बोधायनगृह्यसूत्रम् अथ प्रथमप्रश्ने प्रथमोऽध्यायः यथो एतद्धुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्था इति १ ता अनु व्याख्यास्यामः २ तत्र यद्धूयते स हुतो यथैतद्विवाहस्सीमन्तोन्नयनं चेति ३ तत्र हि हूयत एव ४ अथ यद्धुत्वा दीयते स प्रहुतो यथैतज्जातकर्म चौलं चेति ५ तत्र हि हुत्वा दीयत एव ६ अथ युद्धुत्वा दत्वा चादीयते स आहुतः यथैतदुपनयनं समावर्तनं चेति ७ तत्र हि हुत्वा दत्वा चादीयते ८ अथ यच्छूलेषूपनीय गव्यानि श्रपयन्ति स शूलगवः ९ अथ यत् गृह्याभ्यो देवताभ्योऽन्नं सन्प्रक्रिरन्ति तत् बलिहरणम् १० अथ यदृतो ऋतुं प्रत्यवरोहन्ति तत् प्रत्यवरोहणम् ११ अथ यदेकाष्ट-कायामन्नं क्रियते सोऽष्टकाहोम इति १२ विवाहं व्याख्यास्यामः १३ उदग-यन आपूर्यमाणपक्षे पुण्ये नक्षत्रे युग्मान् ब्राह्मणान् वरान् प्रहिणोति प्रसुग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभिषुप्रसीदत । अस्माकमिन्द्र उभयं जुजो-षति यत्सौम्यस्यान्धसो बुबोधति इति १४ यतोऽनुमन्त्रयते अनृक्षरा ऋजव-स्सन्तु पन्था येभिस्सखायो यन्ति नो वरेयम् । समर्यमा सम्भगो नो निनी-यात्सञ्जास्पत्यँ सुयममस्तु देवाः इति १५ अथ यदि दक्षिणाभिस्सह दत्ता स्यान्नात्र वरान् प्रहिणुयात् १६ तां प्रतिगृह्णीयात् प्रजापतिस्त्रियां यशः इत्येता-भिष्षड्भिरनुच्छन्दसम् १७ सर्वे मासा विवाहस्य १८ शुचितपस्तप-स्यवर्जमित्येके १९ रोहिणी मृगशीर्षमुत्तरे फल्गुनी स्वातीति विवाहस्य नक्षत्राणि २० पुनर्वसू तिष्यो हस्तश्श्रोणा रेवतीत्यन्येषां भूतिकर्मणाम् २१ यानि चान्यानि पुण्योक्तानि नक्षत्राणि तेषु पूर्वेद्युरेवर्द्धिपूर्तेषु युग्मान् ब्राह्मणान् भोजयेत् २२ प्रदक्षिणमुपचारः २३ पुष्पफलाक्षतमिश्रैर्यवैस्तिलार्थमुपलिष्यां दध्योदनं सम्प्रकीर्य दक्षिणं जानुं भूमौ निधाय सव्यमुद्धृत्य इडा देवहूः इति जपित्वा नान्दीमुखाः पितरः प्रियन्ताम् इति वाचयित्वा अद्य विवाहः इति ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इत्योङ्कारपूर्वं त्रिस्त्रिरे-कैकामाशिषो वाचयित्वा स्नातोऽहतवासो गन्घानुलिप्तस्स्रग्वी भुक्तवान् प्रतोदपाणिरपदातिर्गत्वा वधूज्ञातिभिरतिथिवदर्चितस्स्नातामहतवाससां ग-न्धानुलिप्तां स्रग्विणीं भुक्तवतीमिषुहस्तां दत्तां वधूं समीक्षते अभ्रातृघ्नीं वरुणापतिघ्नीं बृहस्पते । इन्द्रापुत्रघ्नीं लक्ष्म्यं तामस्यै सवितस्सुव इति २४ तयेक्ष्यमाणो जपति अघोरचक्षुरपतिघ्न्येधि शिवा पतिभ्यस्सुमनास्सुवर्चाः । जीवसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे इति २५ अथैनामन्तरेण भ्रुमुखे दर्भेण सम्मार्ष्टि इदमहं या त्वयि पतिघ्न्यलक्ष्मिस्तां निर्दिशामि इति २६ दर्भं निरस्याप उपस्पृश्याथैनां दक्षिणे हस्ते गृह्णाति मित्रोऽसि इति २७ अथैनां देवयजनमुदानयति एकमिषे विष्णुस्त्वाऽन्वेतु । द्वे ऊर्जे विष्णु-स्त्वाऽन्वेतु । त्रीणि व्रताय विष्णुस्त्वाऽन्वेतु । चत्वारि मायोभवाय वि-ष्णुस्त्वाऽन्वेतु । पञ्च पशुभ्यो विष्णुस्त्वाऽन्वेतु । षडायस्पॐषाय वि-ष्णुस्त्वाऽन्वेतु । सप्तभ्यो होत्राभ्यो विष्णुस्त्वाऽन्वेतु इति २८ सप्तमं पदमुपसङ्गृह्य जपति सखायस्सप्तपदा उभूम सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मा योष्ठाः इति इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने प्रथमोऽध्यायः अथ प्रथमप्रश्ने द्वितीयोऽध्यायः आवेद्यार्घ्यं कुर्यात् १ मध्येऽगारस्योदीचीनप्रतिषेवणा एरका उपस्तृणाति २ तास्वहतानि बहुगुणान्युत्तरदशानि वासांस्यास्तीर्य तेष्वृत्विजः प्राङ्मुखा उपविशन्ति ३ उत्तरपूर्वे देशेऽगारस्य प्राक्कूलान् दर्भान् संस्तीर्य तेष्वर्घ्य-द्रव्याणि संसादयति ४ यावन्त ऋत्विजस्तावन्ति कांस्यानि पात्राणि सापि-धानानि तावतः कूर्चान् ५ द्वावन्यौ परिग्रहणीयौ कूर्चौ ६ दधि मधु घृतमापः पयो वस्त्रयुगानि कुण्डलयुगानि ७ यस्यै गोः पयश्चमसः स्रगलङ्करणीयं चेति ८ पवित्रे कृत्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य कूर्चे कांस्यं निधाय तिरःपवित्रं मध्वानयति ९ दधि पयो वा द्वितीयं स द्विवृत् १० घृतं तृतीयं स त्रिवृत् ११ यद्द्वितीयं तच्चतुर्थं स चतुर्वृत् १२ आपः पञ्चमीस्स पाङ्क्तः १३ वर्षीयसा तेजोमयेनापिधाय नानापुरुषा अर्घ्यद्रव्याण्या-ददते अन्वगनुसंव्रजता १४ कूर्चः इति कूर्चं प्राह १५ तत् सुकूर्चः इतीतरः प्रतिगृह्णाति १६ तं प्रदक्षिणं पर्यस्योदगावृत्त उपविशति १७ पुरस्ताद्वंन प्रत्यञ्चमुपोहते राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् इति १८ अथास्मा उदपात्रमादाय कूर्चाभ्यां परिगृह्य पाद्या आप इति प्राह १९ ता अभिमन्त्रयते आपः पादावनेजानीर्द्विषन्तं नाशयन्तु मे । अस्मिन् कुले ब्रह्मवर्चस्यसानि इति २० दक्षिणं पादं पूर्वं ब्राह्मणाय प्रसारयति । स्वयं शूद्राय २१ स्त्री प्रक्षाळयति पुमानभिषिञ्चति । विपरीतमित्येके २२ नियमात् पत्नीयजमानौ जङ्घ्रे धाव-यतः २३ अवनेक्तुः पाणी सम्मृशति मयि महो मयि भगो मयि भर्गो मयि यशः इति २४ अथाप उपस्पृश्य मयीन्द्रियं वीर्यम् इत्युरःप्रत्यात्मानं प्रत्यभिमृशते २५ अपो ब्रीहिभिर्यवैर्वा समुदायुत्य तथैव कूर्चाभ्यां परिगृह्या-र्हणीया आप इति प्राह २६ ता अभिमन्त्रये आम आगाद्वर्चसा यशमा संसृज पयसा तेजसा च । तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनाम् इति २७ एक-देशमञ्जलाबानीयमानमनुमन्त्रये विराजोऽसि विराजो दोहमशीय । मम पद्याय विराज इति २८ अतिशिष्टाः पराचीर्निनीयमाना अनुमन्त्रये समुद्रं वः प्रहिणोम्य क्षिताः स्वा योनिमपि गच्छत । अच्छिद्रः प्रजया भूयासं मा परासोचि मत्पयः इति २९ अथ तथैव कूर्चाभ्यां परिगृह्योपस्तरणीया आप इति प्राह ३० ता पिबति अमृतोपस्तरणमसि इति ३१ त्रिराचमेत् त्रिः परिमृजेत् । द्विरत्येके ३२ आचान्तायापावृत्ताय तथैव कूर्चाभ्यां परिगृह्यार्घ्य इति प्राह मधुपर्क इति वा ३३ मधुपर्कं प्रोक्तमनुमन्त्रयते त्रय्यै विद्यायै यशोऽसि यशसो यशोऽसि ब्रह्मणो दीप्तिरसि । तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनाम् इति ३४ तमुभाभ्यां हस्ताभ्यां प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति ३५ तस्मिंश्चित् किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्व्या चोपसङ्गृह्येमां दिशं निरस्यति नेष्टावृद्धिं कृन्तामि या ते घोरा तनूः । तया तमाविश योस्मान् द्वेष्टि यं च वयं द्विष्मः इति ३६ अथाप उपस्पृश्य सर्वाभिरङ्गुलीभिस्समुदायुत्य प्राश्नाति यन्मधुनो मधव्यं परम-मन्नाद्यं वीर्यम् । तेनाह मधुनो मधव्येन परमेणान्नाद्येन वीर्येण परमोऽन्नादो मधव्योऽसानि इति ३७ त्रिः प्राश्य त्रिरनुपिबेच्छेषं च