मानवशुल्बसूत्रम् अथातः शुल्बं व्याख्यास्यामः १ रज्जुं पाशवतीं समां निरायतां पृष्ठ्यां यथार्थमुपकल्पयेत् २ अन्तरेण चित्रास्वाती श्रवणप्रतिश्रवणौ कृत्तिका- प्रतिकृत्तिके तिष्यपुनर्वसू च प्राग्देशोऽयं युगमात्रोदितयोः पाशाञ्च ३ दार्शिक्याः शयाः षट्तानि सप्त सप्तदशैव तु एकं द्वे पञ्च तैर्मीत्वा समरैः परिलेखयेत् ४ अंसाच्छ्रोणौ रज्ज्वन्तं प्रतिष्ठाप्य प्राचीमनुलिखेदंसेप्रतिष्ठाप्य प्रतीचीं समरे रज्ज्वन्तं प्रतिष्ठाप्य श्रोणेरध्यंसादनुलिखेत् ५ एवमुत्तरतः पुरस्ता- त्पश्चाच्च ६ अरत्निश्चतुरश्रस्तु पूर्वस्याग्नेः खरो भवेत् रथचक्राकृतिः पश्चाच्चन्द्रार्धेन तु दक्षिणे ७ मध्यात् कोटिप्रमाणेन मण्डलं परिलेखयेत् अतिरिक्तत्रिभागेन सर्वं तु सहमण्डलम् चतुरश्रेऽक्ष्णया रज्जुर्मध्यतः संनिपातयेत् परिलेख्य तदर्धेनार्धमण्डलमेव तत् ८ गार्हपत्याहवनीयावन्तरा रज्जुं निमायापरस्मिंस्तृतीये लक्षणम् । म- ध्यात् तुरीयमुत्सृज्य लक्षणं पाशान्तौ समाहृत्य दक्षिणतो दक्षिणा- ग्नेर्लक्षणम् ९ एतदेव विपर्यस्योत्तरत उत्करस्य लक्षणम् १० यावत्प्रमाणा रज्जुः स्यात्तावदेवागमो भवेत् आगमार्धे भवेच्छङ्कुः शङ्कोरर्धे निराञ्छनम् ११ समन्तचतुरश्राणि विधिरेषः प्रकीर्तितः १२ १ अष्टाशीतिः शतमीषा तिर्यगक्षश्चतुःशतम् षडशीतिर्युगं चास्य रथश्चारक्य उच्यते १ ईषायां लक्षणं मीत्वा षट्सु नवसु च लक्षणे त्रिचत्वारिंशके पाशोऽङ्गुलानां नियोगतः २ एषा वेदिः समाख्याता चारक्य रथसंमिता ऐन्द्राग्नस्य पशोरेषा पशुष्वन्येषु षट्शया ३ प्राच्यर्धः षडरत्निः स्यादर्धारत्नेर्निराञ्छनम् अर्धे श्रोणी ततोऽर्धेंऽसावध्यर्ध इति पाशुकी ४ पशादर्धशये श्रोणी द्वयोः पृष्ठ्यापरा द्वयोः प्राच्यर्धस्तु ततोऽध्यर्धे ततोऽध्यर्धे निराञ्छनम् अर्धेंऽसोऽध्यर्ध एवान्यस्ततोऽध्यर्धेंऽस उत्तरः अरत्नौ तु ततः पाशो वेदी मारुती वारूणी ५ सर्वा दशशया रज्जुर्मध्ये चास्या निराञ्छनम् प्राच्यर्धं पञ्चमे कुर्याद्दिक्कुष्ठा पैतृकी स्मृता ६ सर्वा सप्तशया रज्जुर्मध्ये चास्या निराञ्छनम् प्राच्यर्धं पञ्चमे कुर्याद्दिक्कुष्ठा पैतृकी स्मृता ७ २ प्राग्वंशं दशकं कुर्यात्पत्नीशालां चतुःशयाम् प्राग्वंशात्त्रिषु वेद्यन्तो वेद्यन्तात् प्रक्रमे सदः १ नवकं तु सदो विद्याच्चत्वारः सदसोऽन्तरम् चत्वारस्त्रिका हविर्धानमर्धदशास्तदन्तरम् २ पदं यूपावटे मीत्वा शेषमौत्तरवेदिकम् आग्नीध्रं षडरत्न्येव षट्त्रिंशत्प्रक्रमा रज्जुः ३ लक्षिका द्वादश त्रिका । वेदिसदोहविर्धानानि मिनोत्येवानुपूर्वशः पञ्चदशकमेकविंशकं त्रिकमपरम् । परतोऽपरस्त्रिको द्वादशसु च पा- शद उच्यते । सोमे रज्जु निमानमुत्तमम् ४ त्रिपदा पार्श्वमानी स्यात्तिर्यङ्मानी पदं भवेत् तस्याक्ष्णया तु या रज्जुः कुर्याद्दशपदां तया ५ पशादर्धचतुर्दशे नवके तु ततः पुनः अर्धचतुर्दशः पाशः सदसश्छेदनमुत्तमम् ६ निमाय रज्जुं दशभी रथाक्षैरेकादशभिश्चोपरबुध्नमात्रैस्तस्याश्चतुर्विंशति- भागधेयमेकादशिनीं प्रतिवेदिमाहुः ७ शिखण्डिनी चेत्कर्तव्या वेद्यन्ताद्द्व्यर्धमुद्धरेत् अष्टाङ्गुलं तदर्धं स्याद्देव्य वेदि प्रसिद्धये तं प्राञ्चं तु समीक्षेत तांस्तु विद्याच्छिखण्डिनीम् ८ पञ्चकं सप्तं चैव एकमेकं ततः पुनः एषा वेदिः समाख्याता कौकिल्यास्त्वथ चारके ९ ३ जन्मना रोगहीनो वा यजमानो भवेद्यदि कथं तत्र