शारीरस्थानम्

शारीरस्थानम्
द्वितीयोऽध्यायः
मानोऽवतिष्ठते
जातस्य दशमे मासे नामगोत्रे सुसंस्कृते १

कौमारे शुक्रानुन्मेषः
तरुणस्य कुमारस्य वर्धमानेषु धातुषु
अस्थिमज्जसु पूर्णेषु शुक्रं न प्रतिपद्यते २

षोडशे शुक्रप्रतिपत्तिः
अङ्गाङ्गेषु प्रवृद्धेषु प्रतिमूलेषु धातुषु
शुक्लं च षोडषे वर्षे सुव्यक्तं प्रतिपद्यते ३

वृद्धे शुक्लक्षयः
तथा वृद्धस्य जन्तोश्च परिक्षीणेषु धातुषु
विवेका न यथापूर्वं विविच्यन्ते परिक्षयात् ४
ततोऽल्परेता भवति सुजीर्णो दुर्बलोऽथवा
न पश्यति नरः शुक्लं सर्वधातुपरिक्षयात् ५

नवतितः परं रक्तादिक्षयः
रक्तं मांसं वसास्थीनि मज्जा शुक्लं तथानलः
शकृन्मूत्रे च तैर्मन्दं विद्यान्नवतितः परम् ६

गर्भाग्रहणहेतुस्तच्चिकित्सा च
इह नर्छति गर्भं स्त्री वातेनोपहता तथा
योनिदोषेण चान्नेन न हि वन्ध्यास्ति ना च न ७
वमनं रेचनं चैव बस्तिमास्थापनं तथा
तस्मात्तत्कारयेत्स्त्रीणां प्रसिद्धाः प्रसुवन्ति वै ८
इन्द्रियाणां स्वविषयनियतिः
अथात्र भवति प्रश्नः कस्माच्छब्दं न नासया
गृह्णास्यास्येन वा गन्धं तुल्यं सर्वत्र खं यदि ९
त्वग्भागे च समे कस्मान्न गृह्णात्यन्यथा रसम्
इति तद्वचनं श्रुत्वा प्रत्युवाच पुनर्वसुः १०
घ्राणं गन्धं च भौमं हि रूपं चक्षुश्च तैजसम्
संस्पर्शं स्पर्शनं वायोः श्रोत्रं शब्दात्मखं तथा ११
रसनं च रसो ह्याप्यं तस्मादेतैरिहेन्द्रियैः
यथास्वं तुल्ययोनित्वाद्विषयग्रहणं स्मृतम् १२
स्वं स्वं हि विषयं धातुर्विजानात्यात्मनान्वितः
आत्मेन्द्रियमनोर्थानां बन्धाच्चेति समादिश १३
इत्याह भगवानात्रेयः
इति भेले द्वितीयोऽध्यायः


तृतीयोऽध्यायः
अथातोऽसमानगोत्रीयं शारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः

गर्भाधानविधिः
इहासमानगोत्रान्तु ऋतुस्नातां स्त्रियं व्रजेत्
मेधाविनमरोगं सा पुत्रमेवं प्रसूयते १
बीजदोषाद्यथा सस्यं न सम्यक् विप्ररोहति
मातापित्रोस्तु दोषेण तथा गर्भः प्रणश्यति २
तस्मात्सम्यग्रसाहारावृतुकालेऽथ दम्पती
रहस्संयोगमेयातां स्मरन्तौ मनसा विभुम् ३
गर्भविकृतौ गर्भाभावे च हेतुः
विकृताः स्युरगर्भा वै रसापथ्यनिषेवणे
सन्धारणाद्वा वेगानां योनिदोषेण वा पुनः ४
योनौ दोषेपसृष्टायां न गर्भो ह्यवतिष्ठते
तथैव बाह्ययोनौ हि निर्वाहिण्यां च सर्वदा ५

वायुर्गर्भे गर्भनाशे च हेतुः
गृह्णाति वायुर्यस्यां च योनौ शुक्रमुपागतम्
बिभर्ति गर्भिणि गर्भं शुद्धार्तवसमन्विता ६
च्यवते च यदा चासौ तदा गर्भः प्रणश्यति
वातोदरं स्त्रियास्तद्वै तस्माद्रूक्षाणि वर्जयेत् ७

स्त्रीपुंनपुंसकगर्भनिमित्तानि
भवत्यभ्यधिके शुक्ले पुरुषः शोणितेऽङ्गना
नपुंसकं तयोः साम्ये तस्माच्छुक्लं विवर्धयेत् ८

यमलबहुगर्भहेतुः
यदा तु कललं वायुस्तद् द्विधा कुरुते बली
यमौ तदा सम्भवतः कृष्णात्रेयवचो यथा ९
तत्र शुक्लोत्तरे भागे पुमान् रक्तोत्तरेऽङ्गना
अनेनैव च कल्पेन यमकेष्वपि निर्दिशेत् १०
वायुस्त्वश्ववराहाणां देहेषु बलवान् पुनः
स तत्र कललं भित्त्वा करोति बहुपुत्रताम् ११

नागोदरम्
नाप्नोति च यद् गर्भो रसं दुष्टैः सिरामुखैः
असंपूर्णो वसन्नागः तथा वर्षाणि तिष्ठति १२
सम्पूर्णगात्रो भवति यदा स रसभावितः
तदा सूतो यथाकालं गर्भः स्त्रीकुक्षिविच्युतः १३

गर्भव्यापत्तिहेतवः चिकित्साविधिश्च
ये च ते विंशतिः प्रोक्ता योनिदोषाश्चिकित्सकैः
एतैश्चान्यैश्च बहुभिर्गर्भो व्यापद्यते स्त्रियाः १४
तस्मादेतांश्चिकित्सेत्तु दोषान् पुत्रचिकीर्षया
इभाश्वगर्भसारूप्यं प्रयोगाद्धि भवेच्छुचि १५
वाय्वाकाशर्तुयुक्तो हि दैवतेष्वितरेषु तु
अन्तर्जातो जातवेदाः प्रभावायोपकल्पते १६

