण्डः
दक्षिणेन कुशानादाय सव्येनापनोति १
दक्षिणं जान्वाच्य परिधिभिस्त्रिभिरच्छिन्नाग्रैरग्निं परिदधाति २
पश्चाद् दक्षिणत उत्तरतश्च ३
अलंकृत्य कुशतरुणाभ्यां प्रदक्षिणमग्निं त्रिः पर्युक्षति महान्तं कोशम् इति ४
हुत्वा च ५
ते अनुप्रहरति ६
तूष्णीं सकृदपसव्यं पित्र्ये ७
अभिघारितमिध्ममग्नौ जुहोति स्विध्मा यद्वनधितिः इति ८
विष्णोर्हस्तोऽसि इति दक्षिणेन मूले स्रुवम् ९
स्रुवेणाज्याहुतीर्जुहोति १०
स्रुचा स्थालीपाकं द्विरवद्यति ११
त्रिर्जामदग्न्यानाम् १२
उपस्तरणाभिघारणप्रत्यभिघारणं च सस्थालीपाके आ स्विष्टकृतः १३
उत्तरार्धात् स्विष्टकृतः १४
द्विरभिघारयति १५
न प्रत्यनक्ति १६
उत्तरपश्चार्धादग्नेरारभ्याविच्छिन्नं दक्षिणपूर्वार्धे जुहोति त्वमग्ने प्रमतिः इति १७
दक्षिणपश्चार्धादग्नेरारभ्याविच्छिन्नमुत्तरपूर्वार्धे जुहोति यस्येमे हिमवन्तः इति १८
आघारौ १९
आग्नेयमुत्तरमाज्यभागं सौम्यं दक्षिणम् २०
अग्ने यं यज्ञमिमं यज्ञमिति २१
अग्नये स्वाहा सोमाय स्वाहा इति वा २२
मध्ये अन्या आहुतयः २३
नाज्याहुतिषु नित्यावाज्यभागौ स्विष्टकृच्च २४
नित्याहुतिषु चेति च माण्डूकेयः २५
अग्निर्जनिता स मैऽमूं जायां ददातु स्वाहा । सोमो जनिमान् स मामुया जनिमन्तं करोतु स्वाहा । पूषा ज्ञातिमान् स मामुष्यै पित्रा मात्रा भ्रातृभिर्ज्ञातिमन्तं करोतु स्वाहा इत्याज्येन २६
महाव्याहृतिसर्वप्रायश्चित्तान्तरमेतदावापस्थानमाज्यहविषि २७
व्याहृति स्विष्टकृतोः स्थालीपाके २८
ततं म आपः उद्वयं तमसस्परि उदुत्यम् चित्रमिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने तदस्तु मित्रावरुणा वषट्ते विष्णो इष्टेभ्यो वषळनिष्टेभ्यः भेषजं दुरिष्ट्यै निष्कृत्यै दौरार्ध्यै ऋद्ध्यै समृद्ध्यै देवीभ्यस्तनूभ्यः यत इन्द्र भयामहे त्वं नः पश्चात् अद्याद्याश्वश्वः सूर्यो नो दिवस्पान्तु भूर्भुवः स्वः अयाश्चाग्ने इति सर्वप्रायश्चित्ताहुतीर्हुत्वा मनसा प्राजापत्यं महाव्याहृतयश्चतस्र इत्येता आहुतीर्हुत्वा सव्ये पाणौ ये कुशास्तान् दक्षिणेनाग्रे संगृह्य मूले सव्येन तेषामग्रं स्रुवे समनक्ति मध्यमाज्यस्थाल्यां मूलं च । अथ चेत् स्थालीपाकेषु स्रुच्यग्रं मध्यमं स्रुवे मूलमाज्यस्थाल्यां ताननुप्रहृत्य अग्नेर्वासोऽसि इति समिधोऽभ्याधाय यथोक्तं पर्युक्षणनमनुप्रहृत्य परिधीन्नवा नित्ये प्रणीताः परिगृह्य दिशो व्युदुक्षति त्रिस्त्रिः प्राच्यां प्रथममेवं प्रदक्षिनं प्रतिदिशमूर्ध्वं च प्राचीं निनीय उदीचीर्वा ताः स्पृष्ट्वा प्राणान्मुखं च संमृशति । उत्सर्जनं ब्रह्मणः २९
अथ षष्ठः खण्डः
व्याख्यातः प्रतिश्रुते होमकल्पः प्रकृतिर्भूतिकर्मणाम् १
सर्वासां चाज्याहुतीनां शाखापशूनां चरुपाकयज्ञानां च २
अनाम्नातमन्त्रास्वादिष्टदेवतासु अमुष्मै स्वाहा इति शुद्धेन ३
यदि पाकयज्ञाः समानकालाः स्युरावापस्थाने प्रधानान्येवावर्तयेदानुपूर्व्येण ४
त एते अप्रयाजा अननुयाजा अनिळा अनिगदा
असामिधेनीकाश्च सर्वे पाकयज्ञा भवन्ति ५
तदपि श्लोकाः
हुतोऽग्निहोत्रहोमेन अहुतो बलिकर्मणा
प्रहुतः पितृकर्मणा प्राशितो ब्राह्मणे हुतः
अनूर्ध्वज्ञुर्व्यूळ्हजानुः जुहुयात् सर्वदा हविः
न हि बाह्यहुतं देवाः प्रतिगृह्णन्ति कर्हिचित्
रौद्रं च राक्षसं पित्र्यमासुरं चाभिचारिकम्
उक्त्वा मन्त्रं स्पृशेदाप आलभ्यात्मानमेव च ७
अथ सप्तमः खण्डः
अथैतां रात्रीं श्वस्तृतीयां वा कन्यां वहिष्यन्तीति तस्यां रात्र्यामतीते निशाकाले सर्वसुरभिमिश्रैः फलोत्तमैः सशिरस्कां कन्यामाप्लाव्य रक्तमहतं वासः परिधाप्य प्रदक्षिणमग्निं पर्याणीय पश्चादग्नेः कन्यामुपवेश्य आघारावाज्यभागौ हुत्वा अग्नये सोमाय प्रजापतये मित्राय वरुणाय इन्द्राय इन्द्राण्यै गन्धर्वाय भगाय पूष्णे त्वष्ट्रे बृहस्पतये राज्ञे प्रत्यानीयति १
चतस्रोऽष्टौ वा अविधवाः शाकपिण्डिभिः सुरयान्नेन च तर्पयिन्वा चतुरा नर्तनं कुर्युः २
एता एव देवताः
पुंभ्यो वैश्रवणमीशानं च ३
ततो ब्राह्मणभोजनम् ४
अथ अष्टमः खण्डः
स्नातं कृतमङ्गलं वरमविधवाः सुभगा युवत्यः कुमार्यै वेश्म प्रपादयन्ति । तासामप्रतिकूलः स्यादन्यत्राभक्ष्यपातकेभ्यः १
ताभिरनुज्ञातोऽथास्यै वासः प्रयच्छति रैभ्यासीत् इति २
युवं वस्त्राणि इत्यस्मै ३
चित्तिरा उपबर्हणम्
इत्यञ्जनकोशमादत्ते ४
समञ्जन्तु विश्वे देवाः इति समञ्जनीया ५
यथेयं शचीं वावातां सुपुत्रां च यथादितिम्
अविधवां चापालामेवं त्वमिह रक्षतु
इति दक्षिणे पाणौ शललीं त्रिवृतां ददाति ६
रूपं रूपमित्यादर्शं सव्ये ७
रक्तकृष्णमाविकं क्षौमं वा त्रिमणिं प्रतिसरं ज्ञातयोऽस्या बध्नन्ति नीललोहितमिति ८
मधुमतीरोषधीः इति मधूकानि बध्नाति ९
विवाहे गामर्हयित्वा गृहेषु गतेषु कान्तानां माधुपर्किक्यः १०
न त्वेवामांसोऽर्घ्यस्स्यादधियज्ञमधिविवाहम् ११
कुरुत इत्येव ब्रूयात् १२
बृहस्पतये त्वा मह्यं वरुणो ददातु । सोऽमृतत्वमशीय । त्वद्राष्ट्रयोरधिमयो मह्यं प्रतिगृह्णते इति वाससी प्रतिगृह्य प्रैधायोपस्पृश्य कोऽदात् । कस्मा अदात् इति कन्याम् १३
संराज्ञी श्वशुरे इति पिता भ्राता वास्यग्रेण मूर्धनि जुहोति । स्रुवेणावतिष्ठन्नासीनायाः प्राङ्मुख्याः प्रत्यङ्मुखः १४
हुत्वान्वारब्धायां महाव्याहृतिभिर्हुत्वा समस्ताभिः चतुर्थी प्रतीयेतैतस्यां चोदनायामेवमनादेशे १५
सर्वेष्वेव तु भूतिकर्मसु पुरस्ताच्चोपरिष्टाच्चैताभिरेव जुहुयात् १६
एहि सूनरी इत्युत्थाप्य गृभ्णामि ते सौभगत्वाय हस्तमित्युत्तानेन दक्षिणेन पाणिनोत्तानं दक्षिणं पाणिं गृह्णाति साङ्गुष्ठं प्राङ्मुख्याः प्रत्यङ्मुखस्तिष्ठन् १७
पञ्च चोत्तरा जपति अमोहमस्मि सा त्वं सा त्वमस्यमोहं द्यौरहं पृथिवी त्वं सामाहम् ऋक्त्वं तावेव विवहावहै प्रजां प्रजनयावहै पुत्रान् विन्दावहै बहूंस्ते सन्तु जरदष्टयः इति १८
उदकुम्भं नवं भूर्भुवः स्वः इति पूरयित्वा पुँनामस्य वृक्षस्य सक्षीरान् पलाशान् सकुशानोप्य हिरण्यं चेत्येके । तं ब्रह्मचारिणे वाग्यताय प्रदाय प्रागुदीच्यां दिशि ताः स्थेयाः प्रदक्षिणा भवन्ति । दक्षिणत एकेषाम् १९
अश्मानं चोत्तरत उपस्थाप्य एहि सूनरी इत्युक्त्वा एह्यश्मानमातिष्ठ । अश्मेव त्वं स्थिरा भव । अभितिष्ठ पृतन्यतः । सहस्व पृतनायतः इति दक्षिणेनास्याः प्रपदेनाश्मानमाक्रमय्य विश्वा उत त्वया वयमिति प्रदक्षिणमग्निं पर्याणीय तेनैव मन्त्रेणद्वितीयं वसनं प्रदाय २०
लाजान् शमीपालमिश्रान् पिता भ्राता वा अस्या अञ्जलावावपति २१
उपस्तरणाभिघारणे प्रत्यभिघारणं च लाजेषु २२
तान् जुहोति इयं नार्युपब्रूते लाजानावपन्तिका । शिवा ज्ञातिभ्यो भूयासं चिरं जिवतु मे पतिः । स्वाहा इति तिष्ठन्ती जुहोति २३
पतिर्मन्त्रं जपति २४
अश्माक्रमणादेवं द्वितीयमेवं तृतीयं तूष्णीं कामेन चतुर्थम् २५
प्रजापते न त्वदेतानि इति प्राजापत्यं हुत्वा यत्पाकत्रा इति स्विष्टकृतं च सर्वत्र २६
अग्नये स्विष्टकृते स्वाहा इति वा २७
उदङ् सप्तपदानि प्रक्रमयेत् । इष एकपदी । ऊर्जे द्विपदी । रायस्पोषाय त्रिपदी । मायो भव्याय चतुष्पदी । प्रजाभ्यः पञ्चपदी । ऋतुभ्यः षट्पदी । सखा सप्तपदी भव इति । विष्णुस्त्वा नयतु इति सर्वत्रानुषजति २८
आपोहिष्ठीयाभिस्तिसृभिः स्थेयाभिरद्भिर्मार्जयित्वा मूÞर्यवसिच्य ब्राह्मणेभ्यः किंचिद् दद्यात् २९
सर्वत्र स्थालीपाकादिषु कर्मसु ३०
अचार्याय वरं ददातीत्याह ३१
सूर्यो विदुषे वा धूयम् ३२
गौर्ब्राह्मणस्य वरः ३३
ग्रामो राजन्यस्य ३४
अश्वो वैश्यस्य ३५
अधिरथं शतं दुहितृमते ३६
ज्ञेभ्योऽश्वं ददाति ३७
अथ नवमः खण्डः
प्र त्वा मुञ्चामि इति तिसृभिः गृहान् प्रतिष्ठमानायाम् १
जीवां रुदन्ति इति रुदत्याम् २
अथ रथाक्षस्योपाञ्जनं पत्नी कुरुते अभिव्ययस्व खदिरस्य सारमित्येतया सर्पिषा ३
शुची ते चक्रे द्वे ते चक्रे इति चक्रयोः ४
पूर्वया पूर्वमुत्तरयोत्तरम् ५
उस्रौ च ६
खे रथस्य इत्येतया फलवतो वृक्षस्य शम्याकत्रेष्वेकैकां वयां निधाय नित्यावभिमन्त्र्य अथोस्रौ युञ्जन्ति युक्तस्ते अस्तु दक्षिणः इति द्वाभ्याम् ७
शुक्रावनड्वाहौ इत्येतेनार्धर्चेन युक्तावभिमन्त्र्य सुकिं शुकमिति रथमारोहन्त्याम् ८
अग्निष्ठस्त्वग्रतो गच्छेत् ९
मा विदन् परिपन्थिनः इति चतुष्पथे १०
ये वध्वः इति श्मशाने ११
वनस्पते शतवल्शः इति वनस्पतावर्धर्चं जपति १२
अथ यदि रथाङ्गं विशीर्येत छिद्येत वा आहिताग्नेर्गृहं कन्यां प्रवेश्य य ऋते इत्येतया संदध्यात् । त्यं चिदश्वमिति ग्रन्थिं स्वस्ति नो मिमीतामिति पञ्चर्चं जपति १३
