विमानस्थान

प्रथमोऽध्यायः
अथातो रसविमानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसंख्याप्राधान्यविधिविकल्पबलकालविशेषाननुप्रविश्यानन्तरं दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानमवहितमनसा यथावज्ज्ञेयं भवति भिषजा दोषादिमानज्ञानायत्तत्वात् क्रियायाः न ह्यमानज्ञो दोषादीनां भिषग् व्याधिनिग्रहसमर्थो भवति तस्माद्दोषादिमानज्ञानार्थं विमानस्थानमुपदेक्ष्यामोऽग्निवेश ३
तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः रसास्तावत् षट्--मधुराम्ललवणकटुतिक्तकषायाः ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते ४
दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः ते प्रकृतिभूताः शरीरोपकारका भवन्ति विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति ५
तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति त्रयस्त्रयश्चोपशमयन्ति तद्यथाकटुतिक्तकषाया वातं जनयन्ति मधुराम्ललवणास्त्वेनं शमयन्ति कट्वम्ललवणाः पित्तं जनयन्ति मधुरतिक्तकषायास्त्वेनच्छमयन्ति मधुराम्ललवणाः श्लेष्माणं जनयन्ति कटुतिक्तकषायास्त्वेनं शमयन्ति ६
रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तानभिवर्धयन्ति विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति एतद्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां त्रित्वं च दोषाणाम् ७
संसर्गविकल्पविस्तरो ह्येषामपरिसंख्येयो भवति विकल्पभेदापरिसंख्येयत्वात् ८
तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत् ९
न त्वेवं खलु सर्वत्र न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम् १०
तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत् ११
तस्माद्रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावतश्च तत्त्वमुपदेक्ष्यामः १२
तत्रैष रसप्रभाव उपदिष्टो भवति द्रव्यप्रभावं पुनरुपदेक्ष्यामः तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भवन्ति १३
तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद्वातं जयति सततमभ्यस्यमानं वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति विरुद्धगुणसन्निपाते हि भूयसाऽल्पमवजीयते तस्मात्तैलं वातं जयति सततमभ्यस्यमानम् सर्पिः खल्वेवमेव पित्तं जयति माधुर्याच्छैत्यान्मन्दत्वाच्च पित्तं ह्यमधुरमुष्णं तीक्ष्णं च मधु च श्लेष्माणं जयति रौक्ष्यात्तैक्ष्ण्यात् कषायत्वाच्च श्लेष्मा हि स्निग्धो मन्दो मधुरश्च यच्चान्यदपि किञ्चिद्द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात्तचैताञ्जयत्यभ्यस्यमानम् १४
अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्यः तद्यथा--पिप्पली क्षारः लवणमिति १५
पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्यो नात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्च ताः सद्यः शुभाशुभकारिण्यो भवन्ति आपातभद्राः प्रयोगसमसाद्गुण्यात् दोषसञ्चयानुबन्धाः--सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति औष्ण्यात् पित्तं न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात् योगवाहिन्यस्तु खलु भवन्ति तस्मात्पिप्पलीर्नात्युपयुञ्जीत १६
क्षारः पुनरौष्ण्यतैक्ष्ण्यलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति स पचनदहनभेदनार्थमुपयुज्यते सोऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः संपद्यते ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति तद्यथा--प्राच्याश्चीनाश्च तस्मात् क्षारं नात्युपयुञ्जीत १७
लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम् अनतिगुरु अनतिस्निग्धम् उपक्लेदि विस्रंसनसमर्थम् अन्नद्रव्यरुचिकरम् आपातभद्रं प्रयोगसमसाद्गुण्यात् दोषसंचयानुबन्धं तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति तद्यथा--बाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः ते हि पयसाऽपि सह लवणमश्नन्ति येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति लवणोपहतत्वात् तस्माल्लवणं नात्युपयुञ्जीत ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति १८
तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमदोषमल्पदोषं वा भवति १९
सात्म्यं नाम यद् यदात्मन्युपशेते सात्म्यार्थो ह्युपशयार्थः तत्त्रिविधं प्रवरावरमध्यविभागेन सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च तत्र सर्वरसं प्रवरम् अवरमेकरसं मध्यं तु प्रवरावरमध्यस्थम् तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरमुपपादयेत् सात्म्यम् सर्वरसमपि च सात्म्यमुपपन्नः प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितमेवानुरुध्येत २०
तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति तद्यथा--प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि भवन्ति २१
तत्र प्रकृतिरुच्यते स्वभावो यः स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः तद्यथा--माषमुद्गयोः शूकरैणयोश्च १
करणं पुनः स्वाभाविकानां द्रव्याणामभिसंस्कारः संस्कारो हि गुणान्तराधानमुच्यते ते गुणास्तोयाग्निसन्निकर्षशौचमन्थनदेशकालवासनभावनादिभिः कालप्रकर्षभाजनादिभिश्चाधीयन्ते २
संयोगः पुनर्द्वयोर्बहूनां वा द्रव्याणां संहतीभावः स विशेषमारभते यं पुनर्नैकैकशो द्रव्याण्यारभन्ते तद्यथा मधुसर्पिषोः मधुमत्स्यपयसां च संयोगः ३
राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थः तत्र सर्वस्याहारस्य प्रमाणग्रहणमेकपिण्डेन सर्वग्रहाः परिग्रहः पुनः प्रमाणग्रहणमेकैकश्येनाहारद्रव्याणाम् सर्वस्य हि ग्रहः सर्वग्रहः सर्वतश्च ग्रहः परिग्रह उच्यते ४
देशः पुनः स्थानं स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे ५
कालो हि नित्यगश्चावस्थिकश्च तत्रावस्थिको विकारमपेक्षते नित्यगस्तु ऋतुसात्म्यापेक्षः ६
उपयोगसंस्था तूपयोगनियमः स जीर्णलक्षणापेक्षः ७
उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते यदायत्तमोकसात्म्यम् इत्यष्टावाहारविधिविशेषायतनानि व्याख्यातानि भवन्ति २२
एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति तान् बुभुत्सेत बुद्ध्वा च हितेप्सुरेव स्यात् न च मोहात् प्रमादाद्वा प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा किञ्चित् २३
तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषांञ्चित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवतिउष्णं स्निग्धं मात्रावत् जीर्णे वीर्याविरुद्धम् इष्टे देशे इष्टसर्वोपकरणं नातिद्रुतं नातिविलम्बितम् अजल्पन् अहसन् तन्मना भुञ्जीत आत्मानमभिसमीक्ष्य सम्यक् २४
तस्य साद्गुण्यमुपदेक्ष्यामः -- उष्णमश्नीयात् उष्णं हि भुज्यमानं स्वदते भुक्तं चाग्निमौदर्यमुदीरयति क्षिप्रं जरां गच्छति वातमनुलोमयति श्लेष्माणं च परिह्रासयति तस्मादुष्णमश्नीयात् १
स्निग्धमश्नीयात् स्निग्धं हि भुज्यमानं स्वदते भुक्तं चानुदीर्णमग्निमुदीरयति क्षिप्रं जरां गच्छति वातमनुलोमयति शरीरमुपचिनोति दृढीकरोतीन्द्रियाणि बलाभिवृद्धिमुपजनयति वर्णप्रसादं चाभिनिर्वर्तयति तस्मात् स्निग्धमश्नीयात् २
मात्रावदश्नीयात् मात्रावद्धि भुक्तं वातपित्तकफानपीडयदायुरेव विवर्धयति केवलं सुखं गुदमनुपर्येति न चोष्माणमुपहन्ति अव्यथं च परिपाकमेति तस्मान्मात्रावदश्नीयात् ३
जीर्णेऽश्नीयात् अजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमाहारजातं सर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं तस्माज्जीर्णेऽश्नीयात् ४
वीर्याविरुद्धमश्नीयात् अविरुद्धवीर्यमश्नन् हि विरुद्धवीर्याहारजैर्विकारैर्नोपसृज्यते तस्माद्वीर्याविरुद्धमश्नीयात् ५
इष्टे देशे इष्टसर्वोपकरणं चाश्नीयात् इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकरैर्भावैर्मनोविघातं प्राप्नोति तथैवेष्टैः सर्वोपकरणैः तस्मादिष्टे देशे तथेष्टसर्वोपकरणं चाश्नीयात् ६
नातिद्रुतमश्नीयात् अतिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च भोज्यदोषसाद्गुण्योपलब्धिश्च न नियता तस्मान्नातिद्रुतमश्नीयात् ७
नातिविलम्बितमश्नीयात् अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति बहु भुङ्क्ते शीतीभवत्याहारजातं विषमं च पच्यते तस्मान्नातिविलम्बितमश्नीयात् ८
अजल्पन्नहसन् तन्मना भुञ्जीत जल्पतो हसतोऽन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति य एवातिद्रुतमश्नतः तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत ९
आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक् इदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्यस्यात्मन आत्मसात्म्यम् भवति तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति २५
भवति चात्र--
रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः
वेद यो देशकालौ च शरीरं च स नो भिषक् २६
तत्र श्लोकौ--
विमानार्थो रसद्रव्यदोषरोगाः प्रभावतः
द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च २७
आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च
विमाने रससंख्याते सर्वमेतत् प्रकाशितम् २८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम
प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातस्त्रिविधकुक्षीयं विमानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः तद्यथा--एकमवकाशांशं मूर्तानामाहारविकाराणाम् एकं द्रवाणाम् एकं पुनर्वातपित्तश्लेष्मणाम् एतावतीं ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति ३
न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां प्रविभक्तफलत्वात् ४
तत्रायं तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थः प्रकृतः एतावानेव ह्याहारराशिविधिविकल्पो यावन्मात्रावत्त्वममात्रावत्त्वं च ५
तत्र मात्रावत्त्वं पूर्वमुद्दिष्टं कुक्ष्यंशविभागेन तद्भूयो विस्तरेणानुव्याख्यास्यामः तद्यथा--कुक्षेरप्रपीडनमाहारेण हृदयस्यानवरोधः पार्श्वयोरविपाटनम् अनतिगौरवमुदरस्य प्रीणनमिन्द्रियाणां क्षुत्पिपासोपरमः स्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसंकथासु सुखानुवृत्तिः सायं प्रातश्च सुखेन परिणमनं बलवर्णोपचयकरत्वं च इति मात्रावतो लक्षणमाहारस्य भवति ६
अमात्रावत्त्वं पुनर्द्विविधमाचक्षते--हीनम् अधिकं च तत्र हीनमात्रमाहारराशिं बलवर्णोपचयक्षयकरमतृप्तिकरमुदावर्तकरमनायुष्यवृष्यमनौजस्यं शरीरमनोबुद्धीइन्द्रियोपघातकरं सारविधमनमलक्ष्म्यावहमशीतेश्च वातविकाराणामायतनमाचक्षते अतिमात्रं पुनः सर्वदोषप्रकोपणमिच्छन्ति कुशलाः यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवैस्तृप्तिमापद्यते भूयस्तस्यामाशयगता वातपित्तश्लेष्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीड्यमानाः सर्वे युगपत् प्रकोपमापद्यन्ते ते प्रकुपितास्तमेवाहारराशिमपरिणतमाविश्य कुक्ष्येकदेशमन्नाश्रिता विष्टम्भयन्तः सहसा वाऽप्युत्तराधराभ्यां मार्गाभ्यां प्रच्यावयन्तः पृथक् पृथगिमान् विकारानभिनिर्वर्तयन्त्यतिमात्रभोक्तुः तत्र वातः शूलानाहाङ्गमर्दमुखशोषमूर्च्छाभ्रमाग्निवैषम्यपार्श्वपृष्ठकटिग्रहसिराकुञ्चनस्तम्भनानि करोति पित्तं पुनर्ज्वरातीसारान्तर्दाहतृष्णामदभ्रमप्रलपनानि श्लेष्मा तु छर्द्यरोचकाविपाकशीतज्वरालस्यगात्रगौरवाणि ७
न च खलु केवलमतिमात्रमेवाहारराशिमामप्रदोषकरमिच्छन्ति अपि तु खलु गुरुरूक्षशीतशुष्कद्विष्टविष्टम्भिविदाह्यशुचिविरुद्धानामकाले चान्नपानानामुपसेवनं कामक्रोधलोभमोहेर्ष्याह्रीशोकमानोद्वेगभयोपतप्तमनसा वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति ८
भवति चात्र--
मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति
चिन्ताशोकभयक्रोधदुःखशय्याप्रगागरैः ९
तं द्विविधमामप्रदोषमाचक्षते भिषजः--विसूचिकाम् अलसकं च १०
तत्र विसूचिकामूर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात् ११
अलसकमुपदेक्ष्यामः--दुर्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहुरूक्षशीतशुष्कान्नसेविनस्तदन्नपानमलिनप्रपीडितं श्लेष्मणा च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्न बहिर्मुखीभवति ततश्छर्द्यतीसारवर्ज्यान्यामप्रदोषलिङ्गान्यभिदर्शयत्यतिमात्राणि अतिमात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छन्तः कदाचिदेव केवलमस्य शरीरं दण्डवत् स्तम्भयन्ति ततस्तं दण्डालसकमसाध्यं ब्रुवते विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरामदोषमामविषिमित्याचक्षते भिषजः विषसदृशलिङ्गत्वात् तत् परमसाध्यम् आशुकारित्वाद्विरुद्धोपक्रमत्वाच्चेति ॥ १२
तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि ततः स्वेदनवर्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम् विसूचिकायां तु लङ्घनमेवाग्रे विरिक्तवच्चानुपूर्वी आमप्रदोषेषु त्वन्नकाले जीर्णाहारं पुनर्दोषावलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधमग्निसंधुक्षणार्थं च नत्वेवाजीर्णाशनम् आमप्रदोषदुर्बलो ह्यग्निर्न युगपद्दोषमौषधमाहारजातं च शक्तः पक्तुम् अपि चामप्रदोषाहारौषधविभ्रमोऽतिबलत्वादुपरतकायाग्निं सहसैवातुरमबलमतिपातयेत् आमप्रदोषजानां पुनर्विकाराणामपतर्पणेनैवोपरमो भवति सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे निमित्तविपरीतमपास्यौषधमातङ्कविपरीतमेवावचारयेद्यथास्वम् सर्वविकाराणामपि च निग्रहे हेतुव्याधिविपरीतमौषधमिच्छन्ति कुशलाः तदर्थकारि वा विमुक्तामप्रदोषस्य पुनः परिपक्वदोषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विधिवत् स्नेहपानं च युक्त्या प्रयोज्यं प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च सम्यगिति १३
भवति चात्र--
आहारविध्यायतनानि चाष्टौ सम्यक् परीक्ष्यात्महितं विदध्यात् अन्यश्च यः कश्चिदिहास्ति मार्गो हितोपयोगेषु भजेत तं च १४
अशितं खादितं पीतं लीढं च क्व विपच्यते
एतत्त्वां धीर पृच्छामस्तन्न आचक्ष्व बुद्धिमन् १५
इत्यग्निवेशप्रमुखैः शिष्यैः पृष्टः पुनर्वसुः
आचचक्षे ततस्तेभ्यो यत्राहारो विपच्यते १६
नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः
अशितं खादितं पीतं लीढं चात्र विपच्यते १७
आमाशयगतः पाकमाहारः प्राप्य केवलम्
पक्वः सर्वाशयं पश्चाद्धमनीभिः प्रपद्यते १८
तत्र श्लोकः--