सात्त्विकादिगर्भोत्पत्तिः
ऋतौ यदा स्त्रीपुरुषौ प्रसन्नमनसौ रहः
उपेयातामथ तदा गर्भो भवति सात्त्विकः १७
ऋतौ यदा स्त्रीपुरुषौ व्यायस्तमनसौ भृशम्
उपेयातामथ तदा गर्भो भवति राजसः १८
ऋतौ यदा स्त्रीपुरुषौ प्रदीनमनसौ रहः
उपेयातामथ तदा गर्भो भवति तामसः १९
लक्षणं च समुत्थानमित्येतत्समुदाहृतम्
तिसृणां सत्त्वयोनीनां मिश्रांस्तेनैव लक्षयेत् २०
इत्याह भगवानात्रेयः
इति भेले शारीरे तृतीयोऽध्यायः


चतुर्थोऽध्यायः
अथातः पुरुषनिचयं शारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः

रसजः पुरुषः व्याधयश्च
इह खलु भो अयमन्नात्पुरुषो भवति । रसजन्मानोऽस्य व्याधयो भवन्ति । तद्यथा खल्वयं पुरुषो रसजन्मा रसजीवी रसज्वलनो रससमाधिको रसजीवनश्च भवति । रसानामसम्यगुपयोगान्मिथ्योपयोगात्तद्विकारानृच्छति । न कश्चिन्मिथ्योपयोगादजीर्णापथ्यभोजनात्स्वस्थो भवति १

आहारपाकविषये विचारः
अथात्र प्रश्नो भवति । कोऽत्र खल्वस्याहारं पचति वातः पित्तं श्लेष्मानुपानं वेति । नेत्याह भगवान् पुनर्वसुरात्रेयः । यद्येते पाकहेतवः स्युस्तर्हि न कश्चिदिह दुर्बलाग्निः स्याद्वातादीनां सन्निहितत्वात् सानुपानत्वाच्च । अथास्योष्मा तेजश्च शरीरस्थमाहारं पचतः । ते कायाग्निरिति विद्यात् २

आलोचकादिभेदाः
तत्र भेल आत्रेयमिदमुवाच भगवन् । पञ्चधा ये शारीराः पठ्यन्ते आलोचकराजकभ्राजकसाधक पाचकभेदेन तेषां कथमिदं पञ्चाभिधायिनां पृथक्त्वं भवतीति ३

आलोचकनिरूपणम्
अत्रोवाच भगवानात्रेयः तत्रालोचको नाम वर्षाशीतातपप्रवृद्धः । स द्विविधः चक्षुर्वैशेषिको बुद्धिवैशेषिकश्चैति । चक्षुर्वैशेषिको नाम य आत्ममनसोस्सन्निकर्षज्ञानमुदीरयित्वा चित्ते चित्तमप्याधाय संस्वेदजाण्डजोद्भिज्जजरायुजानां चतुर्णां भूतग्रामाणां लक्षणसंस्थानरूपवर्णस्वरैरुच्चावचानां पुष्पफलपत्राणां रूपनिर्वृत्यर्थमेकैकस्य द्वयोस्त्रयाणां सर्वेषां वा युगपत्प्रणिपतितानां चक्षुषा वैशेष्यमुत्पादयतीति ४

बुद्धिवैशेषिको नाम यो भ्रुवोर्मध्ये शृङ्गाटकस्थः सुसूक्ष्मानर्थानध्यात्मकृतान् गृह्णाति ज्ञानेन ज्ञेयं ज्ञानं कृत्स्नज्ञेयकैवल्यार्थेषु दर्शयति । तस्माद्ज्ञानज्ञेयं ज्ञात्वा ज्ञानं गृह्णाति । गृहीतं धारयति । धारितं प्रत्युदाहरति अतीतं स्मरति प्रत्युत्पन्नं कृत्वाऽनागतं प्रार्थयति जातमात्रश्च पुनरनुपदिष्टस्वभावं मातृस्तन्यमभिलषति । ध्याने प्रत्याहारे योजनाच्च बुद्धिवैशेष्यमुत्पादयतीति ५

भ्राजकनिरूपणम्
तत्र भ्राजको नाम यो ह्यस्य शरीरं लक्षणं चोपगमयति प्राधान्यं प्रदर्शयति शिरःपाणिपादपार्श्वपृष्ठोदरजङ्घास्यनखनयनकेशानां च प्रतिभावृद्धिविशेषानुत्पादयति भ्राजयतीति भ्राजकः ६

राजकनिरूपणम्
प्रभविष्णुत्वेन्द्रियप्राबल्याद् बुध्यवस्थाहंकारेण वाभिमतमर्थमर्थेभ्य आत्मकृतमाधत्ते । चक्षुश्रोत्रघ्राणरसनस्पर्शनवाक्पाणिपादपायूपस्थेभ्यः सर्वेषां विषयार्थानां स्वभावोपरक्तानां परस्परेभ्यो रागमुत्पादयतीति । अन्तर्मध्ये च पित्तस्थानमन्तरं प्रविश्य रागं जनयतीति राजकः ७

साधकनिरूपणम्
साधको नाम यः शब्दस्पर्शगन्धेभ्योऽर्थकामेभ्यश्च देवपितृऋषिभ्यश्च इह चामुत्रकाणां च पदार्थानां निश्रेयसमधिकृत्य सर्वपदार्थानाप्नोति स्वयुक्त्या साधयतीति साधकः ८

पाचकनिरूपणम्
पाचको नाम अशितपीतलीढखादितमाहारजातं जातवीर्यं पाचयतीति पाचकः । यः स्वकं काममेवाग्निं प्रपूरयति हर्षयति ९

