जैमिनीय श्रौत सूत्र अथ प्रथमः खण्डः सोमप्रवाकमागतं प्रतिमन्त्रयेत महन्मेऽवोचो भगं मेऽवोचः पुष्टिं मेऽवोचो यशो मेऽवोच इति । अथैनमाह कच्चिन्नाहीनः । कच्चिन्नानूद्देश्यः । कच्चिदन्यस्तमार्त्विज्यम् के याजयन्ति । का दक्षिणा इति । तस्य त्रीणि मीमांसेत जन्मकर्मर्त्विज इति । एतान्येव यजमान ऋत्विजां मीमांसेत । तदाहुः कोऽहीन इति । अतिरात्रः प्रथमोऽहीन इत्याहुः । नहि सो-ऽहोरात्रयोर्हीयते किञ्चिदिति । तदानध्यायो भवति । अनूद्देश्येन न याज-येद् यत्र त्वन्तःशवो ग्रामो भवति । अन्तःशव एष यज्ञो योऽनूद्देश्यः इति । न्यस्तमार्त्विज्यं न कुर्याद् । ते यदेव पूर्वः परिचक्षाणो न्यस्यात्तदेव परिचक्ष्मह इति । अथापि न्यस्तमित्येतेनैव । के याजयन्तीति । अनूचाना एवानूचानं बन्धुमन्तो बन्धुमन्तं सुचरितिनः सुचरितिनम् इति । कृष्णजन्मानं न याजयेत् । पापकर्माणं न याजयेत् । कृष्णजन्मभि-रृत्विग्भिः सह न याजयेत् । पापकर्मभिः सह न याजयेत् । का दक्षिणा इति । न दक्षिणाः पृच्छेदिति ह स्माह शाट्यायनिर् विक्रयस्यैतद् रूपमिति । पृच्छेदिति ह स्माह ताण्ड्य एतत्फलो वै यज्ञो यद्दक्षिणा इति । स यदि याजयिष्यन् स्यादभिद्रवेद् । स यद्यदीक्षितं यक्ष्यमाणं गच्छेदुत्तरत उपविश्य प्रवाचयेत । यजमान एवात ऊर्ध्वमभिद्रवति परिवेषणाय १ अथ द्वितीयः खण्डः अथास्मा आसनमाहरन्ति तस्मिन्नुपविशति । अहे दैधिष व्योदतिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरस्तस्य सदने सीद निरस्तः परावसुरिति तृणं निरस्यति यत् प्रतिशुष्काग्रं नवति यद्वा प्रतिच्छिन्नाग्रम् । अप उपस्पृश्य आ वसोः सदने सीदामीति सीदति । अथास्मा उदकमाहरन्ति । तत् प्रतिगृह्णाति मयि वर्चो अथो भगमथो यज्ञस्य यत्पयः परमेष्ठी प्रजापतिर्दिवि द्यामिव दृंहत्विति । अथास्मै मध्वाहरन्ति । तत् प्राश्नाति चतसृभि-रङ्गुलीभिः साङ्गुष्ठाभिः । त्रिः प्राश्नाति मध्वसि मधव्यो भूयासमिति । अथास्मै वाससी आहरन्ति । श्रियै रूपमिति । ते परिधत्ते श्रीरसि श्रीमान् भूयासमिति । प्रवर्तौ स्रजोऽलङ्करणमित्यस्मा आहरन्ति । अलङ्कृतमेनं वृणीते पर्जन्यो म उद्गाता स म उद्गाता त्वं म उद्गाता दिशो मे प्रस्तोतृप्रतिहर्तारौ सुब्रह्मण्य इति । तमुपांशु प्रतिमन्त्रयते । पर्जन्यस्य उद्गाता स त उद्गाताहं त उद्गाता दिशस्ते प्रस्तोतृप्रतिहर्तारौ । सुब्रह्मण्यः कर्मैव वयं करिष्यामः । ओमित्युच्चैः । अथैनं देवयजनं याचति उद्गातर्देवयजनं मे देहीति । तं तथेत्युपांशु प्रतिमन्त्रयते । ओमित्येवोच्चैः । अथास्मा आवसथमुपपन्नाय गामुपाञ्जन्ति । तामुपाष्टां हते पाप्मानमेव तद्धते । अथ यदि गामुत्सृजेत् तामेतेनैवोत्सृजेत्--गौर्धेनुर्हव्या माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ पिबतूदकं तृणान्यत्तु ॥ ओमुत्सृजतेति २ अथ तृतीयः खण्डः क्रीते राजनि सुब्रह्मण्यमामन्त्रयन्ते । स यज्ञोपवीतं कृत्वाप आचम्य दक्षिणेन पाणिना पलाशशाखां शमीशाखां वादायान्तरेण चक्रं चानड्वाहं च दक्षिणामीषामनुप्रसृप्य राजवाहनस्यान्तरीषे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिरनिरुक्ताम् । सुब्रह्मण्यॐ सुब्रह्मण्यॐ सुब्रह्मण्योमित्युपांशु । एवमेव प्राग्वर्तमान एवं दक्षिणत एवमुदगावर्ते । द्विर्दक्षिणमनड्वाहं शाखया संस्पृशति सकृद्वामम् । पर्यावहन्ति राजवाहनम् । विमुक्तयोरनुडुहो राजानं प्रपादयन्ति । प्रपन्ने राजनि यथैतमुपनिः सृप्य पूर्वया द्वारा शालां प्रपद्योत्तरतः शाखामुपगूहति यजमानस्य पशून् पाहीति । अत्रैतदनोयुक्तं ददाति सुब्रह्मण्याय । अतिथ्यया चरन्ति । अतिथ्यया चरित्वा प्रवर्ग्योपसद्भ्यां चरन्ति । संस्थितायामुपसद्युत्करे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिर्निरुक्ताम् । सुब्रह्मण्यॐ सुब्रह्मण्यॐ सुब्रह्मण्योम् इन्द्रागच्छ हरिव आगच्छ मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार कौशिक ब्राह्मण कौशिक ब्रुवाण सुत्यामागच्छ मघवन्देवा ब्रह्माण आगच्छतागच्छता-गच्छतेति । आहूय सुब्रह्मण्यां यजमानं वाचयति । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादोऽग्निर्वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादो वायुर्वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते द्यौः पाद आदित्यो वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये तस्यास्ते दिशः पादोऽवान्तरदिशा वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व । ब्रह्मासि सुब्रह्मण्ये परोरजास्ते पञ्चमः पादः समुद्रः स्तनश्चन्द्रमा वत्सस्तेन मे प्रस्नुतेषमूर्जं धुक्ष्व प्रजां पशून् स्वर्गं लोकं मह्यं यजमानाय धुक्ष्वेत्युपांशु । एवमेवापराह्ण उपसदि संस्थितायाम् । एते एवोपवसथादनुवर्तयते । सुत्यामित्युपवसथात् । श्वः सुत्यामित्युपवसथे । अद्य सुत्यामिति सवे ३ अथ चतुर्थः खण्डः अथ यद्यग्निं चिन्वीत पञ्च स्वर्णज्योतिर्निधनानि सामानि गायेत् । सत्यमिति पुष्करपर्ण उपधीयमाने । पुरुष इति पुरुषे । भूरिति प्रथमायां स्वयमातृण्णायाम् । भुव इति मध्यमायाम् । स्वरित्युत्तमायाम् । सञ्चितमग्निं सामभिरुपतिष्ठते । अग्न आयूंषि पवस इत्येतासु शरीरवद् गायत्रं तेन शिरो रथन्तरेण दक्षिणं पक्षं बृहतोत्तरमृतुष्ठा यज्ञायज्ञीयेन पुच्छम् वारवन्तीयेन दक्षिणमंसं श्यैतेनोत्तरम् प्रजापतेर्हृदयेन दक्षिणमपि पक्षमग्नेर्व्रतेनोत्तरमग्नेरर्केण शिरो वामदेव्येनात्मानम् । अत्र शान्तो-ऽग्निर्भवति । अत्रोद्गात्रे वरं ददाति ४ अथ पञ्चमः खण्डः उद्वास्य प्रवर्ग्यमथैनमामन्त्रयन्ते । स यज्ञोपवीतं कृत्वाप आचम्य तदेवानपगो भवति । तं यदाध्वर्युः संप्रेष्यति प्रस्तोतः साम गायेति स पदाय पदाय स्तोभमाह । सर्वे निधनमुपयन्ति सपत्नीकाः । देवान् वा एतस्मिन् काले रक्षांस्यन्वसचन्त । स एतदग्नीरक्षोहा सामापश्यत् । तेन रक्षांस्यपाघ्नत । तद्यत् सर्वे निधनमुपयन्ति रक्षसामेवापहत्यै । त्रिः प्रतिष्ठापं हरन्ति । प्रतिष्ठिते प्रतिष्ठिते गायति । त्रयो वा इमे लोकाः । एषां लोकानां विधृत्यै । अपरेणास्मिंस्तिष्ठति प्रवर्ग्यं युञ्जन्ति । यदा द्वितीयमपः परिषिञ्चत्यथैनमाह प्रस्तोतः साम गायेति । स हिंकृत्य वार्षाहरं त्रिर्गायति । अत्रैव तिष्ठन् हिंकृत्येष्टाहोत्रीयं त्रिर्गायति । इष्टाहोत्रीयस्य निधनमुपयन्ति न वार्षाहरस्य । अथैतत् प्रस्तोता वास आदत्ते येन पत्न्यावृता भवति । श्यैतं प्रत्याव्रजन् गायेत् ५ अथ षष्ठः खण्डः यदा धिष्ण्यान् निवपन्त्यथाज्यस्थालीं सस्रु वामादायोत्तरेणाग्नीध्रं च सदश्च परीत्यापरया द्वारा सदः प्रपद्यौदुम्बरीमन्वारभते । आयोष्ट्वा सदने सादयाम्यवश्छायां समुद्रस्य हृदये । नमः समुद्राय नमः समुद्रस्य चक्षसे । मा मा योनोर्वां हासीरिति । अथैनामुच्छ्रयति उद्दिवं स्तभानान्तरिक्षं पृण । पृथिवीमुपरेण दृंहेति । अथैनां मिनोति । द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण धर्मणेति अथैनामाज्येनाभिजुहोति । अग्रादुपक्रम्यामूलात् सन्तन्वन्निव घृतेन द्यावापृथिवी आप्रीणीथां सुपिप्पला ओषधीः कृधि स्वाहेति । अथैनां त्रिः प्रसलीपुरीषेण पर्यूहति । ब्रह्मवनिं त्वा क्षत्रवनिं सुप्रजावनिं रायस्पोषवनिं पर्यूहामीति । अथैनां दीक्षितदण्डेन दृंहति । ब्रह्म दृंह क्षत्रं दृंह प्रजां दृंह रयिं दृंह रायस्पोषं दृंह सजातान् यजमानाय दृंहेति । अथैनामूर्ध्वाग्रैस्तृणैः प्रदक्षिणं परिवेष्टयति । अथैनां वाससा परिदधात्यनग्नत्वाय । अथैनां हस्ताभ्यां परिगृह्णाति । मय्यूर्जमन्नाद्यं धेहीति । एवमेव स्तोत्रे स्तोत्रे परिगृह्णाति ६ अथ सप्तमः खण्डः अग्नीषोमौ प्रणीयाग्नीषोमीयमालभते । तस्मिन् वपान्त उत्करे तिष्ठन् सुब्रह्मण्यामाह्वयति पितापुत्रीयाम् । कौषिकब्राह्मण कौषिकब्रुवाणेति । आत उक्त्वा नामान्यावपति । असौ यजतेऽमुष्य पुत्रो यजतेऽमुष्य पौत्रो यजतेऽमुष्य नप्ता यजत इति चतुष्पुरुषम् । अमुष्य पितामुष्य पितेति पुत्राणां यथाजातम् । स्त्रीणामप्येके । जनिष्यमाणानां पिता पितामहः प्रपितामहो यजत इत्युत्तममाह । यथाम्नातं शेषम् । अत्रर्षभं ददाति सुब्रह्मण्याय । नैतां रात्रिं सदः कश्चन प्रपद्येत । ऋक्सामे अत्र मिथुनीभवतः इति ब्राह्मणम् । परिहृतासु वसतीवरीषु श्वः