कुर्यात् ३८ य आत्मनः श्रेयांसमिच्छेत्तस्मै शेषं दद्यादिति ३९ आचान्तायापावृत्ताय तथैव कूर्चाभ्यां परिगृह्यापिधानीया आप इति प्राह ४० ताः पिबति अमृतापिधानमसि इति ४१ त्रिराचामेत् त्रिः परिमृजेत् । द्विरित्येके ४२ आचान्तायापावृत्ताय गौरिति गां प्राह ४३ तामनुमन्त्रयते गौरस्यपहतपाप्माऽप पाप्मानं नुद मम चामुष्य च इत्युपवेत्तुर्नाम गृह्णाति ४४ नाना महर्त्विग्भ्यो गाः प्राह ४५ एकां होतृकेभ्यः ४६ सर्वेभ्यो वैकामविभवत्वात् ४७ यः प्राह तस्मा उपाकरो-त्येकदेशं वपाय जुहोति अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्माभ्यमोपधीः कृणोतु विश्वचर्षणिः इति ४८ एकदेशमुपहरति तत् प्राश्नाति अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । अरिष्टमस्माकं कृणोत्वसौ ब्राह्मणो ब्राह्मणेषु इति । अथ यदुत्स्त्रक्ष्यन् भवति तामनुमन्त्रयते गौर्धेनुभव्या माता रुद्राणां दुहिता वसूनां स्वसाऽऽदित्यानाममृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्त । ओमुत्सृजत इति ५० तस्यामुत्सृष्टायां मेषमजं वाऽऽलभते ५१ आरण्येन वा मांसेन ५२ न त्वेवामांसोऽर्घ्यस्स्यात् ५३ अशक्तौ पिष्टान्नं संसिद्ध्येत् ५४ सिद्धे भूतम् इति प्राह ५५ तत् सुभूतम् इति इतरः प्रत्याह ५६ तदभिमन्त्रयते भूतं सुभूतं सा विराट्र तन्मा क्षायि तन्मेऽशीय तन्म ऊर्जं वा ॐ कल्पयत इति ५७ चतुरो नानागोत्रान् ब्राह्मणान् भोजयतेत्येव ब्रूयात् ५८ तेषु भुक्तवत्स्वन्नमस्मा उपहरति ५९ तत्प्राश्नाति विराडसि विराडन्नं विरा-ड्रिवाराजो मयि धेहि इति ६० भुक्तवद्भ्यो वस्त्रयुगानि कुण्डलयुगानि यस्यै गोः पयश्चमसः स्रगलङ्करणीयमिति च दद्यात् । एकधनं षष्ठौहीं दम्यावित्येके ६१ प्राङ्मधुपर्कादलङ्करणमेके समामनन्ति ६२ महयेदृत्विजमाचार्य चात्मानं वा एष महयति यस्समृत्विजमाचार्यं च महयत्येवमेवंव्रता वा आत्यन्ति-कास्स्युः पतितोऽननूचान इति निमित्तानि ६३ वरणेऽग्न्याधेयप्रभृतिषु चैषा-मृत्विजं स्मरेत् ६४ तथैते अर्घ्या ऋत्विक् श्वशुरः पितृव्यो मातुल आचार्यो राजा वा स्नातकः प्रियो वरोऽतिथिरिति ६५ संवत्सरपर्यागतेभ्य एतेभ्य एवं कुर्यात् विवाहे वराय ६६ अथर्त्विग्भ्यः कर्मणि कर्मणि ददाति ६७ इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने द्वितीयोऽध्यायः अथ प्रथमप्रश्ने तृतीयोऽध्यायः अथ शुचौ समे देशे अग्न्यायतनदेशं शकलेन त्रिः प्राचीनमुल्लिखेत् त्रिरुदीचीनम् १ अथाद्भिरभ्युक्ष्य शकलं निरस्याप उपस्पृश्य याज्ञिकात्का-ष्ठादग्निं मथित्वा श्रोत्रियागाराद्वाऽऽहृत्य व्याहृतिभिर्निरुप्योपसमाधायोपदि-ष्ठते २ जुष्टो दमूना अतिथिदुर्गेण इमं नो यज्ञमुपया हि विद्रान् । विश्वा अग्नेऽभियुजो विहत्य शत्रूयतामाभरा भोजनानि इति ३ अथैनं प्रदाक्षिणमग्निं परिसमूह्य पर्यृक्ष्य परिस्तीर्य प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ४ अपि वोदगग्राः पश्चाच्च पुरस्ताच्च भवन्ति ५ दक्षिणानुत्तरानुत्तरानधरान्यदि प्रागुदगग्राः ६ उत्तरेणाग्निं प्रगग्रान् दर्भान् संस्तीर्य तेषु द्वन्द्वं न्यच्चि पात्राणि संसादयति देवसंयुक्तान्येकैकशः पितृसंयुक्तानि सकृदेव मनुष्यसंयुक्तानि ७ यत्सह सर्वाणि मानुषाणि इत्येतस्माद्ब्राह्मणात् ८ पवित्रे कृत्वा तूष्णीं संस्कृ-ताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य विस्त्रस्येध्मं त्रिस्सर्वाभिः प्रोक्षति ९ दर्भेषु दक्षिणतो ब्राह्मण उपविशति उतरत उदपात्रम् १० अथ तिरःप-वित्रमाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गाराऽन्निरूह्य यन्तान्कृत्वा तेष्वधि-श्रित्याभिद्योतनेनाभिद्योत्य द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाळ्य प्रत्यस्य पुनरभिद्योत्य त्रिः पर्यग्निकृत्वा वर्त्म कुर्वन्नुदगुद्वास्य प्रत्यूह्याङ्गारान् बर्हिरास्तीर्य अथैनदुदी-चीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय विस्त्रस्य पवित्रेऽद्भिस्संस्पृ-श्याग्नावनुप्रहरति ११ अथ दर्वी निष्टप्य दर्भैस्संमृज्याद्भिस्संस्पृश्य पुनर्निष्टप्य प्रोक्ष्य निधाय दर्मानद्भिस्संस्पृश्याग्नावनुप्रहराति १२ अथ शम्याः परिधाति स्वादिरी दर्वी तेजस्कामस्यौदुम्बर्यन्नाद्यकामस्य पालाशी ब्रह्मवर्चसकामस्य इति १३ अथ हैकेषां विज्ञायते निरृतिगृहिता वै दवीं यद्दर्व्या जुहुया-न्निरृत्याऽस्य यज्ञ ग्राहयेत्तस्मात्स्त्रुवेणैव होतव्यम् इति १४ पालाशेन स्त्रुवेणेत्यात्रेयः १५ खादिरेणेत्याङ्गिरसः १६ ताम्रायसेनेत्याथर्वणः १७ कार्ष्णायसेनाभिचरन्निति सार्वत्रिकम् १८ अन्यो वाऽस्यैतावत्कृत्वाऽऽगमनं काङ्क्षेत् १९ अपरेणाग्निमुदीचीनप्रतिषेवणामेरकां साधिवासामास्तीर्य तस्यां प्राञ्चावुपविशत उत्तरतः पतिर्दक्षिणा पत्नी २० अथान्वारब्धायां प्रदक्षिणमग्निं परिषिञ्चति २१ अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनम् २२ अनुमतेऽनुम-न्यस्व इति पश्चादुदीचीनम् २३ सरस्वतेऽनुमन्यस्व इत्युत्तरतः प्राचीनम् २४ देव सवितः प्रसुव इति समन्तं प्रदक्षिणं समन्तमेव वा तूष्णीम् २५ अथेभ्यमभ्यज्य परिसमिधं शिनष्टि स्वाहाकारेणाभ्याधायाघारावाधारयति २६ प्रजापतये स्वाहा इति मनसोत्तरे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम् २७ इन्द्राय स्वाहा इत्युपांशु दक्षिणे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम् २८ अथाज्यभागौ जुहोति २९ अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे ३० सोमाय स्वाहा इति दक्षिणार्धपूर्वार्धे ३१ अथाग्निमुखं जुहोति ३२ युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान् सनेमि स्वाहा ३३ चतस्र आशाः प्रचरन्त्वग्नय इमं नो यज्ञं नयतु प्रजानन् । घृतं पिबन्नजरं सुवीरं ब्रह्म समिद्भवत्याहुतीनां स्वाहा ३४ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदमिद्वृधे सन्न प्रायुवो रक्षितारो दिवे दिवे स्वाहा ३५ विरूपाक्ष मा विबांधिष्ठा मा विबाध विबाधिथाः । निरृत्यै त्वा पुत्रमाहुस्स नः मर्माणि धारय स्वाहा ३६ विरूपाक्षमहं यजे निजङ्घं शबळोदरम् । यो माऽयं परिबाधते श्रियै पुष्ट्यै च नित्यदा तस्मै स्वाहा ३७ या तिरश्ची निपद्यसेऽहं विघरणी इति । तां त्वा घृतस्य धारयाऽग्नौ संराधिर्नी यजे स्वाहा ३८ संराधिन्यै देव्यै स्वाहा । प्रसाधिन्यै देन्यै स्वाहा । भूस्स्वाहा । भुवस्स्वाहा । सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इत्येतावत् सर्वदर्वीहोमानामेष कल्पः ३९ इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने तृतीयोध्यायः अथ प्रथमप्रश्ने चतुर्थोऽध्यायः अथास्या उपोत्थाय दक्षिणेन हस्तेन दक्षिणमंसं प्रतिबाहुमन्ववहृत्य हृदयदेशमभिमृशति--मम