सुत्रामाणमिति नावमारोहन्त्याम् १४
अश्मन्वतीः इति नदीं तरन्त्याम् १५
यदि वा युक्तेनैव उद्व ऊर्मिः इत्यगाधे प्रेक्षणं च १६
इह प्रियं प्रजया ते समृद्ध्यतामिति सप्त गृहान्
प्राप्तायाम् १७
कृताः परिहाप्य १८
अथ दशमः खण्डः
गृहान् प्रपद्य पश्चादग्नेरानडुहे चर्मण्युपविश्य दर्भेष्वन्वारब्धायां पतिश्चतस्रो जुहोति अग्निना देवेन पृथिवीलोकेन लोकानामृग्वेदेन वेदानां तेन त्वा शमयाम्यसौ स्वाहा वायुना देवेनान्तरिक्षेण लोकेन लोकानां यजुर्वेदेन वेदानां तेन त्वा शमयाम्यसौ स्वाहा सूर्येण देवेन दिवो लोकेन लोकानां सामवेदेन वेदानां तेन त्वा शमयाम्यसौ स्वाहा चन्द्रेण देवेन दिशां लोकेन लोकानां ब्रह्मवेदेन वेदानां तेन त्वा शमयाम्यसौ स्वाहा इति १
भूर्या ते पतिघ्न्यलक्ष्मी देवरघ्नी जारघ्नी तां करोमि तेऽसौ इति वा २
द्वितीयया महाव्याहृत्या द्वितीया उपहिता ३
तृतीयया तृतीया ४
समस्ताभिः चतुर्थी ५
अघोरचक्षुः इत्याज्यलेपेन चक्षुषी विमृज्य कया नश्चित्र आभुवत् इति तिसृभिः केशान्तानभिमृश्य उत त्या दैव्या भिषजा इति चतस्रो जपित्वा मूर्धनि संस्रावम् ६
अत्र हैके कुमारमुत्सङ्गमानयन्त्युभयतः सुजातम् आते योनिमित्येतयर्चा ७
अपिवा तूष्णीमेव ८
तस्याञ्जलौ फलानि दत्वा पुण्याहं वाचयति ९
पुंसुवती ह भव इति १०
वाचंयमावास्तामा ध्रुवस्य दर्शनात् ११
नक्षत्रेषु दृश्यमानेषु ध्रुवं दर्शयति १२
ध्रुवैधि पोष्या मयि इति ध्रुवं पश्यामि इति ध्रुवां विन्देय इति ब्रूयात् १३
दध्रिकाव्णो अकारिषमिति दध्योदेनं सह भुञ्जीयातां पिबतं च तृप्णुतं च इति तृचेन च १४
त्रिरात्रमधःशायिनावक्षारालवणाशिनौ स्याताम् १५
एवमेवाध्वनि १६
न सह भुञ्जीत १७
संवत्सरं न मिथुनमुपेयातां द्वादशरात्रं षड्रात्रम् १८
त्रिरात्रमन्ततः १९
सायंप्रातर्वैवाहिकमग्निं परिचरेयातां यवैर्व्रीहिभिर्वा २०
अग्नये स्वाहा इति सायम् २१
सूर्याय स्वाहा इति प्रातः २२
अग्नये स्विष्टकृते
स्वाहा इत्युभयोः २३
पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ
पुमानिन्द्रश्चाग्निश्च पुमांसं वर्धतां मयि स्वाहा
इति पूर्वां गर्भकामः २४
दशरात्रमविप्रवासः २५
अथ एकादशः खण्डः
अथ चतुर्थ्यां त्रिरात्रे निवृत्ते स्थालीपाकस्य जुहोति १
पयसि स्थालीपाकः पाकयज्ञेषु २
वचनादन्यत् ३
अग्ने प्रायश्चित्तिरसि त्वं देवानां प्रायश्चित्तिरसि यास्याः पतिघ्नी तनूस्तामस्या अपजहि स्वाहा । वायो प्रायश्चित्तिरसि त्वं देवानां प्रायश्चित्तिरसि यास्या अपुत्र्या तनूस्तामस्या अपजहि स्वाहा । सूर्य प्रायश्चित्तिरसि त्वं देवानां प्रायश्चित्तिरसि यास्या अपशव्या तनूस्तामस्या अपजहि स्वाहा । अर्यमणं नु देवं कन्या अग्निमयक्षत । स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतस्स्वाहा । वरुणं नु देवं कन्या अग्निमयक्षत । स इमां देवो वरुणः प्रेतो मुञ्चातु नामुतस्स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत । स इमां देवः पूषा प्रेतो मुञ्चातु नामुतस्स्वाहा । प्रजापते न स्वत् इति सप्तमी ४
सौविष्टकृत्यष्टमी ५
अथ द्वादशः खण्डः
अध्यण्डामूलं पेषयत्यृतुवेलायाम् उदीर्ष्वातः पतिवती इति द्वाभ्यामन्ते स्वाहाकाराभ्यां नस्तो दक्षिणतो निषिञ्चेत् १
गन्धर्वस्य विश्वावसोर्मुखमसि इत्युपस्थं प्रजनिष्यमाणोऽभिमृशेत् २
समाप्तेऽर्थे जपेत् प्राणे ते रेतो दधाम्यसौ इति ३
अपान्यानुप्राण्यात् ४
यथा भूमिरग्निगर्भा यथा द्यौरिन्द्रेण गर्भिणी
वायुर्यथा दिशां गर्भ एवं गर्भे दधामि तेऽसौ इति वा ५
आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम्
आ वीरो अत्र जायतां पुत्रस्ते दशमास्यः
तेषां माता पिपृहि जातानां जनयामि च
पुमांस्त्वं पुत्रमाधेहि पुमाननुजायताम्
पुंसि वै पुरुषो रेतः तत्स्त्रियामनसिञ्चतु
तथा तदब्रवीद् धाता तत्प्रजापतिरब्रवीत्
प्रजापतिर्व्यदधात् सविता व्यकल्पयत्
त्वष्टा वै रूपं संदधान्नेजमेष परापतात्
स्त्रीषु यमन्यान् स्वादधात् पुमांस्त्वमददादिह
यानि भद्राणि बीजानि पुरुषा जनयन्ति च
तानि भद्राणि बीजान्यृषभा जनयन्ति नौ
तेऽभिष्ट्वं पुत्रं जनयत्सुप्रसूर्धेनुका भव
अभिक्रन्दन् वीळयस्व गर्भमाधेहि सादय
वृषाणं वृषन्नाधेहि प्रजायै त्वा हवामहे
यस्यै योनिं प्रति रेतो दधातु पुमान् पुत्रो जायतां गर्भे अस्मिन्
तं पिपृहि दशमास्योऽन्तरुदरे स जायतां श्रेष्ठतमस्वानाम् इति वा ६
तृतीये मासि पुंसवनम् ७
पुष्येण श्रवणेन वा सोमांशुं पेषयित्वा कुशदण्डकं वा न्यग्रोधस्य वा स्कन्धस्यान्त्यां शुङ्गां यूपस्याग्निष्टां वा संस्थिते वा यज्ञे जुह्वः संस्रावम् । अग्निना रयिम् तन्नस्तुरीयम् समिद्धाग्निर्वनवत् पिशङ्गरूपः इति चतसृभिरन्ते स्वाहाकाराभिः नस्तो दक्षिणतो निषिञ्चेत् ८
अथ त्रयोदशः खण्डः
चतुर्थे मासि गर्भरक्षणम् १
ब्रह्मणाग्निस्संविदानः इति षट् स्थालीपाकस्य हुत्वा अक्षीभ्यां ते नासिकाभ्यामिति सूक्तेन प्रत्यृचमाज्यलेपेनाङ्गान्यनुविमृज्यात् २
अथ चतुर्दशः खण्डः
सप्तमे मासि प्रथमगर्भे सीमन्तोन्नयनम् १
स्नातामहतवासिनीं पश्चादग्नेरुपवेश्य स्थालीपाकस्य जुहोति २
मुद्गौदनमित्येके ३
पुंवदुपकरणानि स्युः ४
नक्षत्रं च ५
धाता ददातु दाशुषे धाता प्रजाया उत राय ईशे नेजमेष परापत इति तिस्रः प्रजापते इति षष्ठी ६
त्रिश्वेतया शलल्या दर्भसूच्या वोदुम्बरशलाटुभिस्सह मध्यादूर्ध्वं सीमन्तमुन्नयति भूर्भुवस्स्वः इति ७
उत्सङ्गे निधाय त्रिवृते कृत्वा कण्ठे बध्नाति अयमूर्जावतो वृक्ष ऊर्जीव फलिनी भव इति ८
अथाह वीणागाथिनौ राजानं संगायत इति यो वान्यो वा वीरतरः इति ९
उदपात्रे अक्षतानवनीय विष्णुर्योनिं कल्पयतु नेजमेष परापत इति षळृचेन पाययेत् राकामहमिति चतसृभिः १०
अथास्या उदरमभिमृशेत् सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुश्छन्दांस्यङ्गानि यजूंषि नाम साम ते तनूः वामदेव्यं मध्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं धिष्ण्यं शफाः
। मोदमानीं गापयेन्महाहैमवतीं वा ११
ऋषभो दक्षिणा १२
अथ पञ्चदशः खण्डः
काकादन्या मशकादन्या कोशातक्या बृहत्या कालकीतकस्येति मूलानि पे
षयित्वोपलेपयेद् देशे यस्मिन् प्रजायेत १
रक्षसामपहत्यै २
अथ षोडशः खण्डः
अथ जातकर्म १
जातं कुमारं त्रिरभ्यपान्यानुप्राण्यात् २
ऋचा प्राणिहि । यजुषा समनिहि । साम्नोदेनिहि इति जातमभिमन्त्र्य ३
सर्पिर्मुधुनी दध्युदके च सन्नीय ४
एष एव मधुपर्कः ५
व्रीहि यवौ वा सन्निकृष्य ६
त्रिः प्राशयेज्जातरूपेण प्र ते यच्छामि मधुमन्मखाय वेदं प्रसूतं सवित्रा मघोना । आयुष्मान् गुपितो देवताभिश्शतं जीव शरदो लोक अस्मिन्नसौ । इति ७
नक्षत्रनामात्र प्रब्रूयात् ८
नामास्य दधाति घोषवदाद्यन्तरन्तस्थमभिनिष्ठानान्तं द्व्यक्षरं चतुरक्षरम् ९
अपि वा षळक्षरम् १०
अयुग्मवददन्त्यं कुमार्यै ११
कृतं कुर्यात् १२
न तद्धितान्तम् १३
तदस्य माता पिता च विद्याताम् १४
दशम्यां व्यावहारिकं ब्राह्मणजुष्टम् १५
कृष्णस्य शुक्लकृष्णानि लोहितानि च रोमाणि मषीं कारयित्वैतस्मिन्नेव चतुष्टये चतुः प्राशयेदिति माण्डूकेयः । भूरृग्वेदं त्वयि दधाम्यसौ स्वाहा । भुवो यजुर्वेदं त्वयि दधाम्यसौ स्वाहा । स्वस्सामवेदं त्वयि दधाम्यसौ स्वाहा । भूर्भुवस्वर्वाकोवाक्येतिहासपुराणान् सर्वान् वेदांस्त्वयि दधाम्यसौ स्वाहा इति १६
मेधाजननं दक्षिणे कर्णे वाग् इति त्रिः १७
वाग्देवी मनसा संविदाना प्राणेन वत्सेन सहन्द्रप्रोक्ता जुषतां त्वा सौमनसाय देवीं महीमिन्द्रावाणी चीस्सलिला स्वयंभूः इति चानुमन्त्रयीत १८
शणसूत्रेण विग्रथ्य जातरूपं दक्षिणे पाणावपिनह्योत्थानादूर्ध्वं दशम्यां ब्राह्मणेभ्यो दद्यात् १९
अमा वा कुर्वीत २०
अथ सप्तदशः खण्डः
दशरात्रे चोत्थानम् १
मातापितरौ शिरस्स्नातावहतवासिनौ कुमारश्च २
एतस्मिन्नेव सूतकेऽग्नौ स्थालीपाकं श्रपयित्वा जन्मतिथिं हुत्वा त्रीणि च भानि सदैवतानि ३
तन्मध्ये जुहुयाद् यस्मिन् जातः स्यात् ४
पूर्वं तु दैवतं सर्वत्र ५
आयुष्टे अद्य गीर्भिरयमग्निर्वरेण्यः
पुनस्ते प्राण आयातु परा यक्ष्मं सुवामि ते
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि
घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमम्
त्वं सोम महे भगमिति दशमीं स्थालीपाकस्य हुत्वा ब्राह्मणान् स्वस्ति वाच्य नामधेयं प्रकाशं कृत्वा । एवमेव मासि मासि जन्मतिथिं हुत्वोर्ध्वमा संवत्सरात् ६