भवन्ति चात्र
योऽयं निर्दहति क्षिप्रमाहारं सर्वदेहिनाम्
अपानमद्यनिदनः कायाग्निः परिपठ्यते १०
प्रभावलक्ष्य स्सं । युक्तो जीवस्येह सनातनः
नाभिमध्ये शरीरस्य विज्ञेयं सोममण्डलम् ११
सोममण्डलमध्यस्थं विद्यात्तत् सूर्यमण्डलम्
प्रदीपवच्चापि नृणां तस्य मध्ये हुताशनः १२
देहिना भोजनं भुक्तं नानाव्यञ्जनसंस्कृतम्
सूर्यो दिवि यथा तिष्ठन् तेजोयुक्तो गभस्तिभिः १३
विशोषयति सर्वाणि पल्वलानि पयांसि च
तद्वच्छरीरिणां व्यक्तं जाठरो नाभिसंस्थितः १४
मयूखैः क्षिप्रमादत्ते सूर्यकान्तो मणिर्यथा
क्षिप्रं सम्यक् प्रदहति गोमयं काष्ठमेव च १५

जाठराग्निपरिमाणम्
स्थूलकायेषु सत्त्वेषु यवमात्रप्रमाणतः
ह्रस्वकायेषु सत्त्वेषु त्रुटिमात्रप्रमाणतः १६
क्रिमिकीटपतङ्गेषु वायुमात्रोऽवतिष्ठति

कायचिकित्सकः
यस्तं चिकित्सेत्सीदन्तं व्याधिना चापि देहिनाम् १७
आयुर्वेदाभियोगेन स वै कायचिकित्सकः

अनशने व्यापदः
रसं च शोणितं चैव मेदो मांसमथापि च १८
महत्यनशने नृणां सर्वाण्येतानि खादति
अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम् १९
अग्नीषोमात्मकाः सर्वे देहिनस्तु चतुर्विधाः
सूर्यात्मकानि सर्वाणि तथा सोमात्मकानि च २०
महत्यनशने नृणां तेनान्त्राणि स खादति

जाठराग्नेस्सन्निवेशस्तत्पालनं च
जाठरो जलसम्भूतः पावकः पवनैस्सह २१
प्रदीप्यते नृणां कोष्ठे सति वेन्धनपूरितः
इक्ष्वाकुकोशमास्थाय यथा दीपः स्थिरेऽम्भसि २२
तिष्ठते तिमिरे सक्तो न तथा चलितेऽम्भसि
एवं शरीरिणां कोष्ठे वैकृतेन पुनः पुनः २३
अग्निर्वैषम्यमाप्नोति पूर्यमाणः पुनः पुनः
स च यत्नेन वै रक्ष्यो विपन्ने दोषदर्शनात्
छर्द्यते चातिसार्येत विकारं चायमृच्छति २४
असावसम्प्राप्तकालो य एवं म्रियते वर्षशतं हि पुरुषायुस्तच्चावाप्तुं जीर्णलघुपथ्यभोजनानुवर्तिना भवितव्यमिति २५

अलसकादिसिद्ध्यसिद्ध्योर्युक्तिः
तत्राह कस्मादलसकविषूचिकावान् सद्य एवागदी भवति कश्चिन्म्रियत इति अत्राहरूक्षस्याध्यशनेनोत्पीडिता वातपित्तश्लेष्माणः ऊर्ध्वमधो वा नानुलोमा भवन्ति उद्वृत्तैस्तत्र तैः सद्य एव म्रियते । स्निग्धस्याध्यशनोत्पीडिता वातादयः ऊर्ध्वमधो वाऽनुलोमाः स्वाङ्गदेशांस्तु प्रपद्यन्ते तत्र तैः सद्य एवागदी भवति २६

अन्तर्गुहादि
अथ दशान्तर्गुहाः दश बहिर्गुहाः । तद्यथा--द्विचक्षुषी द्विनासिके द्वे श्रवसी कण्ठनाडीगुदमेढ्रवायुस्रोतांसीति दश अन्तर्गुहाः दश धमन्यो हृदये निबद्धा भवन्ति । तां प्रभवे चतुरंगुलमात्रं गत्वा विंशतिर्भवन्ति । एवमेता दश धमन्यः षष्टिर्भवन्ति । तत्र तु भवन्ति त्रीणि शतसहस्राणि षष्टिरियं जालानि सिराणां । तद्यथा--वृक्षः शाखावृतः फलपलाशैरवतरति सर्वत्र । तद्यथा वाहन्योऽश्मभिरवततः तथायं सिराभिरवततः । रोमकूपे रोमकूपे ह्यस्य सिरामुखं भवति यतः स्वेदः क्षरतीति २७

अपस्मारस्य कालविशेषसंभवे युक्तिः
तत्राह कस्मादयं पुरुषो न सन्ततमपस्मरतीति अत्रोच्यते--यथा सरितां प्रादुर्भावे वारिजानि सत्त्वानि प्रादुर्भवन्ति ह्रासे वा ह्रसन्ति । यदा यदा रसवेगं प्राप्नुवन्ति तदा तदा अपस्मारयन्ति । तस्माद् द्व्यहात्त्र्यहात् पक्षान्मासान्तराच्चापस्मरन्ते २८

अपस्मारं प्रति रक्षोवेतालादीनामहेतुत्वम्
केचिद्रक्षोपहत इत्याहुः तच्चायुक्तम् । यदि ह्येवं स्याद् दृश्येरन् पुरुषशरीरे प्रहारादीनि वा । ततश्च नैवम् । वेतालाभिभूत इति चेत्तच्चाप्यनुपपन्नम् । पुण्यानि ह्येषां मनांसि ध्यायन्ति । यदि चैवं स्याद्युगपदभिवातं प्राप्नुयुः । अनेकस्त्रीपुरुषवहनानि तेषां वृन्दानि । न चैवं कदाचिद्भवति । तस्मात्तदेव पाठ्यं रसोपहतमिति चेदेवमेव । रसप्रविवेककाले तृतीयकचतुर्थकावपि दृश्येते ज्वरावपि । नेषत्रां ह्यननार्थः २९

