वाधूलगृह्यसूत्रम् अनुक्रमसूची आवाप १ ऋतुसंवेशन २ चौलकरण ३ सांवत्सरिकाणि ४ उपाकर्म ५ वैश्वदेव ६ समावर्तन ७ विवाह ८ अष्टका ९ उपनयन १० सावित्रव्रत ११ श्राद्ध १२ सपिण्डीकरण १३ औपासनाग्नि १४ दहनविधि १५ अस्थिसञ्चयन १६ मृतबलि भूतबलि १७ एकोद्दिष्टम् १८ पितृमेध १९ श्राद्ध २० आर्त्विज्यम् २१ गोपितृयज्ञ उपवसथगवि २२ उपवास २३ पवित्रदशहविस् २४ सदस्यत्व २५ अप्तोर्याम २६ स्रुचोरादान २७ उपावहरण २८ प्रायश्चित्त २९ शान्तिमन्त्र ३० दहन ३१ पात्रयोग ३२ परिधिकर्म ३३ शान्तिमन्त्र ३४ पुनराधेय ३५ महापुरुषपरिचर्या ३६ वाधूल गृह्यसूत्र श्राद्ध १२ जन्मश्रुतशीलाचारवत स्नातकानधिगम्य स्वाधीवासन्निमन्त्रयेताद्य श्वो वा श्राद्धं करिष्य इति । कृष्णपक्षान्ते प्रयतोऽपराह्ने कृतशौचश्शुक्लवासा यज्ञो-पवीती दर्भेस्वासीन स्वागतमिति ब्रूयात्ततः पाद्यमर्घ्यमाचमनीयञ्च दत्वा तिलैरवकीर्यापसव्ये वासो यज्ञोपवीते कृत्वा दर्भोपकॢप्तेष्वासनेषु प्राचो वो-दीचो वायुग्मान्ब्राह्मणानुपसंगृह्योपवेशयेदासनमित्यन्वारभ्य तत स्नातानुलि-प्तेषु बद्धप्रतिसरेषु ब्राह्मणेषु सैकते स्थण्डिले तिलोदकं सर्वसुरभि कृत्वा ब्राह्मणेषु दत्वा शन्नो देवीरिति ब्राह्मणाननुज्ञापयेत्पितॄनावाहयिष्य इत्युश-न्तस्त्वेत्यावाह्य पवित्रान्तर्हितेषु ब्राह्मणेषूदकन्निनयेद्गन्धपुष्पधूपदीपैरलंकृत्य सघृतमन्नमादायाग्नौ करिष्येति कुर्विति ब्राह्मणैरनुज्ञातोऽग्निशरणे दक्षिणा-ग्निमुपसमाधाय दर्भानास्तीर्य दक्षिणाग्रान्परिधींस्ततोऽग्निकार्यं कुर्यादामात्यो यद्युपयुक्तस्सर्वो न चेत्तस्मिन्याः प्राचीरिति हुत्वान्नस्य जुहुयात् । सोमाय पितृमते स्वधा नमो यमायांगिरस्वते पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नमेति हुतशेषं ब्राह्मणेभ्यो दददंगुष्ठमूलमुपसंगृह्येदं विष्णुर्विचक्रमेत्य-नुदिशेज्जानू निषज्य भूमौ पितॄन्ध्यायन्मनसा तिलशाकसूपभक्षमांसकृसरपा-यसापूपलाजचूर्णमधुमिश्रं सघृतमन्नमिष्टतो दद्यादनसूयुर्ब्राह्मणान्भुञ्जानान्ना-न्नगुणदोषानभिवदेद्ब्राह्मणाश्च नान्योन्यं स्पृशेयुर्न प्रभूतमिति ब्रूयुरन्यत्र हस्त-संज्ञाभ्यस् । सोष्म हि यावदन्नं यावच्च न प्रशस्यते तावदश्नन्ति पितरोऽन्यत्र दधिमूलफलभक्षपानकेभ्यः पवित्राञ्जलिपाणिर्मधु वाता ऋतायतेति जपेत्प-वित्रन्धर्मशास्त्रञ्जपेद्गायत्रीमप्रतिरथञ्च