गृह्याग्नौ जुहोति ७
अथ अष्टादशः खण्डः
चतुर्थे मासि निष्क्रमणिका १
स्नातः कुमारोऽलङ्कृतः सर्वसुरभिगन्धैः माल्यैश्च यथोपपादं मातुरङ्कगतो या वान्या मातृस्थाने २
सकुशपाणिः कुशैर्होतारमन्वारभते ३
सं पूषन्नध्वनः इति सूक्तेन प्रत्यृचं स्थालीपाकस्य हुत्वा ब्राह्मणान् स्वस्ति वाच्य पूर्वं देवायतनं गत्वा सातपत्रः कुमारः सुहृदगृहाणि च ४
ततः पर्येति ५
अथ ब्राह्मणभोजनम् ६
अथ एकोनविंशः खण्डः
षष्ठे मास्यन्नप्राशनम् १
आजमन्नाद्यकामस्य २
तैत्तिरं ब्रह्मवर्चसकामस्य ३
मात्स्यं जवनकामस्य ४
घृतौदनं तेजस्कामस्य ५
मध्वोदनमायुष्कामस्य ६
दध्योदनमिन्द्रियकामस्य ७
क्षीरोदनं पशुकामस्य ८
दधिमधुघृतमिद्रमन्नं प्राशयेत् ९
अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः
प्र प्र दातारं तारिष ऊर्ध्वं नो धेहि द्विपदे चतुष्पदे
यच्चिद्धि ते महश्चित्
इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण सोमराजन्
मातेवास्मा अदिते शर्म यच्छ विश्वेदेवा जरदष्टिर्यथासत्
इति हुत्वा अग्न आयूंषि इत्यभिमन्त्र्य महाव्याहृतिभिः प्राशनम् १०
शेषं माता प्राश्नीयात् ११
अथ विंशः खण्डः
सप्तमेऽष्टमे वा मासि कर्णवेधनम् १
यथा कुलधर्मं वा २
तिष्यपुनर्वस्वोः श्रवणधनिष्ठयोर्वा ३
पूर्वोत्तरेषु वा ४
सर्वेषां यथानुकूलं वा ५
अभि त्वा देव सवितः इति तिसृभिस्त्रिमधुरस्य हुत्वा हिरण्मय्येतरया वा सूच्या आश्रुत् कर्ण इति दक्षिणं कर्णं विध्वा उत त्वा बधिरं वयमिति सव्यम् ६
रक्तकङ्कणं रक्तसूत्रं वा छिद्रयोः प्रतिनिदध्यात् राकामहमित्येतया ७
अथ ब्राह्मणान्
त्रिमधुरेण स्वस्तीर्वाच्य ततोऽभिवादयीत ८
अथ एकविंशः खण्डः
संवत्सरे ब्राह्मणस्य चूळाकर्म १
तृतीये वा वर्षे २
पञ्चमे क्षत्रियस्य ३
सप्तमे वैश्यस्य ४
संवत्सरे वा सर्वेषाम् ५
अग्निमुपसमाधाय व्रीहियवानां तिलमाषानामिति च पात्राणि पूरयित्वानळुहं गोमयं कुशभित्तिं च केश
प्रतिग्रहणमादर्शं लोहक्षुरं नवनीतं चोत्तरत उपनिदधाति ६
सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमाः
पृञ्चतीर्मधुना पयो मन्द्रा धनस्य सातये
इत्युष्णास्वप्सु शीताः सिञ्चति ७
आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे
। त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषमगरत्यस्य त्र्यायुषं यद्देवानां त्र्यायुषं तत्ते अस्तु त्र्यायुषमिति शीतोष्णाभिरद्भिर्दक्षिणं केशपक्षं त्रिरभ्यनक्ति ८
एवमेव नवनीतेन च्छित्वा ९
ओषधे त्रायस्वैनमिति कुशतरुणमन्तर्निदधाति १०
केशान् कुशतरुणं चादर्शेन स्पृष्ट्वा तेजोऽसि स्वधितिष्टे पिता मैनं हिंसीः
इति लोहक्षुरमादत्ते ११
येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान्
येन धाता बृहस्पतेरिन्द्रस्य चावपच्छिरः
तेन ब्रह्माणो वपतेदमस्यायुष्मान् दीर्घायुरयमस्तु वीरोऽसौ
इति केशाग्राणि च्छिनत्ति कुशतरुणं च १२
एवं द्वितीयम् १३
एवं तृतीयम् १४
एवं द्विरुत्तरतः १५
निकक्षयोः षष्ठसप्तमे गोदानकर्मणि १६
एतदेव गोदानकर्म यच्चूळाकर्म षोळशे वर्षेऽष्टादशे वा १७
तृतीये तु प्रवपने गां ददाति १८
अहतं च वासो येनाच्छन्नो वपति १९
तूष्णीमावृताः कुमारीणाम् २०
प्रागुदीच्यां दिश्यपां वा समीपे बह्वोपधिके देशे केशान् निखनन्ति २१
नापिताय धान्यपात्राणि नापिताय धान्यपात्राणि २२
इति कौषीतकगृह्ये प्रथमोऽध्यायः
अथ द्वितीयोऽध्यायः
प्रथमः खण्डः
गर्भाष्टमेषु वर्षेषु ब्राह्मणमुपनयीतैणेयेनाजिनेन १
गर्भदशमेषु वा २
गर्भैकादशेषु क्षत्रियं रौरवेण ३
गर्भद्वादशेषु वैश्यं गव्येन ४
आ षोडशाद् ब्राह्मणस्यापतिता सावित्री ५
आ द्वाविंशात् क्षत्रियस्य ६
आ चतुर्विंशाद्वैश्यस्य ७
काषायं वासो ब्राह्मणस्य ८
माञ्चिष्ठं क्षत्रियस्य ९
हारिद्रं वैश्यस्य १०
अहतेन वाससा सर्वे ११
मेखलिनः १२
मौञ्जी मेखला ब्राह्मणस्य १३
धनुर्ज्या क्षत्रियस्य १४
ऊर्णासूत्रं वैश्यस्य १५
तेषां दण्डाः १६
पालाशो बैल्वो वा दण्डो ब्राह्मणस्य १७
नैयग्रोधः खादिरो वा क्षत्रियस्य १८
औदुम्बरो वैश्यस्य १९
एवमेव होमार्थे २०
घ्राणान्तिको ब्राह्मणस्य २१
ललाटान्तिकः क्षत्रियस्य २२
केशान्तिको वैश्यस्य २३
सर्वे वा सर्वेषाम् २४
येनाबन्धेनोपनयीत आचार्याधीनं तत् २५
परिवाप्योपनयेत्तु २६
आप्लाव्याळङ्कृत्य २७
अग्नय इन्द्रायादित्याय विश्वेभ्यो देवेभ्य इति हुत्वा जघनेनाग्निमुपतिष्ठतः प्राङ्मुख आचार्यः प्रत्यङ्मुख इतरस्तिष्ठन् तिष्ठन्तमुपनयेत् २८
इयं दुरुक्तं परिबाधमाना वर्णं पवित्रं पुनती न आगात्
प्राणापानाभ्यां बलमाविशन्ती सखा देवी सुभगा मेखलेयम् इति
त्रिर्मेखलां परिवृत्य त्रिवृतात्रिवृतेनैकग्रन्थिरेकः २९
त्रयोऽपि वा ३०
यज्ञस्योपवीतेनोपव्ययामि दीर्घायुत्वाय सुप्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय यशसे ब्रह्मवर्चसाय त्वा इत्युपवीतेन ३१
उपनह्य दक्षिणं बाहुमुद्धृत्य शिर उपधाय वामेंऽसे प्रतिष्ठापयति ३२
एवं यज्ञोपवीती ३३
विपरीतं पित्र्ये ३४
उच्छिष्टमित्यजीनेन च ३५
अथ द्वितीयः खण्डः
अद्भिरञ्जलिं पूरयित्वाथैनमाह को नामासि इति १
असावहं भोः इतीतरः २
समार्षः इत्याचार्यः ३
समार्षोऽहं भोः इतीतरः ४
ब्रह्मचारी भव इत्याचार्यः ५
ब्रह्मचारी भवानि इतीतरः ६
भूर्भुवःस्वः इत्यञ्जलावञ्जलींस्त्रीनासिच्य दक्षिणोत्तराभ्यां पाणिभ्यां पाणी संगृह्य जपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामुपनयाम्यसौ इति ७
गणानां त्वा इति गणकामम् ८
आगन्तामरिषण्यत इति यौधम् ९
महाव्याहृतिभिर्व्याधितम् १०
भगस्ते हस्तमग्रभीत् पूषा ते हस्तमग्रभीत् सविता ते हस्तमग्रभीदर्यमा ते हस्तमग्रभीन्मित्रस्ते हस्तमग्रभीन्मित्रस्त्वमसि धर्मणाग्निराचार्यस्तवासावहं चोभौ । अग्न एतं ते ब्रह्मचारिणं परिददामि इन्द्र एतं ते ब्रह्मचारिणं परिददाम्यादित्य एतं ते ब्रह्मचारिणं परिददामि विश्वे देवा एतं वो ब्रह्मचारिणं परिददामि दीर्घायुत्वाय शतशारदाय सर्वेषां वेदानामाधिपत्याय सुश्लोकाय स्वस्तये इति ११
ऐन्द्रीमावृतमावर्तस्वादित्यस्यावृतमन्वावर्तस्व इति प्रदक्षिणं पर्यावृत्य दक्षिणेन प्रादेशेन दक्षिणमंसमन्वारभ्य जपति १२
भूर्भुवःस्वररिष्यतस्ते हृदयस्य प्रियो भूयासं मात्वमध्यवच्छित्वासौ इति १३
तूष्णीमपसव्यं पर्यावृत्याथास्योर्ध्वाङ्गुलिं पाणिं हृदये निधाय जपति मम व्रते हृदयं ते दधामि मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यं कामस्य ब्रह्मचार्यस्यसौ इति १४
तेनैव मन्त्रेण तथैव पर्यावृत्य दक्षिणेन प्रादेशेन दक्षिणं बाहुमन्वारभ्याह ब्रह्मचार्यसि समिधमाधेहि अपोऽशान कर्म कुरु दिवा मा सुषुप्थाः वाचं यच्छा समिदाधानात् १५
एषा ते अग्ने समित् इत्यभ्यादधाति समिधम् १६
तूष्णीं वा १७
अथ तृतीयः खण्डः
संवत्सरे सावित्रीमन्वाह त्रिरात्रेऽन्वक्षं वा १
गायत्रीं ब्राह्मणायानुब्रूयात् २
त्रिष्टुभं क्षत्रियाय ३
जगतीं वैश्याय ४
सावित्रीं त्वेव ५
उत्तरेणाग्निमुपविशतः प्राङ्मुख आचार्यः प्रत्यङ्मुख इतरः ६
वैश्वामित्रीं गायत्रीं सावित्रीं भो अनुब्रूहि इतीतरः ७
तत्सवितुर्वरेण्यम् इत्येतां सप्रणवां सव्याहृतीं पच्छोऽर्धर्चशोऽनवानम् ८
यदि त्रिरात्रे संवत्सरे वा भैक्षाचरणान्तं कृत्वोपासीत ९
आपो नाम स्थ शिवा नाम स्थौजा नाम स्थाजरा नाम स्थामृता नाम स्थाभया नाम स्थ तासां वोऽशीय सुमतौ मा धत्त इत्येनं त्रिरप आचमय्य स्वस्तिनो मिमीतामिति पञ्चर्चेन दण्डं प्रयच्छति १०
दृतेरिव ते इति कमण्डलुम् ११
वरो दक्षिणा १२
तच्चक्षुः इत्यादित्यमुपस्थाय प्रदक्षिणं परिक्रम्य भिक्षते ग्रामम् १३
मातरं त्वेव प्रथमाम् १४
या वैनं न प्रत्याचक्षीत १५
आचार्याय भैक्षं वेदयीत १६
अनुज्ञातो गुरुणा भुञ्जीत १७
अहरहः समिदाधानं भैक्षाचरण
मधःशय्या गुरुशुश्रूषेति ब्रह्मचारिणो नित्यानि १८
तदपि श्लोकः
क्षेत्रं हिरण्यं गां वासश्छत्रोपानहमन्ततः
धान्यमन्नमथो शाकं गुरवे प्रीतिमावहेत् इति
अथ चतुर्थः खण्डः
अथानुवचनस्य १
अग्नेरुत्तरत उपविशतः प्राङ्मुख आचार्यः प्रत्यङ्मुख इतरः २
अभिवाद्य पादावाचार्यस्य च पाणी प्रक्षाल्य मूले कुशतरुणान् गृह्णाति ३
तान् सव्येनाचार्योऽग्रे संगृह्य दक्षिणेनाद्भिः परिषिञ्चति ४
अधीहि भोः इत्युक्त्वा आचार्यः ५
ॐपूर्वा व्याहृतयः सावित्रीं भो अनुब्रूहि इतीतरः ६
ॐपूर्वा व्याहृतयः सावित्रींस्तेऽनुब्रवीमि इत्याचार्यः ७