तस्य मात्रावतो लिङ्गं फलं चोक्तं यथायथम्
अमात्रस्य तथा लिङ्गं फलं चोक्तं विभागशः १९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधकुक्षीयविमानं
नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे गङ्गातीरे वनविचारमनुविचरञ्छिष्यमग्निवेशमब्रवीत् ३
दृश्यन्ते हि खलु सौम्य नक्षत्रग्रहगणचन्द्रसूर्यानिलानलानां दिशां चाप्रकृतिभूतानामृतुवैकारिका भावाः अचिरादितो भूरपि च न यथावद्रसवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति तद्वियोगाच्चातङ्कप्रायता नियता तस्मात् प्रागुद्ध्वंसात् प्राक् च भूमेर्विरसीभावादुद्धरध्वं सौम्य भैषज्यानि यावन्नोपहतरसवीर्यविपाकप्रभावाणि भवन्ति वयं चैषां रसवीर्यविपाकप्रभावानुपयोक्ष्यामहे ये चास्माननुकाङ्क्षन्ति यांश्च वयमनुकाङ्क्षामः न हि सम्यगुद्धृतेषु सौम्य भैषज्येषु सम्यग्विहितेषु सम्यक् चावचारितेषु जनपदोद्ध्वंसकराणां विकाराणां किंचित् प्रतीकारगौरवं भवति ४
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच--उद्धृतानि खलु भगवन् भैषज्यानि सम्यग्विहितानि सम्यगवचारितानि च अपि तु खलु जनपदोद्ध्वंसनमेकेनैव व्याधिना युगपदसमानप्रकृत्याहारदेहबलसात्म्यसत्त्ववयसां मनुष्याणां कस्माद्भवतीति ५
तमुवाच भगवानात्रेयः--एवमसामान्यावतामप्येभिरग्निवेश प्रकृत्यादिभिर्भावैर्मनुष्याणां येऽन्ये भावाः सामान्यास्तद्वैगुण्यात् समानकालाः समानलिङ्गाश्च व्याधयोऽभिनिर्वर्तमाना जनपदमुद्ध्वंसयन्ति ते तु खल्विमे भावाः सामान्या जनपदेषु भवन्ति तद्यथावायुः उदकं देशः काल इति ६
तत्र वातमेवंविधमनारोग्यकरं विद्यात् तद्यथा--यथर्तुविषममतिस्तिमितमतिचलमतिपरुषमतिशीतमत्युष्णतिरूक्षमत्यभिष्यन्दिनमति-भैरवारावमतिप्रतिहतपरस्परगतिमतिकुण्डलिनमसात्म्यगन्धबाष्पसिकतापांशुधूमोप-हतमिति १
उदकं तु खल्वत्यर्थविकृतगन्धवर्णरसस्पर्शं क्लेदबहुलमपक्रान्तजलचरविहङ्गमुपक्षीणजलेशयमप्रीतिकरमपगतगुणं विद्यात् २
देशं पुनः प्रकृतिविकृतवर्णगन्धरसस्पर्शं क्लेदबहुलमुपसृष्टं सरीसृपव्यालमशकशलभमक्षिकामूषकोलूकश्माशानिकशकुनिजम्बूकादिभिस्तृणो-लूपोपवनवन्तं प्रतानादिबहुलमपूर्ववदवपतितशुष्कनष्टशस्यं धूम्रपवनं प्रध्मातपतत्रिगुणमुत्क्रुष्टश्वगणमुद्भ्रान्तव्यथितविविधमृगपक्षिङ्घमुत्सृष्टनष्टधर्मसत्यल-ज्जाचारशीलगुणजनपदं शश्वत्क्षुभितोदीर्णसलिलाशयं प्रततोल्कापातनिर्घातभूमिकम्पमतिभयारावरूपं रूक्षताम्रारुणसिताभ्रजालसंवृतार्क-चन्द्रतारकमभीक्ष्णं ससंभ्रमोद्वेगमिव सत्रासरुदितमिव स्तमस्कमिव गुह्यकाचरितमिवाक्रन्दितशब्दबहुलं चाहितं विद्यात् ३
कालं तु खलु यथर्तुलिङ्गाद्विपरीतलिङ्गमतिलिङ्गं हीनलिङ्गं चाहितं व्यवस्येत् ४
इमानेवंदोषयुक्तांश्चतुरो भावाञ्जनपदोद्ध्वंसकरान् वदन्ति कुशलाः अतोऽन्यथाभूतांस्तु हितानाचक्षते ७
विगुणेष्वपि खल्वेतेषु जनपदोद्ध्वंसकरेषु भावेषु भेयजेनोपपाद्यमानानामभयं भवति रोगेभ्य इति ८
भवन्ति चात्र--
वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम्
गरीयस्त्वं विशेषेण हेतुमत् संप्रवक्ष्यते ९
वाताज्जलं जलाद्देशं देशात् कालं स्वभावतः
विद्याद्दुष्परिहार्यत्वाद्गरीयस्तरमर्थवित् १०
वाय्वादिषु यथोक्तानां दोषाणां तु विशेषवित्
प्रतीकारस्य सौकर्ये विद्याल्लाघवलक्षणम् ११
चतुर्ष्वपि तु दुष्टेषु कालान्तेषु यदा नराः
मेषजेनोपपाद्यन्ते न भवन्त्यातुरास्तदा १२
येषां न मृत्युसामान्यं सामान्यं न च कर्मणाम्
कर्म पञ्चविधं तेषां भेषजं परमुच्यते १३
रसायनानां विधिवच्चोपयोगः प्रशस्यते
शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतैः १४
सत्यं भूते दया दानं बलयो देवतार्चनम्
सद्वृत्तस्यानुवृत्तिश्च प्रशमो गुप्तिरात्मनः १५
हितं जनपदानां च शिवानामुपसेवनम्
सेवनं ब्रह्मचर्यस्य तथैव ब्रह्मचारिणाम् १६
संकथा धर्मशास्त्राणां महर्षीणां जितात्मनाम्
धार्मिकैः सात्त्विकैर्नित्यं सहास्या वृद्धसंमतैः ॥ १७
इत्येतद्भेषजं प्रोक्तमायुषः परिपालनम्
येषामनियतो मृत्युस्तस्मिन् काले सुदारुणे १८
इति श्रुत्वा जनपदोद्ध्वंसने कारणानि पुनरपि भगवन्तमात्रेयमग्निवेश उवाच--अथ खलु भगवन् कुतो मूलमेषां वाय्वादीनां वैगुण्यमुत्पद्यते येनोप्पपन्ना जनपदमुद्ध्वंसयन्तीति १९
तमुवाच भगवानात्रेयः--सर्वेषामप्यग्निवेश वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्मः तन्मूलं वाऽसत्कर्म पूर्वकृतं तयोर्योनिः प्रज्ञापराध एव तद्यथायदा वै देशनगरनिगमजनपदप्रधाना धर्ममुत्क्रम्याधर्मेण प्रजां वर्तयन्ति तदाश्रितोपाश्रिताः पौरजानपदा व्यवहारोपजीविनश्च तमधर्ममभिवर्धयन्ति ततः सोऽधर्मः प्रसभं धर्ममन्तर्धत्ते ततस्तेऽन्तर्हितधर्माणो देवताभिरपि त्यज्यन्ते तेषां तथाऽन्तर्हितधर्मणामधर्मप्रधानानामपक्रान्तदेवतानामृतवो व्या पद्यन्ते तेन नापो यथाकालं देवो वर्षति न वा वर्षति वाता न सम्यगभिवान्ति क्षितिर्व्यापद्यते सलिलान्युपशुष्यन्ति ओषधयः स्वभावं परिहायापद्यन्ते विकृतिं तत उद्ध्वंसन्ते जनपदाः स्पृश्याभ्यवहार्यदोषात् २०
तथा शस्त्रप्रभवस्यापि जनपदोद्ध्वंसस्याधर्म एव हेतुर्भवति येऽतिप्रवृद्धलोभक्रोधमोहमानास्ते दुर्बलानवमत्यात्मस्वजनपरोपघाताय शस्त्रेण परस्परमभिक्रामन्ति परान् वाऽभिक्रामन्ति परैर्वाऽभिक्राम्यन्ते २१
रक्षोगणादिभिर्वा विविधैर्भूत्सङ्घैस्तमधर्ममन्यद्वाऽप्यपचारान्तरमुपलभ्याभिहन्यन्ते २२
तथाऽभिशापप्रभवस्याप्यधर्म एव हेतुर्भवति ये लुप्तधर्माणो धर्मादपेतास्ते गुरुवृद्धसिद्धर्षिपूज्यानवमत्याहितान्याचरन्ति ततस्ताः प्रजा गुर्वादिभिरभिशप्ता भस्मतामुपयान्ति प्रागेवानेकपुरुषकुलविनाशाय नियतप्रत्ययोपलम्भादनियताश्चापरे २३
प्रागपि चाधर्मादृते नाशुभोत्पत्तिरन्यतोऽभूत् आदिकाले ह्यदितिसुतसमौजसोऽतिविमलविपुलप्रभावाः प्रत्यक्षदेवदेवर्षिधर्मयज्ञविधिविधानाः शैलसारसंहतस्थिरशरीराः प्रसन्नवर्णेन्द्रियाः पवनसमबलजवपराक्रमाश्चारुस्फिचोऽभिरूपप्रमाणाकृतिप्रसादोपचयवन्तः सत्यार्जवानृशंस्यदानदमनियमतपऊपवासब्रह्मचर्यव्रतपरा व्यपगतभयरागद्वेषमोहलोभक्रोधशोकमानरोगनिद्रातन्द्राश्रमक्लमालस्यपरिग्रहाश्च पुरुषाबभूवुरमितायुषः तेषामुदारसत्त्वगुणकर्मणामचिन्त्यरसवीर्यविपाकप्रभावगुणसमुदितानि प्रादुर्बभूवुः शस्यानि सर्वगुणसमुदितत्वात् पृथिव्यादीनां कृतयुगस्यादौ भ्रश्यति तु कृतयुगे केषांचिदत्यादानात् सांपन्निकानां सत्त्वानां शरीरगौरवमासीत् शरीरगौरवाच्छ्रमः श्रमादालस्यम् आलस्यात् संचयः संचयात् परिग्रहः परिग्रहाल्लोभः प्रादुरासीत् कृते ततस्त्रेतायां लोभादभिद्रोहः अभिद्रोहादनृतवचनम् अनृतवचनात् कामक्रोधमानद्वेषपारुष्याभिघातभयतापशोकचिन्तोद्वेगादयः प्रवृत्ताः ततस्त्रेतायां धर्मपादोऽन्तर्धानमगमत् तस्यान्तर्धानात् युगवर्षप्रमाणस्य पादह्रासः पृथिव्यादेश्च गुणपादप्रणाशोऽभूत् तत्प्रणाशकृतश्च शस्यानां स्नेहवैमल्यरसवीर्यविपाकप्रभावगुणपादभ्रंशः ततस्तानि प्रजाशरीराणि हीयमानगुणपादैराहारविहारैरयथापूर्वमुपष्टभ्यमानान्यग्निमारुतपरीतानि प्राग्व्याधिभिर्ज्वरादिभिराक्रान्तानि अतः प्राणिनो ह्रासमवापुरायुषः क्रमश इति २४
भवतश्चात्र--
युगे युगे धर्मपादः क्रमेणानेन हीयते
गुणपादश्च भूतानामेवं लोकः प्रलीयते २५
संवत्सरशते पूर्णे याति संवत्सरः क्षयम्
देहिनामायुषः काले यत्र यन्मानमिष्यते २६
इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवति २७
एवंवादिनं भगवन्तमग्निवेश उवाच किन्नु खलु भगवन् नियतकालप्रमाणमायुः सर्वं न वेति २८
तं भगवानुवाच--
इहाग्निवेश भूतानामायुर्युक्तिमपेक्षते
दैवे पुरुषकारे च स्थितं ह्यस्य बलाबलम् २९
दैवमात्मकृतं विद्यात् कर्म यत् पौर्वदैहिकम्
स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ३०
बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः
दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम् ३१
तयोरुदारयोर्युक्तिर्दीर्घस्य च सुखस्य च
नियतस्यायुषो हेतुर्विपरीतस्य चेतरा ३२
मध्यमा मध्यमस्येष्टा कारणं शृणु चापरम्
दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते ३३
दैवेन चेतरत् कर्म विशिष्टेनोपहन्यते
दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः ३४
कर्म किंचित् क्वचित् काले विपाके नियतं महत्
किंचित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते ३५
तस्मादुभयदृष्टत्वादेकान्तग्रहणमसाधु निदर्शनमपि चात्रोदाहरिष्यामःयदि हि नियतकालप्रमाणमायुः सर्वं स्यात् तदाऽऽयुष्कामाणां न मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययप्रणिपातगमनाद्याः क्रिया इष्टयश्च प्रयोज्येरन् नोद्भ्रान्तचण्डचपलगोगजोष्ट्रखरतुरगमहिषादयः पवनादयश्च दुष्टाः परिहार्याः स्युः न प्रपातगिरिविषमदुर्गाम्बुवेगाः तथा न प्रमत्तोन्मत्तोद्भ्रान्तचण्डचपलमोहलोभाकुलमतयः नारयः न प्रवृद्धोऽग्निः च विविधविषाश्रयाः सरीसृपोरगादयः न साहसं नादेशकालचर्या न नरेन्द्रप्रकोप इति एवमादयो हि भावा नाभावकराः स्युः आयुषः सर्वस्य नियतकालप्रमाणत्वात् न चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत् प्राणिनां व्यर्थाश्चारम्भकथाप्रयोगबुद्धयः स्युर्महर्षीणां रसायनाधिकारे नापीन्द्रो नियतायुषं शत्रुं वज्रेणाभिहन्यात् नाश्विनावार्तं भेषजेनोपपादयेतां न महर्षयो यथेष्टमायुस्तपसा प्राप्नुयुः न च विदितवेदितव्या महर्षयः ससुरेशाः सम्यक् पश्येयुरुपदिशेयुराचरेयुर्वा अपि च सर्वचक्षुषामेतत् परं यदैन्द्रं चक्षुः इदं चाप्यस्माकं तेन प्रत्यक्षं यथापुरुषसहस्राणामुत्थायोत्थायाहवं कुर्वतामकुर्वतां चातुल्यायुष्ट्वं तथा जातमात्राणामप्रतीकारात् प्रतीकाराच्च अविषविषप्राशिनां चाप्यतुल्यायुष्ट्वमेव न च तुल्यो योगक्षेम उदपानघटानां चित्रघटानां चोत्सीदतां तस्माद्धितोपचारमूलं जीवितम् अतो विपर्ययान्मृत्युः अपि च देशकालात्मगुणविपरीतानां कर्मणामाहारविकाराणां च कर्मोपयोगः सम्यक् त्यागः सर्वस्य चातियोगायोगमिथ्यायोगानां सर्वातियोगसंधारणम् असंधारणमुदीर्णानां च गतिमतां साहसानां च वर्जनम् आरोग्यानुवृत्तौ हेतुमुपलभामहे सम्यगुपदिशामः सम्यक् पश्यामश्चेति ३६
अतः परमग्निवेश उवाच एवं सत्यनियतकालप्रमाणायुषां भगवन् कथं कालमृत्युरकालमृत्युर्वा भवतीति ३७
तमुवाच भगवानात्रेयः--श्रूयतामग्निवेश यथा यानसमायुक्तोऽक्षः प्रकृत्यैवाक्षगुणैरुपेतः स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छेत् तथाऽऽयुः शरीरोपगतं बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति स मृत्युः काले यथा च स एवाक्षोऽतिभाराधिष्ठितत्वाद्विषमपथादपथादक्षचक्रभङ्गाद्वाह्यवाहकोषादणिमोक्षाद-नुपाङ्गात् पर्यसनाच्चान्तराऽवसानमापद्यते तथाऽऽयुरप्ययथाबलमारम्भादयथाग्न्यभ्यवहरणाद्विषमाभ्यवहरणाद्विषमशरीरन्यासाद-तिमैथुनादसत्संश्रयादुदीर्णवेगविनिग्रहाद्विधार्यवेगाविधारणाद्भूतविषवाय्वग्न्युपतापा-दभिघातादाहारप्रतीकारविवर्जनाच्चान्तराऽवसानमापद्यते स मृत्युरकाले तथा ज्वरादीनप्यातङ्कान्मिथ्योपचरितानकालमृत्यून् पश्याम इति ३८
अथाग्निवेशः पप्रच्छ किन्नु खलु भगवन् ज्वरितेभ्यः पानीयमुष्णं प्रयच्छन्ति भिषजो भूमिष्टं न तथा शीतम् अस्ति च शीतसाध्योऽपि धातुर्ज्वरकर इति ३९
तमुवाच भगवानात्रेयः ज्वरितस्य कायसमुत्थानदेशकालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णं प्रयछन्ति भिषजः ज्वरो ह्यामाशयसमुत्थः प्रायो भेषजानि चामाशयसमुत्थानां विकाराणां पाचनवमनापतर्पणसमर्थानि भवन्ति पाचनार्थं च पानीयमुष्णं तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भिषजो भूयिष्ठम् तद्धि तेषां पीतं वातमनुलोमयति अग्निं चोदर्यमुदीरयति क्षिप्रं जरां गच्छति श्लेष्माणं परिशोषयति स्वल्पमपि च पीतं तृष्णाप्रशमनायोपकल्पते तथायुक्तमपि चैतन्नात्यर्थोत्सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा प्रदेयम् उष्णेन हि दाहभ्रमप्रलापातिसारा भूयोऽभिवर्धन्ते शीतेन चोपशाम्यन्तीति ४०
भवति चात्र--
शीतेनोष्णकृतान् रोगाञ्छमयन्ति भिषग्विदः ये तु शीतकृता रोगास्तेषामुष्णं भिषग्जितम् ४१
एवमितरेषामपि व्याधीनां निदानविपरीतं भेषजं भवति यथा-- अपतर्पणनिमित्तानां व्याधीनां नान्तरेण पूरणमस्ति शान्तिः तथा पूरणनिमित्तानां व्याधीनां नान्तरेणापतर्पणम् ४२
अपतर्पणमपि च त्रिविधं -- लङ्घनं लङ्घनपाचनं दोषावसेचनं चेति ४३
तत्र लङ्घनमल्पबलदोषाणां लङ्घनेन ह्यग्निमारुतवृद्ध्या वातातपपरीतमिवाल्पमुदकमल्पो दोषः प्रशोषमापद्यते लङ्घनपाचने तु मध्यबलदोषाणां लङ्घनपाचनाभ्यां हि सूर्यसंतापमारुताभ्यां पांशुभस्मावकिरणैरिव चानतिबहूदकं मध्यबलो दोषः प्रशोषमापद्यते बहुदोषाणां पुनर्दोषावसेचनमेव कार्यं न ह्यभिन्ने केदारसेतौ पल्वलाप्रसेकोऽस्ति तद्वद्दोषावसेचनम् ४४
दोषावसेचनमन्यद्वा भेषजं प्राप्तकालमप्यातुरस्य नैवंविधस्य कुर्यात् तद्यथा--अनपवादप्रतीकारस्याधनस्यापरिचारकस्य वैद्यमानिनश्चण्डस्यासूयकस्य तीव्राधर्मारुचेरतिक्षीणबलमांसशोणितस्यासाध्यरोगोपहतस्य मुमूर्षुलिङ्गान्वितस्य चेति एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसाऽयशसा योगमृच्छतीति ४५
भवति चात्र--
तदात्वे चानुबन्धे वा यस्य स्यादशुभं फलम्
कर्मणस्तन्न कर्तव्यमेतद्बुद्धिमतां मतम् ४६
अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः
ज्ञेयः स जाङ्गलो देशः स्वल्परोगतमोऽपि च ४७
प्रचुरोदकवृक्षो यो निवातो दुर्लभातपः
अनूपो बहुदोषश्च समः साधारणो मतः ४८
तत्र श्लोकाः--
पूर्वरूपाणि सामान्या हेतवः सस्वलक्षणाः
देशोद्ध्वंसस्य भैषज्यं हेतूनां मूलमेव च ४९
प्राग्विकारसमुत्पत्तिरायुषश्च क्षयक्रमः
मरणं प्रति भूतानां कालाकालविनिश्चयः ५०
यथा चाकालमरणं यथायुक्तं च भेषजम्
सिद्धिं यात्यौषधं येषां न कुर्याद्येन हेतुना ५१
तदात्रेयोऽग्निवेशाय निखिलं सर्वमुक्तवान्
देशोद्ध्वंसनिमित्तीये विमाने मुनिसत्तमः ५२
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
त्रिविधं खलु रोगविशेषविज्ञानं भवन्ति तद्यथा आप्तोपदेशः प्रत्यक्षम् अनुमानं चेति ३
तत्राप्तोपदेशो नामाप्तवचनम् आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीथ्युपतापदर्शिनश्च तेषामेवंगुणयोगाद्यद्वचनं तत् प्रमाणम् अप्रमाणं पुनर्मत्तोन्मत्तमूर्खरक्तदुष्टादुष्टवचनमिति प्रत्यक्षं तु खलु तद्यत् स्वयमिन्द्रियैर्मनसा चोपलभ्यते अनुमानं खलु तर्को युक्त्यपेक्षः ४