सुत्याप्रवचनीं सुब्रह्मण्यामाहूयाग्नीध्रे पत्नीशालायामिति संविशन्ति । श्वः कर्मणोऽनपगा भवन्ति ७ अथाष्टमः खण्डः काल एनमामन्त्रयन्ते । स यज्ञोपवीतं कृत्वाप आचम्यान्तरेण चात्वालं चोत्करं च प्रपद्यते । ज्या असि सुधां मे धेह्यायुष्मन्तस्तद्वर्चस्वन्त उद्गेष्म । एतदेव प्रपदनमेतदुदयनम् आज्यग्रहान् गृह्णत्सूत्करे तिष्ठन् सुब्रह्मण्या-माह्वयत्यद्यसुत्यामिति । तं यदि ब्रूयुर्विश्वरूपा गायेत्यकर्मण एतत्त्रयोदशं स्तोत्रमिति ब्रूयाद् विराजं लोभयतीति । संसवे तु कार्यम् । अभिषवस्य काल आगच्छति स पूर्वया द्वारा हविर्धानं प्रपद्यविष्णोः पृष्ठमसीति दक्षिणं हविर्धानमभिमृशति । विष्णो रराटमसीत्युत्तरम् । सोऽन्तरेण हविर्धाने गत्वा दक्षिणस्य हविर्धानस्य पश्चादक्षमुपविशति । अहे दैधिष व्यो-दतिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरस्तस्य सदने सीद निरस्तः परावसुरिति । तृणं निरस्यति यत् प्रतिशुष्काग्रं भवति यद्वा प्रतिच्छिन्नाग्रम् । अप उपस्पृश्य आ वसोः सदने सीदामीति सीदति । एतेनैवोपविशति यत्र यत्र करिष्यन् भवति । अथाह नमः पितृभ्यः पूर्वसद्भ्यो नमः साकं निषद्भ्यः । युञ्जते वाचं शतपदीं गाये सहस्रवर्तनीम् । गायत्रं त्रैष्टुभं जगद् विश्वारूपाणि संभृतं देवा ओकांसि चक्रिर इति । अथास्मा अधोऽक्षं द्रोणकलशं प्रयच्छति । तं प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवे-ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति । तं प्रतिगृह्य दक्षिण ऊरौ निधायोपर्यक्षं पवित्रमपहृत्य पवयति । वसयस्त्वा पुनन्तु गायत्रेण छन्दसा सुप्रजावनिं रायस्पोषवनिमिति । तं पवयित्वा पश्चादक्षं सादयति । बार्हस्पत्यमसि वानस्पत्यं प्रजापतेर्मूर्धात्यायुपात्रमिति । तं पश्चादक्षं साद-यित्वा गायत्रं विश्वरूपासु गायतीति ब्राह्मणम् ८ अथ नवमः खण्डः तं प्रोहति वसवस्त्वा प्रोहन्तु गायत्रेण च्छन्दसा रुद्रास्त्वा प्रोहन्तु त्रैष्टुभेन च्छन्दसादित्यास्त्वा प्रोहन्तु जागतेन च्छन्दसेति । उपर्युपर्यक्षं पवित्र-मत्यस्यति । नाक्षमुपस्पृशेत् । यथैतं परेत्यापरेणोपरवान् प्राङ्मुख उपविश्य द्रोणकलशमभिमृशति तनूपा असि तन्वं मे पाहि वर्चोधा असि वर्चो मे धेहि आयुर्धा असि आयुर्मे धेहि वयोधा असि वयो मे धेहीति । सम्मुखान् ग्राव्णः कृत्वाभिमृशति श्येना अजिरा ऋतस्य गर्भाः प्रयुतो नपातः पर्वतानां ककुभ आ नस्तं वीरं वहत यं बहव उपजीवामोऽभिशस्तिकृतमनभि-शस्त्यमन्यस्याभिशस्त्याः कर्तारमिति । तेषु द्रोणकलशमध्यूहतीदमहं मा ब्रह्मवर्चसेऽध्यूहामि यजमानं स्वर्गे लोक इति । तं दृंहति देवी त्वा धिषणे निपातां ध्रुवे सदसि सीदेष ऊर्जे सीदेति । तमन्तरीषे पवित्रमपहृत्य संमार्ष्टि वसवस्त्वा संमृजन्तु गायत्रेण च्छन्दसा रुद्रास्त्वा संमृजन्तु त्रैष्टुभेन च्छन्दसादित्यास्त्वा संमृजन्तु जागतेन च्छन्दसेति । तदुदीचीनदशं पवित्रं वितनोति पवित्रं ते विततं ब्रह्मणस्पत इत्येतेन तृचेन । राजानमानयन्ति । तमभिमन्त्रयते स पवस्व सुधामा देवानामभि प्रियाणि धामा त्रिर्देवेभ्यो-ऽपवथास्त्रिरादित्येभ्यस्त्रिरङ्गिरोभ्यो येन तुर्येण ब्रह्मणा बृहस्पतयेऽपव-थास्तेन मह्यं पवस्व । स नःपवस्व शं गवे शं जनाय शमर्वते शं राजन्नोषदीभ्य इति । संततं शुक्रं पवयन्ति । ग्रहान् गृह्णन्त्यध्वर्यवः । आग्रयणग्रहं गृह्णन् हिंकरोति । तदेव हिंकृतं भवति । अथोद्गातैकर्चं गायत्रं गायत्युच्चा ते जातमन्धसेति । गृहीतेषु ग्रहेष्वप उपस्पृश्य पृथिवी-मभिमृशति द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्रा इति । आ मास्कान्सह प्रजया रायस्पोषेणेन्द्रियं मे वीर्यं मा निर्वधीरित्यात्मानं प्रत्यभिमृशति ९ अथ दशमः खण्डः अप उपस्पृश्य सन्तताः सर्पन्ति । अध्वर्युप्रथमः सर्पत्यथ प्रस्तोताथोद्गाता यजमानो ब्रह्मा षष्ठः सर्पति । प्रवृतहोमाञ्जुह्वति । जुष्टो वाचो भूयासं जुष्टो वाचस्पत्युर्देवि वाक् । यत्ते वाचो मधुमत्तस्मिन् मा धाः स्वाहा सरस्वत्या इति । द्वितीयां जुहोति सूर्यो मा देवो दिव्येभ्यो रक्षोभ्यः पातु वात आन्तरिक्षेभ्योऽग्निः