ऋषीन् भो अनुब्रूहि इतीतरः ८
ऋषींस्तेऽनुब्रवीमि इत्याचार्यः ९
देवता भो अनुब्रूहि इतीतरः १०
देवतास्तेऽनुब्रवीमि इत्याचार्यः ११
छन्दांसि भो अनुब्रूहि इतीतरः १२
छन्दांसि तेऽनुब्रवीमि इत्याचार्यः १३
श्रद्धामेधे भो अनुब्रूहि इतीतरः १४
श्रद्धामेधे तेऽनुब्रवीमि इत्याचार्यः १५
येन येनर्षिणा यो यो यद्देवत्यो यच्छन्दा वा स्यात् तथा तथा तं तं मन्त्रमनुब्रूयात् १६
अपि वाविन्दन् ऋषिदैवतछन्दांस्येवमेवैकैकमृषिमनुवाकं वानुब्रूयात् १७
क्षुद्रसूक्तेष्वनुवाकं वानुब्रूयात् १८
यावद्वा गुरुर्मन्येत १९
आद्योत्तमे वानुब्रूयादृषेरनुवाकस्य २०
आद्युत्तमा इत्येषा प्रकृतिरिति २१
कामं सूक्तादावाचार्यः २२
इत्येतदृषिस्वाध्यायेन व्याख्यातम् २३
समा ते कुशतरुणानादाय आनळुहेन गोमयेन मूलकुण्डं कृत्वा यथो
क्तमद्भिः परिषिञ्चति २४
अथेमास्तर्पयति २५
अथ पञ्चमः खण्डः
अग्निस्तृप्यतु । प्रजापतिस्तृप्यतु । विरूपाक्षस्तृप्यतु । ब्रह्मा । वेदाः । देवाः । ऋषयः । सर्वाणि च च्छन्दांसि । ओङ्कारः । वषट्कारः । व्याहृतयः । सावित्री । यज्ञाः । द्यावापृथिवी । अन्तरिक्षम् । अहोरात्राणि । साङ्ख्याः । सिद्धाः । समुद्राः । नद्यः । गावः । गिरयः । क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसः । नागाः । वयांसि । साध्याः । विप्राः । यक्षाः । रक्षांसि । पिशाचाः । भूतानि । अथ निवीतीभूत्वा । मधुच्छन्दाः । शतर्चिनः । माध्यमाः । गृत्समदः । विश्वामित्रः । वामदेवः । अत्रिः । भरद्वाजः । वसिष्ठः । प्रगाथाः । पावमान्यः । क्षुद्रसूक्ताः । महासूक्ताः । एवमन्तानि तृप्यन्तु । अथ संवीती भूत्वा । स्मृतिं तर्पयामि । धृतिं तर्पयामि । श्रद्धां तर्पयामि । मेधां तर्पयामि । प्रज्ञां तर्पयामि । धारणां तर्पयामि १
छन्दांसि तृप्यन्ताम् । ऋषयस्तृप्यन्ताम् । देवतास्तृप्यन्ताम् २
अथ प्राचीनावीती दक्षिणां दिशमन्वीक्षमाणः । सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यमहाभारतधर्माचार्याः । जानन्तिबाहविगार्ग्यगौतमशाकल्यबाभ्रव्यमाण्डव्यमाण्डूकेयाः । सुयज्ञसांख्यायनजातूकर्ण्याः । पैङ्गशाम्बव्यैतरेयाः । गार्गी वाचक्नवी । बडवा प्रातिथेयी । सुलभा मैत्रेयी । कहोळं कौषीतकम् । महाकौषीतकम् । सुयज्ञम् । साङ्ख्यायनम् । ऐतरेयम् । महैतरेयम् । पैङ्ग्यम् । महापैङ्ग्यम् । शाम्बवकम् । महाशाम्बवकम् । बाष्कळम् । शाकळम् । गार्ग्यम् । महाजपत्रम् । सुजातवक्त्रम् । औदवाहिम् । सौजामिम् । बाभ्रव्यं सोमशर्माणम् । पाञ्चालं वेदमित्रम् । आचार्यं शौनकम् ३
ये चान्ये आचार्यास्ते चापि तृप्यन्तु ४
प्रतिपुरुषं पितरः ५
सुयज्ञः । सांख्यायनः । पैलः । कहोळः ।
कौषीतकिः । कहोळाय कौषीतकये स्वधास्तु ६
अथ षष्ठः खण्डः
अहःशेषं स्थानमुपवासश्च १
अपराह्णेऽक्षतधाना भिक्षित्वा आज्याहुतिधर्मेणाग्नौ पाणिना जुहुयात् सदसस्पतिमद्भुतमिति प्रत्यृचं सूक्तशेषेण २
भैक्षैराचार्यं स्वस्तिवाच्य अरण्ये समित्पाणिः सन्ध्यामुपास्ते नित्यं वाग्यत उत्तरापरमभिमुखोऽन्वष्टमदेशमर्धास्तमिते मण्डले आ नक्षत्राणां दर्शनात् । अतिक्रान्तायां महाव्याहृतीः सावित्रीं स्वस्त्ययनानि च जपित्वा ३
एवं प्रातः प्राङ्मुखस्तिष्ठन्ना मण्डलदर्शनात् ४
उदिते प्राध्ययनम् ५
अहरहः सायंप्रातरग्निं प्रणीयोपसमाधाय परिसमूह्य पर्युक्ष्य सुसमिद्धे जुहोति अग्नये समिधमाहारिष बृहते जातवेदसे तया त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहा इति प्रथमाम् । एधोऽस्येधिषीमहि इति द्वितीयाम् । समिदसि समेधिषीमहि इति तृतीयाम् । एषा ते अग्ने समित्तया वर्धस्व चाप्यायस्य च । बर्धिषीमहि च वयमा च
प्यासिषीमहि इति चतुर्थीं ६
अथ पर्युक्ष्य
अग्निः श्रद्धां च मेधां च विनिपातं स्मृतिं च मे
ईळितो जातवेदाः शुनं नः संप्रयच्छतु
इत्यग्निमुपतिष्ठते ७
स एतेषां वेदानामेकं द्वौ त्रीन् सर्वान् वार्धाते य एवं
हुत्वाग्निमुपतिष्ठते ८
तदपि श्लोकाः
अश्वत्थः खदिरोऽर्कश्च प्लक्षो वैकङ्कतश्शमी
काष्मर्यश्च शकृद्वन्यं सीरवाहाश्च सर्वशः
वेणुं वर्ज्याथ वान्यानि निम्बारलसकण्टकान्
करञ्जाम्रासवर्णाश्च वर्ज्याः कान्ताश्च नामतः
होमार्थी तु प्रयुञ्जीत नित्ये नैमित्तिकेऽपि वा
पालाशी तु स्रुगेव स्याद्वा पार्णः खादिरः स्रुवः इति ९
अथ सप्तमः खण्डः
अथ व्रतादेशनम् १
तस्योपनयनेन कल्पो व्याख्यातः २
न सावित्रीमन्वाह ३
दण्डप्रदानान्तमित्येके ४
उदगयने शुक्लपक्षेऽहोरात्रं ब्रह्मचर्यमुपेत्याचार्योऽमांसाशी ५
चतुर्दशीं परिहाप्याष्टमीं नवमीं च ६
आद्योत्तमे चैके ७
यां वान्यां भप्रशस्तां मन्येत तस्यां शुक्रियब्रह्मचर्यमादिशेत ८
शुक्रियब्रह्मचारी भव इत्याचार्यः ९
शुक्रियब्रह्मचारी भवानि इतीतरः १०
एवमुत्तरेषां यद्यद्व्रतमादिशेत तस्य तस्य नाम्ना निर्दिशेत् ११
त्रिरात्रं ब्रह्मचर्यं चरेत् १२
द्वादशरात्रं संवत्सरं वा १३
यावद्वा गुरुर्मन्येत १४
गोदानस्य च १५
शाक्वरं तु संवत्सरं माहाव्रतिकमौपनिषदं च १६
पूर्णे काले चरितब्रह्मचर्ये शयुचार्हस्पत्यान्ते वेदे प्रोक्ते रहस्यं श्रावयिष्यन् कालनियमं चादेशेन प्रतीयेन १७
कृतप्रातराशस्य १८
अपराह्णेऽपराजितायां दिशि हुत्वाचार्यः अथैनं यास्वेव देवतासु परिदत्तो भवति तास्वेनं परिपृच्छति अग्नाविन्द्र आदित्ये विश्वेषु च देवेषु चरितं ते ब्रह्मचर्यमिति १९
चरितं भो इति प्रत्युक्ते पश्चादग्नेः प्राङ्मुखे स्थिते अहतेन वाससाचार्यः प्रदक्षिणं मुखं त्रिः परिवेष्ट्य उपरिष्टाद्दशाः कृत्वा यथा न संभ्रश्येत २०
त्रिरात्रं समिदाधानं भैक्षाचरणमधःशय्यां गुरुशुश्रूषां च कुर्वन् वाग्यतोऽप्रमत्तोऽरण्ये देवकुलेऽग्निहोत्र उपवसख इति २१
अत्र हैके तानेव नियमांस्तिष्ठतो रात्र्यामेवोपविशन्ति २२
आचार्योमांसाशी ब्रह्मचारी ग्रामान्निष्क्रामन्नैतानीक्षेतानध्यायान् स्पृशतामुं पिशितामं चण्डालं सूतिकान्तेजनीमपहस्तकां श्मशानं सर्वाणि च श्यामरूपाणि यान्यास्ये न प्रविशेयुः २३
प्रागुदीच्यां दिशि पुण्ये देशे उदित आदित्येऽनुवचनधर्मेण वाग्यतायोष्णीषिणेऽन्वाह २४
महानाम्नीष्वेवैष नियमः २५
अथोत्तरेषु प्रकरणेषु स्वाध्यायमेवं कुर्वीताचार्यस्येतरः शृणोति २६
उष्णीषमाज्यभाजनं दक्षिणां चाचार्याय ददाति त्वं तमिति २७
उच्चा दिवि इति च २८
प्रणवेन वा सर्वम् २९
अत्र हैके वैश्वदेवं चरुं कुर्वते सर्वेषु प्रकरणेषु ३०
यथा परिदत्तमिति च माण्डूकेयः ३१
अथ अष्टमः खण्डः
अथातो दण्डनियमः १
नान्तरागमनं कुर्यादात्मनो दण्डस्य च २
अथ चेद
दण्डमेखलोपवीतानामन्यतमद्विशीर्येत च्छिद्येत वा तस्य तत्प्रायश्चित्तिः यदुद्वाहे रथस्य ३
मेखला चेदसन्धेया भवति अन्यां कृत्वानुमन्त्रयते मेध्यामेध्यविभागज्ञे देवि गोप्त्रि सरस्वति । मेखले स्कन्नविच्छिन्ने सन्तनोषि व्रतं मम । इति ४
एतयैव यथार्थमुपवीते ५
त्वमग्ने व्रतभृच्छुचिः इत्येताभ्यामृग्भ्यामाहुतीर्हुत्वा अथ मेखलां शान्ते वृक्षे निधाय पूर्णे काले मेखलामुपवीतं च दण्डे बध्नाति ६
तदप्येतत् यज्ञोपवीतं दण्डं च मेखलामजिनं तथा । जुहुयादप्सु व्रते पूर्णे वारुण्यर्चा रसेन वा ७
ब्रह्मचारी प्रवत्स्यन्नाचार्यमनुमन्त्रयते प्राणापानयोः इत्युपांशु इदं वत्स्यावो भो इत्युच्चैः ८
प्राणापान उरुव्यचास्त्वया प्रपद्ये देवाय त्वा गोप्त्रे परिददामि देवसवितरेष ते ब्रह्मचारी तं गोपाय समामृत इत्युपांशु ॐ स्वस्ति इत्युच्चैराचार्यः ॐ
स्वस्तीत्युच्चैराचार्यः ९
इति कौषीतकगृह्ये द्वितीयोऽध्यायः
अथ तृतीयोऽध्याय:
प्रथमः खण्ड:
स्नानं समावर्त्स्यमानस्य १
आनळुहे चर्मण्युपविश्य केशश्मश्रुलोमनखानि वापयित्वा व्रीहियवैस्तिलसर्षपैरपामार्गैः सदापुष्पाभिरित्युच्छाद्यापोहिष्ठीयेनाभिषिच्यालङ्कृत्य युवं वस्त्राणि इति वाससी परिधाय आयुष्यं वर्चस्यमिति सूक्तेन जातरूपमपिनह्य २
उत्थाने कुमारस्य च ३
अथास्मिन्नन्वारब्ध इन्द्राग्निभ्यां स्थालीपाकस्य हुत्वा मधुपर्कं दद्यात् ४
प्रतिलीनस्तदहरासीत ५
वनस्पते वीड्वङ्गः शास इत्था इति रथमारोहेत् ६
यत्रैनं गत्वा पशुना वाहयेयुः तत्पूर्वमुपतिष्ठेत ७
गोभिर्वा समावर्तेत ८
फलवतो वा वृक्षात् ९
इन्द्रश्रेष्ठानि स्योना पृथिवि भव इति प्रत्यवरोहति १०
ईप्सितमन्नं तदहर्भुञ्जीत ११
आचार्याय वस्त्रयुगं दद्यात् १२
उष्णीषं मणिकुण्डलं दण्डोपानहं छत्रं च
अथ द्वितीयः खण्डः