त्रिविधेन खल्वनेन ज्ञानसमुदयेन पूर्वं परीक्ष्य रोगं सर्वथा सर्वमथोत्तरकालमध्यवसानमदोषं भवति न हि ज्ञानावयवेन कृत्स्ने ज्ञेये ज्ञानमुत्पद्यते त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाज्ज्ञानं ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते किं ह्यनुपदिष्टं पूर्वं यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात् तस्माद्द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम् अनुमानं च त्रिविधा वा सहोपदेशेन ५
तत्रेदमुपदिशन्ति बुद्धिमन्तः--रोगमेकैकमेवंप्रकोपणमेवंयोनिमेवमुत्थानमेवमात्मानमेवमधिष्ठानमेवंवेदनमेवंसंस्थान-मेवंशब्दस्पर्शरूपरसगन्धमेवमुपद्रवमेवंवृद्धिस्थानक्षयसमन्वितमेवमुदर्कमेवंनामान-मेवंयोगं विद्यात् तस्मिन्नियं प्रतीकारार्था प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ज्ञायते ६
प्रत्यक्षतस्तु खलु रोगतत्त्वं बुभुत्सुः सर्वैरिन्द्रियैः सर्वानिन्द्रियार्थानातुरशरीरगतान् परीक्षेत अन्यत्र रसज्ञानात् तद्यथा अन्त्रकूजनं सन्धिस्फुटनमङ्गुलीपर्वणां च स्वरविशेषांश्च ये चान्येऽपि केचिच्छरीरोपगताः शब्दाः स्युस्ताञ्छ्रोत्रेण परीक्षेत वर्णसंस्थानप्रमाणच्छायाः शरीरप्रकृतिविकारौ चक्षुर्वैषयिकाणि यानि चान्यान्यनुक्तानि तानि चक्षुषा परीक्षेत रसं तु खल्वातुरशरीरगतमिन्द्रियवैषयिकमप्यनुमानादवगच्छेत् न ह्यस्य प्रत्यक्षेण ग्रहणमुपपद्यते तस्मादातुरपरिप्रश्नेनैवातुरमुखरसं विद्यात्यूकापसर्पणेन त्वस्य शरीरवैरस्यं मक्षिकोपसर्पणेन शरीरमाधुर्यं लोहितपित्तसंदेहे तु किं धारिलोहितं लोहितपित्तं वेति श्वकाकभक्षणाद्धारिलोहितमभक्षणाल्लोहितपित्तमित्यनुमातव्यम् एवमन्यानप्यातुरशरीरगतान् रसानुनुमिमीत गन्धांस्तु खलु सर्वशरीरगतानातुरस्य प्रकृतिवैकारिकान् घ्राणेन परीक्षेत स्पर्शं च पाणिना प्रकृतिविकृतियुक्तम् इति प्रत्यक्षतोऽनुमानादुपदेशतश्च परीक्षणमुक्तम् ७
इमे तु खल्वन्येऽप्येवमेव भूयोऽनुमानज्ञेया भवन्ति भावाः तद्यथा--अग्निं जरणशक्त्या परीक्षेत बलं व्यायामशक्त्या श्रोत्रादीनि शब्दाद्यर्थग्रहणेन मनोऽर्थाव्यभिचरणेन विज्ञानं व्यवसायेन रजः सङ्गेन मोहमविज्ञानेन क्रोधमभिद्रोहेण शोकं दैन्येन हर्षमामोदेन प्रीतिं तोषेण भयं विषादेन धैर्यमविषादेन वीर्यमुत्थानेन अवस्थानमविभ्रमेण श्रद्धामभिप्रायेण मेधां ग्रहणेन संज्ञां नामग्रहणेन स्मृतिं स्मरणेन ह्रियमपत्रपणेन शीलमनुशीलनेन द्वेषं प्रतिषेधेन उपधिमनुबन्धेन धृतिमलौल्येन वश्यतां विधेयतया वयोभक्तिसात्म्यव्याधिसमुत्थानानि कालदेशोपशयवेदनाविशेषेण गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां दोषप्रमाणविशेषमपचारविशेषेण आयुषः क्षयमरिष्टैः उपस्थितश्रेयस्त्वं कल्पाणाभिनिवेशेन अमलं सत्त्वमविकारेण ग्रहण्यास्तु मृदुदारुणत्वं स्वप्नदर्शनमभिप्रायं द्विष्टेष्टसुखदुःखानि चातुरपरिप्रश्नेनैव विद्यादिति ८
भवन्ति चात्र--
आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च
अनुमानेन च व्याधीन् सम्यग्विद्याद्विचक्षणः ९
सर्वथा सर्वमालोच्य यथासंभवमर्थवित्
अथाध्यवस्येत्तत्त्वे च कार्ये च तदनन्तरम् १०
कार्यतत्त्वविशेषज्ञः प्रतिपत्तौ न मुह्यति
अमूढः फलमाप्नोति यदमोहनिमित्तजम् ११
ज्ञानबुद्धिप्रदीपेन यो नाविशति तत्त्ववित्
आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति १२
तत्र श्लोकौ--
सर्वरोगविशेषाणां त्रिविधं ज्ञानसंग्रहम्
यथा चोपदिशन्त्याप्ताः प्रत्यक्षं गृह्यते यथा १३
ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधीः
भावांस्त्रिरोगविज्ञाने विमाने मुनिरुक्तवान् १४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
त्रिविधरोगविशेषविज्ञानीयं विमानं नाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातः स्रोतसां विमानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषाः सर्वे हि भावा पुरुषे नान्तरेण स्त्रोतांस्यभिनिर्वर्तन्ते क्षयं वाऽप्यभिगच्छन्ति स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन ३
अपि चैके स्रोतसामेव समुदयं पुरुषमिच्छन्ति सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम् न त्वेतदेवं यस्य हि स्रोतांसि यच्च वहन्ति यच्चावहन्ति यत्र चावस्थितानि सर्वं तदन्यत्तेभ्यः अतिबहुत्वात् खलु केचिदपरिसङ्घ्येयान्याचक्षते स्रोतांसि परिसङ्ख्येयानि पुनरन्ये ४ ५
तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च प्रकोपविज्ञानतश्चानुव्याख्यास्यामः ये भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां विज्ञानाय चाज्ञानवताम् तद्यथा--प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च तदेतत् स्रोतसां प्रकृतिभूतत्वान्न विकारैरुपसृज्यते शरीरम् ६
तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति तद्यथाअतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् उदकवहानां स्रोतसां तालु मूलं क्लोम च प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति तद्यथा--जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति तद्यथा--अनन्नभिलषणमरोचकविपाकौ छर्दि च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः शोणितवहानां स्रोतसां यकृन्मूलं प्लीहा च मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च अस्थिवहानां स्रोतसां मेदो मूलं जघनं च मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च शुक्रवहानां स्रोतसां वृषणौ मूलं शोफश्च प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये यान्येव हि धातूनां प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम् मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति तद्यथा अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति तद्यथा--कृच्छ्रेणाल्पाल्पं सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च प्रदुष्टानां न खल्वेषामिदं विशेषविज्ञानं भवति तद्यथा--अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् ७-८
स्रोतांसि सिराः धमन्यः रसायन्यः रसवाहिन्यः नाड्यः पन्थानः मार्गाः शरीरच्छिद्राणि संवृतासंवृतानि स्थानानि आशयाः निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते इतरेषां प्रकोपादितराणि च स्रोतांसि स्रोतांस्येव धातवश्च धातूनेव प्रदूषयन्ति प्रदुष्टाः तेषां सर्वेषामेव वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति दोषस्वभावादिति ९
भवन्ति चात्र--
क्षयात् संधारणाद्रौक्ष्याद्व्यायामात् क्षुधितस्य च
प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः १०
औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात्
अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात् ११
अतिमात्रस्य चाकाले चाहितस्य च भोजनात्
मांसवाहीनि दुष्यन्ति वैगुण्यात् पावकस्य च १२
गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्
रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात् १३
विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च
रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ १४
अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च
मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा १५
अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात्
मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात् १६
व्यायामादतिसंक्षोभादस्थ्नामतिविघट्टनात्
अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात् १७
उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात्
मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात् १८
अकालयोनिगमनान्निग्रहादतिमैथुनात्
शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा १९
मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात्
मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च २०
संधारणादत्यशनादजीर्णाध्यशनात्तथा
वर्चोवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च २१
व्यायामादतिसंतापाच्छीतोष्णाक्रमसेवनात्
स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा २२
आहारश्च विहारश्च यः स्याद्दोषगुणैः समः
धातुभिर्विगुणश्चापि स्रोतसां स प्रदूषकः २३
अतिप्रवृतिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा
विमार्गगमनं चापि स्रोतसां दुष्टिलक्षणम् २४
स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च
स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च २५
प्राणोदकान्नवाहानां दुष्टानां श्वासिकी क्रिया
कार्या तृष्णोपशमनी तथैवामप्रदोषिकी २६
विधिधाशितपीतीये रसादीनां यदौषधम्
रसादिस्रोतसां कुर्यात्तद्यथास्वमुपक्रमम् २७
मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छ्रिकी
तथाऽतिसारिकी कार्या तथा ज्वरचिकित्सिकी २८
तत्र श्लोकः --
त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम्
सामान्यं नामपर्यायाः कोपनानि परस्परम् २९
दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च
स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः ३०
केवलं विदितं यस्य शरीरं सर्वभावतः
शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति ३१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतोविमानं नाम
पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथातो रोगानीकं विमानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
द्वे रोगानीके भवतः प्रभावभेदेनसाध्यम् असाध्यं च द्वे रोगानीके बलभेदेन मृदु दारुणं च द्वे रोगानीके अधिष्ठानभेदेन मनोऽधिष्ठानं शरीराधिष्ठानं च द्वे रोगानीके निमित्तभेदेन स्वधातुवैषम्यनिमित्तम् आगन्तुनिमित्तं च द्वे रोगानीके आशयभेदेन--आमाशयसमुत्थं पक्वाशयसमुत्थं चेति एवमेतत् प्रभावबलाधिष्ठाननिमित्ताशयभेदाद्द्वैधं सद्भेदप्रकृत्यन्तरेण भिद्यमानमथवाऽपि सन्धीयमानं स्यादेकत्वं बहुत्वं वा एकत्वं तावदेकमेव रोगानीकं दुःखसामान्यात् बहुत्वं तु दश रोगानीकानि प्रभावभेदादिना भवन्ति बहुत्वमपि संख्येयं स्यादसंख्येयं वा तत्र संख्येयं तावद्यथोक्तमष्टोदरीये अपरिसंख्येयं पुनर्यथा--महारोगाध्याये रुग्वर्णसमुथानादीनामसंख्येयत्वात् ३
न च संख्येयाग्रेषु भेदप्रकृत्यन्तरीयेषु विगीतिरित्यतो दोषवती स्यादत्र काचित् प्रतिज्ञा न चाविगीतिरित्यतः स्याददोषवती भेत्ता हि भेद्यमन्यथा भिनत्ति अन्यथा पुरस्ताद्भिन्नं भेदप्रकृत्यन्तरेण भिन्दन् भेदसंख्याविशेषमापादयत्यनेकधा न च पूर्वं भेदाग्रमुपहन्ति समानायामपि खलु भेदप्रकृतो प्रकृतानुप्रयोगान्तरमपेक्ष्यम् सन्ति ह्यर्थान्तराणि समानशब्दाभिहितानि सन्ति चानर्थान्तराणि पर्यायशब्दाभिहितानि समानो हि रोगशब्दो दोषेषु च व्याधिषु च दोषा ह्यपि रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते व्याधयश्च रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते तत्र दोषेषु चैव व्याधिषु च रोगशब्दः समानः शेषेषु तु विशेषवान् ४
तत्र व्याधयोऽपरिसख्येया भवन्ति अतिबहुत्वात् दोषास्तु खलु परिसंख्येया भवन्ति अनतिबहुत्वात् तस्मात्यथाचित्रं विकारानुदाहरणार्थम् अनवशेषेण च दोषान् व्याख्यास्यामः रजस्तमश्च मानसौ दोषौ तयोर्विकाराः कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तोद्वेगभयहर्षादयः वातपित्तश्लेष्माणस्तु खलु शारीरा दोषाः तेषामपि च विकारा ज्वरातीसारशोफशोषश्वासमेहकुष्ठादयः इति दोषाः केवला व्याख्याता विकारैकदोषश्च ५
तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपण तद्यथा--असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति ६
प्रकुपितास्तु खलु ते प्रकोपणविशेषाद्दूष्यविशेषाच्च विकारविशेषानभिनिर्वर्तयन्त्यपरिसंख्येयान् ७
ते च विकाराः परस्परमनुवर्तमानाः कदाचिदनुबध्नन्ति कामादयो ज्वरादयश्च ॥ ८
नियतस्त्वनुबन्धो रजस्तमसोः परस्परं न ह्यरजस्कं तमः प्रवर्तते ९
शारीरदोषाणामेकाधिष्ठानीयानां सन्निपातः संसर्गो वा समानगुणत्वात् दोषा हि दूषणैः समानाः १०
तत्रानुबन्ध्यानुबन्धकृतो विशेषः स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः तद्विपरीतलक्षणस्त्वनुबन्धः अनुबन्ध्यलक्षणसमन्वितास्तत्र यदि दोषा भवन्ति तत्त्रिकं सन्निपातमाचक्षते द्वयं वा संसर्गम् अनुबन्ध्यानुबन्धविशेषकृतस्तु बहुविधो दोषभेदः एवमेष संज्ञाप्रकृतो भिषजां दोषेषु व्याधिषु च नानाप्रकृतिविशेषव्यूहः ११
अग्निषु तु शारीरेषु चतुर्विधो विशेषो बलभेदेन भवति तद्यथातीक्ष्णो मन्दः समो विषमश्चेति तत्र तीक्ष्णोऽग्निः सर्वापचारसहः तद्विपरीतलक्षणस्तु मन्दः समस्तु खल्वपचारतो विकृतिमापद्यतेऽनपचारतस्तु प्रकृताववतिष्ठते समलक्षणविपरीतलक्षणस्तु विषम इति एते चतुर्विधा भवन्त्यग्नयश्चतुर्विधानामेव पुरुषाणाम् तत्र समवातपित्तश्लेष्मणां प्रकृतिस्थानां समा भवन्त्यग्नयः वातलानां तु वाताभिभूतेऽग्न्यधिष्ठाने विषमा भवन्त्यग्नयः पित्तलानां तु पित्ताभिभूते ह्यग्न्यिघिष्ठाने तीक्ष्णा भवन्त्यग्नयः श्लेष्मलानां तु श्लेष्माभिभूतेऽग्न्यधिष्ठाने मन्दा भवन्त्यग्नयः १२
तत्र केचिदाहुः -- न समवातपित्तश्लेष्माणो जन्तवः सन्ति विषमाहारोपयोगित्वान्मनुष्याणां तस्माच्च वातप्रकृतयः केचित् केचित् पित्तप्रकृतयः केचित् पुनः श्लेष्मप्रकृतयो भवन्तीति तच्चानुपपन्नम् कस्मात् कारणात् समवातपित्तश्लेष्माणं ह्यरोगमिच्छन्ति भिषजः यतः प्रकृतिश्चारोग्यम् आरोग्यार्था च भेषजप्रवृत्तिः सा चेष्टरूपा तस्मात् सन्ति समवातपित्तश्लेष्माणः न खलु सन्ति वातप्रकृतयः पित्तप्रकृतयः श्लेष्मप्रकृतयो वा तस्य तस्य किल दोषस्याधिक्यात् सा सा दोषप्रकृतिरुच्यते मनुष्याणां न च विकृतेषु दोषेषु प्रकृतिस्थत्वमुपपद्यते तस्मान्नैताः प्रकृतयः सन्ति सन्ति तु खलु वातलाः पित्तलाः श्लेष्मलाश्च अप्रकृतिस्थास्तु ते ज्ञेयाः १३
तेषां तु खलु चतुर्विधानां पुरुषाणां चत्वार्यनुप्रणिधानानि श्रेयस्कराणि भवन्ति तत्र समसर्वधातूनां सर्वाकारसमम् अधिकदोषाणां तु त्रयाणां यथास्वं दोषाधिक्यमभिसमीक्ष्य दोषप्रतिकूलयोगीनि त्रीण्यनुप्रणिधानानि श्रेयस्कराणि भवन्ति यावदग्नेः समीभावात् समे तु समभवे कार्यम् एवं चेष्टा भेषजप्रयोगाश्चापरे तान् विस्तरेणानुव्याख्यास्यामः १४
त्रयस्तु पुरुषा भवन्त्यातुराः ते त्वनातुरास्तन्त्रान्तरीयाणां भिषजाम् तद्यथावातलः पित्तलः श्लेष्मलश्चेति तेषामिदं विशेषविज्ञानंवातलस्य वातनिमित्ताः पित्तलस्य पित्तनिमित्ताः श्लेष्मलस्य श्लेष्मनिमित्ता व्याधयः प्रायेण बलवन्तश्च भवन्ति १५
