चिकित्सास्थान

प्रथमोऽध्यायः
रसायनाध्याये प्रथमः पादः
अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
चिकित्सितं ब्याधिहरं पथ्यं साधनमौषधम्
प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ३
विद्याद्भेषजनामानि भेषजं द्विदिधं च तत्
स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत् ४
अभेषजं च द्विविधं वाधनं सानुबाधनम्
स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम् ५
प्रायः प्रायेण रोगानां द्वितीयं प्रशमे मतम्
प्रायःशब्दो विशेषार्थो ह्युभयं ह्युभयार्थकृत् ६
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम् ७
वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात्
लाभोपायो हि शस्तानां रसादीनां रसायनम् ८
अपत्यसंतानकरं यत् सद्यः संप्रहर्षणम्
वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः ९
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते
जीर्यतोऽप्यक्षयं शुक्रं फलवद्येन दृश्यते १०
प्रभूतशाखः शाखीव येन चैत्यो यथा महान्
भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः ११
संतानमूलं येनेह प्रेत्य चानन्त्यमश्नुते
यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत् १२
स्वस्थस्योर्जस्करं त्वेतत् द्विविधं प्रोक्तमौषधम्
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते १३
चिकित्सितार्थ एतावान् विकाराणां यदौषधम्
रसायनविधिश्चाग्रे वाजीकरणमेव च १४
अभेषजमिति ज्ञेयं विपरीतं यदौषधात्
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम् १५
रसायनानां द्विविधं प्रयोगमृषयो विदुः
कुटीप्रावेशिकं चैव वातातपिकमेव च १६
कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते
नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् १७
निवासे निर्भये शस्ते प्राप्योपकरणे पुरे
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम् १८
विस्तारोत्सेचसंपन्नां त्रिगर्भां सूक्ष्मलोचनाम्
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम् १९
शब्दादीनामशस्तानामगम्यां स्त्रीविवर्जिताम्
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् २०
अथोदगयने शुक्ले तिथिनक्षत्रपूजिते
मुहूर्तकरणोपेते प्रशस्ते कृतवापनः २१
धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः
विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन् २२
देवताः पूजयित्वाऽग्रे द्बिजातींश्च प्रदक्षिणम्
देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत् कुटीम् २३
तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम् २४
हरीतकीनां चूर्णानि सैन्धवामलके गुडम्
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम् २५
पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः
तेन शुद्धशरीराय कृतसंसर्जनाय च २६
त्रिरात्रं यावकं दद्यात् पञ्चाहं वाऽपि सर्पिषा
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः २७
शुद्धकोष्टं तु तं ज्ञात्वा रसायनमुपाचरेत्
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत् २८
हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्
दोषानुलोमनीं लध्वीं विद्याद्दीपनपाचनीम् २९
आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम्
सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम् ३०
कुष्टं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम्
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम् ३१
हृद्रोगं सशिरोरोगमतीसारमरोचकम्
कासं प्रमेहमानाहं प्लीहानमुदरं नवम् ३२
कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन्
श्वयथुं तमकं छर्दिं क्लैव्यमङ्गावसादनम् ३३
स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी ३४
अजीर्णिनो रुक्षभुजः स्त्रीमद्यविषकर्शिताः
सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये ३५
तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि
यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः ३६
अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः
हरीतकीनां शस्यानि भिषगामलकस्य च ३७
ओषधीनां परा भूमिर्हिमवान् शैलसत्तमः
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु ३८
आपूर्णरसवीर्याणि काले काले यथाविधि
आदित्यपवनच्छायासलिलप्रीणितानि च ३९
यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ४०
पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्
हरीतकीसहस्रं च त्रिगुणामलकं नवम् ४१
विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ४२
विल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्
पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च ४३
जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्
शरेक्षुदर्भकाशानां शालीनां मूलमेव च ४४
इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत्
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि ४५
दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ४६
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः
विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ४७
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ४८
मधुकस्य हरिद्राया वचायाः कनकस्य च
भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा ४९
सितोपलासहस्रं च चूर्णितं तुलयाऽधिकम्
तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः ५०
साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना
ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत् ५१
क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने
तिष्ठेत्संमूर्च्छितं तस्य मात्रां काले प्रयोजयेत् ५२
या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ५३
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः
रसायनमिदं प्राश्य बभूवुरमितायुषः ५४
मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः ५५
मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ५६
रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्
दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते ५७
इति ब्राह्मरसायनम्
यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत् तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीव-चाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममाल-तीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति ५८
भवन्ति चात्र--
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्
भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः ५९
कान्तः प्रजानां सिद्धार्थश्चन्द्रादित्यसमद्युतिः
श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते ६०
धरणीधरसारश्च वायुना समविक्रमः
स भवत्यविषं चास्य गात्रे संपद्यते विषम् ६१
इति द्वितीयं ब्राह्मरसायनम्
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ६२
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी ६३
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्
विदारी वृषमूलानि काकोली काकनासिका ६४
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ६५
ज्ञात्वा गतरसान्येतान्यौषधन्यथ तं रसम्
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ६६
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ६७
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ६८
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्
इत्ययं च्यवनप्राशः परमुक्तो रसायनः ६९
कासश्वासहरश्चैव विशेषेणोपदिश्यते
क्षोणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ७०
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति ७१
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम्
अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा ७२
मेधां स्मृतिं कान्तिमनामयत्वमायुः प्रकर्षं बलमिन्द्रियाणाम् स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ७३
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ७४
इति च्यवनप्राशः अथामलकहरीतकीनामामलकबिभीतकानां हरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानां मृदाऽवलिप्तानां कुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले संपोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च अयं च रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्य प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः अतः परं यथासुखविहारः कामभक्ष्यः स्यात् अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः ७५
इति चतुर्थामलकरसायनम् हरीतक्यामलकबिभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीर-शुक्लाकल्कसंप्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसंप्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानोऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिभ्यां शालिषष्टिकमुष्णोदकानुपानमश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलमतुलमुपलभ्याप्रतिहतसर्वारम्भः परमायुरवाप्नुयात् ७६
इति पञ्चमो हरीतकीयोगः हरीतक्यामलकबिभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुक-पिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुकशर्कराभ्यामपि च सन्नीयामलकस्वरसशतपरिपीतमामलकचूर्णमयश्चूर्णचतुर्भागसंप्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विध्ना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नमश्नीयात् त्रिवर्षप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्ति विषमविषं भवति गात्रे गात्रमश्मवत् स्थिरीभवति अधृष्यो भूतानां भवति ७७
भवन्ति चात्र--
यथाऽमराणाममृतं यथा भोगवतां सुधा
तथाऽभवन्महर्षीणां रसायनविधिः पुरा ७८
न जरां न च दौर्बल्यं नातुर्यं निधनं न च
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा ७९
न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ८०
तत्र श्लोकः--
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः रसायनानां सिद्धानामायुर्यैरनुवर्तते ८१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः १
रसायनाध्याये द्वितीयः पादः
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
प्राणकामाः शुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्य-मारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरं स्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम् अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः स्थिरसमसुविभक्तमांसाः सुसंहतस्थिरशरीराः सुप्रसन्नबलवर्णेन्द्रियाः सर्वत्राप्रतिहतपराक्रमाः क्लेशसहाश्च सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाकमांसतिलपललपिष्टान्नभोजिनां विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां बिषमातिमात्रव्यायामसंक्षोभितशरीराणां भयक्रोधशोकलोभमोहायासबहुलानाम् अतोनिमित्तं हि शिथिलीभवन्ति मांसानि विमुच्यन्ते सन्धयः विदह्यते रक्तं विष्यन्दते चानल्पं मेदः न सन्धीयतेऽस्थिषु मज्जा शुक्रं न प्रवर्तते क्षयमुपैत्योजः स एवंभूतो ग्लायति सीदति निद्रातन्द्रालस्यसमन्द्वितो निरुत्साहः श्वसिति असमर्थश्चेष्टानां शारीरमानसीनां नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति तस्मादेतान् दोषानवेक्षमाणः सर्वान् योथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच ३
आमलकानां सुभूमिजानां कालजानामनुपहतगन्धवर्णरसानामापूर्णरसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसंप्रयुक्तेन सर्पिषः साधयेदाढकम् अतः परं विदारीस्वरसेन जीवन्तीकल्कसंप्रयुक्तेन अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसंप्रयुक्तं सौवर्णे राजते मार्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत् तद्यथोक्तेन विधिना यथाग्नि प्रातः प्रातः प्रयोजयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात् अस्य प्रयोगाद्वर्षशतं वयोऽजरं तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्ति अप्रतिहतगतिः स्त्रीषु अपत्यवान् भवतीति ४
भवतश्चात्र--
बृहच्छरीरं गिरिसारसारम् स्थिरेन्द्रियं चातिबलेन्द्रियं च अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च ५
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी भवत्यपत्यम् विपुलं स्थिरम् च समश्नतो योगमिमं नरस्य ६
इत्यामलकघृतम् आमलकसहस्रं पिप्पलीसहस्रसंप्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत् तदनुगतक्षारोदकमनातपशुष्कमनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां संनीय शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः तस्योत्तरकालमग्निबलसमां मात्रां खादेत् पौर्वाह्णिकः प्रयोगो नापराह्णिकः सात्म्यापेक्षश्चाहारविधिः अस्य प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ७
इत्यामलकावलेहः आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतमष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात् तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत् अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण ८
इत्यामलकचूर्णम् विडङ्गतण्डुलचूर्णानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाविति सर्वं समानं पूर्वेण यावदाशीः ९
इति विडङ्गावलेहः यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत् तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्बाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रम् अत ऊर्ध्वं प्रयोगः अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण १०
इत्यामलकावलेहोऽपरः धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्यनुपहतान्यनध्यारूढान्यबालान्यजीर्णान्यधिगतधीर्याणि शीर्णपुराणपर्णान्यसंजातान्यपर्णानि तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् चले सुमुहूर्ते नागबलामूलान्युद्घरेत् तेषां सुप्रक्षालितानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत् चूर्णीकृतानि वा पिबेत् पयसा मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात् संवत्सरप्रयोगादस्यवर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ११
इति नागबलारसायनम् बलातिवलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश नागबलया व्याख्याताः स्वरसानामलाभे त्वयं स्वरसविधिः--चूर्णानामाढकमाढकमुदकस्याहोरात्रस्थितं मृदितपूतं स्वरसवत् प्रयोज्यम् १२
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत् तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुमारभेत शीतस्निग्धमधुरोपस्कृतशरीरःपूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत् तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत् सर्पिषाऽन्तर्मुखमभ्यज्य तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि नातः परमुत्कर्षः प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोगः जीर्ने च ससर्पिषा पयसा शालिपष्टिकाशनमुपचारः प्रयोगान्ते च द्विस्तावत् पयसैवौपचारः तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण १३
इति भल्लातकक्षीरम्भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिरुपस्वेदयेत् तेषां यः स्वरसः कुम्भं प्रपद्येत तमष्टभागमधुसंप्रयुक्तं द्विगुणघृतमद्यात् तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण १४
इति भल्लातकक्षोद्रम् भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण १५
इति भल्लातकतैलम् भल्लातकसर्पिः भल्लातकक्षीरं भल्लातकक्षौद्रं गुडभल्लातकं भल्लातकयूषः भल्लातकतैलं भल्लातकपललं भल्लातकसक्तवः भल्लातकलवणं भल्लातकतर्पणम् इति भल्लातकविधानमुक्तं भवति १६
भवन्ति चात्र--
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि १७
एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत् १८
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम् १९
इति भल्लातकविधिः
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः
रसायनै शिवैरेतैर्बभूवुरमितायुषः २०
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च
दीर्घायुषो यथाकामं संभृत्य त्रिदिवं गताः २१
तस्मादायुः प्रकर्षार्थं प्राणकामैः सुखार्थिभिः
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः २२
तत्र श्लोकः--
रसायनानां संयोगाः सिद्धा भूतहितैषिणा
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा २३
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः २
रसायनाध्याये तृतीयः पादः
अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसर्पारेपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकं ग्राहयेत् अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानामौषधगणानां चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुशः कृत्तानामभयाबिभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत् तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलक्तचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य तमनुपदग्धमुपहृत्यायसीषुपात्रीष्वास्तीर्य शोषयेत् सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत् सम्यक् तच्चूर्णमयश्चूर्णाष्टभागसंप्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति ३
भवन्ति चात्र--
एतद्रसायनं पूर्वं वसिष्ठः कश्यपोऽङ्गिराः
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः ४
प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्
यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः ५
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम् ६
इत्यामलकायसं ब्राह्मरसायनम्
तपसा ब्रह्मचर्येण ध्यातेन प्रशमेन च
रसायनविधानेन कालयुक्तेन चायुषा ७
स्थिता महर्षयः पूर्वं नहि किञ्चिद्रसायनम्
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम् ८
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यएन्द्रियः ९
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम् १०
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात् ११
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च १२
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः १३
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी १४
इति केवलामलकरसायनम्
त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे
क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च १५
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत्
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च १६
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्
तानि चूर्णानि मधुना रसेनामलकस्य च १७
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते
संवत्सरं निधेयानि यवपल्ले तथैव च १८
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा १९
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्
एष एव च लौहानां प्रयोगः संप्रकीर्तितः २०
नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः २१
धीमान् यशस्वी वाक्सिद्धः श्रतधारी महाधनः
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम् २२
अनेनैव विधानेन हेम्नश्च रजतस्य च
आयुः प्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत् २३
इति लौहादिरसायनम्
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम् २४
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य २५
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते २६
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्
आयुष्यं पौष्टिकं धन्यं स्वरवर्णमसादनम् २७
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक् २८
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः २९
इत्यैन्द्रं रसायनम्
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ३०
आयुः प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ३१
इति मेध्यरसायनानि
पश्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ३२
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ३३
प्रयोज्या मधुसंमिश्रा रसायनगुणैषिणा
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान् ३४
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम् ३५
इति पिप्पलीरसायनम्
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम्
वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः ३६
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम् ३७
पिष्टास्ता बलिभिः सेव्याः शृता मध्यबलैर्नरैः
चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति ३८
दशपैप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्तितः
प्रयोगो यस्त्रिपर्यन्तः स कनीयान् स चाबलैः ३९
बृंहणं स्वर्यमायुष्यं फ्लीहोदरविनाशनम्
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ४०
इति पिप्पलीवर्धमानं रसायनम्
जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके
भुक्त्वा तु मधु सर्पिर्भ्यां चत्वार्यामलकानि च ४१
प्रयोजयन् समामेकां त्रिफलाया रसायनम्
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च ४२
इति त्रिफलारसायनम्
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्
तमहोरात्रिकं लेपं पिबेत् क्षौद्रीदकाप्लुतम् ४३
प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते
अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम् ४४
इति त्रिफलारसायनमपरम्
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा
त्रिफला सितया चापि यिक्ता सिद्धं रसायनम् ४५
इति त्रिफलारसायनमपरम्
सर्वलौहैः सुवर्णेन वचया मधुसर्पिषा
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च ४६
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा
भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी ४७
इति त्रिफलारसायनमपरम्
अनम्लं च कषायं च कटु पाके शिलाजतु
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य संभवः ४८
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत् ४९
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा ५०
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे
कोष्णे सप्ताहमेतेन विधिना तस्य भावना ५१
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह
तत् पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम् ५२
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्
मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत् ५३
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा ५४
पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता
जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम् ५५
हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः
जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु ५६
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ५७
रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ५८
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ५९
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ६०
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ६१
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च
वर्जयेत् सर्वकालं तु कुलत्थान् परिवर्जयेत् ६२
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्
लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते ६३
पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ६४
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति ६५
इति शिलाजतुरसायनम्
तत्रश्लोकः--
करप्रचितिके पादे दश षट् च महर्षिणा
रसायनानां सिद्धानां संयोगाः समुदाहताः ६६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः १

रसायनाध्याये चतुर्थः पादः
अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः सांपन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचय-मचिन्त्याद्भुतप्रभावं ब्रह्मर्षिसिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिराऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः ३
तानिन्द्रः सहस्रदृगमरगुरुरब्रवीत् -- स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम् अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुवन्धं च ग्राम्यो हि वासो मूलमशस्तानां तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां स्वशरीरमवेक्षितुं कालः कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम् आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां प्रजापतिरश्विभ्यां प्रजापतये ब्रह्मा प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुवन्धमल्पत्वादल्पतपोदमनियम-दानाध्ययनसंचयं मत्वा पुण्यतममायुः प्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशियितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति ४
तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति ५
अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः संक्रम्योवाच--एतत् सर्वमनुष्ठेयम् अयं च शिवः कालो रसायनानां दिव्याश्चौषधयो हिमवत्प्रभवाः प्राप्तवीर्याः तद्यथा--ऐन्द्री ब्राह्मी पयस्या क्षीरपुष्पी श्रावणी महाश्रावणी शतावरी जीवन्ती पुनर्नवा नागबला स्थिरा वचा छत्रा अतिच्छत्रा मेदा मेहामेदा जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्बयश्च तरुणमनामयत्वं स्वरवर्णसंपदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः ६
इतीन्द्रोक्तं रसायनम् ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा आदित्यपर्णी नामौषधिर्या सूर्यकान्ता इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च नारीनामौषधिः अश्वबला इति विज्ञायते या बल्वजसदृशपत्रा काष्ठगोधा नामौषधिर्गोधाकारा सर्पानामौषधिः सर्पाकारा सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धा च अजा नामौषधिः अजशृङ्गी इति विज्ञायते नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत तत्र प्रलीयते षण्मासेन पुनः संभवति तस्याजं पयः प्रत्यवस्थापनं षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति दिव्यं चास्य चक्षुः श्रोत्रं च भवति गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति ७
भवन्ति चात्र--
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः
शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः ८
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते ९
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः
शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः १०
यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा
मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु ११
पर्येष्टुं ताः प्रयक्तुं वा येऽसमर्थाः सुखार्थिनः
रसायनविधिस्तेषामयमन्यः प्रशस्यते १२
बल्यानां जीवनीयानां बृंहणीयाश्च या दश
वयसः स्थापनानां च खदिरस्यासनस्य च १३
खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च १४
शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च
ऋद्ध्या नागबलायाश्च द्वारदाया धवस्य च १५
त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च १६
रसाः पृथक् पृथग् ग्राह्याः पलाशक्षार एव च
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् १७
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः
तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत् १८
तत्रामलकचूर्णानामाढकं शतभावितम्
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च १९
शर्कराचूर्णपारं च प्रस्थमेकं प्रदापयेत्
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं संमूर्च्छितं च तत् २०
सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते
मात्रामग्निसमां तस्य तत् ऊर्ध्वं प्रयोजयेत् २१
हेमताम्रप्रवालानामयसः स्फटिकस्य च
मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च २२
प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा २३
सर्वरोगप्रशमनं बृष्यमायुष्यमुत्तमम्
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम् २४
परमूर्जस्करं चैव वर्णस्वरकरं तथा
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम् २५
सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके
प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम् २६
इतीन्द्रोक्तरसायनमपरम्
समर्थानामरोगाणां धीमतां नियतात्मनाम्
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः २७
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः
तयोः श्रेष्ठतरः पूर्वो विधिः स तु सुदुष्करः २८
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् २९
सत्यवादिनमक्रोधं निवृत्तं मधमैथुनात्
अहिंसकमनायासं प्रशान्तं प्रियवादिनम् ३०
जपशौचपरं धीरं दाननित्यं तपस्विनम्
देवगोब्राह्मणाचायगुरुवृद्धार्चने रतम् ३१
आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम्
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम् ३२
देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्
शस्ताचारमसंकीर्णमध्यात्मप्रवणेन्द्रियम् ३३
उपासितारं वृद्धानामास्तिकानां जितात्मनाम्
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम् ३४
गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्
रसायनगुणात् सर्वान् यथोक्तान् स समश्नुते ३५
इत्याचाररसायनम्
यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्
रसायनगुणैर्जन्तुर्युज्यते न कदाचन ३६
योगा ह्यायुःप्रकर्षार्था जरारोगनिवर्हणाः
मनः शरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम् ३७
तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु
अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च ३८
ये रसायनसंयोगा वृष्ययोगाश्च ये मताः
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम् ३९
प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्
अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः ४०
अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम् ४१
प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः ४२
चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ४३
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा ४४
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ
बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम् ४५
ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च
धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः ४६
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते ४७
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः ४८
अजरैरमरैस्तावद्विबुधैः साधिपैध्रुवैः
पूज्येते प्रयतैरेवमश्विनौ भिषजाविति ४९
मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः
किं पुनर्भिषजो मर्त्यैः पूज्याः स्यूर्नातिशक्तितः ५०
शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः
प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः ५१
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना ५२
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा
ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः ५३
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्
प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम् ५४
चिकित्सितस्तु संश्रुत्ये यो वाऽसंश्रुत्य मानवः
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः ५५
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम् ५६
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः
प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम् ५७
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति
वर्तते यश्चिकित्सायां स सर्वमतिवर्तते ५८
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्
ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते ५९
दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति ६०
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते
न हि जीवितदानाद्धि दानमन्यद्विशिष्यते ६१
परो भूतदया धर्म इति मत्वा चिकित्सया
वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते ६२
तत्र श्लोको--
आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम् ६३
सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः
आयुर्वेदसमुत्थाने तत् सर्वं संप्रकाशितम् ६४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये
आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः ४
समाप्तश्चायं रसायनाध्यायः १

द्वितीयोऽध्यायः
वाजीकरणाध्याये प्रथमः पादः
अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान्
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च ३
पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः
वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी ४
इष्टा ह्यैकैकशोऽप्यर्था परं प्रीतिकरा स्मृताः
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः ५
सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम्
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम् ६
धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्रीषु लोकाः प्रतिष्ठिताः
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता ७
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता
नानाभक्तया तु लोकस्य दैवयोगाच्च योषिताम् ८
तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः
वयोरुपवचोहावैर्या यस्य परमाङ्गना ९
प्रविशत्याशु हृदयं दैवाद्वा कर्मणोऽपि वा
हृदयोत्सवरूपा या या समानमनःशया १०
समानसत्वा या वश्या या यस्य प्रीयते प्रियैः
या पाशभूता सर्वेषामिन्द्रियाणां परैर्गुणैः ११
यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत्
यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियैः १२
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते
याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम् १३
अपूर्वामिव यां याति नित्यं हर्षातिवेगतः
गत्वा गत्वाऽपि बहुशो यां तृप्तिं नैव गच्छति १४
सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः
अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम् १५
शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः
अच्छायश्चैकशाखश्च निष्फलश्च यथा द्रुमः १६
अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः
चित्रदीपः सरः शुष्कमधातुर्धातुसन्निभः १७
निष्प्रजस्तृणपूलीति मन्तव्यः पुरुषाकृतिः
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना १८
मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते
बहुमूर्तिर्बहुर्मुखो बहुव्यूहो बहुक्रियः १९
बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः
मङ्गल्योऽयं प्रशस्योऽयं धन्योऽयं वीर्यवानयम् २०
बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः
प्रीतिर्बलं सुखं वृत्तिर्विस्तारो विपुलं कुलम् २१
यशो लोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिताः
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् २२
वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च
उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान् २३
वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम्
शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुवालिका २४
शतावरी पयस्या च विदारी कण्टकारिका
जीवन्ती जीवको मेदा वीरा चर्षभको बला २५
ऋद्धिर्गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा
एषां त्रिपलिकान् भागान् माषाणामाढकं नवम् २६
विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत्
तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली २७
आत्मगुप्ता मधूकानि खर्जूराणि शतावरी
विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक् २८
सर्पिषश्चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक्
साधयेद्धृतशेषं च सुपूतं योजयेत् पुनः २९
शर्करायास्तुगाक्षीर्याश्चूर्णैः प्रस्थोन्मितैः पृथक्
पलैश्चतुर्भिर्मागध्याः पलेन मरिचस्य च ३०
त्वगेलाकेशराणां च चूर्णैरर्धपलोन्मित्तैः
मधुनः कुडवाभ्यां द्वाभ्यां तत्कारयेद्भिषक् ३१
पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत्
एष वृष्यः परं योगो बृंहणो बलवर्धनः ३२
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्
इति बृंहणीगुटिका
माषाणामात्मगुप्ताया बीजानामाढकं नवम् ३३
जीवकर्षभकौ वीरां मेदामृद्धिं शतावरीम्
मधुकं चाश्वगन्धां च साधयेत् कुडवोन्मिताम् ३४
रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च ३५
दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत्
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक् ३६
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम्
पलं पूर्वमतो लीढ्वा ततोऽन्नमुपयोजयेत् ३७
य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम्
इति वाजीकरणं घृतम्
शर्करा माषविदलास्तुगाक्षीरी पयो घृतम् ३८
गोधूमचूर्णषष्ठानि सर्पिष्युत्कारिकां पचेत्
तां नातिपक्कां मृदितां कौक्कुटे मधुरे रसे ३९
सुगन्धे प्रक्षिपेदुष्णे यथा सान्द्रीभवेद्रसः
एष पिण्डरसो वृष्यः पौष्टिको बलवर्धनः ४०
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्
शिखितित्तिरिहंसानामेवं पिण्डरसो मतः
बलवर्णस्वरकरः पुमांस्तेन वृषायते ४१
इति वाजीकरणपिण्डरसाः
घृतं माषान् सवस्ताण्डान् साधयेन्माहिषे रसे
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि ४२
ईषत्सलवणं युक्तं धान्यजीरकनागरैः
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः ४३
इति वृष्यमाहिषरसः
चटकांस्तित्तिररसे तित्तिरीन् कौक्कुटे रसे
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च ४४
नवसर्पिषि संतप्तान् फलाम्लान् कारयेद्रसान्
मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान् ४५
इत्यन्ये वृष्यरसाः
तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि ४६
इति वृष्यमांसम्
माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान् ४७
इति वृष्यमाषयोगः
न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा
तृप्तः कुक्कुटमांसानां भृष्टानां नक्ररेतसि ४८
इति वृष्यः कुक्कुटमांसप्रयोगः
निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्
हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत् ४९
इति वृष्योऽण्डरसः
भवतश्चात्र--
स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले
वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च ५०
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः ५१
वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या
ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये ५२
दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः
उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः ५३
इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये
संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः १

वाजीकरणाध्याये द्वितीयः पादः
अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम्
उदूखले समापोथ्य पीडयेत् क्षीरमर्दितम् ३
गृहीत्वा तं रसं पूतं गव्येन पयसा सह
बीजानामात्मगुप्ताया धान्यमाषरसेन च ४
बलायाः शूर्पपर्ण्योश्च जीवन्त्या जीवकस्य च
ॠद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च ५
शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत् ६
तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः ७
सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम्
गुटिका बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत् ८
ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः
पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम् ९
इत्यपत्यकरी षष्टिकादिगुटिका
चटकानां सहंसानां दक्षाणां शिखिनां तथा
शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत् १०
गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि
षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य च ११
एभिः पूपलिकाः कार्याः शुष्कुल्यो वर्तिकास्तथा
पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः १२
एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा
शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः १३
इति वृष्यपूपलिकादियोगाः
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्
शृङ्गाटकाणि मृद्वीकां साधयेत् प्रसृतोन्मितम् १४
क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम्
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः १५
शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च
तत् पाययेत् सक्षौद्रं षष्टिकान्नं च भोजयेत् १६
जरापरीतोऽप्यबलो योगेनानेन विन्दति
नरोऽपत्यं सुविपुलं पुवेव च स हृष्यति १७
इत्यपत्यकरः स्वरसः
खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम्
खर्जूराणि मधूकानि मृद्वीकामजडाफलम् १८
पलोन्मितानि मतिमान् साधयेत् सलिलाढके
तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत् १९
क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम्
सशर्करेण संयोग एष वृष्यः परं स्मृतः २०
इति वृष्यक्षीरम्
जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम्
खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम् २१
शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम्
सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम् २२
षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम्
वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणमुत्तमम् ३३
इति वृष्यघृतम्
दध्नः सरं शरच्चन्द्रसन्निभं दोषवर्जितम्
शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान् २४
युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे
मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने २५
पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम्
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते २६
वृष्यो दधिसरप्रयोगः
चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम्
शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते २७
इति वृष्यः षष्टिकौदनप्रयोगः
तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम्
युक्तं षष्टिकचूर्णेन सर्पिषाऽभिनवेन च २८
पक्त्वा पूपलिकाः खादेद्वारूणीमण्डपो नरः
य इच्छेदश्ववद्गन्तुं प्रसेक्तुं गजवच्च यः २९
इति वृष्यपूपलिकाः
भवतश्चात्र--
एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो बलवर्णयुक्तः
हर्षान्वितो वाजिवदष्टवर्षो भवेत् समर्थश्च वराङ्गनासु ३०
यद्यच्च किञ्चिन्मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् ३१
तत्र श्लोकः--
आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः
अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः ३२
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये
आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः २

वाजीकरणाध्याये तृतीयः पादः
अथातो माषपर्णभृतीयं वाजीकरणपादं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम्
समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान् ३
रोहिणीमथवा कृष्णामूर्द्ध्वशृङ्गीमदारुणाम्
इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत् ४
केवलं तु पयस्तस्याः शृतं वाऽशृतमेव वा
शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम् ५
शुक्रलैर्जीवनीयैश्च बृंहणैर्बलवर्धनैः
क्षीरसंजननैश्चैव पयः सिद्धं पृथक् पृथक् ६
युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्
पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम् ७
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्
श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाण्छालिषष्टिकान् ८
पयस्यर्धोदके पक्त्वा कार्षिकानाढकोन्मिते
विवर्जयेत् पयःशेषं तत् पूतं क्षौद्रसर्पिषा ९
युक्तं सशर्करं पीत्वा वृद्धः सप्ततिकोऽपि वा
विपुलं लभतेऽपत्यं युवेव च स हृष्यति १०
मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्
अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम् ११
त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः
भृष्टाः सशर्कराक्षौद्राः क्षीरधारावदोहिताः १२
पीत्वा यथाबलं चौर्ध्वं षष्टिकं क्षीरसर्पिषा
भुक्त्वा न रात्रिमस्तब्धं लिङ्गं पश्यति ना क्षरत् १३
इति वृष्यः पिप्पलीयोगाः
श्वदंष्ट्राया विदार्याश्च रसे क्षिरचतुर्गुणे
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः १४
इति वृष्यपायसयोगः
फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम्
कुडवश्चूर्णितानां स्यात् स्वयङ्गुप्ताफलस्य च १५
कुडवश्चव माषाणां द्वौ द्वौ च तिलमुद्गयोः
गोधूमशालिचूर्णानां कुडवः कुडवो भवेत् १६
सर्पिषः कुडवश्चैककस्तत् सर्वं क्षीरमर्दितम्
पक्त्वा पूपलिकाः खादेद्वह्व्यः स्युर्यस्य योषितः १७
इति वृष्यपूपलिकाः
घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत्
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम् १८
इति वृष्यं शतावरीघृतम्
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम्
प्रयुंक्ते यः पयश्चानु नित्यवेगः स ना भवेत् १९
इति वृष्यमधुकयोगः
घृतक्षीराशनो निम्भीर्निर्व्याधिर्नित्यगो युवा
सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते २०
कृतैककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये २१
कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः २२
ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः
तैर्नरः सह विस्रब्धः सुवस्यैर्वृषायते २३
अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः
गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः २४
विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः
संबाहनैर्वरस्त्रीणामिष्टानां च वृषायते २५
मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः
जात्युत्पलसुगन्धीनि शीतगर्भगृहाणि च २६
नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः
उन्नतिर्नीलमेघानां रम्यचन्द्रोदया निशाः २७
वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः
रतिभोगक्षमा रात्र्यः सङ्कोचागुरुवल्लभाः २८
सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च २९
सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम् ३०
तत्र श्लोकः--
प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च
माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः ३१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये
माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः ३

वाजीकरणाध्याये चतुर्थः पादः
अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत्
यथा चापत्यवान् सद्यो भवेत्तदुपदेक्ष्यते ३
न हि जातबलाः सर्वे नराश्चापत्यभागिनः
बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः ४
सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः
प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः ५
नराश्चटकवत् केचिद् व्रजन्ति बहुशःस्त्रियम्
गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः ६
कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः
केचित् प्रयत्नैर्व्यज्यन्ते वृषाः केचित् स्वभावतः ७
तस्मात् प्रयोगान् वक्ष्यामो दुर्बलानां बलप्रदान्
सुखोपभोगान् बलिनां भूयश्च बलवर्धनान् ८
पूर्वं शुद्धशरीराणां निरूहैः सानुवासनैः
बलापेक्षी प्रयुञ्जीत् शुक्रापत्यविवर्धनान् ९
घृततैलरसक्षीरशर्करामधुसंयुताः
बस्तयः संविधातव्याः क्षीरमांसरसाशिनाम् १०
पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे
कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्तयेत् ११
वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके १२
यथा न भिन्द्याद्गुलिकास्तथा तं साधयेद्रसम्
तं पिबन् भक्षयंस्ताश्च लभते शुक्रमक्षयम् १३
मांसानामेवमन्येषां मेद्यानां कारयेद्भिषक्
गुटिकाः सरसास्तासां प्रयोगः शुक्रवर्धनः १४
इति वृष्या मांसगुटिकाः
माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान्
घृताढ्ये माहिषरसे दधिदाडिमसारिके १५
प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः
भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम् १६
इति वृष्यो माहिषरसः
आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिताः
तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम् १७
घृतभृष्टान् रसे च्छागे रोहितान् फलसारिके
अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत् १८
इति वृष्यघृतभृष्टमत्स्यमांसानि
कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः
युक्तं गोधूमचूर्णेन घृते पृपलिकाः पचेत् १९
माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत्
रसे चानुगते मांसं पोथयेत्तत्र चावपेत् २०
मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम्
माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत् २१
एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ
हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ २२
इति वृष्यौ पूपलिकायोगौ
माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम्
शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च २३
संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत्
पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम् २४
इति वृष्या माषादिपूपलिकाः
शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः
प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याःह् प्रस्थ एव च २५
अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च
तत्सर्वं मूर्च्छितं तिष्ठेन्मार्तिके घृतभाजने २६
मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत्
एष वृष्यः परं योगो बल्यो बृंहण एव च २७
शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः
श्वदंष्ट्रायाश्च निष्काथाञ्जलेषु च पृथक् पृथक् २८
साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः
शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत् २९
इत्यपत्यकरं घृतम्
घृतपात्रं शतगुणे विदारीस्वरसे पचेत्
सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत् ३०
शर्करायास्तुगाक्षीर्याः क्षौद्रस्येक्षुरकस्य च
पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम् ३१
गुटिकाः कारयेद्वैद्यो यथा स्थूलमुदुम्बरम्
तासां प्रयोगात् पुरुषः कुलिङ्ग इव हृष्यति ३२
इति वृष्यगुटिकाः
सितोपलापलशतं तदर्धं नवसर्पिषः
क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम् ३३
सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले
शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत् ३४
शुद्धा उत्कारिकाः कार्याश्चन्द्रमंडलसन्निभाः
तासां प्रयोगाद्गजवन्नारीः संतर्पयेन्नरः ३५
इति वृष्योत्कारिका
यत् किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते ३६
द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदा व्रजेत्
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः ३७
गत्वा स्नात्वा पयः पीत्वा रसं वाऽनुशयीत ना
तथाऽस्याप्यायते भूयः शुक्रं च बलमेव च ३८
यथा मुकुलपुष्पस्य सुगन्धो नोपलभ्यते
लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम् ३९
नर्ते वै षोडशाद्वर्षात् सप्तत्याः परतो न च
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति ४०
अतिबालो ह्यसंपूर्णसर्वधातुः स्त्रियं व्रजन्
उपशुष्येत सहसा तडागमिव काजलम् ४१
शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम्
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन् ४२
जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात्
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात् ४३
क्षयाद्भयादविश्रम्भाच्छोकात् स्त्रीदोषदर्शनात्
नारीणामरसज्ञत्वादविचारादसेवनात् ४४
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते
देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा ४५
रस इक्षौ यथा दध्नि सर्पिस्तैलं पिले यथा
सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा ४६
तत् स्त्रीपुरुषसंयोगे चेष्टासंकल्पपीडनात्
शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात् पटादिव ४७
हर्षात्तर्षात् सरत्वाच्च पैच्छिल्याद्गोरवादपि
अणुप्रवणभावाच्च द्रुतत्वान्मारुतस्य च ४८
अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात् प्रसिच्यते
चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते ४९
बहलं मधुरं स्निग्धमविस्रं गुरु पिच्छिलम्
शुक्लं बहु च यच्छुक्रं फलवत्तदसंशयम् ५०
येन नारीषु सामर्थ्यं वाजीवल्लभते नरः
व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत् ५१
तत्र श्लोकौ--
हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः
तत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनादनु ५२
यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः
निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके ५३
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये
पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः ४
समाप्तश्चायं द्वितीयो वाजीकरणाध्यायः २

तृतीयोऽध्यायः
अथातो ज्वरचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
विज्वरं ज्वरसंदेहं पर्यपृच्छत् पुनर्वसुम्
विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः ३
देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली
ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा ४
तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये
प्रकृतिं च प्रवृतिं च प्रभावं कारणानि च ५
पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्
व्यासतो विधिभेदाच्च पृथग्भिन्नस्य चाकृतिम् ६
लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्
विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक् ७
ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यतः
प्रशान्तः कारणैर्यैश्च पुनरावर्तते ज्वरः ८
याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तम्
जगद्धितार्थं तत् सर्वं भगवन् वक्तुमर्हसि ९
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्
ज्वराधिकारे यद्वाच्यं तत् सौम्य निखिलं शृणु १०
ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च
एकोऽथॐ नामपर्यायैर्विविधैरभिधीयते ११
तस्य प्रकृतिरुद्दिष्टा दोषाः शारीरमानसाः
देहिनं न हि निर्दोषं ज्वरः समुपसेवते १२
क्षयस्तमो ज्वरः पाप्मा मृत्युश्चोक्ता यमात्मकाः
पञ्चत्वप्रत्ययान्नॄणां क्लिश्यतां स्वेन कर्मणा १३
इत्यस्य प्रकृतिः प्रोक्ता प्रवृत्तिस्तु परिग्रहात्
निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात् १४
द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्
दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवुः १५
तपोविघ्नाशनाः कर्तुं तपोविघ्नं महात्मनः
पश्यन् समर्थश्चोपेक्षां चक्रे दक्षः प्रजापतिः १६
पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः
यज्ञे न कल्पयामास प्रोच्यमानः सुरैरपि १७
ऋचः पशुपतेर्याश्च शैव्य आहुतयश्च याः
यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव स इष्टवान् १८
अथोत्तीर्णव्रतो देवो बुद्ध्वा दक्षव्यतिक्रमम्
रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः १९
सृष्टा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः
बालं क्रोधाग्निसन्तप्तमसृजत् सत्रनाशनम् २०
ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः
दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः २१
अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्
तमृग्भिरस्तुवन् यावच्छैवे भावे शिवः स्थितः २२
शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः
भिया भस्मप्रहरणस्त्रिशिरा नवलोचनः २३
ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदरः क्रमात्
क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते २४
तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि
जन्मादौ निधने च त्वमपचारान्तरेषु च २५
संतापः सारुचिस्तृष्णा साङ्गमर्दो हृदि व्यथा
ज्वरप्रभावो जन्मादौ निधने च महत्तमः २६
प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शितः
निदाने कारणान्यष्टौ पूर्वोक्तानि विभागशः २७
आलस्यं नयने सास्रे जृम्भणं गौरवं क्लमः
ज्वलनातपवाय्वम्बुभक्तिद्वेषावनिश्चितौ २८
अविपाकास्यवैरस्ये हानिश्च बलवर्णयोः
शीलवैकृतमल्पं च ज्वरलक्षणमग्रजम् २९
केवलं समनस्कं च ज्वराधिष्ठानमुच्यते
शरीरं बलकालस्तु निदाने संप्रदर्शितः ३०
ज्वरप्रत्यात्मिकं लिङ्गं संतापो देहमानसः
ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते ३१
द्विविधो विधिभेदेन ज्वरः शरीरमानसः
पुनश्च द्विविधो दृष्टः सौम्यश्चाग्नेय एव वा ३२
अन्तर्वेगो बहिर्वेगो द्विविधः पुनरुच्यते
प्राकृतो वैकृतश्चैव साध्यश्चासाध्य एव च ३३
पुनः पञ्चविधो दृष्टो दोषकालबलाबलात्
संततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ३४
पुनराश्रयभेदेन धातूनां सप्तधा मतः
भिन्नः कारणभेदेन पुनरष्टविधो ज्वरः ३५
शारीरो जायते पूर्वं देहे मनसि मानसः
वैचित्त्यमरतिर्ग्लानिर्मनसस्तापलक्षणम् ३६
इन्द्रियाणां च वैकृत्यं ज्ञेयं संतापलक्षणम्
वातपित्तात्मकः शीतमुष्णं वातकफात्मकः ३७
इच्छत्युभयमेतत्तु ज्वरो व्यामिश्रलक्षणः
योगवाहः परं वायुः संयोगादुभयार्थकृत् ३८
चाहकृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात्
अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः ३९
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः
अन्तर्वेगस्य लिङ्गानि ज्वरस्यतानि लक्षयेत् ४०
संतापोऽभ्यधिको बाह्यस्तृष्णादीनां च मार्दवम्
बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च ४१
प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः
उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति ४२
चितः शीते कफश्चैवं वसन्ते समुदीर्यते
वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा ४३
संचितं पित्तमुद्रिक्तं शरद्यादित्यतेजसा
ज्वरं संजनयत्याशु तस्य चानुबलः कफः ४४
प्रकृत्यैव विसर्गस्य तत्र नानशनाद्भयम्
अद्भिरोषधिभिश्चैव मधुराभिश्चितः कफः ४५
हेमन्ते सूर्यसंतप्तः स वसन्ते प्रकुप्यति
वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते ४६
आदानमध्ये तस्यापि वातपित्तं भवेदनु
आदावन्ते च मध्ये च बुद्ध्वा दोषबलाबलम् ४७
शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत्
कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः ४८
प्रायेणानिलजो दुःखः कालेष्वन्येषु वैकृतः
हेतवो विविधास्तस्य निदाने संप्रदर्शिताः ४९
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः
हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः ५०
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रयनाशनः
सप्ताहाद्वा दशाहाद्वा द्वादशाहात्तथैव च ५१
सप्रलापभ्रमश्वासस्तीक्ष्णो हन्याज्ज्वरो नरम्
ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः ५२
असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः
स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः ५३
सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम्
दशाहं द्वादशाहं वा सप्ताहं वा सुदुःसहः ५४
स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा
कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम् ५५
निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुःसहः
यथा धातूंस्तथा मूत्रं पुरीषं चानिलादयः ५६
युगपच्चानुपद्यन्ते नियमात् सन्तते ज्वरे
स शुद्ध्या वाऽप्यशुद्ध्या वा रसादीनामशेषतः ५७
सप्ताहादिषु कालेषु प्रशमं याति हन्ति वा
यदा तु नातिशुध्यन्ति न वा शुध्यन्ति सर्वशः ५८
द्वादशैते समुद्दिष्टाः सन्ततस्याश्रयास्तदा
विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम् ५९
दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते
इति बुद्ध्वा ज्वरं वैद्य उपक्रामेत्तु सन्ततम् ६०
क्रियाक्रमविधौ युक्तः प्रायः प्रागपतर्पणैः
रक्तधात्वाश्रयः प्रायो दोषः सततकं ज्वरम् ६१
सप्रत्यनीकः कुरुते कालवृद्धिक्षयात्मकम्
अहोरात्रे सततको द्वौ कालावनुवर्तते ६२
कालप्रकृतिदूष्याणां प्राप्यैवान्यतमाद्बलम्
अन्येद्युष्कं ज्वरं दोषो रुद्धा मेदोवहाः सिराः ६३
सप्रत्यनीको जनयत्येककालमहर्निशि
दोषोऽस्थिमज्जगः कुर्यात्तृतीयकचतुर्थकौ ६४
गतिर्ह्येकान्तराऽन्येद्युर्दोषस्योक्तान्यथा परैः
अन्येद्युष्कं ज्वरं कुर्यादपि संश्रित्य शोणितम् ६५
मांसस्रोतांस्यनुगतो जनयेत्तु तृतीयकम्
संश्रितो मेदसो मार्गं दोषश्चापि चतुर्थकम् ६६
अन्येद्युष्कः प्रतिदिनं दिनं हित्वा तृतीयकः
दिनद्वयं यो विश्रम्य प्रत्येति स चतुर्थकः ६७
अधिशेते यथा भूमिं बीजं काले च रोहति
अधिशेते तथा धातुं दोषः काले च कुप्यति ६८
स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्
चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात् ६९
कृत्वा वेगं गतबलाः स्वे स्वे स्थाने व्यवस्थिताः
पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः ७०
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ७१
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसंभवः ७२
विषमज्वर एवान्यश्चतुर्थकविपर्ययः
त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम् ७३
प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः
सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः ७४
ऋत्वहोरात्र दोषाणां मनसश्च बलाबलात्
कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते ७५
गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ
रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम् ७६
रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः
दाहरागभ्रममदप्रलापा रक्तसंस्थिते ७७
अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता
दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत् ७८
स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णशः
स्वगन्धस्यासहत्वं च मेदःस्थे ग्लानरोचकौ ७९
विरेकवमने चोभे सास्थिभेदं प्रकूजनम्
विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे ८०
हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्
मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे ८१
शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च
प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः ८२
रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः
अस्थिज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति ८३
हेतुभिर्लक्षणैश्चोक्तः पूर्वमष्टविधो ज्वरः
समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम् ८४
शिरोरुक् पर्वणां भेदो दाहो रोम्णां प्रहर्षणम्
कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमोऽरुचिः ८५
स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृतिः
शीतको गौरवं तन्द्रा स्तैमित्यं पर्वणां च रुक् ८६
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ८७
मुहुर्दाहो मुहुः शीतं स्वेदस्तम्भो मुहुर्मुहुः
मोहः कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्तनम् ८८
लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः
इत्येते द्वन्द्वजाः प्रोक्ताः सन्निपातज उच्यते ८९
सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि
प्राक् सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक् ९०
भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्
वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे ९१
शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः
वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः ९२
छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना
मन्दवाते व्यवस्यन्ति लिङ्ग पित्तकफोल्बणे ९३
सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः
वातोल्बणे स्याद्द्व्यनुगे तृष्णा कण्ठास्यशुष्कता ९४
रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसंक्षयः
मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि ९५
आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः
कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत् ९६
प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्
हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम् ९७
हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः
हीनवाते मध्यकफे लिङ्गं पिताधिके मतम् ९८
शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ
हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके ९९
शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्
हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः १००
श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्
कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम् १०१
वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोरुचिर्भ्रमः
कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः १०२
सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा १०३
सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः १०४
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम् १०५
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा १०६
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् १०७
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च १०८
चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः
दोषे विबद्धे नष्टेऽग्नौ सर्वसंपूर्णलक्षणः १०९
सन्निपातज्वरोऽसाध्यःकृच्छ्रसाध्यस्त्वतोऽन्यथा
निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः ११०
संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम्
आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः १११
अभिघाताभिषङ्गाभ्यामभिचारामिशापतः
शस्त्रलोष्टकशाकाष्ठमुष्ट्यरत्नितलद्विजैः ११२
तद्विधैश्च हते गात्रे ज्वरः स्यादभिघातजः
तत्राभिघातजे वायुः प्रायो रक्तं प्रदूषयन् ११३
सव्यथाशोफवैवर्ण्यं करोति सरुजं ज्वरम्
कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः ११४
सोऽभिषङ्गाज्ज्वरो ज्ञेयो यश्च भूताभिषङ्गजः
कामशोकभयाद्वायुः क्रोधात् पित्तं त्रयो मलाः ११५
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः
भूताधिकारे व्याख्यातं तदष्टविधलक्षणम् ११६
विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विंषसंभवैः
अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम् ११७
चिकित्सया विषघ्न्यैव स शमं लभते नरः
अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते ११८
सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः
सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम् ११९
चित्तेन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः
प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि १२०
स्वयं श्रुत्वाऽनुमानेन लक्ष्यते प्रशमेन वा
वैविध्यादभिचारस्य शापस्य च तदात्मके १२१
यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्
ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम् १२२
शोकजे वाष्पबहुलं त्रासप्रायं भयज्वरे
क्रोधजे बहुसंरम्भं भतावेशे त्वमानुषम् १२३
मूर्च्छामोहमदग्लानिभूयिष्ठं विषसंभवे
केषाञ्चिदेषां लिङ्गानां संतापो जायते पुरः १२४
पश्चात्तुल्यं तु केषाश्चिदेषु कामज्वरादिषु
कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम् १२५
कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्
मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम् १२६
ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति
देहे वाभिहते पूर्वं वाताद्यैर्न तथा बलम् १२७
ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति
ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः १२८
हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः
संसृष्टाः सन्निपतिताः पृथग्वा कुपिता मलाः १२९
रसाख्यं धतुमन्वेत्य पक्तिं स्थानान्निरस्य च
स्वेन तेनोष्मणा चैव कृत्वा देहोष्मणो बलम् १३०
स्रोतांसि रुद्ध्वा संप्राप्ताः केवलं देहमुल्बणाः
संतापमधिकं देहे जनयन्ति नरस्तदा १३१
भवत्यत्युष्ण सर्वाङ्गो ज्वरितस्तेन चोच्यते
स्रोतसां संनिरुद्धत्वात् स्वेदं ना नाधिगच्छति १३२
स्वस्थानात् प्रच्युते चाग्नौ प्रायस्तरुणे ज्वरे
अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च १३३
हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च
ज्वरोऽविसर्गी बलवान् दोषाणामप्रवर्तनम् १३४
लालाप्रसेको हृल्लासः क्षुन्नाशो विरसं मुखम्
स्तब्धसुप्तगुरुत्वं च गात्राणां बहुमूत्रता १३५
न विड्जीर्णा न च ग्लानिर्ज्वरस्यामस्य लक्षणम्
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः १३६
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्
क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम् १३७
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्
नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम् १३८
क्रोधप्रवातव्यायामान् कषायांश्च विवर्जयेत्
ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् १३९
क्षयानिलभयक्रोधकामशोकश्रमोद्भवात्
लङ्घनेन क्षयं नीते दोषे संधुक्षितेऽनले १४०
विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते
प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् १४१
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः
लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः १४२
पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे
तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे १४३
मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम्
दीपनं पाचनं चैव ज्वरघ्नमुभयं हि तत् १४४
स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम्
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः १४५
शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये
कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान् १४६
बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्
अनुपस्थितदोषाणां वमनं तरुणे ज्वरे १४७
हृद्रोगं श्वासमानाहं मोहं च जनयेद्भृशम्
सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः १४८
दोषाः फलानामामानां स्वरसा इव सात्ययाः
वमितं लङ्घितं काले यवागूभिरुपाचरेत् १४९
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः
यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः १५०
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः
ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः १५१
वातमूत्रपुरीषाणां दोषाणां चानुलोमनाः
स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये १५२
आहारभावात् प्राणाय सरत्वाल्लाघवाय च
ज्वरघ्न्योज्वरसात्म्यत्वात्तस्मात् पेयाभिरादितः १५३
ज्वरानुपचरेद्धीमानृते मद्यसमुत्थितात्
मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके १५४
ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे
तत्र तर्पणमेवाग्रे प्रयोज्यं लाजसक्तुभिः १५५
ज्वरापहैः फलरसैर्युक्तं समधुशर्करम्
ततः सात्म्यबलापेक्षी भोजयेज्जीर्णतर्पणम् १५६
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा
अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम् १५७
योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत्
तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः १५८
धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्
विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत् १५९
मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्
पाचनं शमनीयं वा कषायं पाययेद्भिषक् १६०
ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्
स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् १६१
दोषा बद्धाः कषायेण स्तम्भित्वात्तरुणे ज्वरे
न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते १६२
यः कषायःकषायः स्यात् स वर्ज्यस्तरुणज्वरे
यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितैः १६३
दशाहं यावदश्नीयाल्लध्वन्नं ज्वरशान्तये
अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे १६४
परिपक्वेषु दोषेषु सर्पिष्पानं यथाऽमृतम्
निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम् १६५
न सर्पिः पाययेद्वैद्यः कषायैस्तमुपाचरेत्
यावल्लघुत्वादशनं दद्यान्मांसरसेन च १६६
बलं ह्यलं निग्रहाय दोषाणां बलकृच्च तत्
दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम् १६७
बद्धप्रच्युतदोषं वा निरामं पयसा जयेत्
क्रियाभिराभिः प्रशमं न प्रयाति यदा ज्वरः १६८
अक्षीणबलमांसाग्नेः शमयेत्तं विरेचनैः
ज्वरक्षीणस्य न हितं वमनं न विरेचनम् १६९
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्
निरूहो बलमग्निं च विज्वरत्वं मुदं रुचिम् १७०
परिपक्वेषु दोषेषु प्रयुक्तः शीघ्रमावहेत्
पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत् १७१
स्रंसनं त्रीन्मलान् बस्तिर्हरेत् पक्वाशयस्थितान्
ज्वरे पुराणे संक्षीणे कफपित्ते दृढाग्नये १७२
रुक्षबद्धपुरीषाय प्रदद्यादनुवासनम्
गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु च १७३
जीर्णज्वरे रुचिकरं कुर्यान्मूर्धविरेचनम्
अभ्यङ्गांश्च प्रदेहांश्च परिषेकावगाहने १७४
विभज्य शीतोष्णकृतं कुर्याज्जीर्णे ज्वरे भिषक्
तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः १७५
लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते
धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वराः शमम् १७६
त्वङ्मात्रशेषा येषां च भवत्यागन्तुरन्वयः
इति क्रियाक्रमः सिद्धो ज्वरघ्नः संप्रकाशितः १७७
येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु
रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह १७८
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः
लाजपेयां सुखजरां पिप्पलीनागरैः शृताम् १७९
पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः
अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम् १८०
सृष्टविट् पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्
पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि १८१
श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत्
ज्वरातिसारी पेयां वा पिबेत् सम्लां शृतां नरः १८२
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः
शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः १८३
कासी श्वासी च हिक्की च यवागूं ज्वरितः पिबेत्
विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम् १८४
सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम्
कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी १८५
मृद्वीकापिप्पलीमूलचव्यामलकनागरैः
पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके १८६
बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्
अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम् १८७
नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम्
मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्टकान् १८८
यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत्
पटोलपत्रं सफलं कुलकं पापचेलिकम् १८९
कर्कोटकं कठिल्लं च विद्याच्छाकं ज्वरे हितम्
लावान् कपिञ्जलानेणांश्चकोरानुपचक्रकान् १९०
कुरङ्गान् कालपुच्छांश्च हरिणान् पृषताञ्छशान्
प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान् १९१
ईषदम्लाननम्लान् वा रसान् काले विचक्षणः
कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान् १९२
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः
लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत् १९३
भिषङ्मात्राविकल्पज्ञो दद्यात्तानपि कालवित्
घर्माम्बु चानुपानार्थं तृषिताय प्रदापयेत् १९४
मद्यं वा मद्यसात्म्याय यथादोषं यथाबलम्
गुरूष्णस्निग्धमधुरान् कषायांश्च नवज्वरे १९५
आहारान् दोषपक्त्यर्थं प्रायशः परिवर्जयेत्
अन्नपानक्रमः सिद्धो ज्वरघ्नः संप्रकाशितः १९६
अत ऊर्ध्वं प्रवक्ष्यन्ते कषाया ज्वरनाशनाः
पाक्यं शीतकषायं वा मुस्तपर्पटकं पिबेत् १९७
सनागरं पर्पटकं पिबेद्वा सदुरालभम्
किराततिक्तकं मुस्तं गुडूचीं विश्वभेषजम् १९८
पाठामुशीरं सोदीच्यं पिबेद्वा ज्वरशान्तये
ज्वरघ्ना दीपनाश्चैते कषाया दोषपाचनाः १९९
तृष्णारुचिप्रशमना मुखवैरस्यनाशनाः
कलिङ्गकाः पटोलस्य परं कटुकरोहिणी २००
पटोलः सारिवा मुस्तं पाठा कटुकरोहिणी
निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ २०१
किराततिक्तममृता चन्दनं विश्वभेषजम्
जुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः २०२
कषायाः शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान्
संततं सततान्येद्युस्तृतीयकचतुर्थकान् २०३
वत्सकारग्वधौ पाठां षड्ग्रन्थां कटुरोहिणीम्
मूर्वां सातिविषां निम्बः पटोलं धन्वयासकम् २०४
वचां मुस्तमुशीरं च मधुकं त्रिफलां बलाम्
पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः २०५
मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम्
त्रायमाणामुशीरं च रिफलां कटुरोहिणीम् २०६
पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते
जात्यामलकमुस्तानि तद्वद्धन्वयवासकम् २०७
विबद्धदोषो ज्वरितः कषायं सगुडं पिबेत्
त्रिफलां त्रायमाणां च मृद्वीकां कटुरोहिणीम् २०८
पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिकः
त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः २०९
बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम्
कोलवल्ली च योगोऽयं संनिपातज्वरापहः २१०
शटी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा
गुडूची नागरं पाठा किरातं कटुरोहिणी २११
एष शट्यादिको वर्गः सन्निपातज्वरापहः
कासहृद्ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते २१२
बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा
वत्सकस्य च बीजानि पटोलं कटुरोहिणी २१३
बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः
कासादिषु च सर्वेषु दद्यात् सोपद्रवेषु च २१४
कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः
निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत् २१५
ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः
रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम् २१६
रूक्षं तेजो ज्वरकरं तेजसा रूक्षितस्य च
यः स्यादनुबलो धातुः स्नेहवध्यः स चानिलः २१७
कषायाः सर्व एवैते सर्पिषा सह योजितः
प्रयोज्या ज्वरशान्त्यर्थमग्निसंधुक्षणाः शिवाः २१८
पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी
कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा २१९
द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका
सिद्धमेतैर्घृतं सद्यो जीर्णज्वरमपोहति २२०
क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम्
अंसाभितापमग्निं च विषमं संनियच्छति २२१
वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम्
पक्त्वा तेन कषायेण पयसा द्विगुणेन च २२२
पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरैः
कल्कीकृतैश्च विपचेद्धृतं जीर्णज्वरापहम् २२३
बलां श्वदंष्ट्रां बृहतीं कलसीं धवनीं स्थिराम्
निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम् २२४
कृत्वा कषायं पेष्यार्थे दद्यात्तामलकीं शटीम्
द्राक्षां पुष्करमूलं च मेदामामलकानि च २२५
घृतं पयश्च तत् सिद्धं सर्पिर्ज्वरहरं परम्
क्षयकासशिरःशूलपार्श्वशूलांसतापनुत् २२६
ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान्
दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते २२७
मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा
युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये २२८
क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना
ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा २२९
मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत्
रसमामलकानां वा घृतभृष्टं ज्वरापहम् २३०
लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा
पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम् २३१
आरग्वधं वा पयसा मृद्वीकानां रसेन वा
त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत् २३२
ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम्
पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः २३३
कासाच्छ्वासाञ्छिरःशूलात्पार्श्वशूलाच्चिरजवरात्
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः २३४
एरण्डमूलोत्क्वथितं ज्वरात् सपरिकर्तिकात्
पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभिः २३५
त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्
वर्चोमूत्रविबन्धघ्नं शोफज्वरहरं पयः २३६
सनागरं समृद्वीकं सघृतक्षौद्रशर्करम्
शृतं पयः सखर्जरं पिपासाज्वरनाशनम् २३७
चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः
धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत् २३८
जीर्णज्वराणां सर्वेषां पयः प्रशमनं परम्
पेयं तदुष्णं शीतं वा यथास्वं भेषजैः शृतम् २३९
प्रयोजयेज्ज्वरहरान्निरूहान् सानुवासनान्
पक्काशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु २४०
पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः
ह्रीवेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि च २४१
स्थिरा बला च तत् सर्वं पयस्यर्धोदके शतम्
क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा २४२
कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य च
वत्सकस्य च संयुक्तं बस्ति दद्याज्ज्वरापहम् २४३
शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु
गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः २४४
आरग्वधमुशीरं च मदनस्य फलं तथा
चतस्रः पर्णिनीश्चैव निर्यूहमुपकल्पयेत् २४५
प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका
कल्कः सर्पिर्गुडः क्षौद्रं ज्वरघ्नो बस्तिरुत्तमः २४६
गुडूचीं त्रायमाणां च चन्दनं मधुकं वृषम्
स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत् २४७
रसं जाङ्गलमांसस्य रसेन सहितं भिषक्
पिप्पलीफलमुस्तानां कल्केन मधुकस्य च २४८
ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा
ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम् २४९
जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम्
ऋद्धिं रास्नां बलां विश्वं शतपुष्पां शतावरीम् २५०
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक्
आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम् २५१
पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन च
मदनैश्च शृतः स्नेहो ज्वरघ्नमनुवासनम् २५२
चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः
सिद्धः स्नेहो ज्वरहरः स्नेहबस्तिः प्रशस्यते २५३
यदुक्तं भेषजाध्याये विमाने रोगभेषजे
शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम् २५४
यच्च नावनिकं तैलं याश्च प्राग्धूमवर्तयः
मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेष्वपि २५५
अभ्यङ्गांश्च प्रदेहांश्च परिषेकांश्च कारयेत्
यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम् २५६
सहस्रधौतं सर्पिर्वा तैलं वा चन्दनादिकम्
दाहज्वरप्रशमनं दद्यादभ्यञ्जनं भिषक् २५७
अथ चन्दनाद्यं तैलमुपदेक्ष्यामः चन्दनभद्रश्रीकालानुसार्यकालीयकपद्मापद्मकोशीरसारिवामधुकप्रपौण्डरी-कनागपुष्पोदीच्यवन्यपद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रबिस-मृणालशालूकशैवालकशेरुकानन्ताकुशकाशेक्षुदर्भशरनलशालिमूलजम्बु-वेतसवानीरगुन्द्राककुभासनाश्वकर्णस्यन्दनवातपोथशालतालधवतिनिशख-दिरकदरकदम्बकाश्मर्यफलसर्जप्लक्षवटकपीतनोदुम्बराश्वत्थन्यग्रोधधात-कीदूर्वेत्कटशृङ्गाटकमञ्जिष्ठाज्योतिष्मतीपुष्करबीजक्रौञ्चादनबदरीकोविदार-कदलीसंवर्तकारिष्टशतपर्वाशीतकुम्भिकाशतावरीश्रीपर्णीश्रावणीमहाश्राव-णीरोहिणीशीतपाक्योदनपाकीकालाबलापयस्याविदारीजीवकर्षभकमेदाम-हामेदामधुरसर्ष्यप्रोक्तातृणशून्यमोचरसाटरूषकबकुलकुटजपटोलनिम्बशा-ल्मलीनारिकेलखर्जूरमृद्वीकाप्रियालप्रियङ्गुधन्वनात्मगुप्तामधूकानामन्येषां च शीतवीर्याणां यथालाभमौषधानां कषायं कारयेत् तेन कषायेण द्विगुणितपयसा तेषामेव च कल्केन कषायार्धमात्रं मृद्वग्निना साधयेत्तैलम् एतत्तैलमभ्यङ्गात् सद्यो दाहज्वरमपनयति एतैरेव चौषधैरश्लक्ष्णपिष्टैः सुशीतैः प्रदेहं कारयेत् एतैरेव च शृतशीतं सलिलमवगाहपरिषेकार्थं प्रयुञ्जीत २५८
इति चन्दनाद्यं तैलम्
मध्वारनालक्षीरदधिघृतसलिलसेकावगाहाश्च
सद्यो दाहज्वरमपनयन्ति शीतस्पर्शत्वात् २५९
भवन्ति चात्र--
पौष्करेषु सुशीतेषु पद्मोत्पलदलेषु च
कदलीनां च पत्रेषु क्षौमेषु विमलेषु च २६०
चन्दनोदकशीतेषु शीते धारागृहेऽपि वा
हिमाम्बुसिक्ते सदने दाहार्तः संविशेत् सुखम् २६१
हेमशङ्खप्रवालानां मणीनां मौक्तिकस्य च
चन्दनोदकशीतानां संस्पर्शानुरसान् स्पृशेत् २६२
स्रग्भिर्नीलोत्पलै पद्मैर्व्यजनैर्विविधैरपि
शीतवातावहैर्व्यज्ज्येच्चन्दनोदकवर्षिभिः २६३
नद्यस्तडागाः पद्मिन्यो ह्रदाश्च विमलोदकाः
अवगाहे हिता दाहतृष्णाग्लानिज्वरापहाः २६४
प्रियाः प्रदक्षिणाचाराः प्रमदाश्चन्दनोक्षिताः
सान्त्वयेयुः परैः कामैर्मणिमौक्तिकभूषणाः २६५
शीतानि चान्नपानानि शीतान्युपवनानि च
वायवश्चन्द्रपादाश्च शीता दाहज्वरापहाः २६६
अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्यामः--अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुकास्थौणेयक क्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकीदेवदार्वग्नि-मन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारीबृहतीशालपर्णीपृश्निपर्णीमाष-पर्णीमुद्गपर्णीगोक्षुरकैरण्डशोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरो-रुबूकपत्तूराक्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णीतिलपर्णीपीलुपर्णीमेषशृ-ङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीकाकरञ्जधान्य-काजमोदपृथ्वीकासुमुखसुरसुकुठेरककाल--मालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहाव-चाबलातिबलागुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्म-तीचित्रकाध्यण्डाम्लचाङ्गेरीतिलबदरकुलत्थमाषाणामेवंविधानामन्येषां चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत् तेन कषायेण तेषामेव च कल्केन सुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत् तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात् तथा शीतज्वरः प्रशाम्यति एतैरेव चौषधैः श्लक्ष्णपिष्टैः सुखोष्णैःप्रदेहं कारयेत् एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम् २६७
इत्यगुर्वाद्यं तैलम्
भवन्ति चात्र--
त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः
मात्राकालविदा युक्तः स च शीतज्वरापहः २६८
सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम्
शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः २६९
चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा
आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम् २७०
स्वेदनान्यन्नपानानि वातश्लेष्महराणि च
शीतज्वरं जयन्त्याशु संसर्गबलयोजनात् २७१
वातजे श्रमजे चैव पुराणे क्षतजे ज्वरे
लङ्घनं न हितं विद्याच्छमनैस्तानुपाचरेत् २७२
विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्
ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः २७३
यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि
न पचत्योदनं सम्यगनिलप्रेरितो बहिः २७४
पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्
न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु २७५
अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हितः
सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः २७६
निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि
उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषतः २७७
मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः
एतस्मात्कारणाद्विद्वान् वातिकेऽप्यादितो ज्वरे २७८
नाति गुर्वति वा स्निग्धं भोजयेत् सहसा नरम्
ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम् २७९
कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्
पाययित्वा कषायं च भोजयेद्रसभोजनम् २८०
जीर्णज्वरहरं कुर्यात् सर्वशश्चाप्युपक्रमम्
श्लेष्मलानामवातानां ज्वरोऽनुष्णः कफाधिक २८१
परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्
तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना २८२
आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत्
सामा ये ये च कफजाः कफपित्तज्वराश्च ये २८३
लङ्घनं लङ्घनीयोक्तं तेषु कार्यं प्रति प्रति
वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम् २८४
ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्
संसृष्टान् सन्निपतितान् बुद्ध्वा तरतमैः समैः २८५
ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्
वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा २८६
कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः २८७
शोथः संजायते तेन कश्चिदेव प्रमुच्यते
रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत् २८८
प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः
शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति २८९
शाखानुसारी रक्तस्य सोऽवसेकात् प्रशाम्यति
विसर्पेणाभिघातेन यश्च विस्फोटकैर्ज्वरः २९०
तत्रादौ सर्पिषः पानं कफपितोत्तरो न चेत्
दौर्बल्याद्देहधातूनां ज्वरो जीर्णोऽनुवर्तते २९१
बल्यैः संबृंहणैस्तस्मादाहारैस्तमुपाचरेत्
कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ २९२
आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे
वातप्रधानं सर्पिर्भिर्बस्तिथिः सानुवासनैः २९३
स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम्
विरेचनेन पयसा सर्पिषा संस्कृतेन च २९४
विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत्
वमनं पाचनं रूक्षमन्नपानं विलङ्घनम् २९५
कषायोष्णं च विषमे ज्वरे शस्तं कफोत्तरे
योगाः पराः प्रवक्ष्यन्ते विषमज्वरनाशनाः २९६
प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते
सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधः २९७
तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे
पिबेद्वा षट्पलं सर्पिरभयां वा प्रयोजयेत् २९८
त्रिफलायाः कषायं वा गुडूच्या रसमेव वा
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम् २९९
पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादितः
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः ३००
उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत्
सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे ३०१
आस्थापनं यापनं वा कारयेद्विषमज्वरे
पयसा वृषदंशस्य शकृद्वा तदहः पिबेत् ३०२
वृषस्य दधिमण्डेन सुरया वा ससैन्धवम्
पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः ३०३
पञ्चगव्यस्य पयसः पर्योगो विषमज्वरे
रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम् ३०४
मेद्यानामुष्णवीर्याणामामिषाणां च भक्षणम्
हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा ३०५
पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा
सैन्धवं पिप्पलीनां च तण्डुलाः समनः शिलाः ३०६
नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी ३०७
सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्
ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत् ३०८
मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे
मणीनामोषधीनां च मङ्गल्यानां विषस्य च ३०९
धारणादगदानां च सेवनान्न भवेज्ज्वरः
सोमं सानुचरं देवं समातृगणमीश्वरम् ३१०
पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्
विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम् ३११
स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति
ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम् ३१२
गङ्गां मरुद्गणांश्चेष्ट्या पूजयञ्जयति ज्वरान्
भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च ३१३
ब्रह्मचर्येण तपसा सत्येन नियमेन च
जपहोमप्रदानेन वेदानां श्रवणेन च ३१४
ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च
ज्वरे रसस्थे वमनमुपवासं च कारयेत् ३१५
सेकप्रदेहौ रक्तस्थे तथा संशमनानि च
विरेचनं सोपवासं मांसमेदः स्थिते हितम् ३१६
अस्थिमज्जगते देया निरूहाः सानुवासनाः
शापाभिचाराद्भूतानामभिषङ्गाच्च यो ज्वरः ३१७
दैवव्यपाश्रयं तत्र सर्वमौषधमिष्यते
अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः ३१८
रक्तावसेकैर्मद्यैश्च सात्म्यैर्मांसरसौदनैः
सानाहो मद्यसात्म्यानां मदिरारसभोजनैः ३१९
क्षतानां व्रणितानां च क्षतव्रणचिकित्सया
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च ३२०
हर्षणैश्च शमं यान्ति कामशोकभयज्वराः
काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः ३२१
सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः
कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः ३२२
याति ताभ्यामुभाभ्यां च भयशोकसमुत्थितः
ज्वरस्य वेगं कालं च चिन्तयञ्ज्वर्यते तु यः ३२३
तस्येष्टैस्तु विचित्रैश्च विषयैर्नाशयेत् स्मृतिम्
ज्वरप्रमोक्षे पुरुषः कूजन् वमति चेष्टते
श्वसन्विवर्णः स्विन्नाङ्गो वेपते लीयते मुहुः ३२४
प्रलपत्युष्णसर्वाङ्गः शीताङ्गश्च भवत्यपि
विसंज्ञो ज्वरवेगार्तः सक्रोध इव वीक्ष्यते ३२५
सदोषशब्दं च शकृद्द्रवं स्रवति वेगवत्
लिङ्गान्येतानि जानीयाज्ज्वरमोक्षे विचक्षणः ३२६
बहुदोषस्य बलवान् प्रायेणाभिनवो ज्वरः
सत्क्रियादोषपक्त्या चेद्विमुञ्चति सुदारुणम् ३२७
कृत्वा दोषवशाद्वेगं क्रमादुपरमन्ति ये
तेषामदारुणो मोक्षो ज्वराणां चिरकारिणाम् ३२८
विगतक्लमसंतापमव्यथं विमलेन्द्रियम्
युक्तं प्रकृतिसत्त्वेन विद्यात् पुरुषमज्वरम् ३२९
सज्वरो ज्वरमुक्तश्च विदाहीनि गुरूणि च
असात्म्यान्यन्नपानानि विरुद्धानि च वर्जयेत् ३३०
व्यवायमतिचेष्टाश्च स्नानमत्यशनानि च
तथा ज्वरः शमं याति प्रशान्तो जायते न च ३३१
व्यायामं च व्यवायं च स्नानं चङ्कमणानि च
ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ३३२
असंजातबलो यस्तु ज्वरमुक्तो निषेवते
वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वरः ३३३
दुर्हृतेषु च दोषेषु यस्य वा विनिवर्तते
स्वल्पेनाप्यपचारेण तस्य व्यावर्तते पुनः ३३४
चिरकालपरिक्लिष्टं दुर्बलं हीनतेजसम्
अचिरेणैव कालेन स हन्ति पुनरागतः ३३५
अथवाऽपि परीपाकं धातुष्वेव क्रमान्मलाः
यान्ति ज्वरमकुर्वन्तस्ते तथाऽप्यपकुर्वते ३३६
दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम्
कण्डूरुत्कोठपिडकाः कुर्वन्त्यग्निं च ते मृदुम् ३३७
एवमन्येऽपि च गदा व्यावर्तन्ते पुनर्गताः
अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम् ३३८
निर्वृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथावलम्
यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत् ३३९
मृदुभिः शोधनैः शुद्धिर्यापना बस्तयो हिताः
हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः ३४०
अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि च
हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च ३४१
गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात् पुनरागते
लङ्घनोष्णोपचारादिः क्रमः कार्यश्च पूर्ववत् ३४२
किराततिक्तकं तिक्ता मुस्तं पर्पटकोऽमृता
घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम् ३४३
तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः
ज्वरक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम् ३४४
रोगराट् सर्वभूतानामन्तकृद्दारुणो ज्वरः
तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक् ३४५
तत्र श्लोकः--
यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम्
आत्रेयेणाग्निवेशाय भूतानां हितकाम्यया ३४६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने ज्वरचिकित्सितं
नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
विहरन्तं जितात्मानं पञ्चगङ्गे पुनर्वसुम्
प्रणम्योवाच निर्मोहमग्निवेशोऽग्निवर्चसम् ३
भगवन् रक्तपित्तस्य हेतुरक्तः सलक्षणः
वक्तव्यं यत् परं तस्य वक्तुमर्हसि तद्गुरो ४
गुरुरुवाचमहागदं महावेगमग्निवच्छीघ्रकारि च हेतुलक्षणविच्छीघ्रं रक्तपित्तमुपाचरेत् ५
तस्योष्णं तीक्ष्णमम्लं च कटूनि लवणानि च
घर्मश्चान्नविदाहश्च हेतुः पूर्वं निदर्शितः ६
तैर्हेतुभिः समुत्क्लिष्टं पित्तं रक्तं प्रपद्यते
तद्योनित्वात् प्रपन्नं च वर्धते तत् प्रदूषयत् ७
तस्योष्मणा द्रवो धातुर्धातोर्धातोः प्रसिच्यते
स्विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति ८
संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः
रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः ९
प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते
स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम् १०
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्
श्यावारुणं सफेनं च तनु रूक्षं च वातिकम् ११
रक्तपित्तं कषायाभं कृष्णं गोमूत्रसंनिभम्
मेचकागारधूमाभमञ्जनाभं च पैत्तिकम् १२
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते १३
यत्त्रिदोषमसाध्यं तन्मन्दाग्नेरतिवेगवत्
व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् १४
गतिरूर्ध्वमधश्चैव रक्तपित्तस्य दर्शिता
ऊर्ध्वा सप्तविधद्वारा द्विद्वारा त्वधरा गतिः १५
सप्त च्छिद्राणि शिरसि द्वे चाधः साध्यमूर्ध्वगम्
याप्यं त्वधोगं मार्गौ तु द्वावसाध्यं प्रपद्यते १६
यदा तु सर्वच्छिद्रेभ्यो रोमकूपेभ्य एव च
वर्तते तामसङ्ख्येयां गतिं तस्याहुरान्तिकीम् १७
यच्चोभयाभ्यां मार्गाभ्यामतिमात्रं प्रवर्तते
तुल्यं कुणपगन्धेन रक्तं कृष्णमतीव च १८
संसृष्टं कफवाताभ्यां कण्ठे सज्जति चापि यत्
यच्चाप्युपद्रवैः सर्वैर्यथोक्तैः समभिद्रुतम् १९
हारिद्रनीलहरितताम्रैर्वर्णैरुपद्रुतम्
क्षीणस्य कासमानस्य यच्च तच्च न सिध्यति २०
यद्द्विदोषानुगं यद्वा शान्तं शान्तं प्रकुप्यति
मार्गान्मार्गं चरेद्यद्वा याप्यं पित्तमसृक् च तत् २१
एकमार्गं बलवतो नातिवेगं नवोत्थितम्
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम् २२
स्निग्धोष्णमुष्णरूक्षं च रक्तपित्तस्य कारणम्
अधोगस्योत्तरं प्रायः पूर्वं स्यादूर्ध्वगस्य तु २३
ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्
द्विमार्गं कफवाताभ्यामुभाभ्यामनुबध्यते २४
अक्षीणबलमांसस्य रक्तपित्तं यदश्नतः
तद्दोषदुष्टमुत्क्लिष्टं नादौ स्तम्भनमर्हति २५
गलग्रहं पूतिनस्यं मूर्च्छायमरुचिं ज्वरम्
गुल्मं प्लीहानमानाहं किलासं कृच्छ्रमूत्रताम् २६
कुष्ठान्यर्शांसि वीसर्पं वर्णनाशं भगन्दरम्
बुद्धीन्द्रियोपरोधं च कुर्यात् सम्भितमादितः २७
तस्मादुपेक्ष्यं बलिनो बलदोषविचारिणा
रक्तपित्तं प्रथमतः प्रवृद्धं सिद्धिमिच्छता २८
प्रायेण हि समुत्क्लिष्टमामदोषाच्छरीरिणाम्
वृद्धिं प्रयाति पित्तासृक्तस्मात्तल्लङ्घ्यमादितः २९
मार्गौ दोषानुबन्धं च निदानं प्रसमीक्ष्य च
लङ्घनं रक्तपित्तादौ तर्पणं वा प्रयोजयेत् ३०
ह्रीवेरचन्दनोशीरमुस्तपर्पटकैः शृतम्
केवलं शृतशीतं वा दद्यात्तोयं पिपासवे ३१
ऊर्ध्वगे तर्पणं पूर्वं पेयां पूर्वमधोगते
कालसात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित् ३२
जलं खर्जूरमृद्वीकामधूकैः सपरूषकैः
शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम् ३३
तर्पणं सघृतक्षौद्रं लाजचूर्णैः प्रदापयेत्
ऊर्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति ३४
मन्दाग्नेरम्लसात्म्याय तत् साम्लमपि कल्पयेत्
दाडिमामलकैर्विद्वानम्लार्थं चानुदापयेत् ३५
शालिषष्टिकनीवारकोरदूषप्रशान्तिकाः
श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् ३६
मुद्गा मसूराश्चणकाः समकुष्ठाढकीफलाः
प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् ३७
पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः
किराततिक्तकं शाकं गण्डीरः सकठिल्लकः ३८
कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मलेः
अन्नपानविधौ शाकं यच्चान्यद्रक्तपित्तनुत् ३९
शाकार्थं शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम्
स्विन्नं वा सर्पिषा भृष्टं यूषवद्वा विपाचितम् ४०
पारावतान् कपोतांश्च लावान् रक्ताक्षवर्तकान्
शशान् कपिञ्जलानेणान् हरिणान्कालपुच्छकान् ४१
रक्तपित्ते हितान् विद्याद्रसांस्तेषां प्रयोजयेत्
ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान् ४२
कफानुगे यूषशाकं दद्याद्वातानुगे रसम्
रक्तपित्ते यवागूनामतः कल्पः प्रवक्ष्यते ४३
पद्मोत्पलानां किञ्जल्कः पृश्निपर्णी प्रियङ्गुकाः
जले साध्या रसे तस्मिन् पेया स्याद्रक्तपित्तिनाम् ४४
चन्दनोशीरलोध्राणां रसे तद्वत् सनागरे
किराततिक्तकोशीरमुस्तानां तद्वदेव च ४५
धातकीधन्वयासाम्बुबिल्वानां वा रसे शृता
मसूरपृश्निपर्ण्योर्वा स्थिरामुद्गरसेऽथ वा ४६
रसे हरेणुकानां वा सघृते सबलारसे
सिद्धाः पारावतादीनां रसे वा स्युः पृथक्पृथक् ४७
इत्युक्ता रक्तपित्तघ्न्यः शीताः समधुशर्कराः
यवाग्वः कल्पना चैषा कार्या मांसरसेष्वपि ४८
शशः सवास्तुकः शस्तो विबन्धे रक्तपित्तिनाम्
वातोल्वणे तित्तिरिः स्यादुदुम्बररसे शृतः ४९
मयूरः प्लक्षनिर्यूहे न्यग्रोधस्य च कुक्कुटः
रसे बिल्वोत्पलादीनां वर्तकक्रकरौ हितौ ५०
तृष्यते तिक्तकैः सिद्धं तृष्णाघ्नं वा फलोदकम्
सिद्धं विदारिगन्धाद्यैरथवा शृतशीतलम् ५१
ज्ञात्वा दोषावनुबलौ बलमाहारमेव च
जलं पिपासवे दद्याद्विसर्गादल्पशोऽपि वा ५२
निदानं रक्तपित्तस्य यत्किंचित् संप्रकाशितम्
जीवितारोग्यकामैस्तन्न सेव्यं रक्तपित्तिभिः ५३
इत्यन्नपानं निर्दिष्टं क्रमशो रक्तपित्तनुत्
वक्ष्यते बहुदोषाणां कार्यं बलवतां च यत् ५४
अक्षीणबलमांसस्य यस्य संतर्पणोत्थितम्
बहुदोषं बलवतो रक्तपित्तं शरीरिणः ५५
काले संशोधनार्हस्य तद्धरेन्निरुपद्रवम्
विरेचनेनोर्ध्वभागमधोगं वमनेन च ५६
त्रिवृतामभयां प्राज्ञः फलान्यारग्वधस्य वा
त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा ५७
विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम्
रसः प्रशस्यते तेषां रक्तपित्ते विशेषतः ५८
वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः
सशर्करं वा सलिलमिक्षूणां रस एव वा ५९
वत्सकस्य फलं मुस्तं मदनं मधुकं मधु
अधोवहे रक्तपित्ते वमनं परमुच्यते ६०
ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादिः क्रमो हितः
अधोगते यवाग्वादिर्न चेत्स्यान्मारुतो बली ६१
बलमांसपरिक्षीणं शोकभाराध्वकर्शितम्
ज्वलनादित्यसंतप्तमन्यैर्वा क्षीणमामयैः ६२
गर्भिणीं स्थविरं बालं रूक्षाल्पप्रमिताशिनम्
अवम्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम् ६३
शोषेण सानुबन्धं वा तस्य संशमनी क्रिया
शस्यते रक्तपित्तस्य परं साऽथ प्रवक्ष्यते ६४
अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः
मधुमिश्रः श्वासकासरक्तपित्तनिबर्हणः ६५
अटरूषकनिर्यूहे प्रियङ्गुं मृत्तिकाञ्जने
विनीय लोध्रं क्षौद्रं च रक्तपित्तहरं पिबेत् ६६
पद्मकं पद्मकिञ्जल्कं दूर्वां वास्तूकमुत्पलम्
नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत् ६७
प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे
यवासभृङ्गरजसोर्मूलं वा गोशकृद्रसे ६८
विनीय रक्तपित्तघ्नं पेयं स्यात्तण्डुलाम्बुना
युक्तं वा मधुसर्पिर्भ्यां लिह्याद्गोश्वशकृद्रसम् ६९
खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मलेः
पुष्पचूर्णानि मधुना लिह्यान्ना रक्तपित्तिकः ७०
शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि
लिह्याच्चूर्णानि मधुना पद्मानां केशरस्य च ७१
धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम्
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावतं शकृत् ७२
उशीरकालीयकलोध्रपद्मकप्रियङ्गुकाकट्फलशङ्खगैरिकाः
पृथक् पृथक् चन्दनतुल्यभागिकाः सशर्करास्तण्डुलधावनाप्लुताः ७३
रक्तं सपित्तं तमकं पिपासां दाहं च पीताः शमयन्ति सद्यः
किराततिक्तं क्रमुकं समुस्तं प्रपौण्डरीकं कमलोत्पले च ७४
ह्रीवेरमूलानि पटोलपत्रं दुरालभा पर्पटको मृणालम्
धनञ्जयोदुम्बरवेतसत्वङ्न्यग्रोधशालेययवासकत्वक् ७५
तुगालतावेतसतण्डुलीयं ससारिवं मोचरसः समङ्गाः
पृथक् पृथक् चन्दनयोजितानि तेनैव कल्पेन हितानि तत्र ७६
निशि स्थिता वा स्वरसीकृता वा कल्कीकृता वा मृदिताः शृता वा
एते समस्ता गणशः पृथग्वा रक्तं सपित्तं शमयन्ति योगाः ७७
मुद्गाः सलाजाः सयवाः सकृष्णाः सोशीरमुस्ताः सह चन्दनेन
बलाजले पर्युषिताः कषाया रक्तं सपित्तं शमयन्त्युदीर्णम् ७८
वैदूर्यमुक्तामणिगैरिकाणां मृच्छङ्खहेमामलकोदकानाम्
मधूदकस्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम् ७९
उशीरपद्मोत्पलचन्दनानां पक्वस्य लोष्टस्य च यः प्रसादः
सशर्करः क्षोद्रयुतः सुशीतो रक्तातियोगप्रशमाय देयः ८०
प्रियङ्गुकाचन्दनलोध्रसारिवामधूकमुस्ताभयधातकीजलम्
समृत्प्रसादं सह यष्टिकाम्बुना सशर्करं रक्तनिबर्हणं परम् ८१
कषाययोगैर्विवधैर्यथोक्तैर्दीप्तेऽनले श्लेष्मणि निर्जिते च
यद्रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु तत्र कार्यम् ८२
छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा
सशर्करं माक्षिकसंप्रयुक्तं विदारिगन्धादिगणैः शृतं वा ८३
द्राक्षाशृतं नागरकैः शृतं वा बलाशृतं गोक्षुरकैः शृतं वा
सजीवकं सर्षभकं ससर्पिः पयः प्रयोज्यं सितया शृतं वा ८४
शतावरीगोक्षुरकैः शृतं वा शृतं पयो वाऽप्यथ पर्णिनीभिः
रक्तं निहन्त्याशु विशेषतस्तु यन्मूत्रमार्गात् सरुजं प्रयाति ८५
विशेषतो विट्पथसंवृत्ते पयो मतं मोचरसेन सिद्धम्
वटावरोहैर्वटशुङ्गकैर्वा ह्रीबेरनीलोत्पलनागरैर्वा ८६
कषाययोगान् पयसा पुरा वा पीत्वाऽनु चाद्यात् पयसैव शालीन्
कषाययोगैरथवा विपक्वमेतैः पिबेत् सर्पिरतिस्रवे च ८७
वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः
प्रदाय कल्कं विपचेद्धृतं तत् सक्षौद्रमाश्वेव निहन्ति रक्तम् ८८
इति वासाघृतम्
पलाशवृन्तस्वरसेन सिद्धं तस्यैव कल्केन मधुद्रवेण
लिह्याद्धृतं वत्सककल्कसिद्धं तद्वत् समङ्गोत्पललोध्रसिद्धम् ८९
स्यात्त्रायमाणाविधिरेष एव सोदुम्बरे चैव पटोलपत्रे
सर्पींषि पित्तज्वरनाशनानि सर्वाणि शस्तानि च रक्तपित्ते ९०
अभ्यङ्गयोगाः परिषेचनानि सेकावगाहाः शयनानि वेश्म
शीतो विधिर्बस्तिविधानमग्र्यं पित्तज्वरे यत् प्रशमाय दिष्टम् ९१
तद्रक्तपित्ते निखिलेन कार्यं कालं च मात्रां च पुरा समीक्ष्य
सर्पिर्गुडा ये च हिताः क्षतेभ्यस्ते रक्तपित्तं शमयन्ति सद्यः ९२
कफानुबन्धे रुधिरे सपित्ते कण्ठागते स्याद्ग्रथिते प्रयोगः
युक्तस्य युक्त्या मधुसर्पिषोश्च क्षारस्य चैवोत्पलनालजस्य ९३
मृणालपद्मोत्पलकेशराणां तथा पलाशस्य तथा प्रियङ्गोः
तथा मधूकस्य तथाऽसनस्य क्षाराः प्रयोज्या विधिनैव तेन ९४
शतावरीदाडिमतिन्तिडीकं काकोलिमेदे मधुकं विदारीम्
पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणं ज्ञः ९५
कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्यात्
यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च तदर्थकारि ९६
इति शतावर्यादिघृतम्
कषाय्योगा य इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्याः
घ्राणात् प्रवृत्तं रुधिरं सपित्तं यदा भवेन्निःसृतदुष्टदोषम् ९७
रक्ते प्रदुष्टे ह्यवपीडबन्धे दुष्टप्रतिश्यायशिरोविकाराः
रक्तं सपूयं कुणपश्च गन्धः स्याद् घ्राणनाशः कृमयश्च दुष्टाः ९८
नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात्तु सिताजलेन
नस्यं तथाऽऽम्रास्थिरसः समङ्गा सधातकीमोचरसः सलोध्रः ९९
द्राक्षारसस्येक्षुरसस्य नस्यं क्षीरस्य दूर्वास्वरसस्य चैव
यवासमूलानि पलाण्डुमूलं नस्यं तथा दाडिमपुष्पतोयम् १००
प्रियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषमाजिकं वा
आम्रास्थिपूर्वैः पयसा च नस्यं ससारिवैः स्यात् कमलोत्पलैश्च १०१
भद्रश्रियं लोहितचन्दनं च प्रपौण्डरीकं कमलोत्पले च
उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या १०२
शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च
कुचन्दनं शैवलामप्यनन्ता कालानुसार्या तृणमूलमृद्धिः १०३
मूलानि पुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च
उदुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिराश्च सर्वे १०४
प्रदेहकल्पे परिषेचने च तथाऽवगाहे घृततैलसिद्धौ
रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात् १०५
धारागृहं भूमिगृहं सुशीतं वनं च रम्यं जलवातशीतम्
वैडूर्यमुक्तामणिभाजनानां स्पर्शाश्च दाहे शिशिराम्बुशीताः १०६
पत्राणि पुष्पाणि च वारिजानां क्षौमं च शीतं कदलीदलानि
प्रछादनार्थं शयनासनानां पद्मोत्पलानां च दलाः प्रशस्ताः १०७
प्रियङ्गुकाचन्दनरूषितानां स्पर्शाः प्रियाणां च वराङ्गनानाम्
दाहे प्रशस्ताः सजलाः सुशीताः पद्मोत्पलानां च कलापवाताः १०८
सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्
मनोऽनुकूलाः शिशिराश्च सर्वाः कथाः सरक्तं शमयन्ति पितम् १०९
तत्र श्लोकौ--
हेतुं वृद्धिं संज्ञां स्थानं लिङ्गं पृथक् प्रदुष्टस्य
मार्गौ साध्यमसाध्यं याप्यं कार्यक्रमं चैव ११०
पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च
गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य १११
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रक्तपित्तचिकित्सतं
नाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातो गुल्मचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सर्वप्रजानां पितृवच्छरण्यः पुनर्वसुर्भूतभविष्यदीशः
चिकित्सितं गुल्मनिबर्हणार्थं प्रोवाच सिद्धं वदतां वरिष्ठः ३
विट्श्लेष्मपित्तातिपरिस्रवाद्वा तैरेव वृद्धैः परिपीडनाद्वा
वेगैरुदीर्णैर्विहतैरधो वा बाह्याभिघातैरतिपीडनैर्वा ४
रूक्षान्नपानैरतिसेवितैर्वा शोकेन मिथ्याप्रतिकर्मणा वा
विचेष्टितैर्वा विषमातिमात्रैः कोष्ठे प्रकोपं समुपैति वायुः ५
कफं च पित्तं च स दुष्टवायुरुद्धूय मार्गान् विनिबद्ध्य ताभ्याम्
हृन्नाभिपार्श्वोदरबस्तिशूलं करोत्यथो याति न बद्धमार्गः ६
पक्वाशये पित्तकफाशये वा स्थितः स्वतन्त्रः परसंश्रयो वा
स्पर्शोपलभ्यः परिपिण्डितत्वाद्गुल्मो यथादोषमुपैति नाम ७
बस्तौ च नाभ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च
पञ्चात्मकस्य प्रभवं तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितं च ८
रूक्षान्नपानं विषमातिमात्रं विचेष्टितं वेगविनिग्रहश्च
शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः ९
यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम्
श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वां सशिरोरुजं च १०
करोति जीर्णेऽभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च
वातात् स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते ११
कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा
आमाभिघातो रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् १२
ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च
स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् १३
शीतं गुरु स्निग्धमचेष्टनं च संपूरनं प्रस्वपनं दिवा च
गुल्मस्य हेतुः कफसंभवस्य सर्वस्तु दिष्टो निचयात्मकस्य १४
स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि
शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य १५
निमित्तलिङ्गान्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च
व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम् १६
महारुजं दाहपरीतमश्मवद्धनोन्नतं शीघ्रविदाहि दारुणम्
मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् १७
ऋतावनाहारतया भयेन विरूक्षणैर्वेगविनिग्रहैश्च
संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रियं रक्तभवोऽभ्युपैति १८
यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः
स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः १९
क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम्
प्रवक्ष्याम्यत ऊर्ध्वं च योगान् गुल्मनिबर्हणान् २०
रूक्षव्यायामजं गुल्मं वातिकं तीव्रवेदनम्
बद्धविण्मारुतं स्नेहैरादितः समुपाचरेत् २१
भोजनाभ्यञ्जनैः पानैर्निरूहैः सानुवासनैः
स्निग्धस्य भिषजा स्वेदः कर्तव्यो गुल्मशान्तये २२
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति २३
स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे
पक्वाशयगते बस्तिरुभयं जठराश्रये २४
दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसोः
बृंहणान्यन्नपापानि स्निग्धोष्णानि प्रयोजयेत् २५
पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः
प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा २६
कफो वाते जितप्राये पित्तं शोणितमेव वा
यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते २७
यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्
आदावन्ते च मध्ये च मारुतं परिरक्षता २८
वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि
हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम् २९
शूलानाहविबन्धेषु गुल्मे वातकफोल्बणे
वर्तयो गुटिकाश्चूर्णं कफवातहरं हितम् ३०
पित्तं वा यदि संवृद्धं संतापं वातगुल्मिनः
कुर्याद्विरेच्यः स भवेत् सस्नेहैरानुलोमिकैः ३१
गुल्मो यद्यनिलादीनां कृते सम्यग्भिषग्जिते
न प्रशाम्यति रक्तस्य सोऽवसेकात् प्रशाम्यति ३२
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्
रूक्षोष्णेन तु संभूते सर्पिः प्रशमनः परम् ३३
पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्वाशयस्थितम्
कालविन्निर्हरेत् सद्यः सतिक्तैः क्षीरबस्तिभिः ३४
पयसा वा सुखोष्णेन सतिक्तेन विरेचयेत्
भिषगग्निबलापेक्षी सर्पिषा तैल्वकेन वा ३५
तृष्णाज्वरपरीदाहशूलस्वेदाग्निमार्दवे
गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत् ३६
छिन्नमूला विदह्यन्ते न गुल्मा यान्ति च क्षयम्
रक्तं हि व्यम्लतां याति तच्च नास्ति न चास्ति रुक् ३७
हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः
समाश्वस्तं सशेषार्तिं सर्पिरभ्यासयेत् पुनः ३८
रक्तपित्तातिवृद्धत्वात् क्रियामनुपलभ्य च
यदि गुल्मो विदह्येत शस्त्रं तत्र भिषग्जितम् ३९
गुरुः कठिनसंस्थानो गूढमांसान्तराश्रयः
अविवर्णः स्थिरश्चैव ह्यपक्वो गुल्म उच्यते ४०
दाहशूलार्तिसंक्षोभस्वप्ननाशारतिज्वरैः
विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत् ४१
विदाहलक्षणे गुल्मे बहिस्तुङ्गे समुन्नते
श्यावे सरक्तपर्यन्ते संस्पर्शं बस्तिसंनिभे ४२
निपीडितोन्नते स्तब्धे सुप्ते तत्पार्श्वपीडनात्
तत्रैव पिण्डिते शूले संपक्वं गुल्ममादिशेत् ४३
तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ
वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे ४४
अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम्
हृत्क्रोडशूनताऽन्तःस्थे बहिःस्थे पार्श्वनिर्गतिः ४५
पक्वः स्रोतांसि संक्लेद्य व्रजत्यूर्ध्वमधोऽपि वा
स्वयंप्रवृत्तं तं दोषमुपेक्षेत हिताशनैः ४६
दशाहं द्वादशाहं वा रक्षन् भिषगुपद्रवान्
अत ऊर्ध्वं हितं पानं सर्पिषः सविशोधनम् ४७
शुद्धस्य तिक्तं सक्षौद्रं प्रयोगे सर्पिरिष्यते
शीतलैर्गुरुभिः स्निग्धैर्गुल्मे जाते कफात्मके ४८
अवम्यस्याल्पकायाग्नेः कुर्याल्लङ्घनमादितः
मन्दोऽग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता ४९
सोत्क्लेशा चारुचिर्यस्य स गुल्मी वमनोपगः
उष्णैरेवोपचर्यश्च कृते वमनलङ्घने ५०
योज्यश्चाहारसंसर्गो भेषजैः कटुतिक्तकैः
सानाहं सविबन्धं च गुल्मं कठिनमुन्नतम् ५१
दृष्ट्वाऽऽदौ स्वेदयेद्युक्त्या स्विन्नं च विलयेद्भिषक्
लङ्घनोल्लेखने स्वेदे कृतेऽग्नौ संप्रधुक्षिते ५२
कफगुल्मी पिबेत् काले सक्षारकटुकं घृतम्
स्थानादपसृतं ज्ञात्वा कफगुल्मं विरेचनैः ५३
सस्नेहैर्बस्तिभिर्वाऽपि शोधयेद्दाशमूलिकैः
मन्देऽग्नावनिले मूढे ज्ञात्वा सस्नेहमाशयम् ५४
गुटिकाचूर्णनिर्यूहाः प्रयोज्याः कफगुल्मिनाम्
कृतमूलं महावास्तुं कठिनं स्तिमतिं गुरुम् ५५
जयेत्कफकृतं गुल्मं क्षारारिष्टाग्निकर्मभिः
दोषप्रकृतिगुल्मर्तुयोगं बुद्ध्वा कफोल्बणे ५६
बलदोषप्रमाणज्ञः क्षारं गुल्मे प्रयोजयेत्
एकान्तरं द्व्यन्तरं वा त्र्यहं विश्रम्य वा पुनः ५७
शरीरबलदोषाणां वृद्धिक्षपणकोविदः
श्लेष्माणं मधुरं स्निग्धं मांसक्षीरघृताशिनः ५८
छित्त्वा छित्त्वाऽऽशयात् क्षारः क्षरत्वात् क्षारयत्यधः
मन्देऽग्नावरुचौ सात्म्ये मद्ये सस्नेहमश्नताम् ५९
प्रयोज्या मार्गशुद्ध्यर्थमरिष्टाः कफगुल्मिनाम्
लङ्घनोल्लेखनैः स्वेदैः सर्पिः पानैर्विरेचनैः ६०
बस्तिभिर्गुटिकाचूर्णक्षारारिष्टगुणैरपि
श्लैष्मिकः कृतमूलत्वाद्यस्य गुल्मो न शाम्यति ६१
तस्य दाहो हृते रक्ते शरलोहादिभिर्हितः
औष्ण्यात्तैक्ष्ण्याच्च शमयेदग्निर्गुल्मे कफानिलौ ६२
तयोः शमाच्च संघातो गुल्मस्य विनिवर्तते
दाहे धान्वन्तरीयाणामत्रापि भषजां बलम् ६३
क्षारप्रयोगे भिषजां क्षारतन्त्रविदां बलम्
व्यामिश्रदोषे व्यामिश्र एष एव क्रियाक्रमः ६४
सिद्धानतः प्रवक्ष्यामि योगान् गुल्मनिवर्हणान्
त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः ६५
कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत्
इति त्र्यूषणादिघृतम्
एत एव च कल्काः स्युः कषायः पञ्चमूलिकः ६६
द्विपञ्चमूलिको वाऽपि तद्धृतं गुल्मनुत् परम्
इति त्र्यूषणादिघृतमपरम्
षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि ६७
प्रसन्नया वा क्षीरार्थं सुरया दाडिमेन वा
दध्नः सरेण वा कार्यं घृतं मारुतगुल्मनुत् ६८
हिङ्गुसौवर्चलाजाजीबिडदाडिमदीप्यकैः
पुष्करव्योषधन्याकवेतसक्षारचित्रकैः ६९
शटीवचाजगन्धैलासुरसैश्च विपाचितम्
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् ७०
इति हिङ्गुसौवर्चलाद्यं घृतम्
हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः
साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्धृतम् ७१
सकोलमूलकरसं सक्षीरदधिदाडिमम्
तत् परं वातगुल्मघ्नं शूलानाहविमोक्षणम् ७२
योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान्
बस्तिहृत्पार्श्वशूलं च घृतमेतद्व्यपोहति ७३
इति हपुषाद्यं घृतम्
पिप्पल्या पिचुरध्यर्धो दाडिमाद्विपलं पलम्
धान्यात्पञ्चघृताच्छुण्ठ्याः कर्षः क्षीरं चतुर्गुणम् ७४
सिद्धमेतैर्घृतं सद्यो वातगुल्मं व्यपोहति
योनिशूलं शिरः शूलमर्शांसि विषमज्वरम् ७५
इति पिप्पल्याद्यं घृतम्