अगारं कारयिष्यन् इहान्नाद्याय विशः प्रतिगृह्णामि इत्युदुम्बरशाखया त्रिः परिलिख्य मध्ये स्थण्डिले जुहोति कोऽसि कस्यासि कायं ते ग्रामकामो जुहोमि स्वाहा
अस्यां देवानामधिभागधेयमितः प्रजाताः पितरः परेताः
इरावती जुह्वद् ग्रामकामो नु देवानां कञ्च नान्तरेमि स्वाहा इति १
न च स्थूणागर्तान् खानयित्वोदमन्थानासिच्य इमां विमिन्वेऽमृतस्य शाखां
मधोर्धारां प्रतरणीं वसूनाम्
एनां शिशुः क्रन्दत्वा कुमार एनां धेनुः पावकवथ्स
इत्युदुम्बरशाखां घृतेनाक्तां दक्षिणे द्वार्ये गर्तेऽवदधाति २
इमामुच्छ्रयामि भुवनस्य शाखां मधोर्धारां प्रतरणीं वसूनाम्
एना शिशुः क्रन्दत्वा कुमार एनां धेनुः पावकवथ्स
इत्युत्तरतः ३
एवं द्वयोर्दक्षिणतः पश्चादुत्तरतश्च ४
इमामहमस्मिन् वृक्षस्य शाखां घृतमुक्षन्तीममृते मिनोमि
एनां शिशुः क्रन्दत्वा कुमार आस्यन्दतां धेनवो नित्यवथ्साः
इति स्थूणाराजमुच्छ्रयति ५
एनं कुमारस्तरुण आवथ्सो भुवनस्पतिः ।
कुम्भाद्दध्नः कलशैर्गमः । इहैव स्थूणे प्रतितिष्ठत्यश्वावती गोमती सीलमावती क्षेमे तिष्ठ घृतमुक्षमाणाः । इहैव तिष्ठन्निमिता तिल्विलेवास्या इरावतीं मध्ये पोषस्व तिष्ठन्तीं मा त्वा प्रापन्नघायव उपहूता इह गाव उपहूता अजावयोऽथोऽन्नस्य कीळाळ उपहूता गृहेषु णो रथन्तरे प्रतिटिष्ठ वामदेव्ये बृहति श्रयस्व इति स्थूणाराजमभिमृश्य संमितस्य स्थूणाः समभिमृशति सत्यं च श्रद्धा च इति पूर्वे ६
यज्ञश्च दक्षिणा च इति दक्षिणे ७
बलं चोर्जं च इत्यपरे ८
ब्रह्म च क्षत्रं च इत्युत्तरे ९
श्रीतूस्पे १०
धर्मः स्थूणाराजे ११
अहोरात्रे द्वारफलके १२
संवत्सरः पिधाने १३
उक्षा समुद्रः इत्यभ्यक्तमश्मानं
स्तूपस्याधस्तान्निखनेत् १४
संस्थिते वास्तुकरणे शोभिते च समन्ततः १५
अथ तृतीयः खण्डः
अग्निं दधामि मनसा शिवेन इत्यग्निं प्रणीय पृथिवीं शंभुवा ह प्रतितिष्ठस्व इति प्रागग्रेषु नवेषु कुशेषूदकुम्भं नवं मणिकं वा प्रतिष्ठाप्य आपोहिष्ठीयाभिस्तिसृभिः पूरयित्वा अरिष्टा अस्माकं वीरा मा परा सेचि नो धनमित्यपिधाय रथन्तरस्य स्तोत्रियेण पुनरादाय ककुप्कारं तिस्रः पूर्वाह्णे जुहोति १
वामदेव्यस्य मध्यन्दिने २
बृहतोऽपराह्णे ३
सावित्र्या चानुसवनं शतादूर्ध्वम् ४
महाव्याहृतयश्चतस्रः । वास्तोष्पते इति चतस्रः । वास्तोष्पते ध्रुवा स्थूणा सौविष्टकृती दशमी स्थालीपाकस्य रात्रौ ५
ज्येष्ठं पुत्रमादाय जायया सद्दधान्याः प्रपद्यते इन्द्रस्य गृहाः शिवा वसुमन्तो वरूथिनः । तानहं प्रपद्ये सह जायया सह प्रजया सह पशुभिः सह यन्मे किञ्चास्ति तेन । शमं शमं शिवं शिवं क्षेमाय वः शान्त्यै प्रपद्येऽभयं नो अस्तु इति ६
एतयैवावृताषाढ्यां पौर्णमास्यां स्वस्त्ययनमित्याचक्षते ७
उद्धरेन्मणिकप्रतिष्ठापनं गृहप्रवेशनं च ८
स्वस्ति नो मिमीतामिति पञ्चर्चं जपति ९
अथ ब्राह्मणभोजनम् १०
अथ चतुर्थः खण्डः
ग्रामो मारण्याय परिददातु हविश्च महायमाय परिदेहि इति ग्रामान्निष्क्रामन् १
अरण्यं मा ग्रामाय परिददातु हविश्च महायमाय परिदेहि इति ग्रामं प्र
विशन्नरिक्तः २
गृहान् भद्रान् सुमनसः प्रपद्येऽवीरघ्नो वीरवतः सुवीरान्
इरां वहतो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशेयम्
इति सदा प्रपदनीयः ३
अनाहिताग्निः प्रवत्स्यन् गृहान् समीक्षते
इमान्मे मित्रावरुणा गृहान् गोपायतं युवम्
अविनष्टानविहृतान् पूषेमानभिरक्षतु
इति । अपि पन्थामगन्महि इति च ४
प्रोष्यायन् गृहान् समीक्षते गृहा
मा बिभीत मा मे बिभ्यतोर्जं बिभ्यतेषमूर्जं बिभ्रद्वसुमनाः सुवर्चाः गृहानैमि सुमनसा मोदमानः । येषां मध्ये विप्रवसन्ति ये सौमनसो बहु । गृहानुपह्वयामहे ते नो हिन्वन्तु जामयः । उपहूता इह गावः उपहूता अजावयः । यो नस्य कीलाल उपहूता अजावयः । अस्योपसद्ये मारिषदयं श्रेष्ठी दधातु नः इति गृह्यमग्निमुपस्थाय कल्याणीं वाचं प्रब्रूयात् ५
विराजो दोहोऽसि
विराजो दोहमशीय मयि विराजः पद्यायै दोहः इति पाद्यप्रतिग्रहणम् ६
अथ पञ्चमः खण्डः
अनाहिताग्निर्नवं प्राशिष्यन्नाग्रयणदेवताभ्य इन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यः स्विष्टकृच्चतुर्थीभ्यः स्वाहाकारेण गृह्येऽग्नौ हुत्वा प्रजापतये त्वा ग्रहं गृह्णामि
मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय इति हुतशेषाद् ग्रहं गृहीत्वा
भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वशेन समशीमहि त्वा
स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पदे
इत्यद्भिरभ्युक्ष्य त्रिः प्राश्नाति १
अमोऽसि प्राण तदृतं ब्रवीम्यमोऽसि सर्वाण्यनु प्रविष्टः
समे जरां रोगमपनुद्य शरीरादमा म एधि मामृधाम इन्द्र
इति हृदयदेशमभिमृश्य प्राणानां ग्रन्थिरसि मा विस्रस इति नाभिम् २
भद्रं कर्णेभिः इति यथारूपं तच्चक्षुः इत्यादित्यमुपस्थाय ३
परि वपस्वेदं वृञ्जन्तु घोषिण्यस्स मा स्वस्थ गोपते मा वो रक्षो मनो रिषत् पूषा गा अन्वेतु नः इति गाः प्रतिष्ठमाना अनुमन्त्रयते ४
परि पूषा इति परिक्रान्तासु ५
यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च
ता नः सन्तु पयस्वतीर्बह्वीर्गोष्ठे घृताच्यः
आ गावो अग्मन्निति सप्तागतासु ६
उत्तमापाकुर्वन् मयोभूर्वातः इति च
सूक्तेन गोष्ठगताः ७
यासु प्रथमा प्रजायेत तस्याः पीयूषं जुहुयात् संवत्सरीणं पय उस्रियायाः इति द्वाभ्याम् ८
या फाल्गुन्या उत्तरामात्रास्या सा रेवत्या संपद्यते तस्यामङ्गलक्षणानि कारयेत् भुवनमसि सहस्रमसि रायस्पोषं मा वो दधत् । अक्षतमस्यरिष्टं विराळन्नं गोपायति । यावतीनामिदं करिष्यामि भूयसीनामुत्तरासां क्रियासमिति ९
यदि यमौ प्रजायेत महा
व्याहृतिभिर्हुत्वा यमसूं दद्यात् १०
अथ षष्ठः खण्डः
अथ वृषोत्सर्गः १
कार्तिक्यां पौर्णमास्यां रेवत्यां वाश्वयुज्यां च गवां मध्ये सुसमिद्धमग्निं कृत्वाज्याहुतीर्जुहोति इह धृतिरिह स्वधृतिरुपसृजं धरुणं मात्रे धरुणो मातरं धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरत् स्वाहा पूषा गा अन्वेतु नः इति पौष्णस्य २
हुत्वैकवर्णं द्विवर्णं त्रिवर्णं वा यो वा यूथं छादयति यं वा यूथं संछादयति ३
रोहितो वैव स्यात् ४
सर्वाङ्गैरुपेतः ५
यूथे वर्चस्वितमः स्यातमलंकृत्य ६
यूथे मुख्याश्चतस्रो वत्सतर्यः ७
ताश्चालंकृत्य ८
एतं युवानं परि वो ददामि तेन क्रीळन्तीश्चरत प्रियेण मा नश्शाप्त जनुषा संविदाना रायस्पोषेण समिषा मदेम । इत्यनुमन्त्रयते ९
नभ्यस्थे वृषे मयोभूर्वातः इति
च सूक्तेन १०
सर्वासां पयसि स्थालीपाकं श्रपयित्वा ब्राह्मणान् भोजयेत् ११
अथ सप्तमः खण्डः
अथात उपाकरणम् १
ओषधीनां प्रादुर्भावे २
श्रावण्यां पौर्णमास्याम् ३
हस्तेन श्रवणेन वा ४
अक्षतसूक्तानां दधिघृतमिश्राणां प्रत्यृचं वेदेन जुहुयादिति हैक आहुः ५
सूक्तानुवाकाद्याः ६
अध्यायार्षेयाद्याभिरिति च माण्डूकेयः ७
अथ ह स्माह कौषीतकिः वेदेभ्यो देवेभ्यः छन्दोभ्यः ऋषिभ्यश्चेति ८
अग्निमीळे पुरोहितमित्येका ९
कुषुम्भकस्तदब्रवीत् आवदंस्त्वं शकुने भद्रमावद गृणाना जमदग्निना धामन्ते विश्वं भुवनमधिश्रितम् गन्ता नो यज्ञं यज्ञियाः सुशमि यो नः स्वो अरणः प्रतिचक्ष्व आग्ने याहि मरुत्सखा यत्ते राजञ्छृतं हविः इति द्व्यृचाः १०
तच्छंयोरावृणीमहे इत्येका ११
हुतशेषाद्धविः प्राश्य दधिक्राव्णो अकारिषमित्याचम्योपविश्य महाव्याहृतयः सावित्रीं वेदादि
प्रभृति स्वस्त्ययनानि च जपित्वा आचार्यं स्वस्ति वाच्य १२
तदपि भवति
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं भवेत्
अष्टकासु तथैव स्यादृत्वन्त्यासु च रात्रिषु १३
अथ अष्टमः खण्डः
अथात उत्सर्गः १
माघशुक्लपक्षप्रतिपद्यपराजितायां दिशि पुण्ये देशे प्रत्यस्य लोष्टान् शास इत्था इति प्रतिदिशमृषींश्छन्दांसि देवताः श्रद्धामेधे च तर्पयित्वा प्रतिपुरुषं पितरः २
उदुत्यम् चित्रम् नमो मित्रस्य विभ्राद् बृहत् इति सूक्तानि जपित्वा छन्दांसि विश्रामयन्त्यर्धषष्ठान् मासान् ३
अधीयीरंश्चेदहोरात्रमुपरम्य
प्राध्ययनम् ४
अथ नवमः खण्डः
अथोऽपरमम् १
उत्पातेष्वाकालिकम् २
अन्येष्वद्भुतेषु च ३
विद्युत्स्तनयित्नुवर्षेषु त्रिसन्ध्यमेकाहम् ४
श्राद्धभोजने ५
दशाहमघेषु च सूतकेषु च ६
चतुर्दश्यमावास्ययोः ७
अष्टकासु ८
वासरेषु नभ्येषु च ९
आचार्ये चोपरते दशाहम् १०
श्रुत्वा त्रिरात्रम् ११
तत्पूर्वाणां च प्रतिग्रहे श्राद्धे १२
सब्रह्मचारिणि समेत्य १३
प्रेतमनुगम्य पितृभ्यश्च निधाय पिण्डान् निशाम् १४