गर्भावयवोत्पत्तौ पौर्वापर्यविचारः
अत्राह किं खल्वस्य गर्भस्य प्रथमं सम्भवति हस्तौ पादाविति बडिशः तत्प्रतिष्ठितत्वात् शरीरस्य । पश्चाद्गुद इति शौनकः तदाश्रितत्वाद्वायोः । नाभिरिति खण्डकाप्यः तत्र नाडीनां प्रतिष्ठितत्वात् । हृदयमिति पराशरः विज्ञानमूलकानां तन्मूलत्वात् । शिर इति भरद्वाजः शरीरस्य तन्मूलत्वात् । चक्षुरिति काश्यपः । नेत्याह भगवान्पुनर्वसुरात्रेयः । तस्मादर्बुदमेवास्य प्रथमं सम्भवति । तत्र सर्वे शरीरप्रदेशास्सम्भवन्ति अर्बुदस्नेहोत्पन्नाः ३०
गर्भस्याहारः
अत्राह--किं नु गर्भो मातुरुदरस्थोऽश्नाति न वेति । अत्रोच्यते नाश्नाति । यदि ह्यश्नीयात् स्यादस्य पुरीषमतीतकालं न चेदमस्ति । कथं तर्हि नाभ्यां नाडी प्रतिष्ठिता तस्यामपरा मातुर्हृदयमाश्रिता तया मातुरन्नरसोऽभिवहन् गर्भं प्रीणयत्यभिवर्धयति । तद्यथा कुल्याः केदारमभिसंश्रयन्त्यो भावयन्ति तद्वत् ३१

गर्भसन्निवेशविचारः
तत्राह कथं गर्भो मातुरुदरे तिष्ठतीति । ऊर्ध्वमिति शौनकः । अवाक्छिरा इति भरद्वाजः । नेत्याह भगवान्पुनर्वसुरात्रेयः । यद्यूर्ध्वं तिष्ठेत् तर्हि मातृघाती स्यात् । यद्यवाक्छिराः स्वघाती स्यात् । कथं तर्हि तिर्यक् सर्वैरयमङ्गप्रत्यङ्गैः प्रतिभुग्नः शेते ३२

तस्य तदनन्तरं तत्प्रथमं प्रतिपद्यते । तस्मात्तस्य शिरः प्रथमं पुनर्वसुरात्रेयः प्रतिपद्यते । तदस्य गुरुतरं भवतीति । अथ खलु वृक्को मेदो गुरुरिति संप्रवृद्धौ परस्परमभिवर्धयन्ति ॥

रसजः पुरुषः
तत्र श्लोकः
ऊष्मा रसस्थो देहेऽस्मिञ्जीवनं गृह्य तिष्ठति
रसोद्भवः पुमांस्तस्माद्रसो जीवनमुच्यते ३३
इत्याह भगवानात्रेयः
इति भेले शारीरे चतुर्थोऽध्यायः


पञ्चमोऽध्यायः
अथातः शरीरनिचयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः

ओजस्तेजसी
इह खल्वोजस्तेजः शरीरे नित्ये च भवतः तयोः स्थानानि द्वादश भवन्ति । तद्यथा--त्वक्शोणितमांसमेदोऽस्थिमज्जाशुक्लस्वेदपित्तश्लेष्ममूत्रपुरीषाणीति । तान्यव्यापन्नानि सुखमित्युच्यते । व्यापन्नैस्तु वातपित्तश्लेष्माणः प्रदुष्टा रसादिषु विकारानुपजनयन्ति १

चतस्रो योनयः
अथ योनयश्चतस्रो भवन्ति । तद्यथा--जरायुजाण्डजोद्भिज्जस्वेदजाश्चेति । तत्र जरायुजा जरायुयुक्तास्संभवन्ति पशुमृगमनुष्यादयः । शकुनमत्स्यकच्छपसर्पप्रभृतयोऽण्डजाः । यूकामत्कुणपतङ्गाशीविषमक्षिकादयः स्वेदजाः । उद्भिज्जास्तु तृणलतावृक्षवनस्पतय इति २

वृक्षादिलक्षणम्
तत्र पुष्पफलवन्तो वृक्षाः । अपुष्पफलवन्तो वनस्पतयः । सपुष्पाः सफलाश्चापुष्पाश्चाफलाश्च वीरुधः । फलपाका लताश्वौषधयः । तत्र ये श्वेतक्षीराः सौम्याः रक्तक्षीराः काद्रा वारुणा वालिग्रहा इति ३

विकृताविकृतगर्भनिमित्तम्
इह खलु त्रिषु दशरात्रेषु पुमान् रसेन संयुज्यते । आसां तु खलु चतसृणां योनीनां ऋतुकाले यदा रसाः सम्यक् प्राप्तिं वा गच्छन्ति तदा गर्भः तिष्ठत्यविकृतः विपर्यये विपर्ययः ४

रजस्वलागमननिषेधः स्त्रीपुंगर्भग्रहणकालश्च
त्र्यहन्तु खलु पुराणरुधिरं परिवर्जयेत् । किञ्च तत्पुराणम् यदादितस्त्र्यहं परिस्रवदृतकाले तत्पुराणम् ॥ तस्मिन् त्र्यहे गर्भोपक्रमणे न तिष्ठति । अवस्थितो वा नायुषि समर्थो भवति । निर्गते तु त्र्यहेण पुराणे रुधिरे चावस्थिते शुद्धस्नातायाश्चतुर्थषष्ठाष्टमदशमद्वादशेषु अहस्सु गर्भोवक्रममाणः पुमान् भवति । पञ्चमसप्तमनवमैकादशेषु स्त्रीत्वायोपकल्पते । स एष आसप्तरात्रात्सर्वसञ्चारोऽभिदधत्यतः परमसञ्चारोवकृत्वाद्वाल्पात् ५