प्रमाणानि प्रयोक्तव्यानि कर्तृभिः १ तुण्डं पुष्करनालस्य षड्गुणं परिवेष्टितम् त्रिहायण्या वत्सतर्या वालेन सममिष्यते २ त्रयस्त्रिहायणीवालाः सर्षपार्धं विधीयते द्विगुणं सर्षपं प्राहुर्यवः सर्षपारम् ३ अङ्गुलस्य प्रमाणं तु षड्यवाः पार्श्वसंहिताः दशाङ्गुलस्तु प्रादेशो वितस्तिर्द्वादशाङ्गुलः द्विवितस्तिररत्निः स्याद्व्यायामस्तु चतुःशयः ४ विंशतिशताङ्गुलतः पुरुषः स्वैः स्वैरङ्गुलिपर्वभिः अथ चेत्प्रपदोत्थानः पञ्चविंशशतो भवेत् ५ त्रियवं कृष्णलं विद्यात् मानं विद्यात् त्रिकृष्णलम् अनेन कृष्णलप्रमाणेन निष्कमाहुश्चतुर्गुणम् ६ पुरुषस्य तृतीयपञ्चमौ भागौ तत्करणं पुनश्चितेः तस्यार्धमथापरं भवेत्त्रिचितिकमग्निचितिश्चेत् ७ अष्टावष्टौ संमिता चितिरष्टैकादशिका च मध्यमा व्यत्या सवतीरुपन्यसेदष्टौ द्वादश चोत्तमा चितिः ८ ४ अथात उत्तरेष्टकं व्याख्यास्यामः १ ऊर्धबाहुना यजमानेन वेणुं विमिमीते २ तत्समोऽन्यतरः सारत्निर्द्वितीयस्तस्य पुरुषे लक्षणमरत्नि वितस्त्योश्चोभ- योरर्धपुरुषे ३ शिरसि परिश्रिते यूपायावशिष्य शेषमनुरज्जु पुरुषौ संधाय पञ्चाङ्ग्या शङ्कुं विनिहन्ति तयोः संधावर्धयोश्च ४ यावभितो मध्यमं शङ्कुं तयोर्वेणू निद्याय दक्षिणतः पुरुषसंनिपाते तोदं करोति ५ मध्यमे शङ्कौ वेणुं निधायाध्यधि तोदं हृत्वा दक्षिणतः पुरुषे शङ्कुं निहन्ति ६ पूर्वे शङ्कौ वेणुं निधाय द्वितीयं दक्षिणतः पुरस्तात्पुरुषसंनिपाते शङ्कुं निहन्त्यर्धे चैवं पश्चात् ७ एतेनोत्तरार्धो व्याख्यातः ८ दक्षिणस्य व-र्गस्य यावभितो मध्यमं शङ्कुं तयोर्वेणू निधाय दक्षिणतः पुरुषसंनिपाते तोदं करोति ९ मध्यमे शङ्कौ वेणुं निधायाध्यपि तोदं हृत्वा दक्षिणतः सारत्नौ शङ्कुं निहन्ति १० यः सारत्निस्तं मध्यमस्य पूर्वे निधाय द्वितीयं दक्षिणतः पुरस्तात्सारत्निमर्धपुरुषेण संनिपात्य शङ्कुं निहन्त्येवं पश्चात् ११ एतेनैवोत्तरपक्षो व्याख्यातः १२ पुच्छं सवितस्तिररत्निस्थाने १३ पूर्व- स्य पुरस्तादर्धपुरुषेण पञ्चाङ्ग्या शिरो विमिमीते १४ ५ व्यायामस्याष्टममेकतस्तुरीयमेकत उभयतस्तुरीयं च ते गार्हपत्यचितेः करणे १ पुरुषस्य दशमेन भागेन प्रथमं चतुरश्रं करणं कारयेद्दशम-मेकतोऽर्धमेकतस्तद्द्वितीयं दशममेकतोऽध्यर्धमेकतस्तत्तृतीयमुभयत-स्तुरीयं तच्चतुर्थम् २ तासामुत्सेधस्त्रिंशत्पञ्चमभागेनान्यत्र नाकसद्भ्यश्च चूडाभ्य ऋतव्याभ्योऽथ मध्यमायां पञ्चमषष्ठीभ्यश्च वैश्वदेवीभ्यस्ता अर्धोत्सेधाः ३ पुरीषमन्तर्धायोत्तरामुपदध्याद्गणसंसर्गायाविच्छेदाय ४ गर्तेषूपदध्याद्यदन्यदिष्टकाभ्यः ५ तत्र श्लोको भवति उखायाः पशु-शीर्षाणां कूर्मस्योलूखलस्य च स्रुचोः कुम्भेष्टकानां च चरोश्चैवा-वटान्खनेत् ६ प्रतिदिशमुपदध्यादात्मनि मध्ये प्राचीः शिरसि पुच्छे पक्षयोश्चात्मन्यप्ययेषु समं विभज्योत्तरामुत्तरामप्ययसंहितां पूर्वापरद-क्षिणोत्तरा विषयवचनादन्यच्चतस्रः पुरस्तात्पञ्चर्तव्याभ्यः पश्चाच्चोत्तरपूर्वे चार्धे गार्हपत्यस्य । शेषं चतुरश्राभिः ७ एता एव दक्षिणोत्तरा द्वितीयस्यां । शेषं चतुरश्राभिः ८ यथा प्रथमैवं तृतीया पञ्चमी वा यथा द्वितीयैवं चतुर्थे । तेन धर्मेन वत्यासं चिनुयात् ९ अथेत-रानाग्नीध्रीयादीन् नवनव पदानि करोत्येकैकं मध्येऽस्मानमाग्नीध्रीये । चत्वारि चत्वारि तुरीयाणि प्रतिदिशं होत्रीये । चतस्रोऽर्धाः कुष्ठासु ब्राह्यणाछंस्य । इतरेषां द्वे द्वे अध्यर्धे मध्ये प्राचीः । षडेव मार्जालीये पशुस्रपणे च १० विंशतिमध्यर्धाः प्राचीरंसयोर्दद्याच्छ्रोण्योः पुच्छे च विंशतिं द्वादश द्वादश पुरस्तात्पक्षयोः प्राचीः पश्चाच्च पञ्च पञ्च चोदीचीरभितः शिरसि । शेषं चतुरश्राभिः ११ विंशतिं श्रोण्यंसपक्षेष-दूई!