मध्ये जपेत्ततस्तृप्तान्कृत्वा स्वदितमिति पृष्ट्वा शेषमनुज्ञाप्य प्रकृतान्नविकारं कुर्युर् । विष्टरांस्त्रीन्निदध्यात्त्रीण्येवो-दपात्राणि सतिलानि सपवित्राणि सौवर्णानि राजतानि मृन्मयान्यश्ममयानि वा धूपगन्धमाल्यादर्शप्रदीपाञ्जनादीनि चोपहरेत्सर्वान्नविकारमादाय त्रीण्पि-ण्डान्कृत्वा सव्येन पाणिना दक्षिणं पाणिमुपसंगृह्यैककन्त्रिरभिमन्त्र्यासा-वेतदिति दर्भेषु सन्न्यसेद्यदि न चैवं सर्वत्र यथाग्रहणन्तेष्वेव पाणी निमृ-ज्योदपात्रैः परिप्लाव्य तत्पात्रमवाक्शिरः कृत्वा दक्षिणाभिश्च तर्पयित्वा शक्तितो नामगोत्रमभिश्राव्याभिवाद्य ब्रूयाद्दातारः सन्तु नो बहु देयं चास्त्विति । वरान्वाचयित्वा पिण्डानग्नौ वाप्सु वा प्रक्षिपेत्पत्नी वा मध्यमं पिण्डम-श्नीयात्पुत्रकामार्तवस्नाता ततो विप्रान्विसृज्य तैरनुज्ञातोऽश्नीयात् । श्राद्धं भुक्त्वाहोरात्रं परिहरेन्न दिवा मैथुनं व्रजेद्यदि व्रजेत्क्लीबा अल्पवीर्या अल्पायुषश्च जायन्ते न ह वै पितॄणान्तन्तुमुच्छीन्द्यात्पितरः पितामहाश्चैव तथैव प्रपितामहाः पुत्रञ्जातमुदीक्षन्ते पिप्पलं शकुना इव मधुमांसेन हव्येन पयसा पायसेन वा असौ दास्यति नस्तृप्तिं वर्षासु च मघासु च सन्तानवर्धनं पुत्रमुद्युक्तं पितृकर्मणि देवब्राह्मणसंयुक्तमभिनन्दन्ति पूर्वजाः पितरस्तस्य तुष्यन्ति वृष्ट्येव हि कृषीवलाः यद्गयास्थो ददात्यन्नन्तच्चानन्त्याय कल्पते कल्पत इति श्राद्ध १२ पुण्याहम्वाचयित्वा तदहः कर्म्मारभेत युग्मा ब्राह्मणा अन्नेन परिविष्टास्तृ-णपाणयः प्राङ्मुखास्तृणेषु तिष्ठन्ति तानब्गन्धपुष्पाक्षतदक्षिणाभिराराद्ध्य दक्षि-णतो विहितमुदकुम्भमर्पणं गन्धपुष्पाक्षतफलवन्तमुभयतो दर्भान्धारयन्वा-चयित्वा तृणेष्वेव तिष्ठति तस्य दक्षिणबाहुमनु स्वामी तिष्ठति तत एनान्वाच-यति मनस्समाधीयतामिति समाहितमनसस्मेतीतरे प्रतिब्रूयुः प्रसीदन्तु भवन्तेत्याह प्रसन्नास्मेतीतरे प्रतिब्रूयुः शान्तिरस्तु पुष्टिरस्त्वर्द्धिरस्त्वृद्धि-रस्त्वविघ्नमस्तु शिवं कर्म्मास्त्वित्याह तथैवेतरे ततो यद्देवत्यम्भवति तस्य प्रजापतेर्वा नाम गृह्णात्यसौ प्रीयतामसौ प्रीयतामिति प्रीयतामसावित्तितर ॐ पुण्याहम्भवन्तो ब्रुवन्त्विति त्रिराह ॐ पुण्याहमितीतर ॐ स्वस्ति भवन्तो ब्रुवन्त्विति त्रिराह ॐ स्वस्तीति तथैवेतर ओमृद्धिं