हृदये हृदयं ते अस्तु मम चित्ते चित्तमस्तु ते । मम वाजमेकमनाः शृणु मामेवानुव्रता सहचर्या मया भव इति १ अथास्यै दक्षिणे कर्णे जपति २ मां ते मनः प्रविशतु मां चक्षुर्मामु ते भगः मयि सर्वाणि भूतानि मयि प्रज्ञानमस्तु ते ३ मधुगे मध्वगाहे जिह्वा मे मधुवादिनी । मुखे मे सारघं मधु दत्सु संवननं कृतम् ४ चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् । यद्वित्तौ देवगन्धर्वौ तेन संवनिनौ स्वः ५ स्पृशामि तेऽहमङ्गानि वायुरापश्च मा मरः । मां चैव पश्य सूर्यं च मा चान्येषु मनः कृथाः ६ सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ७ सोमोऽददद्गन्धर्वाय गन्धर्वोऽददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ८ सरस्वति प्रेदमव सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य प्रगायामस्यग्रतः इति ९ अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं साङ्गुष्ठमभीव लोमानि गृह्णाति गृभ्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथाऽसः । भगोअर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः इति १० अथैनां प्रदक्षिणमग्निं पर्याणयति--परित्वाऽग्ने पुरं वयं विप्रं सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारं भङ्गुरावतः इति ११ अथ तथोपवि-श्यान्वारब्धायामुपयमनीर्जुहोति १२ अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्त-मानि सन्तु । सञ्जास्पत्यं सुयममाकृणुष्व शत्रूयतामभितिष्ठा महांसि स्वाहा १३ सोमाय जनिविदे स्वाहा १४ गन्धर्वाय जनिविदे स्वाहा १५ अग्नये जनिविदे स्वाहा १६ कन्यला पितृभ्यो यती पतिलोकमव दीक्षामदास्थ स्वाहा १७ प्रेतो मुञ्चाति नामुतस्सुबद्धाममुतस्करत् । यथेयमिन्द्रमीढ्व-स्सुपुत्रा सुभगा सती स्वाहा १८ इमां त्वमिन्द्र मीढ्वस्सुपुत्रां सुभगां कुरु । दशास्यां पुत्रानाधेहि पतिमेकादशं स्वाहा १९ अग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं स्त्री पौत्रमघं न रोदात् स्वाहा २० इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीव-तामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामियं स्वाहा २१ मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यस्संविशन्तु । मा त्वं विकेश्युर आवधिष्ठा जीवपत्री पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा २२ अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाऽघम् । शीर्ष्णस्स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाशं स्वाहा इति २३ अथैनामुत्थाप्योत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयति आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव । अभितिष्ठ पृतन्यतस्सहस्व पृतना-यतः इति २४ अथास्या अञ्जलावुपस्तीर्य तस्यास्सोदर्यो द्विर्लाजानावपति २५ तानभिधार्य जुहोति -- इयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुस्स्तु मे पतिर्जीवातु शरदश्शतं स्वाहा २६ अथैनां प्रदक्षिणमग्निं पर्याणयति--तुभ्यमग्ने पर्यवहन् सूर्यं वहतुना सह । पुनः पतिभ्यो जायां दा अग्ने प्रजया सह इति २७ तथाऽऽस्थापयति तथा जुहोति २८ अथैनां पुनः प्रदक्षिणमग्निं पर्याणयति--पुनः पत्नीमग्निरदादायुषा सह वर्चसा । दीर्घायुरस्या यः पतिस्स एतु शरदश्शतम् इति २९ तथैवास्थापयति तथैव जुहोति ३० अथैनां पुनरेव पर्याणयति -- विश्वा उत त्वया वयं धारा उदन्या इव । आतिगाहेमहि द्विषः इति ३१ अथ तथोपविश्यान्वरब्धायां जयानभ्यातानात्राष्ट्रभृत इति हुत्वा अथामात्यहोमान् जुहोति ३२ अथ प्राजापत्यात् जुहोति--प्रजापते न त्वदेतान्यन्यः इति ३३ अथ सौविष्टकृतं जुहोति यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निस्तत्स्विष्टकृद्विद्वान् सर्व स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुत आहुतीनां कामानां समर्धयित्रे स्वाहा इति ३४ अथ स्त्रुवेण परिधीननक्ति ३५ अथ परिस्तरात्समुल्लिप्याज्यस्थाल्यां प्रस्तरवत् बर्हिरक्त्वा तृणं प्रच्छाद्याग्नावनुप्रहरति ३६ अथ शम्या अपोह्य तथैव परिषिञ्चति । अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान् सन्नमयति ३७ अथ प्रणोताद्भ्यो दिशो व्युन्नीय ब्रह्मणे वरं ददामीति गां ब्राह्मणेभ्यः ३८ एष आघारबान् दर्वीहोमः ३९ अथापरः--परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्त्रुक् स्त्रुवं निष्टप्य सम्मृज्य स्त्रुचि चतुर्गृहीतं गृहीत्वा सर्वान् मन्त्रान् समनुद्रुत्य सकृदेवाहुतिं जुहोति ४० अग्निस्स्विष्टकृद्वितीयः ४१ द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति निर्लेढीत्येष आग्निहोत्रिकः ४२ अथापरः--परिसमूह्य पर्युक्ष्य परिस्तीर्य प्राकृतेन हविषा यावदाम्ना-तमाहुतीर्जुहोत्येष ह्यपूर्वः ४३ तत्रोदाहरन्ति आघारं प्रकृतिं प्राह दर्वीहोमस्य बादरिः । आग्निहोत्रिकं तथाऽऽत्रेयः काशकृत्स्नस्त्वपूर्वताम् इति इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने चतुर्थोऽध्यायः अथ प्रथमप्रश्ने पञ्चमोऽध्यायः तां न मिथस्संसादयेदनादेशात् १ अनुनयन्त्येतमग्निम् २ अथैनां पितुरङ्का-दुद्वहति गुरोर्वा--ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जना ँ! अनु । पुनस्ता-न्यज्ञिकीया देवा नयन्तु यत आगताः इति ३ अथैनां दक्षिणे हस्ते गृहीत्वा स्वरथमारोप्य स्वान् गृहानानयति पूषा त्वेतो नयतु हस्तगृह्याश्विनौ त्वा प्रवहतां रथेन । गृहान् गच्छ गृहपत्नी यथाऽसो वशिनी त्वं विदथमावदासि इति ४ पन्थानमनुमन्त्रयते--सु गं पन्थानमारुक्षमरिष्टं स्वस्तिवाहनम् । यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु इति ५ ओषधिवनस्पतयो नद्यो वनान्यनुमन्त्रयते--या ओषधयो या वनस्पतयो या नद्यो यानि धन्वानि ये वना । ते त्वा वधु प्रजावतीं प्रत्वे मुञ्चन्त्वंहसः इति ६ अथ जायामानीय स्वान् गृहान् प्रपादयति--भद्रान् गृहान् सुमनमः प्रपद्येऽवीरध्नी वीरवत-स्सुवीरान् । इरां वहतो घृतमुक्षमाणास्तेष्वहं सुमनास्संविशानि इति ७ अथैनामानडुहे चर्मण्युपवेशयति--इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो रायप्सोषो निषीदतु इति ८ अत्राभ्याममात्यास्स्तोक्मा-ण्यारोपयन्ते ९ अथ वाचं यच्छतः आ नक्षत्राणामुदयात् १० अथाहोरात्रयोस्सन्धिमनुमन्त्रयते--नीललोहिते भवतः कृत्यासक्तिर्व्यज्यते । एधन्तेऽस्या ज्ञातयः पतिर्बन्धेषु बध्यताम् इति ११ अथोदितेषु नक्षत्रेषूपनि-ष्क्रम्य ध्रुवमरुन्धतीं च दर्शयति १२ ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवमसि ध्रुवत-स्स्थितम् । त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः इति ध्रुवम् १३ सप्त ऋषयः प्रथमां