पार्थिवेभ्यः स्वाहेति । त उचञ्चो बहिष्पवमानाय सर्पन्ति । सर्पत्स्वध्वर्युमनुमन्त्रयत एतदहं दैव्यं वाजिनं सम्मार्ज्मीति । दक्षिणेन चात्वालं तृणानि संस्तृणात्युदपात्रेण सह । तेषूपवेशनस्या-वृतोपविशन्ति १० एकादशः खण्डः उदगावृत्त उद्गाता । पुरस्तात् प्रस्तोता प्रत्यङ्मुखः । पश्चात् प्रतिहर्ता दक्षिणामुखः । स्तोत्रं प्रतिगृह्य पवमानजपं जपति । भूर्भुवः स्वर्मधु करिष्यामि मधु जनयिष्यामि मधु भविष्यति भद्रं भद्रमिषमूर्जं सोमोद्ग-योद्गाय सोम मह्यं तेजसे मह्यं ब्रह्मवर्चसाय मह्यमन्नाद्याय मह्यं भूम्ने मह्यं पुष्ट्यै मह्यं प्रजननाय प्रजानां भूम्ने प्रजानां पुष्ट्यै प्रजानां मह्यं प्रजननाय प्रजानां भूम्ने प्रजानां पुष्ट्यै प्रजननाय सोमस्य राज्ञो राज्याय मम ग्रामणेयाय । दिशः प्रदिश आदिशो विदिश उद्दिशो दिशि इति । प्रत्येति वाग् भूर्भुवः स्वरोमित्यावर्तिषु । दिश स्थ श्रोत्रं मे मा हिंसिष्ठेत्युपगातॄन् प्रत्यभिमृशति । अथ संप्रेष्यति । ब्रह्मन् स्तोष्यामः प्रशास्तरिति । प्रस्तोता ब्रह्माणमाह प्रसव उक्त उपदधाति । ते सकृद्धिंकृतेन पराचा बहिष्पवमानेन स्तुवते । अहिंकृता रेतस्या भवति हिंकृतानीतराणि गायत्राणि । स्तुते यजमानं वाचयति श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा संपारया मा स्तुतस्य स्तुतं गम्यदिन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषमापं समापं साम्ना समापमिति । वृषकोऽसि त्रिष्टुप्छन्देति माध्यन्दिने पवमाने । स्वरोऽसि गयोऽसि जगतीछन्देत्यार्भवे । स्तुतस्य स्तुतमस्यूर्जस्वत् पयस्वदित्यावर्तिषु । अथ स्तुवानः पवमानेषु मध्य-मामध्वर्यवे प्राहोत्तमामावर्तिषु होत्रे । अथैतदुदपात्रं चात्वालेऽवनयति समुद्रं वः प्रहिणोम्यक्षिता स्वां योनिमपिगच्छतारिष्टा अस्माकं वीराः सन्तु मा परासेचि न स्वमिति । स यदेवान्य उत्तिष्ठेत्तमुत्तिष्ठन्तमारभ्यानूत्तिष्ठेत् । उत्थायोत्तरे वेद्यन्ते यजमानं विक्रमयति मा स्वर्गाल्लोकादवच्छैत्सीरिति । दक्षिणं पादमन्तर्वेदि मास्मदिति सव्यं बहिर्वेदि ११ अथ द्वादशः खण्डः यदा सवनीयस्य वपया चरितं भवत्यथोद्गातारश्चात्वाले मार्जयन्त आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः । इदमापः प्र वहतावद्यं च मलं च यत् । यद्वाभि दुद्रोहानृतं यद्वा शेपे अभीरुणम् । आपो मा तस्मादेनसो विश्वान्मुञ्चन्त्वंहस इति १२ त्रयोदशः खण्डः प्रपदनस्यावृता प्रपद्य वेद्याक्रमणेन वेदिमाक्रामति । मृदा शिथिरा देवानां वेदिरसि नमस्ते अस्तु । मा मा हिंसीरित्यादित्यमुपतिष्ठतेऽध्वनामध्वपते स्वस्ति मेऽस्मिन् देवयाने पथि कृण् रौद्रेणानीकेन स्वस्त्यग्ने परिदेहीति । धिष्ण्यानुपतिष्ठते सम्राडसि कृशानू रौद्रेणानीकेन पाहि माग्ने पिपृहि मा नमस्ते अस्तु मा मा हिंसीरित्याहवनीयम् । तुथोऽसि जनधा इति बाहिष्पवमानीयमास्तावं । नभोऽसि प्रतक्वा इति चात्वालम् । असंमृ-ष्टोऽसि हव्यसूदन इति शामित्रम् । कृष्णोऽस्याखरेष्ठ इत्युत्करम् । ऐन्द्रीमावृतमन्वावर्त इति दक्षिणं बाहुमनु पर्यावृत्योत्तरेणाग्नीध्रं परीत्य पश्चात् प्रागावृत्तस्तिष्ठन् विभूरसि प्रवाहण इत्याग्नीध्रमुपतिष्ठते । पुरस्तात् सदसः प्रत्यगावृत्तस्तिष्ठन् वह्निरसि हव्यवाहन इति होतुर्धिष्ण्यम् । श्वात्रोऽसि प्रचेता इति मैत्रावरुणस्य । तुथोऽसि विश्ववेदा इति ब्राह्मणाच्छंसिनः । उशिगसि कविरिति पोतुः । अंघारिरसि बम्भारिरिति नेष्टुः । अवस्युरसि दुवस्वान् इत्यच्छावाकस्य । शुन्ध्युरसि मार्जालीय इति मार्जालीयम् । अमृतधामासि स्वर्ज्योतिरित्यौदुम्बरीम् । परिषद्योऽस्यास्ताव इत्यास्तावम् । समुद्रोऽस्युरुव्यचा इति ब्रह्मसदनम् । समुद्रोऽसि विश्वव्यचा इति होतृषदनम् । उत्तरेण सदः परीत्य पश्चात् प्रत्यगावृत्तस्तिष्ठन्नजोऽस्येकपात् इति गार्हपत्यमुपतिष्ठते । अहिरसि बुÞय इति प्राजहितम् । सगरोऽसि बुÞय इतीतरं प्राजहितम् । कव्योऽसि कव्यवाहन इति दक्षिणं वेद्यन्तम् । सव्यमंसमनु पर्यावृत्य समस्तान् धिष्ण्यानुपतिष्ठतेऽग्नयः सगराः सगरै-र्नामभी रौद्रैरनीकैः पात माग्नयः पिपृत मा । नमो वो अस्तु मा मा हिंसिष्टेति । सदसो द्वारौ समीक्षत ऋतस्य द्वारौ विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृतमिति । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं सनिं मेधा-मयासिषमित्वेतयर्चा सदः प्रपद्य दक्षिणेनौदुम्बरीं परोत्योत्तरत उपवेशन-स्यावतोपविशन्ति उदगावृत्त उद्गाता पुरस्तात् प्रस्तोता प्रत्यङ्मुखः पश्चात् प्रतिहर्ता दक्षिणामुखः १३ चतुर्दशः खण्डः चमसानाहरन्ति । इडायामुपहूयमानायां चमसानुद्गृह्णान्ति । हुतस्य भक्षयन्ति नाहुतस्य । होतुर्भक्षमनु भक्षयन्ति । पुरोडाशान् भक्षयन्ति । पुरोडाशान् भक्षयित्वा राजानं भक्षयन्ति । राजानं भक्षयित्वा वा पुरो-डाशान् । अत्रास्मै स्वर्यमाहरन्ति । यदु चान्यद् भक्षयिष्यन् भवति । अथ चमसमवेक्षत उद्गाता श्येनो नृचक्षा अस्यग्नेस्त्वा चक्षुषावपश्यामीति । एवमेवेतरे यथापूर्वम् । अथोपहवमिच्छते होतरुपह्वयस्व प्रस्तोत-रुपह्वयस्व प्रतिहर्तरुपह्वयस्व सुब्रह्मण्योपह्वयस्वेति उद्गातैव होतर्युपहव-मिच्छते । उद्गातरि प्रस्तोतृप्रतिहर्तारौ सुब्रह्मण्यश्च १४ अथ पञ्चदशः खण्डः उपहवमिष्ट्वा भक्षयन्तीन्दविन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः प्रातःसवनस्य मधुमतो विचक्षणस्य सर्वगणस्य सर्वगण उपहूतस्योपहूतो भक्षयामि वाग्जुषाणा सोमस्य तृप्यत्विति । एवमेवेतरयोः सवनयो-श्छन्दःसवनोपदेशं गणवत्सवनमुखीयेषु । गणांश्च परिहाप्य विचक्षणं च नाराशंसेष्वनाराशंसेषु च गणान् । भक्षयित्वेन्द्रियाणि संमृशते नृमणसि त्वा दधामि पिन्व मे गात्रा हरिवो गणान्मे मा वितीतृष इति । अथात्मानं प्रत्यभिमृशत्यूर्ध्वः सप्तर्षीनुप तिष्ठस्वेन्द्रपीतो वाचस्पते सप्तर्त्विजोऽभ्युच्छ्र-यस्व जुषस्व लोकं मा मावगाः सोम रारन्धि नो हृदि पिता नोऽसि भगवो नमस्ते अस्तु मा मा हिंसीरिति । प्रस्तोता दक्षिण ऊरौ निधाय चमस-माप्याययत्याप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यं भबा वाजस्य संगथ इत्येतया गायत्र्या प्रातःसवने । तदसर्वभक्षेषु सं ते पयांसि समु यन्तु वाजा इत्येतया त्रिष्टुभा माध्यन्दिने सवने । आप्यायस्व समेतु त इत्येतयैव द्विरुक्तया तृतीयसवने । सा जगती संपद्यते १५ अथ षोडशः खण्डः सीदन्ति नाराशंसाः । ऋतुयाजैश्चरन्ति । शस्त आज्ये नाराशंसान् भक्षयन्ति । अवमैस्ते पितृभिर्भक्षितस्य गायत्रच्छन्दसः प्रातःसवनस्य मधुमतो नाराशंसस्योपहूतोपहूतो भक्षयामि । वाजुषाणा सोमस्य तृप्य-त्विति । ऊर्वैरिति माध्यन्दिने सवने । काव्यैरिति तृतीयसवने । अनुष्टुप्छन्दस इति षोडशिनि रात्रेश्च । हिरण्यं संप्रदाय षोडशिना स्तुवन्ति । अश्व उपतिष्ठते साम्येक्षाय । यस्माज्जातो न परोऽन्यो अस्ति य आ बभूव भुवनानि विश्वा । प्रजापतिः प्रजया सं रराणस्त्रीणि ज्योतींषि सचते स षोडशीति षोडशिग्रहमवेक्षते । अथ यदि हरिवतीषु षोडशी स्यादिन्द्रश्च सम्राड् वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतत् । तयोरहं भक्षमनु भक्षयामि । वाग्जुषाणा सोमस्य तृप्यत्विति । बृहतीच्छन्दस इति सन्धेरिष्टयजुष इति वा । कस्त्वा कं भक्षयामीति । मानसस्य मनसा । कस्मै त्वा कं भक्षयामीति वा । अतिच्छन्दस इति वाजपेयसाम्न्यतिरिक्तोक्थेषु च । द्विः पूर्वयोः सवनयोर्नाराशंसाः सीदन्ति । सकृत्तृतीयसवने । अथाह वैष्टुतं वास आहरेति । श्रीर्वा एषा साम्नां यद्विष्टावाः । श्रीर्वासः । श्रियमेवास्मिंस्तद्दधाति । औदुम्बराः प्रादेशमात्रा विष्टुतयो भवन्ति । ऊर्ग्वा अन्नमुदुम्बरः । ऊर्ज एवान्नाद्यस्यावरुद्ध्यै । स्तोत्रमाहरति । दक्षिणेन होतुर्धिष्ण्यं द्विरुत्तरेण द्विः । ते पञ्चदशेनाग्नेयेनाज्येन स्तुवते यथा-स्तोमं वा । अथ मैत्रावरुणेनाथैन्द्रेणाथैन्द्राग्नेनेति । सन्तिष्ठते प्रातः सवनम् १६ अथ सप्तदशः खण्डः एतयैवावृता माध्यन्दिनं सवनं प्रसिद्धम् । संप्रसर्प्य सदसि पवमानेन स्तुवते । साम्ने साम्ने हिं कुर्वन्ति । स्तुते दधिघर्मेण चरन्ति । अथ पुरोडाशैरथ राज्ञा । राजनि भक्षिते दाक्षिणानि जुहोति । अथ दक्षिणा नयन्ति । आत्रेयाय प्रथमां गां दत्वा ब्रह्मणे दक्षिणा नयन्त्यथ होत्रेऽथा-ध्वर्यवेऽथोद्गात्रेऽथ सदस्यायाथ होत्रकेभ्योऽथ प्रसर्पकेभ्यः । दक्षिणासु नीयमानासूत्करे तिष्ठन् सुब्रह्मण्यामाह्वयति त्रिरनिरुक्ताम् । यत् प्रायणं तदुदयनमसदिति १७ अथ अष्टादशः खण्डः शस्ते मरुत्वतीये नाराशंसान् भक्षयन्ति । भक्षितेषु नाराशंसेषु पूर्वया द्वारा सदसोऽधि निष्क्रम्यापरया द्वाराग्नीध्रं प्रपद्याग्नीध्रे पृष्ठाहुती जुहोति । रथंतरं पिबतु सोम्यं मध्वायुर्दद्यद्यज्ञपतावविह्रुतम् । इमं यज्ञमभिसंवसाना होत्रास्तृप्यन्तु सुमनस्यमानाः स्वाहेति । तूष्णीमुत्तराम् । बृहदिति वा । यत्पृष्ठं स्यात्तदादिशेत् । रथन्तरस्य स्तोत्रमाहरति । तत्प्रतिगृह्य पृथिवोमभिमृशति नमो मात्रे पृथिव्यै रथंतरं मामा हिंसीरिति । अथ महिम्नः संभरति यस्ते अग्नौ महिमा यस्ते अप्सु रथे यस्ते महिमा स्तनयित्नौ य उ ते वाते यस्ते महिमा तेन संभव रथंतर द्रविणस्वन्न एधीति । अथ वामदेव्यं पुरस्ताच्छान्तिमभिव्याहरति प्रजापतिरसि वामदेव्यं ब्रह्मणः शरणं तन्मा पाहीति । अथैता अमृता व्याहृतीरभिव्याहरति भूर्भुवः स्वः । क इदमृद्गास्यति स इदमुद्गास्यतीत्येतदुक्त्वाभ्यानिति । यदि बार्हतं स्तोत्रं स्याद् बृहतः स्तोत्रं प्रतिगृह्य ब्रूयाद् दिवं पितरमुपश्रये बृहन् मा मा हिंसीरिति । समानं परम् । स रथन्तरेण स्तुते बृहता वा । रथन्तरे स्तुते हो इत्युक्त्वादिमाददीत । बृहति प्रस्तुत आ इति । रथन्तरे प्रस्तूयमाने संमीलयेत् । स्वर्दृशं प्रति विपश्येद् । यावत् स्तोभेत् तावत् पृथिव्यां हस्तौ स्याताम् । देवरथस्यानपव्याथाय । वामदेव्यस्य स्तोत्रमाहरति । तत्प्रतिगृह्यैता व्याहृतीरभिव्याहरति गौश्चाश्वश्चाजाश्चाविश्च व्रीहिश्च यव-श्चापो वायुरापो वायुरिति । स वामदेव्येन मध्यमया वाचानेजत् । आप्रतिहारादनवानं गायेत् । प्रतिहार एव प्रतिह्रियमाणे वागित्युद्गाता ब्रूयात् । अथ नौधसेनाथ कालेयेनेति । सन्तिष्ठते माध्यन्दिनं सवनम् १८ अथ एकोनविंशः खण्डः अथ तृतीयसवने प्रपदनस्यावृता प्रपद्य वेद्याक्रमणेन वेदिमाक्रम्यादि-त्यमुपतिष्ठतेऽध्वनामध्वपत इत्येतेनैव । अथैन्द्रीमावृतमन्वावर्त इति दक्षिणं बाहुमनु पर्यावृत्योत्तरेणाग्नीध्रं च सदश्च परीत्य पश्चात्सदस ईक्षमाणः समस्तान् धिष्ण्यानुपतिष्ठतेऽग्नयः सगरा इत्येतेनैव । अथ सदः प्रपेद्यते-यैवावृतोपविश्य दक्षिणेन होतुर्धिष्ण्यं पूर्वया द्वारा सदसोऽधि निष्क्रम्य पूर्वया द्वारा हविर्धानं प्रपद्योत्तरस्मिन् हविर्धाने पूतभृतं पवयति वसवस्त्वा पुनन्त्वित्येतेनैव । पूर्व एव पूतभृदपर आधवनीयः । पूतभृतो मुखे पवित्रं वितनोति पवित्रं ते विततं ब्रह्मणस्पत इत्येतेनैव । तत्र यथादेशं शुक्र-पवितारः कुर्वन्ति । तयैवावृता संप्रसर्प्य सदसि पवमानेन स्तुवते । साम्ने साम्ने हिं कुर्वन्ति । अनवानमुष्णिक्ककुभौ गायत्याप्रतिहारात् । स्तुते पशुना चरन्ति । अथ पुरोडाशैरथ राज्ञा । राजनि भक्षिते सीदन्ति नाराशंसाः । सन्नेषु नाराशंसेषु त्र्यावृत्पुरोडाशशकलान्युपास्यन्त्यत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति । अत्र पितामहाः । अत्र प्रपितामहा इति १९ अथ विंशः खण्डः शस्ते वैश्वदेवे नाराशंसान् भक्षयन्ति । भक्षितेष्वग्नीञ्छालाकानुपकल्पयते । सौम्येन चरन्ति । चरित्वैनमाहरन्ति । तमवेक्षते यन्मे मनो--यन्मे मनो यमं गतं यद्वा मे अपरागतम् राज्ञा सोमेन तद्वयं पुनरस्मासु दध्मसि । मनसि मे चक्षुराधाश्चक्षुषि मे मनः आयुष्मत्या ऋचो मा छेत्सि मा साम्नो भागधेयाद् वियोषमिति । तद्धापि छायां पर्यवेक्षेत आत्मनोऽप्रणाशाय । अथो सर्पिषोऽक्ष्णोरादधीत । चक्षुष आप्यायनाय । तदपि विज्ञानमसद् । य आत्मानं न परिपश्येदपेतासुः स स्यात् । तस्मात् सत्यादप्याज्यं भूय आनीय पर्येवात्मानं दिदृक्षेत । सर्वस्यायुषोऽवरुद्ध्यै । अथो सौम्य-स्योपहत्यौक्ष्णोरादधीत--येन ह्याजिमजयन्नृचक्षा येन श्येनं शकुनं सुपर्णम् । यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधात्विति । तमवेक्ष्य दक्षिणेनौदुम्बरीं पर्याहृत्य जघनार्धे सदसः सादयति । प्रजापतेर्भागोऽसीति । यज्ञायज्ञीयस्य स्तोत्रमाहरति । तेन प्रावृत