सन्ध्यायाम् १५
पर्वसु १६
अस्तमिते १७
सामशब्दे १८
श्मशाने १९
शूद्रसंनिकर्षे २०
ग्रामारण्ये २१
अन्तःशवे ग्रामे २२
अदर्शनीयाश्रवणीयानिष्टाघ्राणे २३
अतिवातेऽभ्रे वर्षति २४
रथ्यायाम् २५
बाणशब्दे २६
रथस्थः २७
शूद्रवच्छुनि २८
वृक्षारोहणे २९
अवटारोहणे ३०
अप्सु ३१
क्रन्दत्याम् ३२
आर्तौ ३३
नग्नः ३४
उच्छिष्टः ३५
संक्रमे ३६
केशश्मश्रुवापन आ स्नानात् ३७
उत्सादने ३८
स्नाने ३९
अभ्यञ्जने ४०
संवेशने सूतिकोदक्याभ्याम् ४१
अवहितपाणिः ४२
सेनायाम् ४३
अभुञ्जति ब्राह्मणे ४४
गोषु च ४५
अतिक्रान्तेष्वधीयीरन् ४६
एतेषां यदि किञ्चिदकाममभ्याभवेत् प्राणानायम्यादित्यं निरीक्ष्यातः परमधीयीत ४७
विद्युत्स्तनयित्नुवर्षवर्जं कल्पे ४८
वर्षवर्जमर्धषष्ठेषु च ४९
तदप्येतत्
अन्नमापो मूलफलं यच्चान्यच्छ्राद्धिकं भवेत्
प्रतिगृह्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृताः
इति ५०
न्यायोपेतेभ्य एवावर्तयेत् ५१
प्राङ्मुख आचार्यः प्रत्यङ्मुख इतरः ५२
द्वौ वा ५३
भूयांसस्तु यथासनम् ५४
अधीहि भो इत्युक्त्वा आचार्यः ओमितीतरः प्रतिपद्याधीयीत ५५
अधीत्योपसंगृह्य विरताः स्म भो इत्युक्त्वा यथार्थम् ५६
विसृष्टं विरामस्तावदित्येके ५७
नाधीयीतारमन्तरा गमयेदात्मानं परिहरन्तोऽधीयीरन् ५८
यदि चेद् दोषः स्यात् त्रिरात्रमुपोष्याहोरात्रं वा सावित्रीं चाभ्यावर्तयित्वा यावच्छक्नुयात् ५९
दण्डस्यान्तरागमने ब्रा
ह्मणाय यत् किञ्चिदद्यात् । अतः परमधीयीत ६०
अथ दशमः खण्डः
अथातो वैश्वदेवः १
वैश्वदेवस्य सिद्धस्य सायंप्रातर्गृह्येऽग्नौ जुहुयात् २
महान्तं कोशमिति त्रिः पर्युक्षति सर्वत्र ३
अग्नये स्वाहा सोमाय स्वाहा इन्द्राग्निभ्यां स्वाहा भरद्वाजधान्वन्तरये स्वाहा प्रजापतये स्वाहा अनुमत्यै स्वाहा श्रियै स्वाहा सरस्वत्यै स्वाहा विष्णवे स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवताभ्यः स्वाहा अग्नये स्विष्टकृते स्वाहा इति हुत्वैतासां देवतानाम् । अथ वास्तुमध्ये बलिं हरेत् ४
एताभ्यश्चैव देवताभ्यो नमो ब्रह्मणे ब्राह्मणेभ्यश्च वास्तोष्पतये नमः ५
अथ दिशां प्रदक्षिणं यथारूपं नम इन्द्राय ऐन्द्रेभ्यश्च नमो यमाय याम्येभ्यश्च नमो वरुणाय वारुण्येभ्यश्च नमः सोमाय सौम्येभ्यश्च नमो बृहस्पतये बार्हस्पत्येभ्यश्च ६
नमो मरुद्भ्योऽश्विभ्यां नमश्छन्दोभ्य ऋषिभ्यश्च इत्यपराजितायां दिशि ७
नमस्साध्यायाग्नये नमो निर्रत्यै नमो वायवे नमो रुद्राय इति प्रदक्षिणमेव ८
अथादित्यमण्डले नमोऽदितये आदित्येभ्यश्च नमो नक्षत्रेभ्य ऋतुभ्यो नमो मासेऽभ्योऽर्धमासेभ्यश्चाहोरात्रेभ्यश्च संवत्सरेभ्यः पूष्णे पथिकृते धात्रे विधात्रे इति ९
मरुद्भ्यश्चैव देहनेषु १०
नम ओषधिवनस्पतिभ्यः इत्युलूखले नमः पर्जन्यायाद्भ्यः इति मणिके ११
विष्णवे दृषदि १२
नमः श्रियै शय्यायाः शिरसि १३
पादतो भद्रकाळ्यै १४
अनुगुप्ते देशे नमो मित्राय १५
नमो विज्ञाताभ्यो देवताभ्यः इत्युत्तरतो धनपतये च १६
अथान्तरिक्षे नक्तंचरेभ्यो नमः इति सायम् १७
अहश्चरेभ्यो नमः इति प्रातः १८
ये देवासः इति च १९
अथ प्राचीनावीती दक्षिणतः शेषं निनयेत् येऽग्निदग्धाः इति २०
देवर्षिपितृगणेभ्यो दत्त्वातिथिमाकाङ्क्षेद् आ गोदोहात् २१
यद्यतिथिरागच्छेद् यथाशक्ति पाद्यमासनमन्नं दत्त्वा श्रोत्रियं भोजयेत् २२
ब्रह्मचारिणे वा भिक्षां दद्यात् २३
अनन्तरं सौवासिनीं गर्भिणीं बालान् स्थविरांश्च भोजयेत् २४
श्वभ्यश्च श्वपाकेभ्यश्च वयोभ्यश्चावपेद् भूमाविति २५
नानवत्तमश्नीयात् २६
नैकः २७
न पूर्वम् २८
तदप्येतदृषिराह २९
मोघमन्नं विन्दते अप्रचेतास्सत्यं ब्रवीमि वध इत्स तस्य
नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी इति ३०
षण्णामर्घ्याणामन्यतम आगच्छेद् गोपशुमजमन्यद्वा यत्सामान्यतमं मन्येततत्कुर्वीत ३१
आचार्यायाग्नेयः ऋत्विजे बार्हस्पत्यो विवाह्याय प्राजापत्यो राज्ञ ऐन्द्रः प्रियाय मैत्रः स्नातकायैन्द्राग्नः ३२
यद्यसकृत्संवत्सरस्य सोमेन
यजेत कृतार्घ्या एवैनं याजयेयुः ३३
नाकृतार्घ्याः ३४
तदपि भवति
मधुपर्के च सोमे च पितृदैवतकर्मणि
अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः
आचार्यश्च पिता चोभौ सखा चानतिथिर्गृहे
ते यद्विदध्युस्तत्कुर्यादिति धर्मो विधीयते
नैकग्रामीणमतिथिं विप्रोष्यागतमेव वा
उपस्थितं गृहं विद्याद्भार्या यत्राग्नयोऽपि वा
नोपवासः प्रवासेऽस्ति पत्नी धारयते व्रतम्
पुत्रो भ्राताथ वा शिष्यः पत्नी वाथ बलिं हरेत्
अग्निहोत्रं बलीवर्दाः काले चातिथिरागतः
बालाश्च कुलवृद्धाश्च निर्दहन्त्यवमानिताः
देवताः पितरो नित्यं गच्छन्ति गृहमेधिनम्
भागार्थमतिथिश्चापि तेभ्यो निर्वप्तुमर्हति
सिलान्युञ्छयमानस्य अग्निहोत्रं च जुह्वतः
सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो व्रजन्
औदपात्रात्तु दातव्यमा काष्ठाज्जुहुयादपि
आ सूक्तादानुवाकाद्वा ब्रह्मयज्ञो विधीयते
एते पञ्च महायज्ञा वर्तन्ते यस्य नित्यशः
स मुक्तः सर्वपापेभ्यो नाकपृष्ठे महीयते
वैश्वदेवमिमं ये च सायंप्रातः प्रयुञ्जते
तदर्थैरायुषा कीर्त्या प्रजाभिश्च समृध्नुयुः इति ३५
अथ एकादशः खण्डः
अहरहराचार्यायाभिवादयीत १
अभिगम्य गुरुभ्यश्च २
समेत्य श्रोत्रियाय प्रोष्य प्रेत्येत्याश्रोत्रियाय ३
असावाहं भो इत्यात्मनो नाम निर्दिश्य व्यत्यस्य पाणी दक्षिणेन दक्षिणं सव्येन सव्यं दक्षिणोत्तराभ्यां पाणिभ्यामुपसंगृह्य पादौ ४
असा उ इत्यस्य पाणी संगृह्य आशिषमाशास्ते ५
नावृतो यज्ञे न धर्मार्थं जुगुप्सेत ६
न जनसमवायं गच्छेत् ७
नोपर्युद्दिशेत् समेत्यात्र ८
अनाक्रोशकोऽपिशुनः ९
अकुलं कुलः १०
नैतिहः ११
नैकश्चरेत् १२
न नग्नः १३
नावहितपाणिः १४
देवकुलायतनानि प्रदक्षिणम् १५
न हसेत् १६
न धावेत् १७
न निष्ठीवेत् १८
न कण्डूयेत् १९
मूत्रपुरीषे नावेक्षेत २०
अवकुण्ठ्यासीत २१
यद्येकवासा यज्ञोपवीतं दक्षिणे कर्णे कृत्वा २२
नादित्याभिमुखः २३
न जघनेन २४
नानन्तर्हितायां भूमौ २५
न वृक्षमारोहेत् २६
न कूपमवेक्षेत २७
नैको वनं गच्छेत् २८
नावि धुवनं गच्छेत् २९
न त्वेव श्मशानम् ३०
सवस्त्रोऽहरहराप्लुवीत ३१
अप्लुत्योदकोऽन्यद्वस्त्रमाच्छादयीत ३२
न नग्नां स्त्रियं निरीक्षेत ३३
नादित्यं सन्धिवेलयोः ३४
अनाप्तम् ३५
अकार्यकारिणम् ३६
प्रेतस्पर्शिनम् ३७
सूत्तिकोदक्याभ्यां न संवदेत ३८
नोद्धृततेजांसि भुञ्जीत ३९
न यातयामैः कार्यं कुर्यात् ४०
न सह भुञ्जीत ४१
न शिष्टम् ४२
पितृदेवतातिथिभृत्यानां शिष्टं भुञ्जीत ४३
सिलमुञ्छमयाचितप्रतिग्रहः साधुभ्यो याचतो वा याजनमध्यापनं वृत्तिः ४४
पूर्वं पूर्वं लघीयः ४५
असंसिद्धमानायां वैश्यवृत्तिर्वा ४६
अप्रमत्तः पितृदैवतकार्येषु ४७
ऋतौ स्वदारगामी ४८
न दिवा स्वपीत ४९
न पूर्वापररात्रेषु ५०
अहरहः स्वाध्यायशीलः ५१
सत्यवादी ५२
नित्योदकी ५३
नित्यय
ज्ञोपवीती ५४
न विरहेदाचार्यमन्यत्र नियोगात् ५५
अनुज्ञातो वा ५६
अथ द्वादशः खण्डः
षड्विंशतिभिः कारणैः खलु भो ब्राह्मणेनाध्येतव्यं भवत्यपरिमितैर्वा १
तद्यथा कुले जातः २
शक्तिमान् ३
पूर्वे चाभिरूपा आसन् ४
साध्वाचरितं चैतत् ५
ऋणं चैतद्ब्राह्मणस्य ६
कर्मणामध्ययनं शुभतरम् ७
अधीत्य च कार्याकार्ये ज्ञास्यामि ४
विद्वांसश्च सर्वत्र पूज्यन्ते ९
शिष्याश्च शुश्रूषन्ते १०
महयन्ति च सर्वत्र ११
सर्वत्र गतिमान् भविष्यामि १२
यक्ष्यामि १३
याजयिष्यामि १४
लक्षणीयो भविष्यामि १५
हवींषि च सुसंस्कृतानि भोक्ष्यामि १६
मया च स्वाध्यायवता मातापितरौ स्वर्गे लोके सुखमेधिष्यते १७
ब्रह्मचर्येण चायुष्मान् वर्चस्वी भविष्यामि १८
स्वाध्यायेन क्षिप्रं पाप्मानमपहन्यामिति च १९
स्वाध्यायवतः सर्वे लोकाः २०
नाप्राप्यं तस्य किञ्चित् २१
न तस्य पुनरावृत्तिः २२
म्नत्रब्राह्मणयोः वेदशब्दः २३
वेदो हि धर्ममूलम् २४
अचोरहरणीयं च ब्रह्म २५
एकैका चर्क् सम्यगधीता कामधुग्भवति २६
यं यं क्रतुमधीते तेन तेन चेष्टं भविष्यतीति २७
तदपि श्लोकाः २८
केतुमान् लघिमान् दक्षो मित्रवान् घृतिमान् शुचिः
शीलवान् श्रुतवान् दान्तो भवेद्वै पङ्क्तिपावनः २९
चोरराजाग्न्युदकेभ्यः सदा सञ्चयिनां भयम्
निर्भवास्तु सुखं वैद्याश्चरन्त्यक्षय्यवृत्तयः ३०
तदेतत्पुष्कलं वाक्यं वेदज्ञानप्रयोजनम्
कुर्यादध्ययने यत्नं सत्यवादी जितेन्द्रियः इति ३१
तदप्येतदृषिराह ३२
यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यान्ति