कृत्तिकानामरुन्धतीं यद्ध्रुवतां ह निन्युः । षट्कृत्तिका मुख्ययोगं वहन्तीयमस्माकमेधत्वष्टम्यरुन्धती इत्यरुन्धतीम् १४ अथ विवा-हस्यारुन्धत्युपस्थानात् कृत्वा व्रतमुपैति--अग्ने व्रतपते उपयमनं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते उपयननं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् इति १५ उभौ जायापती व्रतचारिणौ ब्रह्मचारिणौ भवतोऽधश्शयाते १६ तयोश्श्याम-न्तरेणोदुम्बरदण्डो गन्धानुलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठत्यापक्व-होमात् १७ चतुर्थ्यां निशायां हुते पक्वहोमे व्रतं विसृज्य दण्डमुत्थापयति-ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह । त्वया व-यमिषमूर्ज वदन्तो रायस्पोषेण समिषा मदेम इति १८ अथैनं वध्वै प्रयच्छति --प्रजया त्वा संसृजामि मासरेण सुरामिव इति १९ तं वधूः प्रतिगृह्णाति--प्रजावती भूयासम् इति २० अथैनं वराय प्रयच्छति--प्रजया त्वा पशुभि-स्संसृजामि मासरेण सुरामिव इति २१ तं वरः प्रतिगृह्णाति--प्रजावान् पशुमान् भूयासम् इति २२ अथैनं स्थूणादेशे निधायान्तिकेन प्रतिपद्यते २३ प्रसिद्धमुपसंवेशनम् २४ श्वोभूते दण्डमादाय पुण्याहं वाचयित्वाऽप्सु विसर्जयति २५ अथ देवयजनोल्लेखनप्रभृत्याग्निमुत्वात् कृत्वा पक्वा-ज्जुहोति--अग्निर्मूर्धा भुवः इति द्वाभ्याम् २६ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् २७ स एष पार्वणो भवति २८ अथास्तमित आदित्येऽन्यो-न्यमलङ्कृत्योपरिशय्यां शयाते २९ अथ वधूमभिमन्त्रयते--सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्वायाथास्तं विपरेतन इति ३० अथैनां सर्वसुरभिगन्धया मालया युनक्ति -- सं ना मनस्सं हृदयानि सं नाऽभि सं तनुत्यजः । सं त्वा कामस्य याक्रेणे युञ्जत्यविमोचनाय इति इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने पञ्चमोऽध्यायः अथ प्रथमप्रश्ने षष्ठोऽध्यायः आनयन्त्येतमग्निम् १ अथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा पद्या-मोदनं पायसं वा याचति २ तमभ्युक्ष्याग्नावधिश्रयतिं ३ आज्यं निर्वपति ४ अथाज्यमधिश्रयति ५ उभयं पर्यग्नि कृत्वा मेक्षणं स्त्रुवं च संमार्ष्टि ६ अथैतं चरुं श्रपयित्वाऽभिधार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति ७ परिधा-नप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति ८ स एवमेव सर्वेषां स्थालीपाकानां चरुकल्पः ९ यस्त्वा हृदा कीरिणा मन्यमानः इति पुरोनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेदः इति याज्यया जुहोति १० अथाज्याहुतीरुपजुहोति ११ अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा १२ वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा १३ आदित्य प्रायश्चिते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा १४ प्रजापते प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा इति १५ पक्वादेव स्विष्टवतीभ्यां सौविष्टकृतम् १६ लाजैरितरत्र १७ हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरन्धिमग्निं स्विष्टकृतमाहुवेमोम् । स्विष्टमग्ने अभि तत् पृणाहि विश्वादेव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन् विभाहि ज्योतिष्मद्धेह्यजरं न आयुस्स्वाहा इति १८ जयप्रभृति सिद्धमाधेनुवरप्रदानात् १९ अथाज्यशेषेण हिरण्यमन्तर्धाय मूर्ध्नि संस्रावं जुहोतिभूस्स्वाहा भुवस्स्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इति २० अथैनां प्रदक्षिणमग्निं पर्याणयति अर्यम्णो अग्निं परियन्तु क्षिप्रं प्रतीक्षन्तां श्वश्रुवो देवराश्च इति २१ अथ श्रीमन्तमगारं सम्मृष्टोपलिप्तं गन्धवन्तं पुष्पवन्तं धूपवन्तं दीपवन्तं तल्पवन्तं साधिवासं दिक्षु सर्पिस्सूत्रेन्धनप्रद्योतितमुदकुम्भादर्शोच्छिरसं प्रपाद्य तस्मिन्नेनां संवेश्य तस्या अन्तिके जपति २२ उदीर्ष्वातो विश्वावसो नमसेडामहे त्वा । अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज । उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीट्टे । अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि इति २३ अथैनामुपसंवेशयति प्रजापतिस्स्त्रियां यशः इत्येतया २४ अथास्यास-तोकोतिं विवृणोति प्रजायै त्वा इति २५ सा यद्यश्रु कुर्यात्तामनुमन्त्रयते जीवां रुदन्ती विमयन्तो अध्वरे दीर्घामनुप्रसितिं दीधियुर्नरः । वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे इति २६ इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने षष्ठोऽध्यायः अथ प्रथमप्रश्ने सप्तमोऽध्यायः ब्राह्मणेन ब्राह्मण्यामुत्पन्नः प्रागुपनयनाज्जात इत्यभिधीयते १ उपनीतमात्रो व्रतानुचारी वेदानां किञ्चिदधीत्य ब्राह्मणः २ एकां शाखामधीत्य श्रोत्रियः ३ अङ्गाध्याय्यनूचानः ४ कल्पाध्यायी ऋषिकल्पः ५ सूत्रप्रवचनाध्यायी भ्रूणः ६ चतुर्वेदादृषिः ७ अत ऊर्ध्वं देवः ८ अथ यदि कामयेत श्रोत्रियं जनयेयमित्याऽरुन्धत्युपस्थानात्कृत्वा त्रिरात्रमक्षारलवणाशिनावधश्शायिनौ ब्रह्मचारिणावासाते ९ अहतानां च वाससां परिधानं सायं प्रातश्चालङ्कर-णामिषुप्रतोदयोश्च धारणमग्निपरिचर्या च १० चतुर्थ्यां पक्वहोम उपसंवेशनं च ११ अथ यदि कामयेतानृचानं जनयेयमिति द्वादशरात्रमेतद्व्रतं चरेत् १२ व्रतान्ते पक्वहोम उपसंवेशनं च १३ अथ यदि कामयेत ऋषिकल्पं जनयेय-मिति मासमेतद्व्रतं चरेत् १४ व्रतान्ते पक्वहोम उपसंवेशनं च १५ अथ यदि कामयेत भ्रूणं जनयेयमिति चतुरो मासानेतद्व्रतं चरेत् १६ व्रतान्ते पक्वहोम उपसंवेशनं च १७ अथ यदि कामयेत ऋषिं जनयेयमिति षण्मासानेतद्व्रतं चरेत् १८ व्रतान्ते पक्वहोम उपसंवेशनं च १९ अथ यदि कामयेत देवं जनयेयमिति संवत्सरमेतद्व्रतं चरेत् २० व्रतान्ते पक्वहोम उपसंवेशनं च २१ अथ यदैषा मलवद्वासास्स्यात्--नैनया सह संवदेत न सहासीत नास्या अन्नमद्याद्भ्रह्महत्यायै ह्योषा वर्णं प्रतिमुच्यास्तेऽथो स्वल्वा-हुरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्यं काममन्यत् इति २२ नैनामुपेयात् २३ नारण्ये २४ न पराचीम् २५ न स्नाति २६ नाभ्यङ्क्ते २७ न प्रलिखते २८ नाङ्क्ते २९ न दतो धावते ३० न नखानि निकृन्तते ३१ न कृणत्ति ३२ न रज्जुं सृजति ३३ न पर्णेन पिबति ३४ न खर्वेण पिबति ३५ तस्यै खर्वस्रिस्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय इति ब्राह्मणम् ३६ चतुर्थ्यां स्नातायां निशायाम-लङ्कृत्य शयनेऽभिमन्त्रयते विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ३७ यथाऽग्निगर्भा पृथिवी द्यौर्यथेन्द्रेण गर्भिणी । वायुर्यथा दिशां गर्भ एवं गर्भं दधातु ते ३८ गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं धेहि अश्विनौ देवावाघत्तां पुष्करस्रजा ३९ हिरण्ययी अरणी यं निर्मन्थतो अश्विना । तंते गर्भं दधाम्यहं दशमे मासि सूतवे ४० नेजमेष परापत सपुत्रः पुनरापत । अस्यै मे पुत्रकामायै गर्भमाधेहि यः पुमान् इति ४१ अथैनां परिष्वजति--अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं रेतोऽहं रेतोभृत्त्वं मनोऽहमस्मि वाक्त्वं सामाहमस्मि ऋक्त्वं तावेहि सम्भवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय इति ४२ आत्मानं प्रत्यभिमृशतै--अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः । अहं प्रजा अजनयन्पितृणामहं जनिभ्यो अपरीषु पुत्रान् इति ४३ अथैनामुपैति--तां पूपञ्छिवतमोमरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेफम् इति ४४ स एवमेव चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मामुपैति ४५ प्रजानिश्श्रेयसमृतुगम-नमित्याचार्याः ४६ सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः ४७ यच्चादौ यच्चर्ताविति शालिकिः ४८ इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने सप्तमोऽध्यायः अथ प्रथमप्रश्ने अष्टमोऽध्यायः अथाभ्यां पञ्चमेऽहनि नापितकर्म कुर्वन्ति १ नापिताय पयोदनं दत्वा ग्रामा-त्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रैकमुदुम्बरमूलं पश्यन्ति तं प्रदक्षिणं परिसमूह्य प्रदक्षिणं गन्धैरनुलिम्पन् जयति--यथा त्वं वनस्पत ऊर्जा अभ्युत्थितो वनस्पते । शतवलूशो विरोहस्येवमहं पुत्रैश्च पशुभिश्च सहस्र-वल्शा वि वयं रुहेम इति २ सुमनोभिः प्रच्छादयति--यथा त्वं वनस्पते फलवानस्येवमहं पुत्रैश्च पशुभिश्च फलवान् भवानि इति ३ अत्रैव त्रिवृताऽन्नेन बलिमुपहरति ४ मन्त्रं चोदाहरन्ति--ऊर्जस्वान् पयस्वान् पयसा पिन्वमा-नोऽस्मान् वनस्पते पयसाऽभ्याववृत्स्व इति ५ अन्नं संस्कृत्य ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा जानुदघ्नमुदकमवतीर्य प्राचीनदशेनाहतेन वाससा मत्स्यान् गृह्णतो ब्रह्मचारिणं पृच्छतो ब्रह्मचारिन् किं पश्यसि इति ६ स पृष्टः प्रतिब्रूयात् पुत्रांश्च पशूंश्च इति ७ अथैतान् मन्स्यानुदुम्बरमूले बकानां बलिमुपहरति दीर्घायुत्वाय वर्चसे इति ८ अत्रैव निर्माल्यानि परिभुक्तानि वासांसि प्रतिसरांश्च प्रतिमुच्योदुम्बरशाखायां संसृज्य ९ अथावगा-ह्यान्योन्यस्य पृष्ठे धावयित्वोदकान्तं प्रति यौति -- प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः इति १० अन्योन्यमलङ्कृत्य रक्तानि वासांसि परिधा-याहतेन वाससा वेति ११ यानेन पद्भ्यां वा गृहं गत्वा प्रक्षाळितपादावप आचम्य वाग्यतौ शयनमारभेते १२ श्वोभूते वैश्वदेवेन प्रतिपद्यते १३ मासिश्राद्धेन चापरपक्षे १४ इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने अष्टमोऽध्यायः अथ प्रथमप्रश्ने नवमोऽध्यायः विज्ञाते गर्भे तिप्ये पुंसवनम् १ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा २ अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात् कृत्वा पक्वाज्जुहोति प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिस्सहसाम इन्द्र । विश्वै-र्देवैरातिभिस्संरराणः पुंसां बहूना मातरस्स्याम स्वाहा इति ३ अथाज्या-हुतीरुपजुहोति--गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् इति तिसृभिरनु-च्छन्दसम् ४ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५ अथास्या आज्य-शेषमास्ये प्रच्योतयति--अस्मे देवासो वपुषे चिकित्सत इति चतसृभि- रनुच्छन्दसम् ६ इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने नवमोऽध्यायः अथ प्रथमप्रश्ने दशमोऽध्यायः प्रथमगर्भायाश्चतुर्थे मासि सीमन्तोन्नयनम् १ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा २ अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखा-त्कृत्वा पक्वाज्जुहोति ३ धाता ददातु नः इति पुरोनुवाक्यामनूच्य धाता प्रजाया उत राय ईशे इति याज्यया जुहोति ४ अथाज्याहुतीरुपजुहोति--धाता ददातु नो रयिं प्राचीम् इत्यान्तादनुवाकस्य ५ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ६ अथास्यास्त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैरुदुम्ब-रप्रसूनैर्यवप्रसूनैरिति केशान् विभजन् सीमन्तमुन्नयति राकामहम् यास्ते राके इति द्वाभ्याम् ७ अथास्यै यवप्रसूनान्याबध्नाति यवोसि यवयास्मद्द्वेषो यवया-रातीः इति ८ अथैनौ वीणागाथिनाविति प्रतिगृह्णीते ९ अथैनौ संशास्ति गायतमिति १० तावेतां गाथां गायतः सोम एव नो राजेत्याहु-र्ब्राह्मणीः प्रजाः । विवृत्तचक्रा आसीनास्तीरेणासौ तव इति ११ यस्यै नद्या-स्तीरे संश्रिता वसन्ति तस्यै नाम गृह्णाति १२ अष्टमे मासि विष्णव आहुतीर्जुहोति विष्णोर्नुकम् इत्येतेन सूक्तेन १३ विष्णवे बलिमुपहरति १४ वैष्णवो ह्येष मासो विज्ञायते १५ विष्णुर्हि गर्भस्य देवता १६ इति हुतो व्याख्यातः १७ इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने दशमोऽध्यायः प्रथमप्रश्ने एकादशोऽध्यायः यथैतद्धुते बलिहरणम् १ विष्णवे बलिरष्टमे मासि पूर्वपक्षस्य सप्तम्यां द्वादश्यां रोहिण्यां श्रोणायां वा २ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ३ अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं दैवतमावाहयति ॐ भूः पुरुषमावाहयामि ॐ भुवः पुरुषमावाहयामि ॐ सुवः पुरुषमावाहयामि ॐ भूर्भुवस्सुवः पुरुषमावा-हयामि इत्यावाह्य ४ परिधानप्रभृत्याऽग्निमुखात्कृत्वा दैवतमर्चयति ५ आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा ६ अथाद्भिस्तर्पयति केशवं तर्पयामि नारायणं माघवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामि इति ७ एतैरेव नामधेयैर्गन्धपुष्प-धूपदीपैः अमुष्मै नमोऽमुष्मै नमः इत्यभ्यर्च्य ८ अथ विष्णव आहुतीर्जुहोति विष्णोर्नु कम् तदस्य प्रियम् प्रतद्विष्णुः परो मात्रया विचक्रमे त्रिर्देवः इति ९ जयप्रभृति सिद्धमाधेनुवरप्रदानात् १० अथ गुडपायसं घृतमिश्रमन्नं निवेदयति अमुष्मै स्वाहा नमोऽमुष्मै स्वाहा नमः इति द्वादशभिर्यथालिङ्गम् ११ वैष्णवीभिः ऋग्यजुस्सामाथर्वभिस्स्तोत्रैस्स्तुतिभिस्स्तुवन्ति १२ व्याहृतीभिः पुरुषमुद्वासयामीत्युद्वास्यान्नशेषं पत्नीं प्राशयेन् १३ पुमानस्यै जायत इति विज्ञायते १४ इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने एकादशोऽध्यायः यथो एतत् । आवेद्यार्घ्यं कुर्यात् । अथ शुचौ समे देशे । अथास्या उपोत्थाय । तां न मिथस्संसादयेत् । आनयन्त्येतमग्निम् । ब्राह्मणेन ब्राह्मण्यामुत्पन्नः । अथाभ्यां पञ्चमेऽहनि । विज्ञाते गर्भे । प्रथमगर्भायाश्चतुर्थे मासि । यथैतद्धुते बलिहरणम् ११ यथैतद्धुते बलिहरणम् । प्रथमगर्भा-याश्चतुर्थे