तत्र वातलस्य वातप्रकोपणान्यासेवमानस्य क्षिप्रं वातः प्रकोपमापद्यते न तथेतरौ दोषौ स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय तस्यावजयनं--स्नेहस्वेदौ विधियुक्तौ मृदूनि च संशोधनानि स्नेहोष्णमधुराम्ललवणयुक्तानि तद्वदभ्यवहार्याणि अभ्यङ्गोपनाहनोद्वेष्टनोन्मर्दनपरिषेकावगाहनसंवाहनावपीडनवित्रासनविस्मापन-विस्मारणानि सुरासवविधानं स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयोपहितास्तथा शतपाकाः सहस्रपाकाः सर्वशश्च प्रयोगार्थाः बस्तयः बस्तिनियमः सुखशीलता चेति १६
पित्तलस्यापि पित्तप्रकोपणान्यासेवमानस्य क्षिप्रं पित्तं प्रकोपमापद्यते न तथेतरौ दोषौ तदस्य प्रकोपमापन्नं यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय तस्यावजयनं -- सर्पिष्पानं सर्पिषा च स्नेहनम् अधश्च दोषहरणं मधुरतिक्तकषायशीतानां चौषधाभ्यवहार्याणामुपयोगः मृदुमधुरसुरभिशीतहृद्यानां गन्धानां चोपसेवा मुक्तामणिहारावलीनां च परमशिशिरवारिसंस्थितानां धारणमुरसा क्षणे क्षणेऽग्र्यचन्दनप्रियङ्गुकालीयमृणालशीतवातवारिभिरुत्पलकुमुदकोकनद-सौगन्धिकपद्मानुगतैश्च वारिभिरभिप्रोक्षणं श्रुतिसुखमृदुमधुरमनोऽनुगानां च गीतवादित्राणां श्रवणं श्रवणं चाभ्युदयानां सुहृद्भिः संयोगः संयोगश्चेष्टाभिः स्त्रीभिः शीतोपहितांशुकस्रग्धारिणीभिः निशाकरांशुशीतलप्रवातहर्म्यवासः शैलान्तरपुलिनशिशिरसदनवसनव्यजनपवनसेवनं रम्याणां चोपवनानां सुखशिशिरसुरभिमारुतोपहितानामुपसेवनं सेवनं च पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रहस्तानां सौम्यानां च सर्वभावानामिति १७
श्लेष्मलस्यापि श्लेष्मप्रकोपणान्यासेवमानस्य क्षिप्रं श्लेष्मा प्रकोपमापद्यते न तथेतरौ दोषौ स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय तस्यावजयनं -- विधियुक्तानि तीक्ष्णोष्णानि संशोधनानि रूक्षप्रायाणि चाभ्यवहार्याणि कटुकतिक्तकषायोपहितानि तथैव धावनलङ्घनप्लवनपरिसरणजागरणनियुद्धव्यवायव्यायामोन्मर्दनस्नानोत्सादनानि विशेषतस्तीक्ष्णानां दीर्घकालस्थितानां च मद्यानामुपयोगः सधूमपानः सर्वशश्चोपवासः तथोष्णं वासः सुखप्रतिषेधश्च सुखार्थमेवेति १८
भवति चात्र--
सर्वरोगविशेषज्ञः सर्वकार्यविशेषवित्
सर्वभेषजतत्त्वज्ञो राज्ञः प्राणपतिर्भवेदिति १९
तत्र श्लोकाः--
प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम्
परस्पराविरोधश्च सामान्यं रोगदोषयोः २०
दोषसंख्या विकाराणामेकदेशः प्रकोपणम्
जरणं प्रति चिन्ता च कायाग्नेर्धुक्षणानि च २१
नराणां वातलादीनां प्रकृतिस्थापनानि च
रोगानीके विमानेऽस्मिन् व्याहृतानि महर्षिणा २२
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगानीकविमानं नाम
षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातो व्याधितरूपीयं विमानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु द्वौ पुरुषौ व्याधितरूपौ भवतः गुरुव्याधितः लघुव्याधितश्च तत्रगुरुव्याधित एकः सत्त्वबलशरीरसंपदुपेतत्वाल्लघुव्याधित इव दृश्यते लघुव्याधितोऽपरः सत्त्वादीनामधमत्वाद्गुरुव्याधित इव दृश्यते तयोरकुशलाः केवलं चक्षुषैव रूपं दृष्ट्वाऽध्यवस्यन्तो व्याधिगुरुलाघवे विप्रतिपद्यन्ते ३
नहि ज्ञानावयवेन कृत्स्ने ज्ञेये विज्ञानमुत्पद्यते विप्रतिपन्नास्तु खलु रोगज्ञाने उपक्रमयुक्तिज्ञाने चापि विप्रतिपद्यन्ते ते यदा गुरुव्याधितं लघुव्याधितरूपमासादयन्ति तदा तमल्पदोषं मत्वा संशोधनकालेऽस्मै मृदु संशोधनं प्रयच्छन्तो भूय एवास्य दोषानुदीरयन्ति यदा तु लघुव्याधितं गुरुव्याधितरूपमासादयन्ति तदा तं महादोषं मत्वा संशोधनकालेऽस्मै तीक्ष्णं संशोधनं प्रयच्छन्तो दोषानतिनिर्हृत्य शरीरमस्य क्षिण्वन्ति एवमवयवेन ज्ञानस्य कृत्स्ने ज्ञेये ज्ञानमभिमन्यमानाः परिस्खलन्ति विदितवेदितव्यास्तु भिषजः सर्वं सर्बथा यथासंभवं परीक्ष्यं परीक्ष्याध्यवस्यन्तो न क्वचिदपि विप्रतिपद्यन्ते यथेष्टमर्थमभिनिर्वर्तयन्ति चेति ४
भवन्ति चात्र--
सत्त्वादीनां विकल्पेन व्याधिरूपमथातुरे
दृष्ट्वा विप्रतिपद्यन्ते बाला व्याधिबलाबले ५
ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिताः
व्याधितानां विनाशाय क्लेशाय महतेऽपि वा ६
प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा
न स्खलन्ति प्रयोगेषु भेषजानां कदाचन ७
इति व्याधितरूपाधिकारे व्याधितरूपसंख्याग्रसंभवं व्याधितरूपहेतुविप्रतिपत्तौ कारणं सापवादं संप्रतिपत्तिकारणं चानपवादं निशम्य भगवन्तमात्रेयमग्निवेशोऽतः परं सर्वक्रिमीणां पुरीषसंश्रयाणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकित्सतविशेषान् पप्रच्छोपसंगृह्य पादौ ८
अथास्मै प्रोवाच भगवानात्रेयः -- इह खल्वग्निवेश विशतिविधाः क्रिमयः पूर्वमुद्दिष्टा नानाविधेन प्रविभागेनान्यत्र सहजेभ्यः ते पुनः प्रकृतिभिर्विभज्यमानाश्चतुर्विधा भवन्ति तद्यथा -- पुरीषजाः श्लेष्मजाः शोणितजा मलजाश्चेति ९
तत्र मलो बाह्यश्चाभ्यन्तरश्च तत्र बाह्यमलजातान् मलजान् संचक्ष्महे तेषां समुत्थानं मृजावर्जनं स्थानं --केशश्मश्रुलोमपक्ष्मबासांसि संस्थानम् अणवस्तिलाकृतयो बहुपादाश्च वर्णः कृष्णः शुक्लश्च नामानि यूकाः पिपीलिकाश्च प्रभावः कण्डूजननं कोठपिडकाभिनिर्वर्तनं च चिकित्सितं तु खल्वेषामपकर्षणं मलोपघातः मलकराणां च भावानामनुपसेवनमिति १०
शोणितजानां तु खलु कुष्ठैः समानं समुत्थानं स्थानं रक्तवाहिन्यो धमन्यःसंस्थानम् अणवो वृत्ताश्चापादाश्च सूक्ष्मत्वाच्चैके भवन्त्यदृश्याः वर्णः ताम्रः नामानि केशादा लोमादा लोमद्वीपाः सौरसा ओडम्बरा जन्तुमातरश्चेति प्रभावः केशश्मश्रुनखलोमपक्ष्मापध्वंसः व्रणगतानां च हर्षकण्डूतोदसंसर्पणानि अतिवृद्धानां च त्वक्सिरास्नायुमांसतरुणास्थिभक्षणमिति चिकित्सितमप्येषां कुष्ठैः समानं तदुत्तरकालमुपदेक्ष्यामः ११
श्लेष्मजाः क्षीरगुडतिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहाजीर्णपूतिक्लिन्नसंकीर्णविरु-द्धासात्म्यभोजनसमुत्थानाः तेषामामाशयः स्थानं ते प्रवर्धमानास्तूर्ध्वमधो वा विसर्पन्त्युभयतो वा संस्थानवर्णविशेषास्तु --श्वेताः पृथुब्रध्नसंस्थानाः केचित् केचिद्वृत्तपरिणाहा गण्डूपदाकृतयः श्वेतास्ताम्रावभासाश्च केचिदणवो दीर्घास्तन्त्वाकृतयः श्वेताः तेषां त्रिविधानां श्लेष्मनिमित्तानां क्रिमीणां नामानि अन्त्रादाः उदरादाः हृदयचराः चुरवः दर्भपुष्पाः सौगन्धिकाः महागुदाश्चेति प्रभावोहृल्लासः आस्यसंस्रवणम् अरोचकाविपाकौ ज्वरः मूर्च्छा जृम्भा क्षवथुः आनाहः अङ्गमर्दः छर्दिः कार्श्यं पारुष्यं चेति १२
पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैः तेषां स्थानं पक्वाशयः ते प्रवर्धमानास्त्वधो विसर्पन्ति यस्य पुनरामाशयाभिमुखाः स्युर्यदन्तरं तदन्तरं तस्योद्गारनिःश्वासाः पुरीषगन्धिनः स्युः संस्थानवर्णविशेषास्तु सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्घा ऊर्णांशुसंकाशाः केचित् केचित् पुनः स्थूलवृत्तपरीणाहाः श्यावनीलहरितपीताः तेषां नामानि ककेरुकाः मकेरुकाः लेलिहाः सशूलकाः सौसुरादाश्चेति प्रभावः पुरीषभेदः कार्श्यं पारुष्यं लोमहर्षाभिनिर्वर्तनं च त एव चास्य गुदमुखं परितुदन्तः कण्डूं चोपजनयन्तो गुदमुखं पर्यासते त एव जातहर्षा गुदनिष्क्रमणमतिवेल कुर्वन्ति इत्येष श्लेष्मजानां पुरीषजानां च क्रिमीणां समुत्थानादिविशेषः १३
चिकित्सितं तु खल्वेषां समासेनोपदिश्य पश्चाद्विस्तरेणोपदेक्ष्यामः तत्र सर्वक्रिमीणामपकर्षणमेवादितः कार्यं ततः प्रकृतिविघातः अनन्तरं निदानोक्तानां भावानामनुपसेवनमिति १४
तत्रापकर्षणं हस्तेनाभिगृह्य विमृश्योपकरणवताऽपनयनमनुपकरणेन वा स्थानगतानां तु क्रिमीणां भेषजेनापकर्षणं न्यायतः तच्चतुर्विधं तद्यथा शिरोविरेचनं वमनं विरेचनम् आस्थापनं च इत्यपकर्षणविधिः प्रकृतिविघातस्त्वेषां कटुतिक्तकषायक्षारोष्णानां द्रव्याणामुपयोगः यच्चान्यदपि किंचिच्छ्लेष्मपुरीषप्रत्यनीकभूतं तत्स्यात् इति प्रकृतिविघातः अनन्तरं निदानोक्तानां भावानामनुपसेवनं यदुक्तं निदानविधौ तस्य विवर्जनं तथाप्रायाणां चापरेषां द्रव्याणाम् इति लक्षणतश्चिकित्सितमनुव्याख्यातम् एतदेव पुनर्विस्तरेणोपदेक्ष्यते १५
अथैनं क्रिमिकोष्ठमातुरमग्रे षड्रात्रं सप्तरात्रं वा स्नेहस्वेदाभ्यामुपपाद्य श्वोभूते एनं संशोधनं पाययिताऽस्मीति क्षीरगुडदधितिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहसंप्रयुक्तैर्भोज्यैः सायं प्रातश्चोपपादयेत् समुदीरणार्थं क्रिमीणां कोष्ठाभिसरणार्थं च भिषक् अथ व्युष्टायां रात्र्यां सुखोषितं सुप्रजीर्णभक्तं च विज्ञायास्थापनवमनविरेचनैस्तदहरेवोपपादयेदुपपादनीयश्चेत् स्यात् सर्वान् परीक्ष्यविशेषान् परीक्ष्य सम्यक् १६
अथाहरेति ब्रूयात् मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रुखरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीर-कालमालकपर्णासक्षवकफणिज्झकानि सर्वाण्यथवा यथालाभं तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्धोदकेनाभिषिच्य साधयेत् सततमवघट्टयन् दर्व्या तमुपयुक्तभूयिष्टेऽम्भसि गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितं स्वर्जिकालवणितमभ्यासिच्य बस्तौ विधिवदास्थापयेदेनं तथाऽर्कालर्ककुटजाढकीकुष्ठकैडर्यकषायेण वा तथा शिग्रुपीलुकुस्तुम्बुरुकटुकासर्षपकषायेण तथामलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगसंपादितेन
त्रिरात्रं सप्तरात्रं वाऽऽस्थापयेत् १७
प्रत्यागते च पश्चिमे बस्तौ प्रत्याश्वस्तं तदहरेवोभयतोभागहरं संशोधनं पाययेद्युक्त्या तस्य विधिरुपदेक्ष्यते मदनफलपिप्पलीकषायस्यार्धाञ्जलिमात्रेण त्रिवृत्कल्काक्षमात्रमालोड्य पातुमस्मै प्रयच्छेत् तदस्य दोषमुभयतो निर्हरति साधु एवमेव कल्पोक्तानि वमनविरेचनानि प्रतिसंसृज्य पाययेदेनं बुद्ध्या
सर्वविशेषानवेक्षमाणो भिषक् १८
अथैनं सम्यग्विरिक्तं विज्ञायापरह्णे शैखरिककषायेण सुखोष्णेन परिषेचयेत् तेनैव च कषायेण बाह्याभ्यन्तरान् सर्वोदकार्थान् कारयेच्छश्वत् तदभावे कटुतिक्तकषायाणामौषधानां क्वाथैर्मूत्रक्षारैर्वा परिषेचयेत् परिषिक्तं चैनं निवातमागारमनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसिद्धेन यवाग्वादिना क्रमेणोपाचरेत् विलेपीक्रमागतं चैनमनुवासयेद्विडङ्गतैलेनैकान्तरं द्विस्त्रिर्वा १९
यदि पुनरस्यातिप्रवृद्धाञ्छीर्षादान् क्रिमीन् मन्येत शिरस्येवाभिसर्पतः कदाचित् ततः स्नेहस्वेदाभ्यामस्य शिर उपपाद्य विरेचयेदपामार्गतण्डुलादिना शिरोविरेचनेन २०
यस्त्वभ्यवहार्यविधिः प्रकृतिविघातायोक्तः क्रिमीणामथ तमनुव्याख्यास्यामः--मूलकपर्णीं समूलाग्रप्रतानामाहृत्य खण्डशश्छेदयित्वोलूखले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसं गृह्णीयात् तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्य पूपलिकां कृत्वा विधूमेष्वङ्गारेषूपकुड्य विडङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत् अनन्तरं चाम्लकाञ्जिकमुदश्विद्वा पिप्पल्यादिपञ्चवर्गसंसृष्टं सलवणमनुपाययेत् अनेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरकगण्डीरकालमाल-कपर्णासक्षवकफणिज्झकबकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतमस्मिन् कारयेत् पूपलिकाः तथा किणिहीकिराततिक्तकसुवहामलकहरीतकीबिभीतकस्वरसेषु कारयेत् पूपलिकाः स्वरसांश्चैतेषामेकैकशो द्वन्द्वशः सर्वशो वा मधुविलुलितान् प्रातरनन्नाय पातुं प्रयच्छेत् ॥ २१
अथाश्वशकृदाहृत्य महति किलिञ्जके प्रस्तीर्यातपे शोषयित्वोदूखले क्षोदयित्वा दृषदि पुनः सूक्ष्मचूर्णानि कारयित्वा विडङ्गकषायेण त्रिफलाकषायेण वाऽष्टकृत्वो दशकृत्वो वाऽऽतपे सुपरिभावितानि भावियित्वा दृषदि पुनः सूक्ष्माणि चूर्णानि कारयित्वा नवे कलशे समावाप्यानुगुप्तं निधापयेत्तेषां तु खलु चूर्णानां पाणितलं यावद्वा साधु मन्येत तत् क्षौद्रेण संसृज्य क्रिमिकोष्ठिने लेढुं प्रयच्छेत् २२
तथा भल्लातकास्थीन्याहृत्य कलशप्रमाणेन चापोथ्य स्नेहभाविते दृढे कलशे सूक्ष्मानेकच्छिद्रब्रध्ने शरीरमुपवेष्ट्य मृदावलिप्ते समावाप्योडुपेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावितस्यैवान्यस्य दृढस्य कुम्भस्योपरि समारोप्य समन्ताद्गोमयैरुपचित्य दाहयेत् स यदा जानीयात् साधु दग्धानि गोमयानि विगतस्नेहानि च भल्लातकास्थीनीति ततस्तं कुम्भमुद्धरेत् अथ तस्माद्द्वितीयात् कुम्भात् स्नेहमादाय विडङ्गतण्डुलचूर्णैः स्नेहार्धमात्रैः प्रतिसंसृज्यातपे सर्वमहः स्थापयित्वा ततोऽस्मै मात्रां प्रयच्छेत् पानाय तेन साधु विरिच्यते विरिक्तस्य चानुपूर्वी यथोक्ता एवमेव भद्रदारुसरलकाष्ठस्नेहानुपकल्प्य पातुं प्रयच्छेत् २३
अनुवासयेचैनमनुवासनकाले २४
अथाहरेति ब्रूयात्--शारदान्नवांस्तिलान् संपदुपेतान् तानाहृत्य सुनिष्पूतान्निष्पूय सुशुद्धान् शोधयित्वा विडङ्गकषाये सुखोष्णे प्रक्षिप्य निर्वापयेदादोषगमनात् गतदोषानभिसमीक्ष्य सुप्रलूनान् प्रलुञ्च्य पुनरेव सुनिष्पूतान् निष्पूय सुशुद्धान् शोधयित्वा विडङ्गकषायेण त्रिःसप्तकृत्वः सुपरिभावितान् भावयित्वा आतपे शोषयित्वा उलूखले संक्षुद्य दृषदि पुनः श्लक्ष्णपिष्टान् कारयित्वा द्रोण्यामभ्यवधाय विडङ्गकषायेण मुहुर्मुहुरवसिञ्चन् पाणिमर्दमेव मर्दयेत् तस्मिंऽस्तु खलु प्रपीड्यमाने यत्तैलमुदियात्तत् पाणिभ्यां पर्यादाय शुचौ दृढे कलशे न्यस्यानुगुप्तं निधापयेत् २५
अथाहरेति ब्रूयात्--तिल्वकोद्दालकयोर्द्वौ बिल्वमात्रौ पिण्डौ श्लक्ष्णपिष्टौ विडङ्गकषायेण तदर्धमात्रौ श्यामात्रिवृतयोः अतोऽर्धमात्रौ दन्तीद्रवन्त्योः अतोऽर्धमात्रौ च चव्यचित्रकयोरिति एतं संभारं विडङ्गकषायस्यार्धाढकमात्रेण प्रतिसंसृज्य तत्तैलप्रस्थं समावाप्य सर्वमालोड्य महति पर्योगे समासिच्याग्नावधिश्रित्यासने सुखोपविष्टः सर्वतः स्नेहमवलोकयन्नजस्नं मृद्वग्निना साधयेद्दर्व्या सततमवघट्टयन् स यदा जानीयाद्विरमति शब्दः प्रशाम्यति च फेनः प्रसादमापद्यते स्नेहः यथास्वं च गन्धवर्णरसोत्पत्तिः संवर्तते च भैषज्यमङ्गुलिभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि चेति स कालस्तस्यावतारणाय ततस्तमवतार्य शीतीभूतमहतेन वाससा परिपूय शुचौ दृढे कलशे समासिच्य पिधानेन पिधाय शुक्लेन वस्त्रपट्टेनावच्छाद्य सूत्रेण सुबद्धं सुनिगुप्तं निधापयेत् ततोऽस्मै मात्रां प्रयच्छेत् पानाय तेन साधु विरिच्यते सम्यगपहृतदोषस्य चानुषूर्वी यथोक्ता ततश्चैनमनुवासयेदनुवासनकाले एतेनैव च पाकविधिना सर्षपातसीकरञ्जकोषातकीस्रेहानुपकल्प्य पाययेत् सर्वविशेषानवेक्षमाणः तेनागदो भवति २६