उद्गायति । द्वितीयां रथंतरवर्णां करोति । निधनमनु पत्नीमवेक्षते वामी नाम संदृशि विश्वा वामानि धीमहीति । वृष्णस्ते वृष्ण्यावतो विश्वा रेतांसि धीमहीतीतरा प्रतिसमीक्षते । भक्षितेषु यज्ञायज्ञीयस्य सोमेष्वपरया द्वारा सदसोऽधि निष्क्रम्यापरया द्वाराग्नीध्रं प्रपद्याग्नीध्रे स्रुवाहुती जुहोति अपां पुष्पमस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहेति । तूष्णीमुत्तराम् । इति तृतीयसवनम् २० अथ एकविंशः खण्डः अनूयाजैश्चरन्ति । अनूयाजैश्चरित्वा हारियोजनेन चरन्ति । हारियोजन-स्योच्छेषणादियतीर्वेयतीर्वा धाना आदायाहवनीयस्यान्ते निदधति । आपूर्या स्था मा पूरयत प्रजया च धनेन चेति ॥ शाकलैरेनांस्यवयजन्ते--देवकृतस्यैनसोऽवयजनमसि ऋषिकृतस्यैनसोऽवयजनमसि पितृकृतस्यै-नसोऽवयजनमसि परकृतस्यैनसोऽवयजनमसि आत्मकृतस्यैनसोऽवयज-नमसि एनस एनसोऽवयजनमसि स्वाहेति । दक्षिणेन चात्वालमप्सु-षोमान् सोमभक्षावृतावघ्रेण भक्षयन्ति युगपत्समुपहूता इत्यभिव्याहृत्याप्सु धौतस्य देव सोम ते मतिविदो नृभि स्तुतस्य स्तुतस्तोमस्य शस्तोक्थ-स्येष्टयजुषो यो भक्षोऽश्वसनिर्गोसनिस्तस्य त उपहूतस्योपहूतो भक्षयामि । वाग्जुषाणा सोमस्य तृप्यत्विति । कामकाममावर्त इति दक्षिणं बाहुम-नुपर्यावर्तते । तूष्णीं पुनः सव्यं बाहुमनुपर्यावृत्य शमद्भ्यः शमोषधीभ्यः प्राण सोमपीथे मे जागृहीति द्वितीयम् । भक्षयित्वा चात्वालेऽवनयति समुद्रं वः प्रहिणोमीत्येतेनैव । आग्नीध्रं दधिषोमान् भक्षयन्ति चमसेन यथापूर्वं पाणिभिर्वा युगपद् दधिक्राव्णो अकारिषमित्येतयर्चा २१ अथ द्वाविंशः खण्डः पत्नीसंयाजैश्चरन्ति । पत्नीसंयाजैश्चरित्वावभृथं संसादयन्ति । अवभृथे विष्टुतीरप्यजत्यौदुम्बरीं चासन्दीं च । अन्तरेण चात्वालं चोत्करं च निष्क्रामन्नाह प्रस्तोतः साम गायेति । स हिंकृत्य साम त्रिर्गायत्यग्निं होतारं मन्ये दास्वन्तमित्येतेषां तृतीयम् । पदाय पदाय स्तोभमाह । सर्वे निधनमुपयन्ति सपत्नीकाः । देवान् वा एतस्मिन् काले रक्षांस्यन्वसचन्त । स एतदग्नी रक्षोहा सामापश्यत्तेन रक्षांस्यपाघ्नत तद्यत् सर्वे निधनमुपयन्ति रक्षसामेवापहत्यै । त्रिः प्रतिष्ठापं हरन्ति । प्रतिष्ठिते प्रतिष्ठिते गायति । त्रयो वा इमे लोकाः । एषां लोकानां समष्ट्यै । अवभृथेष्ट्या चरन्ति । संस्थितायामवभृथेष्ट्यामुपावसृप्याप आचामति भक्षस्यावभृथोऽसि भक्षणस्यावभृथोऽसि भक्षितस्यावभृथोऽसीति । औदुम्बरीरार्द्राः सपला-शाः समिधः कुर्वत एधोऽस्येधिषीमहीति । गत्वाहवनीये समिधोऽभ्या-दधाति समिदसि तेजोऽसि तेजोऽसि तेजो मयि धेहि स्वाहेति । अभ्याधायोपतिष्ठतेऽपोऽन्वचारिषं रसेन समसृक्ष्महि पयस्वा अग्न आगमं तं मा संसृज वर्चसेति । अथैतज्जपति शं च म उप च म आयुश्च मे भूयश्च मे यज्ञ शिवो मे संतिष्ठस्व यज्ञ स्विष्टो मे संतिष्ठस्व यज्ञारिष्टो मे संतिष्ठस्वेति । संतिष्ठते सुत्या । यथायथं विसृज्यन्त उद्गातारः । इत्यैकाहिकस्य कर्मणः २२ अथ त्रयोविंशः खण्डः अग्न्याधेये साम्नां गानकालमुपदेक्ष्यामः । यज्ञोपवीतं कृत्वाप आचम्यो-त्तरेण विहारदेशं परीत्यापरेण गार्हपत्यायतनं प्राङ्मुखस्तिष्ठन्नरण्योर्निहितो जातवेद इति । अरण्योः संधीयमानयोर्घृताचेराङ्गिरसस्य साम गायति । अग्निं नर इति मथ्यमाने राशिमरायम् । त्वेषस्ते धूम ऋण्वतीति धूम उद्यति कौल्मुदम् । अदर्शि गातुवित्तम इति जाते गाथिनः कौशिकस्य सामाग्नेश्च श्रैष्ठ्यम् । गार्हपत्य आधीयमाने रथन्तरम् । उद्ध्रियमाणे वामदेव्यम् । अन्वाहार्यपचन आधीयमाने यज्ञायज्ञीयम् । प्राञ्चं प्राणी-याहवनीयायतने निदधाति । तदग्नेर्निधि गायति । आहवनीय आधी-यमाने बृहत् । आधिते वारवन्तीयं श्यैतमिति । सभ्यावसथ्यौ सभ-पौष्कलाभ्याम् । सर्वाञ्छ्यैतेनेत्येके । तान्युद्गाता गायेद् गानसंयोगाद् । वेदाधिकृतत्वाद् । अथ ब्रह्मौदने च लिङ्गदर्शनात् । तेषां यानि तृचस्थानानि तृचेषु तानि गायेद् । यान्येकर्चानि त्रिस्त्रिस्तानि । तिष्ठन् । न स्तोत्रभूतानि । मध्यमया वाचा । मनसा वा । ब्रह्मा सामानि गायेदित्येके । सदाग्निहोत्रे गौषूक्ताश्वसूक्ते गेये । सायं गौषूक्तं