मासि । विज्ञाते गर्भे । अथाभ्यां पञ्चमेऽहनि । ब्राह्मणेन ब्राह्मण्यामुत्पन्नः । आनयन्त्येतमग्निम् । तां न मिथस्संसादयेत् । अथास्या उपोत्थाय । अथ शुचौ समे देशे । आवेद्यार्घ्यं कुर्यात् । यथो एतत् ११ इति बोधायनीयगृह्यसूत्रे प्रथमः प्रश्नः समाप्तः अथ द्वितीयप्रश्ने प्रथमोऽध्यायः अथ प्रहुतः १ जातं कुमारमभिमन्त्रयते--अद्भ्यस्सम्भूतः इत्येतेनानुवाकेन २ अथैनं स्नपयति--क्षेत्रियै त्वा निरृत्यै त्वा इति षड्भिरनुच्छन्दसम् ३ अथैनं स्वोपस्थं आदधाति--अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि संजीव शरदश्शतम् इति ४ अथैनं मूÞर्यभिजिघ्रति--अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । पशूनां त्वा हिङ्कारेणाभिजिघ्राम्यसौ इति नक्षत्रनामधेयेन ५ अथास्य दक्षिणे कर्णे जपति अग्निरायुष्मान् इति पञ्चभिः पर्यायैः ६ अथैनं दधिमधुघृतमिति समुदायुत्य हिरण्येन प्राशयति--प्राणो रक्षति विश्वमेजत् इत्येतेनानुवाकेन प्रत्यृचम् ७ अतिशिष्टं गोपदे निनयति व्याहृतीभिः ८ अथैनं मातुरुपस्थ आदधाति--सीद त्वं मातुरस्या उपस्थे इति चतसृभिस्सहंसाभिः ९ स्तनमभिमन्त्रयते--यस्ते स्तनश्शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्यणि । यो रत्नधा वसुविद्यस्सुदत्रस्सरस्वति तमिह धातवेकः इति १० धयन्तमनुमन्त्रयते--द्यौस्ते पृष्ठं रक्षतु वायुरूरू अश्विनौ च स्तनं धयन्तं सविताऽभिरक्षतु । आवाससः परिघानाद्बृहस्प-तिर्विश्वेदेवा अभिरक्षन्तु पश्चात् इति ११ अथास्योदकुम्भमुच्छिरसि निदधाति--आपस्सुप्तेषु जाग्रत रक्षांसि नीरितो नुदध्वम् इति १२ अथ देवयजनो-ल्लेखनप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जुहोति--हरिं हरन्तमनुयन्ति देवाः इति पुरोऽनुवाक्यामनूच्य मा छिदो मृत्यो मा वधीः इति याज्यया जुहोति १३ अथाज्याहुतीरुपजुहोति--सद्यश्चकमानाय इत्यान्तादनुवाकस्य १४ स्विष्ट-कृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १५ अथानोयुगं रथयुगं वा स्नाप्याच्छा-द्यालंकृत्य अग्रेणाग्निमुद्धृत्य तस्याग्रेणाश्वत्थपर्णेषु हुतशेषं निदधाति--नम आव्याधिनीभ्यः इति १६ अथास्तमित आदित्ये गौरसर्षपान् फलीकरण-मिश्रान् अञ्जलिना जुहोति--कृणुष्व पाजः प्रसितिं न पृथ्वीम् इत्येतेनानुवाकेन प्रत्यृचम् १७ अथौदनम् तिलसक्तुर्भिघृतेनेति समुदायुत्य गोष्ठेऽश्वत्थपर्णेषु हुतशेषं निदधाति--अघोराय महाघोराय नमो नमः इति १८ अथातिशिष्टं सर्वा दिशस्सम्प्रकिरन्ति--आवेशिना व्यश्रुमुखी कुतूहलिन्येकस्तनी जृम्भणी स्तम्भनी मोहनी च । कृष्णा विशाखा विमला ब्रह्मरात्री भ्रातृव्यसङ्ख्येषु पतन्त्यमोघाः । ताभ्यो वै मातृभ्यो नमो नमः इति १९ स एवमेव फली-करणहोमप्रभृति सायंप्रातर्दशरात्रं करोति २० नानुत्थितायां सूतिकायां भोज्यान्नता २१ दशम्यामुत्थानम् २२ दशम्यां द्वादश्यां वा नामकरणम् २३ प्राजापत्येन सूक्तेन हुत्वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयन्नामास्मै दधाति २४ द्व्यक्षरं चतुरक्षरं षडक्षरमष्टाक्षरं वा २५ घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तम् २६ अपि वा यस्मिन् स्वित्यु-पसर्गस्स्यात्तद्धि प्रतिष्ठितमिति विज्ञायते २७ ऋष्यणूकं देवताणूकं वा २८ यथैवैषां पूर्वपुरुषाणां नामानि स्युः २९ अयुगक्षरं कुमार्याः ३० अमुष्मै स्वस्तीति ३१ इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने प्रथमोऽध्यायः अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः चतुर्थे मास्युपनिष्क्रमणम् १ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्तिऋद्धि-मिति वाचयित्वा २ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा स्वस्त्या-त्रेयं होति ३ स्वस्ति नो मिमीतामश्विना भगस्स्वस्ति देव्यदितिरनर्णवः । स्वस्ति पूषा असुरो दधातु नः स्वास्ति द्यावापृथिवी सुकेतुना ४ स्वस्तये वायुमुपब्रवामहै सोमं स्वास्ति भुवनस्य यस्पतिः । बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आचित्यासो भवन्तु नः ५ विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निस्स्वस्तये । देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ६ स्वस्ति मित्राववरुणा स्वस्ति पथ्ये रेवति । स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ७ स्वति पन्थामनुचरेम सूर्याचन्द्रमसाविव । पुनर्ददताऽघ्नता जानता संगमेमहि ८ स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं महद्भूतं वायसं देवतानाम् । असुरघ्नीमिन्द्रसखं समत्सु बृहद्यशो नावमिवारुहेम ९ अंहोमुचमाङ्गिरसं गयं च स्वस्त्यात्रेयं मनसा च तार्क्ष्यम् । प्रयतपाणिश्शरणं प्रपद्य स्वस्ति संबाधेष्वभयं नो अस्तु १० स्वस्ति न इन्द्रो वृद्धश्रवास्स्वस्ति नः पूषा विश्व-वेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिस्स्वस्ति नो बृहस्पतिर्दधातु इत्यष्टाभिर-नुच्छन्दसम् ११ जयप्रभृति सिद्धमाधेनुवरप्रदानात् १२ अथोपनिष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा प्रदक्षिणीकृत्य स्वान् गृहानानयति १३ इति बोधायनीये गृह्यसूत्रे द्वितीयप्रश्ने द्वितीयोऽध्यायः अथ द्वितीयप्रश्ने तृतीयोऽध्यायः षष्ठे मास्यन्नप्राशनम् १ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा २ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा अन्नसूक्तेन जु-होति-अहमस्मि प्रथमजा ऋतस्य इत्यष्टाभिरनुच्छन्दसम् ३ जयप्रभृति सिद्धमाधेनुवरप्रदानात् ४ अथौदनं दध्ना मधुना घृतेनाद्भिरिति समुदायुत्य हिरण्येनौषधस्य कुमारं प्राशयति--या जाता ओषधयः इति षड्भिरनु-च्छन्दसम् ५ भूर्भुवस्सुवरपां त्वौषधीनां रसं प्राशयामि शिवास्त आप ओषधयस्सन्त्वसौ इति सर्वास्वनुषजति ६ इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने तृतीयोऽध्यायः अथ द्वितीयप्रश्ने चतुर्थोध्यायः संवत्सरे चूडाकर्म त्रिषु वा संवत्सरेषु १ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा २ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखा-त्कृत्वा पक्वाज्जुहोति--ये केशिनः । इति पुरोनुवाक्यामनूच्य नतें ब्रह्मणः । इति याज्यया जुहोति ३ अथाज्याहुतीरुपजुहोति--आरोह प्रोष्ठं विषहस्व शत्रून् । इत्यान्तादनुवाकस्य ४ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५ अथाग्रेणाग्निमुदुम्बरपर्णेषु हुतशेषं निदधाति--नमो हिरण्यबाहवे इति ६ अपरेणाग्निमुभयीरपस्संनिषिञ्चति ७ उष्णासु शीता आनयति--उष्णेन वायवुदकेनेह्यदितिः केशान् वपतु । इति ८ ताभिरस्य शिर उनत्ति--आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे । इति ९ ऊर्ध्वाग्रं बर्हिरनूछ्रयति--ओषधे