एवं द्वयानां श्लेष्मपुरीषसंभवानां क्रिमीणां समुत्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषा व्याख्याताः सामान्यतः विशेषतस्तु स्वल्पमात्रमास्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वेवौषधेषु पुरीषजानां क्रिमीणां चिकित्सितं कर्तव्यं मात्राधिकं पुनः शिरोविरेचनवमनोपशमनभूयिष्ठं तेष्वेवौषधेषु श्लेष्मजानां क्रिमीणां चिकित्सितं कार्यम् इत्येष क्रिमिघ्नो भेषजविधिरनुव्याख्यातो भवति तमनुतिष्ठता यथास्वं हेतुवर्जने प्रयतितव्यम् यथोद्देशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथावदनुव्याख्यातं भवति २७
भवन्ति चात्र--
अपकर्षणमेवादौ क्रिमीणां भेषजं स्मृतम्
ततो विघातः प्रकृतेर्निदानस्य च वर्जनम् २८
अयमेव विकाराणां सर्वेषामपि निग्रहे
विधिर्दृष्टस्त्रिधा योऽयं क्रिमीनुद्दिश्य कीर्तितः २९
संशोधनं संशमनं निदानस्य च वर्जनम्
एतावद्भिषजा कार्ये रोगे रोगे यथाविधि ३०
तत्र श्लोकौ--
व्याधितौ पुरुषौ ज्ञाज्ञौ भिषजौ सप्रयोजनौ
विंशतिः क्रिमयस्तेषां हेत्वादिः सप्तको गणः ३१
उक्तो व्याधितरूपीये विमाने परमर्षिणा
शिष्यसंबोधनार्थाय व्याधिप्रशमनाय च ३२
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने व्याधितरूपीयविमानं
नाम सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथातो रोगभिषग्जितीयं विमानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
बुद्धिमानात्मनः कार्यगुरुलाघवं कर्मफलमनुबन्धं देशकालौ च विदित्वा युक्तिदर्शनाद्भिषग्बुभूषुः शास्त्रमेवादितः परीक्षेत विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोके तत्र यन्मन्येत सुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षं सुप्रणीतसूत्रभाष्यसंग्रहक्रमं स्वाधारमनवपतितशब्दमकष्टशब्दं पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं संगतार्थमसंकुलप्रकरणमाशुप्रबोधकं लक्षणवच्चोदाहरणवच्च तदभिप्रपद्येत शास्त्रम् शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूय प्रकाशयति सर्वम् ३
ततोऽनन्तरमाचार्यं परीक्षेत तद्यथा--पर्यवदातश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्तिज्ञमनुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनं क्लेशक्षमं शिष्यवत्सलमध्यापकं ज्ञापनसमर्थं चेति एवंगुणो ह्याचार्यः सुक्षेत्रमार्तवो मेघ इव शस्यगुणैः सुशिष्यमाशु वैद्यगुणैः संपादयति ४
तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च राजवच्च पितृवच्च भर्तृवच्चाप्रमत्तः ततस्तत्प्रसादात् कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभिधानस्य सौष्ठवेऽर्थस्य विज्ञाने वचनशक्तौ च भूयो भूयः प्रयतेत सम्यक् ५
तत्रोपायाननुव्याख्यास्यामः--अध्ययनम् अध्यापनं तद्विद्यसंभाषा चेत्युपायाः ६
तत्रायमध्ययनविधिः--कल्यः कृतक्षणः प्रातरुत्थायोपव्यूषं वा कृत्वाऽऽवश्यकमुपस्पृश्योदकं देवर्षिगोब्राह्मणगुरुवृद्धसिद्धाचार्येभ्यो नमस्कृत्य समे शुचौ देशे सुखोपविष्टो मनःपुरःसराभिर्वाग्भिः सूत्रमनुक्रामन् पुनः पुनरावर्तयेद् बुद्ध्वा सम्यगनुप्रविश्यार्थतत्त्वं स्वदोषपरिहारार्थं परदोषप्रमाणार्थं च एवं मध्यंदिनेऽपराह्णे रात्रौ च शश्वदपरिहापयन्नध्ययनमभ्यस्येत् इत्यध्ययनविधिः ७
अथाध्यापनविधिः--अध्यापने कृतबुद्धिराचार्यः शिष्यमेवादितः परीक्षेत तद्यथा प्रशान्तमार्यप्रकृतिकमक्षुद्रकर्माणमृजुचक्षुर्मुखनासावंशं तनुरक्तविशदजिह्वमविकृतदन्तौष्ठममिन्मिनं धृतिमन्तमनहङ्कृतं मेधाविनं वितर्कस्मृतिसंपन्नमुदारसत्त्वं तद्विद्यकुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनमव्यङ्गमव्यापन्नेन्द्रियं निभृतमनुद्धतमर्थतत्त्वभावकमकोपनमव्यसनिनं शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नमध्ययनाभिकाममर्थविज्ञाने कर्मदर्शने चानन्यकार्यमलुब्धमनलसं सर्वभूतहितैषिणमाचार्यसर्वानुशिष्टिप्रतिकरमनुरक्तं च एवंगुणसमुदितमध्याप्यमाहुः ८
एवंविधमध्ययनार्थिनमुपस्थितमारिराधयिषुमाचार्योऽनुभाषेत--उदगयने शुक्लपक्षे प्रशस्तेऽहनि तिष्यहस्तश्रवणाश्वयुजामन्यतमेन नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते मुण्डः कृतोपवासः स्नातः काषायवस्त्रसंवीतः सगन्धहस्तः समिधोऽग्निमाज्यमुपलेपनमुदकुम्भान् माल्यदामदीपहिरण्यहेमरजतमणिमुक्ताविद्रुमक्षौमपरिधीन् कुशलाजसर्षपाक्षतांश्च शुक्लानि सुमनांसि ग्रथिताग्रथितानि मेध्यान् भक्ष्यान् गन्धांश्च घृष्टानादायोपतिष्ठस्वेति ९
स तथा कुर्यात् १०
तमुपस्थितमाज्ञाय समे शुचौ देशे प्राक्प्रवणे उदक्प्रवणे वा चतुष्किष्कुमात्रं चतुरस्रं स्थण्डिलं गोमयोदकेनोपलिप्तं कुशास्तीर्णं सुपरिहितं परिधिभिश्चतुर्दिशं यथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतं मेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितं कृत्वा तत्र पालाशीभिरैङ्गुदीभिरौदुस्वरीभिर्माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय प्रङ्मुखः शुचिरध्ययनविधिमनुविधाय मधुसर्पिर्भ्यां त्रिस्त्रिर्जुहुयादग्निमाशीः संप्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निं धन्वन्तरिं प्रजापतिमश्विनाविन्द्रमृषींश्च सूत्रकारानभिमन्त्रयमाणः पूर्वं स्वाहेति ११
शिष्यश्चैनमन्वालभेत हुत्वा च प्रदक्षिणमग्निमनुपरिक्रामेत् परिक्रम्य ब्राह्मणान् स्वस्ति वाचयेत् भिषजश्चाभिपूजयेत् १२
अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात् --ब्रह्मचारिणा श्मश्रुधारिणा सत्यवादिनाऽमांसादेन मेध्यसेविना निर्मत्सरेणाशस्त्रधारिणा च भवितव्यं न च ते मद्वचनात् किञ्चिदकार्यं स्यादन्यत्र राजद्विष्टात् प्राणहराद्विपुलादधर्म्यादनर्थसंप्रयुक्ताद्वाऽप्यर्थात् मदर्पणेन मत्प्रधानेन मदधीनेन मत्प्रियहितानुवर्तिना च शश्वद्भवितव्यं पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम् अनुत्सेकेनावहितेनानन्यमनसा विनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेन चाभ्यनुज्ञातेन प्रविचरितव्यम् अनुज्ञातेन प्रविचरता पूर्वं गुर्वर्थोपाहरणे यथाशक्ति प्रयतितव्यं कर्मसिद्धिमर्थसिद्धिं यशोलाभं प्रेत्य च स्वर्गमिच्छता भिषजा त्वया गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शर्माशासितव्यमहरहरुत्तिष्ठता चोपविशता च सर्वात्मना चातुराणामारोग्याय प्रयतितव्यं जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्धव्यं मनसाऽपि च परस्त्रियो नाभिगमनीयास्तथा सर्वमेव परस्वं निभृतवेशपरिच्छदेन भवितव्यम् अशौण्डेनापापेनापापसहायेन च श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसा देशकालविचारिणा स्मृतिमता ज्ञानोत्थानोपकरणसंपत्सु नित्यं यत्नवता च न च कदाचिद्राजद्विष्टानां राजद्वेषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वाऽप्यौषधमनुविधातव्यं तथा सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकाराणां मुमूर्षूणां च तथैवासन्निहितेश्वराणां स्त्रीणामनध्यक्षाणां वा न च कदाचित् स्त्रीदत्तमाविषमादातव्यमननुज्ञातं भर्त्राऽथवाऽध्यक्षेण आतुरकुलं चानुप्रविशता विदितेनानुमतप्रवेशिना सार्धं पुरुषेण सुसंवीतेनावाक्शिरसा स्मृतिमता स्तिमितेनावेक्ष्यावेक्ष्य मनसा सर्वमाचरता सम्यगनुप्रवेष्टव्यम् अनुप्रविश्य च वाङ्मनोबुद्धीन्द्रियाणि न क्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषु वा भावेषु न चातुरकुलप्रवृत्तयो बहिर्निश्चारयितव्याः ह्रसितं चयुषः प्रमाणमातुरस्य जानताऽपि त्वया न वर्णयितव्यं तत्र यत्रोच्यमानमातुरस्यान्यस्य वाऽप्युपघाताय संपद्यते ज्ञानवताऽपि च नात्यर्थमात्मनो ज्ञाने विकत्थितव्यम् आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्त्यनेके १३
न चैव ह्यस्ति सुतरमायुर्वेदस्य पारं तस्मादप्रमत्तः शश्वदभियोगमस्मिन् गछेत् एतच्च कार्यम् एवंभूयश्च वृत्तसौष्ठवमनसूयता परेभ्योऽप्यागमयितव्यं कृत्स्नो हि लोको बुद्धिमतामाचार्यः शत्रुश्चाबुद्धिमताम् अतश्चाभिसमीक्ष्य बुद्धिमताऽमित्रस्यापि धन्यं यशस्यमायुष्यं पौष्टिकं लौक्यमभ्युपदिशतो वचः श्रोतव्यमनुविधातव्यं चेति अतः परमिदं ब्रूयात्--देवताग्निद्विजगुरुवृद्धसिद्धाचार्येषु ते नित्यं सम्यग्वर्तितव्यं तेषु ते सम्यग्वर्तमानस्यायमग्निः सर्वगन्धरसरत्नबीजानि यथेरिताश्च देवताः शिवाय स्युः अतोऽन्यथा वर्तमानस्याशिवायेति एवं ब्रुवति चाचार्ये शिष्यः तथा इति ब्रूयात् यथोपदेशं च कुर्वन्नध्याप्यः अतोऽन्यथा त्वनध्याप्यः अध्याप्यमध्यापयन् ह्याचार्यो यथोक्तैश्चाध्यापनफलैर्योगमाप्नोत्यन्यैश्चानुक्तैः श्रेयस्करैर्गुणैः शिष्यमात्मानं च युनक्ति इत्यध्यापनविधिरुक्तः १४
संभाषाविधिमत ऊर्ध्वं व्याख्यास्यामः -- भिषक् भिषजा सह संभाषेत तद्विद्यसंभाषा हि ज्ञानाभियोगसंहर्षकरी भवति वैशारद्यमपि चाभिनिर्वर्तयति वचनशक्तिमपि चाधत्ते यशश्चाभिदीपयति पूर्वश्रुते च संदेहवतः पुनः श्रवणाच्छ्रुतसंशयमपकर्षति श्रुते चासंदेहवतो भूयोऽध्यवसायमभिनिर्वर्तयति अश्रुतमपि च कञ्चिदर्थे श्रोत्रविषयमापादयति यच्चाचार्यः शिष्याय शुश्रूषवे प्रसन्नः क्रमेणोपदिशति गुह्याभिमतमर्थजातं तत् परस्परेण सह जल्पन् पिण्डेन विजिगीषुराह संहर्षात् तस्मात्तद्विद्यसंभाषामभिप्रशंसन्ति कुशलाः १५
द्विविधा तु खलु तद्विद्यसंभाषा भवति सन्धायसंभाषा विगृह्यसंभाषा च १६
तत्र ज्ञानविज्ञानवचनप्रतिवचनशक्तिसंपन्नेनाकोपनेनानुपस्कृतविद्येनान-सूयकेनानुनेयेनानुनयकोविदेन क्लेशक्षमेण प्रियसंभाषणेन च सह सन्धायसंभाषा विधीयते तथाविधेन सह कथयन् विस्रब्धः कथयेत् पृच्छेदपि च विस्रब्धः पृच्छते चास्मै विस्रब्धाय विशदमर्थं ब्रूयात् न च निग्रहभयादुद्विजेत निगृह्य चैनं न हृष्येत् न च परेषु विकत्थेत न च मोहादेकान्तग्राही स्यात् न चाविदितमर्थमनुवर्णयेत् सम्यक् चानुनयेनानुनयेत् तत्र चावहितः स्यात् इत्यनुलोमसंभाषाविधिः १७
अत ऊर्ध्वमितरेण सह विगृह्य संभाषायां जल्पेच्छ्रेयसा योगमात्मनः पश्यन् प्रागेव च जल्पाज्जल्पान्तरं परावरान्तरं परिषद्विशेषांश्च सम्यक् परीक्षेत सम्यक्परीक्षा हि बुद्धिमतां कार्यप्रवृत्तिनिवृत्तिकालौ शंसति तस्मात् परीक्षामभिप्रशंसन्ति कुशलाः परीक्षमाणस्तु खलु परावरान्तरमिमान् जल्पकगुणाञ् श्रेयस्करान् दोषवतश्च परीक्षेत सम्यक् तद्यथा--श्रुतं विज्ञानं धारणं प्रतिभानं वचनशक्तिरिति एतान् गुणान् श्रेयस्करानाहुः इमान् पुनर्दोषवतः तद्यथाकोपनत्वमवैशारद्यं भीरुत्वमधारणत्वमनवहितत्वमिति एतान् गुणान् गुरुलाघवतः परस्य चैवात्मनश्च तुलयेत् १८
तत्र त्रिविधः परः संपद्यते प्रवरः प्रत्यवरः समो वा गुणविनिक्षेपतः नत्वेव कार्त्स्न्येन १९
परिषत्तु खलु द्विविधा ज्ञानवती मूढपरिषच्च सैव द्विविधा सति त्रिविधा पुनरनेन कारणविभागेन सुहृत्परिषत् उदासीनपरिषत् प्रतिनिविष्टपरिषच्चेति तत्र प्रतिनिविष्टायां परिषदि ज्ञानविज्ञानवचनप्रतिवचनशक्तिसंपन्नायां मूढायां वा न कथंचित् केनचित् सह जल्पो विधीयते मूढायां तु सुहृत्परिषद्युदासीनायां वा ज्ञानविज्ञानवचनप्रतिवचनशक्तीरन्तरेणाप्यदीप्तयशसा महाजनविद्विष्टेनापि सह जल्पो विधीयते तद्विधेन च सह कथयता आविद्धदीर्घसूत्रसंकुलैर्वाक्यदण्डकैः कथयितव्यम् अतिहृष्टं मुहुर्मुहुरुपहसता परं निरूपयता च पर्षदमाकारैर्ब्रुवतश्चास्य वाक्यावकाशो न देयः कष्टशब्दं च ब्रुवता वक्तव्यो नोच्यते अथवा पुनर्हीना ते प्रतिज्ञा इति पुनश्चाहूयमानः प्रतिवक्तव्यः--परिसंवत्सरो भवान् शिक्षस्व तावत् न त्वया गुरुरुपासितो नूनम् अथवा पर्याप्तमेतावत्ते सकृदपि हि परिक्षेपिकं निहतं निहतमाहुरिति नास्य योगः कर्त्तव्यः कथञ्चित् अप्येवं श्रेयसा सह विगृह्य वक्तव्यमित्याहुरेके नत्वेवं ज्यायसा सह विग्रहं प्रशंसन्ति कुशलाः २०
प्रत्यवरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम् अथवाऽप्युदासीनपरिषद्यवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसंपन्नायां कथयता चावहितेन परस्य साद्गुण्यदोषबलमवेक्षितव्यं समवेक्ष्य च यत्रैनं श्रेष्ठं मन्येत नास्य तत्र जल्पं योजयेदनाविष्कृतमयोगं कुर्वन् यत्र त्वेनमवरं मन्येत तत्रैवैनमाशु निगृह्णीयात् तत्र खल्विमे प्रत्यवराणामाशु निग्रहे भवन्त्युपायाः तद्यथाश्रुतहीनं महता सूत्रपाठेनाभिभवेत् विज्ञानहीनं पुनः कष्टशब्देन वाक्येन वाक्यधारणाहीनमाविद्धदीर्घसूत्रसंकुलैर्वाक्यदण्डकैः प्रतिभाहीनं पुनर्वचनेनैकविधेनानेकार्थवाचिना वचनशक्तिहीनमर्धोक्तस्य वाक्यस्याक्षेपेण अविशारदमपत्रपणेन कोपनमायासनेन भीरुं वित्रासनेन अनवहितं नियमनेनेति एवमेतैरुपायैः परमवरमभिभवेच्छीघ्रम् २१
तत्र श्लोकौ-- विगृह्य कथयेदुक्त्या युक्तं च न निवारयेत्
विगृह्यभाषा तीव्रं हि केषांचिद्द्रोहमावहेत् २२
नाकार्यमस्ति क्रुद्धस्य नावाच्यमपि विद्यते
कुशला नाभिनन्दन्ति कलहं समितौ सताम् २३
एवं प्रवृत्ते वादे कुर्यात् २४
प्रागेव तावदिदं कर्तुं यतेत--सन्धाय पर्षदाऽयनभूतमात्मनः प्रकरणमादेशयितव्यं यद्वा परस्य भृशदुर्गं स्यात् पक्षमथवा परस्य भृशं विमुखमानयेत् परिषदि चोपसंहितायामशक्यमस्माभिर्वक्तुम् एषैव ते परिषद्यथेष्टं यथायोगं यथाभिप्रायं वादं वादमर्यादां च स्थापयिष्यतीत्युक्त्वा तूष्णीमासीत २५
तत्रेदं वादमर्यादालक्षणं भवति -- इदं वाच्यम् इदमवाच्यम् एवं पराजितो भवतीति २६
इमानि तु खलु पदानि भिषग्वादमार्गज्ञानार्थमधिगम्यानि भवन्ति तद्यथा--वादः द्रव्यं गुणाः कर्म सामान्यं विशेषः समवायः प्रतिज्ञा स्थापना प्रतिष्ठापना हेतुः दृष्टान्तः उपनयः निगमनम् उत्तरं सिद्धान्तः शब्दः प्रत्यक्षम् अनुमानम् ऐतिह्यम् औपम्यं संशयः प्रयोजनं सव्यभिचारं जिज्ञासा व्यवसायः अर्थप्राप्तिः सम्भवः अनुयोज्यम् अननुयोज्यम् अनुयोगः प्रत्यनुयोगः वाक्यदोषः वाक्यप्रशंसा छलम् अहेतुः अतीतकालम् उपालम्भः परिहारः प्रतिज्ञाहानिःअभ्यनुज्ञा हेत्वन्तरम् अर्थान्तरं निग्रहस्थानमिति २७
तत्र वादो नाम स यत् परेण सह शास्त्रपूर्वकं विगृह्य कथयति स च द्विविधः संग्रहेण जल्पः वितण्डा च तत्र पक्षाश्रितयोर्वचनं जल्पः जल्पविपर्ययो वितण्डा यथाएकस्य पक्षः पुनर्भवोऽस्तीति नास्तीत्यपरस्य तौ च स्वस्वपक्षहेतुभिः स्वस्वपक्षं स्थापयतः परपक्षमुद्भावयतः एष जल्पः जल्पविपर्ययो वितण्डावितण्डा नाम परपक्षे दोषवचनमात्रमेव २८