चीर्दक्षिणतस्तथोत्तरतो द्वितीयस्यामेकादशैकादशाभितः पुच्छे पञ्च पञ्च प्राचीरभितः शिरसे । शेषं चतुरश्राभिः १२ यथा प्रथमैवं तृतीया पञ्चमी च यथा द्वितीयैवं चतुर्थ्येतेन धर्मेण व्यत्यासं चिनुयात् १३ त्रिरुपसत्सु द्वे पूर्वस्यां तिस्रो मध्यमायां षट्सु यथानुपूर्वेण द्वादशसु व्यत्यासं चितिपुरीषे करोति १४ एतेन धर्मेण संवत्सरात्समं विभज्य जानुदघ्नेऽस्य द्विगुणं त्रिगुणमुत्तरेषां चैकामुत्तरामुद्धत्याभ्यायनं वर्धायातिरिक्ता उपदध्यात् १५ मन्त्राद्यभिमर्शनान्तं तत्पुरुषस्य लक्षणम् १६ ६ दर्भस्तम्बं पुष्करपर्णं रुक्मपुरुषौ हिरण्येष्टकां शर्करां स्वयमातृण्णां दूर्वेष्टका नैवारमिति मध्यं । तस्मिन्कुम्भेष्टका या मध्ये दक्षिणोत्तरे च स्रुचावनूपमध्येषु शेषाः । पश्चात्स्वयमातृण्णायाः कुलायिनीं द्विय-जुश्च वंशयोः पार्श्वसंहिते द्वियजुरुत्तरे पुरस्ताद्रेतःसिचौ द्वे । दक्षिणे तस्मिन्वंशे द्वितीयामृतव्यां च पुरस्ताच्चतुर्थे लोके रेतःसिचं विश्वज्योतिषं मण्डलामृतव्यां घर्मेष्टकामषाढां कूर्मं वृषभमिति प्राञ्चमुत्तरे वंशे दक्षि-णतः पुरस्तात्स्वयमातृण्णायाः पञ्च मुलूखलमुसलमुत्तरपूर्वे चोखां मध्ये शिरसां शिरोभिः संहितामुपदधाति १ तस्याः पश्चात्पुरुषशिरसः पुरुष- चितिमुपदधाति षट्त्रिंशतं प्रतीचीस्त्रिवर्गेण श्रोण्याम् २ तत्र श्लोको भवति तिस्रो ग्रीवाः षडंसयोर्द्वे द्वे बाह्वोर्नवात्मनि जङ्घयोरु पञ्च पश्चादस्मानामेकैकं पाणिपादयोः ३ अष्टवथापस्याः समं विभज्य वंशेषु नवमेनवमे प्राणभृतः पुरस्तादुत्तरे वंशे प्रथमं पश्चाद्दक्षिणे दक्षिणतः पूर्व उत्तरतः पश्चाद्दक्षिणतः स्वयमा-तृण्णाया द्वितीये पञ्चममनूपेषु संयतो नवमेऽतिमात्रा यथा प्राणभृतः पुरस्ताद्दक्षिणे वंशे प्रथमं पश्चादुत्तरे दक्षिणतः पश्चादुत्तरतः पूर्व उत्तरतः पश्चाद्दक्षिणतः उत्तरतः स्वयमातृण्णाया द्वितीये पञ्चमम् । वैश्वदेव्यश्चा-नूपेषु प्रतिदिशमुत्तरपूर्वेषु वंशेष्वाद्या । दक्षिणोत्तरे च संयान्यावप्यये तयोर्वंशयोराद्यात् पुरस्ताद्वाथर्वशिरः ४ समं विभज्य वंशेषु शिरः प-क्षपुच्छानि प्रथमेषु वंशेषु लोकान्विजानीयात् ५ शिरसि प्रथमे वंश उत्तरामुत्तरामितरेषां पक्षपुच्छानां चतुर्थे पक्षयोः प्राचीः पुच्छे चोदीची-र्लोकेष्टका उपदध्याच्छेषाः पश्चात्स्वयमातृण्णाया एकैकं पूर्वं संहिताम् । दक्षिणे वंशे वैश्वदेव्याद्य उत्तरे च पुरीषाद्याः ६ गायत्रं मध्ये शिरसि रथन्तरं बृहद्यज्ञायमिति यथाम्नातम् ७ ७ द्वितीयायां पुरस्तात्स्वयमातृण्णायाः प्रथमद्वितीयतृतीयेष्वृतव्या वाय-व्या अपस्या इति यथासंख्यम् । तिस्रस्तिस्रो दक्षिणेषु वंशेषु दक्षिणो-त्तरा द्वे द्वे उत्तरस्योत्तरयोर्नवमेऽभितः शेषा यथापस्याः १ तृतीयायां दश द्वादश नवमेऽअभितो । अष्टमे सप्त पुरस्तात्पश्चाच्च समीचीरभितः स्वयमातृण्णाया अर्धोत्सेधा अष्टौ नानामन्त्रा उत्तमायां वा २ चतुर्थ्या-मेकैकां नवमेनवमेऽभितः पुरस्तादुत्तरस्य वंशस्य मध्ये प्रथमां व्य-त्यासमितरा । एवमेव स्पृतः