घृतानामौषधगणा य एते परिकीर्तिताः
ते चूर्णयोगा वर्त्यस्ताः कषायास्ते च गुल्मिनाम् ७६
कोलदाडिमघर्माम्बुसुरामण्डाम्लकाञ्जिकैः
शूलानाहहरी पेया बीजपूरसेन वा ७७
चूर्णानि मातुलुङ्गस्य भावितानि रसेन वा
कुर्याद्वर्तीः सगुटिका गुल्मानाहार्तिशान्तये ७८
हिङ्गु त्रिकटुकं पाठां हपुषामभयां शटीम्
अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ ७९
दाडिमं पुष्करं धान्यमजाजीं चित्रकं वचाम्
द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत् ८०
चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम्
प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा ८१
पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके
आनाहे मूरकृच्छ्रे च शूले च गुदयोनिजे ८२
ग्रहण्यर्शोविकारेषु प्लीह्नि पाण्ड्वामयेऽरुचौ
उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे ८३
भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा
बहुशो गुटिकाः कार्याः कामुकाः स्युस्ततोऽधिकम् ८४
इति हिङ्वादिचूर्णं गुटिका च
मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवे
सुरामण्डेन पातव्यं वातगुल्मरुजापहम् ८५
शटीपुष्करहिङ्ग्वम्लवेतसक्षारचित्रकान्
धान्यकं च यवानीं च विडङ्गं सैन्धवं वचाम् ८६
सचव्यपिप्पलीमूलामजगन्धां सदाडिमाम्
अजाजीं चाजमोदां च चूर्णं कृत्वा प्रयोजयेत् ८७
रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुनः
भावितं गुटिकां कृत्वा सुपिष्टां कोलसंमिताम् ८८
गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम्
हिक्कां हृद्रोगमर्शांसि विविधां शिरसो रुजम् ८९
पाण्ड्वामयं कफोत्क्लेशं सर्वजां च प्रवाहिकाम्
पार्श्वहृद्बस्तिशूलं च गुटिकैषा व्यपोहति ९०
नागरार्धपलं पिष्ट्वा द्वे पले लुञ्चितस्य च
तिलस्यैकं गुडपलं क्षीरेणोष्णेन ना पिबेत् ९१
वातगुल्ममुदावर्तं योनिशूलं च नाशयेत्
पिबेदेरण्डजं तैलं वारुणीमण्डमिश्रितम् ९२
तदेव तैलं पयसा वातगुल्मी पिबेन्नरः
श्लेष्मण्यनुबले पूर्वं हितं पित्तानुगे परम् ९३
साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्
क्षीरोदकेऽष्टगुणिते क्षीरशेषं च ना पिबेत् ९४
वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्
हृद्रोगं विद्रधिं शोथं साधयत्याशु तत्पयः ९५
इति लशुनक्षीरम्
तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजम्
गुल्मं जठरमानाहं पीतमेकत्र साधयेत् ९६
इति तैलपञ्चकम्
पञ्चमूलीकषायेण सक्षारेण शिलाजतु
पिबेत्तस्य प्रयोगेण वातगुल्मात् प्रमुच्यते ९७
इति शिलाजतुप्रयोगः
वाट्यं पिप्पलीयूषेण मूलकानां रसेन वा
भुक्त्वा स्निग्धमुदावर्ताद्वातगुल्माद्विमुच्यते ९८
शूलानाहविबन्धार्तं स्वेदयेद्वातगुल्मिनम्
स्वेदैः स्वेदविधावुक्तैर्नाडीप्रस्तरसङ्करैः ९९
बस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम्
स्वे स्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति १००
तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः
प्रयुज्यमानः शाम्यन्ति वातपित्तकफात्मकाः १०१
गुल्मघ्ना विविधा दिष्टाः सिद्धाः सिद्धिषु बस्तयः
गुल्मघ्नानि च तैलानि वक्ष्यन्ते वातरोगिके १०२
तानि मारुतजे गुल्मे पानाभ्यङ्गानुवासनैः
प्रयुक्तान्याशु सिध्यन्ति तैलं ह्यनिलजित्परम् १०३
नीलिनीचूर्णसंयुक्तं पूर्वोक्तं घृतमेव वा
समलाय प्रदातव्यं शोधनं वातगुल्मिने १०४
नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह
शोधनार्थं घृतं देयं सबिडक्षारनागरम् १०५
नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम्
पचेद्विडङ्गं व्याघ्रीं च पलिकानि जलाढके १०६
तेन पादावशेषेण घृतप्रस्थं विपाचयेत्
दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन च १०७
ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम्
जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम् १०८
गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान्
श्वित्रं प्लीहानमुन्मादं घृतमेतद्व्यपोहति १०९
इति नीलिन्याद्यं घृतम्
कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः
शालयो मदिरा सर्पिर्वातगुल्मभिषग्जितम् ११०
हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम्
समण्डवारुणीपानं पक्वं वा धान्यकैर्जलम् १११
मन्देऽग्नौ वर्धते गुल्मो दीप्ते चाग्नौ प्रशाम्यति
तस्मान्ना नातिसौहित्यं कुर्यान्नातिविलङ्घनम् ११२
सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते
या क्रिया क्रियते सिद्धिं सा याति न विरूक्षिते ११३
भिषगात्ययिकं बुद्ध्वा पित्तगुल्ममुपाचरेत्
वैरेचनिकसिद्धेन सर्पिषा तिक्तकेन वा ११४
रोहिणीकटुकानिम्बमधुकत्रिफलात्वचः
कर्षांशास्त्रायमाणा च पटोलत्रिवृतोः पले ११५
द्वे पले च मसूराणां साध्यमष्टगुणेऽम्भसि
शृताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम् ११६
पिबेत् संमूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः
ज्वरस्तृष्णा च शूलं च भ्रमो मूर्च्छाऽरुचिस्तथा ११७
इति रोहिण्याद्यं घृतम्
जले दशगुणे साध्यं त्रायमाणाचतुष्पलम्
पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः ११८
रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा
कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः ११९
रसस्यामलकानां च क्षीरस्य च घृतस्य च
पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत् १२०
पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम्
हृद्रोगं कामलां कुष्ठं हन्यादेतद्धृतोत्तमम् १२१
इति त्रायमाणाद्यं घृतम्
रसेनामलकेक्षूणां घृतपादं विपाचयेत्
पथ्यापादं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत् १२२
इत्यामलकाद्यं घृतम्
द्राक्षां मधूकं खर्जूरं विदारीं सशतावरीम्
परूषकाणि त्रिफलां साधयेत्पलसंमितम् १२३
जलाढके पादशेषे रसमामलकस्य च
घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम् १२४
साधयेत्तद्धृतं सिद्धं शर्कराक्षौद्रपादिकम्
प्रयोगात् पित्तगुल्मघ्नं सर्वपित्तविकारनुत् १२५
इति द्राक्षाद्यं घृतम्
वृषं समूलमापोथ्य पचेदष्टगुणे जले
शेषेऽष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत् १२६
तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत्
रक्तपित्तज्वरश्वासकासहृद्रोगनाशनम् १२७
इति वासाघृतम्
द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्
अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत् १२८
पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्
तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः १२९
द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्
लिह्यात्कम्पिल्लकं वाऽपि विरेकार्थं मधुद्रवम् १३०
दाहप्रशमनोऽभ्यङ्गः सर्पिषा पित्तगुल्मिनाम्
चन्दनाद्येन तैलेन तैलेन मधुकस्य वा १३१
ये च पित्तज्वरहराः सतिक्ताः क्षीरबस्तयः
हितास्ते पित्तगुल्मिभ्यो वक्ष्यन्ते ये च सिद्धिषु १३२
शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम्
खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम् १३३
आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम्
बलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम् १३४
आमान्वये पित्तगुल्मे सामे वा कफवातिके
यवागूभिः खडैर्यूषैः संधुक्ष्योऽग्निर्विलङ्घिते १३५
शमप्रकीपौ दोषाणां सर्वेषामग्निसंश्रितौ
तस्मादग्निं सदा रक्षेन्निदानानि च वर्जयेत् १३६
वमनं वमनार्हाय प्रदद्यात् कफगुल्मिने
स्निग्धस्विन्नशरीराय गुल्मे शैथिल्यमागते १३७
परिवेष्ट्य प्रदीप्तांस्तु बल्वजानथवा कुशान्
भिषक्कुम्भे समावाप्य गुल्मं घटमुखे न्यसेत् १३८
संगृहीतो यदा गुल्मस्तदा घटमथोद्धरेत्
वस्त्रान्तरं ततः कृत्वा भिन्द्याद्गुल्मं प्रमाणवित् १३९
विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत्
मृद्गायाद्गुल्ममेवैकं न त्वन्त्रहृदयं स्पृशेत् १४०
तिलैरण्डातसीबीजसर्षपः परिलिप्य च
श्लेष्मगुल्ममयः पात्रैः सुखोष्णैः स्वेदयेद्भिषक् १४१
सव्योषक्षारलवणं दशमूलीशृतं घृतम्
कफगुल्मं जयत्याशु सहिङ्गुबिडदाडिमम् १४२
इति दशमूलीघृतम्
भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्
साध्यं विदारीगन्धाद्यमापोथ्य सलिलाढके १४३
पादशेषे रसे तस्मिन् पिप्पलीं नागरं वचाम्
विडङ्गं सैन्धवं हिङ्गु यावशृकं बिडं शतीम् १४४
चित्रकं मधुकं रास्नां पिष्ट्वा कर्षसमं भिषक्
प्रस्थं च पयसो दत्त्वा घृतप्रस्थं विपाचयेत् १४५
एतद्भल्लातकघृतं कफगुल्महरं परम्
प्लीहापाण्ड्वामयश्वासग्रहणीरोगकासनुत् १४६
इति भल्लातकाद्यं घृतम्
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
पलिकैः सयवक्षारैर्घृतप्रस्थं विपाचयेत् १४७
क्षीरप्रस्थं च तत् सर्पिर्हन्ति गुल्मं कफात्मकम्
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम् १४८
इति क्षीरषट्पलकं घृतम्
त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम्
जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम् १४९
सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत्
स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत् १५०
कफवातविबन्धेषु कुष्ठप्लीहोदरेषु च
प्रयोज्यो मिश्रकः स्नेहो योनिशूलेषु चाधिकम् १५१
इति मिश्रकः स्नेहः
यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम्
द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम् १५२
सुधाक्षीरद्रवे चूर्णं त्रिवृतायाः सुभावितम्
कार्षिकं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते १५३
जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च १५४
अष्टभागावशेषं तु रसं पूतमधिक्षिपेत्
दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः १५५
तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम्
चूर्णितं पलमेकं तु पिप्पलीविश्वभेषजम् १५६
तत् साध्यं लेहवच्छीते तस्मिंस्तैलसमं मधु
क्षिपेच्चूर्णपलं चैकं त्वगेलापत्रकेशरात् १५७
ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम्
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयम् १५८
गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम्
हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम् १५९
कुष्ठं प्लीहानमानाहमेषा हन्त्युपसेविता
निरत्ययः क्रमश्चास्या द्रवो मांसरसौदनः १६०
इति दन्तीहरीतकी
सिद्धाः सिद्धिषु वक्ष्यन्ते निरूहाः कफगुल्मिनाम्
अरिष्टयोगाः सिद्धाश्च ग्रहण्यर्शश्चिकित्सिते १६१
यच्चूर्णं गुटिका याश्च विहिता वातगुल्मिना
द्विगुणक्षारहिङ्ग्वम्लवेतसास्ताः कफे हिताः १६२
य एव ग्रहणीदोषे क्षारास्ते कफगुल्मिनाम्
सिद्धा निरत्ययाः शस्ता दाहस्त्वन्ते प्रशस्यते १६३
प्रपुराणानि धान्यानि जाङ्गला मृगपक्षिणः
कौलत्थो मुद्गयूषश्च पिप्पल्या नागरस्य च १६४
शुष्कमूलकयूषश्च बिल्वस्य वरुणस्य च
चिरबिल्वाङ्कुराणां च यवान्याश्चित्रकस्य च १६५
बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमैः
तक्रेण तैलसर्पिर्भ्यां व्यञ्जनान्युपकल्पयेत् १६६
पञ्चमूलीशृतं तोयं पुराणं वारुणीरसम्
कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा १६७
यवानीचूर्णितं तक्रं बिडेन लवणीकृतम्
पिबेत् संदीपनं वातकफमूत्रानुलोमनम् १६८
संचितः क्रमशो गुल्मो महावास्तुपरिग्रहः
कृतमूलः सिरानद्धो यदा कूर्म इवोन्नतः १६९
दौर्बल्यारुचिहृल्लासकासवम्यरतिज्वरैः
तृष्णातन्द्राप्रतिश्यायैर्युज्यते न स सिध्यति १७०
गृहीत्वा सज्वरश्वासं वम्यतीसारपीडितम्
हृन्नाभिहस्तपादेषु शोफः कर्षति गुल्मिनम् १७१
रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे
स्निग्धस्विन्नशरीरायै दद्यात् स्नेहविरेचनम् १७२
पलाशक्षारपात्रे द्वे द्वे पात्र तैलसर्पिषोः
गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत् १७३
प्रभिद्येत न यद्येवं दद्याद्योनिविशोधनम्
क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः १७४
आभ्यां वा भावितान् दद्याद्योनौ कटुकमत्स्यकान्
वराहमत्स्यपित्ताभ्यां लक्तकान् वा सुभावितान् १७५
अधोहरैश्चोर्ध्वहरैर्भावितान् वा समाक्षिकैः
किण्वं वा सगुडक्षारं दद्याद्योनिविशोधनम् १७६
रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा
लशुनं मदिरां तिक्ष्णां मत्स्यांश्चास्यै प्रदापयेत् १७७
बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्
अदृश्यमाने रुधिरे दद्याद्गुल्मप्रभेदनम् १७८
प्रवर्तमाने रुधिरे दद्यान्मांसरसौदनम्
घृततैलेन चाभ्यङ्गं पानार्थं तरुणीं सुराम् १७९
रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरीः क्रियाः
कार्या वातरुगार्तायाः सर्वा वातहरीः पुनः १८०
घृततैलावसेकांश्च तित्तिरींश्चरणायुधान्
सुरां समण्डां पूर्वं च पानमम्लस्य सर्पिषः १८१
प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिषा
अतिप्रवृत्ते रुधिरे सतिक्तेनानुवासनम् १८२
तत्र श्लोकाः--
स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः
वमनविरेको मोक्षः क्षतजस्य च वातगुल्मवताम् १८३
सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च
रक्तस्य चावसेवनमाश्वासनसंशमनयोगाः १८४
उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य
संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य १८५
स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च
सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः १८६
गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य
गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः १८७
पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च
नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि १८८
हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च
गुल्मचिकित्सितसंग्रह एतावान् व्याहृतोऽग्निवेशस्य १८९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने गुल्मचिकित्सितं
नाम पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथातः प्रमेहचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
निर्मोहमानानुशयो निराशः पुनर्वसुर्ज्ञानतपोविशालः
कालेऽग्निवेशाय सहेतुलिङ्गानुवाच मेहाञ्शमनं च तेषाम् ३
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् ४
मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगतं प्रदूष्य
करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि ५
क्षीणेषु दोषेष्ववकृष्य बस्तौ धातून् प्रमेहाननिलः करोति
दोषो हि बस्तिं समुपेत्य मूत्रं संदूष्य मेहाञ्जनयेद्यथास्वम् ६
साध्याः कफोत्था दश पित्तजाः षट् याप्या न साध्यः पवनाच्चतुष्कः
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते ७
कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः
मज्जा रसौजः पिशितं च दूष्याः प्रमेहिणां विंशतिरेव मेहाः ८
जलोपमं चेक्षुरसोपमं वा घनं घनं चोपरि विप्रसन्नम्
शुक्लं सशुक्रं शिशिरं शनैर्वा लालेव वा वालुकया युतं वा ९
विद्यात् प्रमेहान् कफजान् दशैतान् क्षारोपमं कालमथापि नीलम्
हारिद्रमाञ्जिष्ठमथापि रक्तमेतान् प्रमेहान् षडुशन्ति पित्तात् १०
मज्जौजसा वा वसयाऽन्वितं वा लसीकया वा सततं विबद्धम्
चतुर्विधं मूत्रयतीह वाताच्छेषेषु धातुष्वपकर्षितेषु ११
वर्णं रसं स्पर्शमथापि गन्धं यथास्वदोषं भजते प्रमेहः
श्यावारुणो वातकृतः सशूलो मज्जादिसाद्गुण्यमुपैत्यसाध्यः १२
स्वेदोऽङ्गगन्धः शिथिलाङ्गता च शय्यासनस्वप्नसुखे रतिश्च
हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः १३
शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाहः
भविष्यतो मेहगदस्य रूपं मूत्रेऽभिधावन्ति पिपीलिकाश्च १४
स्थूलः प्रमेही बलवानिहैकः कृशस्तथैकः परिदुर्बलश्च
संबृंहणं तत्र कृशस्य कार्यं संशोधनं दोषबलाधिकस्य १५
स्निग्धस्य योगा विविधाः प्रयोज्याः कल्पोपदिष्टा मलशोधनाय
ऊर्ध्वं तथाऽधश्च मलेऽपनीते मेहेषु संतर्पणमेव कार्यम् १६
गुल्मः क्षयो मेहनबस्तिशूलं मूत्रग्रहश्चाप्यपतर्पणेन
प्रमेहिणःस्युः परितर्पणानि कार्याणि तस्य प्रसमीक्ष्य वह्निम् १७
संशोधनं नार्हति यः प्रमेही तस्य क्रिया संशमनी प्रयोज्या
मन्थाः कषाया यवचूर्णलेहाः प्रमेहशान्त्यै लघवश्च भक्ष्याः १८
ये विष्किरा ये प्रतुदा विहङ्गास्तेषां रसैर्जाङ्गलजैर्मनोज्ञैः
यवौदनं रूक्षमथापि वाट्यमद्यात् ससक्तूनपि चाप्यपूपान् १९
मुद्गादियूषैरथ तिक्तशाकैः पुराणशाल्योदनमाददीत
दन्तीङ्गुदीतैलयुतं प्रमेही तथाऽतसीसर्षपतैलयुक्तम् २०
सषष्टिकं स्यातृणधान्यमन्नं यवप्रधानस्तु भवेत् प्रमेही
यवस्य भक्ष्यान् विविधांस्तथाऽद्यात् कफप्रमेही मधुसंप्रयुक्तान् २१
निशिस्थितानां त्रिफलाकषाये स्युस्तर्पणाः क्षौद्रयुता यवानाम्
तान् सीधुयुक्तान् प्रपिबेत् प्रमेही प्रायोगिकान्मेहवधार्थमेव २२
ये श्लेष्ममेहे विहिताः कषायास्तैर्भावितानां च पृथग्यवानाम्
सक्तूनपूपान् सगुडान् सधानान् भक्ष्यांस्तथाऽन्यान् विविधांश्च खादेत् २३
खराश्वगोहंसपृषद्भृतानां तथा यवानां विविधाश्च भक्ष्याः
देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः २४
संशोधनोल्लेखनलङ्घनानि काले प्रयुक्तानि कफप्रमेहान्
जयन्ति पित्तप्रभवान् विरेकः संतर्पणः संशमनो विधिश्च २५
दार्वीं सुराह्वां त्रिफलां समुस्तां कषायमुत्क्वाथ्य पिबेत् प्रमेही
क्षौद्रेण युक्तामथवा हरिद्रां पिबेद्रसेनामलकीफलानाम् २६
हरीतकीकट्फलमुस्तलोध्रं पाठाविडङ्गार्जुनधन्वनाश्च
उभे हरिद्रे तगरं विडङ्गं कदम्बशालार्जुनदीप्यकाश्च २७
दार्वी विडङ्गं खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि
दार्व्यग्निमन्थौ त्रिफला सपाठा पाठा च मूर्वा च तथा श्वदंष्ट्रा २८
यवान्युशीराण्यभयागुडूचीचव्याभयाचित्रकसप्तपर्णाः
पादैः कषायाः कफमेहिनां ते दशोपदिष्टा मधुसंप्रयुक्ताः २९
उशीरलोध्राञ्जनचन्दनानामुशीरमुस्तामलकाभयानाम्
पटोलनिम्बामलकामृतानां मुस्ताभयापद्मकवृक्षकाणाम् ३०
लोध्राम्बुकालीयकधातकीनां निम्बार्जुनाम्रातनिशोत्पलानाम्
शिरीषसर्जार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम् ३१
अश्वत्थपाठासनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्
पैत्तेषु मेहेषु दश प्रदिष्टाः पादैः कषाया मधुसंप्रयुक्ताः ३२
सर्वेषु मेहेषु मतौ तु पूर्वौ कषाययोगौ विहितास्तु सर्वे
मन्थस्य पाने यवभावनायां स्युर्भोजने पानविधौ पृथक् च ३३
सिद्धानि तैलानि घृतानि चैव देयानि मेहेष्वनिलात्मकेषु
मेदः कफश्चैव कषाययोगैः स्नेहैश्च वायुः शममेति तेषाम् ३४
कम्पिल्लसप्तच्छदशालजानि बैभीतरौहीतककौटजानि
कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात् कफपित्तमेही ३५
पिबेद्रसेनामलकस्य चापि कल्कीकृतान्यक्षसमानि काले
जीर्णे च भुञ्जीत पुराणमन्नं मेही रसैर्जाङ्गलजैर्मनोज्ञैः ३६
दृष्ट्वाऽनुबन्धं पवनात् कफस्य पित्तस्य वा स्नेहविधिर्विकल्प्यः
तैलं कफे स्यात् स्वकषायसिद्धं पित्ते घृतं पितहरैः कषायैः ३७
त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सलोध्रैः
वचापटोलार्जुननिम्बमुस्तैर्हरिद्रया पद्मकदीप्यकैश्च ३८
मञ्जिष्ठया चागुरुचन्दनैश्च सर्वैः समस्तैः कफवातजेषु
मेहेषु तैलं विपचेद् घृतं तु पैत्तेषु मिश्रं त्रिषु लक्षणेषु ३९
फलत्रिकं दारुनिशां विशालां मुस्तां च निःक्वाथ्य निशां सकल्काम्
पिबेत् कषायं मधुसंप्रयुक्तं सर्वप्रमेहेषु समुद्धतेषु ४०
लोध्रं शटीं पुष्करमूलमेलां मूर्वां विडङ्गं त्रिफलां यमानीम्
चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च ४१
भार्ङ्गीं नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सपाठम्
कलिङ्गकान् केशरमिन्द्रसाह्वां नखं सपत्रं मरिचं प्लवं च ४२
द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे
रसेऽर्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः ४३
मध्वासवोऽयं कफपित्तमेहान् क्षिप्रं निहन्यादिद्वपलप्रयोगात्
पाण्ड्वामयार्शांस्यरुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम् ४४
इति मध्वासवः
क्वाथः स एवाष्टपलं च दन्त्या भल्लातकानां च चतुष्पलं स्यात्
सितोपला त्वष्टपला विशेषः क्षौद्रं च तावत् पृथगासवौ तौ ४५
सारोदकं वाऽथ कुशोदकं वा मधूदकं वा त्रिफलारसं वा
सोधुं पिबेद्वा निगदं प्रमेही माध्वीकमग्र्यं चिरसंस्थितं वा ४६
मांसानि शूल्यानि मृगद्विजानां खादेद्यवानां विविधांश्च भक्ष्यान्
संशोधनारिष्टकषायलेहैः संतर्पणोत्थाञ् शमयेत् प्रमेहान् ४७
भृष्टान् यवान् भक्षयतः प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहाः
श्वित्रं च कृच्छ्रं कफजं च कुष्ठं तथैव मुद्गामलकप्रयोगान् ४८
संतर्पणोत्थेषु गदेषु योगा मेदस्विनां ये च मयोपदिष्टाः
विरूक्षणार्थं कफपित्तजेषु सिद्धाः प्रमेहेष्वपि ते प्रयोज्याः ४९
व्यायामयोगैर्विविधैः प्रगाढैरुद्वर्तनैः स्नानजलावसेकैः
सेव्यत्वगेलागुरुचन्दनाधैर्विलेपनैश्चाशु न सन्ति मेहाः ५०
क्लेदश्च मेदश्च कफश्च वृद्धः प्रमेहहेतुः प्रसमीक्ष्य तस्मात्
वैद्येन पूर्वं कफपित्तजेषु मेहेषु कार्याण्यपतर्पणानि ५१
या वातमेहान् प्रति पूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा
वायुर्हि मेहेष्वतिकर्शितानां कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता ५२
यैर्हेतुभिर्ये प्रभवन्ति मेहास्तेषु प्रमेहेषु न ते निषेव्याः
हेतोरसेवा विहिता यथैव जातस्य रोगस्य भवेच्चिकित्सा ५३
हारिद्रवर्णं रुधिरं च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः
यो मूत्रयेत्तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः ५४
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्द्विविधो विचारः
क्षीणेषु दोषेष्वनिलात्मकः स्यात् संतर्पणाद्वा कफसंभवः स्यात् ५५
सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः
साध्या न ते पित्तकृतास्तु याप्याः साध्यास्तु मेदो यदि न प्रदुष्टम् ५६
जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात्
ये चापि केचित् कुलजा विकारा भवन्ति तांश्च प्रवदन्त्यसाध्यान् ५७
प्रमेहिणां याः पिडका मयोक्ता रोगाधिकारे पृथगेव सप्त
ताः शल्यविद्भिः कुशलैश्चिकित्स्याः शस्त्रेण संशोधनरोपणैश्च ५८
तत्र श्लोकाः--
हेतुर्दोषो दूष्यं मेहानां साध्यतानुरूपश्च
मेही द्विविधस्त्रिविधं भिषग्जितमतिक्षपणदोषः ५९
आद्या यवान्नविकृतिर्मन्था मेहापहाः कषायाश्च
तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः ६०
व्यायामविधिर्विविधः स्नानान्युद्वर्तनानि गन्धाश्च
मेहानां प्रशमार्थं चिकित्सिते दिष्टमेतावत् ६१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने प्रमेहचिकित्सितं
नाम षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनं च
शृण्वग्निवेश सम्यग्विशेषतः स्पर्शनघ्नानाम् ३
विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम् ४
व्यायाममतिसंतापमतिभुक्त्वोपसेविनाम्
शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम् ५
घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम्
अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम् ६
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम्
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् ७
व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा
विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम् ८
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च
दूषयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रहः ९
अतः कुष्ठानि जायन्ते सप्त चैकादशैव च
न चैकदोषजं किञ्चित् कुष्ठं समुपलभ्यते १०
स्पर्शाज्ञत्वमतिस्वेदो न वा वैवर्ण्यमुन्नतिः
कोठानां लोमहर्षश्च कण्डूस्तोदः श्रमः क्लमः ११
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः
दाहः सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम् १२
अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्यकिटिमविपादि-कालसकदद्रुचर्मदलपामाविस्कोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्यामः १३
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् १४
दाहकण्डूरुजारागपरीतं लोमपिञ्जरम्
उदुम्बरफलाभासं कुष्ठमौदुम्बरं विदुः १५
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्
कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते १६
कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्
यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते १७
सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्
सोत्सेधं च सदाहं च पुण्डरीकं तदुच्यते १८
श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति
अलाबू पुष्पवर्णं तत् सिध्मं प्रायेण चोरसि १९
यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम्
त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति २०
इति सप्तमहाकुष्ठानि
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्
तदेककुष्ठं चर्माख्यं बहलं हस्तिचर्मवत् २१
श्यावं किणखरस्पर्शं परुषं किटिमं स्मृतम्
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम् २२
कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम्
सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम् २३
रक्तं सकण्डु सस्फोटं सरुग्दलति चापि यत्
तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते २४
पामा श्वेतारुणश्यावाः कण्डूलाः पिडका भृशम्
स्फोटाः श्वेतारुणाभासो विस्फोटाः स्युस्तनुत्वचः २५
रक्तं श्यावं सदाहार्ति शतारुः स्याद्बहुव्रणम्
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका २६
इत्येकादश क्षुद्रकुष्ठानि
वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे
पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रिदोषजम् २७
वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके
ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते २८
चर्माख्यमेककुष्ठं च किटिमं सविपादिकम्
कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम् २९
पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा
पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका ३०
सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्
यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया ३१
दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमुद्रिक्तम्
तस्यैव शमं कुर्यात्ततः परं चानुबन्धस्य ३२
कुष्ठविशेषैर्दोषा दोषविशेषैः पुनश्च कुष्ठानि
ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च प्रकाशयति ३३
रौक्ष्यं शोषस्तोदः शूलं संकोचनं तयाऽऽयामः
पारुष्यं खरभावो हर्षः श्यावारुणत्वं च ३४
कुष्ठेषु वातलिङ्गं दाहो रागः परिस्रवः पाकः
विस्रो गन्धः क्लेदस्तथाऽङ्गपतनं च पित्तकृतम् ३५
श्वैत्यं शैत्यं कण्डूः स्थैर्यं चोत्सेधगौरवस्नेहाः
कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिभक्षणं क्लेदः ३६
सर्वैर्लिङ्गैर्युक्तं मतिमान् विवर्जयेदबलम्
तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम् ३७
वातकफप्रबलं यद्यदेकदोषोल्बणं न तत् कृच्छ्रम्
कफपित्तवातपित्तप्रवलानि तु कृच्छ्रसाध्यानि ३८
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ३९
वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः
प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम् ४०
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु ४१
स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते
वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम् ४२
दोषोत्क्लिष्टे हृदये वाम्यः कुष्ठेषु चोर्ध्वभागेषु
कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तैः ४३
शीतरसः पक्वरसो मधूनि मधुकं च वमनानि
कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता ४४
सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि
शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः ४५
दार्वीबृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः
सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गयवमुस्तैः ४६
वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य
फलमधुकनिम्बकुटजैः सपटोलैः साधयेत्स्नेहम् ४७
सैन्धवदन्तीमरिचं फणिज्झकः पिप्पली करञ्जफलम्
नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम् ४८
वरेचनिकैर्धूमैः श्लोकस्थानेरितैः प्रशाम्यन्ति
कृमयः कुष्ठकिलासाः प्रयोजितैरुत्तमाङ्गस्थाः ४९
स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभिः
कूर्चैर्विघट्टितानां रक्तोत्क्लेशोऽपनेतव्यः ५०
आनूपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च
स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण ५१
रुधिरागमार्थमथवा शृङ्गालाबूनि योजयेत् कुष्ठे
प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभिः ५२
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्
संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम् ५३
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य ५४
पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च
पीतागदस्य कार्यो विषैः प्रदेहोऽगदश्चानु ५५
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम् ५६
जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि ५७
मारुतकफकुष्ठघ्नं कर्मोक्तं पित्तकुष्ठिनां कार्यम्
कफपित्तरक्तहरणं तिक्तकषायैः प्रशमनं च ५८
सर्पींषि तिक्तकानि च यच्चान्यद्रक्तपित्तनुत् कर्म
बाह्याभ्यन्तरमग्र्यं तत् कार्यं पित्तकुष्ठेषु ५९
दोषाधिक्यविभागादित्येतत् कर्म कुष्ठनुत् प्रोक्तम्
वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात् ६०
दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्
अभया प्रयोजिता वा मासं सव्योषगुडतैला ६१
मूलं पटोलस्य तथा गवाक्ष्याः पृथक् पलांशं त्रिफलात्वचश्च
स्यात्त्रायमाणा कटुरोहिणी च भागार्धिका नागरपादयुक्ता ६२
पलं तथैषां सह चूर्णितानां जले शृतं दोषहरं पिबेन्ना
जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत ६३
कुष्ठानि शोफं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च
षड्रात्रयोगेन निहन्ति चैष हृद्बस्तिशूलं विषमज्वरं च ६४
मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे
सप्तच्छदनिम्बत्वक् सविशालश्चित्रको मूर्वा ६५
चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वाज्यम्
सिद्धं कुष्ठनिबर्हणमेतत् प्रायोगिकं भक्ष्यम् ६६
श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि
ब्रघ्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति ६७
इति मुस्तादिचूर्णम्
त्रिफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम्
मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम् ६८
भूनिम्बपलाशानां दद्याद्विपलं ततस्त्रिवृद्द्विगुणा
तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत् परमम् ६९
लेलीतकप्रयोगो रसेन जात्याः समाक्षिकं परमः
सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण ७०
श्रेष्ठं गन्धकयोगात् सुवर्णमाक्षिकप्रयोगाद्वा
सर्वव्याधिनिबर्हणमद्यात् कुष्ठी रसं च निगृहीतम् ७१
वज्रशिलाजतुसहितं सहितं वा योगराजेन
सर्वव्याधिप्रशमनमद्यात्कुष्ठी निगृह्य नित्यं च ७२
खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थः
क्षौद्रप्रस्थे कार्यः कार्य ते चाष्टपलिके च ७३
तत्रायश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि
त्रिफलैले त्वङ्मरिचं पत्रं कनकं च कर्षांशम् ७४
मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे
मध्वासवमाचरतः कुष्ठकिलासे शमं यातः ७५
इति मध्वासवः
खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य
द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र देयानि ७६
त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः
सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम् ७७
निदधीत धान्यमध्ये प्रातः प्रातः पिबेत्ततो युक्त्या
मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण ७८
अर्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च
ना भवति कनकवर्णः पीत्वाऽरिष्टं कनकबिन्दुम् ७९
इति कनकबिन्द्वरिष्टम्
कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु
कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु ८०
त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता
क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः ८१
लघूनि चान्नानि हितानि विद्यात् कुष्ठेषु शाकानि च तिक्तकानि
भल्लातकैः सत्रिफलैः सनिम्बैर्युक्तानि चान्नानि घृतानि चैव ८२
पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः
शस्ता न गुर्वम्लपयोदधीनि नानूपमत्स्या न गुडस्तिलाश्च ८३
एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च
कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव ८४
चित्रकमेलां बिम्बीं वृषकं रिवृदर्कनागरकम्
चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य ८५
क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु
भिद्यन्ते विलयन्ति च लिप्तान्यर्काभितप्तानि ८६
मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः
मूत्रं पित्तं क्षारः पालाशः कुष्ठहा लेपः ८७
त्रपु सीसमयश्चूर्णं मण्डलनुत् फल्गुचित्रकौ बृहती
गोधारसः सलवणो दारु च मूत्रं च मण्डलनुत् ८८
कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन
मांसेषु तोयकार्यं कार्यं पिष्टे च किण्वे च ८९
तैर्मेदकः सुजातः किण्वैर्जनितं प्रलेपनं शस्तम्
मण्डलकुष्ठविनाशनमातपसंस्थं कृमिघ्नं च ९०
मुस्तं मदनं त्रिफला करञ्ज आरग्वधकलिङ्गयवाः
दार्वी ससप्तपर्णा स्नानं सिद्धार्थकं नाम ९१
एष कषायो वमनं विरेचनं वर्णकस्तथोद्वर्षः
त्वग्दोषकुष्ठशोफप्रबोधनः पाण्डुरोगघ्नः ९२
कुष्ठं करञ्जबीजान्येडगजः कुष्ठसूदनो लेपः
प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च ९३
श्वेतकरवीरमूलं कुटजकरञ्जयोः फलं त्वचो दार्व्याः
सुमनः प्रवालयुक्तो लेपः कुष्ठापहः सिद्धः ९४
लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य
कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ ९५
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि
पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः ९६
इति लेपाः
दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य ९७
इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य
स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य ९८
आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः
तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम् ९९
त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम् १००
एतैरेव च सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्
एष च कल्पो दिष्टः खदिरासनदारुनिम्बानाम् १०१
कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका
कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम् १०२
एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च
तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी १०३
एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः
उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः १०४
श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च
कुष्ठेषु तैलयोगः सिद्धोऽयं संमतो भिषजाम् १०५
इति श्वेतकरवीराद्यं तैलम्
श्वेतकरवीरपल्लवमूलत्वग्वत्सको विडङ्गश्च
कुष्ठार्कमूलसर्षपशिग्रुत्वग्रोहिणी कटुका १०६
एतैस्तैलं सिद्धं कल्कैः पादांशिकर्गवां मूत्रम्
दत्त्वा तैलचतुर्गुणमभ्यङ्गात् कुष्ठकण्डूघ्नम् १०७
इति श्वेतकरवीरपल्लवाद्यं तैलम्
तिक्तालाबुकबीजं द्वे तुत्थे रोचना हरिद्रे द्वे
वृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा १०८
कासीसहिङ्गुशिग्रुत्र्यूषणसुरदारुतुम्बुरुविडङ्गम्
लाङ्गलकं कुटजत्वक् कटुकाख्या रोहिणी चैव १०९
सर्षपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम्
कण्डूकुष्ठविनाशनमभ्यङ्गान्मारुतकफहन्तृ ११०
इति तिक्तेक्ष्वाक्वादितैलम्
कनकक्षीरी शैला भार्गी दन्त्याः फलानि मूलं च
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक् १११
सप्तच्छदार्कपल्लवमूलत्वङ्गिम्बचित्रकास्फोताः
गुञ्जैरण्डं बृहतीमूलकसुरसार्जकफलानि ११२
कुष्ठं पाठा मुस्तं तुम्बुरुमूर्वावचाः सषड्ग्रन्थाः
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः ११३
हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासंज्ञः
सौराष्ट्री कासीसं दार्वीत्वक् सर्जिकालवणम् ११४
कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये
सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम् ११५
स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु
भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं च विनिहन्यात् ११६
इति कनकक्षीरीतैलम्
कुष्ठं तमालपत्रं मरिचं समनःशिलं सकासीसम्
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे ११७
तेनालिप्तं सिध्मं सप्ताहाद्व्येति तिष्ठतो घर्मे
मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः ११८
इति सिध्मे लेपः
सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां च
कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य ११९
जीवन्ती मंजिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम्
एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः १२०
देयः समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता
चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च १२१
इति विपादिकाहरघृततैले
किण्वं वराहरुधिरं पृथ्वीका सैन्धवं च लेपः स्यात्
लेपो योज्यः कुस्तुम्बुरूणि कुष्ठं च मण्डलनुत् १२२
पूतीकदारुजटिलाः पक्वसुरा क्षौद्रमुद्गपर्ण्यौ च
लेपः सकाकनासो मण्डलकुष्ठापहः सिद्धः १२३
चित्रकशोभाञ्जनको गुडूच्यपामार्गदेवदारूणि
खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती च १२४
लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनो लेपाः
दधिमण्डयुताः सर्वे देयाः षण्मारुतकफकुष्ठघ्नाः १२५
एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च
कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं च शममुपैति १२६
एडगजः सर्जरसो मूलकबीजं च सिध्मकुष्ठानाम्
काञ्जिकयुक्तं तु पृथङ्मतमिदमुद्वर्तनं लेपाः १२७
वासा त्रिफला पाने स्नाने चोर्द्वर्तने प्रलेपे च
वृहतीसेव्यपटोलाः ससारिवा रोहिणी चैव १२८
खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बाः
सप्तच्छदकरवीराः शस्यन्ते स्नानपानेषु १२९
जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि
भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे १३०
यष्ट्याह्वलोध्रपद्मकपटोलपिचुमर्दचंदनरसाश्च
स्नाने पाने च हिताः सुशीतलाः पित्तकुष्ठिभ्यः १३१
आलेपनं प्रियङ्गुर्हरेणुका वत्सकस्य च फलानि
सातिविषा च ससेव्या सचन्दना रोहिणी कटुका १३२
तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु
तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च १३३
क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके सचर्मदले
शीताः प्रदेहसेका व्यधो विरेको घृतं तिक्तम् १३४
खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्
कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम् १३५
त्रिफलात्वचोऽर्धपलिकाः पटोलपत्रं च कार्षिकाः शेषाः
कटुरोहिणी सनिम्बा यष्ट्याह्वा त्रायमाणा च १३६
एष कषायः साध्यो दत्त्वा द्विपलं मसूरविदलानाम्
सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्यः १३७
ते च कषायेऽष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्
यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णम् १३८
तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम्
ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान् हन्ति १३९
निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम्
कुर्यादर्धदलांशं पर्पटकं त्रायमाणां च १४०
सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते
चंदनकिराततिक्तकमागधिकास्त्रायमाणां च १४१
मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान्
नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम् १४२
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि
पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम् १४३
इति तिक्तषट्पलकं घृतम्
सप्तच्छदं प्रतिविषां सम्पाकं तिक्तर्हिणीं पाठाम्
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् १४४
धन्वयवासं चंदनमुपकुल्यां पद्मकं हरिद्रे द्वे
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे १४५
वत्सकबीजं यासं मूर्वाममृतां किराततिक्तं च
कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च १४६
कल्कश्चातुर्भागो जलमष्टगुणं रसोऽमृतफलानाम्
द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम् १४७
कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि
विसर्पमम्लपित्तं वातासृक् पाण्डुरोगं च १४८
विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्
हृद्रोगगुल्मपिडका असृग्दरं गण्डमालां च १४९
हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः
योगशतैरप्यजितान्महाविकारान्महातिक्तम् १५०
इति महातिक्तकं घृतम्
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने
स्नेहे च कालयुक्ते न कुष्ठमनुवर्तते साध्यम् १५१
खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले
तुलार्धाः सर्वे एवैते करञ्जारिष्टवेतसाः १५२
पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत् १५३
सप्तपर्णश्च संक्षुण्णा दशद्रोणेषु वारिणः
अष्टभागावशेषं तु कषायमवतारयेत् १५४
धात्रीरसं च तुल्यांशं सर्पिषाश्चढकं पचेत्
महातिक्तककल्कैस्तु यथोक्तैः पलसंमितैः १५५
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्
महाखदिरमित्येतत् परं कुष्ठविकारनुत् १५६
इति महाखदिरं घृतम्
प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु
मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च १५७
वृषकुटजसप्तपर्णाः करवीरकरंजनिम्बखदिराश्च
स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोमूत्राः १५८
पानाहारविधाने प्रसेवने धूपने प्रदेहे च
कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिरः १५९
एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्
उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च १६०
एडगजः सविडङ्गो द्वे च निशे राजवृक्ष मूलं च
कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम् १६१
श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम्
श्वित्रे स्रंसनमग्र्यं मलपूयूरस इष्यते सगुडः १६२
तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसंतापम्
संसेवेत विरिक्तस्त्र्यहं पिपासुः पिबेत् पेयाम् १६३
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्डकेन तान्मिन्द्यात्
स्फोटेषु विस्रुतेषु प्रातः प्रातः पिबेत् पक्षम् १६४
मलयूपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य
पालाशं वा क्षारं यथाबलं फाणितोपेतम् १६५
यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम्
खदिरोदकसंयुक्तं खदिरोदकपानमग्र्यं वा १६६
समनः शिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्
श्वित्राणां प्रशमार्थं ससैन्धवं लेपनं दद्यात् १६७
कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्
हस्तिमदाध्युषितं वा मालत्याः कोरकक्षारम् १६८
नीलोत्पलम् संकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा
मूलकबीजावल्गुजलेपः पिष्टो गवां मूत्रे १६९
काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे
पिष्टा मनःशिला वा संयुक्ता बर्हिपित्तेन १७०
लेपः किलासहन्ता बीजान्यावल्गुजानि लाक्षा च
गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः १७१
शुद्ध्या शोणितमोक्षैर्विरूक्षणैश्च सक्तूनाम्
श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य १७२
दारुणं चारुणं श्वित्रं किलासं नामभिस्त्रिभिः
विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत् १७३
दोषे रक्ताश्रिते रक्तं ताम्रं मांससमाश्रिते
श्वेतं मेदः श्रिते श्वित्रं गुरु तच्चोत्तरोत्तरम् १७४
यत् परस्परतोऽभिन्नं बहु यद्रक्तलोमवत्
यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति १७५
अरक्तलोम तनु यत् पाण्डु नातिचिरोत्थितम्
मध्यावकाशे चोच्छूनं श्वित्रं तत्साध्यमुच्यते १७६
वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां गुरुधर्षणं च
पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम् १७७
तत्र श्लोकाः --
हेतुद्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषाः
कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देशः १७८
साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगाः
सिद्धाः किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्तिः १७९
इति संग्रहः प्रणितो महर्षिणा कुष्ठनाशनेऽध्याये
स्मृतिबुद्धिवर्धनार्थं शिष्याय हुताशवेशाय १८०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने कुष्ठचिकित्सितं
नाम सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
दिवौकसां कथयतामृषिभिर्वै श्रुता कथा
कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ३
रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः
आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात् ४
दुहितॄणामसंभोगाच्छेषाणां च प्रजापतेः
क्रोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात् ५
प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान्
भार्यार्थं प्रतिजग्राह न च सर्वास्ववर्तत ६
गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम्
रजःपरीतमबलं यक्ष्मा शशिनमाविशत् ७
सोऽभिभूतोऽतिमहता गुरुक्रोधेन निष्प्रभः
देवदेवर्षिसहितो जगाम शरणं गुरुम् ८
अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः
प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सितः ९
स विमुक्तरहश्चन्द्रो विरराज विशेषतः
ओजसा वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च १०
क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःखसंज्ञकः
यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः ११
स यक्ष्मा हुङ्कतोऽश्विभ्यां मानुषं लोकमागतः
लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान् १२
अयथाबलमारम्भं वेगसंधारणं क्षयम्
यक्ष्मणः कारणं विद्याचतुर्थं विषमाशनम् १३
युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः
पतनैरभिघातैर्वा साहसैर्वा तथाऽपरैः १४
अयथाबलमारम्भैर्जन्तोरुरसि विक्षते
वायुः प्रकुपितो दोषावुदीर्योमौ प्रधावति १५
स शिरःस्थः शिरःशूलं करोति गलमाश्रितः
कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम् १६
पार्श्वशूलं च पार्श्वस्थो वर्चोभेदं गुदे स्थितः
जृम्भां ज्वरं च सन्धिस्थ उरःस्थश्चोरसो रुजम् १७
क्षणनादुरसः कासात् कफं ष्ठीवेत् सशोणितम्
जर्जरेणोरसा कृच्छ्रमुरःशूलातिपीडितः १८
इति साहसिको यक्ष्मा रूपैरेतैः प्रपद्यते
एकादशभिरात्मज्ञो भजेत्तस्मान्न साहसम् १९
ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्
वातमूत्रपुरीषाणां निगृह्णाति यदा नरः २०
तदा वेगप्रतीघातात् कफपित्ते समीरयन्
ऊर्ध्वे तिर्यगधश्चैव विकारान् कुरुतेऽनिलः २१
प्रतिश्यायं च कासं च स्वरभेदमरोचकम्
पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्दनम् २२
अङ्गमर्दं मुहुश्छर्दिं वर्चोभेदं त्रिलक्षणम्
रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान् २३
ईष्योत्कण्ठाभयत्रासक्रोधशोकातिकर्शनात्
अतिव्यवायानशनाच्छुक्रमोजश्च हीयते २४
ततः स्नेहक्षयाद्वायुर्वृद्धो दोषावुदीरयन्
प्रतिश्यायं ज्वरं कासमङ्गमर्दं शिरोरुजम् २५
श्वासं विडभेदमरुचिं पार्श्वशूलं स्वरक्षयम्
करोति चांससंतापमेकादशगदानिमान् २६
लिङ्गान्यावेदयन्त्येतान्येकादश महागदम्
संप्राप्तं राजयक्ष्माणं क्षयात् प्राणक्षयप्रदम् २७
विविधान्यन्नपानानि वैषम्येण समश्नतः
जनयन्त्यामयान् घोरान्विषमान्मारुतादयः २८
स्रोतांसि रुधिरादीनां वैषम्याद्विषमं गताः
रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च न धातवः २९
प्रतिश्यायं प्रसेकं च कासं छर्दिमरोचकम्
ज्वरमंसाभितापं च छर्दनं रुधिरस्य च ३०
पार्श्वशूलं शिरःशूलं स्वरभेदमथापि च
कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम् ३१
इति व्याधिसमूहस्य रोगराजस्य हेतुजम्
रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः ३२
पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्
अदोषेष्वपि भावेषु काये बीभत्सदर्शनम् ३३
घृणित्वमश्नतश्चापि बलमांसपरिक्षयः
स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने ३४
मक्षिकाघुणकेशानां तृणानां पतनानि च
प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम् ३५
पतत्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्
स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम् ३६
जलाशयानां शैलानां वनानां ज्योतिषामपि
शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम् ३७
प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः
रूपं त्वस्य यथोद्देशं निर्देक्ष्यामि सभेषजम् ३८
यथास्वेनोष्मणा पाकं शारीरा यान्ति धातवः
स्रोतसा च यथास्वेन धातुः पुष्यति धातुतः ३९
स्रोतसां संनिरोधाच्च रक्तादीनां च संक्षयात्
धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते ४०
तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठसंश्रितम्
मलीभवति तत् प्रायः कल्पते किंचिदोजसे ४१
तस्मात् पुरीषं संरक्ष्यं विशेषाद्राजयक्ष्मिणः
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम् ४२
रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते
स ऊर्ध्वं कासवेगेन बहुरूपः प्रवर्तते ४३
जायन्ते व्याधयश्चातः षडेकादश वा पुनः
येषां संघातयोगेन राजयक्ष्मेति कथ्यते ४४
कासॐऽसतापो वैस्वर्यं ज्वरः पार्श्वशिरोरुजा
छर्दनं रक्तकफयोः श्वासवर्चोगदोऽरुचिः ४५
रूपाण्येकादशतानि यक्ष्मणः षडिमानि वा
कासो ज्वरः पार्श्वशूलं स्वरवर्चोगदोऽरुचिः ४६
सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा ४७
घ्राणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव वा
मारुताध्मातशिरसो मारुतं श्यायते प्रति ४८
प्रतिश्यायस्ततो घोरो जायते देहकर्शनः
तस्य रूपं शिरःशूलं गौरवं घ्राणविप्लवः ४९
ज्वरः कासः कफोत्क्लेशः स्वरभेदोऽरुचिः क्लमः
इन्द्रियाणामसामर्थ्यं यक्ष्मा चातः प्रजायते ५०
पिच्छिलं बहलं विस्रं हरितं श्वेतपीतकम्
कासमानो रसं यक्ष्मी निष्ठीवति कफानुगम् ५१
अंसपार्श्वाभितापश्च संतापः करपादयोः
ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ५२
वातात्पित्तात्कफाद्रक्तात् कासवेगात् सपीनसात्
स्वरभेदो भवेद्वाताद्रूक्षः क्षामश्चलः स्वरः ५३
तालुकण्ठपरिप्लोषः पित्ताद्वक्तुमसूयते
कफाद्भेदो विबद्धश्च स्वरः खुरखुरायते ५४
सन्नो रक्तविबद्धत्वात् स्वरः कृच्छ्रात् प्रवर्तते
कासातिवेगात् कषणः पीनसात्कफवातिकः ५५
पार्श्वशूलं त्वनियतं संकोचायामलक्षणम्
शिरःशूलं ससंतापं यक्ष्मिणः स्यात्सगौरवम् ५६
अभिसन्ने शरीरे तु यक्ष्मिणो विषमाशनात्
कण्ठात्प्रवर्तते रक्तं श्लेष्मा चोत्क्लिष्टसंचितः ५७
रक्तं विबद्धमार्गत्वान्मांसादीन्नानुपद्यते
आमाशयस्थमुत्क्लिष्टं बहुत्वात् कण्ठमेति च ५८
वातश्लेष्मविबद्धत्वादुरसः श्वासमृच्छति
दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते ५९
पृथग्दोषैः समस्तैर्वा जिह्वाहृदयसंश्रितैः
जायतेऽरुचिराहारे द्विष्टैरर्थैश्च मानसैः ६०
कषायतिक्तमधुरैर्विद्यान्मुखरसैः क्रमात्
वाताद्यैररुचिं जातां मानसीं दोषदर्शनात् ६१
अरोचकात् कासवेगाद्दोषोत्क्लेशाद्भयादपि
छर्दिर्या सा विकाराणामन्येषामप्युपद्रवः ६२
सर्वस्त्रिदोषजो यक्ष्मा दोषाणां तु बलाबलम्
परीक्ष्यावस्थिकं वैद्यः शोषिणं समुपाचरेत् ६३
प्रतिश्याये शिरःशूले कासे श्वासे स्वरक्षये
पार्श्वशूले च विविधाः क्रियाः साधारणीः शृणु ६४
पीनसे स्वेदमभ्यङ्गं धूममालेपनानि च
परिषेकावगाहांश्च यावकं वाट्यमेव च ६५
लवणाम्लकटूष्णांश्च रसान् स्नेहोपबृंहितान्
लावतित्तिरिदक्षाणां वर्तकानां च कल्पयेत् ६६
सपिप्पलीकं सयवं सकुलत्थं सनागरम्
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत् ६७
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः
मूलकानां कुलत्थानां यूषैर्वा सूपकल्पितैः ६८
यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत्
पिबेत्प्रसादं वारुण्या जलं वा पाञ्चमूलिकम् ६९
धान्यनागरसिद्धं वा तामलक्याऽथवा शृतम्
पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत् ७०
कृशरोत्कारिकामाषकुलत्थयवपायसैः
संकरस्वेदविधिना कण्ठं पार्श्वमुरः शिरः ७१
स्वेदयेत् पत्रभङ्गेण शिरश्च परिषेचयेत्
बलागुडूचीमधुकशृतैर्वा वारिभिः सुखैः ७२
बस्तमत्स्यशिरोभिर्वा नाडीस्वेदं प्रयोजयेत्
कण्ठे शिरसि पार्श्वे च पयोभिर्वा सवातिकैः ७३
औदकानूपमांसानि सलिलं पाञ्चमूलिकम्
सस्नेहमारनालं वा नाडीस्वेदे प्रयोजयेत् ७४
जीवन्त्याः शतपुष्पाया बलाया मधुकस्य च
वचाया वेशवारस्य विदार्या मूलकस्य च ७५
औदकानूपमांसानामुपनाहाः सुसंस्कृताः
शस्यन्ते सचतुःस्नेहाः शिरःपार्श्वांसशूलिनाम् ७६
शतपुष्पा समधुकं कुष्ठं तगरचन्दने
आलेपनं स्यात् सघृतं शिरःपार्श्वांसशूलनुत् ७७
बला रास्ना तिलाः सर्पिर्मधुकं नीलमुत्पलम्
पलङ्कषा देवदारु चन्दनं केशरं घृतम् ७८
वीरा बला विदारी च कृष्णगन्धा पुनर्नवा
शतावरी पयस्या च कत्तृणं मधुकं घृतम् ७९
चत्वार एते श्लोकर्धैः प्रदेहाः परिकीर्तिताः
शस्ताः संसृष्टदोषाणां शिरःपार्श्वांसशूलिनाम् ८०
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः
तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम् ८१
शृङ्गालाबुजलौकोभिः प्रदुष्टं व्यधनेन वा
शिरःपार्श्वांसशूलेषु रुधिरं तस्य निर्हरेत् ८२
प्रदेहः सघृतश्चेष्टः पद्मकोशीरचन्दनैः
दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतैः ८३
प्रपौण्डरीकनिर्गुण्डीपद्मकेशरमुत्पलम्
कशेरुकाः पयस्या च ससर्पिष्कं प्रलेपनम् ८४
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा
अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना ८५
माहेन्द्रेण सुशीतेन चन्दनादिशृतेन वा
परिषेकः प्रयोक्तव्य इति संशमनी क्रिया ८६
दोषाधिकानां वमनं शस्यते सविरेचनम्
स्नेहस्वेदोपपन्नानां सस्नेहं यन्न कर्शनम् ८७
शोषी मुञ्चति गात्राणि पुरीषस्रंसनादपि
अबलापेक्षिणीं मात्रां किं पुनर्यो विरिच्यते ८८
योगान् संशुद्धकोष्ठानां कासे श्वासे स्वरक्षये
शिरःपार्श्वांसशूलेषु सिद्धानेतान्प्रयोजयेत् ८९
बलाविदारिगन्धाद्यैर्विदार्या मधुकेन वा
सिद्धं सलवणं सर्पिर्नस्यं स्यात्स्वर्यमुत्तमम् ९०
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला
क्षीरं सर्पिश्च तत्सिद्धं स्वर्यं स्यान्नावनं परम् ९१
शिरःपार्श्वांसशूलघ्नं कासश्वासनिबर्हणम्
प्रयुज्यमानं बहुशो घृतं चौत्तरभक्तिकम् ९२
दशमूलेन पयसा सिद्धं मांसरसेन च
बलागर्भं घृतं सद्यो रोगानेतान् प्रबाधते ९३
भक्तस्योपरि मध्ये वा यथाग्न्यभ्यवचारितम्
रास्नाघृतं वा सक्षीरं सक्षीरं वा बलाघृतम् ९४
लेहान् कासापहान् स्वर्याञ्श्वासहिक्कानिबर्हणान्
शिरःपार्श्वांसशूलघ्नान् स्नेहांश्चातः परं शृणु ९५
घृतं खर्जूरमृद्वीकाशर्कराक्षौद्रसंयुतम्
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम् ९६
दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम् ९७
शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्धृतम् ९८
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम् ९९
खर्जूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा
त्रिफला पिप्पली मुस्तं शृङ्गाटगुडशर्कराः १००
वीरा शटी पुष्कराख्यं सुरसः शर्करा गुडः
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः १०१
श्लोकार्धैर्विहितानेतांल्लिह्यान्ना मधुसर्पिषा
कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा १०२
सित्पोपलां तुगाक्षीरीं पिप्पलीं बहुलां त्वचम्
अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा १०३
चूर्णितं प्राशयेद्वा तच्छ्वासकासकफातुरम्
सुप्तजिह्वारोचकिनमल्पाग्निं पार्श्वशूलिनम् १०४
हस्तपादाङ्गदाहेषु ज्वरे रक्ते तथोर्ध्वगे
वासाघृतं शतावर्या सिद्धं वा परमं हितम् १०५
दुरालभां श्वदंष्ट्रां च चतस्रः पर्णिनीर्बलाम्
भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य च १०६
पचेद्दशगुणे तोये दशभागावशेषिते
रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत् १०७
शट्याः पुष्करमूलस्य पिप्पलीत्रायमाणयोः
तामलक्याः किरातानां तिक्तस्य कुटजस्य च १०८
फलानां सारिवायाश्च सुपिष्टान् कर्षसंमितान्
ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत् १०९
ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम्
तृष्णां छर्दिमतीसारमेतत् सर्पिर्व्यपोहति ११०
जीवन्ती मधुकं द्राक्षां फलानि कुटजस्य च
शटीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् १११
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्
पिप्पलीं च समं पिष्ट्वा घृतं वैद्यो विपाचयेत् ११२
एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम्
रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति ११३
बलां स्थिरां पृश्निपर्णीं बृहतीं सनिदिग्धिकाम्
साधयित्वा रसे तस्मिन्पयो गव्यं सनागरम् ११४
द्राक्षाखर्जूरसर्पिर्भिः पिप्पल्या च शृतं सह
सक्षौद्रं ज्वरकासघ्नं स्वर्यं चैतत् प्रयोजयेत् ११५
आजस्य पयसश्चैवं प्रयोगो जाङ्गला रसाः
यूषार्थे चणका मुद्गा मकुष्ठाश्चोपकल्पिताः ११६
ज्वराणां शमनीयो यः पूर्वमुक्तः क्रियाविधिः
यक्ष्मिणां ज्वरदाहेषु ससर्पिष्कः प्रशस्यते ११७
कफप्रसेके बलवाञ् श्लैष्मिकश्छर्दयेन्नरः
पयसा फलयुक्तेन माधुकेन रसेन वा ११८
सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया
वान्तोऽन्नकाले लघ्वन्नमाददीत सदीपनम् ११९
यवगोधूममाध्वीकसिध्वरिष्टसुरासवान्
जाङ्गलानि च शूल्यान्नि सेवमानः कफं जयेत् १२०
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति
कफप्रसेकं तं विद्वान् स्निग्धोष्णेनैव निर्जयेत् १२१
क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च १२२
प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते
प्राप्नोति चास्यवैरस्यं न चान्नमभिनन्दति १२३
तस्याग्निदीपनान् योगानतीसारनिबर्हणान्
वक्त्रशुद्धिकरान् कुर्यादरुचिप्रतिषाधकान् १२४
सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना
सिद्धां यवागूं जीर्णे च चाङ्गेरीतक्रदाडिमैः १२५
पाठा बिल्वं यमानी च पातव्यं तक्रसंयुतम्
दुरालभा शृङ्गवेरं पाठा च सुरया सह १२६
जम्ब्वाम्रमध्यं बिल्वं च सकपित्थं सनागरम्
पेयामण्डेन पातव्यमतीसारनिवृत्तये १२७
एतानेव च योगांस्त्रीन् पाठादीन् कारयेत् खडान्
ससूप्यधान्यान्सस्नेहान् साम्लान्संग्रहणान् परम् १२८
वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः
श्रीपर्ण्या मदयन्त्याश्च यूथिकायाश्च पल्लवान् १२९
मातुलुङ्गस्य धातक्या दाडिमस्य च कारयेत्
स्नेहाम्ललवणोपेतान् खडान् सांग्राहिकान् परम् १३०
चाङ्गेर्याश्चुक्रिकायाश्च दुग्धिकायाश्च कारयेत्
खडान्दधिसरोपेतान् ससर्पिष्कान्सदाडिमान् १३१
मांसानां लघुपाकानां रसाः सांग्राहिकैर्युताः
व्यञ्जनार्थं प्रशस्यन्ते भोज्यार्थं रक्तशालयः १३२
स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम्
तक्रं सुरा सचुक्रीका दाडिमस्याथवा रसः १३३
इत्युक्तं भिन्नशकृतां दीपनं ग्राहि भेषजम्
परं मुखस्य वैरस्यनाशनं रोचनं शृणु १३४
द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम्
तद्वत् प्रक्षालयेदास्यं धारयेत् कवलग्रहान् १३५
पिबेद्धूमं ततो मृष्टमद्याद्दीपनपाचनम्
भेषजं पानमन्नं च हितमिष्टोपकल्पितम् १३६
त्वङ्मुस्तमेला धान्यानि मुस्तमामलकं त्वचम्
दार्वीत्वचो यवानी च तेजोह्वा पिप्पली तथा १३७
यवानी तिन्तिडीकं च पञ्चैते मुखधावनाः
श्लोकपादेष्वभिहिता रोचना मुखशोधनाः १३८
गुटिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम्
एषामालोडितानां वा धारयेत् कवलग्रहान् १३९
सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिषोः
कवलान् धारयेदिष्टान् क्षीरस्येक्षुरसस्य च १४०
यवानीं तिन्तिडीकं च नागरं साम्लवेतसम्
दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत् १४१
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च १४२
शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम् १४३
हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम्
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत् १४४
इति यवानीषाडवम्
तालीशपत्रं मरिचं नागरं पिप्पली शुभा
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके १४५
पिप्पल्यष्टगुणा चार प्रदेया सितशर्करा
कासश्वासारुचिहरं तच्चूर्णं दीपनं परम् १४६
हृत्पाण्डुग्रहणीदोषशोषप्लीहज्वरापहम्
वम्यतीसारमूलघ्नं मूढवातानुलोमनम् १४७
कल्पयेद्गुटिकां चैतच्चूर्णं पक्त्वा सितोपलाम्
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः १४८
इति तालीशाद्यं चूर्णं गुटिकाश्च
शुष्यतां क्षीणमांसानां कल्पितानि विधानवित्
दद्यान्मांसादमांसानि बृंहणानि विशेषतः १४९
शोषिणे बार्हिणं दद्याद्वर्हिशब्देन चापरान्
गृध्रानुलूकांश्चाषांश्च विधिवत् सूपकल्पितान् १५०
काकास्तित्तिरिशब्देन वर्मिशब्देन चोरगान्
भृष्टान् मत्स्यान्त्रशब्देन दद्याद्गण्डूपदानपि १५१
लोपाकान् स्थूलनकुलान् बिडालांश्चोपकल्पितान्
शृङ्गालशावांश्च भिषक् शशशब्देन दापयेत् १५२
सिंहानृक्षांस्तरक्षूंश्च व्याघ्रानेवंविधांस्तथा
मांसादान् मृगशब्देन दद्यान्मांसाभिवृद्धये १५३
गजखङ्गितुरङ्गाणां वेशवारीकृतं भिषक्
दद्यान्महिषशब्देन मांसं मांसाभिवृद्धये १५४
मांसेनोपचिताङ्गानां मांसं मांसकरं परम्
तीक्ष्णोष्णलाघवाच्छस्तं विशेषान्मृगपक्षिणाम् १५५
मांसानि यान्यनभ्यासादनिष्टानि प्रयोजयेत्
तेषूपधा सुखं भोक्तुं तथा शक्यानि तानि हि १५६
जानञ्जुगुप्सन्नैवाद्याज्जग्धं वा पुनरुल्लिखेत्
तस्माच्छद्मोपसिद्धानि मांसान्येतानि दापयेत् १५७
बर्हितित्तिरिदक्षाणां हंसानां शूकरोष्ट्रयोः
खरगोमहिषाणां च मांसं मांसकरं परम् १५८
योनिरष्टविघा चोक्ता मांसानामन्नपानिके
तां परीक्ष्य भिषग्विद्वान् दद्यान्मांसानि शोषिणे १५९
प्रसहा भूशयानूपवारिजा वारिचारिणः
आहारार्थं प्रदातव्या मात्रया वातशोषिणे १६०
प्रतुदा विष्कराश्चैव धन्वजाश्च मृगद्विजाः
कफपित्तपरीतानां प्रयोज्याः शोषरोगिणाम् १६१
विधिवत्सूपसिद्धानि मनोज्ञानि मृदूनि च
रसवन्ति सुगन्धीनि मांसान्येतानि भक्षयेत् १६२
मांसमेवाश्नतः शोषो माध्वीकं पिबतोऽपि च
नियतानल्पचित्तस्य चिरं काये न तिष्ठति १६३
वारुणीमण्डनित्यस्य बहिर्मार्जनसेविनः
अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम् १६४
प्रसन्नां वारुणीं सीधुमरिष्टानासवान्मधु
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन् १६५
मद्यं तैक्ष्ण्यौष्ण्यवैशद्यसूक्ष्मत्वात् स्रोतसां मुखम्
प्रमथ्य विवृणोत्याशु तन्मोक्षात् सप्त धातवः १६६
पुष्यन्ति धातुपोषाश्च शीघ्रं शोषः प्रशाम्यति
मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत् १६७
सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा
सिद्धं मधुरकैर्द्रव्यैर्दशमूलकषायकैः १६८
क्षीरमांसरसोपेतैर्घृतं शोषहरं परम्
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः १६९
सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम्
रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम् १७०
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद्धृतम्
यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुना सह १७१
सिद्धानां सर्पिषामेषामद्यादन्नेन वा सह
शुष्यतामेष निर्दिष्टो विधिराभ्यवहारिकः १७२
बहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत् १७३
स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव च
उत्तीर्णं मिश्रकैः स्नेहैः पुनराक्तैः सुखैः करैः १७४
मृद्वीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम् १७५
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्
विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम् १७६
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्
यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम् १७७
एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्
गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः १७८
स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः
गन्धैः समाल्यैर्वासोभिर्भूपणैश्च विभूषितः १७१
स्पृश्यान् संस्पृश्य संपूज्य देवताः सभिषग्द्विजाः
इष्टवर्णरसस्पर्शगन्धवत् पानभोजनम् १८०
इष्टमिष्टैरुपहितं सुखमद्यात् सुखप्रदम्
समातीतानि धान्यानि कल्पनीयानि शुष्यताम् १८१
लघून्यहीनवीर्याणि स्वादूनि गन्धवन्ति च
यानि प्रहर्षकारीणि तानि पथ्यतमानि हि १८२
यच्चोपदेक्ष्यते पथ्यं क्षतक्षीणचिकित्सिते
यक्ष्मिणस्तत् प्रयोक्तव्यं बलमांसाभिवृद्धये १८३
अभ्यङ्गोत्सादनैश्चैव वासोभिरहतैः प्रियैः
यथर्तुविहितैः स्नानैरवगाहैर्विमार्जनैः १८४
बस्तिभिः क्षीरसर्पिर्भिर्मांसैर्मांसरसौदनैः
इष्टैर्मद्यैर्मनोज्ञानां गन्धानामुपसेवनैः १८५
सुहृदां रमणीयानां प्रमदानां च दर्शनैः
गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च १८६
हर्षणाश्वासनैर्नित्यं गुरूणां समुपासनैः
ब्रह्मचर्येण दानेन तपसा देवतार्चनैः १८७
सत्येनाचारयोगेन मङ्गल्यैरप्यहिंसया
वैद्यविप्रार्चनाच्चैव रोगराजो निवर्तते १८८
यया प्रयुक्तया चेष्ट्या राजयक्ष्मा पुरा जितः
तां वेदविहितामिष्टिमारोग्यार्थी प्रयोजयेत् १८९
तत्र श्लोकौ--
प्रागुत्पत्तिर्निमित्तानि प्राग्रूपं रूपसंग्रहः
समासाद् व्यासतश्चोक्तं भेषजं राजयक्ष्मणः १९०
नामहेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता
इत्युक्तः संग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते १९१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने राजयक्ष्मचिकित्सितं
नामाष्टमोऽध्यायः ८

नवमोऽध्यायः
अथात उन्मादचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
बुद्धिस्मृतिज्ञानतपोनिवासः पुनर्वसुः प्राणभृतां शरण्यः
उन्मादहेत्वाकृतिभेषजानि कालेऽग्निवेशाय शशंस पृष्ठः ३
विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः ४
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ५
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ६
स मूढचेता न सुखं न दुःखं नाचारधर्मौ कुत एव शान्तिम्
विन्दत्यपास्तस्मृतिबुद्धिसंज्ञो भ्रमत्ययं चेत इतस्ततश्च ७
समुद्भ्रमं बुद्धिमनः स्मृतीनामुन्मादमागन्तुनिजोत्थमाहुः
तस्योद्भवं पञ्चविधं पृथक् तु वक्ष्यामि लिङ्गानि चिकित्सितं च ८
रूक्षाल्पशीतान्नविरैकधातुक्षयोपवासैरनिलोऽतिवृद्धः
चिन्तादिजुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ९
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि
पारुष्यकार्श्यारुणवर्णताश्च जीर्णै बलं चानिलजस्य रूपम् १०
अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्
उन्मादमत्युग्रमनात्मकस्य हृदि श्रितं पूर्ववदाशु कुर्यात् ११
अमर्षसंरम्भविनग्नभावाः संतर्जनातिद्रवणौष्ण्यरोषाः
प्रच्छायशीतान्नजलाभिलाषाः पीता च भाः पित्तकृतस्य लिङ्गम् १२
संपूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि संप्रवृद्धः
बुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् संजनयेद्विकारम् १३
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा
छर्दिश्च लाला च बलं च भुङ्क्ते नखादिशौकल्यं च कफात्मकस्य १४
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात्
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः १५
देवर्षिगन्धर्वपिशाचयक्षरक्षःपितॄणामभिधर्षणानि
आगन्तुहेतुर्नियमव्रतादि मिथ्याकृतं कर्म च पूर्वदेहे १६
अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः
उन्मादकालोऽनियतश्च यस्य भूतोत्थमुन्मादमुदाहरेत्तम् १७
अदूषयन्तः पुरुषस्य देहं एवादयः स्वैस्तु गुणप्रभावैः
विशन्त्यदृश्यास्तरसा यथैव च्छायातपौ दर्पणसूर्यकान्तौ १८
आघातकालो हि सपूर्वरूपः प्रोक्तो निदानेऽथ सुरादिभिश्च
उन्मादरूपाणि पृथङ्निबोध कालं च गम्यान् पुरुषांश्च तेषाम् १९
तद्यथा--सौम्यदृष्टिं गम्भीरमघृष्यमकोपनमस्वप्नभोजनाभिलाषिणमल्पस्वेदमूत्रपुरीषवातं शुभगन्धं फुल्लपद्मवदनमिति देवोन्मत्तं विद्यात् गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्यानानुरूपचेष्टाहारव्याहारं तैरुन्मत्तं विद्यात् अप्रसन्नदृष्टिमपश्यन्तं निद्रालुं प्रतिहतवाचमनन्नाभिलाषमरोचकाविपाकपरीतं च पितृभिरुन्मत्तं विद्यात् चण्डं साहसिकं तीक्ष्णं गम्भीरमधृष्यं मुखवाद्यनृत्यगीतान्नपानस्नानमाल्यधूपगन्धरतिं रक्तवस्त्रबलिकर्महास्यकथानुयोगप्रियं शुभगन्धं च गन्धर्वोन्मत्तं विद्यात् असकृत्स्वप्नरोदनहास्यं नृत्यगीतवाद्यपाठकथान्नपानस्नानमाल्यधूपगन्धरतिं रक्तविप्लुताक्षं द्विजातिवैद्यपरिवादिनं रहस्यभाषिणं च यक्षोन्मत्तं विद्यात् नष्टनिद्रमन्नपानद्वेषिणमनाहारमप्यतिबलिनं शस्त्रशोणितमांसरक्तमाल्याभिलाषिणं संतर्जकं च राक्षरोन्मत्तं विद्यात् प्रहासनृत्यप्रधानं देवविप्रवैद्यद्वेषावज्ञाभिः स्तुतिवेदमन्त्रशास्त्रोदाहरणैः काष्ठादिभिरात्मपीडनेन च ब्रह्मराक्षसोन्मत्तं विद्यात् अवस्थचित्तं स्थानमलभमानं नृत्यगीतहासिनं बद्भाबद्धप्रलापिनं संकरकूटमलिनरथ्याचेलतृणाश्मकाष्ठाधिरोहणरतिं भिन्नरूक्षस्वरं नग्नं विधावन्तं नैकत्र तिष्ठन्तं दुःखान्यावेदयन्तं नष्टस्मृतिं च पिशाचोन्मत्तं विद्यात् १०
तत्र चौक्षाचारं तपःस्वाध्यायकोविदं नरं प्रायः शुक्लप्रतिपदि त्रयोदश्यां च छिद्रमवेक्ष्याभिधर्षयन्ति देवाः स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिवाक्यकुशलं प्रायः षष्ठ्यां नवम्यां चर्षयः मातृपितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममावस्यायां च पितरः गन्धर्वाः स्तुतिगीतवादित्ररतिं परदारगन्धमाल्यप्रियं चौक्षाचारं प्रायो द्वादश्यां चतुर्दश्यां च सत्त्वबलरूपगर्वशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिवाक्करणं प्रायः शुक्लैकादश्यां सप्तम्यां च यक्षाः स्वाध्यायतपोनियमोपवासब्रह्मचर्यदेवयतिगुरुपूजाऽरतिं भ्रष्टशौचं ब्राह्मणमब्राह्मणं वा ब्राह्मणवादिनं शूरमानिनं देवागारसलिलक्रीडनरतिं प्रायः शुक्लपञ्चम्यां पूर्णचन्द्रप्रदर्शने च ब्रह्मराक्षसाः रक्षःपिशाचास्तु हीनसत्त्वं पिशुनं स्त्रैणं लुब्धं शठं प्रायो द्वितीयातृतीयाष्टमीषु इत्यपरिसंख्येयानां ग्रहाणामाविष्कृततमा ह्यष्टावेते व्याख्याताः २१
सर्वेष्वपि तु खल्वेषु यो हस्तावुद्यम्य रोषसंरम्भान्निःशङ्कमन्येष्वात्मनि वा निपातयेत् स ह्यसाध्यो ज्ञेयः तथा यः साश्रुनेत्रो मेढ्रप्रवृत्तरक्तः क्षतजिह्वः प्रस्रतनासिकश्छिद्यमानचर्माऽप्रतिहन्यमानवाणिः सततं विकूजन् दुर्वर्णस्तृषार्तः पूतिगन्धश्च स हिंसार्थिनोन्मत्तो ज्ञेयः तं परिवर्जयेत् २२
रत्यर्चनाकामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां बुद्ध्वा तदङ्गोपहारबलिमिश्रेण मन्त्रभैषज्यविधिनोपक्रमेत् २३
तत्र द्वयोरपि निजागन्तुनिमित्तयोरुन्मादयोः समासविस्तराभ्यां भेषजविधिमनुव्याख्यास्यामः २४
उन्मादे वातजे पूर्वं स्नेहपानं विशेषवित्
कुर्यादावृतमार्गे तु सस्नेहं मृदुशोधनम् २५
कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्
स्निग्धस्विन्नस्य कर्तव्यं शुद्धे संसर्जनक्रमः २६
निरूहं स्नेहबस्तिं च शिरसश्च विरेचनम्
ततः कुर्याद्यथादोषं तेषां भूयस्त्वमाचरेत् २७
हृदिन्द्रियशिरःकोष्ठे संशुद्धे वमनादिभिः
मनःप्रसादमाप्नोति स्मृतिं संज्ञां च विन्दति २८
शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम्
ताडनं च मनोबुद्धिदेहसंवेजनं हितम् २९
यः सक्तोऽविनये पट्टैः संयम्य सुदृढैः सुखैः
अपेतलोहकाष्ठाद्ये संरोध्यश्च तमोगृहे ३०
तर्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम्
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः ३१
प्रदेहोत्सादनाभ्यङ्गधूमाः पानं च सर्पिषः
प्रयोक्तव्यं मनोबुद्धिस्मृतिसंज्ञाप्रबोधनम् ३२
सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः
अतः सिद्धतमान्योगाञ्छृणून्मादविनाशनान् ३३
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम् ३४
विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्
स्थिरा नतं रजन्यौ द्वे सारिवे द्वे प्रियङ्गुका ३५
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम्
तालीशपत्रं बृहती मालत्याः कुसुमं नवम् ३६
विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मकौ
अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः ३७
चतुर्गुणे जले सम्यग्घृतप्रस्थं विपाचयेत्
अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये ३८
वातरक्ते प्रतिश्याये तृतीयकचतुर्थके
छर्द्यर्शोमूत्रकृच्छ्रेषु विसर्पोपहतेषु च ३९
कण्डूपाण्ड्वामयोन्मादविषमेहगदेषु च
भूतोपहतचित्तानां गद्गदानामचेतसाम् ४०
शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम्
अलक्ष्मीपापरक्षोघ्नं सर्वग्रहविनाशनम् ४१
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च
इति कल्याणकं घृतम्
एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम् ४२
रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरे चतुर्गुणे
वीरार्द्रमाषकाकोलीस्वयंगुप्तर्षभर्धिभिः ४३
मेदया च समैः कल्कैस्तत् स्यात् कल्याणकं महत्
बृंहणीयं विशेषेण सन्निपातहरं परम् ४४
इति महाकल्याणकं घृतम्
जटिलां पूतनां केशीं चारटीं मर्कटीं वचाम्
त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम् ४५
वयःस्थां शूकरीं छत्रामतिच्छत्रां पलङ्कषाम्
महापुरुषदन्तां च कायस्थां नाकुलीद्वयम् ४६
कटम्भरां वृश्चिकालीं स्थिरां चाहृत्य तैर्घृतम्
सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम् ४७
महापैशाचिकं नाम घृतमेतद्यथाऽमृतम्
बुद्धिस्मृतिकरं चैव बालानां चाङ्गवर्धनम् ४८
इति महापैशाचिकं घृतम्
लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम्
गवां चर्ममसीप्रस्थो द्व्याढकं क्षीरमूत्रयोः ४९
पुराणसर्पिषः प्रस्थ एभिः सिद्धं प्रयोजयेत्
हिङ्गुचूर्णपलं शीते दत्त्वा च मधुमाणिकाम् ५०
तद्दोषागन्तुसंभूतानुन्मादान् विषमज्वरान्
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः ५१
इति लशुनाद्यं घृतम्
लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम्
तदर्धं दशमूलस्य द्व्याढकेऽपां विपाचयेत् ५२
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा
कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः ५३
दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः
साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः ५४
यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः
सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम् ५५
ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन्
वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति ५६
इत्यपरं लशुनाद्यं घृतम्
हिङ्गुना हिङ्गुपर्ण्या च सकायस्थवयःस्थया
सिद्धं सर्पिर्हितं तद्वद्वयःस्थाहिङ्गुचोरकैः ५७
केवलं सिद्धमेभिर्वा पुराणं पाययेद्धृतम्
पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहेऽपि वा ५८
विशेषतः पुराणं च घृतं तं पाययेद्भिषक्
त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम् ५९
गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम्
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम् ६०
लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्
मेध्यं विरेचनेष्वग्र्यं प्रपुराणमतः परम् ६१
नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम्
दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम् ६२
अपस्मारग्रहोन्मादवतां शस्तं विशेषतः
एतानौषधयोगान् वा विधेयत्वमगच्छति ६३
अञ्जनोत्सादनालेपनावनादिषु योजयेत्
शिरीषो मधुकं हिङ्गु लशुनं तगरं वचा ६४
कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्
तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः ६५
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्
पिष्ट्वा तुल्यमपामार्गं हिङ्ग्वालं हिङ्गुपत्रिकाम् ६६
वर्तिःस्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयोः
तयाऽञ्जयेदपस्मारभूतोन्मादज्वरार्दितान् ६७
भूतार्तानमरार्तांश्च नरांश्चैव दृगामये
मरिचं चातपे मासं सपित्तं स्थितमञ्जनम् ६८
वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः
सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च ६९
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम् ७०
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा ७१
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते ७२
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्
प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत् ७३
वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः
शल्लकोलूकमार्जारजम्बूकवृकबस्तजैः ७४
मूत्रपित्तशकृल्लोमनखैश्चर्मभिरेव च
सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत् ७५
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः ७६
शीतानि चान्नपानानि मधुराणि मृदूनि च
शङ्खकेशान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् सिराम्
उन्मादे विषमे चैव ज्वरेऽपस्मार एव च ७७
घृतमांसवितृप्तं वा निवाते स्थापयेत् सुखम्
त्यक्त्वा मतिस्मृतिभ्रंशं संज्ञां लब्ध्वा प्रमुच्यते ७८
आश्वासयेत् सुहृद्वा तं वाक्यैर्धर्मार्थसंहितैः
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा ७९
बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे
कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलैः स्पृशेत् ८०
कशाभिस्ताडयित्वा वा सुबद्धं विजने गृहे
रुन्ध्याच्चेतो हि विभ्रान्तं व्रजत्यस्य तथा शमम् ८१
सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्
त्रासयेच्छस्त्रहस्तैर्वा तस्करैः शरुभिस्तथा ८२
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्
त्रासयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया ८३
देहदुःखभयेभ्यो हि परं प्राणभयं स्मृतम्
तेन याति शमं तस्य सर्वतो पिप्लुतं मनः ८४
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत् ८५
कामशोकभयक्रोधहर्षेर्ष्यालोभसंभवान्
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत् ८६
बुद्ध्वा देशं वयः सात्म्यं दोषं कालं बलाबले
चिकित्सितमिदं कुर्यादुन्मादे भूतदोषजे ८७
देवर्षिपितृगन्धर्वैरुन्मत्तस्य तु बुद्धिमान्
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म च ८८
सर्पिष्पानादि तस्येह मृदु भैषज्यमाचरेत्
पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा ८९
शान्तिकर्मेष्टिहोमांश्च जपस्वस्त्ययनानि च
वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत् ९०
भूतानामधिपं देवमीश्वरं जगतः प्रभुम्
पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम् ९१
रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये
तेषां पूजां च कुर्वाण उन्मादेभ्यः प्रमुच्यते ९२
बलिभिर्मङ्गलैर्होमैरोषध्यगदधारणैः
सत्याचारतपोज्ञानप्रदाननियमव्रतैः ९३
देवगोब्राह्मणानां च गुरूणां पूजनेन च
आगन्तुः प्रशमं याति सिद्धैर्मन्त्रौषधैस्तथा ९४
यच्चोपदेक्ष्यते किंचिदपस्मारचिकित्सिते
उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययोः ९५
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः
निजागन्तुभिरुन्मादैः सत्त्ववान् न स युज्यते ९६
प्रसादश्चेन्द्रियार्थानां बुद्ध्यात्ममनसां तथा
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम् ९७
तत्र श्लोकः--
उन्मादानां समुत्थानं लक्षणं सचिकित्सितम्
निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तमः ९८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलपूरिते चिकित्सास्थाने
उन्मादचिकित्सितं नाम नवमोऽध्यायः ९

दशमोऽध्यायः
अथातोऽपस्मारचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
स्मृतेरपगमं प्राहुरपस्मारं भिषग्विदः
तमःप्रवेशं बीभत्सचेष्टं धीसत्त्वसंप्लवात् ३
विभ्रान्तबहुदोषाणामहिताशुचिभोजनात्
रजस्तमोभ्यां विहते सत्त्वे दोषावृते हृदि ४
चिन्ताकामभयक्रोधशोकोद्वेगादिभिस्तथा
मनस्यभिहते नॄणामपस्मारः प्रवर्तते ५
धमनीभिः श्रिता दोषा हृदयं पीडयन्ति हि
संपीड्यमानो व्यथते मूढो भ्रान्तेन चेतसा ६
पश्यत्यसन्ति रूपाणि पतति प्रस्फुरत्यपि
जिह्वाक्षिभ्रूः स्रवल्लालो हस्तौ पादौ च विक्षिपन् ७
दोषवेगे च विगते सुप्तवत् प्रतिबुद्ध्यते
पृथग्दोषैः समस्तैश्च वक्ष्यते स चतुर्विधः ८
कम्पते प्रदशेद्दन्तान् फेनोद्वामी श्वसित्यपि
परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात् ९
पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शनः
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः १०
शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः
पश्यञ्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ११
सर्वैरेतैः समस्तैस्तु लिङ्गैर्ज्ञेयस्त्रिदोषजः
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः १२
पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः
अपस्माराय कुर्वन्ति वेगं किंचिदथान्तरम् १३
तैरावृतानां हृत्स्रोतोमनसां संप्रबोधनम्
तीक्ष्णैरादौ भिषक् कुर्यात् कर्मभिर्वमनादिभिः १४
वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः
श्लैष्मिकं वमनप्रायैरपरस्मारमुपाचरेत् १५
सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च
अपस्मारविमोक्षार्थं योगान् संशमनाञ्छृणु १६
गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम्
सिद्धं पिबेदपस्मारकामलाज्वरनाशनम् १७
इति पञ्चगव्यं घृतम्
द्वे पञ्चमूल्यौ त्रिफला रजन्यौ कुटजत्वचम्
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम् १८
सम्पाकं फल्गुमूलं च पौष्करं सदुरालभम्
द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते १९
भार्गीं पाठां त्रिकटुकं त्रिवृतां निचुलानि च
श्रेयसीमाढकीं मूर्वां दन्तीं भूनिम्बचित्रकौ २०
द्वे सारिवे रोहिषं च भूतीकं मदयन्तिकाम्
क्षिपेत्पिष्ट्वाऽक्षमात्राणि तेन प्रस्थं घृतात् पचेत् २१
गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः
पञ्चगव्यमिति ख्यातं महत्तदमृतोपमम् २२
अपस्मारे तथोन्मादे श्वयथावुदरेषु च
गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके २३
शस्यते घृतमेतत्तु प्रयोक्तव्यं दिने दिने
अलक्ष्मीग्रहरोगघ्नं चातुर्थकविनाशनम् २४
इति महापञ्चगव्यं घृतम्
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च
पुराणं घृतमुन्मदालक्ष्म्यपस्मारपापनुत् २५
घृतं सैन्धवहिङ्गुभ्यां वार्षे बास्ते चतुर्गुणे
मूत्रे सिद्धमपस्मारहृदग्रहामयनाशनम् २६
वचाशम्पाककैटर्यवयःस्थाहिङ्गुचोरकैः
सिद्धं पलङ्कषायुक्तैर्वातश्लेष्मात्मके घृतम् २७
तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः
क्षीरद्रोणे पचेत् सिद्धमपस्मारविनाशनम् २८
कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे
कार्षिकैर्जीवनीयैश्च घृतप्रस्थं विपाचयेत् २९
वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति
तद्वत् काशविदारीक्षुकुशक्वाथशृतं घृतम् ३०
मधुकद्विपले कल्के द्रोणे चामलकीरसात्
तद्वत् सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम् ३१
अभ्यङ्गः सार्षपं तैलं बस्तमूत्रे चतुर्गुणे
सिद्धं स्याद्गोशकृन्मूत्रैः स्नानोत्सादनमेव च ३२
कटभीनिम्बकट्वङ्गमधुशिग्रत्वचां रसे
सिद्धं मूत्रसमं तैलमभ्यङ्गार्थे प्रशस्यते ३३
पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः
जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः ३४
लशुनातिरसाचित्राकुष्टैर्विड्भिश्च पक्षिणाम्
मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे ३५
सिद्धमभ्यञ्जनं तैलमपस्मारविनाशनम्
एतैश्चैवौषधैः कार्यं धूपनं सप्रलेपनम् ३६
पिप्पलीं लवणं चित्रां हिङ्गु हिङ्गुशिवाटिकाम्
काकोलीं सर्षपान् काकनासां कैटर्यचन्दने ३७
शुनः स्कन्धास्थिनखरान् पर्शुकां चेति पेषयेत्
वस्तमूत्रेण पुष्यर्क्षे प्रदेहः स्यात् सधूपनः ३८
अपेतराक्षसीकुष्ठपूतनाकेशिचोरकैः
उत्सादनं मूत्रपिष्टैर्मूत्रैरेवावसेचनम् ३९
जलौकःशकृता तद्वद्दग्धैर्वा बस्तरोमभिः
खरास्थिभिर्हस्तिनखैस्तथा गोपुच्छलोमभिः ४०
कपिलानां गवां मूत्रं नावनं परमं हितम्
श्वशृगालबिडालानां सिंहादीनां च शस्यते ४१
भार्गी वचा नागदन्ती श्वेता श्वेता विषाणिका
ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः ४२
योगास्त्रपोऽतः षड्बिन्दून् पञ्च वा नावयेद्भिषक्
त्रिफलाव्योषपीतद्रुयवक्षारफणिज्झकैः ४३
श्यामापामार्गकारञ्जफलैर्मूत्रेऽथ बस्तजे
साधितं नावनं तैलमपस्मारविनाशनम् ४४
पिप्पली वृश्चिकाली च कुष्ठं च लवणानि च
भार्गी च चूर्णितं नस्तः कार्यं प्रधमनं परम् ४५
कायस्थां शारदान्मुद्गान्मुस्तोशीरयवांस्तथा
सव्योषान् बस्तमूत्रेण पिष्ट्वा वर्तीः प्रकल्पयेत् ४६
अपस्मारे तथोन्मादे सर्पदुष्टे गरार्दिते
विषपीते जलमृते चैताः स्युरमृतोपमाः ४७
मुस्तं वयःस्थां त्रिफलां कायस्थां हिङ्गु शाद्वलम्
व्योषं माषान् यवान्मूत्रैर्बास्तमैषार्षभैस्त्रिभिः ४८
पिष्ट्वा कृत्वा च तां वर्तिमपस्मारे प्रयोजयेत्
किलासे च तथोन्मादे ज्वरेषु विषमेषु च ४९
पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम्
तदेव सर्पिषा युक्तं धूपनं परमं मतम् ५०
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः
तुण्डैः पक्षैः पुरीषैश्च धूपनं कारयेद्भिषक् ५१
आभिः क्रियाभिः सिद्धाभिर्हृदयं संप्रबुध्यते
स्रोतांसि चापिशुध्यन्ति ततः संज्ञां स विन्दति ५२
यस्यानुबन्धस्त्वागन्तुर्दोषलिङ्गाधिकाकृतिः
दृश्येत तस्य कार्यं स्यादागन्तून्मादभेषजम् ५३
अनन्तरमुवाचेदमग्निवेशः कृताञ्जलि
भगवन् प्राक् समुद्दिष्टः श्लोकस्थाने महागदः ५४
अतत्त्वाभिनिवेशो यस्तद्धेत्वाकृतिभेषजम्
तत्र नोक्तमतः श्रोतुमिच्छामि तदिहोच्यताम् ५५
शुश्रूषवे वचः श्रुत्वा शिष्यायाह पुनर्वसुः
महागदं सौम्य शृणु सहेत्वाकृतिभेषजम् ५६
मलिनाहारशीलस्य वेगान् प्राप्तान्निगृह्णतः
शीतोष्णस्निग्धरूक्षाद्यैर्हेतुभिश्चातिसेवितैः ५७
हृदयं समुपाश्रित्य मनोबुद्धिवहाः सिराः
दोषाः संदूष्य तिष्ठन्ति रजोमोहावृतात्मनः ५८
रजस्तमोभ्यां वृद्धाभ्यां बुद्धौ मनसि चावृते
हृदये व्याकुले दोषैरथ मूढोऽल्पचेतनः ५९
विषमां कुरुते बुद्धिं नित्यानित्ये हिताहिते
अतत्त्वाभिनिवेशं तमाहुराप्ता महागदम् ६०
स्नेहस्वेदोपपन्नं तं संशोध्य वमनादिभिः
कृतसंसर्जनं मेध्यैरन्नपानैरुपाचरेत् ६१
ब्राह्मीस्वरसयुक्तं यत् पञ्चगव्यमुदाहृतम्
तत् सेव्यं शङ्खपुष्पी च यच्च मेध्यं रसायनम् ६२
सुहृदश्चानुकूलास्तं स्वाप्ता धर्मार्थवादिनः
संयोजयेयुर्विज्ञानधैर्यस्मृतिसमाधिभिः ६३
प्रयुञ्ज्यात्तैललशुनं पयसा वा शतावरीम्
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम् ६४
दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी कृतास्पदः
तस्माद्रसायनैरेनं प्रायशः समुपाचरेत् ६५
जलाग्निद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा
रक्षेदुन्मादिनं चैव सद्यः प्राणहरा हि ते ६६
तत्र श्लोकौ--
हेतुं कुर्वन्त्यपस्मारं दोषाः प्रकुपिता यथा
सामान्यतः पृथक्त्वाच्च लिङ्गं तेषां च भेषजम् ६७
महागदसमुत्थानं लिङ्गं चीवाच सौषधम्
मुनिर्व्याससमासाभ्यामपस्मारचिकित्सिते ६८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
चिकित्सास्थानेऽपस्मारचिकित्सितं नाम दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातः क्षतक्षीणचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
उदारकीर्तिर्ब्रह्मर्षिरात्रेयः परमार्थवित्
क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम् ३
धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम्
पततो विषमोच्चेभ्यो बलिभिः सह युध्यतः ४
वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णतः
शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान् ५
अधीयानस्य वाऽत्युच्चैर्दूरं वा ब्रजतो द्रुतम्
महानदीं वा तरतो हयैर्वा सह धावतः ६
सहसोत्पततो दूरं तूर्णं चातिप्रनृत्यतः
तथाऽन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य च ७
विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः ८
उरो विरुज्यते तस्य भिद्यतेऽथ विभज्यते
प्रपीड्येते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते ९
क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च ह्रीयते
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधादपि १०
दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः
कासमानस्य च श्लेष्मा सरक्तः संप्रवर्तते ११
सक्षतः क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात्
अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् १२
उरोरुक्शोणितच्छर्दिः कासो वैशेषिकः क्षते
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः १३
अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः
परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत् १४
उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम्
सद्य एव पिबेज्जीर्णे पयसाऽद्यात् सशर्करम् १५
पार्श्वबस्तिरुजी चाल्पपित्ताग्निस्तां सुरायुताम्
भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम् १६
लाक्षां सर्पिर्मधूच्छिष्टंजीवनीयगणं सिताम्
त्वक्क्षीरीं समितां क्षीरे पक्त्वा दीप्तानलः पिबेत् १७
इक्ष्वालिकाबिसग्रन्थिपद्मकेशरचन्दनैः
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती १८
यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम्
ज्वरे दाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत् १९
मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः
कासी पार्श्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः २०
एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः २१
संचूर्ण्य मधुना युक्ता गुटिकाः संप्रकल्पयेत्
अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने २२
कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम्
रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम् २३
शोषप्लीहाढ्यवातांश्च स्वरभेदं क्षतं क्षयम्
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत् २४
इत्येलादिगुटिका
रकेऽतिवृत्ते दक्षाण्डं यूषैस्तोयेन वा पिबेत्
चटकाण्डरसं वाऽपि रक्तं वा छागजाङ्गलम् २५
चूर्णं पौनर्नवं रक्तशालितण्डुलशर्करम्
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः २६
मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम् २७
क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनिले
शृतक्षीरसरेणाद्यात् सक्षौद्रघृतशर्करम् २८
शर्करां यवगोधूमौ जीवकर्षभकौ मधु
शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः २९
क्रव्यादमांसनिर्यूहं घृतभृष्टं पिबेच्च सः
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम् ३०
न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः
तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः ३१
साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा
शाल्योदनं क्षतोरस्कः क्षीणशुक्रश्च मानवः ३२
यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते शुभम् ३३
कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम्
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्फलैर्घृतम् ३४
जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम्
चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके ३५
पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्
ऋद्धिं परूषकं भार्गीं मृद्वीकां बृहतीं तथा ३६
शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्
बदराक्षोटखर्जूरवातामाभिषुकाण्यपि ३७
फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्
धात्रीरसविदारीक्षुच्छागमांसरसं पयः ३८
कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्
प्रथार्धं मधुनः शीते शर्करार्धतुलां तथा ३९
द्विकार्षिकाणि पत्रैलाहेमत्वङ्मारिचानि च
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः ४०
अमृतप्राशमित्येतन्नराणाममृतं घृतम्
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना ४१
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनाश्च बृंहयेत् ४२
कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत्
पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम् ४३
इत्यमृतप्राशघृतम्
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम् ४४
पलिकं साधयेत्तेषां रसे क्षीरचतुर्गुणे
कल्कः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः ४५
शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः
प्रस्थः सिद्धो घृताद्वातपित्तहृद्द्रवशूलनुत् ४६
मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः
धनुस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः ४७
इति श्वदंष्ट्रादिघृतम्
मधुकाष्टपलद्राक्षाप्रस्थक्वाथे घृतं पचेत्
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले ४८
पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्
समसक्तु क्षतक्षीणे रक्तगुल्मे च तद्धितम् ४९
धात्रीफलविदारीक्षुजीवनीयरसैर्घृतम्
अजागोपयसोश्चैव सप्त प्रस्थान् पचेद्भिषक् ५०
सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेच्च तत्
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम् ५१
वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्
घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत् ५२
लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्
आक्रामत्यनिलं पीतमूष्माणं निरुणाद्धि च ५३
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु
त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत् ५४
सर्पिर्गुडान् समध्वंशाञ्जग्ध्वा चानु पयः पिबेत्
रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात् ५५
इति सर्पिर्गुडाः
बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशका अपि ५६
एषां कषाये द्विक्षीरे विदार्याजरसांशिके
जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम् ५७
सितापलानि पूते च शीते द्वात्रिंशतं क्षिपेत्
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च ५८
समाक्षिकं कौडविकं तत् सर्वं खजमूर्च्छितम्
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत् ५९
ताञ्जग्ध्वा पलिकान् क्षीरं मद्यं वाऽनुपिबेत् कफे
शोषे कासे क्षते क्षीणे श्रमस्रीभारकर्शिते ६०
रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः ६१
इति द्वितीयसर्पिर्गुडाः
त्वकक्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः
वीरर्धिक्षीरकाकोलीबृहतीकपिकच्छुभिः ६२
खर्जूरफलमेदाभिः क्षीरषिष्टैः पलोन्मितैः
धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात् पचेत् ६३
शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च
दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान् ६४
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम्
शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम् ६५
इति तृतीयाः सर्पिर्गुडाः
नवमामलकं द्राक्षामात्मगुप्तां पुनर्नवाम्
शतावरीं विदारीं च समङ्गां पिप्पलीं तथा ६६
पृथग्दशपलान् भागान् पलान्यष्टौ च नागरात्
यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य च ६७
क्षीरतैलघृतानां च त्र्याढके शर्कराशते
क्वथिते तानि चूर्णानि दत्त्वा बिल्वसमान् गुडान् ६८
कुर्यात्तान् भक्षयेत् क्षीणः क्षतः शुष्कश्च मानवः
तेन सद्यो रसादीनां वृद्ध्या पुष्टिं स विन्दति ६९
इति चतुर्थसर्पिर्गुडाः
गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्
विदार्याः स्वरसात्प्रस्थं रसात्प्रस्थं च तैत्तिरात् ७०
दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्
मधूकपुष्पकुडवं प्रियालकुडवं तथा ७१
कुडवार्धं तुगाक्षीर्याः खर्जूराणां च विंशतिम्
पृथाग्बिभीतकानां च पिप्पल्याश्च चतुर्थिकाम् ७२
त्रिंशत्पलानि खण्डाच्च मधुकात् कर्षमेव च
तथाऽर्धपलिकान्यत्र जीवनीयानि दापयेत् ७३
सिद्धेऽस्मिन् कुडवं क्षौद्रं शीते क्षिप्त्वाऽथ मोदकान्
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान् ७४
वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च
शुष्यतां क्षीणशुक्राणां रक्ते चोरसि संस्थिते ७५
कृशदुर्बलवृद्धानां पुष्टिवर्णबलार्थिनाम्
योनिदोषकृतस्नावहतानां चापि योषिताम् ७६
गर्भार्थिनीनां गर्भश्च स्रवेद्यासां म्रियेत वा
धन्या बल्या हितास्ताभ्यः शुक्रशोणितवर्धनाः ७७
इति पञ्चमसर्पिर्मोदकाः
बस्तिदेशे विकुर्वाणे स्त्रीप्रसक्तस्य मारुते
वातघ्नान् बृंहणान् वृष्यान् योगांस्तस्य प्रयोजयेत् ७८
शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण च
संयुक्तं वा शृतं क्षीरं पिबेत् कासज्वरापहम् ७९
फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम्
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम् ८०
सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम्
यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः ८१
जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम् ८२
गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा
यवान्नं भोजयेद्यूषैः फलाम्लैर्घृतसंस्कृतैः ८३
दीप्तेऽग्नौ विधिरेषः स्यान्मन्दे दीपनपाचनः
यक्षिमणां विहितो ग्राही भिन्ने शकृति चेष्यते ८४
पलिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमर्जकात् ८५
एकैकं मरिचाजाज्योर्धान्यकाद् द्वे चतुथिके
शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत् ८६
कृत्वा चूर्णमतो मात्रामन्नपाने प्रयोजयेत्
रोचनं दीपनं बल्यं पार्श्वार्तिश्वासकासनुत् ८७
इति सैन्धवादिचूर्णम्
एका षोडशिका धान्याद् द्वे द्वेऽजाज्यजमोदयोः
ताभ्यां दाडिमवृक्षाम्लं द्विर्द्विः सौवर्चलात्पलम् ८८
शुण्ठ्याः कर्षं कपित्थस्य मध्यात् पञ्च पलानि च
तच्चूर्णे षोडशपले शर्कराया विमिश्रयेत् ८९
षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत्
मन्दानले शकृद्भेदे यक्ष्मिणामग्निवर्धनः ९०
इति षाडवः
पिबेन्नागबलामूलमर्धकर्षविवर्धितम्
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक् ९१
एष प्रयोगः पुष्ट्यायुर्बलारोग्यकरः परः
मण्डूकपर्ण्याः कल्पोऽयं शुण्ठीमधुकयोस्तथा ९२
यद्यत् संतर्पणं शीतमविदाहि हितं लघु
अन्नपानं निषेव्यं तत्क्षतक्षीणैः सुखार्थिभिः ९३
यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम्
तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा ९४
उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः
प्रागेवागमनात्तस्य तस्मातं त्वरया जयेत् ९५
तत्र श्लोकौ--
क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम्
असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च ९६
उक्तवाञ्ज्येष्ठशिष्याय क्षतक्षीणचिकित्सिते
तत्त्वार्थविद्वीतरजस्तमोदोषः पुनर्वसुः ९७
इत्याग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सितस्थाने
क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः ११

द्वादशोऽध्यायः
अथातः श्वयथुचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
भिषग्वरिष्ठं सुरसिद्धजुष्टं मुनीन्मयात्मजमग्निवेशः
महागदस्य श्वयथोर्यथावत् प्रकोपरूपप्रशमानपृच्छत् ३
तस्मै जगादागदवेदसिन्धुप्रवर्तनाद्रिप्रवरोऽत्रिजस्तान्
वातादिभेदात्त्रिविधस्य सम्यङ्निजानिजैकाङ्गजसर्वजस्य ४
शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा
दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिषेवणं च ५
अर्शांस्यचेष्टा न च देहशुद्धिर्मर्मोपघातो विषमा प्रसूतिः
मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतुः श्वयथोः प्रदिष्टः ६
बाह्यास्त्वचो दूषयिताऽभिघातः काष्ठाश्मशस्त्राग्निविषायसाद्यैः
आगन्तुहेतुः त्रिविधो निजश्च सर्वार्धगात्रावयवाश्रितत्वात् ७
बाह्याः सिराः प्राप्य यदा कफासृक्पित्तानि संदूषयतीह वायुः
तैर्बद्धमार्गः स तदा विसर्पन्नुत्सेधलिङ्गं श्वयथुं करोति ८
उरःस्थितैरूर्ध्वमधस्तु वायोः स्थानस्थितैर्मध्यगतैस्तु मध्ये
सर्वाङ्गगः सर्वगतैः क्वचित्स्थैर्दोषैः क्वचित् स्याच्छ्वयथुस्तदाख्यः ९
ऊष्मा तथा स्याद्दवथुः सिराणामायाम इत्येव च पूर्वरूपम्
सर्वस्त्रिदोषोऽधिकदोषलिङ्गैस्तच्छब्दमभ्येति भिषग्जितं च १०
सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माऽथ सिरातनुत्वम्
सलोमहर्षाऽङ्गविवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ११
चलस्तनुत्वक्परुषोऽणोऽसितः प्रसुप्तिहर्षार्तियुतोऽनिमित्ततः
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली च श्वयथुः समीरणात् १२
मृदुः सगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः
य उष्यते स्पर्शरुगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान् १३
गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृत्
स कृच्छ्रजन्मप्रशमो निपीडितो न चोन्नमेद्रात्रिवली कफात्मकः १४
कृशस्य रोगैरबलस्य यो भवेदुपद्रवैर्वा वमिपूर्वकैर्युतः
स हन्ति मर्मानुगतोऽथ राजिमान् परिस्रवेद्धीनबलस्य सर्वगः १५
अहीनमांसस्य य एकदोषजो नवो बलस्थस्य सुखः स साधने
निदानदोषर्तुविपर्ययक्रमैरुपाचरेत्तं बलदोषकालवित् १६
अथामजं लङ्घनपाचनक्रमैर्विशोधनैरुल्बणदोषमादितः
शिरोगतं शीर्षविरेचनैरधो विरेचनैरूर्ध्वहरैस्तथोर्ध्वजम् १७
उपाचरेत् स्नेहभवं विरूक्षणैः प्रकल्पयेत् स्नेहविधिं च रूक्षजे
विबद्धविट्केऽनिलजे निरूहणं घृतं तु पित्तानिलजे सतिक्तकम् १८
पयश्च मूर्च्छारतिदाहतर्षिते विशोधनीये तु समूत्रमिष्यते
कफोत्थितं क्षारकटूष्णसंयुतैः समूत्रतक्रासवयुक्तिभिर्जयेत् १९
ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि तिलकृतं विज्जलं मद्यमम्लम्
धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च २०
व्योषं त्रिवृत्तिक्तकरोहिणी च सायोरजस्का त्रिफलारसेन
पीतं कफोत्थं शमयेत्तु शोफं गव्येन मूत्रेण हरीतकी च २१
हरीतकीनागरदेवदारु सुखाम्बुयुक्तं सपुनर्नवं वा
सर्वं पिबेत्त्रिष्वपि मूत्रयुक्तं स्नातश्च जीर्णे पयसाऽन्नमद्यात् २२
पुनर्नवानागरमुस्तकल्कान् प्रस्थेन धीरः पयसाऽक्षमात्रान्
मयूरकं मागधिकां समूलां सनागरां वा प्रपिबेत् सवाते २३
दन्तीत्रिवृत्त्र्यूषणचियकैर्वा पयः शृतं दोषहरं पिबेन्ना
द्विप्रस्थमात्रं तु पलार्धिकैस्तैरर्धावशिष्टं पवने सपित्ते २४
सशुण्ठिपीतद्रुरसं प्रयोज्यं श्यामोरुबूकोषणसाधितं वा
त्वग्दारुवर्षाभुमहौषधैर्वा गुडूचिकानागरदन्तिभिर्वा २५
सप्ताहमौष्ट्रं त्वथवाऽपि मासं पयः पिबेद्भोजनवारिवर्जी
गव्यं समूत्रं महिषीपयो वा क्षीराशनो मूत्रमथो गवां वा २६
तक्रं पिबेद्वा गुरुभिन्नवर्चाः सव्योषसौवर्चलमाक्षिकं च
गुडाभयां वा गुडनागरं वा सदोषभिन्नामविबद्धवर्चाः २७
विड्वातसङ्गो पयसा रसैर्वा प्राग्भक्तमद्यादुरुबूकतैलम्
स्रोतोविबन्धेऽग्निरुचिप्रणाशे मद्यान्यरिष्टांश्च पिबेत् सुजातान् २८
गण्डीरभल्लातकचित्रकांश्च व्योषं विडङ्गं बृहतीद्वयं च
द्विप्रस्थिकं गोमयपावकेन द्रोणे पचेत् कूर्चिकमस्तुनस्तु २९
त्रिभागशेषं च सुपूतशीतं द्रोणेन तत् प्राकृतमस्तुना च
सितोपलायाश्च शतेन युक्तं लिप्ते घटे चित्रकपिप्पलीनाम् ३०
वैहायसे स्थापितमादशाहात् प्रयोजयंस्तद्विनिहन्ति शोफान्
भगन्दरार्शःक्रिमिकुष्ठमेहान् वैवर्ण्यकार्श्यानिलहिक्कनं च ३१
इति गण्डीराद्यरिष्टः
काश्मर्यधात्रीमरिचाभयाक्षद्राक्षाफलानां च सपिप्पलीनाम्
शतं शतं जीर्णगुडात्तुलां च संक्षुद्य कुम्भे मधुना प्रलिप्ते ३२
सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना
शोफान् विबन्धान् कफवातजांश्च निहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च ३३
इत्यष्टशतोऽरिष्टः
पुनर्नवे द्वे च बले सपाठे दन्तीं गुडूचीमथ चित्रकं च
निदिग्धिकां च त्रिपलानि पक्त्वा द्रोणावशेषे सलिले ततस्तम् ३४
पूत्वा रसं द्वे च गुडात् पुराणात्तुले मधुप्रस्थयुतं सुशीतम्
मासंनिदध्याद्धृतभाजनस्थं पल्ले यवानां परस्तस्तु मासात् ३५
चूर्णीकृतैरर्धपलांशिकैस्तं पत्रत्वगेलामरिचाम्बुलोहैः
गन्धान्वितं क्षौद्रघृतप्रदिग्धे जीर्णे पिबेद् व्याहिबलं समीक्ष्य ३६
हृत्पाण्डुरोगं श्वयथुं प्रवृद्धं प्लीहज्वरारोचकमेहगुल्मान्
भगन्दरं षड्जटराणि कासं श्वासं ग्रहण्यामयकुष्ठकण्डूः ३७
शाखानिलं बद्धपुरीषतां च हिक्कां किलासं च हलीमकं च
क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्विते मांसरसान्नभोजी ३८
इति पुनर्नवाद्यरिष्टः
फलत्रिकं दीप्यकचित्रकौ च सपिप्पलीलोहरजो विडङ्गम्
चूर्णीकृतं कौडविकं द्विरंशं क्षौद्रं पुराणस्य तुलां गुडस्य ३९
मासं निदध्याद्धृतभाजनस्थं यवेषु तानेव निहन्ति रोगान्
ये चार्शसां पाण्डुविकारिणां च प्रोक्ता हिताः शोफिषु तेऽप्यरिष्टाः ४०
इति त्रिफलाद्यरिष्टः
कृष्णा सपाठा गजपिप्पली च निदिग्धिका चित्रकनागरे च
सपिप्पलीमूलरजन्यजाजीमुस्तं च चूर्णं सुखतोयपीतम् ४१
हन्यात्त्रिदोषं चिरजं च शोफं कल्कश्च भूनिम्बमहौषधस्य
अयोरजस्त्र्यूषणयावशूकचूर्णं च पीतं त्रिफलारसेन ४२
क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके च
सपिप्पलीमूलविडङ्गसारं मुस्ताजमोदामरदारुबिल्वम् ४३
कलिङ्गकाश्चित्रकमूलपाठे यष्ट्याह्वयं सातिविषं पलांशम्
सहिङ्गुकर्षं त्वणुशुष्कचूर्णं द्रोणं तथा मूलकशुण्ठकानाम् ४४
स्याद्भस्मनस्तत् सलिलेन साध्यमालोड्य यावद्घनमप्रदग्धम्
स्त्यानं ततः कोलसमां तु मात्रां कृत्वा सुशुष्कां विधिनोपयुञ्ज्यात् ४५
प्लीहोदरश्वित्रहलीमकार्शःपाण्ड्वामयारोचकशोषशोफान्
विसूचिकागुल्मगराश्मरीश्च सश्वासकासाः प्रणुदेत् सकुष्ठाः ४६
इति क्षारगुडिका
प्रयोजयेदार्द्रकनागरं वा तुल्यं गुडेनार्धपलाभिवृद्ध्या
मात्रा परं पञ्चपलानि मासं जीर्णे पयो यूषरसाश्च भक्तम् ४७
गुल्मोदरार्शःश्वयथुप्रमेहाञ् श्वासप्रतिश्यालसकाविपाकान्
सकामलाशोषमनोविकारान् कासं कफं चैव जयेत् प्रयोगः ४८
रसस्तथैवार्द्रकनागरस्य पेयोऽथ जीर्णे पयसाऽन्नमद्यात्
जत्वश्मजं च त्रिफलारसेन हन्यात्त्रिदोषं श्वयथुं प्रसह्य ४९
इति शिलाजतुप्रयोगः
द्विपञ्चमूलस्य पचेत् कषाये कंसेऽभयानां च शतं गुडस्य
लेहे सुसिद्धेऽथ विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुषास्थिते च ५०
प्रस्थार्धमात्रं मधुनः सुशीते किंचिच्च चूर्णादपि यावशूकात्
एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम् ५१
श्वासज्वरारोचकमेहगुल्मप्लीहत्रिदोषोदरपाण्डुरोगान्
कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान् ५२
इति कंसहरीतकी
पटोलमूलामरदारुदन्तीत्रायन्तिपिप्पल्यभयाविशालाः
यष्ट्याह्वयं तिक्तकरोहिणी च सचन्दना स्यान्निचुलानि दार्वी ५३
कर्षोन्मितैस्तैः क्वथितः कषायो घृतेन पेयः कुडवेन युक्तः
वीसर्पदाहज्वरसन्निपाततृष्णाविषाणि श्वयथुं च हन्ति ५४
सचित्रकं धान्ययवान्यजाजीसौवर्चलं त्र्यूषणवेतसाम्लम्
बिल्वात् फलं दाडिमयावशूकौ सपिप्पलीमूलमथापि चव्यम् ५५
पिष्ट्वाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथ प्रयुञ्ज्यात्
अर्शांसि गुल्मं श्वयथुं च कृच्छ्रं निहन्ति वह्निं च करोति दीप्तम् ५६
पिबेद्घृतं वाऽष्टगुणाम्बुसिद्धं सचित्रकक्षारमुदारवीर्यम्
कल्याणकं वाऽपि सपञ्चगव्यं तिक्तं महद्वाऽप्यथ तिक्तकं वा ५७
क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधुविमथ्य तेन
तज्जं घृतं चित्रकमूलगर्भं तक्रेण सिद्धं श्वयथुघ्नमग्र्यम् ५८
अर्शोऽतिसारानिलगुल्ममेहांश्चैतन्निहन्त्यग्निबलप्रदं च
तक्रेण चाद्यात् सघृतेन तेन भोज्यानि सिद्धामथवायवागूम् ५९
इति चित्रकघृतम्
जीवन्त्यजाजीशटिपुष्कराह्वैः सकारवीचित्रकबिल्वमध्यैः
सयावशूकैर्बदरप्रमाणैर्वृक्षाम्लयुक्ता घृततैलभृष्टा ६०
अर्शोऽतिसारानिलगुल्मशोफहृद्रोगमन्दाग्निहिता यवागूः
या पञ्चकोलेर्विधिनैव तेन सिद्धा भवेत् सा च समा तयैव ६१
कुलत्थयूषश्च सपिप्पलीको मौद्गश्च सत्र्यूषणयावशूकः
रसस्तथा विष्किरजाङ्गलानां सकूर्मगोधाशिखिशल्लकानाम् ६२
सुवर्चला गृञ्जनकं पटोलं सवायसीमूलकवेत्रनिम्बम्
शाकार्थिनां शाकमिति प्रशस्तं भोज्ये पुराणश्च यवः सशालिः ६३
आभ्यन्तरं भेषजमुक्तमेतद्बर्हिर्हितं यच्छृणु तद्यथावत्
स्नेहान् प्रदेहान् परिषेचनानि स्वेदांश्च वातप्रबलस्य कुर्यात् ६४
शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तैः
प्रियङ्गुथौणेयकहेममांसीतालीशपत्रप्लवपत्रधान्यैः ६५
श्रीवेष्टकध्यामकपिप्पलीभिः स्पृक्कानखैश्चैव यथोपलाभम्
बातान्वितेऽभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि च प्रदेहम् ६६
जलैश्च वासार्ककरञ्जशिग्रुकाश्मर्यपत्रार्जकजैश्च सिद्धैः
स्विन्नो मृदूष्णै रवितप्ततोयैः स्नातश्च गन्धैरनुलेपनीयः ६७
सवेतसा क्षीरवतां द्रुमाणां त्वचः समञ्जिष्ठलतामृणालाः
सचन्दनाः पद्मकवालकौ च पैत्ते प्रदेहस्तु सतैलपाकः ६८
आक्तस्य तेनाम्बु रविप्रतप्तं सचन्दनं साभयपद्मकं च
स्नाने हितं क्षीरवतां कषायः क्षीरोदकं चन्दनलेपनं च ६९
कफे तु कृष्णासिकतापुराणपिण्याकशिग्रुत्वगुमाप्रलेपः
कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनं च ७०
विभीतकानां फलमध्यलेपः सर्वेषु दाहार्तिहरः प्रदिष्टः
यष्ट्याह्वमुस्तैः सकपित्थपत्रैः सचन्दनैस्तत्पिडकासु लेपः ७१
रास्नावृषार्कत्रिफलाविडङ्गं शिग्रुत्वचो मूषिकपर्णिका च
निम्बार्जकौ व्याघ्रनखः सदूर्वा सुवर्चला तिक्तकरोहिणी च ७२
सकाकमाची बृहती सकुष्ठा पुनर्नवा चित्रकनागरे च
उन्मर्दनं शोफिषु मूत्रपिष्टं शस्तस्तथा मूलकतोयसेकः ७३
शोफास्तु गात्रावयवाश्रिता ये ते स्थानदूष्याकृतिनामभेदात्
अनेकसंख्याः कतिचिच्च तेषां निदर्शनार्थं गदतो निबोध ७४
दोषास्त्रयः स्वैः कुपिता निदानैः कुर्वन्ति शोफं शिरसः सुघोरम्
अन्तर्गले घुर्घुरिकान्वितं च शालूकमुच्छ्वासनिरोधकारि ७५
गलस्य सन्धौ चिबुके गले च सदाहरागः श्वसनासु चोग्रः
शोफो भृशार्तिस्तु विडालिका स्याद्धन्याद्गले चेद्वलयीकृता सा ७६
स्यात्तालुविद्रध्यपि दाहरागपाकान्वितस्तालुनि सा त्रिदोषात्
जिह्वोपरिष्टादुपजिह्विका स्यात् कफादधस्तादधिजिह्विका च ७७
यो दन्तमांसेषु तु रक्तपित्तात् पाको भवेत् सोपकुशः प्रदिष्टः
स्याद्दन्तविद्रधिष्वपि दन्तमांसे शोफः कफाच्छोणितसंचयोत्थः ७८
गलस्य पार्श्वे गलगण्ड एकः स्याद्गण्डमाला बहुभिस्तु गण्डैः
साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्याः ७९
तेषां सिराकायशिरोविरेका धूमः पुराणस्य घृतस्य पानम्
स्याल्लङ्घनं वक्रभवेषु चापि प्रघर्षणं स्यात् कवलग्रहश्च ८०
अङ्गैकदेशेष्बनिलादिभिः स्यात् स्वरूपधारी स्फुरणः सिराभिः
ग्रन्थिर्महान्मांसभवस्त्वनर्तिर्मेदोभवः स्निग्धतमश्चलश्च ८१
संशोधिते स्वेदितमश्मकाष्ठैः साङ्गुष्ठदण्डैर्विलयेदपक्वम्
विपाट्य चोद्धृत्य भिषक् सकोशं शस्त्रेण दग्ध्वा ब्रणवच्चिकित्सेत् ८२
अदग्ध ईषत् परिशेषितश्च प्रयाति भूयोऽपि शनैर्विवृद्धिम्
तस्मादशेषः कुशलैः समन्ताच्छेद्यो भवेद्वीक्ष्य शरीरदेशान् ८३
शेषे कृते पाकवशेन शीर्यात्ततः क्षतोत्थः प्रसरेद्विसर्पः
उपद्रवं तं प्रविचार्य तज्ज्ञस्तैर्भेषजैः पूर्वतरैर्यथोक्तैः ८४
निवारयेदादित एव यत्नाद्विधानवित् स्वस्वविधिं विधाय
ततः क्रमेणास्य यथाविधानं व्रणं व्रणज्ञस्त्वरया चिकित्सेत् ८५
विवर्जयेत् कुक्ष्युदराश्रितं च तथा गले मर्मणि संश्रितं च
स्थूलः खरश्चापि भवेद्विवर्ज्यो यश्चापि बालस्थविराबलानाम् ८६
ग्रन्थ्यर्बुदानां च यतोऽविशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः
ततश्चिकित्सेद्भिषगर्बुदानि विधानविद्ग्रन्थिचिकित्सितेन ८७
ताम्रा सशूला पिडका भवेद्या सा चालजी नाम परिस्रुताग्रा
शोफोऽक्षतश्चर्मनखान्तरे स्यान्मांसास्रदूषी भृशशीघ्रपाकः ८८
ज्वरान्विता वङ्क्षणकक्षजा या वर्तिर्निरर्तिः कठिनायता च
विदारिका सा कफमारुताभ्यां तेषां यथादोषमुपक्रमः स्यात् ८९
विस्रावणं पिण्डिकयोपनाहः पक्वैषु चैव व्रणवच्चिकित्सा
विस्फोटकाः सर्वशरीरगास्तु स्फोटा सरागज्वरतर्षयुक्ताः ९०
यज्ञोपवीतप्रतिमाः प्रभूताः पित्तानिलाभ्यां जनितास्तु कक्षाः
याश्चापराः स्युः पिडकाः प्रकीर्णाः स्थूलाणुमध्या अपि पित्तजास्ताः ९१
क्षुद्रप्रमाणाः पिडकाः शरीरे सर्वाङ्गगाः सज्वरदाहतृष्णाः
कण्डूयुताः सारुचिसप्रसेका रोमान्तिकाः पित्तकफात् प्रदिष्टाः ९२
याः सर्वगात्रेषु मसूरमात्रा मसूरिकाः पित्तकफात् प्रदिष्टाः
वीसर्पशान्त्यै विहिता क्रिया या तां तेषु कुष्ठे च हितां विदध्यात् ९३
ब्रध्नोऽनिलाद्यैर्वृषणे स्वलिङ्गैरन्त्रं निरेति प्रविशेन्मुहुश्च
मूत्रेण पूर्णं मृदु मेदसा चेत् स्निग्धं च विद्यात् कठिनं च शोथम् ९४
विरेचनाभ्यङ्गनिरूहलेपाः पक्वेषु चैव व्रणवच्चिकित्सा
स्यान्मूत्रसेकः कफजं विपाट्य विशोध्य सीव्येद्व्रणवच्च पक्वम् ९५
क्रिम्यस्थिसूक्ष्मक्षणनव्यवायप्रवाहणान्युत्कटकाश्वपृष्ठैः
गुदस्य पार्श्वे पिडका भृशार्तिः पक्वप्रभिन्ना तु भगन्दरः स्यात् ९६
विरेचनं चैषणपाटनं च विशुद्धमार्गस्य च तैलदाहः
स्यात् क्षारसूत्रेण सुपाचितेन छिन्नस्य चास्य व्रणवच्चिकित्सा ९७
जङ्घासु पिण्डीप्रपदोपरिष्टात् स्याच्छ्लीपदं मांसकफास्रदोषात्
सिराकफघ्नश्च विधिः समग्रस्तत्रेष्यते सर्षपलेपनं च ९८
मन्दास्तु पित्तप्रबलाः प्रदुष्टा दोषाः सुतीव्रं तनुरक्तपाकम्
कुर्वन्ति शोथं ज्वरतर्षयुक्तं विसर्पणं जालकगर्दभाख्यम् ९९
विलङ्घनं रक्तविमोक्षणं च विरूक्षणं कायविशोधनं च
धात्रीप्रयोगाञ् शिशिरान् प्रदेहान् कुर्यात् सदा जालकगर्दभस्य १००
एवंविधांश्चाप्यपरान् परीक्ष्य शोथप्रकाराननिलादिलिङ्गैः
शान्तिं नयेद्दोषहरैर्यथास्वमालेपनच्छेदनभेददाहैः १०१
प्रायोऽभिघातादनिलः सरक्तः शोथं सरागं प्रकरोति तत्र
वीसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म १०२
तत्र श्लोकः--
त्रिविधस्य दोषभेदात् सर्वार्धावयवगात्रभेदाच्च
श्वयथोर्द्विविधस्य तथा लिङ्गानि चिकित्सितं चोक्तम् १०३
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने श्वयथुचिकित्सितं
नाम द्वादशोऽध्यायः १२

त्रयोदशोऽध्यायः
अथात उदरचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे
तप्यमानं तपस्तीव्रं साक्षाद्धर्ममिव स्थितम् ३
आयुर्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्तकम्
पुनर्वसुं जितात्मानमग्निवेशोऽब्रवीद्वचः ४
भगवन्नुदरैर्दुःखैर्दृश्यन्ते ह्यर्दिता नराः
शुष्कवक्त्राः कृशैर्गात्रैराध्मातोदरकुक्षयः ५
प्रनष्टाग्निबलाहाराः सर्वचेष्टास्वनीश्वराः
दीनाः प्रतिक्रियाभावाज्जहतोऽसूननाथवत् ६
तेषामायतनं संख्यां प्राग्रूपाकृतिभेषजम्
यथावच्छ्रोतुमिच्छामि गुरुणा सम्यगीरितम् ७
सर्वभूतहितायर्षिः शिष्येणैवं प्रचोदितः
सर्वभूतहितं वाक्यं व्याहर्तुमुपचक्रमे ८
अग्निदोषान्मनुष्याणां रोगसङ्घाः पृथग्विधाः
मलवृद्ध्या प्रवर्तन्ते विशेषेणोदराणि तु ९
मन्देऽग्नौ मलिनैर्भुक्तैरपाकाद्दोषसंचयः
प्राणाग्न्यपानान् संदूष्य मार्गान्रुद्ध्वाऽधरोत्तरान् १०
त्वङ्मांसान्तरमागम्य कुक्षिमाध्मापयन् भृशन्
जनयत्युदरं तस्य हेतुं शृणु सलक्षणम् ११
अत्युष्णलवणक्षारविदाह्यम्लगराशनात्
मिथ्यासंसर्जनाद्रक्षविरुद्धाशुचिभोजनात् १२
प्लीहार्शोग्रहणीदोषकर्शनात् कर्मविभ्रमात्
क्लिष्टानामप्रतीकाराद्रौक्ष्याद्वेगविधारणात् १३
स्रोतसां दूषणादामात् संक्षोभादतिपूरणात्
अर्शोबालशकृद्रोधादन्त्रस्फुटनभेदनात् १४
अतिसंचितदोषाणां पापं कर्म च कुर्वताम्
उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः १५
क्षुन्नाशः स्वाद्वतिस्निग्धगुर्वन्नं पच्यते चिरात्
भुक्तं विदह्यते सर्वं जीर्णाजीर्णं न वेत्ति च १६
सहते नातिसौहित्यमीषच्छोफश्च पादयोः
शश्वद्ब्रलक्षयोऽल्पेऽपि व्यायामे श्वासमृच्छति १७
वृद्धिः पुरीषनिचयो रुक्षोदावर्तहेतुका
बस्तिसन्धौ रुगाध्मानं वर्धते पाट्यतेऽपि च १८
आतन्यते च जठरमपि लघ्वल्पभोजनात्
राजीजन्म वलीनाश इति लिङ्गं भविष्यताम् १९
रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि संचिताः
प्राणाग्न्यपानान् संदूष्य जनयन्त्युदरं नृणाम् २०
कुक्षेराध्मानमाटोपः शोफः पादकरस्य च
मन्दोऽग्निः श्लक्ष्णगण्डत्वं कार्श्यं चोदरलक्षणम् २१
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः
संभवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु २२
रुक्षाल्पभोजनायासवेगोदावर्तकर्शनैः
वायुः प्रकुपितः कुक्षिहृद्बस्तिगुदमार्गगः २३
हत्वाऽग्निं कफमुद्धूय तेन रुद्धगतिस्ततः
आचिनोत्युदरं जन्तोस्त्वङ्मांसान्तरमाश्रितः २४
तस्य रूपाणि -- कुक्षिपाणिपादवृषणश्वयथुः उदरविपाटनम् अनियतौ च
वृद्धिह्रासौ कुक्षिपार्श्वशूलोदावर्ताङ्गमर्दपर्वभेदशुष्ककासकार्श्यदौर्बल्यारोचकाविपाकाः अधोगुरुत्वं वातवर्चोमूत्रसङ्गः श्यावारुणत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम् अपि चोदरं तन्वसितराजीसिरासंततम् आहतमाध्मातदृतिशब्दवद्भवति वायुश्चोर्ध्वमधस्तिर्यक् च सशूलशब्दश्चरति एतद्वातोदरमिति विद्यात् २५
कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनैः
विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम् २६
प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम्
निहन्त्यामाशये वह्निं जनयत्युदरं ततः २७
तस्य रूपाणि -- दाहज्वरतृष्णामूर्च्छातीसारभ्रमाः कटुकास्यत्वं हरितहारिद्रत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम् अपि चोदरं नीलपीतहारिद्रहरितताम्रराजीसिरावनद्धं दह्यते दूयते धूप्यते ऊष्मायते स्विद्यते क्लिद्यते मृदुस्पर्शं क्षिप्रपाकं च भवति एतत् पित्तोदरमिति विद्यात् २८
अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलैः
दधिदुग्धौदकानूपमांसैश्चात्यतिसेवितैः २९
क्रुद्धेन श्लेष्मणा स्रोतःस्वावृतेष्वावृतोऽनिलः
तमेव पीडयन् कुर्यादुदरं बहिरन्त्रगः ३०
तस्य रूपाणि--गौरवारोचकाविपाकाङ्गमर्दाः सुप्तिः पाणिपादमुष्कोरुशोफः उत्क्लैशनिद्राकासश्वासाः शुक्लत्वं च नखनयनवदनत्वङ्मूत्रवर्चसाम् अपि चोदरं शुक्लराजीसिरासंततं गुरु स्तिमितं स्थिरं कठिनं च भवति एतच्छ्लेष्मोदरमिति विद्यात् ३१
दुर्बलाग्नेरपथ्यामविरोधिगुरुभोजनैः
स्त्रीदत्तैश्च रजोरोमविण्मूत्रास्थिनखादिभिः ३२
विषैश्च मन्दैर्वाताद्याः कुपिताः संचयं त्रयः
शनैः कोष्ठे प्रकुर्वन्तो जनयन्त्युदरं नृणाम् ३३
तस्य रूपाणि--सर्वेषामेव दोषाणां समस्तानि लिङ्गान्युपलभ्यन्ते वर्णाश्च सर्वे नखादिषु उदरमपि नानावर्णराजीसिरासंततं भवति एतत् सन्निपातोदरमिति विद्यात् ३४
अशितस्यातिसंक्षोभाद्यानयानातिचेष्टितैः
अतिव्यवायभाराध्ववमनव्याधिकर्शनैः ३५
वामपार्श्वाश्रितः प्लीहा च्युतः स्थानात् प्रवर्धते
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् ३६
तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्धमानः कच्छपसंस्थान उपलभ्यते स चोपेक्षितः क्रमेण कुक्षिं जठरमग्न्यधिष्ठानं च परिक्षिपन्नुदरमभिनिर्वर्तयति ३७
तस्य रूपाणि--
दौर्बल्यारोचकाविपाकवर्चोमूत्रग्रहतमःप्रवेशपिपासाङ्गमर्दच्छर्दिमूर्च्छाङ्गसा-दकासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैरस्यपर्वभेदकोष्ठवातशूलानि अपि चोदरमरुणवर्णं विवर्ण वा नीलहरितहारिद्रराजिमद्भवति एवमेव यकृदपि दक्षिणपार्श्वस्थं कुर्यात् तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठर एवावरोध इति एतत् प्लीहोदरमिति विद्यात् ३८
पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे
उदावर्तैस्तथाऽर्शोभिरन्त्रसंमूर्च्छनेन वा ३९
अपानो मार्गसंरोधाद्धत्वाऽग्निं कुपितोऽनिलः
वर्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः ४०
तस्य रूपाणि--तृष्णादाहज्वरमुखतालुशोषोरुसादकासश्वासदौर्बल्यारोचकाविपाक-वर्चोमूत्रसङ्गाध्मानच्छर्दिक्षवथुशिरोहृन्नाभिगुदशूलानि अपि चोदरं मूढवातं स्थिरमरुणं नीलराजि सिरावनद्धराजिकं वा प्रायो नाभुपरि गोपुच्छवदभिनिर्वर्तत इति एतद्ब्रद्धगुदोदरमिति विद्यात् ४१
शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः
भिद्येतान्त्रं यदा भुक्तैर्जृम्भयाऽत्यशनेन वा ४२