भवन्तो ब्रुवन्त्विति त्रिराह ओमृद्ध्यतामिति तथैवेतरे य एवं विद्वान्वाचयति नास्य कर्म्मोपहत-म्भवत्यथापोहिष्ठीमयाभिस्तिसृभिरपां स्तोत्रेण पावमानेनेत्यनुवाकाभ्यां व्या-हृतीभिश्चाद्भि स्वामिनम्मार्ज्जयन्ति स्नात्वा शुचिः प्रक्षालितशुष्कवासा प्राग-पवर्ग्गाण्युदगपवर्ग्गाणि वा प्राङ्मुखो यज्ञोपवीति प्रदक्षिणन्दैवानि कर्म्माणि करोति तथा दक्षिणापवर्ग्गन्दक्षिणा प्राचीनावीत्यपसव्यम्पित्रियाणि तिष्ठ-न्नासीनश्च यथान्यायन्त्रिप्रादेशाः परिधयो द्विप्रादेशानीद्ध्मकाष्ठानि परिणाहे-ऽङ्गुलिमात्राणि द्राघीयान्दक्षिणः परिधिः कनीयां स्थविष्ठो मद्ध्यमः परि- धिरणिष्ठोऽधिष्ठ उत्तर इति अष्टका ९ अष्टकां करिष्यमाणो भवति स यदि सर्वाष्टकी सर्वा एवापरपक्षाणामष्टकाः कुरुतेऽथ यदि तिस्रस्तैषस्य माघस्य फाल्गुनस्याथ यदि द्वे तैषस्य माघस्याथ यद्येकाम्माघस्यैव । अष्टकां करिष्यमाण उपकल्पयत उक्षाणम्वा वेहतं वा व्रीहीनन्नाय मधु च सर्प्पिश्च प्रसिद्धं शौचमनूराधैरग्निमुपसमाधाय शोभयित्वा बर्हिषा परिस्तीर्यापरेणाग्निं शूर्पन्निधाय व्रीहींश्चैकपवित्रे निर्वपतीममपूपञ्च-तुश्शरावन्निर्वपामि क्लेशापहं पितॄणां संपराये देवेन सवित्रा प्रसूतो देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यो जुष्टान्निर्वपामी-त्यथैनान्प्रोक्षति पितृभ्यो वो जुष्टाम्प्रोक्षामीति तूष्णीम्पिष्टानि संस्कृत्य यथापुरोडाशमेवमेवैतमपूपञ्चतुश्शरावं श्रपयति शृतेऽस्मिन्नाज्यम्विलाप्योत्पू-य पर्य्यग्नीकृत्वोपस्तीर्ण्णाभिघारितमुद्वासयत्यथ परिषिञ्चत्यदितेऽनुमन्यस्वेति दक्षिणतोऽनुमतेऽनुमन्यस्वेति पश्चात्सरस्वतेऽनुमन्यस्वेत्युत्तरतो देव सवितः प्रसुवेति समस्तन्तस्योत्तरस्मादपरस्मादन्तादवदायोत्तरस्मिन्नपरस्मिन्नन्तेऽग्ने-रौदुम्बर्य्या दर्व्योपस्तीर्णाभिघारिताञ्जुहोतीयमेव सा या प्रथमा व्यौच्छ दन्तरस्याञ्चरति प्रविष्टा वधूर्जजान नव जनित्री त्रय एना महिमानस्सचन्ते स्वधा हव्यं स्वधा नम स्वाहेति दक्षिणपूर्वमवान्तरदेशमपूपस्य वर्षीयो वर्षीयोऽवदायाग्नेस्तामेव दिशमाहुतीरभिसंस्थापयत्यपूपञ्जुहोति घृतवन्तमद्य स्वाधावन्तम्पितृणान्तर्पणाय जातवेदः यथायथं वह हव्यानि देवान्पुत्रः पितृभ्य आहुतिञ्जुहोमि स्वधा हव्यं स्वधा नम स्वाहा औलूखला ग्रवाणो घोषमक्रतः हविः कृण्वन्तः