रजोऽदर्शने दर्शने च निमित्तम्
स्त्रीणां खलु शोणितं शरीरं शोषयति तस्मान्न ताः रजः पश्यन्ति । परिपूर्णधातुशरीरास्तु यदा भवन्ति तदा विवेकजललोहितं मासे मासे प्रतिवेदयन्ति । प्रतिगतप्रवेशं च तत्पुनर्मासेन समागच्छत्यार्तवम् ६

प्रदरस्तच्चिकित्सासंग्रहश्च
यदा तु तच्छोणितं दुष्टं मार्गं प्रतिपद्यते तदा स्त्रीणां प्रदरो भवति । तं शरीरं शोषयन्तं लोहितपित्तभेषजेनोपक्रमेत ७

गर्भीण्या रसस्य त्रिधा विनियोगः
गर्भिण्यास्तु त्रिधा काये रसोऽभिनिर्वर्ततेष गर्भत्वाय स्तन्यत्वाय रसत्वाय चेति ८

स्त्रीपुंनपुंसकयमलगर्भलक्षणम्
इह खलु भोः गर्भात्स्थिरादन्तःस्थादायतमुदरं भवति मध्ये नार्यामन्तर्गतायाम् । स्थूलमूलसंस्थितसंवृत्तमच्छिद्रं पुरुषेऽन्तर्गते । द्रोणीवोदरं भवत्युभयोरन्तर्गतयोः । वामं पार्श्वमायतं मातुरुदरस्था स्त्री दक्षिणे पुमान् मध्ये नपुंसकम् । वाममक्षि ह्रसति नार्यामन्तर्गतायाम् पुरुषे दक्षिणम् उभे नपुंसके । सव्यं पादं पूर्वं प्रक्रामति सव्येन चाक्ष्णा भ्रुवा च पूर्वं प्रति कुरुते चेष्टते च सव्येन पार्श्वेन प्रायः संविशति स्त्रीसंज्ञानेषु च प्रायशो दौहृदं कुरुते नार्यामन्तर्गतायाम् । विपर्यये तदतः पुरुषं बिभर्तीति विद्यात् ९

गर्भशरीरनिर्वर्तककायाः
अथ इह खलु गर्भस्य षड्भ्यः स्थानेभ्यः शरीरमभिनिर्वर्तते । तद्यथा जलकायाद्वायुकायात्तेजः कायात्पृथिवीकायादाकाशकायाद्रसकायाच्चेति १०

षड्धातुमयः पुरुषः पार्थिवादिलक्षणम्
एड्धातुरेवायं पुरुषो भवति । धातवः पुनः पञ्च भूतानि ब्रह्म यदव्यक्तम् ११
तत्र यत् खरकठिनम् तद्यथादन्तकेशरोमनखपुरीषस्नाय्वस्थि गन्धज्ञानघ्राणसङ्घातगौरवाणीति । यद्द्रवं स्निग्धं मृदु वा तदौदकम् १२

स्त्रीपुंगर्भहेतुः
तद्यदा सन्निपतितयोर्यत्र पुरुषः पूर्वमर्थं नन्दयति जघन्यं स्त्री तत्र पुमानिहाङ्गप्रत्यङ्गैः सदृशो जायते । यत्र तु स्त्री प्रथममर्थं साधयति जघन्यं पुरुषः तत्र स्त्री वाङ्गप्रत्यङ्गैस्सदृशी जायते १३

गर्भस्य स्रुतौ विकारे च हेतुः
अथ स्त्रीपुरुषावृतुकाले रूक्षाणि वातलान्न्यन्नानि सेवेते वेगांश्च धारयतः तयोर्गर्भः शोणितादिषु वातसंदूषितेषु निःसृतो भवति गद्गदबाधिर्यमिन्मिणत्वमन्येषां वातपित्तविकाराणामन्यतमं प्राप्नोति । एवमेव पित्तश्लेष्मलानृतुकाले मातापित्रोः सेवमानयोः पित्तश्लेष्मविदूषितो गर्भः सम्भवति १४

चतुर्दशकायाः
अथ खलु गर्भशरीरं चतुर्दशेन्द्रियकायाः समनुप्रविशन्ति । विधृताश्चानुपलभ्यमानाश्च सप्त दिव्याः सप्त मानुषाः १५

दिव्यकायाः
तत्र दिव्याः ब्रह्मदेववरुणगन्धर्वपिशाचासुरमहाराजकाया भवन्ति । तान् व्याख्यास्यामः तत्र यः सत्यार्जवानृशंसक्षमादमध्यानसम्पन्नोऽध्यात्मतत्त्वदर्शी भवति तं ब्रह्मकायमिति विद्यात् १६
यस्तायशीस्तांपादानयधत्रैयवान् मुदितस्तं देवकायमिति विद्यात् १७
यो यज्ञनन्दितरागदृष्टिः सलिलप्रियश्चिरस्नायी पिङ्गाक्षः कपिलकेशः संभवति तं वरुणकायमिति विद्यात् १८
यस्तु प्रियनृत्यगीतवादित्रः स्त्रीविहारनित्यः शुचिवस्त्रगन्धमाल्यानुलेपनरतिर्भवति तं गन्धर्वकायमिति विद्यात् १९
यस्तु प्रियमद्यमांसमत्स्यस्तथा गोमहाशनो बीभत्सो बालानां भीषयिता निद्राबहुलश्च भवति तं पिशाचकायमिति विद्यात् २०
यस्त्वात्मगुरूणा मानयिता पश्चाद्द्वेषी चण्डः क्रोधनो ज्ञातीनां भेदको भवति तमासुरं कायमिति विद्यात् २१
यस्तु धीरः शूरः महाभोगो महोत्साहो महैश्वर्यश्च भवति तं महाराजकायमिति विद्यात् २२