पाकं गच्छेद्रसस्तेभ्यश्छिद्रेभ्यः प्रस्रवद्बहिः
पूरयन् गुदमन्त्रं च जनयत्युदरं ततः ४३
तस्य रूपाणि--तदधो नाभ्याः प्रायोऽभिवर्धमानमुदकोदरं भवति यथाबलं च दोषाणां रूपाणि दर्शयति अपि चातुरः सलोहितनीलपीतपिच्छिलकुणपगन्ध्यामवर्च उपवेशते हिक्काश्वासकासतृष्णाप्रमेहारोचकाविपाकदौर्बल्यपरीतश्च भवति एतच्छिद्रोदरमिति विद्यात् ४४
स्नेहपीतस्य मन्दाग्नेः क्षीणस्यातिकृशस्य वा
अत्यम्बुपानान्नष्टेऽग्नौ मारुतः क्लोम्नि संस्थितः ४५
स्रोतःसु रुद्धमार्गेषु कफश्चोदकमूर्च्छितः
वर्धयेतां तदेवाम्बु स्वस्थानादुदराय तौ ४६
तस्य रूपाणि--अनन्नकाङ्क्षापिपासागुदस्रावशूलश्वासकासदौर्बल्यानि अपि चोदरं नानावर्णराजिसिरासंततमुदकपूर्णदृतिक्षोभसंस्पर्शं भवति एतदुदकोदरमिति विद्यात् ४७
तत्र अचिरोत्पन्नमनुपद्रवमनुदकमप्राप्तमुदरं त्वरमाणश्चिकित्सेत् उपेक्षितानां ह्येषां दोषाः स्वस्थानादपवृत्ता परिपाकाद्द्रवीभूताः सन्धीन् स्रोतांसि चोपक्लेदयन्ति स्वेदश्च बाह्येषु स्रोतःसु प्रतिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्याययति तत्र पिच्छोत्पत्तौ मण्डलमुदरं गुरु स्तिमितमाकोठितमशब्दं मृदुस्पर्शमपगतराजीकमाक्रान्तं नाभ्यामेवोपसर्पति ततोऽनन्तरमुदकप्रादुर्भावः तस्य रूपाणि--कुक्षेरतिमात्रवृद्धिः सिरान्तर्धानगमनम् उदकपूर्णदृति संक्षोभसंस्पर्शत्वं च ४८
तदाऽऽतुरमुपद्रवाः स्पृशन्ति--छर्द्यतीसारतमकतृष्णाश्वासकासहिक्कादौर्बल्यपार्श्वशूलारुचिस्वरभेदमूत्रसङ्गादयः तथाविधमचिकित्स्यं विद्यादिति ४९
भवन्ति चात्र--
वातात्पित्तात्कफात् प्लीह्नः सन्निपातात्तथोदकात्
परं परं कृच्छ्रतरमुदरं भिषगादिशेत् ५०
पक्षाद्बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा
प्रायो भवत्यभावाय च्छिद्रान्त्रं चोदरं नृणाम् ५१
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्
बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत् ५२
श्वयथुः सर्वमर्मोत्थः श्वासो हिक्काऽरुचिः सतृट्
मूर्च्छा च्छर्दिरतीसारो निहन्त्युदरिणं नरम् ५३
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ५४
अजातशोथमरुणं सशब्दं नातिभारिकम्
सदा गुडगुडायच्च सिराजालगवाक्षितम् ५५
नाभिं विष्टभ्य पायौ तु वेगं कृत्वा प्रणश्यति
हृन्नाभिवङ्क्षणकटीगुदप्रत्येकशूलिनः ५६
कर्कशं सृजतो वातं नातिमन्दे च पावके
लोलस्याविरसे चास्ये मूत्रेऽल्पे संहते विषि ५७
अजातोदकमित्येतैर्लिङ्गैर्विज्ञाय तत्त्वतः
उपाक्रमेद्भिषग्दोषबलकालविशेषवित् ५८
वातोदरं बलमतः पुर्वं स्नेहैरुपाचरेत्
स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम् ५९
हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम्
तथाऽस्यानवकाशत्वाद्वायुर्नाध्मापयेत् पुनः ६०
दोषातिमात्रोपचयात् स्रोतोमार्गनिरोधनात्
सम्भवत्युदरं तस्मान्नित्यमेव विरेचयेत् ६१
शुद्धं संसृज्य च क्षीरं बलार्थं पाययेत्तु तम्
प्रागुत्क्लैशान्निवर्त्यं च बले लब्धे क्रमात् पयः ६२
यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम्
सोदावर्त पुनः स्निग्धं स्विन्नमास्थापयेन्नरम् ६३
स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु
दीप्ताग्निं बद्धविड्वातं रूक्षमप्यनुवासयेत् ६४
तीक्ष्णाधोभागयुक्तोऽस्य निरूहो दाशमूलिकः
वातघ्नाम्लशृतैरण्डतिलतैलानुवासनम् ६५
अविरेच्यं तु यं विद्याद्दुर्बलं स्थविरं शिशुम्
सुकुमारं प्रकृत्याऽल्पदोषं वाऽथोल्बणानिलम् ६६
तं भिषक् शमनैः सर्पिर्यूषमांसरसौदनैः
बस्त्यभ्यङ्गानुवासैश्च क्षीरैश्चोपाचरेद्बुधः ६७
पित्तोदरे तु बलिनं पूर्वमेव विरेचयेत्
दुर्बलं त्वनुवास्यादौ शोधयेत् क्षीरबस्तिना ६८
संजातबलकायाग्निं पुनः स्निग्धं विरेचयेत्
पयसा सत्रिवृत्कल्केनोरुबूकशृतेन वा ६९
सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा
सकफे वा समूत्रेण सवाते तिक्तसर्पिषा ७०
पुनः क्षीरप्रयोगं च बस्तिकर्म विरेचनम्
क्रमेण ध्रुवमातिष्ठन् युक्तः पित्तोदरं जयेत् ७१
स्निग्धं स्विन्नं विशुद्धं तु कफोदरिणमातुरम्
संसर्जयेत् कटुक्षारयुक्तैरन्नैः कफापहैः ७२
गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा
सक्षारैस्तैलपानैश्च शमयेत्तु कफोदरम् ७३
सन्निपातोदरे सर्वा यथोक्ताः कारयेत् क्रियाः
सोपद्रवं तु निर्वृत्तं प्रत्याख्येयं विजानता ७४
उदावर्तरुजानाहैर्दाहमोहतृषाज्वरैः
गौरवारुचिकाठिन्यैश्चानिलादीन् यथाक्रमम् ७५
लिङ्गैःप्लीह्न्यधिकान् दृष्ट्वारक्तं चापि स्वलक्षणैः
चिकित्सां संप्रकुर्वीत यथादोषं यथाबलम् ७६
स्नेहं स्वेदं विरेकं च निरूहमनुवासनम्
समीक्ष्य कारयेद्बाहौ वामे वा व्यधयेत् सिराम् ७७
षट्पलं पाययेत् सर्पिः पिप्पलीर्वा प्रयोजयेत्
सगुडामभयां वाऽपि क्षारारिष्टगुणांस्तथा ७८
एष क्रियाक्रमः प्रोक्तो योगान् संशमनाञ्छृणु
पिप्पली नागरं दन्ती चित्रकं द्विगुणाभयम् ७९
विडङ्गांशयुतं चूर्णमेतदुष्णाम्बुना पिबेत्
विडङ्गं चित्रकं शुण्ठीं सघृतां सैन्धवं वचाम् ८०
दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत्
रोहीतकलतानां तु काण्डकानभयाजले ८१
मूत्रे वा सुनुयात्तच्च सप्तरात्रस्थितं पिबेत्
कामलागुल्ममेहार्शःप्लीहसर्वोदरक्रिमीन् ८२
स हन्याज्जाङ्गलरसैर्जीर्णे स्याच्चात्र भोजनम्
रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतिम् ८३
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत्
पलिकैःपञ्चकोलैस्तु तैः सर्वैश्चापि तुल्यया ८४
रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत्
प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम् ८५
तथा गुल्मोदरश्वासक्रिमिपाण्डुत्वकामलाः
अग्निर्कर्म च कुर्वीत भिषग्वातकफोल्बणे ८६
पैत्तिके जीवनीयानि सर्पींषि क्षीरबस्तयः
रक्तावसेकः संशुद्धिः क्षीरपानं च शस्यते ८७
यूषैर्मांसरसैश्चापि दीपनीयसमायुतैः
यकृति प्लीहवत् सर्वं तुल्यत्वाद्भेषजं मतम् ८८
लघून्यन्नानि संसृज्य दद्यात् प्लीहोदरे भिषक्
स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम् ८९
सतैललवणं दद्यान्निरूहं सानुवासनम्
परिस्रंसीनि चान्नानि तीक्ष्णं चैव विरेचनम् ९०
उदावर्तहरं कर्म कार्यं वातघ्नमेव च
छिद्रोदरभृते स्वेदाच्छ्लेष्मोदरवदाचरेत् ९१
जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक्
तृष्णाकासज्वरार्तं तु क्षीणमांसाग्निभोजनम् ९२
वर्जयेच्छ्वासिनं तद्वच्छूलिनं दुर्बलेन्द्रियम्
अपां दोषहराण्यादौ प्रदद्यादुदकोदरे ९३
मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च
दीपनीयैः कफघ्नैश्च तमाहारैरुपाचरेत् ९४
द्रवेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्वशः
सर्वमेवोदरं प्रायो दोषसङ्घातजं मतम् ९५
तस्मात्त्रिदोषशमनीं क्रियां सर्वत्र कारयेत्
दोषैः कुक्षौ हि संपूर्णे वह्निर्मन्दत्वमृच्छति ९६
तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि च
रक्तशालीन् यवान्मुद्गाञ्जाङ्गलांश्च मृगद्विजान् ९७
पयोमूत्रासवारिष्टान्मधुसीघुं तथा सुराम्
यवागूमोदनं वाऽपि पूषैरद्याद्रसैरपि ९८
मन्दाम्लस्नेहकटुभिः पञ्चमूलोपसाधितैः
औदकानूपजं मांसं शाकं पिष्टकृतं तिलान् ९९
व्यायामाध्वदिवास्वप्नं यानयानं च वर्जयेत्
तथोष्णलवणाम्लानि विदाहीनि गुरूणि च १००
नाद्यादन्नानि जठरी तोयपानं च वर्जयेत्
नातिसान्द्रं हितं पाने स्वादु तक्रमपेलवम् १०१
त्र्यूषणक्षारलवणैर्युक्तं तु निचयोदरी
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् १०२
शर्करामधुकोपेतं स्वादु पित्तोदरी पिबेत्
यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरी १०३
पिबेन्मधुयुतं तक्रं कवोष्णं नातिपेलवम्
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः १०४
युक्तं प्लीहोदरी जातं सव्योषं तूदकोदरी
बद्धोदरी तु हपुषायवान्यजाजिसैन्धवैः १०५
पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम्
गौरवारोचकार्तानां समन्दाग्न्यतिसारिणाम् १०६
तक्रं वातकफार्तानाममृतत्वाय कल्पते
शोफानाहार्तितृण्मूर्च्छापीडिते कारभं पयः १०७
शुद्धानां क्षामदेहानां गव्यं छागं समाहिषम्
देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः १०८
साश्वगन्धैः सगोमूत्रैः प्रदिह्यादुदरं समैः
वृश्चिकालीं वचां कुष्ठं पञ्चमूलीं पुनर्नवाम् १०९
भूतीकं नागरं धान्यं जले पक्त्वाऽवसेचयेत्
पलाशं कत्तृणं रास्नां तद्वत् पक्त्वाऽवसेचयेत् ११०
मूत्राण्यष्टावुदरिणां सेके पाने च योजयेत्
रूक्षाणां बहुवातानां तथा संशोधनार्थिनाम् १११
दीपनीयानि सर्पींषि जठरघ्नानि चक्ष्महे
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ११२
सक्षारैरर्धपलिकैर्द्विप्रस्थं सर्पिषः पचेत्
कल्कैर्द्विपञ्चमूलस्य तुलार्धस्वरसेन च ११३
दधिमण्डाढकोपेतं तत् सर्पिर्जठरापहम्
श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत् ११४
नागरत्रिफलाप्रस्थं घृततैलात्तथाऽऽढकम्
मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम् ११५
कफमारुतसंभूते गुल्मे चैतत् प्रशस्यते
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात् पले ११६
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्
यवकोलकुलत्थानां पञ्चमूलरसेन च ११७
सुरासौवीरकाभ्यां च सिद्धं वाऽपि पिबेद्घृतम्
एभिः स्निग्धाय संजाते बले शान्ते च मारुते ११८
स्रस्ते दोषाशये दद्यात् कल्पदिष्टं विरेचनम्
पटोलमूलं रजनीं विडङ्गं त्रिफलात्वचम् ११९
कम्पिल्लकं नीलिनीं च त्रिवृतां चेति चूर्णयेत्
षडाद्यान् कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान् १२०
कृत्वा चूर्णमतो मुष्टिं गवां मूत्रेण ना पिबेत्
विरक्तो मृदु भुञ्जीत भोजनं जाङ्गलै रसैः १२१
मण्डं पेयां च पीत्वा ना सव्योषं षडहं पयः
शृतं पिबेत्ततश्चूर्णं पिबेदेवं पुनः पुनः १२२
हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि
कामलां पाण्डुरोगं च श्वयथुं चापकर्षति १२३
पटोलाद्यमिदं चूर्णमुदरेषु प्रपूजितम्
गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम् १२४
पिबेद्द्राक्षाम्बुगोमूत्रकोलकर्कन्धुसीधुभिः
यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका १२५
कारवी पिप्पलीमूलमजगन्धा शटी वचा
शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रका १२६
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम्
विडङ्गं च समांशानि दन्त्या भागत्रयं तथा १२७
त्रिवृद्विशाले द्विदुणे सातला स्याच्चतुर्गुणा
एतन्नारायणं नाम चूर्णं रोगगणापहम् १२८
नैनत् प्राप्यातिवर्तन्ते रोगा विष्णुमिवासुराः
तक्रेणोदरिभिः पेयं गुल्मिभिर्बदराम्बुना १२९
आनद्धवाते सुरया वातरोगे प्रसन्नया
दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसैः १३०
परिकर्ते सवृक्षाम्लमुष्णाम्बुभिरजीर्णके
भगन्दरे पाण्डुरोगे श्वासे कासे गलग्रहे १३१
हृद्रोगे ग्रहणीदोषे कुष्ठे मन्देऽनले ज्वरे
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे १३२
यथार्हं स्निग्धकोष्ठेन पैयमेतद्विरेचनम्
इति नारायणचूर्णम्
हपुषां काञ्चनक्षीरीं त्रिफलां कटुरोहिणीम् १३३
नीलिनीं त्रायमाणां च सातलां त्रिवृतां वचाम्
सैन्धवं काललवणं पिप्पलीं चेति चूर्णयेत् १३४
दाडिमत्रिफलामांसरसमूत्रसुखोदकैः
पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च १३५
श्वित्रे कुष्ठे सरुजके सवाते विषमाग्निषु
शोथार्शःपाण्डुरोगेषु कामलायां हलीमके १३६
वातं पित्तं कफं चाशु विरेकात् संप्रसाधयेत्
इति हपुषाद्यं चूर्णम्
नीलिनीं निचुलं व्योषं द्वौ क्षारौ लवणानि च १३७
चित्रकं च पिबेच्चुर्णं सर्पिषोदरगुल्मनुत्
इति नीलिन्याद्यं चूर्णम्
क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि १३८
जातं विमथ्य तद्युक्त्या त्रिवृत्सिद्धं पिबेद्घृतम्
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत् १३९
स्नुक्क्षीरपलकल्केन त्रिताषट्पलेन च
गुल्मानां गरदोषाणामुदराणां च शान्तये १४०
दधिमण्डाढके सिद्धात् स्नुक्क्षीरपलकल्कितात्
घृतप्रस्थात् पिबेन्मात्रां तद्वज्जठरशान्तये १४१
एषां चानु पिबेत् पेयां पयो वा स्वादु वा रसम्
घृते जीर्णे विरक्तस्तु कोष्णं नागरकैः शृतम् १४२
पिबेदम्बु ततः पेयां यूषं कोलत्थकं ततः
पिबेद्रूक्षस्त्र्यहं त्वेवं भूयो वा प्रतिभोजितः १४३
पुनः पुनः पिबेत् सर्पिरानुपूर्व्या तयैव च
घृतान्येतानि सिद्धानि विदध्यात् कुशलो भिषक् १४४
गुल्मानां गरदोषाणामुदराणां च शान्तये
इति स्नुहीक्षीरघृतम्
पीलुकल्कोपसिद्धं वा घृत्मानाहभेदनम् १४५
गुल्मघ्नं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत्
क्रमान्निर्हृतदोषाणां जाङ्गलप्रतिभोजिनाम् १४६
दोषशेषनिवृत्त्यर्थं योगान् वक्ष्याम्यतः परम्
चित्रकामरदारुभ्यां कल्कं क्षीरेण ना पिबेत् १४७
मासं युक्तस्तथा हस्तिपिप्पली विश्वभेषजम्
विडङ्गं चित्रकं दन्ती चव्यं व्योषं च तैः पयः १४८
कल्कैः कोलसमैः पीत्वा प्रवृद्धमुदरं जयेत्
पिबेत् कषायं त्रिफलादन्तीरोहितकैः शृतम् १४९
व्योषक्षारयुतं जीर्णे रसैरद्यात्तु जाङ्गलैः
मांसं वा भोजनं भोज्यं सुधाक्षीरघृतान्वितम् १५०
क्षीरानुपानां गोमूत्रेणाभयां वा प्रयोजयेत्
सप्ताहं माहिषं मूत्रं क्षीरं चानन्नभुक् पिबेत् १५१
मासमौष्ट्रं पयश्छागं त्रीन्मासान् व्योषसंयुतम्
हरीतकीसहस्रं वा क्षीराशी वा शिलाजतु १५२
शिलाजतुविधानेन गुग्गुलुं वा प्रयोजयेत्
शृङ्गवेरार्द्रकरसः पाने क्षीरसमो हितः १५३
तैलं रसेन तेनैव सिद्धं दशगुणेन वा
दन्तीद्रवन्तीफलजं तैलं दूष्योदरे हितम् १५४
शूलानाहविबन्धेषु मस्तुयूषरसादिभिः
सरलामधुशिग्रूणां बीजेभ्यो मूलकस्य च १५५
तैलान्यभ्यङ्गपानार्थं शूलघ्नान्यनिलोदरे
स्तैमित्यारुचिहृल्लासे मन्देऽग्नौ मद्यपाय च १५६
अरिष्टान् दापयेत् क्षारान् कफस्त्यानस्थिरोदरे
श्लेष्मणो विलयार्थं तु दोषं वीक्ष्य भिषग्वरः १५७
पिप्पलीं तिल्वकं हिङ्गु नागरं हस्तिपिप्पलीम्
भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम् १५८
देवदारु हरिद्रे द्वै सरलातिविषे वचाम्
कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य च १५९
दधिसर्पिर्वसामज्जतैलयुक्तानि दाहयेत्
अन्नादूर्ध्वमतः क्षाराद्बिडालकपदं पिबेत् १६०
मदिरादधिमण्डोष्णजलारिष्टसुरासवैः
हृद्रोगं श्वयथुं गुल्मं प्लीहार्शोजठराणि च १६१
विसूचिकामुदावर्तं वाताष्ठीलां च नाशयेत्
क्षारं चाजकरीषाणां स्रुतं मूत्रैर्विपाचयेत् १६२
कार्षिकं पिप्पलीमूलं पञ्चैव लवणानि च
पिप्पलीं चिरकं शुण्ठीं त्रिफलां त्रिवृतां वचाम् १६३
द्वौ क्षारौ सातलां दन्तीं स्वर्णक्षीरीं विषाणिकाम्
कोलप्रमाणां वटिकां पिबेत् सौवीरसंयुताम् १६४
श्वयथावविपाके च प्रवृद्धे च दकोदरे
भावितानां गवां मूत्रे षष्टिकानां तु तण्डुलैः १६५
यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्
पिबेदिक्षुरसं चानु जठराणां निवृत्तये १६६
स्वं स्वं स्थानं व्रजन्त्येवं तथा पित्तकफानिलाः
शङ्खिनीस्नुक्त्रिवृद्दन्तीचिरबिल्वादिपल्लवैः १६७
शाकं गाढपुरीषाय प्राग्भक्तं दापयेद्भिषक्
ततोऽस्मै शिथिलीभूतवर्चोदोषाय शास्त्रवित् १६८
दद्यान्मूत्रयुतं क्षीरं दोषशेषहरं शिवम्
पार्श्वशूलमुपस्तम्भं हृद्ग्रहं चापि मारुतः १६९
जनयेद्यस्य तं तैलं बिल्वक्षारेण पाययेत्
तथाऽग्निमन्थस्योनाकपलाशतिलनालजैः १७०
बलाकदल्यपामार्गक्षारैः प्रत्येकशः स्रुतैः
तैलं पक्त्वा भिषग्दद्यादुदराणां प्रशान्तये १७१
निवर्तते चोदरिणां हृद्ग्रहश्चानिलोद्भवः
कफे वातेन पित्तेन ताभ्यां वाऽप्यावृतेऽनिले १७२
बलिनः स्वौषधयुतं तैलमेरण्डजं हितम्
सुविरिक्तो नरो यस्तु पुनराध्मापितो भवेत् १७३
सुस्निग्धैरम्ललवणैर्निरूहैस्तमुपाचरेत्
सोपस्तम्भोऽपि वा वायुराध्मापयति यं नरम् १७४
तीक्ष्णैः सक्षारगोमूत्रैर्बस्तिभिस्तमुपाचरेत्
क्रियातिवृत्ते जठरे त्रिदोषे चाप्रशाम्यति १७५
ज्ञातीन् ससुहृदो दारान् ब्राह्मणान्नृपतीन् गुरून्
अनुज्ञाप्य भिषक् कर्म विदध्यात् संशयं ब्रवन् १७६
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्
एवमाख्याय तस्येदमनुज्ञातः सुहृद्गणैः १७७
पानभोजनसंयुक्तं विषमस्मै प्रयोजयेत्
यस्मिन् वा कुपितः सर्पो विसृजेद्धि फले विषम् १७८
भोजयेत्तदुदरिणं प्रविचार्य भिषग्वरः
तेनास्य दोषसङ्घातः स्थिरो लीनो विमार्गगः १७९
विषेणाशुप्रमाथित्वादाशु भिन्नः प्रवर्तते
विषेण हृतदोषं तं शीताम्बुपरिषेचितम् १८०
पाययेत् भिषग्दुग्धं यवागूं वा यथाबलम्
त्रिवृन्मण्डूकपर्ण्योश्च शाकं सयववास्तुकम् १८१
भक्षयेत् कालशाकं वा स्वरसोदकसाधितम्
निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक् १८२
मासमेकं ततश्चैव तृषितः स्वरसं पिबेत्
एवं विनिर्हृते दोषे शाकैर्मासात् परं ततः १८३
दुर्बलाय प्रयुञ्जीत प्राणभृत् कारभं पयः
इदं तु शल्यहर्तॄणां कर्म स्याद्दृष्टकर्मणाम् १८४
वामं कुक्षिं मापयित्वा नाभ्यधश्चतुरङ्गुलम्
मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक् १८५
विपाट्यान्त्रं ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः
सर्पिषाऽभ्यज्य केशादीनवमृज्य विमोक्षयेत् १८६
मूर्च्छनाद्यच्च संमूढमन्त्रं तच्च विमोक्षयेत्
भिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिप्पीलिकैः १८७
बहुशः संगृहीतानि ज्ञात्वा च्छित्वा पिपीलिकान्
प्रतियोगैः प्रवेश्यान्त्रं प्रेयैः सीव्येद्द्रणं ततः १८८
तथा जातोदकं सर्वमुदरं व्यधयेद्भिषक्
वामपार्श्वे त्वधो नाभेर्नाडीं दत्त्वा च गालयेत् १८९
विस्राव्य च विमृद्यैतद्वेष्टयेद्वाससोदरम्
तथा बस्तिविरेकाद्यैर्म्लानं सर्वं च वेष्टयेत् १९०
निःस्रुते लङ्घितः पेयामस्नेहलवणां पिबेत्
अतः परं तु षण्मासान् क्षीरवृत्तिर्भवेन्नरः १९१
त्रीन् मासान् पयसा पेयां पिबेत्त्रींश्चापि भोजयेत्
श्यामाकं कोरदूषं वा क्षीरेणालवणं लघु १९२
नरः संवत्सरेणैवं जयेत् प्राप्तं जलोदरम्
प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत् १९३
दोषानुबन्धरक्षार्थं बलस्थैर्यार्थमेव च
प्रयोगापचिताङ्गानां हितं ह्युदरिणां पयः
सर्वधातुक्षयार्तानां देवानाममृतं यथा १९४
तत्र श्लोकौ--
हेतुं प्राग्रूपमष्टानां लिङ्गं व्याससमासतः
उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव च १९५
जाताजाताम्बुलिङ्गानि चिकित्सां चोक्तवानृषिः
समासव्यासनिर्देशैरुदराणां चिकित्सिते १९६
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सास्थाने उदरचिकित्सितं
नाम त्रयोदशोऽध्यायः १३

चतुर्दशोऽध्यायः
अथातोऽर्शाश्चिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
आसीनं मुनिमव्यग्रं कृतजाप्यं कृतक्षणम्
पृष्टवानर्शसां युक्तमग्निवेशः पुनर्वसुम् ३
प्रकोपहेतुं संस्थानं स्थानं लिङ्गं चिकित्सितम्
साध्यासाध्यविभागं च तस्मै तन्मुनिरब्रवीत् ४
इह खल्वग्निवेश द्विविधान्यर्शांसिकानिचित् सहजानि कानिचिज्जातस्योत्तरकालजानि तत्र बीजं गुदवलिबीजोपतप्तमायतनमर्शसां सहजानाम् तत्र द्विविधो बीजोपतप्तौ हेतुःमातापित्रोरपचारः पूर्वकृतं च कर्म तथाऽन्येषामपि सहजानां विकाराणाम् तत्र सहजानि सह जातानि शरीरेण अर्शांसीत्यधिमांसविकाराः ५
सर्वेषां चार्शसां क्षेत्रं--गुदस्यार्धपञ्चमाङ्गुलावकाशे त्रिभागान्तरास्तिस्रो गुदवलयः क्षेत्रमिति केचित्तु भूयांसमेव देशमुपदिशन्त्यर्शसांशिश्नमपत्यपथं गलतालुमुखनासिकाकर्णाक्षिवर्त्मानि त्वक् चेति तदस्त्यधिमांसदेशतया गुदवलिजानां त्वर्शांसीति संज्ञा तन्त्रेऽस्मिन् सर्वेषां चार्शसामधिष्ठानंमेदो मांसं त्वक् च ६
तत्र सहजान्यर्शांसि कानिचिदणूनि कानिचिन्महान्ति कानिचिद्दीर्घाणि कानिचिद्ध्रस्वानि कानिचिद्वृत्तानि कानिचिद्विषमविसृतानि कानिचिदन्तः कुटिलानि कानिचिद्बहिःकुटिलानि कानिचिज्जटिलानि कानिचिदन्तर्मुखानि यथास्व दोषानुबन्धवर्णानि ७
तैरुपहतो जन्मप्रभृति भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुरविबद्धवातमूत्रपुरीषः शर्कराश्मरीमान् तथाऽनियतविबद्धमुक्तपक्वामशुष्कभिन्नवर्चा अन्तराऽन्तरा श्वेतपाण्डुहरितपीतरक्तारुणतनुसान्द्रपिच्छिलकुणपगन्ध्यामपुरीषोपवेशी नाभिबस्तिवङ्क्षणोद्देशे प्रचुरपरिकर्तिकान्वितः सगुदशूलप्रवाहिकापरिहर्षप्रमेहप्रसक्तविष्टम्भान्त्रकूजोदावर्तहृदयेन्द्रियोपलेपः प्रचुरविबद्धतिक्ताम्लोद्गारः सुदुर्बलः सुदुर्बलाग्निः अल्पशुक्रः क्रोधनो दुःखोपचारशीलः कासश्वासतमकतृष्णाहृल्लासच्छर्द्यरोचकाविपाकपीनसक्षवथुपरीतः तैमिरिकः शिरःशूली क्षामभिन्नसन्नसक्तजर्जरस्वरः कर्णरोगी शूनपाणिपादवदनाक्षिकूटः सज्वरः साङ्गमर्दः सर्वपर्वास्थिशूली च अन्तराऽन्तरा पार्श्वकुक्षिबस्तिहृदयपृष्ठत्रिकग्रहोपतप्तः प्रध्यानपरः परमालसश्चेति जन्मप्रभृत्यस्य गुदजैरावृतो मार्गोपरोधाद्वायुरपानः प्रत्यारोहन् समानव्यानप्राणोदानान् पित्तश्लेष्माणौ च प्रकोपयति एते सर्व एव प्रकुपिताः पञ्च वायवः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त एतान् विकारानुपजनयन्ति इत्युक्तानि सहजान्यर्शांसि ॥ ८
अत ऊर्ध्वं जातस्योत्तरकालजानि व्याख्यास्यामः गुरुमधुरशीताभिष्यन्दिविदाहिविरुद्धाजीर्णप्रमिताशनासात्म्यभोजनाद्गव्यमा-त्स्यवाराहमाहिषाजाविकपिशितभक्षणात् कृशशुष्कपूतिमांसपैष्टिकपरमान्न-क्षीरदधिमण्डतिलगुडविकृतिसेवनान्माषयूषेक्षुरसपिण्याकपिण्डालुकशु-ष्कशाकशुक्तलशुनकिलाटतक्रपिण्डकबिसमृणालशालूकक्रौञ्चादनकशेरु-कशृङ्गाटकतरूटविरूढनवशूकशमीधान्याममूलकोपयोगाद्गुरुफलशाक-रागहरितकमर्दकवसाशिरस्पदपर्युषितपूतिशीतसङ्कीर्णान्नाभ्यवहारान्मन्दका-तिक्रान्तमद्यपानाद्व्यापन्नगुरुसलिलपानादतिस्नेहपानादसंशोधनाद्बस्तिकर्म-विभ्रमादव्यायामादव्यवायाद्दिवास्वप्नात् सुखशयनासनस्थानसेवनाच्चोप-हताग्नेर्मलोपचयो भवत्यतिमात्रं तथोत्कटकविषमकठिनासनसेवनादुद्भ्रान्त-यानोष्ट्रयानादतिव्यवायाद्बस्तिनेत्रासम्यक्प्रणिधानाद्गुदक्षणनादभीक्ष्णं शीताम्बुसंस्पर्शाच्चेललोष्टतृणादिघर्षणात् प्रततातिनिर्वाहणाद्वातमूत्रपुरीषवेगोदीरणात् समुदीर्णवेगविनिग्रहात् स्त्रीणां चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतिभिश्च प्रकुपितो वायुरपानस्तं मलमुपचितमधोगमासाद्य गुदवलिष्वाधत्ते ततस्तास्वर्शांसि प्रादुर्भवन्ति ९
सर्षपमसूरमाषमुद्गमकुष्ठकयवकलायपिण्डिटिण्टिकेरकेबुकतिन्दुककर्कन्धुकाक-णन्तिकाबिम्बीबदरकरीरोदुम्बरखर्जूरजाम्बवगोस्तनाङ्गुष्ठकशेरुशृङ्गा-टकशृङ्गीदक्षशिखिशुकतुण्डजिह्वापद्ममुकुलकर्णिकासंस्थानानि सामान्याद्वातपित्तकफप्रबलानि १०
तेषामयं विशेषः--शुष्कम्लानकठिनपरुषरूक्षश्यावानि तीक्ष्णाग्राणि वक्राणि स्फुटितमुखानि विषमविसृतानि शूलाक्षेपतोदस्फुरणचिमिचिमासंहर्षपरीतानि स्निग्धोष्णोपशयानि प्रवाहिकाध्मानशिश्नवृषणबस्तिबङ्क्षणहृद्ग्रहाङ्गमर्दहृदयद्रवप्रबलानि प्रततविबद्धवातमूत्रबर्चांसि ऊरुकटीपृष्टत्रिक-पार्श्वकुक्षिबस्तिशूलशिरोऽभितापक्षवथूद्गारप्रतिश्यायकासोदावर्तायामशोष-शोथमूर्च्छारोचकमुखवैरस्यतैमिर्यकण्डूनासाकर्णशङ्खशूलस्वरोपघातकराणि श्यावारुणपरुषनखनयनवदनत्वङ्मूत्रपुरीषस्य वातोल्बणान्यर्शांसीति विद्यात् ॥ ११
भवतश्चात्र--
कषायकटुतिक्तानि रूक्षशीतलघूनि च
प्रमिताल्पाशनं तीक्ष्णमद्यमैथुनसेवनम् १२
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः १३
मृदुशिथिलसुकुमाराण्यस्पर्शसहानि रक्तपीतनीलकृष्णानि स्वेदोपक्लेदबहुलानि विस्रगन्धितनुपीतरक्तस्रावीणि रुधिरवहानि दाहकण्डूशूलनिस्तोदपाकवन्ति शीतोपशयानि संभिन्नपीतहरितवर्चांसि पीतविस्रगन्धिप्रचुरविण्मूत्राणि पिपासाज्वरतमकसंमोहभोजनद्वेषकराणि पीतनखनयनत्वङ्मूत्रपुरीषस्य पित्तोल्बणान्यर्शांसीति विद्यात् १४
भवतश्चात्र--
कटूष्णलवणक्षारव्यायामाग्न्यातपप्रभाः
देशकालावशिशिरौ क्रोधो मद्यमसूयनम् १५
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम् १६
तत्र यानि प्रमाणवन्ति उपचितानि श्लक्ष्णानि स्पर्शसहानि स्निग्धश्वेतपाण्डुपिच्छिलानि स्तब्धानि गुरूणि स्तिमितानि सुप्तसुप्तानि स्थिरश्वयथूनि कण्डूबहुलानि बहुप्रततपिञ्जरश्वेतरक्तपिच्छास्रावीणि गुरुपिच्छिलश्वेतमूत्रपुरीषाणि रूक्षोष्णोपशयानि प्रवाहिकातिमात्रोत्थानवङ्क्षणानाहवन्ति परिकर्तिकाहृल्लासनिष्ठीविकाकासारोचकप्रतिश्यायगौरवच्छर्दिमूत्रकृच्छ्रशोषशो-थपाण्डुरोगशीतज्वराश्मरीशर्कराहृदयेन्द्रियोपलेपास्यमाधुर्यप्रमेहकराणि दीर्घकालानुबन्धीनि अतिमात्रमग्निमार्दवक्लैब्यकराणि आमविकारप्रबलानि शुक्लनखनयनवदनत्वङ्मूत्रपुरीषस्य श्लेष्मोल्बणान्यर्शांसीति विद्यात् १७
भवतश्चात्र--
मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः १८
प्राग्वातसेवा शीतौ च देशका लावचिन्तनम्
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम् १९
हेतुलक्षणसंसर्गाद्विद्याद्वन्द्वोल्बणानि च
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणैः समम् २०
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता २१
ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये २२
अर्शांसि खलु जायन्ते नासन्निपतितैस्त्रिभिः
दोषैर्दोषविशेषात्तु विशेषः कल्प्यतेऽर्शसाम् २३
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे २४
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च २५
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः २६
हृत्पार्श्वशूलं संमोहश्छर्दिरङ्गस्य रुग् ज्वरः
तृष्णा गुदस्य पाकश्च निहन्युर्गुदजातुरम् २७
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां बलिम्
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत् २८
शेषत्वादायुषस्तानि चतुष्पादसमन्विते
याप्यन्ते दीप्तकायाग्ने प्रत्याख्येयान्यतोऽन्यथा २९
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ३०
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च
अर्शांसि सुखसाध्यानि न चिरोत्पाततानि च ३१
तेषां प्रशमने यत्नमाशु कुर्याद्विचक्षणः
तान्याशु हि गुदं वद्ध्वा कुयुर्बद्धगुदोदरम् ३२
तत्राहुरेके शस्त्रेण कर्तनं हितमर्शसाम्
दाहं क्षारेण चाप्येके दाहमेके तथाऽग्निना ३३
अस्त्येतद्भूरितन्त्रेण धीमता दृष्टकर्मणा
क्रियते त्रिविधं कर्म भ्रंशस्तत्र सुदारुणः ३४
पुंस्त्वोपघातः श्वयथुर्गुदे वेगविनिग्रहः
आध्मानं दारुणं शूलं व्यथा रक्ततिवर्तनम् ३५
पुनर्विरोहो रूढानां क्लेदो भ्रंशो गुदस्य च
मरणं वा भवेच्छीघ्रं शस्त्रक्षाराग्निविभ्रभात् ३६
यत्तु कर्म सुखोपायमल्पभ्रंशमदारुणम्
तदर्शसां प्रवक्ष्यामि समूलानां निवृत्तये ३७
वातर्श्लेष्मोल्बणान्याहुः शुष्काण्यर्शांसि तद्विदः
प्रस्रावीणि तथाऽऽर्द्राणि रक्तपित्तोल्बणानि च ३८
तत्र शुष्कार्शसां पूर्वं प्रवक्ष्यामि चिकित्सितम्
स्तब्धानि स्वेदयेत् पूर्वं शोफशूलान्वितानि च ३९
चित्रकक्षारबिल्वानां तैलेनाभ्यज्य बुद्धिमान्
यवमाषकुलत्थानां पुलाकानां च पोट्टलैः ४०
गोखराश्वशकृत्पिण्डैस्तिलकल्कैस्तुषैस्तथा
वचाशताह्वापिण्डैर्वा सुखोष्णैः स्नेहसंयुतैः ४१
शक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा
शुष्कमूलकपिण्डैर्वा पिण्डैर्वा कार्ष्णगन्धिकैः ४२
रास्नापिण्डैः सुखोष्णैर्वा सस्नेहैर्हापुषैरपि
इष्टकस्य खराह्णायाः शाकैर्गृञ्जनकस्य वा ४३
अभ्यज्य कुष्ठतैलेन स्वेदयेत् पोट्टलीकृतैः
वृषार्कैरण्डबिल्वानां पत्रोत्क्वाथैश्च सेचयेत् ४४
मूलकत्रिफलार्काणां वेणूनां वरुणस्य च
अग्निमन्थस्य शिग्रोश्च पत्राण्यश्मन्तकस्य च ४५
जलेनोत्क्वाथ्य शूलार्तं स्वभ्यक्तमवगाहयेत्
कोलोत्क्वाथेऽथवा कोष्णे सौवीरकतुषोदके ४६
बिल्वक्वाथेऽथवा तक्रे दधिमण्डाम्लकाञ्जिके
गोमूत्रे वा सुखोष्णे तं स्वभ्यक्तमवगाहयेत् ४७
कृष्णसर्पवराहोष्ट्रजतुकावृषदंशजाम्
वसामभ्यञ्जने दद्याद्धूपनं चार्शसां हितम् ४८
नृकेशाः सर्पनिर्मोको वृषदंशस्य चर्म च
अर्कमूलं शमीपत्रमर्शोभ्यो धूपनं हितम् ४९
तुम्बुरूणि विडङ्गानि देवदार्वक्षता घृतम्
बृहती चाश्वगन्धा च पिप्पल्यः सुरसा घृतम् ५०
वराहवृषविट् चैव धूपनं सक्तवो घृतम्
कुञ्जरस्य पुरीषं तु घृतं सर्जरसस्तथा ५१
हरिद्राचूर्णसंयुक्तं सुधाक्षीरं प्रलेपनम्
गोपित्तपिष्टाः पिप्पल्यः सहरिद्राः प्रलेपनम् ५२
शिरीषबीजं कुष्ठं च पिप्पल्यः सैन्धवं गुडः
अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम् ५३
पिप्पल्यश्चित्रकः श्यामा किण्वं मदनतण्डुलाः
प्रलेपः कुक्कुटशकृद्धरिद्रागुडसंयुतः ५४
दन्ती श्यामाऽमृतासङ्गः पारावतशकृद्गुडः
प्रलेपः स्याद्गजास्थीनि निम्बो भल्लातकानि च ५५
प्रलेपः स्यादलं कोष्णं वासन्तकवसायुतम्
शूलश्वयथुहृद्युक्तं चुलूकीवसयाऽथवा ५६
आर्कं पयः सुधाकाण्डं कटुकालाबुपल्लवाः
करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम् ५७
अभ्यङ्गाद्याः प्रदेहान्ता य एते परिकीर्तिताः
स्तम्भश्वयथुकण्ड्वर्तिशमनास्तेऽर्शसां मताः ५८
प्रदेहान्तैरुपक्रान्तान्यर्शांसि प्रस्रवन्ति हि
सञ्चितं दुष्टरुधिरं ततः संपद्यते सुखी ५९
शीतोष्णस्निग्धरूक्षैर्हि न व्याधिरुपशाम्यति
रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत् ६०
जलौकोभिस्तथा शस्त्रैः सूचीभिर्वा पुनः पुनः
अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत् ६१
गुदश्वयथुशूलार्तं मन्दाग्निं पाययेत्तु तम्
त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम् ६२
सौवर्चलं पुष्कराख्यमजाजीं बिल्वपेषिकाम्
बिडं यवानीं हपुषां विडङ्गं सैन्धवं वचाम् ६३
तिन्तिडीकं च मण्डेन मद्येनोष्णोदकेन वा
तथाऽर्शोग्रहणीदोषशूलानाहाद्विमुच्यते ६४
पाचनं पाययेद्वा तद्यदुक्तं ह्यातिसारिके
सगुडामभयां वाऽपि प्राशयेत् पौर्वभक्तिकीम् ६५
पाययेद्वा त्रिवृच्चूर्णं त्रिफलारससंयुतम्
हृते गुदाश्रये दोषे गच्छन्त्यर्शांसि सङ्क्षयम् ६६
गोमूत्राध्युषितां दद्यात् सगुडां वा हरीतकीम्
हरीतकीं तक्रयुतां त्रिफलां वा प्रयोजयेत् ६७
सनागरं चित्रकं वा सीधुयुक्तं प्रयोजयेत्
दापयेच्चव्ययुक्तं वा सीधुं साजाजिचित्रकम् ६८
सुरां सहपुषापाठां दद्यात् सौवर्चलान्विताम्
दधित्थबिल्वसंयुक्तं युक्तं वा चव्यचित्रकैः ६९
भल्लातकयुतं वाऽपि प्रदद्यात्तक्रतर्पणम्
बिल्वनागरयुक्तं वा यवान्या चित्रकेण च ७०
चित्रकं हपुषां हिङ्गुं दद्याद्वा तक्रसंयुतम्
पञ्चकोलयुतं वाऽपि तक्रमस्मै प्रदापयेत् ७१
हपुषां कुञ्चिकां धान्यमजाजीं कारवीं शटीम्
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ७२
यवानीं चाजमोदां च चूर्णितं तक्रसंयुतम्
मन्दाम्लकटुकं विद्वान् स्थापयेद्घृतभाजने ७३
व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम्
प्रपिबेन्मात्रया कालेष्वन्नस्य तृपितस्त्रिषु ७४
दीपनं रोचनं वर्ण्यं कफवातानुलोमनम्
गुदश्वयथुकण्ड्वर्तिनाशनं बलवर्धनम् ७५
इति तक्रारिष्टः
त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत् ७६
वातश्लेष्मार्शसां तक्रात् परं नास्तीह भेषजम्
तत् प्रयोज्यं यथादोषं सस्नेहं रूक्षमेव वा ७७
सप्ताहं वा दशाहं वा पक्षं मासमथापि वा
बलकालविशेषज्ञो भिषक् तक्रं प्रयोजयेत् ७८
अत्यर्थमृदुकायाग्नेस्तक्रमेवावचारयेत्
सायं वा लाजशक्तूनां दद्यात्तक्रावलेहिकाम् ७९
जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम्
तक्रानुपानं सस्नेहं तक्रौदनमतः परम् ८०
यूषैर्मांसरसैर्वाऽपि भोजयेत्तक्रसंयुतैः
यूषै रसेन वाऽप्यूर्ध्वं तक्रसिद्धेन भोजयेत् ८१
कालक्रमज्ञः सहसा न च तक्रं निवर्तयेत्
तक्रप्रयोगो मासान्तः क्रमेणोपरमो हितः ८२
अपकर्षो यथोत्कर्षो न त्वन्नादपकृष्यते
शक्त्यागमनरक्षार्थं दार्ढ्यार्थमनलस्य च ८३
बलोपचयवर्णार्थमेष निर्दिश्यते क्रमः
रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम् ८४
तक्रं दोषाग्निबलवित्त्रिविधं तत् प्रयोजयेत्
हतानि न विरोहन्ति तक्रेण गुदजानि तु ८५
भूमावपि निषिक्तं तद्दहेत्तक्रं तृणोलुपम्
किं पुनर्दीप्तकायाग्नेः शुष्काण्यर्शांसि देहिनः ८६
स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः
तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते ८७
वातश्लेष्मविकाराणां शतं चापि निवर्तते
नास्ति तक्रात् परं किञ्चिदौषधं कफवातजे ८८
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्
शृङ्गवेरमजाजीं च कारवीं धान्यतुम्बुरु ८९
बिल्वं कर्कटकं पाठां पिष्ट्वा पेयां विपाचयेत्
फलाम्लां यमकैर्भृष्टां तां दद्याद्गुदजापहाम् ९०
एतैश्चैव खडान् कुर्यादेतैश्च विपचेज्जलम्
एतैश्चैव घृतं साध्यमर्शसां विनिवृत्तये ९१
शटीपलाशसिद्धां वा पिप्पल्या नागरेण वा
दद्याद्यवागूं तक्राम्लां मरिचैरवचूर्णिताम् ९२
शुष्कमूलकयूषं वा यूषं कौलत्थमेव वा
दधित्थबिल्वयूषं वा सकुलत्थमकुष्ठकम् ९३
छागलं वा रसं दद्याद्यूषैरेभिर्विमिश्रितम्
लावादीनां फलाम्लं वा सतक्रं ग्राहिभिर्युतम् ९४
रक्तशालिर्महाशालि कलमो लाङ्गलः सितः
शारदः षष्टिकश्चैव स्यादन्नविधिरर्शसाम् ९५
इत्युक्तो भिन्नशकृतामर्शसां च क्रियाक्रमः
येऽत्यर्थं गाढशकृतस्तेषां वक्ष्यामि भेषजम् ९६
सस्नेहैः शक्तुभिर्युक्तां प्रसन्नां लवणीकृताम्
दद्यान्मत्स्यण्डिकां पूर्वं भक्षयित्वा सनागराम् ९७
गुडं सनागरं पाठां फलाम्लं पाययेच्च तम्
गुडं घृतयवक्षारयुक्तं वाऽपि प्रयोजयेत् ९८
यवानीं नागरं पाठां दाडिमस्य रसं गुडम्
सतक्रलवणं दद्याद्वातवर्चोऽनुलोमनम् ९९
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम् १००
प्राग्भक्तं यमके भृष्टान् सक्तुभिश्चावचूर्णितान्
करञ्जपल्लवान् दद्याद्वातवर्चोऽनुलोमनान् १०१
मदिरां वा सलवणां सीधुं सावीरकं तथा
गुडनागरसंयुक्तं पिबेद्वा पौर्वभक्तिकम् १०२
पिप्पलीनागरक्षारकारवीधान्यजीरकैः
फाणितेन च संयोज्य फलाम्लं दापयेद्घृतम् १०३
पिप्पलीपिप्पलीमूलं चित्रको हस्तिपिप्पली
शृङ्गवेरयवक्षारौ तः सिद्धं वा पिबेद्घृतम् १०४
चव्यचित्रकसिद्धं वा गुडक्षारसमन्वितम्
पिप्पलीमूलसिद्धं वा सगुडक्षारनागरम् १०५
पिप्पलीपिप्पलीमूलदधिदाडिमधान्यकैः
सिद्धं सर्पिर्विधातव्यं वातवर्चोविबन्धनुत् १०६
चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च
यवानीं पिप्पलीमूलमुभे च विडसैन्धवे १०७
चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत्
शकृद्वातानुलोम्यार्थं जाते दध्नि चतुर्गुणे १०८
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्
गुदवङ्क्षणशूलं च घृतमेतद्व्यपोहति १०९
नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका ११०
चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचयेत्
चतुर्गुणेन दध्ना च तद्घृतं कफवातनुत् १११
अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम्
गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति ११२
पिप्पलीं नागरं पाठां श्वदंष्ट्रां च पृथक् पृथक्
भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत् ११३
गण्डीरं पिप्पलीमूलं व्योषं चव्यं च चित्रकम्
पिष्ट्वा कषाये विनयेत् पूते द्विपलिकं भिषक् ११४
पलानि सर्पिषस्तस्मिंश्चत्वारिंशत् प्रदापयेत्
चाङ्गेरीस्वरसं तुल्यं सर्पिषा दधि षड्गुणम् ११५
मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत्
तदाहारे विधातव्यं पाने प्रायोगिके विधौ ११६
ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम्
शोथप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम् ११७
कासहिक्कारुचिश्वाससूदनं पार्श्वशूलनुत्
बलपुष्टिकरं वर्ण्यमग्निसंदीपनं परम् ११८
सगुडां पिप्पलीयुक्तां घृतभृष्टां हरीतकीम्
त्रिवृद्दन्तीयुतां वाऽपि भक्षयेदानुलोमिकीम् ११९
विड्वातकफपित्तानामानुलोम्येऽथ निवृते
गुदेऽर्शांसि प्रशाम्यन्ति पावकश्चाभिवर्धते १२०
बर्हितित्तिरिलावानां रसानम्लान् सुसंस्कृतान्
दक्षाणां वर्तकानां च दद्याद्विड्वातसंग्रहे १२१
त्रिवृद्दन्तीपलाशानां चाङ्गेर्याश्चित्रकस्य च
यमके भर्जितं दद्याच्छाकं दधिसमन्वितम् १२२
उपोदिकां तण्डुलीयं वीरां वास्तुकपल्लवान्
सुवर्चलां सलोणीकां यवशाकमवल्गुजम् १२३
काकमाचीं रुहापत्रं महापत्रं तथाऽम्लिकाम्
जीवन्तीं शटिशाकं च शाकं गृञ्जनकस्य च १२४
दधिदाडिमसिद्धानि यमके भर्जितानि च
धान्यनागरयुक्तानि शाकान्येतानि दापयेत् १२५
गोधालोपाकमार्जारश्वाविदुष्ट्रगवामपि
कूर्मशल्लकयोश्चैव साधयेच्छाकवद्रसान् १२६
रक्तशाल्योदनं दद्याद्रसैस्तैर्वातशान्तये
ज्ञात्वा वातोल्बणं रूक्षं मन्दाग्निं गुदजातुरम् १२७
मदिरां शार्करं जातं सीधुं तक्रं तुषोदकम्
अरिष्टं दधिमण्डं वा शृतं वा शिशिरं जलम् १२८
कण्टकार्या शृतं वाऽपि शृतं नागरधान्यकैः
अनुपानं भिषग्दद्याद्वातवर्चोऽनुलोमनम् १२९
उदावर्तपरीता ये ये चात्यर्थं विरुक्षिताः
विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम् १३०
पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्
कुष्ठं शटीं पुष्कराख्यं चित्रकं देवदारु च १३१
पिष्ट्वा तैलं विपक्तव्यं पयसा द्विगुणेन च
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम् १३२
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम् १३३
पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम्
उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात् १३४
आनुवासनिकैः पिष्टैः सुखोष्णैः स्नेहसंयुतैः
दार्वन्तैः स्तब्धशूलानि गुदजानि प्रलेपयेत् १३५
दिग्धास्तैः प्रस्रवन्त्याशु श्लेष्मपिच्छां सशोणिताम्
कण्डूः स्तम्भः सरुक् शोफः स्रुतानां विनिवर्तते १३६
निरूहं वा प्रयुञ्जीत सक्षीरं दाशमूलिकम्
समूत्रस्नेहलवणं कल्कैर्युक्तं फलादिभिः १३७
हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च
स्यात् कपित्थाद्दशपलं ततोऽर्धा चेन्द्रवारुणी १३८
विडङ्गं पिप्पली लोध्रं मरिचं सैलवालुकम्
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् १३९
द्रोणशेषे रसे तस्मिन् पूते शीते समावपेत्
गुडस्य द्विशतं तिष्ठेत्तत् पक्षं घृतभाजने १४०
पक्षादूर्ध्वं भवेत् पेया ततो मात्रा यथाबलम्
अस्याभ्यासादरिष्टस्य गुदजा यान्ति संङ्क्षयम् १४१
ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः
कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः १४२
सिद्धोऽयमभयारिष्टः कामलाश्वित्रनाशनः
कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरान्तकृत् १४३
इत्यभयारिष्टः
दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः
भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत् १४४
त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत्
रसे चतुर्थशेषे तु पूते शीते समावपेत् १४५
तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने
तन्मात्रया पिबन्नित्यमर्शोभ्यो विप्रमुच्यते १४६
ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम्
दीपनं चारुचिघ्नं च दन्त्यरिष्टमिमं विदुः १४७
इति दन्त्यरिष्टः
हरीतकीफलप्रस्थं प्रस्थमामलकस्य च
विशालाया दधित्थस्य पाठाचित्रकमूलयोः १४८
द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम्
पादावशेषे पूते च रसे तस्मिन् प्रदापयेत् १४९
गुडस्यैकां तुलां वैद्यस्तत् स्थाप्यं घृतभाजने
पक्षस्थितं पिबेदेनं ग्रहण्यर्शोविकारवान् १५०
हृत्पाण्डुरोगं प्लीहानं कामलां विषमज्वरम्
वर्चोमूत्रानिलकृतान् विबन्धानग्निमार्दवम् १५१
कासं गुल्ममुदावर्तं फलारिष्टो व्यपोहति
अग्निसंदीपनो ह्येष कृष्णात्रेयेण भाषितः १५२
इति फलारिष्टः
दुरालभायाः प्रस्थः स्याच्चित्रकस्य वृषस्य च
पथ्यामलकयोश्चैव पाठाया नागरस्य च १५३
दन्त्याश्च द्विपलान् भागाञ्जलद्रोणे विपाचयेत्
पादावशेषे पूते च सुशीते शर्कराशतम् १५४
प्रक्षिप्य स्थापयेत् कुम्भे मासार्धं घृतभाविते
प्रलिप्ते पिप्पलीचव्यप्रियङ्गुक्षौदर्सर्पिषा १५५
तस्य मात्रां पिबेत् काले शार्करस्य यथाबलम्
अर्शांसि ग्रहणीदोषमुदावर्तमरोचकम् १५६
शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम्
हृद्रोगं पाण्डुरोगं च सर्वमेतेन साधयेत् १५७
इति द्वितीयफलारिष्टः
नवस्यामलकस्यैकां कुर्याज्जर्जरितां तुलाम्
कुडवांशाश्च पिप्पल्यो विडङ्गं मरिचं तथा १५८
पाठां च पिप्पलीमूलं क्रमुकं चव्यचित्रकौ
मञ्जिष्ठैल्वालुकं लोध्रं पलिकानुपकल्पयेत् १५९
कुष्ठं दारुहरिद्रां च सुराह्वं सारिवाद्वयम्
इन्द्राह्वं भद्रमुस्तं च कुर्यादर्धपलोन्मितम् १६०
चत्वारि नागपुष्पस्य पलान्यभिनवस्य च
द्रोणाभ्यामम्भसो द्वाभ्यां साधयित्वाऽवतारयेत् १६१
पादावशेषे पूते च शीते तस्मिन् प्रदापयेत्
मृद्वीकाद्व्याढकरसं शीतं निर्यूहसंमितम् १६२
शर्करायाश्च भिन्नाया दद्याद्विगुणितां तुलाम्
कुसुमस्य रसस्यैकमर्धप्रस्थं नवस्य च १६३
त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेशरान्
चूर्णयित्वा तु मतिमान् कार्षिकानत्र दापयेत् १६४
तत् सर्वं स्थापयेत् पक्षं सुचौक्षे घृतभाजने
प्रलिप्ते सर्पिषा किञ्चिच्छर्करागुरुधूपिते १६५
पक्षादूर्ध्वमरिष्टोऽयं कनको नाम विश्रुतः
पेयः स्वादुरसो हृद्यः प्रयोगाद्भक्तरोचनः १६६
अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम्