पुरस्ताद्दक्षिणस्य वंशस्य मध्ये प्रथमां व्यत्यासमितराः । षट्सप्ताष्टमेषु दक्षिणतो युग्मायुग्मा उत्तरतस्त्रिव-र्गान्कुर्यात्सप्तदश दक्षिणतः पञ्चदशोत्तरतः ३ पञ्चम्यामेकैकां प्राणभृदा-धिषु शेषं छन्दसां विराजश्च यथातिमात्राः षट्सप्ताष्टमेष्वभितो यथासं-ख्यम् ४ अर्धेष्टकाभिः पूरयित्वा दक्षिणतः प्राचीः स्तोमभागाः पश्चिमाश्च युग्मा उत्तरतस्त्रिवर्गान्कुर्यादेकत्रिंशतम् । पश्चात्प्रत्यञ्चं त्रिवर्गेण नाक-सदं च पश्चात्पुरीषवत्या यवादिना सनाम्नीरुपशीवरीर्घृतप्लुता इति य-थासंख्यम् । तुरीयाणि मध्ये यथा प्राणभृतोऽतिमात्रा मध्यमां स्वयमा- तृण्णासंहितामुत्तरस्तु विकर्णीम् ५ इति सुपर्णस्य ६ ८ यावती शोषपाकाभ्यामिष्टका ह्रसते कृता तावत्समधिकं कार्यं करणं सममिच्छत १ सदा च त्रिंशकं भागमिष्टका ह्रसते कृता तावत् समधिकं कार्यं करणं सममिच्छत २ एकैकं शतमध्यर्धं तदूतं षडभिरङ्गुलैः इष्टकानां परिमाणं वैकृतं यदतोऽन्यथा ३ नवाङ्गुलसहस्राणि द्वे शते षोडशोत्तरे अङ्गुलानां परिमाणं व्यायामस्य तु निर्दिशेत् ४ इतरेषां तु धिष्ण्यानां सर्वेषामेव निश्चयः एकैकस्य सहस्रं स्याच्छते षण्णवतिः परा ५ एकादश सहस्राणि अङ्गुलानां शतानि षट् शतं चैव सहस्राणां क्षेत्रमग्नेर्विधीयते ६ प्राकृतं वैकृतं वापि क्षेत्रमर्धाष्टमान्तरे पञ्चविंशं शिरः कृत्वा ततः क्षेत्रे समावपेत् ७ शतान्यष्टौ पदोनानि पदानामिह कीर्त्यन्ते साङ्गस्य सशिरस्कस्य क्षेत्रं क्षेत्रविदो विदुः ८ आत्मा चतुःशतः कार्यः पक्षौ त्रिंशच्छतौ स्मृतौ दश पुच्छे शतं चैव शिरः स्यात् पञ्चविंशकम् ९ एकत्रिंशस्त्रयस्त्रिंशैर्वर्गैः पञ्चाशकैरपि असंभवत्सु वर्गेषु द्विधा भिद्येत इष्टका १० इष्टकाह्रासवृद्धिभ्यां दृढासु शतकेषु च मतिमानिष्टका भागैर्मन्त्रात्संनाशयेदिति ११ चतुरश्रे पृष्टौ वापि पक्षपुच्छशिरेष्टकाः दिक्तोऽपधानं लोकाच्च तथा लोकस्तु लुप्यते १२ अध्यात्मनि ह विज्ञेयमुपधानं विजानता रथन्तरबृहल्लोकैरन्यं गायत्रयाज्ञियैः १३ यजुष्मतीनां संख्या तु सर्वासां चैव निश्चिता एकैकस्यां चितौ वापि तां मे निगदतः शृणु १४ षडशीतिः शतं त्वाद्या द्वितीया दश सप्ततिः त्रयोदश तृतीया स्याच्छतं चाहुर्मनीषिणः चतुर्थी शतमेका स्यात्तिस्रश्चैवेष्टकाः स्मृताः शतानि त्रीणि पञ्चाशत्षट्चैव चितिरुत्तमा १५ एताः सर्वा यजुष्मत्यो याभिरग्निः प्रसूर्यते शेषं लोकंपृणाभिस्तु चितीनामभिपूरयेत् १६ एताः सर्वा समाम्नाताः यजुर्यावत्प्रवर्तते तदेतद्धि सहस्रं स्याच्छर्कराभिः सहोच्यते १७ एता उपहिताः सम्यग्धेनवस्तु प्रजायन्ते अमुष्मिन्यजमानाय कामान्दुह्यति सर्वशः १८ षष्टिं प्रजापतिं वेद यो हि संवत्सरः स्मृतः गच्छति ब्रह्मणो लोकं नाकं ब्रध्नस्य विष्टपम् १९ ९ वैष्णवे या प्रमेयाय शुल्बविद्भिश्च सर्वशः संख्यातृभ्यः प्रवक्तृभ्यो नमो भरन्तो यो मसे इदं भूम्य भजामहे या नो मानकृतामिव यज्ञियं मानमुत्तमं वर्धमानं स्वे दमे १ स्पष्टा भूमिऋजुः शङ्कुर्मौञ्जं शुल्बमबन्धुरम् चित्रादौ नाकृतिः कार्या तिथ्यृक्षं वरुणशुभम् २ सर्वाः प्रागायता वेद्यः करणं यस्कदेहिकम् अर्धेनार्वसमं सर्वमुच्छेदो जानु पञ्चकम् ३ मध्यमेऽर्धमृतव्यानां नाकसत्पञ्चचूडयोः करणाद्यर्थमुद्दिश्य क्षेत्रमर्धाष्टमान्तरः ४ अनःसिद्धं हविर्धानं पात्रसिद्धाः खराः खराः चात्वालः पशुभिः सिद्धो