त्रायस्वैनम् । इति १० क्षुरमभिमन्त्रयते--ज्योक्च सूर्यं दृशे इति ११ अथैनं निर्यञ्चं निदधाति--स्वधिते मैनं हिंसीः इति १२ अथास्य केशान्वपति--येनावपत्सविता क्षूरेण । इति १३ प्रवपतोऽनुमन्त्रयते--मा ते केशाननुगाद्वर्च एतत् इति १४ अथैनान् समुच्चित्य दर्भस्तम्बे निदधाति --तेभ्यो निधानं बहुधा व्यैच्छन् । इति १५ अथैनमुष्णोदकेनाप्लावयति --बलं ते बाहुवोस्सविता दधातु इति १६ अथैनमेकशिखस्त्रिशिखः पञ्चशिखो वा यथैवैषां कुलधर्मस्स्यात् १७ यथर्षि शिखां निदधातीत्येके १८ अथैनं स्नाप्याच्छाद्यालङ्कृत्य त्रिवृताऽन्नेन ब्राह्माणान् सम्पूज्याशिषो वाच- यति १९ इति प्रहुतो व्याख्यातः २० इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने चतुर्थोऽध्यायः अथ द्वितीयप्रश्ने पञ्चमोऽध्यायः अथाहुतः १ गर्भाष्टमेषु ब्राह्मणमुपनयीत गर्भैकादशेषु राजन्यं गभद्वादशेषु वैश्यम् २ आषोडशात् ब्राह्मणस्यानात्यय इति ३ एवमेवेतरयोः द्वाविंशतिश्च चतुर्विंशतिश्च ४ अथापि काम्यानि भवन्ति--सप्तमे ब्रह्मवर्चसका-ममष्टम आयुष्कामं नवमे तेजस्कामं दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकामं त्रयोदशे मेधाकामं चतुर्दशे पुष्टिकामं पञ्चदशे भ्रातृव्यवन्तं षोडशे सर्वकाममिति ५ वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यं वर्षासु रथकारमिति । सर्वानेव वा वसन्ते ६ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा कुमारं भोजयित्वा तस्य चौलवत्तूष्णीं केशानोष्य स्नातं शुचिवाससं बद्धशिखं यज्ञोपवीतं प्रतिमुञ्चन् वाचयति--यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः इति ७ यज्ञोपवीतिनमप आचमय्याथ देवयजनमुदानयति ८ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पाला-शीं समिधमाज्येनाक्त्वाऽभ्याधापयन् वाचयति आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमं स्वाहा इति ९ अथैनमुत्थाप्योत्तरेणाग्निं दक्षिणेन पदा अश्मानमास्थापयति-आतिष्ठेममश्मानमश्मेव त्वं स्थिरो भव । अभितिष्ठ पृतन्यतस्सहस्व पृतना-यतः इति १० अथैनं तिष्ये वासस्सद्यः कृत्तोतं परिधापयन् वाचयति या अकृन्तन्नवयन् या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वदेवीर्जरसा संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः इति ११ परिहितमनुमन्त्रयते परिधत्त धत्त वाससैनं शतायुषं कृणुहि दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सो-माय राज्ञे परिधातवा उ । जरां गच्छासी परिधत्स्व वासो भवा कृष्टीना-मभिशस्तिपावा । शतं च जीव शरदस्सुवर्चा रायश्च पोषमुप संव्ययस्व । परीदं वासो अधि धास्खस्तयेऽभूरापीनामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन् इति १२ अथैनं मौञ्जीं मेखलां त्रिवृतां त्रिः प्रदक्षिणं परिव्ययन् वाचयतिमौञ्जी ब्राह्मणस्य । ज्यामौर्बी राजन्यस्य । आवीसूत्रं वैश्यस्य । सर्वेषामेव वा मौञ्जीम् । इयं दुरुक्तात्परिबाधमाना शर्म वरूथं पुनती न आगात् । प्राणापानाभ्यां वलमाभरन्ती प्रिया देवानां सुभगा मेखलेयम् इति १३ परिवीतामनुमन्त्रयते क्षितस्य गौप्त्री तपसः परस्पीघ्नती रक्षस्सहमाना अरातीः । सा नस्समन्तमनु परीहि भद्रया भर्तारस्ते मेखले मा रिषाम इति १४ ग्रन्थिं करोति प्राणानां ग्रन्थिरसि स मा बिस्त्रंसः इति नाभिदेशे १५ अथास्मा अजिनं प्रतिमुञ्चन् वाचयति कृष्णाजिनं ब्राह्मणस्य । रौरवं राजन्यस्य । वस्ताजिनं वैश्यस्य । सर्वेषां वा कृष्णाजिनम् । मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरं समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधेऽहम् इति १६ अथास्मै दण्डं प्रयच्छति पालाशं बैल्वं वा ब्राह्मणस्य । नैयग्रोधं स्कन्धजमवाङ्ग्रं रौहीतकं वा राजन्यस्य । वादरमौदुम्बरं वा वैश्यस्य । सर्वेषां वा वार्क्षम् १७ सोमोसि सोमपं मा कुरु इति पालाशम् १८ ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा इति बैल्वम् १९ ओजोस्योजो मयि धेहि इति नैयग्रोधम् २० बलमसि बलं मयि धेहि इति रौहीतकम् २१ पुष्टिरसि पुष्टिं मयि धेहि इति बादरम् २२ ऊर्गस्यूर्जं मयि धेहि इत्यौदुम्बरम् २३ अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् इति वार्क्षम् २४ कोनामास्यसौ नामास्मि इति शाठ्यायनकम् २५ अथैनं दक्षिणे हस्ते गह्णाति यस्मिन् भूतं च भव्यं च सर्वे लोकास्समाहिताः । तेन गृह्णामि त्वामहं मह्यं गृह्णामि त्वामहं प्रजापतिना त्वा मह्यं गृह्णाम्यसौ इति २६ अथैनं देवताभ्यः परिददाति देवेभ्यस्त्वा परिददामि विश्वदेवेभ्यस्त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वाभ्यस्त्वा देवताभ्यः परिददाम्यसौ इति २७ अथैनमुपनयति देवस्य त्वा सवितुः प्रसवेऽश्विनो-र्बाहुभ्यां पूष्णो हृस्ताभ्यामुपनयेऽसौ इति २८ अथ कुमारः पक्वाज्जुहोति--यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्योऽध्यमृतात्स-म्बभूव । समेन्द्रो मेधया स्पृणोत्वमृतस्य देव धारणो भूयासं स्वाहा इति २९ अथाज्याहुतीरुपजुहोति क्षेत्रियै त्वा निरृत्यै त्वा इति षड्भिरनुच्छन्दसम् ६० एवमेव ब्रह्मसूक्तेन हुत्वा ब्रह्मजज्ञानम् इति षड्भिः ३१ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३२ अग्रेणाग्निं पलाशपर्णेषु हुतशेषं निदधाति नमो अस्तु नीलग्नी वाय इति ३३ अत्र सावित्रिव्रतम् ३४ अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशा-स्सप्रारोहाः प्रादेशमात्रीरपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन् वाचयति याज्ञिकानां वा वृक्षाणां अन्यतमस्य ३५ अग्ने व्रतपते सावित्रं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा ३६ वायो व्रतपत आदित्य व्रतमते व्रतानां व्रतपते सावित्रं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति ३७ अपरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन् प्राङ्मुख आचार्य उपविशति--राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् इति ३८ तस्याग्रेण कुमारो दर्भेषु प्रत्यङ्मुख उपविश्य पादावन्वारभ्याहसावित्रीं भो अनुब्रूहि इति ३९ तस्मा अन्वाहोमिति प्रतिपद्यते तत्सवितुर्वरेण्यम् इत्येतां पच्छोऽर्धर्चशस्ततस्समस्तां व्याहृतीर्वि-हृताः पादादिष्वन्तेषु वा तथाऽर्धर्चयोरुत्तमां कृत्स्नायामिति ४० अथ कुमारः पक्वादुपादाय प्राश्नाति शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसे मेधया पिहितः । श्रुतं मे गोपाय इति ४१ अथ हैके प्रक्सावित्र्याः प्राश्नाति ब्रह्म वा अन्नमिति वदन्तः ४२ तदु तथा न कुर्यान्नानुक्तायां सावित्र्यां प्राश्नीयादित्यनूक्तायामनूक्तायां सावित्र्यां प्राश्नीयादिति शाठ्यायनकम् ४३ अथाप