यो जागार तमयं सोम आह तवाहमस्मि सरव्ये न्योकाः इति ३३
अथ त्रयोदशः खण्डः
रोहिण्यां कृषिकर्माणि कारयेत् १
प्राच्यां क्षेत्रमर्यादायां द्यावापृथिवीयं
बलिं हरेत् २
गोमयेन परिमण्डलं स्थण्डिलमुपलिप्य प्रागग्रेषु नवेषु कुशेषु द्यावापृथिवीभ्यां नमः इत्यपो दद्यात् ३
एवमेव गन्धमाल्यधूपदीपानाम् ४
पयसौदनं वा ५
नमो द्यावापृथिवीभ्यां नमः इति चोपस्थानम् ६
न नित्यं परिस्तरणम् ७
यथासमाम्नातो वा विकल्पः ८
तच्छेषेण ब्राह्मणान् तर्पयति ९
प्रथमयोगे सीरस्य ब्राह्मणः सीरं स्पृशेत् शुनं नः फालाः इति १०
क्षेत्रस्य पतिना इति सूक्तमनुब्रूयात् ११
कृतां परिहाप्य १२
उदकं परिष्यन् स्वस्त्ययनं करोति १३
उदकाञ्जलीन् त्रीनप्सु जुहोति १४
समुद्राय वयुनाय नमो वरुणाय नमो वारुणाय धर्मपतये नमो नमस्सर्वासां नदीनां सर्वासां पित्रे विश्वकर्मणे मर्त्यं हविर्जुषतामिति जपित्वा १५
प्रतीपं स्रवन्तीभ्य उदीचं स्थावराभ्यः १६
तरंश्चेद् भयं शङ्केत वासिष्ठं जपेत् समुद्रज्येष्ठाः इत्येतत् सूक्तं प्लवम् १७
vअथ चतुर्दशः खण्डः
अथ मासि मासि पितृभ्यो दद्यात् १
ब्राह्मणान् वेदविदुषोऽयुग्मान् त्र्यवरार्ध्यान् पितृवदुपवेश्यायुग्मान्युदपात्राणि तिलैरवकीर्य ब्राह्मणानां पाणिषु निनयेत् २
अत ऊर्ध्वमलङ्कृतानामन्त्र्याग्नौ कृत्वान्नं च असावेततत्ते इत्यनुदिश्य भोजयेत् ३
भुञ्जानेषु महाव्याहृतयः सावित्रीं मधुवातीयाः पितृदेवत्याः पावमानीर्जपेद् यथोत्साहमन्यत् ४
भुक्तवत्सु पिण्डान् दद्यात् ५
पुरस्तादेके ६
पिण्डान् तत्पश्चिमेन पत्नीनां किञ्चि दन्तर्धाय ७
ब्राह्मणानां शेषं निवेदयेत् ८
अग्नौकरणादि पिण्डपितृयज्ञेन कल्पो व्याख्यातः ९
सूत्राणि दत्त्वाञ्जनाभ्यञ्जनगन्धपुष्पधूपदीपांश्च प्रतिपिण्डं दद्यात् १०
अथात एकोद्दिष्टम् ११
एकं पवित्रम् १२
एकमर्घ्यम् १३
एकपिण्डम् १४
नाग्नौकरणम् १५
अभिरम्यतामिति विसर्गः १६
संवत्सरमेवं प्रेतः १७
चतुर्थविसर्गस्तु १८
वृद्धिपूर्तेषु युग्मान् भोजयेत् १९
प्रदक्षिणमुपचारः २०
यवैस्तिलार्थः
अथ पञ्चदशः खण्डः
ऊर्ध्वमाग्रहायण्यास्तिस्रोऽष्टमीष्वष्टकास्वपरपक्षेषु १
तासां प्रथमायां शाकं
जुहोति
इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा
वधूर्जजान नवकं जनित्री त्रय एनां महिमानः सचन्तां स्वाहा इति २
अथ स्विष्टकृतः
यस्यां वैवस्वतो यमस्सर्वे देवास्समाहिताः
अष्टका सर्वतोमुखी सा मे कामानतीतृपत्
आहुस्ते ग्रावाणो दन्तानूधः पवमानः
अर्धमासांश्च मासांश्चाङ्गानि नमस्ते सुमनामुखि स्वाहा इति ३
मध्यमायां माघ्या वर्षे च महाव्याहृतयश्चतस्रो जुहोति ये तातृषुः इति चतस्रोऽनुद्रुत्य वपां जुहुयात् वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ सुकृतस्य लोके । मेदसः कुल्या उपस्रुतास्स्रवन्ति सत्यास्सन्तु यजमानस्य कामास्स्वाहा । इति महाव्याहृतिभिश्चतसृभिः ये तातृषुः इति चतसृभिरष्टावाहुतीः
स्थालीपाकोऽवदानमिश्रः ४
अन्तर्हिता गिरयोऽन्तर्हिता पृथिवी मही मे
दिवा दिग्भ्यश्च सर्वाभिरन्यमन्तर्दधे पितृभ्योऽमुष्मै स्वाहा
अन्तर्हिता ऋतवोऽहोरात्रा सुसन्धिकाः
अर्धमासाश्च मासाश्चाङ्गानि नमस्ते सुमनामुखि स्वाहा
यास्तिष्ठन्ति यास्त्रवन्ति या अद्भिः परितस्थुषीः
अद्भिः सर्वस्य भर्तृभिरन्यतः पितुर्दधेऽमुष्मै स्वाहा
यन्मे माता प्रलुलोभ चरत्यपतिव्रता
रेतस्तत्पिता वृङ्क्तामाहुरन्योऽवपद्यताममुष्मै स्वाहा
इति महाव्याहृतीनां वा स्थाने चतस्रोऽन्यत्रकरणस्य ५
उत्तमायामपूपान्जुहोति
उक्थ्यश्चातिरात्रश्च सद्यस्क्रीश्छन्दसा सह
अन्ये च क्रतवो देवा ऋषयः पितरस्तथा
ऋतवः सवभूतानि शिवाश्शान्ताश्च मे सदा
सन्तु मेऽपूपकृतामष्टके समस्ते सुमनामुखि स्वाहा
इति समानं स्विष्टकृत् ६
श्वोऽन्वष्टक्यां पिण्डपितृयज्ञावृता गोपशुरजस्था
लीपाको वा गोग्रासमाहरेदपि वा कक्षमुदहेदेषा मेऽष्टका इति ७
न त्वेव न कुर्वीत न त्वेव न कुर्वीत ८
इति कौषीतकगृह्ये तृतीयोऽध्यायः
अथ चतुर्थोऽध्यायः
प्रथमः खण्डः
अथातश्शान्तिं करिष्यन् रोगार्तो वा भयार्तो वा अयाज्यं वा याजयित्वा अप्रतिग्राह्यं वा प्रतिगृह्य त्रिरात्रमुपोष्याहोरात्रं वा सावित्रीं चाभ्यावर्तयित्वा यावच्छक्नुयाद् गौरसर्षपकल्कैः स्नात्वा शुक्लमहतं वा वासः परिधाय स्रवन्तीभिरद्भिरुदकुम्भं नवं भूर्भुवस्स्वः इति पूरयित्वेतराभिर्वा गौरसर्षपदूर्वाव्रीहियवानवनीय गन्धमाल्यानां च यथोपपादमग्नये स्थालीपाकस्य हुत्वा सावित्र्या सहस्रादूर्ध्वमा द्वादशात् सहस्रात् स्वशक्तितः संपातमभिजुहोति १
यावद्वा दोषनिवृत्तिः २
उत्तरेणाग्निं प्रागग्रेषु कुशेषु प्राङ्मुख उपविश्यापोहिष्ठीयाभिस्तिसृभिरभिषिञ्चेत् ३
शुक्लैरलङ्कृत्य महाव्याहृतयः सावित्रीं स्वस्त्ययनानि च जपित्वा मुच्यते सर्वपापेभ्यो रोगेभ्यश्च भयेभ्यश्च ४
व्याधितश्चेत्तदशक्तश्चेत् पिता भ्राता वाचार्यपुत्रशिष्याणामन्यतमो वान्वारब्धे कुर्यात् ५
मुञ्चामि त्वा हविषा जीवनाय कमिति त्रीणि सूक्तानि जपति पुरस्स्तात् स्वस्त्ययनानाम् ६
वरो दक्षिणा ७
एवं गावो गोष्ठस्य मध्ये रुद्राय स्थालीपाकस्य हुत्वा रौद्रमूक्तैरग्निमुपतिष्ठते ८
संपाताभिः सौमश्रीभिः सावित्रीमपरिमितां जपेद् वेतसशाखाभिः कुशमुष्टिभिर्वा त्रिः प्रदक्षिणं प्रोक्षति गो
सूक्तैरुपस्थानं मुच्यते सर्वरोगेभ्यः ९
अथ ब्राह्मणभोजनम् १०
अथ द्वितीयः खण्डः
श्रावण्यां पौर्णमास्यां हस्तेन श्रवणेन वा अक्षतसक्तूनां स्थालीपाकस्य वा जुहुयात् अग्नये स्वाहा विष्णवे स्वाहा श्रावण्यै स्वाहा पौर्णमास्यै स्वाहा वर्षाभ्यः स्वाहा इति १
लाजानक्षतसक्तूंश्च सर्पिषा सन्नीयाग्नौ जुहुयात् दिव्यानां सर्पाणामधिपतये स्वाहा दिव्येभ्यः सर्पेभ्यः स्वाहा इति २
उत्तरेणाग्निं म्प्रागग्रेषु कुशेषु शुचौ वा देशे दिव्यानां सर्पाणामधिपतिरुन्नीयतां दिव्याः सर्पा उन्नीयन्तामित्यपो निनयति । दिव्यानां सर्पाणामधिपतिः प्रलिखताम् दिव्याः सर्पाः प्रलिखन्तामिति फणेन वेष्टयति । दिव्यानां सर्पाणामधिपतिरनुलिम्पताम् दिव्याः सर्पा अनुलिम्पन्ताम् इति पन्नगस्य पात्राणि निनयति । दिव्यानां सर्पाणामधिपतिस्सुमनस्यतां दिव्याः सर्पास्सुमनस्यन्तामिति सुमनस उपहरति । दिव्यानां सर्पाणामधिपतिराच्छाद्यतां दिव्याः सर्पा आच्छाद्यन्तामिति सूत्रतन्तुमुपहरति । दिव्यानां सर्पाणामधिपतिराञ्जताम् दिव्याः सर्पा आञ्जन्तामिति कुशतरुणेनोपघातमञ्जनस्य करोति । दिव्यानां सर्पाणामधिपतिरीक्षतां दिव्यास्सर्पा ईक्षन्तामित्यादर्शेनेक्षयति । एवमान्तरिक्षाणां पार्थिवानां दिव्यानां त्रिस्त्रिरुच्चैस्तरां नीचैस्तरां इत्योदनद्रव्येणोपघातमा प्रत्यवरोहाद्रात्रौ वाग्यतस्सोदकं बलिमुपहरेत् ३
उपसर्गः ४
अथ तृतीयः खण्डः
आश्वयुज्यां पौर्णमास्यामैन्द्रं पायसः १
अश्विभ्यां स्वाहा अश्वयुग्भ्यां स्वाहा आश्वयुज्यै पौर्णमास्यै स्वाहा शरदे स्वाहा पशुपतये स्वाहा पिङ्गलाय स्वाहा इति षट् पृषातकस्य आ गावो अग्मन् इति सूक्तेन प्रत्यृचं स्थालीपाकस्य हुत्वा
मातृभिर्वत्सान् संसृजति तां रात्रिम् । अथ ब्राह्मणभोजनम् २
अथ चतुर्थः खण्डः
आग्रहायण्यां प्रत्यवरोहेत् १
रोहिण्यां प्रोष्ठपदासु वा प्रातः शमीपलाशमधूकापामार्गशिरीषोदुम्बरकुशतरुणबदरीणां च २
तेषां मुष्टिमादाय ३
सीतालोष्टं च ४
उदपात्रे निधाय तस्मिन्निमज्ज्य निमज्ज्य ५
उप नः शोशुचदघमिति सूक्तेन त्रिः प्रदक्षिणं प्रोक्षति शरण्येभ्यः पाप्मनोऽपहत्यै ६
उत्तरतो निधाय ७
मधुपर्को दक्षिणा ८
ग्रीष्मो हेमन्त उत नो वसन्तश्शरदूर्षास्सुवितं नोऽस्तु
तेषां पशूनामृतूनां शतशारदानां निवात एषामभये स्याम स्वाहा
अप श्वेतपदा जहि पूर्वेण चापरेण च
सप्त च वारुणीरिमास्सर्वाश्च राजबान्धवैः स्वाहा
श्वेताय वैदर्भाय स्वाहा विदर्भाय स्वाहा तक्षकाय वैशालेयाय स्वाहा विशालाय स्वाहा इत्याज्येन ९
सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिभूषन्तां सुवर्षाः सन्तु नो वर्षाः शरदः शं भवन्तु नः इत्यग्निमुपतिष्ठते । स्योना पृथिवी भव इति पृथिवीमनुमन्त्र्य शं नो भवन्तु वाजिनः इति शमीशाखयाभिमृज्य समुद्रादूर्मिः इत्यभ्युक्ष्य प्रस्तरमास्तीर्य ज्येष्ठदक्षिणापार्श्वैः संविशेरन् १०
प्रति ब्रह्मन् प्रतितिष्ठामि यज्ञे इति दक्षिणैः ११
प्रति पशुषु प्रतितिष्ठाम्यन्ने इति सव्यैः १२
प्रत्यश्वेषु प्रतितिष्ठामि क्षत्रे इति दक्षिणैः १३
प्रत्यप्सु प्रतितिष्ठाम्यमृते इति सव्यैः १४