हविर्भिः साग्निकाः खराः ५ मण्डलार्धं चतुःस्रक्ति रत्निनां विहिताः खराः अरत्निर्घन एतेषां भूयस्त्वे भूयसीबिधौ ६ पूर्वश्चतुर्विंशतिभागे लेख्यश्चतुर्वंशैरालिखितस्तु पश्चिमः स्याद्दक्षिणेऽष्ट- द्विगुणेन लेख्यस्त्रिंशद्भिरायम्य हरेत्तुरायम् ७ उदक्प्रक्रम्य चात्वालं शामित्रं प्रक्रमे ततः भूयस्तत्पशुभूयस्त्वे वृद्धिरुत्तरतो भवेत् ८ आयामबाहुं निक्षिप्य विस्तरस्तु तथा पृथक् सोऽध्यर्धं गुणयेद्राशिं स सर्वगुणितो घनः ९ आयाममायामगुणं विस्तारं विस्तरेण तु समस्य वर्गमूलं यत्तत्कर्णं तद्विदो विदुः १० श्रवणाभिजितोर्बहुलातिष्ययोर्वा चित्रास्वात्योरन्तरेऽप्स्वग्निना वा ११ नक्तं प्राचीभास्करश्रायमाहुः । शङ्कुलिप्ते मण्डले प्राक्पराक्चेति १२ १० जन्मना रोगहीनो वा यजमानो भवेद्यदि कथं तत्र प्रमाणानि प्रयोक्तव्यानि कर्तृभिः १ यद्युरुतन्तुः केशोवास्तृतः सर्षपो यवश्चैव षड्गुणितः षड्गुणितो भव- ति नरस्याङ्गुलं माने तद्द्वादशकं प्रादेशमित्याहुः २ तद्द्वयं स्मृतोऽरत्निः प्रक्रमोऽरत्निसमः स द्विःप्रादेशो भवेच्चितिषु ३ अध्यर्धाङ्गुलहीनाश्चत्वारः प्रक्रमा भवेन्नियताः ४ तत्रैकादश यूपाश्चत्वारश्चतुरुत्तराः सत्त्रेसत्त्रे ५ एकस्यां वेद्यामग्निद्वयमिष्टकारिक्तं भवति पृथगतो वेदिः चेत्पृथगग्निः कॢप्तः ६ विंशत्यङ्गुलः शतं नियतः पञ्चारत्निर्नरो दशपदो वा । हीना-तिरिक्तयुक्त्या देहेदेहे प्रमाणं तु ७ षडशीतिर्युगमुक्तं साष्टादश उच्यते त्वक्षस्तन्त्रसमसमस्तं द्व्युजं रथमीषां व्यवास्यन्ति ८ मण्डलमथ च-तुरश्रं मण्डलं च यः कुर्जात्तस्येमं करणविधिं तद्विदामुदाहृतं शृणुत ९ मण्डलविष्कम्भार्धसमस्त्रिभुजादवलम्बकश्चतुःस्रक्तिः प्रागायतात्त्रि-भागात्कर्णात् स मण्डलं भवति १० पुरुषः पुरुषं कुर्यात्तस्याक्ष्णया द्वि-पुरुषं भवेच्चतुरस्तस्याप्यक्ष्णया द्वाभ्यां वा स्याश्चतुःपुरुषम् ११ द्विपुरुषः करणी श्रोणी बाहुस्तु द्विगुणो भवेत्त्रिंकुष्ठवत्त्र्यवलम्बकस्ततो यश्चतुरश्रे द्वाष्टमाः पुरुषाः १२ विष्कम्भः पञ्चभागश्च विष्कम्भस्त्रिगुणश्च यः स मण्डलपरिक्षेपो न वालमतिरिच्यते १३ दशधा छिद्य विष्कम्भं त्रिभागानुद्धरेत्ततः तेन यच्चतुरश्रं स्यान्मण्डले तदपप्रथिः १४ चतुरश्रं नवधा कुर्याद्धनुःकोट्यस्त्रिधात्रिधा उत्सेधात्पञ्चमं लुम्पेत्पुरीषेणेह तावत्समं १५ चतुररत्निर्वा नरः सिकताकरणे त्वर्धं भुजः प्रदिश्यते १६ करणानि त- तोऽस्याः कारयेत्त्रिचतुःपञ्चत्रिरभिपर्यस्य यच्छुभं चयनेषु विधिः पुरात-नैरृषिभिर्योऽभिहितश्च नित्यशः १७ परिलेखनमानसंचयैर्व्यत्यास्यैः परिमाणसंपदा वेद्यः सर्वाः प्रमाणैरायामेन च विस्तरेण च मिमीयात् १८ चतुरश्रसंपदाद्व्यायामसमापनाः स्मृता पञ्चाङ्ग्याथ वा पुरातनैर्याः पूर्वैरृषिभिः प्रदर्शिताः १९ यश्चैष विधिर्मर्याकृतस्तत्रैषा मिथुनात्समं पञ्चाङ्गी तावती रज्जुर्यया सर्वं मिमीमहे ऋते कङ्कालजश्येनां स्तेषां वक्ष्यामि लक्षणम् २० इयं मिता या समयार्धलक्षणा ततश्चतुर्थे भवेन्नि-राञ्छनं ततोऽर्धशिष्टा विस्तारसमा चयस्य । यत्ततश्चतुःकुष्ठमिहानया चरेत् २१ प्राचीतथायामसमा निदध्यात्पाशौ निखन्यादथ मध्यं च २२ उन्मुच्य पश्चादथ मध्यमे तत्प्राग्दक्षिणायम्य निराञ्छनेन विस्तार-तोऽर्धे निखनेत शङ्कुम् । प्रत्यक्तथोत्तरमध्यमे च । स वासुवेदीषु २३ अथ मानमेतच्छ्रोण्यां तु