हृद्रोगं पाण्डुतां शोथं गुल्मं वर्चोविनिग्रहम् १६७
कासं श्लेष्मामयांश्चोग्रान् सर्वानेवापकर्षति
वलीपलितखालित्यं दोषजं च व्यपोहति १६८
इति कनकारिष्टः
पत्रभङ्गोदकैः शौचं कुर्यादुष्णेन वाऽम्भसा
इति शुष्कार्शसां सिद्धमुक्तमेतच्चिकित्सितम् १६९
चिकित्सितमिदं सिद्धं स्राविणां शृण्वतः परम्
तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च १७०
विट्श्यावं कठिनं रूक्षं चाधो वायुर्न वर्तते
तनु चारुणवर्णं च फेनिलं चासृगर्शसाम् १७१
कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम्
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम् १७२
शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम्
यद्यर्शसां घनं चासृक्तन्तुमत् पाण्डु पिच्छिलम् १७३
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः १७४
स्निग्धशीतं हितं वाते रूक्षशीतं कफानुगे
चिकित्सितमिदं तस्मात् संप्रधार्य प्रयोजयेत् १७५
पित्तश्लेष्माधिकं मत्वा शोधनेनोपपादयेत्
स्रवणं चाप्युपेक्षेत लङ्घनैर्वा समाचरेत् १७६
प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्
शोणितं दोषमलिनं तद्रोगाञ्जनयेद्बहून् १७७
रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्
कामलां श्वयथुं शूलं गुदवङ्क्षणसंश्रयम् १७८
कण्ड्वरुःकोठपिडकाः कुष्ठं पाण्ड्वाह्वयं गदम्
वातमूत्रपुरीषाणां विबन्धं शिरसो रुजम् १७९
स्तैमित्यं गुरुगात्रत्वं तथाऽन्यान् रक्तजान् गदान्
तस्मात् स्रुते दुष्टरक्ते रक्तसंग्रहणं हितम् १८०
हेतुलक्षणकालज्ञो बलशोणितवर्णवित्
कालं तावदुपेक्षेत यावन्नात्ययमाप्नुयात् १८१
अग्निसंदीपनार्थं च रक्तसंग्रहणाय च
दोषाणां पाचनार्थं च परं तिक्तैरुपाचरेत् १८२
यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य च
वर्तते स्नेहसाध्यं तत् पानाभ्यङ्गानुवासनैः १८३
यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते
स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम् १८४
कुटजत्वङ्निर्यूहः सनागरः स्निग्धरक्तसंग्रहणः
त्वग्दाडिमस्य तद्वत् सनागरश्चन्दनरसश्च १८५
चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः
रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च १८६
सातिविषा कुटजत्वक्फलं च सरसाञ्जनं मधुयुतानि
रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन १८७
कुटजत्वचो विपाच्यं पलशतमार्द्रं महेन्द्रसलिलेन
यावत्स्याद्गतरसं तद्द्रव्यं पूतो रसस्ततो ग्राह्यः १८८
मोचरसः ससमङ्गः फलिनी च समांशिकैस्त्रिभिस्तैश्च
वत्सकबीजं तुल्यं चूर्णितमत्र प्रदातव्यम् १८९
पूतोत्क्वथितः सान्द्रः स रसो दर्वीप्रलेपनो ग्राह्यः
मात्राकालोपहिता रसक्रियैषा जयत्यसृक्स्रावम् १९०
छगलीपयसा पीता पेयामण्डेन वा यथाग्निवलम्
जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत १९१
रक्तार्शांस्यतिसारं रक्तं सासृग्रुजो निहन्त्याशु
बलवच्च रक्तपित्तं रसक्रियैषा जयत्युभयभागम् १९२
इति कुटजादिरसक्रिया
नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्
पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम् १९३
छागलिपयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च
धन्वविहङ्गमृगाणां रसो निरम्लः कदम्लो वा १९४
पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च
बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु १९५
दार्वी किराततिकं मुस्तं दुःस्पर्शकश्च रुधिरघ्नम्
रक्तेऽतिवर्तमाने शूले च घृतं विधातव्यम् १९६
कुटजफलवल्ककेशरनीलोत्पललोध्रधातकीकल्कैः
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा १९७
सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु
रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम् १९८
लाजापेया पीता सचुक्रिका केशरोत्पलैः सिद्धा
हन्त्याश्वस्रस्रावं तथा बलापृश्निपर्णीभ्याम् १९९
ह्रीवेरबिल्वनागरनिर्यूहे साधितां सनवनीताम्
वृक्षाम्लदाडिमाम्लामम्लीकाम्लां सकोलाम्लाम् २००
गृञ्जनकसुरासिद्धां दद्याद्यमकेन भर्जितां पेयाम्
रक्तातिसारशूलप्रवाहिकाशोथनिग्रहणीम् २०१
काश्मर्यामलकानां सकर्बुदारान् फलाम्लांश्च
गृञ्जनकशाल्मलीनां क्षीरिण्याश्चुक्रिकायाश्च २०२
न्यग्रोधशुङ्गकानां खण्डांस्तथा कोविदारपुष्पाणाम्
दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽति २०३
सिद्धं पलाण्डुशाकं तक्रेणोपोदिकां सबदराम्लाम्
रुधिरस्रवे प्रदद्यान्मसूरसूपं च तक्राम्लम् २०४
पयसा शृतेन यूषैर्मसूरमुद्गाढकीमकुष्ठानाम्
भोजनमद्यादम्लैः शालिश्यामाककोद्रवजम् २०५
शशहरिणलावमांसैः कपिञ्जलैणेयकैः सुसिद्धैश्च
भोजनमद्यादम्लैर्मधुरैरीषत् समरिचैर्वा २०६
दक्षशिखितित्तिरिरसैर्द्विककुदलोपाकजैश्च मधुराम्लैः
अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः २०७
रसखडयूषयवागूसंयोगतः केवलोऽथवा जयति
रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः २०८
छागान्तराधि तरुणं सरुधिरमुपसाधितं बहुपलाण्डु
व्यत्यासान्मधुराम्लं विट्शोणितसंक्षये देयम् २०९
नवनीततिलाभ्यासात् केशरनवनीतशर्कराभ्यासात्
दधिसरमथिताभ्यासादर्शांस्यपयान्ति रक्तानि २१०
नवनीतघृतं छागं मांसं च सषष्टिकः शालिः
तरुणश्च सुरामण्डस्तरुणी च सुरा निहन्त्यस्रम् २११
प्रायेण वातबहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते
दुष्टेऽपि च कफपित्ते तस्मादनिलोऽधिको ज्ञेयः २१२
दृष्ट्वा तु रक्तपित्तं प्रबलं कफवातलिङ्गमल्पं च
शीता क्रिया प्रयोज्या यथेरिता वक्ष्यते चान्या २१३
मधुकं सपञ्चवल्कं बदरीत्वगुदुम्बरं धवपटोलम्
परिषेचने विदध्याद्वृषककुभयवासनिम्बांश्च २१४
रक्तेऽतिवर्तमाने दाहे क्लेदेऽवगाहयेच्चापि
मधुकमृणालपद्मकचन्दनकुशकाशनिष्क्वाथे २१५
इक्षुरसमधुकवेतसनिर्यूहे शीतले पयसि वा तम्
अवगाहयेत् प्रदिग्धं पूर्वं शिशिरेण तैलेन २१६
दत्त्वा घृतं सशर्करमुपस्थदेशे गुदे त्रिकदेशे च
शिशिरजलस्पर्शसुखा धारा प्रस्तम्भनी योज्या २१७
कदलीदलैरभिनवैः पुष्करपत्रैश्च शीतजलसिक्तैः
प्रच्छादनं मुहुर्मुहुरिष्टं पद्मोत्पलदलैश्च २१८
दूर्वाघृतप्रदेहः शतधौतसहस्रधौतमपि सर्पिः
व्यजनपवनः सुशीतो रक्तस्रावं जयत्याशु २१९
समङ्गामधुकाभ्यां तिलमधुकाभ्यां रसाञ्जनघृताभ्याम्
सर्जरसघृताभ्यां वा निम्बघृताभ्यां मधुघृताभ्यां वा २२०
दार्वीत्वक्सर्पिर्भ्यां सचन्दनाभ्यामथोत्पलघृताभ्याम्
दाहे क्लेदे च गुदभ्रंशे गुदजाः प्रतिसारणीयाः स्युः २२१
आभिः क्रियाभिरथवा शीताभिर्यस्य तिष्ठति न रक्तम्
तं काले स्निग्धोष्णैर्मांसरसैस्तर्पयेन्मतिमान् २२२
अवपीडकसर्पिर्भिः कोष्णैर्घृततैलकैस्तथाऽभ्यङ्गैः
क्षीरघृततैलसेकैः कोष्णैस्तमुपाचरेदाशु २२३
कोष्णेन वातप्रबले घृतमण्डेनानुवासयेच्छीघ्रम्
पिच्छाबस्तिं दद्यात् काले तस्याथवा सिद्धम् २२४
यवासकुशकाशानां मूलं पुष्पं च शाल्मलम्
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः २२५
त्रिप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं च साधयेत्
क्षीरशेषं कषायं च पूतं कल्कैर्विमिश्रयेत् २२६
कल्काः शाल्मलिनिर्याससमङ्गाचन्दनोत्पलम्
वत्सकस्य च बीजानि प्रियङ्गुः पद्मकेशरम् २२७
पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः
प्रवाहिकागुदभ्रंशरक्तस्रावज्वरापहः २२८
प्रपौण्डरीकं मधुकं पिच्छाबस्तौ यथेरितान्
पिष्ट्वाऽनुवासनं स्नेहं क्षीरद्विगुणितं पचेत् २२९
इति पिच्छाबस्तिः
ह्रीवेरमुत्पलं लोध्रं समङ्गाचव्यचन्दनम्
पाठा सातिविषा बिल्वं धातकी देवदारु च २३०
दार्वीत्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः
चित्रकश्चेति पेष्याणि चाङ्गेरीस्वरसे घृतम् २३१
ऐकध्यं साधयेत् सर्वं तत् सर्पिः परमौषधम्
अर्शोतिसारग्रहणीपाण्डुरोगे ज्वरेऽरुचौ २३२
मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे
पिच्छास्रावेऽर्शसां शूले योज्यमेतत्त्रिदोषनुत् २३३
इति ह्रीवेरादिघृतम्
अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः २३४
कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी
पिप्पली पिप्पलीमूलं नागरं सुरदारु च २३५
कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमुत्पलम्
कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः २३६
पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका
बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः २३७
चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत्
त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः २३८
सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च
सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत् २३९
एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च २४०
उत्थाने चातिबहुशः शोथशूले गुदाश्रये
मूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि २४१
प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम्
विविधेष्वन्नपानेउ केवलं वा निरत्ययम् २४२
इति सुनिषण्णकचाङ्गेरीघृतम्
भवन्ति चात्र--
व्यत्यासान्मधुराम्लानि शीतोष्णानि च योजयेत्
नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान् २४३
त्रयो विकाराः प्रायेण य परस्परहेतवः
अर्शांसि चातिसारश्च ग्रहणीदोष एव च २४४
एषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः
तस्मादग्निबलं रक्ष्यमेषु त्रिषु विशेषतः २४५
भृष्टैः शाकैर्यवागूभिर्यूषैर्मांसरसैः खडैः
क्षीरतक्रप्रयोगैश्च विविधैर्गुदजाञ्जयेत् २४६
यद्वायोरानुलोम्याय यदग्निबलवृद्धये
अन्नपानौषधद्रव्यं तत् सेव्यं नित्यमर्शसैः २४७
यदतो विपरीतं स्यान्निदाने यच्च दर्शितम्
गुदजाभिपरीतेन तत् सेव्यं न कदाचन २४८
तत्र श्लोकाः--
अर्शसां द्विविधं जन्म पृथगायतनानि च
स्थानसंस्थानलिङ्गानि साध्यासाध्यविनिश्चयः २४९
अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः
शोणितस्यावसेकश्च योगा दीपनपाचनाः २५०
पानान्नविधिरग्र्यश्च वातवर्चोऽनुलोमनः
योगाः संशमनीयाश्च सर्पींषि विविधानि च २५१
बस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः
शुष्काणामर्शसां शस्ताः स्राविणां लक्षणानि च २५२
द्विविधं सानुबन्धानां तेषां चेष्टं यदौषधम्
रक्तसंग्रहणाः क्वाथाः पेष्याश्च विविधात्मकाः २५३
स्नेहाहारविधिश्चाग्र्यो योगाश्च प्रतिसारणाः
प्रक्षालनावगाहाश्च प्रदेहाः सेचनानि च २५४
अतिवृत्तस्य रक्तस्य विधातव्यं यदौषधम्
तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सिते २५५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थानेऽर्शश्चिकित्सितं नाम
चतुर्दशोऽध्यायः १४

पञ्चदशोऽध्यायः
अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा
ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः ३
शान्तेऽग्नौ म्रियते युक्ते चिरं जीवत्यनामयः
रोगी स्याद्विकृते मूलमग्निस्तस्मान्निरुच्यते ४
यदन्नं देहधात्वोजोबलवर्णादिपोषकम्
तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः ५
अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति
तद्द्रवैर्भिन्नसंघातं स्नेहेन मृदुतां गतम् ६
समानेनावधूतोऽग्निरुदर्यः पवनेन तु
काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये ७
एवं रसमलायान्नमाशयस्थमधःस्थितः
पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम् ८
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः
मधुराख्यात् कफो भावात् फेनभूत उदीर्यते ९
परं तु पच्यमानस्य विदग्धस्याम्लभावतः
आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते १०
पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना
परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः ११
अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक्
देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च १२
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः
पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि १३
यथास्वं स्वं च पुष्णान्ति देहे द्रव्यगुणाः पृथक्
पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः १४
सप्तभिर्देहधातारो धातवो द्विविधं पुनः
यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् १५
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः १६
रसात् स्तन्यं स्त्रियाः रक्तमसृजः कण्डराः सिराः
मांसाद्वसा त्वचः षट् च मेदसः स्नायुसंधयः १७
किट्टमन्नस्य विण्मूत्रं रसस्य तु कफोऽसृजः
पित्तं मांसस्य खमलाः मलः स्वेदस्तु मेदसः १८
स्यात्किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट्त्वचाम्
प्रसादकिट्टे धातूनां पाकादेवं विधर्च्छतः १९
परस्परोपसंस्तम्भाद्धातुसाम्यपरम्परा
वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि २०
षड्भिः केचिदहोरात्रैरिच्छन्ति परिवर्तनम्
संतत्या भोज्यधातूनां परिवृत्तिस्तु चक्रवत् २१
इत्युक्तवन्तमाचार्यं शिष्यस्त्विदमचोदयत्
रसाद्रक्तं विसदृशात् कथं देहेऽभिजायते २२
रसस्य च न रागोऽस्ति स कथं याति रक्तताम्
द्रवाद्रक्तात्स्थिरं मांसं कथं तज्जायते नृणाम् २३
द्रवधातोः स्थिरान्मांसान्मेदसः संभवः कथम्
श्लक्ष्णाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु २४
खरेष्वस्थिषु मज्जा च केन स्निग्धो मृदुस्तथा
मज्ज्ञश्च परिणामेन यदि शुक्रं प्रवर्तते २५
सर्वदेहगतं शुक्रं प्रवदन्ति मनीषिणः
तथाऽस्थिमध्यमज्ज्ञश्च शुक्रं भवति देहिनाम् २६
छिद्रं न दृश्यतेऽस्थ्नां च तन्निःसरति वा कथम्
एवमुक्तस्तु शिष्येण शुरुः प्राहेदमुत्तरम् २७
तेजो रसानां सर्वेषां मनुजानां यदुच्यते
पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति २८
वाय्वम्बुतेजसा रक्तमूष्मणा चाभिसंयुतम्
स्थिरतां प्राप्य मांसं स्यात् स्वोष्मणा पक्वमेव तत् २९
स्वतेजोऽम्बुगुणस्निग्धोद्रिक्तं मेदोऽभिजायते
पृथिव्यग्न्यनिलादीनां संघातः स्वोष्मणा कृतः ३०
खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम्
करोति तत्र सौषिर्यमस्थ्नां मध्ये समीरणः ३१
मेदसस्तानि पूर्यन्ते स्नेहो मज्जा ततः स्मृतः
तस्मान्मज्ज्ञस्तु यः स्नेहः शुक्रं संजायते ततः ३२
वाय्वाकाशादिभिर्भावैः सौषिर्यं जायतेऽस्थिषु
तेन स्रवति तच्छुक्रं नवात् कुम्भादिवोदिकम् ३३
स्रोतोभिः स्यन्दते देहात् समन्ताच्छुक्रवाहिभिः
हर्षेणोदीरितं वेगात् संकल्पाच्च मनोभवात् ३४
विलीनं घृतवद्व्यायामोष्मणा स्थानविच्युतम्
बस्तौ संभृत्य निर्याति स्थलं निम्नमिवोदकम् ३५
व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा
युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा ३६
क्षिप्यमाणः खवैगुण्याद्रसः सज्जति यत्र सः
करोति विकृतिं तत्र खे वर्षमिव तोयदः ३७
दोषाणामपि चैवं स्यादेकदेशप्रकोपणम्
इति भौतिकधात्वन्नपक्तॄणां कर्म भाषितम् ३८
अन्नस्य पक्ता सर्वेषां पक्तॄणामधिपो मतः
तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः ३९
तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः
पालयेत् प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः ४०
यो हि भुङ्क्ते विधिं त्यक्त्वा ग्रहणीदोषजान् गदान्
स लौल्याल्लभते शीघ्रं वक्ष्यन्तेऽतः परं तु ते ४१
अभोजनादजीर्णातिभोजनाद्विषमाशनात्
असात्म्यगुरुशीतातिरूक्षसंदुष्टभोजनात् ४२
विरेकवमनस्नेहविभ्रमाद्व्याधिकर्षणात्
देशकालर्तुवैषम्याद्वेगानां च विधारणात् ४३
दुष्यत्यग्निः स दुष्टोऽन्नं न तत् पचति लघ्वपि
अपच्यमानं शुक्तत्वं यात्यन्नं विषरूपताम् ४४
तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं तथा
शिरसो रुक् च मूर्च्छा च भ्रमः पृष्ठकटिग्रहः ४५
जृम्भाऽङ्गमर्दस्तृष्णा च ज्वरश्छर्दिः प्रवाहणम्
अरोचकोऽविपाकश्च घोरमन्नविषं च तत् ४६
संसृज्यमानं पित्तेन दाहं तृष्णां मुखामयान्
जनयत्यम्लपित्तं च पित्तजांश्चापरान् गदान् ४७
यक्ष्मपीनसमेहादीन् कफजान् कफसङ्गतम्
करोति वातसंसृष्टं वातजांश्च गदान् बहून् ४८
मूत्ररोगांश्च मूत्रस्थं कुक्षिरोगान् शकृद्गतम्
रसादिभिश्च संसृष्टं कुर्याद्रोगान् रसादिजान् ४९
विषमो धातुवैषम्यं करोति विषमं पचन्
तीक्ष्णा मन्देन्धनो धातून् विशोषयति पावकः ५०
युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन्
दुर्बलो विदहत्यन्नं तद्यात्यूर्ध्वमधोऽपि वा ५१
अधस्तु पक्वमामं वा प्रवृत्तं ग्रहणीगदः
उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते ५२
अतिसृष्टं विबद्धं वा द्रवं तदुपदिश्यते
तृष्णारोचकवैरस्यप्रसेकतमकान्वितः ५३
शूनपादकरः शास्थिपर्वरुक् छर्दनं ज्वरः
लोहामगन्धिस्तिक्ताम्ल उद्गारश्चास्य जायते ५४
पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ५५
अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता
नाभेरुपर्यग्निबलेनोपष्टब्धोपबृंहिता ५६
अपक्वं धारयत्यन्नं पक्वं सृजति पार्श्वतः
दुर्बलाग्निबला दुष्टा त्वाममेव विमुञ्चति ५७
वातात् पित्तात् कफाच्च स्यात्तद्रोगस्त्रिभ्य एव च
हेतुं लिङ्गं चिकित्सां च शृणु तस्य पृथक् पृथक् ५८
कटुतिक्तकषायातिरूक्षशीतलभोजनैः
प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः ५९
करोति कुपितो मन्दमग्निं संछाद्य मारुतः
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ६०
कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः
पार्श्वोरुवङ्क्षणग्रीवारुजोऽभीक्ष्णं विसूचिका ६१
हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका
गृद्धिः सर्वरसानां च मनसः सदनं तथा ६२
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च
स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः ६३
चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् ६४
कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्
अग्निमाप्लावयद्धन्ति जलं तप्तमिवानलम् ६५
सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम्
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः ६६
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः ६७
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः
आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः ६८
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् ६९
भिन्नामश्लेष्मसंसृष्टगुरुवर्चः प्रवर्तनम्
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके ७०
यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः
तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे ७१
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे
त्रिदोषं निर्दिशेत्तेषां भेषजं शृण्वतः परम् ७२
ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्
सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः ७३
आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्
फलानां वा कषायेण पिप्पलीसर्षपैस्तथा ७४
लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः
शरीरानुगते सामे रसे लङ्घनपाचनम् ७५
विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्
दद्यात् पेयादिलघ्वन्नं पुनर्योगांश्च दीपनान् ७६
ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्
दीपनीययुतं सर्पिः पाययेताल्पशो भिषक् ७७
किंचित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्
द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत् ७८
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा
सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत् ७९
शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्
दीपनीयाम्लवातघ्नसिद्धतैलेन मात्रया ८०
निरूढं च विरिक्तं च सम्यक् चैवानुवासितम्
लघ्वन्नं प्रतिसंभुक्तं सर्पिरभ्यासयेत् पुनः ८१
द्वे पञ्चमूले सरलं देवदारु सनागरम्
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ८२
शणबीजं यवान् कोलान् कुलत्थान् सुरभिं तथा
पाचयेदारनालेन दध्ना सौवीरकेण वा ८३
चतुर्भागावशेषेण पचेत्तेन घृताढकम्
स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः ८४
सैन्धवौद्भिदसामुद्रविडानां रोमकस्य च
ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक् ८५
विनीय चर्णितान् तस्मात् पाययेत् प्रसृतं बुधः
करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम् ८६
इति दशमूलाद्यं घृतम्
त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत् ८७
इति त्र्यूषणाद्यं घृतम्
पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः
रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम् ८८
शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च
शुष्कमूलककोलाम्लचुक्रिकादाडिमस्य च ८९
तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः
काञ्जिकेन च तत् पक्वमग्निदीप्तिकरं परम् ९०
शूलगुल्मोदरश्वासकासानिलकफापहम्
सबीजपूरकरसं सिद्धं वा पाययेद्घृतम् ९१
सिद्धमभ्यञ्जनार्थं च तैलमेतैः प्रयोजयेत्
एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना ९२
वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते
दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम् ९३
इति पञ्चमूलाद्यं घृतं चूर्णं च
मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले
विनाऽतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात् ९४
परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम्
विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा ९५
चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च
व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत् ९६
गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा
कृता विपाचयत्यामं दीपयत्याशु चानलम् ९७
इति चित्रकाद्या गुटिका
नागरातिविषामुस्तक्वाथः स्यादामपाचनः
मुस्तान्तकल्कः पथ्या वा नागरं वोष्णवारिणा ९८
देवदारुवचामुस्तनागरातिविषाभयाः
वारुण्यामासुतास्तोये कोष्णे वाऽलवणाः पिबेत् ९९
वर्चस्यामे सशूले च पिबेद्वा दाडिमाम्बुना
विडेन लवणं पिष्टं बिल्वं चित्रकनागरम् १००
सामे वा सकफे वाते कोष्ठशूलकरे पिबेत्
कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयाः १०१
छर्द्यर्शोग्रन्थिशूलेषु पिबेदुष्णेन वारिणा
पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम् १०२
अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्
पाठां वत्सकबीजानि चित्रकं विश्वभेषजम् १०३
पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा
पित्तश्लेष्माभिभूतायां ग्रहण्यां शूलनुद्धितम् १०४
सामे सातिविषं व्योषं लवणक्षारहिङ्गु च
निःक्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा १०५
पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्
चित्रकं कौटजं बीजं लवणान्यथ पञ्च च १०६
तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः
पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः १०७
इति पिप्पल्याद्यं चूर्णम्
मरिचं कुञ्चिकाम्बष्ठावृक्षाम्लाः कुडवाः पृथक्
पलानि दश चाम्लस्य वेतसस्य पलार्धिकम् १०८
सौवर्चलं बिडं पाक्यं यवक्षारः ससैन्धवः
शटीपुष्करमूलानि हिङ्गु हिङ्गुशिवाटिका १०९
तत् सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत्
हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा ११०
इति मरिचाद्यं चूर्णम्
चतुर्णां प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम्
लवणानां च चत्वारि शर्करायाः पलाष्टकम्
संचूर्ण्यं शाकसूपान्नरागादिष्वचारयेत् १११
कासाजीर्णारुचिश्वासहृत्पाण्ड्वामयशूलनुत्
चव्यत्वक्पिप्पलीमूलधातकीव्योषचित्रकान् ११२
कपित्थं बिल्वमम्बष्ठां शाल्मलं हस्तिपिप्पलीम्
शिलोद्भेदं तथाऽजाजीं पिष्ट्वा बदरसंमितम् ११३
परिभर्ज्य घृते दध्ना यवागूं साधयेद्भिषक्
रसैः कपित्थचुक्रीकावृक्षाम्लैर्दाडिमस्य च ११४
सर्वातिसारग्रहणीगुल्मार्शःप्लीहनाशिनी
पञ्चकोलकयूषश्च मूलकानां च सोषणः ११५
स्निग्धो दाडिमतक्राम्लो जाङ्गलः संस्कृतो रसः
क्रव्यादस्वरसः शस्तो भोजनार्थे सदीपनः ११६
तक्रारनालमद्यानि पानायारिष्ट एव च
तक्रं तु ग्रहणीदोषे दीपनग्राहिलाघवात् ११७
श्रेष्ठं मधुरपाकित्वान्न च पित्तं प्रकोपयेत्
कषायोष्णविकाशित्वाद्रौक्ष्याच्चैव कफे हितम् ११८
वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्
तस्मात् तक्रप्रयोगा ये जठराणां तथाऽर्शसाम् ११९
विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्
यवान्यामलके पथ्या मरिचं त्रिपलांशिकम् १२०
लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्
तक्रे तदासुतं जातं तक्रारिष्टं पिबेन्नरः
दीपनं शोथगुल्मार्शःक्रिमिमेहोदरापहम् १२१
इति तक्रारिष्टः
स्वस्थानगतमुत्किष्टमग्निनिर्वापकं भिषक्
पित्तं ज्ञात्वा विरेकेण निर्हरेद्वमनेन वा १२२
अविदाहिभिरन्नैश्च लघुभिस्तिक्तसंयुतैः
जाङ्गलानां रसैर्यूषैर्मुद्गादीनां खडैरपि १२३
दाडिमाम्लैः ससर्पिष्कैर्दीपनग्राहिसंयुतैः
तस्याग्निं दीपयेच्चूर्णैः सर्पिर्भिश्चापि तिक्तकैः १२४
चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम्
षड्ग्रन्थासारिवास्फोतासप्तपर्णाटरूषकान् १२५
पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान्
कटुकां रोहिणीं मुस्तं निम्बं च द्विपलांशिकम् १२६
द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्
किराततिक्तेन्द्रयववीरामागधिकोत्पलैः १२७
कल्कैरक्षसमैः पेयं तत् पित्तग्रहणीगदे
तिक्तकं यद्घृतं चोक्तं कौष्ठिके तच्च दापयेत् १२८
इति चन्दनाद्यं घृतम्
नागरातिविषे मुस्तं धातकीं च रसाञ्जनम्
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम् १२९
पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना
पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते १३०
अर्शांसि च गुदे शूलं जयेच्चैव प्रवाहिकाम्
नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम् १३१
इति नागराद्यं चूर्णम्
भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्
द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत् १३२
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत् १३३
इति भूनिम्बाद्यं चूर्णम्
वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम्
श्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः १३४
दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम्
पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान् १३५
जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि च
तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत् १३६
किराततिक्तः षड्ग्रन्था त्रायमाणा कटुत्रिकम्
चन्दनं पद्मकोशीरं दार्वीत्वक् कटुरोहिणी १३७
कुटजत्वक्फलं मुस्तं यवानी देवदारु च
पटोलनिम्बपत्रैलासौराष्ट्र्यतिविषात्वचः १३८
मधुशिग्रोश्च बीजानि मूर्वा पर्पटकस्तथा
तच्चूर्णं मधुना लेह्यं पेयं मद्यैर्जलेन वा १३९
हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान्
कामलां सन्निपातं च मुखरोगांश्च नाशयेत् १४०
इति किराताद्यं चूर्णम्
ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि
कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत् १४१
पलाशं चित्रकं चव्यं मातुलुङ्गं हरीतकीम्
पिप्पलीं पिप्पलीमूलं पाठां नागरधान्यकम् १४२
कार्षिकाण्युदकप्रस्थे पक्त्वा पादावशेषितम्
पानीयार्थं प्रयुञ्जीत यवागूं तैश्च साधयेत् १४३
शुष्कमूलकयूषेण कौलत्थेनाथवा पुनः
कट्वम्लक्षारपटुना लघून्यन्नानि भोजयेत् १४४
अम्लं चानुपिबेत्तक्रं तक्रारिष्टमथापि वा
मदिरां मध्वरिष्टं वा निगदं सीधुमेव वा १४५
द्रोणं मधूकपुष्पाणां विडङ्गानां ततोऽर्धतः
चित्रकस्य ततोऽर्धं स्यात्तथा भल्लातकाढकम् १४६
मञ्जिष्ठाष्टपलं चैव त्रिद्रोणेऽपां विपाचयेत्
द्रोणशेषं तु तच्छीतं मध्वर्धाढकसंयुतम् १४७
एलामृणालागुरुभिश्चन्दनेन च रूषिते
कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत् १४८
ग्रहणीं दीपयत्येव बृंहणः कफपित्तजित्
शोथं कुष्ठं किलासं च प्रमेहांश्च प्रणाशयेत् १४९
इति मधूकासवः
मधुकपुष्पस्वरसं शृतमर्धक्षयीकृतम्
क्षौद्रपादयुतं शीतं पूर्ववत् सन्निधापयेत् १५०
तं पिबन् ग्रहणीदोषाञ्जयेत् सर्वान् हिताशनः
तद्वद्द्राक्षेक्षुखर्जूरस्वरसानासुतान् पिबेत् १५१
प्रस्थौ दुरालभाया द्वौ प्रस्थमामलकस्य च
दन्तीचित्रकमुष्टी द्वे प्रत्यग्रं चाभयाशतम् १५२
चतुर्द्रोणेऽम्भसः पक्त्वा शीतं द्रोणावशेषितम्
सगुडद्विशतं पूतं मधुनः कुडवायुतम् १५३
तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णितैः
कुडवैर्घृतकुम्भस्थं पक्षाज्जातं ततः पिबेत् १५४
ग्रहणीपाण्डुरोगार्शःकुष्टवीसर्पमेहनुत्
स्वरवर्णकरश्चैष रक्तपित्तकफापहः १४५
इति दुरालभासवः
हरिद्रापञ्चमूले द्वे वीरर्षभकजीवकम्
एषां पञ्च पलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत् १५६
द्रोणशेषे रसे पूते गुडस्य द्विशतं भिषक्
चूर्णितान् कुडवार्धांशान् प्रक्षिपेच्च समाक्षिकान् १५७
प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान्
लोध्रं शाबरकं चैव मासार्धस्थं पिबेत्तु तम् १५८
एष मूलासवः सिद्धो दीपनो रक्तपित्तजित्
आनाहकफहृद्रोगपाण्डुरोगाङ्गसादनुत् १५९
इति मूलासवः
प्रास्थिकं पिप्पलीं पिष्ट्वा गुडं मध्यं बिभीतकान्
उदकप्रस्थसंयुक्तं यवपल्ले निधापयेत् १६०
तस्मात् पलं सुजातात्तु सलिलाञ्जलिसंयुतम्
पिबेत्पिण्डासवो ह्येष रोगानीकविनाशनः १६१
स्वस्थोऽप्येनं पिबेन्मासं नरः स्निग्धरसाशनः
इच्छंस्तेषामनुत्पत्तिं रोगाणां येऽत्र कीर्तिताः १६२
इति पिण्डासवः
नवे पिप्पलीमध्वाक्ते कलसेऽगुरुधूपिते
मध्वाढकं जलसमं चूर्णानीमानि दापयेत् १६३
कुडवार्धं विडङ्गानां पिप्पल्याः कुडवं तथा
चतुर्थिकांशां त्वक्क्षीरीं केशरं मरिचानि च १६४
त्वगेलापत्रकशटीक्रमुकातिविषाघनान्
हरेण्वेल्वालुतेजोह्वापिप्पलीमूलचित्रकान् १६५
कार्षिकांस्तत् स्थितं मासमत ऊर्ध्वं प्रयोजयेत्
मन्दं संदीपयत्यग्निं करोति विषमं समम् १६६
हृत्पाण्डुग्रहणीरोगकुष्ठार्शःश्वयथुज्वरान्
वातश्लेष्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति १६७
इति मध्वरिष्टः
समूलां पिप्पलीं क्षारौ द्वौ पञ्च लवणानि च
मातुलुङ्गाभयारास्नाशटीमरिचनागरम् १६८
कृत्वा समांशं तच्चूर्णं पिबेत् प्रातः सुखाम्बुना
श्लैष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम् १६९
एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते
गौल्मिके षट्पलं प्रोक्तं भल्लातकघृतं च यत् १७०
बिडं कालोत्थलवणं सर्जिकायवशूकजम्
सप्तलां कण्टकारीं च चित्रकं चेति दाहयेत् १७१
सप्तकृत्वः स्रुतस्यास्य क्षारस्य द्व्याढकेन तु
आढकं सर्पिषः पक्त्वा पिबेदग्निविवर्धनम् १७२
इति क्षारघृतम्
समूलां पिप्पलीं पाठां चव्येन्द्रयवनागरम्
चित्रकातिविषे हिङ्गु श्वदंष्ट्रां कटुरोहिणीम् १७३
वचां च कार्षिकं पञ्चलवणानां पलानि च
दध्नः प्रस्थद्वये तैलसर्पिषोः कुडवद्वये १७४
खण्डीकृतानि निष्क्वाथ्य शनैरन्तर्गते रसे
अन्तर्धूमं ततो दग्ध्वा चूर्णं कृत्वा घृताप्लुतम् १७५
पिबेत् पाणितलं तस्मिञ्जीर्णे स्यान्मधुराशनः
वातश्लेष्मामयान्सर्वान्हन्याद्विषगरांश्च सः १७६
भल्लातकं त्रिकटुकं त्रिफलां लवणत्रयम्
अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत् १७७
स क्षीरः सर्पिषा पीतो भोज्ये वाऽप्यवचूर्णितः
हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत् १७८
दुरालभां करञ्जौ द्वौ सप्तपर्णं सवत्सकम्
षड्ग्रन्थां मदनं मूर्वां पाठामारग्वधं तथा १७९
गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत्
दग्ध्वा च तं पिबेत् क्षारं ग्रहणीबलवर्धनम् १८०
भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम्
दहेन्माहिषमूत्रेण क्षार एषोऽग्निवर्धनः १८१
द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी
मुस्तं च बस्तमूत्रेण दहेत् क्षारोऽग्निवर्धनः १८२
चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्
वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले १८३
दग्धानि वार्ताकुरसे गुटिका भोजनोत्तराः
भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः १८४
विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः
इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता १८५
इति क्षारगुडिका
वत्सकातिविषे पाठां दुःस्पर्शां हिङ्गु चित्रकम्
चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत् १८६
आयसे भाजने सान्द्रात्तस्मात् कोलं सुखाम्बुना
मद्यैर्वा ग्रहणीदोषशोथार्शःपाण्डुमान् पिबेत् १८७
इति चतुर्थक्षारः
त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः
रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च १८८
मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम्
विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ १८९
मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु च
कार्षिकं लवणानां च पञ्चानां पलिकान्पृथक् १९०
भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम्
अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत् १९१
सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान्
प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान् १९२
शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान्
हन्यात् सर्वविषं चैव क्षारोऽग्निजननो वरः १९३
जीर्णे रसैर्वा मधुरैरश्नीयात् पयसाऽपि वा इति पञ्चमक्षारः
त्रिदोषे विधिविद्वैद्यः पञ्च कर्माणि कारयेत् १९४
घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान्
क्रिया या चानिलादीनां निर्दिष्टा ग्रहणीं प्रति १९५
व्यत्यासात्तां समस्तां वा कुर्याद्दोषविशेषवित्
स्नेहनं स्वेदनं शुद्धिर्लङ्घनं दीपनं च यत् १९६
चूर्णानि लवणक्षारमध्वरिष्टसुरासवाः
विविधास्तक्रयोगाश्च दीपनानां च सर्पिषाम् १९७
ग्रहणीरोगिभिः सेव्याः क्रियां चावस्थिकीं शृणु
ष्ठीवनं श्लैष्मिके रूक्षं दीपनं तिक्तसंयुतम् १९८
सकृद्रूक्षं सकृत्स्निग्धं कृशे बहुकफे हितम्
परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम् १९९
दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम्
बहुवातस्य तु स्नेहलवणाम्लयुतं हितम् २००
सन्धुक्षति तथा वह्निरेषां विधिवदिन्धनैः
स्नेहमेव परं विद्याद्दुर्बलानलदीपनम् २०१
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि
मन्दाग्निरविपक्वं तु पुरीषं योऽतिसार्यते २०२
दीपनीयौषधैर्युक्तां घृतमात्रां पिबेत्तु सः
तया समानः पवनः प्रसन्नो मार्गमास्थितः २०३
अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्
काठिन्याद्यः पुरीषं तु कृच्छ्रान्मुञ्चति मानवः २०४
स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्
रौक्ष्यान्मन्द्रे पिबेत्सर्पिस्तैलं वा दीपनैर्युतम् २०५
अतिस्नेहात्तु मन्देऽग्नौ चूर्णारिष्टासवा हिताः
भिन्ने गुदोपलेपात्तु मले तैलसुरासवाः २०६
उदावर्तात्तु मन्देऽग्नौ निरूहाः स्नेहबस्तयः
दोषवृद्ध्या तु मन्देऽग्नौ शुद्धो दोषविधिं चरेत् २०७
व्याधिमुक्तस्य मन्दे तु सर्पिरेवाग्निदीपनम्
उपवासाच्च मन्देऽग्नौ यवागूभिः पिबेद्घृतम् २०८
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान् २०९
प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्
लघु तीक्ष्णोष्णशोधित्वाद्दीपयन्त्याशु तेऽनलम् २१०
मांसोपचितमांसत्वात्तथाऽऽशुतरबृंहणाः
नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात् २११
यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृतः
स्नेहान्नविधिभिश्चित्रैश्चूर्णारिष्टसुरासवैः २१२
सम्यक्प्रयुक्तैर्भिषजा बलमग्नेः प्रवर्धते
यथा हि सारदार्वग्निः स्थिरः सतिष्ठते चिरम् २१३
स्नेहान्नविधिभिस्तद्वदन्तरग्निर्भवेत् स्थिरः
हितं जीर्णे मितं चाश्नंश्चिरमारोग्यमश्नुते २१४
स वैषम्येण धातूनामग्निवृद्धौ यतेत ना
समैर्दोषैः समो मध्ये देहस्योष्माऽग्निसंस्थितः २१५
पचत्यन्नं तदारोग्यपुष्ट्यायुर्बलवृद्धये
दोषैर्मन्दोऽतिवृद्धो वा विषमैर्जनयेद्गदान् २१६
वाच्यं मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते
नरे क्षीणकफे पित्तं कुपितं मारुतानुगम् २१७
स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति
तदा लब्धबलो देहे विरूक्षे सानिलोऽनलः २१८
परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः
पक्त्वाऽन्नं स ततो धातूञ्छोणितादीन् पचत्यपि २१९
ततो दौर्बल्यमातङ्कान्मृत्युं चोपनयेन्नरम्
भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति २२०
तृट्श्वासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसंभवाः
तमत्यग्निं गुरुस्निग्धशीतैर्मधुरविज्जलैः २२१
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः
मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत् २२२
निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्
पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम् २२३
अद्यात्तथौदकानूपपिशितानि भृतानि च
मत्स्यान्विशेषतः श्लक्ष्णान्स्थिरतोयचरांस्तथा २२४
आविकं च भृतं मांसमद्यादत्यग्निनाशनम्
यवागूं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत् २२५
गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत्
पयो वा शर्करासर्पिर्जीवनीयौषधैः शृतम् २२६
फलानां तैलयोनीनामुत्क्रुञ्चाश्च सशर्कराः
मार्दवं जनयन्त्यग्नेः स्निग्धा मांसरसास्तथा २२७
पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम्
गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः २२८
आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान्
पयसा संमितं चापि घनं त्रिस्नेहसंयुतम् २२९
नारीस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम्
ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये २३०
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्
असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम् २३१
प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित्
यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम् २३२
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा
मेद्यान्यन्नानि योऽत्यन्नावप्रतान्तः समश्नुते २३३
न तन्निमित्तं व्यसनं लभते पुष्टिमेव च
कफे वृद्धे जिते पित्ते मारुते चानलः समः २३४
समधातोः पचत्यन्नं पुष्ट्यायुर्बलवृद्धये
पथ्यापथ्यमिहैकत्र भुक्तं सशमनं मतम् २३५
विषमं दश वाऽल्पं वाऽप्यप्राप्तातीतकालयोः
भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम् २३६
त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा
प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति २३७
दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत्
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः २३८
व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः २३९
अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्यति
अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम् २४०
नैव दुष्यति तेनैव समं संपद्यते यथा
रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च
यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः २४१
क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति
विदग्धेषु पयःस्वन्यत् पयस्तप्तमिवार्पितम् २४२
नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान्
तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी २४३
तत्र श्लोकाः --
अन्तरग्निगुणा देहं यथा धारयते च सः
यथाऽन्नं पच्यते यांश्च यथाऽऽहारः करोत्यपि २४४
येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्
रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च २४५
वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः
रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः २४६
प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि
ग्रहणीं या यथा यच्च ग्रहणीदोषलक्षणम् २४७
पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्
चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया २४८
जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्
उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः २४९
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने
ग्रहणीदोषचिकित्सितं नाम पञ्चदशोऽध्यायः १५
इति चिकित्सास्थान समाप्ता