प्रति प्रजायां प्रतितिष्ठामि पुष्टौ इति दक्षिणैः १५
प्रस्तरे तां रात्रिं शेरते १६
उदीर्ध्वं जीवः इत्युत्थाप्य नमो मित्रस्य इत्यादित्यमुपस्थाय यथासुखमत ऊर्ध्वम् १७
सुत्रामाणमिति शय्यामारोहेत् १८
चैत्र्यां पौर्णमास्यां कर्कन्धुपर्णानि मिथुनानां च यथोपपादं पिष्टस्य कृत्वा ऐन्द्राग्नस्तुण्डिलो रौद्रगुलिकाः १९
लोकतो नक्षत्राण्यन्वावृतश्च लोकतो नक्षत्राण्यन्वावृतश्च २०
इति कौषीतकगृह्ये चतुर्थोऽध्यायः
अथ पञ्चमोऽध्यायः
प्रथमः खण्डः
जीवतः कर्माणि विसमाप्ते चेदभिप्रेयात् १
मरणान्तमेकाहेषु २
नास्ति तस्य समापनम् ३
प्रेतमाहिताग्निं ज्ञात्वाजस्रानग्नीन् कुर्वन्ति ४
विहारं दक्षिणतो विहृत्य ५
कुशानामेवमग्रता ६
तेष्वेनं गार्हपत्यस्य पश्चाद्दक्षिणाशिरसं निपात्यान्तरेण गार्हपत्याहवनीयावेवं गार्हपत्य आज्यं बिलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वान्वारब्धे प्रेत आहवनीये जुहोति परेयिवांसमित्येतयर्चा ७
एवं गार्हपत्ये ८
एवमन्वाहार्यपचने ९
अन्वाहार्यपचने चरुं जीवतण्डुलं श्रपयन्ति १०
गार्हपत्ये मैत्रावरुणीमामिक्षाम् ११
अथैनं दक्षिणतः परिश्रिते निपात्य संहार्य लोमनखानि प्रेतस्याप्लाव्यालङ्कृत्याहतेन वाससा परिदधीत इदं त्वा वस्त्रं प्रथमं न आगन् इति १२
अथेतरदपैति अपैतदूहयदिहाबिभः पुरा इति १३
तदस्य पुत्रः परिधायाजरसाद्वसीत इष्टापूर्तमनुसंपश्य दक्षिणाँ
यथा ते दत्तं बहुधा विबन्धुषु इति १४
अथ द्वितीयः खण्डः
अथोल्मुकं गार्हपत्य आदीप्याग्रतो हरन्ति १
अथाजम् २
अथ राजगवीम् ३
अथाग्नीन् ४
अथ यज्ञपात्राणि ५
अथैनमानीयमानमनुमन्त्रयते पूषा त्वेतश्च्यातयतु इत्येतया ६
द्वितीयया द्वितीयम् ७
तृतीयया तृतीयम् ८
तुरीयमध्वनो गत्वात्रैनं निपात्यास्य नेदिष्ठाः कनिष्ठप्रथमाः सव्यान्केशानुद्गथ्य सव्यानूरूनाघ्नानाः सिग्भिरभिधून्वन्तः त्रिरपसलं परीत्य तद्विपर्यासमेवमेव प्रदक्षिणम् ९
दक्षिणतस्त्रीन् लोष्टानवरुज्य दक्षिणतो निधाय तेषु तूष्णीं चरोर्मेक्षणेन जुहोति । एवं द्वितीयम् १०
एवं तृतीयम् ११
अथात्र चरुपात्रं भिनत्ति यथोदकं न तिष्ठेत् १२
आदहने तूष्णीं निधाय दक्षिणस्यां दिशि दक्षिणाप्रवणे दक्षिणाप्राक्प्रवणेन वा अपेत वीत इति पलाशशाखया त्रिः परिलिख्य वास्तौ हिरण्यशकलं निधाय देहि यमराज वास्त्वस्मा इत्थंना
मधेयाय इति गृहीत्वा वास्तु प्राग् दक्षिणां चितिं चित्वा १३
अथ तृतीयः खण्डः
पश्चान्निधाय गार्हपत्यं दक्षिणतो दक्षिणाग्निं पुरस्तादाहवनीयम् १
पश्चाद्दक्षिणतो वा गामनुस्तरणीम् २
जीवन्त्या वृक्कौ पृष्ठत उद्धृत्य संज्ञप्ताया वा दक्षिणाग्नौ कोष्णौ कृत्वा अति द्रव इत्यृग्भ्यां पाणयोराधाय ३
आमिक्षां च ४
अग्नेर्वर्म इति वपया मुखं प्रच्छाद्यान्तरेण गार्हपत्याहवनीयौ हृत्वोत्तानं चिते निपात्य ५
उत्तरतः पत्नीमुपसंवेश्य उदीर्ष्व नारि इत्युत्थाप्य प्राणायतनेषु हिरण्यशकलं निधाय घृतेन वाभिघार्य ६
पात्राणि युनक्ति ७
दक्षिणे पाणौ जुहूम् ८
उपभृतं सव्ये ९
ध्रुवामुरसि १०
अग्निहोत्रहवणीं कण्ठे ११
स्रुवौ नासिकयोः १२
प्राशित्रहरणं दक्षिणे श्रोत्रे १३
प्रणीताप्रणयनं सव्ये १४
शिरसि कपालानि १५
दत्सु ग्राव्णः १६
उदरे समवत्तधानीम् १७
पार्श्वयोः पात्र्यौ १८
स्फ्यं दक्षिणे पार्श्वे १९
सव्ये कृष्णाजिनम् २०
उपस्थेऽरणी २१
ऊर्वोरष्ठीवतोश्चोलूखलमुसले २२
पत्तोऽग्निहोत्रपात्राणि २३
तानि घृतेन पृषदाज्येन वा पूरयित्वाभिघार्याजं बध्नीयाद् दर्भमयेनाबलेन वा २४
अजं द्रवन्तमनुमन्त्रयते अजो भागः इति २५
अयं वै त्वमस्मादयं ते योनिस्त्वमस्य योनिः । पिता पुत्रस्य लोककुज्जातवेदः । वहस्वैनं सुकृताँ यत्र लोकः । अयं वै त्वामजनयदयं त्वयि जायतामसौ स्वाहा इति स्रुवेण हुत्वोदङ्ङुत्क्रामन्ति २६
उपोषन्त्यग्निभिः २७
प्रगृह्योल्मुकेन मैनमग्ने विदहः इति संप्रदीप्ते दश जपित्वा सव्यावृत्तोऽनवेक्षमाणाः प्रागुदञ्चः प्रक्रान्तान्मृत्योः पदमित्यनुमन्त्रयते द्वाभ्याम् २८
आचार्यस्य च मातापित्रोर्वपित्वा तीर्थं गत्वा तस्य पश्चात् तिर्यक् त्रीनुन्मृज्ज्य तेष्वश्मनो निधाय पलाशशाखे ग्रन्थिं कृत्वा तयोरधोऽतिक्रामन्ति २९
देवस्य सवितुः पवित्रं सहस्रधारं विततमन्तरिक्षे
येनापुनदिन्द्रमनार्तमार्त्यै तेनाहं सर्वतनुं पुनामि
इत्यनुमन्त्र्य एतान् पृथग् जघन्यः शाखे व्यत्यस्येत् ३०
या राष्ट्रात्पर्णादुपयन्ति शाखा अभीवृता नृपतिमिच्छमानाः
धातुस्थाः सर्वाः पवनेन शुद्धाः पूता भवत यज्ञियासः इति ३१
अथ चतुर्थः खण्डः
आपो हिष्ठा स ना च सोम इत्युदकं स्पृशन्ति सूक्ताभ्याम् १
शिरसि गोमयं कृत्वा शुष्कमनुस्रोतसमनुपनिमज्जन्तोऽसन्तापमानाः २
आपो अस्मान् इत्याकृष्योदकं प्रसिञ्चेयुः एतत्त उदकमपोऽसौ इत्यपो भूमौ निषिञ्चन्ति त्रिरुपस्पृश्योपस्पृश्य ३
सञ्चित्वापि ४
एकैकामन्यत्रोभयतः काल आ प्रदानात् ५
ग्रामं गत्वा द्वार्युदपात्रे दूर्वायवसर्षपानोप्यार्द्रगोमये निधाय अश्मन्वतीः इत्यभ्यक्तमश्मानमुदपात्रं च संमृशति ६
तच्चक्षुः इत्यादित्यमुपस्थाय रात्रौ चेतनर्चाग्निमुपस्थाय ७
तन्तून् वा दशासु बध्वा ८
अधःशय्या हविष्यभक्षता प्रत्यूहनं च कर्मणामेकरात्रं त्रिरात्रं नवरात्रं वा ९
नाघाहानि वर्धयेयुरिति ह
स्माह कौषीतकिः १०
अथ पञ्चमः खण्डः
आ वा संचयनाद्व्रतानि १
अपरपक्षे सञ्चिनोति २
अशान्तेऽग्नावेके ३
गत्वा दहनं दक्षिणतोऽङ्गारान्निरूह्याहुतीस्तिस्रो जुहोति अवसृज पुनरग्ने
इत्येताभिस्तिसृभिः ४
उदुम्बरशाखाभिः क्षीरोदकैरभ्यवोक्षति यं ते
अग्निं मन्थाम वृषभायेच पक्तवे
इमं तं शमयामसि क्षीरेण चोदकेन च
यं त्वमग्ने समदहस्तमु निर्वापया पुनः
कियांम्ब्वत्र रोहतु पाकदूर्वा व्यल्कशा
शीतिके शीतिकावति ह्वादिके द्वादिकावति
मण्डूक्या सु सङ्गमेमं स्वग्निं शमय ५
शं ते स्रवन्तीस्तन्वापः शमु ते सन्तु कूप्याः ।
शं ते धन्वन्या आपः शमु ते सन्तु नृप्याः
शं ते समुद्रिया आपः शमु ते सन्तु वर्ष्याः
शं ते नीहारो वर्षतु शमु कृष्वावशीयताम्
इत्यद्भिरभ्युपोक्षति ६
अथ षष्ठः खण्डः
पुराणे कुम्भे शरीराण्योप्य उपसर्प मातरमिति तिसृभिररण्ये निखनन्ति १
उत्ते स्तभ्नामि इति लोष्टेनापिधाय २
प्रवसतस्तु प्रेतस्यापि वान्यवत्सायाः पयसा तूष्णींन्यायमग्निहोत्रम् ३
अधस्ताद्धारणं समिधः ४
आ शरीराणां अङ्गमाददर्शने शरीराणां चत्वारिंशच्छिरसि ग्रीवायां दशांसान्वांसयोः बाहुभ्यां शतमङ्गुलीभिर्दशोरसि त्रिंशज्जठरे विंशतिः षळ् वृषणयोः शिश्ने चत्वार्यूरुभ्यां शतं त्रिंशज्जानुजङ्घाष्ठीवतोः पादतोऽङ्गुलीभिर्दश । एवं त्रीणि षष्टिशतानि पलाशवृन्तानामाहृत्य पुरुषाकृतिं कृत्वोर्णासूत्रैः परिवेष्ट्य यवचूर्णैः परिलिप्य सर्पिषा सन्नीय दीपनप्रभृति समानम् ५
इच्छन्पत्नीं पूर्वमारिणीमग्निभिः संस्कृत्य सान्तपनेन वान्यामानीय ततः पुनरादधीत ६
अथ सप्तमः खण्डः
व्रतापवर्गे श्राद्धकर्म यथाश्राद्धम् १
अयमोदनः कामदुघोस्त्वनन्तोऽक्षीयमाणः सुरभिः सर्वकामी
स त्वोपतिष्ठत्वजरो नित्यपूतः स्वधां दुहानो महतीं तर्पयत्वसौ
इत्येकपिण्डस्य २
अञ्जनाभ्यञ्जनप्रभृति समानम् ३
अथ अष्टमः खण्डः
तस्यापवर्गे परिधिकर्म १
आनळुहं लोहितं चर्म प्राग्ग्रीवं वोदग्ग्रीवं वोत्तरलोम पश्चादग्नेरुपस्तीर्य तस्मिन्नुपविश्य २
अन्तरेणाग्निमेतांश्चाश्मानं निदधाति ३
शम्याः परिधीन् कृत्वा शमीमयमिध्मं पालाशं वारुणेन स्रुवेण कंसेन वा
जुहोतीत्युपस्थकृतः समन्वारब्धेषु ४
इमं जीवेभ्यः परैतु मृत्युरमृतं न आगन् वैवस्वतो अभयं नः कृणोतु
पर्णं वनस्पतेरिवाभिनश्शीयतां रयिः सचतां नः शचीपातः
याश्चारुणेः दशान्वाधान इति अप नः शाशुचदघमिति सप्त अग्ने नय यस्त्वा
हृदा त्वं नो अग्ने अधरादुदक्तात् इति द्वादश हुत्वा यथाहानि इति दक्षिणमंसं द्वाभ्यां समीक्ष्याञ्जनं सर्पिषा सन्नीय दर्भपिञ्जूलैः स्त्रीणामक्षीण्यनक्ति इमा नारीः इति सकृन्मन्त्रेण द्विस्तूष्णीम् ५
ब्राह्मणस्य बाहुमन्वारब्धां वा गोर्वा पुच्छमुत्तिष्ठतोऽनुमन्त्रयते उत्तिष्ठ ब्रह्मणस्पते इति ६
अनड्वानहतं वासः कंसश्च दक्षिणा ७
दक्षिणातो वा चित्तम् ८
नि वर्तध्वमिति सूक्तेन प्रत्येनाः प्रदक्षिणमग्निं प्रदक्षिणं त्रिः पर्येति ९
प्रत्येनसि परिधिकर्म १०
एष एव बानाहिताग्नेः कल्पः ११
राजगवीमामिक्षामुल्मुकमुद्धृत्य सर्वमन्यत्समानं सर्वमन्यत्समानम् १२
इति कौषीतकगृह्यस्य पञ्चमोऽध्यायः
कौषीतकगृह्यश्च समाप्तः