पाशोद्धरणं क्रियेत २४ अंसश्रोण्योर्लिखेत् दिक्षु लेखाः । शङ्कू निहन्यात्समरेषु तेषु । तेभ्यः समन्तात्परिलेखयेत् २५ यद्यैष्टिका नोभौ लिखेत शिष्टौ २६ पूर्वे त्रिभागे त्वपरे च सिद्धोप-स्थितावुत्करदक्षिणाग्नी २७ अथान्यदस्य परिलेखनं तु मध्ये भवेद्दिक्षु नवाङ्गुलेनेति २८ ११ प्रमाणार्धं तु षष्टयूनं विशेष इति सङ्ज्ञितम् विशेषश्च प्रमाणं च प्रमाणस्याक्ष्णया भवेत् १ प्रमाणार्धमन्यत्स्यात् पाशषष्ठे सचतुर्विंशे लक्षणं करोति तन्निराञ्छन- मक्ष्णया तिर्यङ्मानी शेषः पाशादर्धशये श्रोणी द्व --- २ --- चाग्नीध्रमिहोपदिश्यते ३ अग्नेर्यदक्ष्णयामानं तस्य चैव तदक्ष्णया तदाश्वमेधिकं विद्यादेकविंशद्विधौऽथवा ४ पुरुषस्तिर्यग्भवेद्यदनुदशधा यो मितः तस्य कर्णेन यत्क्षेत्रं विद्यादेकादशं तु तत् ५ उभौ बाहू नशक्ष्णां तु नरस्तिर्यक्तदक्ष्णया एकोच्चतानैकशताद्बाहुवृद्धया विवर्धयेत् ६ १२ अवलम्बककुष्ठे तु यो भवेत्षोडशाङ्गुले सौत्रामण्या भवेदेष प्रक्रमो मानकर्मणि १ प्रक्रमस्य तृतीयेन सौमिकी सार्पराज्ञिकी संतृतीयैस्त्रिभिश्चान्यैः सिद्धमौत्तरवेदिकम् २ चतुर्दशाङ्गुलो वा स्यात्प्रक्रमस्तेन सौमिकी शतैर्द्वादशभिर्वापि मिनुयात्पाशुकामिव ३ सचतुर्थे वनं षड्भिर्नवभिर्वाथ सप्तभिः नवभिर्वापरं चक्रं करणाधे न लेखयेत् ४ चतुर्षु निवपेदेषां सावित्रादिषु यो विधिः अरुणे जानुदघ्ने निखन्यादद्भिस्तु पूरयेत् ५ चतुरश्रमथापि मण्डलं द्विविधं गार्हपत्यलक्षणं व्यायाममितं चतुर्भुजं पुरुषार्धेन तु मण्डलं परिलिखेत् ६ व्यायामतृतीयमायान्तं चतुरश्रं सप्त-मभागविस्तृतं प्रागाचितमुत्तराचितं व्यत्यासे तदथैकविंशकम् ७ पुरु-षस्य तृतीयमायान्तं चतुरश्रं षड्भागविस्तृतम् । प्रथिकश्च तदायतो भवेन्मध्ये तेन समायतो भवेन्मध्ये तेन समास्तिके शेषौ । कोणौ प्रथिकमितौ समौ तद्विस्तारकृतौ विशाखः ८ षड्भागकृतायामो भवे-द्द्व्यर्धे तु त्रिकोणसंस्थिते ९ चतुरश्रविपाणकः प्रथिकोऽर्धं प्रथिकश्च यो मितः १० करणानि भवन्ति मण्डले चत्वारि प्रमितानि भागशः ११ मध्येऽस्य चतस्र इष्टकाः तत्पूर्वापरयोर्द्वयोर्द्वयम् । प्रथिकोऽर्ध वि-षाणिकद्वयं पुनरेव पुनरैति मण्डलमर्धप्रथिकद्वये समं संपूर्णम् । तद-थैकविंशकम् १२ व्यत्यासमुदङ्मुखेन सह व्यत्यस्येद्वेत्युत्तरोत्तरम् १३ अध्यर्धं पद्यं च पद्यार्धपद्यपादवत्पद्यार्धोत्सेधमित्याहुर्गायत्रे करणानि च १४ चतुर्गुणां द्विपुरुषां रज्जुं कृत्वा समाहिताम् । संभागज्ञातृतोदान्तां पञ्चाङ्गीं तद्विदो विदुः १५ मध्यमात्पाशयोस्तोदो गायत्रमानमुच्यते । सारत्नावर्धपुरुषे । चतु- रश्रस्तया मितः । पक्षपुच्छान्तयोर्वृद्ध्या गायत्रेणेतरेषुभिः १६ इष्टका शोषपाकाभ्यां त्रिंशन्मानात्तु हीयते १७ ततः क्षेत्रं त्रिचतुर्भागं निरुह्यादापयेच्छिवम् १८ अंस उत्तरेंऽसे च प्राच्योऽध्यर्धास्तु विंशतिर्दश पुच्छे द्विर्द्वादशकौ प- क्षयोरभितः पुच्छे तु पञ्च देयाः पञ्च प्राचीः पञ्चदश दद्याच्छिरसि । चतुरशीती पक्षयोः पञ्चाशतं त्रिंशतमात्मनि पद्या भवन्ति शतमेकोनं पुच्छेंऽसश्रोण्योर्विंशतिर्विंशतिः पुच्छे पक्षयोर्दशदशाहुः १९ अध्यर्धा दश शिरसि प्राच्युदीच्यो भवन्ति २० पूर्वोपहिता प्रथमा पदयुजः सर्वा । द्वितीयावाग्युजोऽश्विनी २१ व्यत्यासं चिनुयादेवं जानुनास्य वर्त्मसु २२ त्रिपदा अल्पक्षेत्रा एकचितिकाश्चतुः करणयुक्ताः धिष्ण्या भवन्ति साग्निचित्यमन्त्राः सातिरिक्ताश्च २३ अध्यर्धास्तु चतस्रो द्वे मध्ये नक-लु!