परिवत्सरीणमेकाष्टके सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणां स्वधा हव्यं स्वधा नमस्स्वाहा यान्देवाः प्रतिनन्दन्ति रात्रिन्धे-नुमिवायतीं संवत्सरस्य या पत्नी सा नो अस्तु सुमंगली स्वधा हव्यं स्वधा नम स्वाहा एकाष्टका तपसा तप्यमाना जजान गर्भम्महिमानमिन्द्रं न दस्यून्व्यसहन्त देवा हन्तासुराणामभवच्छचीभि स्वधा हव्यं स्वधा नम स्वाहेत्यथाज्येन प्राजापत्यञ्जुहोति प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीनां स्वधा हव्यं स्वधा नम स्वाहेति दक्षिणपुरस्ताद्वर्षीयोऽवदाय सौविष्टकृतीञ्जुहोति यदस्य कर्मणोऽत्यरीचं तद्वा न्यूनमिहाकरमग्नि स्विष्टकृद्विद्वान्स्विष्टं सुहुतं करोतु मेऽग्नये स्विष्टकृते सुहुतहुते सर्वहुते सर्वप्रायश्चित्तय आहुतीनां कामानां समर्द्धयित्रे स्वधा हव्यम् स्वधा नम स्वाहेति दर्वीं प्रक्षाल्य निदधाति १ दर्व्वीं प्रक्षाल्य निदधात्यथ परिषिञ्चत्यदिते नवमंस्थेति दक्षिणतोऽनुम-तेऽन्वमंस्थेति पश्चात्सरस्वतेऽन्वमंस्थेत्युत्तरतो देव सवितः प्रासावीरिति सम-स्तम्पिण्डानामावृतौदनस्य पिण्डान्ददात्यथैतमपूपमन्नवन्तं घृतवन्तम्मधुमन्तं श्रद्धाभीमर्शेनाभिमृशति पृथिवी समा तस्या अग्निरुपद्रष्टादत्तस्या प्रममाय पृथिवी ते पात्रन्द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानान्त्वा प्राणापानयोर्जुहोम्यक्षितमसि मा मे क्षेष्ठाः पित्रेऽमुत्रामुष्मिन् लोकेऽन्तरिक्षं समन्तस्य वायुरुपद्रष्टा दत्तस्याप्रममाय पृथिवी ते पात्रन्द्यौरपिधानम्ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानान्त्वा प्राणापानयोर्जुहोम्यक्षितमसि मा मे क्षेष्ठाः पितामहायामुत्रामुष्मिन् लोके द्यौस्समा तस्या आदित्य उपद्रष्टा दत्तस्याप्र-ममाय पृथिवी ते पात्रन्द्यौरभिधानम्ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानान्त्वा प्राणापानयोर्जुहोम्यक्षितमसि मा मे क्षेष्ठाः प्रपितामहायामुत्रामुष्मिं लोके-त्यथैतेनापूपेनान्नवता घृतवता मधुवता ब्रह्मवान्विद्यावतः परिविषेन्नामन्त्राय दद्याद्यद्यु वा अन्नन्न स्यादपूपेनैव परिविषेत्परिविष्योदकाय गत्वोदका-ञ्जलिदानेनोदकाञ्जलीन्ददात्येष ते तत मधुमां ऊर्मिस्सरस्वान्यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावन्तमेनं भूतन्नयामि