द्रव्यगुणकर्मसामान्यविशेषसमवायाः स्वलक्षणैः श्लोकस्थाने पूर्वमुक्ताः २९
अथ प्रतिज्ञाप्रतिज्ञा नाम साध्यवचनं यथानित्यः पुरुष इति ३०
अथ स्थापना--स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनैः स्थापना पूर्वं हि प्रतिज्ञा पश्चात् स्थापना किं ह्यप्रतिज्ञातं स्थापयिष्यति यथा नित्यः पुरुष इति प्रतिज्ञा हेतुः अकृतकत्वादिति दृष्टान्तः यथाऽऽकाशमिति उपनयः यथा चाकृतकमाकाशं तच्च नित्यं तथा पुरुष इति निगमनं तस्मान्नित्य इति ३१
अथ प्रतिष्ठापना प्रतिष्ठापना नाम या तस्या एव परप्रतिज्ञाया विपरीतार्थस्थापना यथाअनित्यः पुरुष इति प्रतिज्ञा हेतुः ऐन्द्रियकत्वादिति दृष्टान्तः यथा घट इति उपनयो यथा घट ऐन्द्रियकः स चानित्यः तथा चायमिति निगमनं तस्मादनित्य इति ३२
अथ हेतुः--हेतुर्नामोपलब्धिकारणं तत् प्रत्यक्षम् अनुमानम् ऐतिह्यम् औपम्यमिति एभिर्हेतुभिर्यदुपलभ्यते तत् तत्त्वम् ३३
अथ दृष्टान्तः दृष्टान्तो नाम यत्र मूर्खविदुषां बुद्धिसाम्यं यो वर्ण्यं वर्णयति यथा अग्निरुष्णः द्रवमुदकं स्थिरा पृथिवी आदित्यः प्रकाशक इति यथा आदित्यः प्रकाशकस्तथा सांख्यज्ञानं प्रकाशकमिति ३४
उपनयो निगमनं चोकं स्थापनाप्रतिष्ठापनाव्याख्यायाम् ३५
अथोत्तरम् उत्तरं नाम साधर्म्योपदिष्टे हेतौ वैधर्म्यवचनं वैधर्म्योपदिष्टे वा हेतौ साधर्म्यवचनम् यथा हेतुसधर्माणो विकाराः शीतकस्य हि व्याधेर्हेतुभिः साधर्म्यं हिमशिशिरवातसंस्पर्शाः इति ब्रुवतः परो ब्रूयात् हेतुविधर्माणो विकाराः यथा शरीरावयवानां दाहौष्ण्यकोथप्रपचने हेतुवैधर्म्यं हिमशिशिरवातसंस्पर्शा इति एतत् सविपर्ययमुत्तरम् ३६
अथ सिद्धान्तःसिधान्तो नाम स यः परीक्षकैर्बहुविधं परीक्ष्य हेतुभिश्चसाधयित्वा स्थाप्यते निर्णयः स चतुर्विधः--सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिधान्तः अधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तश्चेति तत्र सर्वतन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन् सर्वस्मिंस्तन्त्रे तत्तत् प्रसिद्धं यथा सन्ति निदानानि सन्ति व्याधयः सन्ति सिद्ध्युपायाः साध्यानामिति प्रतितन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन्नेकैकस्मिंस्तन्त्रे तत्तत् प्रसिद्ध यथा --अन्यत्राष्टौ रसाः षडत्र पञ्चेन्द्रियाण्यत्र षडिन्द्रियाण्यन्यत्र तन्त्रे वातादिकृताः सर्वे विकारा यथाऽन्यत्र अत्र वातादिकृता भूतकृताश्च प्रसिद्धाः अधिकरणसिद्धान्तो नाम स यस्मिन्नधिकरणे प्रस्तूयमाने सिद्धान्यन्यान्यप्यधिकरणानि भवन्ति यथा न मुक्तः कर्मानुबन्धिकं कुरुते निस्पृहत्वात् इति प्रस्तुते सिद्धाः कर्मफलमोक्षपुरुषप्रेत्यभावा भवन्ति अभ्युपगमसिद्धान्तो नाम स यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा वादकालेऽभ्युपगच्छन्ति भिषजः तद्यथा--द्रव्यं प्रधानमिति कृत्वा वक्ष्यामः गुणाः प्रधानमिति कृत्वा वक्ष्यामः वीर्यं प्रधानमिति कृत्वा वक्ष्यामः इत्येवमादिः इति चतुर्विधः सिद्धान्तः ३७
अथ शब्दः--शब्दो नाम वर्णसमाम्नायः स चतुर्विधः--दृष्टार्थश्च अदृष्टार्थश्च सत्यश्च अनृतश्चेति तत्र दृष्टार्थो नामत्रिभिर्होतुभिर्दोषाः प्रकुप्यन्ति षड्भिरुपक्रमैश्च प्रशाम्यन्ति सति श्रोत्रादिसद्भावे शब्दादिग्रहणमिति अदृष्टार्थः पुनः अस्ति प्रेत्यभावः अस्ति मोक्ष इति सत्यो नाम -- यथार्थभूतः सन्त्यायुर्वेदोपदेशाः सन्ति सिद्ध्युपायाः साध्यानां व्याधीनां सत्यारम्भफलानीति सत्यविपर्ययश्चानृतः ३८
अथ प्रत्यक्षं--प्रत्यक्षं नाम तद्यदात्मना चेन्द्रियैश्च स्वयमुपलभ्यते तत्रात्मप्रत्यक्षाः सुखदुःखेच्छाद्वेषादयः शब्दादयस्त्विन्द्रियप्रत्यक्षाः ३९
अथानुमानम्--अनुमानं नाम तर्को युक्त्यपेक्षः यथा--अग्निं जरणशक्त्या बलं व्यायामशक्त्या श्रोत्रादीनि शब्दादिग्रहणेनेत्येवमादि ४०
अथैतिह्यम्--ऐतिह्यं नामाप्तोपदेशो वेदादिः ४१
अथौपम्यम्--औपम्यं नाम यदन्येनान्यस्य सादृश्यमधिकृत्य प्रकाशनं यथा -- दण्डेन दण्डकस्य धनुषा धनुःस्तम्भस्य इष्वासेनाऽऽरोम्यदस्येति ४२
अथ संशयः--संशयो नाम सन्देहलक्षणानुसन्दिग्धेष्वर्थेष्वनिश्चयः यथा--दृष्टा ह्यायुष्मल्लक्षणैरुपेताश्चानुपेताश्च तथा सक्रियाश्चाक्रियाश्च पुरुषाः शीघ्रभङ्गाश्चिरजीविनश्च एतदुभयदृष्टत्वात् संशयः किमस्ति खल्वकालमृत्युरुत नास्तीति ४३
अथ प्रयोजनं प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भाः यथा --यद्यकालमृत्युरस्ति ततोऽहमात्मानमायुष्यैरुपचरिष्याम्यनायुष्याणि च परिहरिष्यामिकथं मामकालमृत्युः प्रसहेतेति ४४
अथ सव्यभिचारंसव्यभिचारं नाम यद्व्यभिचरणं यथा--भवेदिदमौषधमस्मिन् व्याधौ यौगिकमथवा नेति ४५
अथ जिज्ञासा--जिज्ञासा नाम परीक्षा यथा भेषजपरीक्षोत्तरकालमुपदेक्ष्यते ४६
अथ व्यवसायः--व्यवसायो नाम निश्चयः यथा वातिक एवायं व्याधिः इदमेवास्य भेषजं चेति ४७
अथार्थप्राप्तिः--अर्थप्राप्तिर्नाम यत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापि सिद्धिः यथा--नायं संतर्पणसाध्यो व्याधिरित्युक्ते भवत्यर्थप्राप्तिः -- अपतर्पणसाध्योऽयमिति नानेन दिवा भोक्तव्यमित्युक्ते भवत्यर्थप्राप्तिः -- निशि भोक्तव्यमिति ४८
अथ संभवः--यो यतः संभवति स तस्य संभवः यथा --षड्धातवो गर्भस्य व्याधेरहितं हितमारोग्यस्येति ४९
अथानुयोज्यम्--अनुयोज्यं नाम यद्वाक्यं वाक्यदोषयुक्तं तत् सामान्यतो व्याहृतेष्वर्थेषु वा विशेषग्रहणार्थं यद्वाक्यं तदप्यनुयोज्यं यथा संशोधनसाध्योऽयं व्याधिः इत्युक्ते किं वमनसाध्योऽयं किंवा विरेचनसाध्यः इत्यनुयुज्यते ५०
यथाननुयोज्यम्अननुयोज्यं नामातो विपर्ययेण यथाअयमसाध्यः ५१
अथानुयोगः--अनुयोगो नाम स यत् तद्विद्यानां तद्विद्यैरेव सार्धं तन्त्रे तन्त्रैकदेशे वा प्रश्नः प्रश्नैकदेशो वा ज्ञानविज्ञानवचनप्रतिवचनपरीक्षार्थमादिश्यते यथा--नित्यः पुरुषः इति प्रतिज्ञाते यत् परः को हेतुः इत्याह सोऽनुयोगः५२
अथ प्रत्यनुयोगः--प्रत्यनुयोगो नामानुयोगस्यानुयोगः यथा--अस्यानुयोगस्य पुनः को हेतुरिति ५३
अथ वाक्यदोषः--वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे न्यूनम् अधिकम् अनर्थकम् अपार्थकं विरुद्धं चेति एतानि ह्यन्तरेण न प्रकृतोऽर्थः प्रणश्येत् तत्र न्यूनं -- प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमेनापि नयूनं न्यूनं भवति यद्वा बहूपदिष्टहेतुकमेकेन हेतुना साध्यते तच्च न्यूनम् अथाधिकम्--अधिकं नाम यन्न्यूनविपरीतं यद्वाऽऽयुर्वेदे भाष्यमाणे बार्हस्पत्यमौशनसमन्यद्वा यत्किंचिदप्रतिसंबद्धार्थमुच्यते यद्वा संबद्धार्थमपि द्विरभिधीयते तत् पुनरुक्तदोषत्वादधिकं तच्च पुनरुक्तं द्विविधम्-- अर्थपुनरुक्तं शब्दपुनरुक्तं च तत्रार्थपुनरुक्तं यथा--भेषजमौषधं साधनमिति शब्दपुनरुक्तं पुनर्भेषजं भेषजमिति अथानर्थकम्--अनर्थकं नाम यद्वचनमक्षरग्राममात्रमेव स्यात् पञ्चवर्गवन्न चार्थतो गृह्यते अथापार्थकम्--अपार्थकं नाम यदर्थवच्च परस्परेणासंयुज्यमानार्थकं यथा चक्रनक्रवंशवज्रनिशाकरा इति अथ विरुद्धं विरुद्धं नाम यद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं तत्र पूर्वं दृष्टान्तसिद्धान्तावुक्तौ समयः पुनस्त्रिधां भवति यथा--आयुर्वैदिकसमयः याज्ञिकसमयः मोक्षशास्त्रिकसमयश्चेति तत्रायुर्वैदिकसमयः --चतुष्पादं भेषजमिति याज्ञिकसमयः--आलभ्या यजमानैः पशव इति मोक्षशास्त्रिकसमयः सर्वभूतेष्वहिंसेति तत्र स्वसमयविपरीतमुच्यमानं विरुद्धं भवति इति वाक्यदोषाः ५४
अथ वाक्यप्रशंसा--वाक्यप्रशंसा नाम यथा खल्वस्मिन्नर्थे त्वन्यूनम् अनधिकम् अर्थवत् अनपार्थकम् अविरुद्धम् अधिगतपदार्थं चेति यत्तद्वाक्यमननुयोज्यमिति प्रशस्यते ५५
अथ च्छलं छलं नाम परिशठमर्थाभासमनर्थकं वाग्वस्तुमात्रमेव तद्द्विविधं वाक्छलं सामान्यच्छलं च तत्र वाक्छलं नाम यथा कश्चिद्ब्रूयात्नवतन्त्रोऽयं भिषगिति अथ भिषग् ब्रूयात्--नाहं नवतन्त्र एकतन्त्रोऽहमिति परो ब्रूयात् नाहं ब्रवीमि नव तन्त्राणि तवेति अपि तु नवाभ्यस्तं ते तन्त्रमिति भिषक् ब्रूयात् न मया नवाभ्यस्तं तन्त्रम् अनेकधाऽभ्यस्तं मया तन्त्रमिति एतद्वाक्छलम् सामान्यच्छलं नाम यथा--व्याधिप्रशमनायौषधमित्युक्ते परो ब्रूयात्--सत् सत्प्रशमनायेति किं नु भवानाह सन् हि रोगः सदौषधं यदि च सत् सत्प्रशमनाय भवति तत्र सत् कासः सत् क्षयः सत्सामान्यात् कासस्ते क्षयप्रशमनाय भविष्यतीति एतत् सामान्यच्छलम् ५६
अथाहेतुः--अहेतुर्नाम प्रकरणसमः संशयसमः वर्ण्यसमश्चेति तत्र प्रकरणसमो नामाहेतुर्यथा--अन्यः शरीरादात्मा नित्य इति परो ब्रूयात् यस्मादन्यः शरीरादात्मा तस्मान्नित्यः शरीरं ह्यनित्यमतो विधर्मिणा चात्मना भवितव्यमित्येष चाहेतुः नहि य एव पक्षः स एव हेतुरति संशयसमो नामाहेतुर्य एव संशयहेतुः स एव संशयच्छेदहेतुः यथा अयमायुर्वेदैकदेशमाह किंन्वयं चिकित्सकः स्यान्न वेति संशये परो ब्रूयात् यस्मादयमायुर्वेदैकदेशमाह तस्माच्चिकित्सकोऽयमिति न च संशयच्छेदहेतुं विशेषयति एष चाहेतुः न हि य एव संशयहेतुः स एव संशयच्छेदहेतुर्भवति वर्ण्यसमो नामाहेतुः यो हेतुर्वर्ण्याविशिष्टः यथा कश्चिद्ब्रूयात् अस्पर्शत्वाद्बुद्धिरनित्या शब्दवदिति अत्र वर्ण्यः शब्दो बुद्धिरपि वर्ण्या तदुभयवर्ण्याविशिष्टत्वाद्वर्ण्यसमोऽप्यहेतुः ५७
अथातीतकालम्--अतीतकालं नाम यत् पूर्वं वाच्यं तत् पश्चादुच्यते तत् कालातीत्वादग्राह्यं भवनीति पूर्वं वा निग्रहप्राप्तमनिगृह्य परिगृह्य पक्षान्तरितं पश्चान्निगृहीते तत्तस्यातीतकालत्वान्निग्रहवचनमसमर्थं भवतीति ५८
अथोपालम्भः--उपालम्भो नाम हेतोर्दोषवचनं यथा पूर्वमहेतवो हेत्वाभासा व्याख्याताः ५९
अथ परिहारः परिहारो नाम तस्यैव दोषवचनस्य परिहरणं यथा--नित्यमात्मनि शरीरस्थे जीवलिङ्गान्युपलभ्यन्ते तस्य चापगमान्नोपलभ्यन्ते तस्मादन्यः शरीरादात्मा नित्यश्चेति ६०
अथ प्रतिज्ञाहानिः--प्रतिज्ञाहानिर्नाम सा पूर्वपरिगृहीतां प्रतिज्ञां पर्यनुयुक्तो यत परित्यजति यथा प्राक् प्रतिज्ञां कृत्वा नित्यः पुरुष इति पर्यनुयुक्तस्त्वाह अनित्य इति ६१
अथाभ्यनुज्ञा अभ्यनुज्ञा नाम सा य इष्टानिष्टाभ्युपगमः ६२
अथ हेत्वन्तरं -- हेत्वन्तरं नाम प्रकृतहेतौ वाच्ये यद्विकृतहेतुमाह ६३
अथार्थान्तरम्--अर्थान्तरं नामैकस्मिन् वक्तव्येऽपरं यदाह यथाज्वरलक्षणे वाच्ये प्रमेहलक्षणमाह ६४
अथ निग्रहस्थानं--निग्रहस्थानं नाम पराजयप्राप्तिः तच्च त्रिरभिहितस्य वाक्यस्यापरिज्ञानं परिषदि विज्ञानवत्यां यद्वा अननुयोज्यस्यानुयोगोऽनुयोज्यस्य चाननुयोगः प्रतिज्ञाहानिः अभ्यनुज्ञा कालातीतवचनम् अहेतुः न्यूनम् अधिकं व्यर्थम् अनर्थकं पुनरुक्तं विरुद्धं हेत्वन्तरम् अर्थान्तरं च निग्रहस्थानम् ६५
इति वादमार्गपदानि यथोद्देशमभिनिर्दिष्टानि भवन्ति ६६
वादस्तु खलु भिषजां प्रवर्तमानो प्रवर्तेतायुर्वेद एव नान्यत्र अत्र हि वाक्यप्रतिवाक्यविस्तराः केवलाश्चोपपत्तयः सर्वाधिकरणेषु तां सर्वाः समवेक्ष्यावेक्ष्य सर्वं वाक्यं ब्रूयात् नाप्रकृतकमशास्त्रमपरीक्षितमसाधकमाकुलमव्यापकं वा सर्वं च हेतुमद्ब्रूयात् हेतुमन्तो ह्यकलुषाः सर्वं एव वादविग्रहाश्चिकित्सिते कारणभूताः प्रशस्तबुद्धिवर्धकत्वात् सर्वारम्भसिद्धिं ह्यावहत्यनुपहता बुद्धिः ६७
इमानि खलु तावदिह कानिचित् प्रकरणानि भिषजां ज्ञानार्थमुपदेक्ष्यामः ज्ञानपूर्वकं हि कर्मणां समारम्भं प्रशंसन्ति कुशलाः ज्ञात्वा हि कारणकरणकार्ययोनिकार्यकार्यफलानुबन्धदेशकालप्रवृत्त्युपायान् सम्यगभिनिर्वर्तमानः कार्याभिनिर्वृत्ताविष्टफलानुबन्धं कार्यमभिनिर्वर्तयत्यनतिमहता यत्नेन कर्ता ६८
तत्र कारणं नाम तद् यत् करोति स एव हेतुः स कर्ता ६९
करणं पुनस्तद् यदुपकरणायोपकल्पते कर्तुः कार्याभिनिर्वृत्तौ प्रयतमानस्य७०
कार्ययोनिस्तु सा या विक्रियमाणा कार्यत्वमापद्यते ७१
कार्यं तु तद्यस्याभिनिर्वृत्तिमभिसन्धाय कर्ता प्रवर्तते ७२
कार्यफलं पुनस्तद् यत्प्रयोजना कार्याभिनिर्वृत्तिरिष्यते ७३
अनुबन्धः खलु स यः कर्तारमवश्यमनुबध्नाति कार्यादुत्तरकालं कार्यनिमित्तः
शुभो वाऽप्यशुभो भावः ७४
देशस्त्वधिष्ठानम् ७५
कालः पुनः परिणामः ७६
प्रवृत्तिस्तु खलु चेष्टा कार्यार्था सैव क्रिया कर्म यत्नः कार्यसमारम्भश्च ७७
उपायः पुनस्त्रयाणां कारणादीनां सौष्ठवमभिविधानं च सम्यक् कार्यकार्यफलानुबन्धवर्ज्यानां कार्याणामभिनिर्वर्तक इत्यतस्तूपायः कृते नोपायार्थोऽस्ति न च विद्यते तदात्वे कृताच्चोत्तरकालं फलं फलाच्चानुबन्ध इति ७८
एतद्दशविधमग्रे परीक्ष्यं ततोऽनन्तरं कार्यार्था प्रवृत्तिरिष्टा तस्माद्भिषक् कार्यं चिकीर्षुः प्राक् कार्यसमारम्भात् परीक्षया केवलं परीक्ष्यं परीक्ष्य कर्म समारभेत कर्तुम् ७९
तत्र चेद्भिषगभिषग्वा भिषजं कश्चिदेवं खलु पृच्छेद् वमनविरेचनास्थापनानुवासनशिरोविरेचनानि प्रयोक्तुकामेन भिषजा कतिविधया परीक्षया कतिविधमेव परीक्ष्यं कश्चात्र परीक्ष्यविशेषः कथं च परीक्षितव्यः किंप्रयोजना च परीक्षा क्व च वमनादीनां प्रवृत्तिः क्व च निवृत्तिः प्रवृत्तिनिवृत्तिलक्षणसंयोगे च किं नैष्ठिकं कानि च वमनादीनां भेषजद्रव्याण्युपयोगं गच्छन्तीति ८०
स एवं पृष्टो यदि मोहयितुमिच्छेत् ब्रूयादेनं बहुविधा हि परीक्षा तथा परीक्ष्यविधिभेदः कतमेन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षया केन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्य भेदाग्रं भवान् पृच्छत्याख्यायमानं नेदानीं भवतोऽन्येन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षयाऽन्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्याभिलषितमर्थं श्रोतुमहमन्येन परीक्षाविधिभेदेनान्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यं भित्त्वाऽन्यथाऽऽचक्षाण इच्छां पूरयेयमिति ८१
स यदुत्तरं ब्रूयात्तत् समीक्ष्योत्तरं वाच्यं स्याद्यथोक्तं च प्रतिवचनविधिमवेक्ष्य सम्यक् यदि तु ब्रूयान्न चैनं मोहयितुमिच्छेत् प्राप्तं तु वचनकालं मन्येत काममस्मै ब्रूयादाप्तमेव निखिलेन ८२
द्विविधा तु खलु परीक्षा ज्ञानवतां--प्रत्यक्षम् अनुमानं च एतद्धि द्वयमुपदेशश्च परीक्षा स्यात् एवमेषा द्विविधा परीक्षा त्रिविधा वा सहोपदेशेन ८३