श्चतुर्भागः २४ अश्मा नवमोऽग्नीध्रे २५ होत्रीयमतः संवक्ष्यामो । अंसश्रोण्योः पद्याश्रया नकुलका बहिस्तिसृषु दिक्ष्वन्तश्चतुर्दश पदक-चतुर्थाः स यः प्रतिदिशमष्टौ पद्या दिक्षु विदिक्षु २६ ब्राह्मणाच्छंस्ये दश चैका स्युर्मध्ये द्वौ द्वौ चतुर्थ्यौ नकुलश्च २७ अभितस्तिस्रः पद्या द्वे मध्येऽध्यर्धे शिष्टेष्वष्टौ २८ अध्यर्धाः षण्मार्जालीयेंऽस मार्जालीयं स्याद्दक्षिणपार्श्वेन शामित्रं चात्वालस्य च पश्चाद् वभृथकल्पेऽप्येवं पदमेकतस्त्रिपदस्तिस्रोऽतिरिक्तेष्विति २९ १३ सप्तत्रिंशत्सार्धाः पक्षः सव्यश्च शिरसि चत्वारः षड्विंशकस्तथात्म श्येने पञ्चदशकं पुच्छम् । सप्तदशकं पुच्छं द्वयं शिरस्यात्मपक्षयोः कॢप्तमलजस्य । भागसंधान्तयज्ञैः प्रमितान्नरचतुर्थे १ अष्टौ भागाः पुच्छं कङ्कचिते भवन्ति पादयोश्चतुरः शिरसि तु सप्त ज्ञेयाः श्येनवदात्मा च पक्षौ च २ श्येनालजकङ्कानामष्टौ सार्धा विस्तृतं पुच्छं चत्वारोत्मा द्वौ च शिरः सर्वेषां पञ्चकौ पक्षौ ३ श्येनालजकङ्कानां द्वित्रिचतुः कुष्ठ-मित्युच्यते पुच्छम् । पञ्चाक्ष्णाः पक्षपात्रास्त्वक्ष्णाभिः परिश्रिताः ४ पुच्छे द्वौ भागावानयेत्पुच्छमलजेन त्रिकुष्ठवत्त्रीन्श्येनपुच्छाच्छिरसि कङ्के पादौ तु हरेत् ५ प्राचीर्द्वादश सार्धा विंशतिरुदीचीर्भवेन्मिता भा- गा । दश पञ्च कङ्कचितावलज उदीचीस्त्रयोदश सार्धाश्च ६ त्रिचतुर्भागमानी स्याद्रज्जुरर्धत्रयोदशी मध्ये च लक्षणं तस्याश्चतुर्भागैर्निराञ्छनम् ७ भागिकाश्चत्वारस्तोदा अर्धषष्ठेऽपरः स्मृतः अर्धाश्च मेऽष्टमे चैव नवमे दशमेऽपरः अर्धद्वादशो वान्यः ८ ततः प्राचीः प्रसार्य तु तस्या निखानयेच्छङ्कुम् । पाशयोर्मध्यमेऽष्टमे । चतुर्थे वाहत्य पाशम् । आसज्य मध्यमे निराञ्छनम् ९ निरायम्य विनुद्योन्मुच्य मध्यमात् । अभितो दशम आयम्य भागा द्विकचतुष्काः । अर्धषष्ठेऽपि चाहत्य पूर्वादेवं समाचरेत् । तुल्यं शङ्कुं तुर्ये १० ततः प्राचीः प्रसार्य तु अर्धषष्ठकयोः पाशौ । शङ्कू अर्धाष्टमेऽष्टमे । प्रगृह्य पश्चिमशङ्कू । द्विकयोर्वोत्सृजेत्ततः ११ चतुर्थनवमौ शङ्कू प्रवृहेदन्तिमावुभौ १२ अष्टमे पाशमासृज्य अष्टमेनैव निग्रहः । भागेभागे ततः शङ्कू तयोः १३ अष्टमे पाशमासृज्य आदिशङ्कौ निगृह्य च दशमे शङ्कुमाहन्यात्पुच्छार्धे अलजस्य तु १४ स्यार्धाष्टमे शङ्कुः कङ्कस्य दर्शने स्मृतः १५ त्रिके पाशं समासृज्य दशकेन निगृह्य च एताभ्यामेव तोदाभ्यां शङ्कू देयौ तथोत्तरौ १६ अर्धद्वादशमे पाशस्त्रिको निग्रहणो भवेत् आदिपाशे द्विके चैव शङ्कू देयौ तथोत्तरौ १७ उत्तरे द्विकमासज्य दक्षिणं समयोर्हरेत् १८ चतुर्थे शङ्कुमाहन्याद्विपरीतं समाचरेत् चतुर्थे तु तदर्थेन निर्गृह्य च --- १९ इति श्येनस्य रज्जुर्द्वादशलक्षणा २० चत्वारि करणान्येषां त्रिचतुर्थेन कारयेत् नवभागा अक्ष्णार्धाक्ष्णाः पञ्चकोणाः च भागशः २१ प्राचीने पञ्चकोणे द्वे अथार्धाक्ष्णाद्वयं न्यसेत् अंसाग्रयोरथैकैका एवं पक्षविपक्षयोः २२ नवभागैश्चितं मध्यमक्ष्णाभिः परिषिञ्चते पक्षाग्रे पञ्च पत्राण्येवं चाक्ष्णा विधीयते २३ व्यत्यासाक्ष्णाद्वयं तुन्दे पञ्चकोणे प्रत्यक्स्थिते अर्धाक्ष्णे कण्ठसंध्योश्च पूरयेदमितं शिरः २४ द्वे पक्षसंध्योरर्धाक्ष्णे