यथाग्निरक्षितोऽनुपदस्त एवम्मे पित्रेऽक्षितोऽनुपदस्त स्वधा भवतान्त्वं स्वधामक्षितन्तैस्सहोपजीवर्चस्ते महिमैष ते पितामहः भूतन्नयामि मधुमां ऊर्मिस्सरस्वान्यावान्वायुश्चान्तरिक्षञ्च तावत्यस्य मात्रा तावन्तमेनम्भूतन्नयामि यथा वायुरक्षितोऽनुपदस्त एवम्मे पितामहायाक्षितोऽनुपदस्त स्वधा भवतान्तं स्वधामक्षितिन्तैस्सहोपजीव यजूंषि ते महिमैष ते प्रपितामह मधुमां ऊर्म्मिस्सरस्वान्यावान्वायुश्चान्तरिक्षञ्च तावत्यस्य मात्रा तावन्तमेनम्भूतन्नयामि यथा वायुरक्षितोऽनुपदस्त एवम्मे पितामहायाक्षितोऽनुपदस्त स्वधा भवतान्तं स्वधामक्षितिन्तैस्सहोपजीव यजूंषि ते महिमैष ते प्रपितामह मधुमां ऊर्म्मिस्सरस्वान्यावानादित्यश्च द्यौश्च्यवत्यस्य मात्र तावन्तमेनं भूतन्नयामि यथादित्योऽक्षितोऽनुपदस्त एवम्मे प्रपितामहायाक्षितोऽनुपदस्त स्वधा भवतान्तं स्वधामक्षितिमक्षितिन्तैस्सहोप-जीव सामानि ते महिमेत्येतावदेवैतदहःकर्म भवत्यनूराधा ह वै मैत्र-न्नक्षत्रमित्येतद्विद्वांसः पूर्वर्षय एतमाष्टक्यमपूपञ्चतुश्शरावन्निरवपंस्तेनैव पितॄन-तर्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयन्नथो पितृभिर्मित्रमकुरुत मित्रं हैवास्य सर्वाणि भूतान्यभवन्स य एवं विद्वानेतमाष्टक्यमपूपञ्चतुश्शरावन्निर्वपति तेनैव पितॄंस्तर्पयति त एनंस्तृप्ताः प्रजया पशुभिस्तर्पयन्त्यथो पितृभिर्हैवास्य सर्व्वाणि भूतानि भवन्ति २ श्वो ज्येष्ठयाग्निमुपसमाधाय शोभयित्वा बर्हिषा परिस्तीर्याज्यम्विलाप्योत्पूय पर्यग्निकृत्वा परिषिच्योपाकरणीयाञ्जुहोतीमां पितृभ्यो जुष्टामुपाकरोम्यूर्जस्वतीं स्वधावितिं ताम्मे जुषन्तां पितरस्समेतास्सा मे पितॄन्संपराये धिनोतु स्वधा हव्यं स्वधा नम स्वाहेति हुत्वोक्षाणं वावेहतं वोपाकरोति पितृभ्यस्त्वा जुष्टा-मुपाकरोमीत्यथैनां प्रोक्षति पितृभ्यस्त्वा जुष्टां प्रोक्षामीति तान्दक्षिणेना-ग्निम्प्रतीचीनशिरसीन्दक्षिणापदीं सञ्ज्ञपयन्ति तस्यै सञ्ज्ञप्ताया अद्भिरभिषेक-म्प्राणानाप्याययन्ति तूष्णीमेवाथास्यै वपामुत्खिदति तूष्णीमेवाथास्या एतान्यु-द्धरति हृदयञ्जिह्वा वक्षस्तनिम मतस्ने तान्येतस्मिन्नग्नावौदुम्बरैश्शूलैः प्रणीक्ष्य श्रपयन्ति शृतेषु त्रेधा वपाम्विच्छिद्यौदुम्बर्या दर्व्योपस्तीर्णाभिघारिताञ्जुहोति सकृद्वा वह वपाञ्जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके मेदसं कुल्या उप तान्क्षरन्तु तीव्रा एषामाशिषस्सन्तु कामै स्वधा हव्यं स्वधा नम स्वाहेत्यथैतेषामवदानानामन्नस्य समवदायञ्जुहोतीयमेव सा या प्रथमा व्यौच्छदेकाष्टका तपसा तप्यमाना जजान गर्भमेकाष्टकाम्पश्यतु दोहमा-नामन्नम्मांसवद्घृतवत्स्वधावत्तत्सब्राह्मणैरतिपूतं स्थितमनन्तं गच्छतु मे पि-तृभ्य स्वधा हव्यं स्वधा नम स्वाहा एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्राचीना तन्दोहमुपजीवाथ पितरः परस्तात्सहस्रधा दुह्यमानं स्वधा हव्यं स्वधा नम स्वाहा सम्वत्सरस्य प्रतिमान्त्वां यान्त्वा रात्र्युपासते प्रजा-न्सुवीरां कृत्वा विश्वमायुर्व्यश्नवत्स्वधा हव्यं स्वधा नम स्वाहेति प्रसिद्धाज्येन प्राजापत्या प्रसिद्धान्नस्य सौविष्टकृती प्रसिद्धं परिषेचनम्प्रसिद्धम्पिण्डदा-नम्प्रसिद्धं श्रद्धाभीमर्शोऽथैतेनान्नेन च मांसेन च ब्रह्मणान्विद्यावतः परिवि-षेन्नामन्त्राय दद्याद्यद्यु वा अन्नादन्मांसेनैव परिविविषेद्ये व्याहं समाना गच्छेयुस्तेभ्योऽपि दद्यात्परिविष्योदकाय गत्वोदकाञ्जलिदानेनोदकाञ्जलि-न्ददाति प्रसिद्धमुदकाञ्जलिदानञ्ज्येष्ठा ह वै पैत्र्यन्नक्षत्रमित्येतद्विद्वांसः पूर्व आचार्या एकां गामाष्टक्यामेवमकल्पयंस्तयैव पितॄनतर्प्पयंस्त एनांस्तृप्ताः प्रजया पशुभिरतर्पयन्स य एवं विद्वानेतामाष्टक्यामेवं कल्पयति तयैव पितॄं- स्तर्पयति त एनन्तृप्ताः प्रजया पशुभिस्तर्पयति तृप्यति प्रजया पशुभिः ३ तृतीयेऽह्नि यथाश्रद्धमन्नञ्च धनञ्च कृत्वाग्निमुपसमाधाय शोभयित्वा बर्हिषा परिस्तीर्याज्यं विलाप्योत्पूय पर्यग्निकृत्वोपस्तीर्णाभिघारिताञ्जुहोतीयमेव सा या प्रथमा व्यौच्छदेकाष्टका तपसा तप्यमाना जजान गर्भमेकाष्टकां पश्यतु दोहमानामेकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नीदमन्नं वह जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराकेऽन्नस्य कुल्या उप तान्क्षरन्तु तीव्रा एषामाशिषस्सन्तु कामै स्वधा हव्यं स्वधा नम स्वाहेति प्रसिद्धाज्येन प्राजापत्या प्रसिद्धान्नस्य सौविष्टकृती प्रसिद्धमवशिष्टमौदकाञ्जलिदाना-न्तृतीयेऽह्नि यथाश्रद्धं पूर्व्वेऽन्नञ्च धनञ्चाददुस्तेषामपरिमितान्नधनात्पितरो बभू-वुरपरिमितान्नधना हास्य पितरो भवन्ति स एवं विद्वांस्तृतीयेऽह्नि यथाश्रद्धमन्नञ्च धनञ्च ददाति ४