दशविधं तु परीक्ष्यं कारणादि यदुक्तमग्रे तदिह भिषगादिषु संसार्य संदर्शयिष्यामः--इह कार्यप्राप्तौ कारणं भिषक् करणं पुनर्भेषजं कार्ययोनिर्धातुवैषम्यं कार्यं धातुसाम्यं कार्यफलं सुखावाप्तिः अनुबन्धः खल्वायुः देशो भूमिरातुरश्च कालः पुनः संवत्सरश्चातुरावस्था च प्रवृत्तिः प्रतिकर्मसमारम्भः उपायस्तु भिषगादीनां सौष्ठवमभिविधानं च सम्यक् इहाप्यस्योपायस्य विषयः पूर्वेणैवोपायविशेषेण व्याख्यातः इति कारणादीनि दश दशसु भिषगादिषु संसार्य संदर्शितानि तथैवानुपूर्व्यैतद्दशविधं परीक्ष्यमुक्तं च ८४
तस्य यो यो विशेषो यथा यथा च परीक्षितव्यः स तथा तथा व्याख्यास्यते ८५
कारणं भिषगित्युक्तमग्रे तस्य परीक्षा--भिषङ्माम यो भिषज्यति यः सूत्रार्थप्रयोगकुशलः यस्य चायुः सर्वथा विदितं यथावत् स च सर्वधातुसाम्यं चिकीर्षन्नात्मानमेवादितः परीक्षेत गुणिषु गुणतः कार्याभिनिर्वृत्तिं पश्यन् कच्चिदहमस्य कार्यस्याभिनिर्वर्तने समर्थो न वेति तत्रेमे भिषग्गुणा यैरुपपन्नो भिषग्धातुसाम्याभिनिर्वर्तने समर्थो भवति तद्यथा -- पर्यवदातश्रुतता परिदृष्टकर्मता दाक्ष्यं शौचं जितहस्तता उपकरणवत्ता सर्वेन्द्रियोपपन्नता प्रकृतिज्ञता प्रतिपत्तिज्ञता चेति ८६
करणं पुनर्भेषजम् भेषजं नाम तद्यदुपकरणायोपकल्पते भिषजो धातुसाम्याभिनिर्वृत्तौ प्रयतमानस्य विशेषतश्चोपायान्तेभ्यः तद्द्विविधं व्यपाश्रयभेदात्--दैवव्यपाश्रयं युक्तिव्यपाश्रयं चेति तत्र देवव्यपाश्रयं मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि युक्तिव्यपाश्रयं संशोधनोपशमने चेष्टाश्च दृष्टफलाः एतच्चैव भेषजमङ्गभेदादपि द्विविधं द्रव्यभूतम् अद्रव्यभूत च तत्र यद्द्रव्यभूतं तदुपायाभिप्लुतम् उपायो नाम भयदर्शनविस्मापनविस्मारणक्षोभणहर्षणभर्त्सनवधबन्धस्वप्नसंवाहनादिरमूर्तो भावविशेषो यथोक्ताः सिद्ध्युपायाश्चोपायाभिप्लुता इति यत्तु द्रव्यभूतं तद्वमनादिषु योगमुपैति तस्यापीयं परीक्षाइदमेवंप्रकृत्येवंगुणमेवंप्रभावमस्मिन् देशे जातमस्मिन्नृतावेवं गृहीतमेवं निहितमेवमुपस्कृतमनया च मात्रया युक्तमस्मिन् व्याधावेवंविधस्य पुरुषस्यैवतावन्तं दोषमपकर्षत्युपशमयति वा यदन्यदपि चैवंविधं भेषजं भवेत्तच्चानेन विशेषेण युक्तमिति ८७
कार्ययोनिर्धातुवैषम्यं तस्य लक्षणं विकारागमः परीक्षा त्वस्य विकारप्रकृतेश्चैवोनातिरिक्तलिङ्गविशेषावेक्षणं विकारस्य च साध्यासाध्यमृदुदारुणलिङ्गविशेषावेक्षणमिति ८८
कार्यं धातुसाम्यं तस्य लक्षणं विकारोपशमः परीक्षा त्वस्य रुगुपषशमनं स्वरवर्णयोगः शरीरोपचयः बलवृद्धिः अभ्यवहार्याभिलाषः रुचिराहारकाले अभ्यवहृतस्य चाहारस्य काले सम्यग्जरणं निद्रालाभो यथाकालं वैकारिकाणां च स्वप्नानामदर्शनं सुखेन च प्रतिबोधनं वातमूत्रपुरीषरेतसां मुक्तिः सर्वाकारैर्मनोबुद्धीन्द्रियाणां चाव्यापत्तिरिति ८९
कार्यफलं सुखावाप्तिः तस्य लक्षणं--मनोबुद्धीन्द्रियशरीरतुष्टिः ९०
अनुबन्धस्तु खल्वायुः तस्य लक्षणं प्राणैः सह संयोगः ९१
देशस्तु भूमिरातुरश्च ९२
तत्र भूमिपरीक्षा आतुरपरिज्ञानहेतोर्वा स्यादौषधपरिज्ञानहेतोर्वा तत्र तावदियमातुरपरिज्ञानहेतोः तद्यथाअयं कस्मिन् भूमिदेशे जातः संवृद्धो व्याधितो वा तस्मिंश्च भूमिदेशे मनुष्याणामिदमाहारजातम् इदं विहारजातम् इदमाचारजातम् एतावच्च बलम् एवंविधं सत्त्वम् एवंविधं सात्म्यम् एवंविधो दोषः भक्तिरियम् इमे व्याधयः हितमिदम् अहितमिदमिति प्रायोग्रहणेन औषधपरिज्ञानहेतोस्तु कल्पेषु भूमिपरीक्षा वक्ष्यते ९३
आतुरस्तु खलु कार्यदेशः तस्य परीक्षा आयुषः प्रमाणज्ञानहेतोर्वा स्याद् बलदोषप्रमाणज्ञानहेतोर्वा तत्र तावदियं बलदोषप्रमाणज्ञानहेतोः दोषप्रमाणानुरूपो हि भेषजप्रमाणविकल्पो बलप्रमाणविशेषापेक्षो भवति सहसा ह्यतिबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमतिपातयेत् न ह्यतिबलान्याग्नेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणि वा शक्यन्तेऽल्पबलैः सोढुम् असह्यातितीक्ष्णवेगत्वाद्धि तानि सद्यः प्राणहराणि स्युः एतच्चैव कारणमपेक्षमाणा हीनबलमातुरमविषादकरैर्मृदुसुकुमारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमै-रनात्ययिकैश्चोपचरन्त्यौषधैः विशेषतश्च मारीः ता ह्यनवस्थितमृदुविवृतविक्लवहृदयाः प्रायः सुकुमार्योऽबलाः परसंस्तभ्याश्च तथा बलवति बलवद्व्याधिपरिगते स्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेव भवति तस्मादातुरं परीक्षेत प्रकृतितश्च विकृतितश्च सारतश्च संहननतश्च प्रमाणतश्च सात्म्यतश्च सत्त्वतश्च आहारशक्तितश्च व्यायामशक्तितश्च वयस्तश्चेति बलप्रमाणविशेषग्रहणहेतोः ९४
तत्र प्रकृत्यादीन् भावाननुव्याख्यास्यामः तद्यथा--शुक्रशोणितप्रकृतिं कालगर्भाशयप्रकृतिं आतुराहारविहारप्रकृतिं महाभूतविकारप्रकृतिं च गर्भशरीरमपेक्षते एतानि हि येन येन दोषेणाधिकेनैकेनानेकेन वा समनुबध्यन्ते तेन तेन दोषेण गर्भोऽनुबध्यते ततः सा सा दोषप्रकृतिरुच्यते मनुष्याणां गर्भादिप्रवृत्ता तस्माच्छ्लेष्मलाः प्रकृत्या केचित् पित्तलाः केचित् वातलाः केचित् संसृष्टाः केचित् समधातवः केचिद्भवन्ति तेषां हि लक्षणानि व्याख्यास्यामः ९५
श्लेष्मा हि स्निग्धश्लक्ष्णमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविज्जलाच्छः तस्य स्नेहाच्छ्लेष्मलाः स्निग्धाङ्गाः श्लक्ष्णत्वाच्छ्लक्ष्णाङ्गाः मृदुत्वाद्दृष्टिसुखसुकुमारावदातगात्राः माधुर्यात् प्रभूतशुक्रव्यवायापत्याः सारत्वात् सारसंहतस्थिरशरीराः सान्द्रत्वादुपचितपरिपूर्णसर्वाङ्गाः मन्दत्वान्मन्दचेष्टाहारव्याहाराः स्तैमित्यादशीघ्रारम्भक्षोभविकाराः गुरुत्वात् साराधिष्ठितावस्थितगतयः शैत्यादल्पक्षुत्तृष्णासंतापस्वेददोषाः विज्जलत्वात् सुश्लिष्टसारसन्धिबन्धनाः तथाऽच्छत्वात् प्रसन्नदर्शनाननाः प्रसन्नस्निग्धवर्णस्वराच्च भवन्ति त एवंगुणयोगाच्छ्लेष्मला बलवन्तो वसुमन्तो विद्यावन्त ओजस्विनः शान्ता आयुष्मन्तश्च भवन्ति ९६
पित्तमुष्णं तीक्ष्णं द्रवं विस्रमम्लं कटुकं च तस्यौष्ण्यात् पित्तला भवन्त्युष्णासहा उष्णमुखाः सुकुमारावदातगात्राः प्रभूतपिप्लुव्यङ्गतिलपिडकाः क्षुत्पिपासावन्तः क्षिप्रवलीपलितखालित्यदोषाः प्रायो मृद्वल्पकपिलश्मश्रुलोमकेशाश्च तैक्ष्ण्यात्तीक्ष्णपराक्रमाः तीक्ष्णाग्नयः प्रभूताशनपानाः क्लेशासहिष्णवो दन्दशूकाः द्रवत्वाच्छिथिलमृदुसन्धिमांसाः प्रभूतसृष्टस्वेदमूत्रपुरीषाश्च विस्रत्वात् प्रभूतपूतिकक्षास्यशिरःशरीरगन्धाः कट्वम्लत्वादल्पशुक्रव्यवायापत्याः त एवंगुणयोगात् पित्तला मध्यबला मध्यायुषो मध्यज्ञानविज्ञानविज्ञानवित्तोपकरणवन्तश्च भवन्ति ९७
वातस्तु रूक्षलघुचलबहुशीघ्रशीतपरुषविशदः तस्य रौक्ष्याद्वातला रूक्षापचिताल्पशरीराः प्रततरूक्षक्षामसन्नसक्तजर्जरस्वरा जागरूकाश्च भवन्ति लघुत्वाल्लघुचपलगतिचेष्टाहारव्याहाराः चलत्वादनवस्थितसन्ध्यक्षिभ्रूहन्वोष्ठजिह्वाशिरःस्कन्धपाणिपादाः बहुत्वाद्बहुप्रलापकण्डरासिराप्रतानाः शोघ्रत्वाच्छ्रीघ्रसमारम्भक्षोभविकाराः शीघ्रत्रासरागविरागाः श्रुतग्राहिणोऽल्पस्मृतयश्च शैत्याच्छीतासहिष्णवः प्रततशीतकोद्वेपकस्तम्भाः पारुष्यात् परुषकेशश्मश्रुरोमनखदशनवदनपाणिपादाः वैशद्यात् स्फुटिताङ्गावयवाः सततसन्धिशब्दगामिनश्च भवन्ति त एवं गुणयोगाद्वातलाः प्रायेणाल्पबलाश्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्च भवन्ति ॥ ९८
संसर्गात् संसृष्टलक्षणाः ९९
सर्वगुणसमुदितास्तु समधातवः इत्येवं प्रकृतितः परीक्षेत १००
विकृतितश्चेति विकृतिरुच्यते विकारः तत्र विकारं हेतुदोषदूष्यप्रकृतिदेशकालबलविशेषैर्लिङ्गतश्च परीक्षेत न ह्यन्तरेण हेत्वादीनां बलविशेषं व्याधिबलविशेषोपलब्धिः यस्य हि व्याधेर्दोषदूष्यप्रकृतिदेशकालबलसाम्यं भवति महच्च हेतुलिङ्गबलं स व्याधिर्बलवान् भवति तद्विपर्ययाच्चाल्पबलः मध्यबलस्तु दोषदूष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलत्वाच्चोपलभ्यते १०१
सारतश्चेति साराण्यष्टौ पुरुषाणां बलमानविशेषज्ञानार्थमुपदिश्यन्ते तद्यथात्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानीति १०२
तत्र स्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमा सप्रभेव च त्वक् त्वक्साराणाम् सा सारता सुखसौभाग्यैश्वर्योपभोगबुद्धिविद्यारोग्यप्रहर्षणान्यायुष्यत्वं चाचष्टे १०३
कर्णाक्षिमुखजिह्वानासौष्ठपाणिपादतलनखललाटमेहनं स्निग्धरक्तवर्णं श्रीमद्भ्राजिष्णु रक्तसाराणाम् सा सारता सुखमुद्धतां मेधां मनस्वित्वं सौकुमार्यमनतिबलमक्लेशसहिष्णुत्वमुष्णासहिष्णुत्वं चाचष्टे १०४
शङ्खललाटकृकाटिकाक्षिगण्डहनुग्रीवास्कन्धोदरकक्षवक्षःपाणिपादसन्धयः स्थिरगुरुशुभमांसोपचिता मांससाराणाम् सा सारता क्षमां धृतिमलौल्यं वित्तं विद्यां सुखमार्जवमारोग्यं बलमायुश्च दीर्घमाचष्टे १०५
वर्णस्वरनेत्रकेशलोमनखदन्तौष्ठमूत्रपुरीषेषु विशेषतः स्नेहो मेदःसाराणाम् सा सारता वित्तैश्वर्यसुखोपभोगप्रदानान्यार्जवं सुकुमारोपचारतां चाचष्टे १०६
पार्ष्णिगुल्फजान्वरत्निजत्रुचिबुकशिरःपर्वस्थूलाः स्थूलास्थिनखदन्ताश्चास्थिसाराः ते महोत्साहाः क्रियावन्तः क्लेशसहाः सारस्थिरशरीरा भवन्त्यायष्मन्तश्च १०७
मृद्वङ्गा बलवन्तः स्निग्धवर्णस्वराः स्थूलदीर्घवृत्तसन्धयश्च मज्जसाराः ते दीर्घायुषो बलवन्तः श्रुतवित्तविज्ञानापत्यसंमानभाजश्च भवन्ति १०८
सौम्याः सौम्यप्रेक्षिणः क्षीरपूर्णलोचना इव प्रहर्षबहुलाः स्निग्धवृत्तसारसमसंहतशिखरिदशनाः प्रसन्नस्निग्धवर्णस्वरा भ्राजिष्णवो महास्फिचश्च शुक्रसाराः ते स्त्रीप्रियोपभोगा बलवन्तः सुखैश्वर्यारोग्यवित्तसंमानापत्यभाजश्च भवन्ति १०९
स्मृतिमन्तो भक्तिमन्तः कृतज्ञाः प्राज्ञाः शुचयो महोत्साहा दक्षा धीराः समरविक्रान्तयोधिनस्त्यक्तविषादाः सुव्यवस्थितगतिगम्भीरबुद्धिचेष्टाः कल्याणाभिनिवेशिनश्च सत्त्वसाराः तेषां स्वलक्षणैरेव गुणा व्याख्याताः ११०
तत्र सर्वैः सारैरुपेताः पुरुषा भवन्त्यतिबलाः परमसुखयुक्ताः क्लेशसहाः सर्वारम्भेष्वात्मनि जातप्रत्ययाः कल्याणाभिनिवेशिनः स्थिरसमाहितशरीराः सुसमाहितगतयः सानुनादस्निग्धगम्भीरमहास्वराः सुखैश्वर्यवित्तोपभोगसंमानभाजो मन्दजरसो मन्दविकाराः प्रायस्तुल्यगुणविस्तीर्णापत्याश्चिरजीविनश्च १११
अतो विपरीतास्त्वसाराः ११२
मध्यानां मध्यैः सारविशेषैर्गुणविशेषा व्याख्याता भवन्ति ११३
इति साराण्यष्टौ पुरुषाणां बलप्रमाणविशेषज्ञानार्थमुपदिष्टानि भवन्ति ११४
कथं नु शरीरमात्रदर्शनादेव भिषङ्मुह्येदयमुपचितत्वाद्बलवान् अयमल्पबलः कृशत्वात् महाबलोऽयं महाशरीरत्वात् अयमल्पशरीरत्वादल्पबल इति दृश्यन्ते ह्यल्पशरीराः कृशाश्चैके बलवन्तः तत्र पिपीलिकाभारहरणवत् सिद्धिः अतश्च सारतः परीक्षेतेत्युक्तम् ११५
संहननतश्चेति संहननं संहतिः संयोजनमित्येकोऽर्थः तत्र समसुविभक्तास्थि सुबद्धसन्धि सुनिविष्टमांसशोणितं सुसंहतं शरीरमित्युच्यते तत्र सुसंहतशरीराः पुरुषा बलवन्तः विपर्ययेणाल्पबलाः मध्यत्वात् संहननस्य मध्यबला भवन्ति ११६
प्रमाणतश्चेति शरीरप्रमाणं पुनर्यथास्वेनाङ्गुलिप्रमाणेनोपदेक्ष्यते उत्सेधविस्तारायामैर्यथाक्रमम् तत्र पादौ चत्वारि षट् चतुर्दशाङ्गुलानि जङ्घे त्वष्टादशाङ्गुले षोडशाङ्गुलपरिक्षेपे च जानुनी चतुरङ्गुले षोडशाङ्गुलपरिक्षेपे त्रिंशदङ्गुलपरिक्षेपावष्टादशाङ्गुलावूरु षडङ्गुलदीर्घौ वृषणावष्टाङ्गुलपरिणाहौ शेफः षदङ्गुलदीर्घं पञ्चाङ्गुलपरिणाहं द्वादशाङ्गुलिपरिणाहो भगः षोडशाङ्गुलविस्तारा कटी दशाङ्गुलं बस्तिशिरः दशाङ्गुलविस्तारं द्वादशाङ्गुलमुदरं दशाङ्गुलविस्तीर्णे द्वादशाङ्गुलायामे पार्श्वे द्वादशाङ्गुलं स्तनान्तरं द्व्यङ्गुलं स्तनपर्यन्तं चतुर्विंशत्यङ्गुलविशालं द्वादशाङ्गुलोत्सेधमुरः द्व्यङ्गुलं हृदयम् अष्टाङ्गुलौ स्कन्धौ षडङ्गुलावंसौ षोडशाङ्गुलौ प्रबाहू पञ्चदशाङ्गुलौ प्रपाणी हस्तौ द्वादशाङ्गुलौ कक्षावष्टाङ्गुलौ त्रिकं द्वादशाङ्गुलोत्सेधम् अष्टादशाङ्गुलोत्सेधं पृष्ठं चतुरङ्गुलोत्सेधा द्वाविंशत्यङ्गुलपरिणाहा शिरोधरा द्वादशाङ्गुलोत्सेधं चतुर्विंशत्यङ्गुलपरिणाहमाननं पञ्चाङ्गुलमास्यं चिबुकौष्ठकर्णाक्षिमध्यनासिकाललाटं चतुरङ्गुलं षोडशाङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिरः इति पृथक्त्वेनाङ्गावयवानां मानमुक्तम् केवलं पुनः शरीरमङ्गुलिपर्वाणि चतुरशीतिः तदायामविस्तारसमं सममुच्यते तत्रायुर्वलमोजः सुखमैश्वर्यं वित्तसिष्टाश्चापरे भावा भयन्त्यायत्ताः प्रमाणवति शरीरे विपर्ययस्तवतो हीनेऽधिके वा ११७
सात्म्यतश्चेति सात्म्यं नाम तद्यत् सातत्येनोपसेव्यमानमुपशेते तत्र ये घृतक्षीरतैलमांसरससात्म्याः सर्वरससात्म्याश्च ते बलवन्तः क्लेशसहाश्चिरजीविनश्च भवन्ति रूक्षसात्म्याः पुनरेकरससात्म्याश्च ये ते प्रायेणाल्पबला अल्पक्लेशसहा अल्पायुषोऽल्पसाधनाश्च भवन्ति व्यामिश्रसात्म्यास्तु ये ते मध्यबलाः सात्म्यनिमित्ततो भवन्ति ११८
सत्त्वतश्चेति सत्त्वमुच्यते मनः तच्छरीरस्य तन्त्रकमात्मसंयोगात् तत्त्रिविधं बलभेदेन--प्रवरं मध्यमम् अवरं चेति अतश्च प्रवरमध्यावरसत्त्वाः पुरुषा भवन्ति तत्र प्रवरसत्त्वाः सत्त्वसारास्ते सारेषूपदिष्टाः स्वल्पशरीरा ह्यपि ते निजागन्तुनिमित्तासु महतीष्वपि पीडास्वव्यथा दृश्यन्ते सत्त्वगुणवैशेष्यात् मध्यसत्त्वास्त्वपरानात्मन्युपनिधाय संस्तम्भयन्त्यात्मनाऽऽत्मानं परैर्वाऽपि संस्तभ्यन्ते हीनसत्त्वास्तु नात्मना नापि परैः सत्त्वबलं प्रतिशक्यन्ते उपस्तम्भयितुं महाशरीरा ह्यपि ते स्वल्पानामपि वेदनानामसहा दृश्यन्ते सन्निहितभयशोकलोभमोहमाना रौद्रभैरवद्विष्टबीभत्सविकृतसंकथास्वपि च पशुपुरुषमांसशोणितानि चावेक्ष्य विषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवा मरणमिति ११९
आहारशक्तितश्चेति आहारशक्तिरभ्यवहरणशक्त्या जरणशक्त्या च परीक्ष्या बलायुषी ह्याहारायत्ते १२०
व्यायामशक्तितश्चेति व्यायामशक्तिरपि कर्मशक्त्या परीक्ष्या कर्मशक्त्या ह्यनुमीयते बलत्रैविध्यम् १२१
वयस्तश्चेति कालप्रमाणविशेषापेक्षिणी हि शरीरावस्था वयोऽभिधीयते तद्वयो यथास्थूलभेदेन त्रिविधं बालं मध्यं जीर्णमिति तत्र बालमपरिपक्वधातुमजातव्यञ्जनं सुकुमारमक्लेशसहमसंपूर्णबलं श्लेष्मधातुप्रायमाषोडशवर्षं विवर्धमानधातुगुणं पुनः प्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं मध्यं पुनः समत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणं बलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम् अतः परं हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानं भ्रश्यमानधातुगुणं वायुधातुप्रायं क्रमेण जीर्णमुच्यते आवर्षशतम् वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले सन्ति च पुनरधिकोनवर्षशतजीविनोऽपि मनुष्याः तेषां विकृतिवर्ज्यैः प्रकृत्यादिबलविशेषैरायुषो लक्षणतश्च प्रमाणमुपलभ्य वयसस्त्रित्वं विभजेत् १२२