मानुषकायाः
अनुरागेण मानुषास्तु प्रत्यात्मदर्शनश्रवणस्पर्शनरसनघ्राणसुखदुःखमिति तत्प्रविद्यासहिताः केवलाश्चावतिष्ठन्ते कार्त्स्न्येना । तैरन्वितो जन्तुर्लिङ्गति निमिषति आकुंचति प्रसारयति वेद्यं वेदयते २३

कायलयः
स यदा भेदं गच्छति तदायमन्ततः जलं जलकायमेव याति वायुर्वायुकायं तेजः तेजःकायं पृथिवी पृथिवीकायं आकाशमाकाशकायमिति । यथाकायमिन्द्रियकायं भजते २४

भवति चात्र
विद्यमाने शरीरे वै धातुर्धातुं नियच्छति
मनो बुद्धिश्च सर्वेषां ब्रह्मणि प्रतितिष्ठति २५
इत्याह भगवानात्रेयः
इति भेले शारीरे पञ्चमोऽध्यायः


षष्ठोऽध्यायः
अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः

गर्भस्य मातृजत्वादिविचारः
इह खलु भो मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च । अस्ति च सत्त्वमौपपादकमित्यात्रेयवचनम् । नेति भरद्वाजः अमातृजश्चायं गर्भः अपितृजश्चानात्मजश्चासात्म्यजश्चारसजश्च । नास्ति च सत्त्वमौपपादकमिति । यदि हि माता पुत्रं जनयेत् भूयिष्ठं हि स्त्री पुत्रकामा मैथुनवर्गमभिसन्धाय पुत्रं जनयेत् स्त्रीकामा च स्त्रियम् १

अग्निमारुतयोः कर्म
यदा जीवेन सह सूक्ष्मावग्निमारुतौ गर्भं विशतः तदा द्वावेतावङ्गप्रत्यङ्गानि विकुरुतः तौ चेष्टयतः तौ वर्धयतः तावेव यदा शरीराद् व्यवक्रामतः तदा तद्भवति निर्वातो निरूष्मा प्रेतो मृत इति । नेत्याह भरद्वाजः । मृतोऽपि जन्तुः वायुनाध्माप्यते अग्निना शोष्यते । नेत्याह भगवानात्रेयः । सह वा तस्याग्निमारुतौ जीवयतः तयोरपक्रान्तयोर्बाह्याग्निमारुतावाविशत इति २

एकत्वग्रहोपपत्तिः
यत्पुनराह सति च भूतनानात्वे कथमेकः स्यादिति अत्रोच्यते । यत्रैतन्नानात्वमाश्रितं तदेतदव्यक्तमस्ति पञ्चमहाभूतसंग्रह इति ३

व्यक्ताव्यक्तविवेचनम्
यत्पुनराह यद्यव्यक्तं सर्वं स्यादविकारः स्यादिति अत्रोच्यते । वातपित्तश्लेष्मकृता रससमुत्था अस्य व्यक्ताः प्रोच्यन्ते विकाराः अव्यक्ते ह्युक्ते ते व्यक्ताः कथमव्यक्तं स्रक्ष्यन्ति कथं तर्हि शरीरे तद्विक्रियते उन्मादः कथमव्यक्तं न प्रकाशमुपजनयति तथा मनोऽन्तर्हितेषु विज्ञानस्त्रोतस्तु तमसा स्मृतिं नोपजनयतीति ४

तमसा विस्मृतिः
यत्पुनराह यद्ययं परलोकाद् गर्भोऽवक्रामेन्नास्यकिञ्चित्ततादृष्टं स्यादिति अत्रोच्यते । इह तावदयं चिरोत्सृष्टानि विज्ञानानि विविधानि चाश्चर्यभूतानि न स्मरति किं पुनर्देहान्तराणि भृतानि भावविशेषान्तराणि ५

तत्रश्लोकः
तमसा भावितो यो वै संस्मरेन्न स मानवः
संस्मरेत्पूर्वचरितं सुकृते वेदवद् द्विजः ६
इत्याह भगवानात्रेयः
इति भेले शारीरे षष्ठोऽध्यायः


सप्तमोऽध्यायः
अथातः शरीरसंख्याशारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः

षट् त्वचः
इह खलु शरीरे षट् त्वचो भवन्ति । उदकधरा प्रथमासृग्धरा द्वितीया सिध्मकिलास संभवाधिष्ठाना तृतीया दद्रुकुष्ठसम्भवाधिष्ठाना चतुर्थी अलजीविद्रधिसम्भवाधिष्ठाना पञ्चमी षष्ठी तु यस्यां छिन्नायामुत्ताम्यति तिमिरमिवानुप्रविशति दुष्टारुष्काणि चास्य यामाश्रित्य जायन्ते इति १

अस्थिगणना
त्रीणि सषष्टीनि शतान्यस्थ्ना तद्यथा--द्वात्रिंशद्दन्ताः द्वात्रिंशद्दन्तोलूखलानि विंशतिर्नखाः षष्टिः पाणिपादाङ्गुल्यस्थीनि विंशतिः पाणिपादशलाकाः चत्वारि पाणिपादशलाकाधिष्ठानानि द्वे पार्ष्ण्योरस्थिनी चत्वारः पादयोः गुल्फाः द्वौ मणिकौ माणिके द्वे हस्तयोः चत्वार्यरत्न्योरस्थीनि द्वे जङ्घयोः द्वे जानुनी द्वे जानुकपालिके द्वावूरुनलकौ द्वावंसौ द्वे अंसफलके द्वावक्षकौ एकं जत्रु द्वे तालुनी द्वे चिबुके द्वे श्रोणिफलके एकं भगास्थि पञ्चचत्वारिंशत् पृष्ठगतान्यस्थीनि पञ्चदश ग्रीवायाम् चतुर्दशोरसि चतुर्विशतिः पर्शुकाः पार्श्वयोः तावन्ति चैव स्थालकानि तावन्ति चैव स्थालकार्बुदकानि एकं हन्वस्थि द्वे हनुबन्धने एकं नासास्थिहनुकूटललाटम् चत्वारि शीर्षकपालानि २