पुच्छसंध्योस्तथापरे दश पञ्च च पुच्छाग्रे पक्षाग्र एकविंशतिम् २५ औपमाने चयने चैषां व्यत्यासे करणेषु च रज्ज्वाश्चावपनं ह्रासो श्येनसिद्धिरिति स्थितिः २६ अवक्रपक्षमलजं च पूर्वपक्षे तथायुतम् मध्यात् प्रसिद्धं पुच्छं श्येने दाम्ना प्रसिध्यत इति २७ नवमात्प्राग्भागे शङ्कू तुरीयस्य करणम् अलजे पक्षार्धमवक्रताद्ध्येवं भवेत् २८ १४ पुरुषस्य तृतीयपञ्चमौ भागौ तत्करणं पुनश्चितेः तस्यार्धमथापरं भवेत्त्रिचितिकमग्निचितिश्चेत् १ अष्टावष्टौ रंमिता चितिरष्टैकादशिका च मध्यमा व्यत्यासवतीरुपन्य सेदष्टौ द्वादश चोत्तमा चितिः २ पञ्चदशनरं क्षेत्रं प्रौगचित्ततस्त्वर्धम् मध्याद्दशके त्रिकुष्ठमेतत्तथा करणम् ३ बाह्वोरेकविंश उभकरणे तथार्धोऽन्यश्च अंसश्रोण्योश्छेदस्तस्योभयतो भवेत् प्रौगः ४ चात्वालेभ्यश्चतुर्भ्यस्तु समूह्योऽग्निरनिष्टकः दिग्भ्यः पुरीषैः समूह्यो भागशो युक्तितो विधिः ५ मण्डलचतुरश्रोऽद्य परिवार्यः श्मशानचित् द्रोणचित्त्सरुमानेषां दशभागो भवेत्त्सरुः ६ मण्डले चतुरश्रं तु कुर्याद्गार्हपत्यवत् बाह्वोर्विंशतिभागेन वारुणं सार्धमेव तु ७ प्रसिद्धं दशधा कुर्याद्बहिरन्तश्च युक्तितः त्रिकुष्ठश्च विषाणः स्यात्संधौ व्यत्यास एव सः ८ चतुरश्रस्य करणं बाह्वोर्द्वात्रिंशद्भागिकम् चतुरश्रमथाध्यर्धं ताभ्यां गायत्रवद्विधिः ९ साहस्रस्य करणं बाह्वोः पञ्चदशभागं चतुरश्रम् अध्यर्धास्तु ततः स्युर्द्विशताश्चितयः स्मृताः १० पञ्च पञ्चाशतमध्यर्धास्तिस्रः पञ्चाशतं चतुरश्राः सहस्राच्छतं पक्षाः स्युरुषा सहस्रतमी ११ बाह्वोरेकत्रिंशो भागः करणं चितिस्तथोत्तरयोः चतुरस्रानां साहस्रं सवनिके व्यवास्यन्ति १२ अर्धैकादशपुरुषं घनं भवेद्भवेन्मण्डलं रथचक्रम् । नाभिररा विवर- धा नेमिररेभ्यो यद्यतिरिक्तम् १३ तदर्धाः पुरुषायामाः पुरुषाष्टभागवि-स्तृताः चतुर्विंशतिस्त्रिनरनायाः १४ विवरकरणमतः संप्रवक्ष्यामि । द्विसप्तमेन नेम्यस्रकरणं भवेदरस्याष्टभागेन वैकृतश्चतुर्विंशतिभागेन ना- भ्यामन्तरमन्तरोऽष्टमभागेन प्रौगवद्भवेत् १५ द्वीष्टकां चिनुयान्नाभिं चतुर्भिश्चिनुयादरान् त्रिभिर्नेमिं यथाभागं व्यत्यासः कूपवत् स्मृतः १६ विष्कम्भस्य चतुर्थेन नाभ्यास्तु विवरं लिखेत् त्रिचत्वारिंशाङ्गुलां नेमिं सार्धचतुरङ्गुलाम् १७ सिद्धमन्यद्यथा युक्तिश्चयने याश्च संपदः १८ य इदमपि यथातथं स्मृतिं विधिं यदाधीत्य मिमीते रौरवं समवति खलु कृत्स्नसंमतो ब्रजति च शुल्बकृतां सलोकताम् १९ १५ रथचक्रस्य चित्यस्य संक्षेपोक्तस्य विष्णुना अथ धातुर्निर्विष्ठस्य त्रिगुणान्यं बहिर्बहिः लीयन्ते मण्डले यस्य सप्त सार्धा नरा बुधैः १ मुच्यन्ते विवरेष्वन्ये क्षेत्रादभ्यधिकास्त्रयः २ तस्य चक्रविधानं तु नेमिररेभ्यो विस्तरः मण्डलानां च विष्कम्भः त्रिभागः करणानि च ३ नरार्धेनाभिलिखेन्नाभिस्ततः प्रस्तारगोचरा अरेभ्योऽभ्यधिका नेमिस्त्रिषष्ठेनाक्षरागारम् त्रिंशतेन सविंशेन अधिकैश्चार्धपञ्चमैः मिमायाङ्गुलैर्वा मध्यं कुर्याद्विंशेन परिलेखनम् ४ प्रथमे प्रस्तरे रथचक्रस्य सृणुतेष्टकाः चतुर्भिरधिकं वेत्थ चत्वारिंशच्छतत्रयम् ५ द्वितीयेऽभ्यधिका यान्तु चतुर्विंशतिरिष्टकाः पञ्चकोणास्त्रिकोणाश्च नेम्यरेभ्यः च संधिषु ६ इष्टकानां सहस्रेण शतैः सप्तभिरेव च अष्टषष्ट्या च चक्रस्य चितयः पञ्च पूरिताः ७ इति शुल्बसूत्रं समाप्तम् ८ १६