एवं प्रकृत्यादीनां विकृतिवर्ज्यानां भावानां प्रवरमध्यावरविभागेन बलविशेषं विभजेत् विकृतिबलत्रैविध्येन तु दोषबलं त्रिविधमनुमीयते ततो भैषज्यस्य तीक्ष्णमृदुमध्यविभागेन त्रैविध्यं विभज्य यथादोषं भैषज्यमवचारयेदिति १२३
आयुषः प्रमाणज्ञानहेतोः पुनरिन्द्रियेषु जातिसूत्रीये च लक्षणान्युपदेक्ष्यन्ते १२४
कालः पुनः संवत्सरश्चातुरावस्था च तत्र संवत्सरो द्विधा त्रिधा षोढा द्वादशधा भूयश्चाप्यतः प्रविभज्यते तत्तत्कार्यमभिसमीक्ष्य अत्र खलु तावत् षोढा प्रविभज्य कार्यमुपदेक्ष्यते हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रय ऋतवो भवन्ति तेषामन्तरेष्वितरे साधारणलक्षणास्त्रय ऋतवः प्रावृट्शरद्वसन्ता इति प्रावृडिति प्रथमः प्रवृष्टः कालः तस्यानुबन्धो हि वर्षाः एवमेते संशोधनमधिकृत्य षट् विभज्यन्ते ऋतवः १२५
तत्र साधारणलक्षणेष्वृतुषु वमनादीनां प्रवृत्तिर्विधीयते निवृत्तिरितरेषु साधारणलक्षणा हि मन्दशीतोष्णवर्षत्वात् सुखतमाश्च भवन्त्यविकल्पकाश्च शरीरौषधानाम् इतरे पुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च भवन्ति विकल्पकाश्च शरीरौषधानाम् १२६
तत्र हेमन्ते ह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नं भवत्यतिशीतवाताध्मातमतिदारुणीभूतमवबद्धदोषं च भेषजं पुनः संशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्यत्वमापद्यते तस्मात्तयोः संह्योगे संशोधनमयोगायोपपद्यते शरीरमपि च वातोपद्रवाय ग्रीष्मे पुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नं भवत्युष्णवातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषं भेषजं पुनः संशोधनार्थमुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते तस्मात्तयोः संयोगे संशोधनमतियोगायोपपद्यते शरीरमपि पिपासोपद्रवाय वर्षासु तु मेघजलावतते गूढार्कचन्द्रतारे धाराकुले वियति भूमौ पङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषु भूतेषु विहतस्वभावेषु च केवलेष्वौषधग्रामेषु तोयतोयदानुगतमारुतसंसर्गाद् गुरुप्रवृत्तीनि वमनादीनि भवन्ति गुरुसमुत्थानानि च शरीराणि तस्माद्वमनादीनां निवृत्तिर्विधीयते वर्षान्तेष्वृतुषु न चेदात्ययिकं कर्म आत्ययिके पुनः कर्मणि काममृतुं विकल्प्य कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन भेषजं संयोगसंस्कारप्रमाणविकल्पेनोपपाद्य प्रमाणवीर्यसमं कृत्वा ततः प्रयोजयेदुत्तमेन यत्नेनावहितः १२७
आतुरावस्थास्वपि तु कार्याकार्यं प्रति कालाकालसंज्ञा तद्यथा अस्यामवस्थायामस्य भेषजस्याकालः कालः पुनरन्यस्येति एतदपि हि भवत्यवस्थाविशेषेण तस्मादातुरावस्थास्वपि हि कालाकालसंज्ञा तस्य परीक्षा--मुहुर्मुहुरातुरस्य सर्वावस्थाविशेषावेक्षणं यथावद्भेषजप्रयोगार्थम् न ह्यतिपतितकालमप्राप्तकालं वा भेषजमुपयुज्यमानं यौगिकं भवति कालो हि भैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति १२८
प्रवृत्तिस्तु प्रतिकर्मसमारम्भः तस्य लक्षणं भिषगौषधातुरपरिचारकाणां क्रियासमायोगः १२९
उपायः पुनर्भिषगादीनां सौष्ठवमभिविधानं च सम्यक् तस्य लक्षणं--भिषगादीनां यथोक्तगुणसंपद् देशकालप्रमाणसात्म्यक्रियादिभिश्च सिद्धिकारणैः सम्यगुपपादितस्यौषधस्यावचारणमिति १३०
एवमेते दश परीक्ष्यविशेषाः पृथक् पृथक् परीक्षितव्या भवन्ति १३१
परीक्षायास्तु खलु प्रयोजनं प्रतिपत्तिज्ञानम् प्रतिपत्तिर्नाम यो विकारो यथा प्रतिपत्तव्यस्तस्य तथाऽनुष्ठानज्ञानम् १३२
यत्र तु खलु वमनादीनां प्रवृत्तिः यत्र च निवृत्तिः तद्व्यासतः सिद्धिषूत्तरमुपदेक्ष्यामः १३३
प्रवृत्तिनिवृत्तिलक्षणसंयोगे तु गुरुलाघवं संप्रधार्य सम्यगध्यवस्येदन्यतरनिष्ठायाम् सन्ति हि व्याधयः शास्त्रेषूत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः तस्माद्गुरुलाघवं संप्रधार्य सम्यगध्यवस्येदित्युक्तम् १३४
यानि तु खलु वमनादिषु भेषजद्रव्याण्युपयोगं गच्छन्ति तान्यनुव्याख्यास्यामः तद्यथा--फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि फलजीमूतकेक्ष्वाकुधामार्गवपत्रपुष्पाणि आरग्वधवृक्षकमदनस्वादुकण्टकपाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दप-टोलसुषवीगुडूचीचित्रकसोमवल्कशतावरीद्वीपीशिग्रुमूलकषायैः मधुकमधूककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाकषायैश्च एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बरुतगरनलदह्रीवेरतालीशोशीरकषायैश्च इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कतकषायैश्च सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गा-टिकाकषायैश्च पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च यथालाभं यथेष्टं वाप्युपसंस्कृत्य वर्तिक्रियाचूर्णासवलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदका-नन्यांश्च भक्ष्यप्रकारान् विविधाननुविधाय यथार्हं वमनार्हाय दद्याद्विधिवद्वमनम् इति कल्पसंग्रहो वमनद्रव्याणाम् कल्पमेषां विस्तारेणोत्तरकालमुपदेक्ष्यामः १३५
विरेचनद्रव्याणि तु श्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनां क्षीरमूलत्वक्पत्रपुष्पफलानि यथायोगं तैस्तैः क्षीरमूलत्वक्पत्रपुष्पफलैर्विक्लिप्ताविक्लिप्तैः अजगन्धाश्वगन्धाजशृङ्गीक्षीरिणीनीलिनीक्लीतककषायैश्च प्रकीर्योदकीर्यामसूरविदलाकम्पिल्लकविडङ्गगवाक्षीकषायैश्च पीलुप्रियालमृद्वीकाकाश्मर्यपरूषकवदरदाडिमामलकहरीतकीबिभीतकवृश्चीरपुनर्नवा-विदारिगन्धादिकषायैश्च सीधुसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुमधूलकधान्याम्लकुवलबदरखर्जूर-कर्कन्धुभिश्च दधिदधिमण्डोदश्विद्भिश्च गोमहिष्यजावीनां च क्षीरमूत्रैर्यथालाभं यथेष्टं वाऽप्युपसंस्कृत्य वर्तिक्रियाचूर्णासवलेहस्नेहकषायमांसरसयूषकाम्बलिकयवागूक्षीरोपधेयान् मोदकानन्यांश्च भक्ष्यप्रविकारान् विविधांश्च योगाननुविधाय यथार्हं विरेचनार्हाय दद्याद्विरेचनम् इति कल्पसंग्रहो विरेचनद्रव्याणाम् कल्पमेषां विस्तरेण यथावदुत्तरकालमुपदेक्ष्यामः १३६
आस्थापनेषु तु भूयिष्ठकल्पानि द्रव्याणि यानि योगमुपयान्ति तेषु तेष्ववस्थान्तरेष्वातुराणां तानि द्रव्याणि नामतो विस्तरेणोपदिश्यमानान्यपरिसंख्येयानि स्युरतिबहुत्वात् इष्टश्चानतिसंक्षेपविस्तरोपदेशस्तन्त्रे इष्टं च केवलं ज्ञानं तस्माद्रसत एव तान्यत्र व्याख्यास्यामः रससंसर्गविकल्पविस्तरो ह्येषामपरिसङ्ख्येयः समवेतानां रसानामंशांशबलविकल्पातिबहुत्वात् तस्माद्द्रव्याणां चैकदेशमुदाहरणार्थं रसेष्वनुविभज्य रसैकैकश्येन च नामलक्षणार्थं षडास्थापनस्कन्धा रसतोऽनुविभज्य व्याख्यास्यन्ते १३७
यत्तु षड्विधमास्थापनमेकरसमित्याचक्षते भिषजः तद्दुर्लभतमं संसृष्टरसभूयिष्ठत्वाद्द्रव्याणाम् तस्मान्मधुराणि मधुरप्रायाणि मधुरविपाकानि मधुरप्रभावाणि च मधुरस्कन्धे मधुराण्येव कृत्वोपदेक्ष्यन्ते तथेतराणि द्रव्याण्यपि १३८
तद्यथा--जीवकर्षभकौ जीवन्ती वीरा तामलकी काकोली क्षीरकाकोली मुद्गपर्णी माषपर्णी शालपर्णी पृश्निपर्ण्यसनपर्णी मधुपर्णी मेदा महामेदा कर्कटशृङ्गी शृङ्गाटिका छिन्नरुहा च्छत्राऽतिच्छत्रा श्रावणी महाश्रावणी सहदेवा विश्वदेवा शुक्ला क्षीरशुक्ला बलाऽतिबला विदारी क्षीरविदारी क्षुद्रसहा महासहा ऋष्यगन्धाऽश्वगन्धा वृश्चीरः पुनर्नवा बृहती कण्टकारिकोरुबूको मोरटः श्वदंष्ट्रा संहर्षा शतावरी शतपुष्पा मधूकपुष्पी यष्टीमधु मधूलिका मृद्वीका खर्जूरं परूषकमात्मगुप्ता पुष्करबीजं कशेरुकं राजकशेरुकं राजादनं कतकं काश्मर्यं शीतपाक्योदनपाकी तालखर्जूरमस्तकमिक्षुरिक्षुवालिका दर्भः कुशः काशः शालिर्गुन्द्रेत्कटकः शरमूलं राजक्षवकः ऋष्यप्रोक्ता द्वारदा भारद्वाजी वनत्रपुष्यभीरुपत्री हंसपादी काकनासिका कुलिङ्गाक्षी क्षीरवल्ली कपोलवल्ली कपोतवल्ली सोमवल्ली गोपवल्ली मधुवल्ली चेति एषामेवंविधानामन्येषां च मधुरवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य पयसाऽर्धोदकेनाभ्यासिच्य साधयेद्दर्व्या सततमवघट्टयन् तदुपयुक्तभूयिष्ठेऽम्भसि गतरसेष्वौषधेषु पयसि चानुपदग्धे स्थालीमुपहृत्य सुपरिपूतं पयः सुखोष्णं घृततैलवसामज्जलवणफाणितोपहितं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात् शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे विधिवद्दद्यात् इति मधुरस्कन्धः १३९
आम्राम्रातकलकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातु-लुङ्गगण्डीरामलकनन्दीतकशीतकतिन्तिडीकदन्तशठैरावतककोशाम्रधन्वनानां फलानि पत्राणि चाम्रातकाश्मन्तकचाङ्गेरीणां चतुर्विधानां चाम्लिकानां द्वयोश्च कोलयोश्चामशुष्कयोर्द्वयोश्चैव शुष्काम्लिकयोर्ग्राम्यारण्ययोः आसवद्रव्याणि च सुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुशुक्तशीधुदधिमण्डोदश्विद्धान्याम्लादीनि च एषामेवंविधानामन्येषां चाम्लवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा द्रवैः स्थाल्यामभ्यासिच्य साधयित्वोपसंस्कृत्य यथावत्तैलवसामज्जलवणफाणितोपहितं सुखोष्णं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात् इत्यम्लस्कन्धः १४०
सैन्धवसौवर्चलकालविडपाक्यानूपकूप्यवालुकैलमौलकसामुद्ररोमकौद्भिदौषर-पाटेयकपांशुजान्येवंप्रकाराणि चान्यानि लवणवर्गपरिसंख्यातानि एतान्यम्लोपहितान्युष्णोदकोपहितानि वा स्नेहवन्ति सुखोष्णं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात् इति लवणस्कन्धः १४१
पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रकशृङ्गवेरमरिचाजमोदार्द्रकविडङ्ग-कुस्तुम्बुरुपीलुतेजोवत्येलाकुष्ठभल्लातकास्थिहिङ्गुनिर्यासकिलिममूलकसर्षप-लशुनकरञ्जशिग्रुकमधुशिग्रुकखरपुष्पभूस्तृणसुमुखसुरसकुठेरकार्जकगण्डीरकालमाल-कपर्णासक्षवकफणिज्झकक्षारमूत्रपित्तानीति एषामेवंविधानां चान्येषां कटुकवर्गपरिसंख्यातानां औषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा गोमूत्रेण सह साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञे विधिवद्दद्यात् इति कटुकस्कन्धः १४२
चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिरात-तिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृ-षमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यति-विषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्काव-ल्गुजवचातगरागुरुवालकोशीराणीति एषामेवंविधानां चान्येषां तिक्तवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणो विधिज्ञो विधिवद्दद्यात् शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे विधिज्ञो विधिवद्दद्यात् इति तिक्तस्कन्धः १४३
प्रियङ्ग्वनन्ताम्रास्थ्यम्बष्ठकीकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मके-शरजम्ब्वाम्रप्लक्षवटकपीतनोदुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीषशिंश-पासोमवल्कतिन्दुकप्रियालबदरखदिरसप्तपर्णाश्वकर्णस्यन्दनार्जुनारिमेदैलवालुक-परिपेलवकदम्बशल्लकीजिङ्गिनीकाशकशेरुकराजकशेरुकट्फलवंशप-द्मकाशोकशालधवसर्जभर्जशणखरपुष्पापुरशमीमाचीकवरकतुङ्गाजक-र्णस्फूर्जकबिभीतककुम्भीपुष्करबीजविसमृणालतालखर्जूरतरुणानीति एषामेवंविधानां चान्येषां कषायवर्गपरिसख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात् शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणो दद्यात् इति कषायस्कन्धः १४४
तत्र श्लोकाः--
षड्वर्गाः परिसंख्याता य एते रसभेदतः
आस्थापनमभिप्रेत्य तान्विद्यात्सार्वयौगिकान् १४५
सर्वशो हि प्रणिहिताः सर्वरोगेषु जानता
सर्वान्रोगान्नियच्छन्ति येभ्य आस्थापनं हितम् १४६
येषां येषां प्रशान्त्यर्थं ये ये न परिकीर्तिताः
द्रव्यवर्गा विकाराणां तेषां ते परिकोपकाः १४७
इत्येते षडास्थापनस्कन्धा रसतोऽनुविभज्य व्याख्याताः १४८
तेभ्यो भिषग्बुद्धिमान् परिसंख्यातमपि यद्यद्द्रव्यमयौगिकं मन्येत तत्तदपकर्षयेत् यद्यच्चानुक्तमपि यौगिकं मन्येत तत्तद्विदध्यात् वर्गमपि वर्गेणोपसंसृजेदेकमेकेनानेकेन वा युक्तिं प्रमाणीकृत्य प्रचरणमिव भिक्षुकस्य बीजमिव कर्षकस्य सूत्रं बुद्धिमतामल्पमप्यनल्पज्ञानाय भवति तस्माद्बुद्धिमतामूहापोहवितर्काः मन्दबुद्धेस्तु यथोक्तानुगमनमेव श्रेयः यथोक्तं हि मार्गमनुगच्छन् भिषक् संसाधयति कार्यमनतिमहत्त्वाद्वा विनिपातयत्यनतिह्रस्वत्वादुदाहरणस्येति १४९
अतः परमनुवासनद्रव्याण्यनुव्याख्यास्यामः अनुवासनं तु स्नेह एव स्नेहस्तु द्विविधः--स्थावरात्मकः जङ्गमात्मकश्च तत्र स्थावरात्मकः स्नेहस्तैलमतैलं च तद्द्वयं तैलमेव कृत्वोपदेक्ष्यामः सर्वतस्तैलप्राधान्यात् जङ्गमात्मकस्तु वसा मज्जा सर्पिरिति तेषां तैलवसामज्जसर्पिषां यथापूर्वं श्रेष्ठं वातश्लेष्मविकारेष्वनुवासनीयेषु यथोत्तरं तु पित्तविकारेषु सर्व एव वा सर्वविकारेष्वपि योगमुपयान्ति संस्कारविधिविशेषादिति १५०
शिरोविरेचनद्रव्याणि पुनरपामार्गपिप्पलीमरिचविडङ्गशिग्रुशिरीषतुम्बुरुपील्वजाज्यज-मोदावार्ताकीपृथ्वीकैलाहरेणुकाफलानि च सुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकहरिद्राशृङ्गवेरमूलकल-शुनतर्कारीसर्षपपत्राणि च अर्कालर्ककुष्ठनागदन्तीवचापामार्गश्वेताज्योतिष्मतीगवाक्षीगण्डीरपुष्यवा-क्पुष्पीवृश्चिकालीवयस्थातिविषामूलानि च हरिद्राशृङ्गवेरमूलकलशुनकन्दाश्च लोध्रमदनसप्तपर्णानिम्बार्कपुष्पाणि च देवदार्वगुरुसरलशल्लकीजिङ्गिन्यसनहिङ्गुनिर्यासाश्च तेजोवतीवराङ्गेङ्गुदीशोभाञ्जनकबृहतीकण्टकारिकात्वचश्चेति शिरोविरेचनं सप्तविधं फलपत्रमूलकन्दपुष्पनिर्यासत्वगाथयभेदात् लवण कटुतिक्तकषायाणि चेन्द्रियोपशयानि तथाऽपराण्यनुक्तान्यपि द्रव्याणि यथायोगविहितानि शिरोविरेचनार्थमुपदिश्यन्त इति १५१
तत्र श्लोकाः--
लक्षणाचार्यशिष्याणां परीक्षा कारणं च यत्
अध्येयाध्यापनविधी संभाषाविधिरेव च १५२
षड्भिरूनानि पञ्चाशद्वादमार्गपदानि च
पदानि दश चान्यानि कारणादीनि तत्त्वतः १५३
संप्रश्नश्च परीक्षादेर्नवको वमनादिषु
भिषग्जितीये रोगाणां विमाने संप्रकाशितः १५४
बहुविधमिदमुक्तमर्थजातं बहुविधवाक्यविचित्रमर्थकान्तम् बहुविधशुभशब्दसन्दियुक्तं बहुविधवादनिसूदनं परेषाम् १५५
इमां मतिं बहुविधहेतुसंश्रयां विजज्ञिवान् परमतवादसूदनीम् न सज्जते परवचनावमर्दनैर्न शक्यते परवचनैश्च मर्दितुम् २५६
दोषादीनां तु भावानां सर्वेषामेव हेतुमत्
मानात् सम्यग्विमानानि निरुक्तानि विभागशः १५७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगभिषग्जितीयविमानं नामाष्टमोऽध्यायः ८
इति विमानस्थान समाप्ता