प्राणायतनानि
हृदयमेकं चेतनायतनम् । दश प्राणायतनानि तद्यथा -- मूर्धा कण्ठो हृदयं गुदो नाभिर्बस्तिरोजः शुक्लं शोणितं मांसमिति ३

कोष्ठाङ्गानि
पञ्चदश कोष्ठाङ्गानि । तद्यथा -- नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्को च बस्तिश्च पुरीषाधानं चामाशयश्चोत्तरगुदश्चाधरगुदश्च क्षुद्रान्त्रं च स्थूलान्त्रं च वपावहनं चेति ४

प्रत्यङ्गानि
षट्पञ्चाशत्प्रत्यङ्गानि तद्यथा--द्वौ गुल्फौ द्वे नितम्बे द्वे जङ्गे द्वे पिण्डिके द्वे ऊरुपिण्डिके द्वौ स्फिचौ द्वौ वृषणौ एकं शेफः द्वौ शङ्खौ द्वौ वङ्क्षणौ द्वौ कुकुन्दरौ एको बस्तिः शीर्षमेकमुदरमेकम् द्वौ स्तनौ द्वौ बाहू द्वावंसकौ एकं चुबुकं द्वावोष्ठौ द्वे दन्तवेष्टे द्वे सृक्कणी एकं तालु गलशुण्डिका एका द्वौ कर्णौ द्वे कर्णशष्कुलिके द्वौ गण्डौ द्वे अक्षिकूटे चत्वार्यक्षिवर्त्मानि द्वे अक्षिणी इति ५
अञ्जलिमेयद्रव्याणि
शरीरद्रव्याणि--दशोदकस्याञ्जलयः शरीरे प्रच्यवमानं पुरीषमनुबध्नात्यतियोगे नवाञ्जलयः पूर्वस्याहारपरिणामधातोर्यन्तं रस इत्याचक्षते कुशलाः अष्टौ शोणितस्य सप्तं पुरीषस्य चत्वारो मूत्रस्य द्वौ मेदसः एको मज्ज्ञः मस्तिष्कस्याञ्जलिः शुक्लस्य चेति ६

जीवगतिः
अथात्र प्रश्नो भवति कथमयं जीवो देहाद्देहान्तरमुपक्रमत इति अत्रोवाच भगवानात्रेयः । जलूकाया इवास्य केचिद्गतिं ब्रुवते । तन्न युक्तम् । इह व्यक्त्यन्तामूर्तं युगपत्स्यादेवापरेऽष्येवमिच्छन्ति । सर्वथापि मुमुक्षोरस्यायमन्तरात्मा परमुपक्रमत इति सर्वथाप्यस्मिन् परित्यक्ते परिचये तावदसंप्राप्तंतरा स्यात् । अवस्थानत्वाच्चेत्तदिष्टं कर्मणोप्येवं भवति वैय्यर्थ्यमपि तु खलु प्रतिश्रुत्यापहितः परत्र गमनं तस्य विद्यात् । अथवा यथादित्यस्य हृदये भूमौ रश्मयः प्रतितिष्ठन्ते । विलम्बितावेवमतस्य तत्र गमनमनुपश्चेदिति ७

पुरुषेऽध्यात्मदेवताः
अथ खलु पुरुषे षोडशाध्यात्मदेवता भवन्ति । तद्यथा--अग्निश्च पृथिवी चापश्चाकाशश्च वायुश्च विद्युच्च पर्जन्यश्च इन्द्रश्च । गन्धर्वश्च मृत्युश्चादित्यश्च चन्द्रमाश्च त्वष्टा च विष्णुश्च प्रजापतिश्च ब्रह्मा चेति । ताः कर्मभिर्विद्यादुत्पत्तितश्च परिमाणतश्च विद्यात् । ऊष्मा ह्यत्राग्नेश्च कर्म देहे । घ्राणं च पृथिव्याः स्नेहो रसो ज्ञानं चोदकस्य स्पर्शनं वायोः श्रोत्रं चाकाशस्य रूपादानं पर्जन्यस्य संवेगादानानि विद्युतः बलमिन्द्रस्य कामो गन्धर्वाणां कोपो मृत्योः चक्षुरादित्यस्य प्रसादश्चन्द्रमसः रूपं त्वष्टुः चेष्टा विष्णोः व्यवायः प्रजापतेः बुद्धिर्ब्रह्मण इति ८
तत्र श्लोकः
विशुद्धनेत्रास्तपसो मुनयः शान्तकल्मषाः
जगतश्चोपपन्नांश्च सर्वान्पश्यन्ति मानवान् ९
इत्याह भगवानात्रेयः
इति भेले शारीरे सप्तमोऽध्यायः


अष्टमोऽध्यायः
अथातो जातिसूत्रीयं शारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः

अवन्ध्या वन्ध्याश्च
इह खलु भोः याः स्त्रियः पथ्यलघुभोजिन्योऽनुदावर्तनशीला अप्रदुष्टा यथागर्भाशयाः सुविशुद्धस्रोतसो भवन्ति ता आचक्षते अवन्ध्याः इति कुशलाः । ता इष्टरूपं मेधावि चापत्यं जनयन्ति विपर्यये विपर्ययः १