प्रातर-श्वसूक्तमिति । पूर्वस्यामाहुतौ हुतायाम् । कमहमस्मि कं ममेत्येतदुक्त्वा वा । अग्न्याधेयस्य दक्षिणा षट् द्वादश चतुर्विंशतिः । अश्वश्च वानड्वांश्च वा । बहु देयम् । अपरिमितं देयम् । यावतीः संवत्सरस्य रात्रय-स्तावतीर्देयाः । आग्नेयस्येडान्तेऽपि सहस्रं दद्यादित्येके समामनन्ति । अनाढ्योऽग्नीनादधानोऽप्येकां गां दद्यादिति पैङ्गकम् । अनग्न्याधेयमेव तद् यत्र गौर्न दीयते २३ अथ चतुर्विंशः खण्डः प्रवर्ग्ये साम्नां गानकालमुपदेक्ष्यामः । यज्ञोपवीतं कृत्वाप आचम्यान्तरेण वेद्युत्करौ प्रपद्यापरेण होतारं परीत्य दक्षिणतो धर्ममभिमुख उपविश्य वामदेव्येन मदन्तीभिः शान्तिं कुरुते । तं यदाध्वर्युः संप्रेष्यति ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामो होतर्धर्ममभिष्टुहि प्रस्तोतः सामानि गायेति । ब्रह्मजज्ञानमित्येतयोः पूर्वं त्रिर्गायति । अज्यमाने महावीरे शार्ङ्गम् । रुक्म उपधीयमाने शुक्रम् । उत्तरस्मिञ्चन्द्रमभिधीयमाने । घर्मेन्धने घर्मस्य तनू घर्मव्रते च । रुचिते घर्मस्य रोचनम् । राजानं पूर्वस्मिन् रोहिणे हूयमाने । गव्युपसृष्टायां धेनु ककुभं वा । प्रत्तायां पूर्वं श्यावाश्वं गौर्धयति मरुतामिति । दुह्यमाने दोहादोहीयम् । पयस्याह्रियमाणे पयः । सिन्धु पयस्यासिच्यमाने । वसिष्ठस्य शफौ परिगृह्यमाणे । ब्राह्मणस्पत्यं ह्रियमाणे व्रतपक्षौ वा । घर्मे हुतेऽश्विनोर्व्रते । रौहिणकमुत्तरस्मिन् रौहिणे हूयमाने । धर्मे साद्यमान आरूढवदाङ्गिरसं त्रिर्गायति कावं वा । वामदेव्येन मदन्तीभिः शान्तिं कृत्वा यथाप्रपन्नं निष्क्रम्य संस्थितायामुपसद्युत्करे तिष्ठन् सुब्रह्मण्यामाहूय यथार्थमेति २४ अथ पञ्चविंशः खण्डः अथ परिगाणानि । न गेयानि नाध्वर्युः संप्रेष्यति यदाध्वर्युः संप्रेष्यति गेयानीति । स्वे वा यज्ञे गायेद् यं वा श्रेयांसं कामयेत तस्य वा । दीक्षणीयायां तार्क्ष्यसामती गायेत् । प्रायणीयायां प्रवद्भार्गवम् । आतिथ्यायामौशनं प्रेष्ठं वो अतिथिमिति । प्रवर्ग्ये च यथालिङ्गमुपतिष्ठेत् । अग्नेर्व्रतं सोमस्य व्रतं विष्णोर्व्रतमित्युपसस्तु । सदा निमीयमाने सदसा । हविर्धाने हविर्धानाभ्याम् । अग्निं प्रणयन्ति तदग्नेर्व्रतम् । अग्नीषोमौ प्रणयन्ति तदग्नेर्व्रतं सोमस्य चैव व्रतं तृतीयम् । पवित्रे राजन्यानीयमाने त्रीणि सोमसामानि गायेत् सोमः पवत इति यानि प्रथमादूर्ध्वम् । अहरहः सत्रे सत्रस्यर्द्धि गायेत् । संस्थितेऽहनि पश्चाद् गार्हपत्यं यज्ञसारथ्य-हीनैकाहेषु च । प्राक्छ्वःसुत्यां पश्चादेव गार्हपत्यमग्नेरगस्त्यस्यात्रेरिति राक्षोघ्नानि सामानि गायेत् । सर्वान् संश्रावयेद्यजमानान् सपत्नीकान् । अनूबन्ध्येषु च यथालिङ्गम् । औक्ष्णोरन्ध्रमुक्षणि । आर्षभमृषभे । वाशं वशायाम् । उन्नते त्रैककुभम् । आजीकमजे । पय आमिक्षायाम् । दधिनि दधिक्रम् । मधुनि मधुश्च्युन्निधनम् । आज्ये घृतश्च्युन्निधनम् । और्णायवमाविके मेषे च । अथोदयनीयायामुद्वत् । उदवसनीया-यामुद्वंशीयम् । सौत्रामण्यां सुरायां सांशानानि सामानि गायेत् २५ अथ षड्विंशः खण्डः अथ पशुबन्धेषु । सावित्राणि सावित्रे । आग्नेयान्याग्नेये । ऐन्द्राण्यैन्द्रे । वैश्वदेवानि वैश्वदेवे । प्राजापत्यानि प्राजापत्ये । यथालिङ्गं च यथादैवतं चान्येषु । तेषां यानि पशौ शिष्टानि वपान्ते तानि गायेत् । प्रदानकाल उपसत्सु चेष्टिषु च । तानि तत्तत्कर्मापन्नो यज्ञोपवीती प्रागा-वृत्तस्तिष्ठन्नुपविष्टो वा मध्यमया वाचा गायेत् । तेषां यानि तृचस्थानि तृचेषु तानि गायेत् । यान्येकर्चानि त्रिस्त्रिस्तानि तृचेप्सतायै । तत्र पदाय पदाय स्तोभाननुसंहरेदित्याचार्यसमयः । यथाधीतान्येव गेयानीत्यनु-ब्राह्मणो वचनात् । तस्मान्मन्त्रैकदेशाभ्यासः स्याद् उद्वासनीय एव सर्वो निधनमुपेयादवभृथसाम्नि च । न वार्षाहरे । आवर्तिव्रतशुक्रियेषु चतुः-कर्मापन्नाः कुर्युः । भ्राजाभ्राजाभ्यां तूपद्रवनिधने त्रिरुक्ते स्याताम् । कस्य हेतोरिति । एकविंशे भवतः । सर्वमावर्ति पञ्चोक्तं महाव्रते । अन्यत्र प्रक्षावेभ्यः प्रक्षावेभ्यः २६ इत्यग्निष्टोमस्य जैमिनिसूत्रं समाप्तम्