बीजानुरूपो गर्भः
ऋतौ च गर्भोऽवितिष्ठते । तद्यथा--सुकृष्टक्षेत्रे बीजं प्रक्षिप्तं तत्र व्रीहिः व्रीहित्वाय कल्पते यवो यवत्वाय एवमेवेन्द्रियमृतुकाले विसृष्टमदुष्टायां योनौ गर्भाशयमुपगच्छति । तद्यथा आवर्तगृहीताः प्रतीपं प्रतिधावन्ति तद्वत् शुक्लशोणितं गर्भाशये आसिक्तं क्षीरमिव । तच्चानेककनकमिवौदुम्बरेण निषिक्तमेकत्वमापन्नमृद्धिं लभते २

गर्भस्येप्सितवर्णादिसम्पादनम्
सा चेदेवमाकाङ्क्षेतौद्वाहिके शिवावदातपुत्रं जनयेयमिति यवानां मन्थं सर्पिस्संयुक्तं सप्तरात्रमनुपहतं भुञ्जीत । ततो दौहृदिनी श्वेताया गोः सरूपवत्सायाः पयसि पाचयित्वा तदेवाश्नीयात् । शुक्ले च वाससी परिदध्यात् । सर्वश्वेतं चास्याः संस्कृतं विमानं कारयेत् । वृषभमश्वं वास्या दर्शयेत् । एवमवदातं पुत्रं जनयेत् । नेत्याह शौनकः । पैङ्गल्यं वा ततोऽप्यत्रेति । आत्रेय उवाच किं स्यादाबाधकम् पिङ्गलावयवया आयुष्मन्तो नीरोगाश्च भवन्तीति ३

सा चेदेवमाशासीत श्यामं लोहिताक्षं पुत्रं जनयेयमिति एषामेव यवानां मन्थं कारयेत् लोहितकुक्कुटरक्तेन सप्तरात्रं रक्तशालीनामोदनमनुपहतं भुञ्जीत । दौहृदे सा ताम्रेण च वाससा परिदध्यात् । ताम्रे चास्याः शयनासने दद्याद्रक्तवृषमश्वं वास्या दर्शयेत् । एवं श्यामं लोहिताक्षं पुत्रं जनयति ४
गर्भपातः गर्भशोषश्च
या वै द्वितीयमासि पुष्पं पश्येन्न वास्या गर्भस्तिष्ठतीति विद्यादजात सारा हि तदा गर्भवत्यो भवन्ति । यस्यास्तु खलु योनिः जातसारे पुष्पमास्रवति तस्याः पतति वाप्यतिकालं वावतिष्ठते गर्भः परिशुष्कगात्र इति ५

गर्भिण्याश्चतुर्थमासात् प्रभृत्युपचारः
चतुर्थे खलु मासे प्रतिविहिते क्षीरे नवनीतं प्राश्नीयात् । पञ्चमे क्षीरयवागूः क्षीरसर्पिः सप्तमे दध्युदश्वित् अष्टमे क्षीरसर्पिः नवमे तु खलु मासे प्रतिविहिते मधुरौषधसिद्धेन तैलेनानुवासः ६

गर्भिण्युपचारानुसरणफलम्
एवं ह्यस्याः प्रतिमासं वर्तमानायाः कुक्षिकटीपार्श्वपृष्ठं मृदूभवति जीर्णपुरीषं चाधः स्रवेत्सुखं च प्रजायते ७
सप्तमे तु खलु मासे गर्भप्रपीडिता वातपित्तश्लेष्माण उरः प्राप्य सविदाहं कण्डूं जनयन्ति । तेन किक्किसानि जायन्ते स्त्रीणाम् । त्रिफलाचूर्णं शशरुधिरेण पिष्ट्वा तेनास्याः तान्यालेपयेत् ८
सूतिकागारविधिः
अष्टमे तु खलु मासे प्रतिविहिते सति सूतिकागारं सम्यक् प्राग्द्वारमुदग्द्वारं वा कारयेत् तिन्दुकपलाशाश्वत्थैः ९

अग्रसंग्रहणीयानि
अथात्र पूर्वसंकल्पिताः स्यु द्वौ खलु बिल्वमयौ पर्यङ्कौ शूर्पौ च द्वौ तण्डुलमुसलौ गण्डोपधानं यवागूः सर्पिश्च तैलं च सर्षपाश्चेति १०

आसन्नप्रसवोपचारादि
अथैनां प्रजनयिष्यतीति यवागूं पाययेत् । अनागतगर्भवेदनां चैनामवहननं च कारयेत् । सा यदि जानीयादवभ्रष्टो मे कुक्षिः प्रविमुक्तो मे हृद्गर्भः प्रसृता मे योनिरिति अथैनामुपकारिकल्पितनखाश्चतस्र उपजीविकाः प्रतिदिनमुपतिष्ठेयुः । शनैः पूर्वं प्रवाहेत पश्चाद्बलवत्तरमिति । न चाप्यनागतवेगा वा बालिशतया अनागतवेगा हि दुःखायात्मानं प्रयच्छति सह पुत्रेण ११

अपरासङ्गे चिकित्सा
तस्याश्चेत्प्रजाताया अपरा न प्रयद्यते तदैनां रक्तशालीनामक्षमात्रं कल्कमम्लेन मूत्रेण वा पाययेत् । एतेनैव कल्पेन दन्तीद्रवन्तीवृश्चिकालीपुनर्नवावनशीर्षकं कारयेत् । तथोमाकालसर्पपुराणमालानामन्यतमेन धूपयेद् । सा चेदनेन विधिना न प्रवर्तते अथैनां तीक्ष्णफलतैलेनानुवासयेत् १२
इति भेले शारीरेऽष्टमोऽध्यायः
इति भेलसंहितायां शारीरस्थानं समाप्तम्