उपस्पृश्य ज्योतिष्म-त्याऽऽदित्यमुपतिष्ठते उद्वयं तमसस्परि इति ४४ अथैनं संशास्ति ब्रह्म-चार्यस्यपोशान कर्म कुरु मा दिवा सुषुप्थाः समिध आधेहि भैक्षाचर्यं चर सदाऽरण्यात् समिध आहरोदकुम्भं चाहराचार्याधीनो भव वेदमधीष्व इति ४५ स एवमेवैतत् सर्वं करोति ४६ अथास्मा अरिक्तं पात्रं प्रयच्छन्नाह मातरमेवाग्रे भिक्षस्व इति ४७ स मातरमेवाग्रे भिक्षेत ४८ भवति भिक्षां देहीति ब्राह्मणो भिक्षेत ४९ भिक्षां भवति देहीति राजन्यः ५० देहि भिक्षां भवतीति वैश्यः ५१ तत्समाहृत्याचार्याय प्राह भैक्षमिदम् इति ५२ तत् सुभैक्षम् इतीतरः प्रतिगृह्णाति ५३ उत्तरेणाग्निं द्वे स्त्रीप्रतिकृती कृत्य गन्धैर्माल्येन चासङ्कृत्य त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा श्रद्धामेधे प्रियेतामिति ५४ त्र्यहमेतमग्निं धारयन्ति क्षारलवणवर्जमधश्शय्या च ५५ एतस्मिन्नेवाग्नौ व्याहृतीभिस्सायंप्रातस्समिधोऽभ्यादध्यात् ५६ एवमन्यस्मिन्नपि सदा ५७ अथैनं प्रदक्षिणमग्निं परिसमूहति जुषस्व नस्समिधमग्ने अद्यशोचा बृहद्यजनं धूममृण्वन् । उदश्पृश दिव्यं सा नु स्तूपैस्सं रश्मिभिस्ततनस्सूर्यस्य इति ५८ अथैनं प्रदक्षिणमग्निं परिषिञ्चति अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनम् । अनुमतेऽनुमन्मस्व इति पश्चादुदीचीनम् । सरस्वतेऽनुमन्यस्व इत्युत्तरतः प्राचीनम् । देवसवितः प्रसुव इति समन्तं प्रदक्षिणम् । समन्तमेव वा तूष्णीम् ५९ तस्मिन् व्याहृतीभिस्सायं प्रातस्समिधोऽभ्यादधाति भूस्स्वाहा भुवस्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इति ६० तथैव परिसमूह्य तथैव परिषिञ्चति अन्वमंस्थाः प्रासावीः इति मन्वान्तान् सन्नमयति ६१ अथैनमुपतिष्ठते यत्ते अग्ने तेजः इति तिसृभिः मयि मेधां मयि प्रजामिति तिसृभिः षोढा विहितो वै पुरुषः । इत्येतस्माद्ब्राह्मणात् ६२ अथ तिसृषु व्युष्टा-स्वेतमग्निमादाय तां दिशं यन्ति यत्रास्य पलाशस्स्पष्टो भवति ६३ तं प्रदक्षिणं परिसमूहति सुश्रवस्सुश्रवसं मा कुरु यथा त्वं सुश्रवस्सुश्रवा अस्येवमहं सुश्रवस्सुश्रवा भूयासं यथा त्वं सुश्रवस्सुश्रवो देवानां निधिगोपोस्येवमहं ब्राह्मणानां ब्रह्मणो निधिगोपो भूयासमिति ६४ तस्याग्रेण उत्तरेण वाऽग्नि-मुपसमाधाय सम्परिस्तीर्याऽथाव्रत्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दाऽभूत् पुनरग्निश्चक्षुरदात् । इति द्वाभ्याम् ६५ अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशाः सप्रारोहाः प्रादेशमात्रीरपरिशुष्काग्रा घृतान्वक्ता अभ्याधा-पयन्वाचयति याज्ञिकानां वा वृक्षाणामन्यतमस्य ६६ अग्ने व्रतपते सावित्रं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा ६७ वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते सावित्रं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा इति ६८ तथैव सुश्रवसमभ्यर्च्य त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा ६९ अत्रैके दण्डमजिनं मेखलां वासश्चातिसृजन्ति ७० अन्यान्यादायास्य वास आदत्ते यस्य ते प्रथमबास्यं हरामस्तं त्वा विश्वे अनुमदनतु देवाः । तं त्वा भ्रातरस्सुहृदो वर्धमानमनुजायन्तां बहवस्सुजातमिति ७१ अथाधोनाभ्युपरि जान्वाच्छाद्य दण्डमजिनं मेखलां च धारयन् श्राद्धसूतकमैथुनमधुमांसानि वर्जयन् भैक्षाहा- रोऽधश्शायी चाचार्यस्य गृहानेतीति विज्ञायते आचार्यो वै ब्रह्मेति ७२ इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने पञ्चमोऽध्यायः अथ द्वितीयप्रश्ने षष्ठोऽध्यायः वेदमधीत्य स्नात्यन्नित्युक्तं समावर्तनम् १ मन्त्रब्राह्मणं वेद इत्याचक्षते २ मन्त्रब्राह्मणयोर्वेदनामधेयम् ३ मन्त्रब्राह्मणे यज्ञस्य प्रमाणम् ४ मन्त्रब्राह्मणे अधीत्य चीर्णेषु वा व्रतेषु ५ एतावदेव नाना ६ अथ देवयजनोल्लेखन-प्रभृत्याऽग्निमुखात् कृत्वा पालाशीं समिधमाज्येनाक्त्वा मध्यंदिनेऽभ्यादधाति ७ तत्पुरस्ताद्व्याख्यातम् ८ अथ केशश्मश्रुलोमनखावापनेनैव प्रतिपद्यते सिद्धमाच्छत्रादानात्कृत्वा पक्वाज्जुहोति आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रिय-मावह । लोमशां पशुभिस्सह स्वाहा इति ९ अथाज्याहुतीरुपजुहोति अमायन्तु ब्रह्मचारिणस्स्वाहा । यशोजनेऽसानि स्वाहा । श्रेयान् वस्य-सोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा इति १० स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ११ अथाग्रेणाग्निं बिल्वशाखायां हुतशेषं निदधाति तस्मिन् सहस्रशाखे । निभगाहं त्वयि मृजे स्वाहा इति १२ अथ पक्वादुपादाय प्राश्नति यथाऽऽपः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणःस्र । धातरायन्तु सर्वतस्स्वाहा इति १३ प्राश्याप आचम्योरः प्रत्यात्मानं प्रत्यभिमृशते प्रतिवेशोसि प्र मा पाहि प्र मा पद्यस्व इति १४ सोऽत्रैवास्ते आनक्षत्राणामुदयात् १५ अथोदितेषु नक्षत्रेषूपनिष्क्रम्य दिश उपतिष्ठत इति सिद्धमत ऊर्ध्वम् १६ यस्मिन्नग्नावुपनयति तस्मिन् ब्रह्मचर्यं तस्मिन् व्रतचर्यं तस्मिन् समावर्तनं तस्मित् पाणिग्रहणं तस्मिन् गृह्यानि कर्माणि क्रियन्ते १७ तस्मिन् काम्यानि तस्मिन् प्रजासंस्कारा इत्येके १८ स एष उपनयनप्रभृति व्याहृतीभिस्समिद्धिर्हूयत आ समावर्तनात् १९ समावर्तनप्रभृत्याज्येन व्याहृतीभिर्हूयत आ पाणिग्रहणात् २० पाणि-ग्रहणप्रभृति व्रीहिभिर्यवैर्वा हस्तेनैते आहुतीर्जुहोति अग्नये स्वाहा प्रजापतये स्वाहा इति सायम् । सूर्याय स्वाहा प्रजापतये स्वाहा प्रातरपि २१ अग्निहोत्रहविषामन्यतमेन जुहुयात् २२ पर्वणि पर्वणि चाग्नेयस्थालीपाकः २३ स एष आघारवान् स्यादाग्निहोत्रिको वाऽप्यापूर्विको वा २४ तेन सर्पिष्कता विद्यावन्तं ब्राह्मणं भोजयेत् २५ योऽस्यापचिततमस्तस्मा ऋषभं दद्यादित्येके २६ अथास्यानुगतस्य या प्रकृतिस्तत आहरणम् २७ उपवासोऽनुगतेऽन्यतरस्य भार्यायाः पत्युर्वा २८ अपि वैकां जुहुयात्--अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजं स्वाहा इति २९ आहुतो व्याख्यातः ३० इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने षष्ठोऽध्यायः अथ द्वितीयप्रश्ने सप्तमोऽध्यायः अथ शूलगवस्संवत्सरे संवत्सरे मार्गशीर्ष्यां पौर्णमास्यां क्रियेत १ अपि वाऽऽर्द्रायाम् २ गोषु वोपतप्तासु गोषु गुप्तासु ३ अरण्येऽग्निमुपसमाधाय सम्परिस्तीर्या प्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति ईशानाय त्वा जुष्टामुपाकरोमि इति ४ तूष्णीमित्येके ५ अथैनामद्भिः प्रोक्षति ईशानाय त्वा जुष्टां प्रोक्षामि इति ६ तूष्णीमित्येके ७ तामत्रैव प्रतीचीनशिरसी-मुदीचीनपदीं संज्ञपयन्ति ८ तस्यै संज्ञप्ताया अद्भिरभिषेकम् ९ प्राणाना-प्याययति तूष्णीम् १० तूष्णीं वपामुत्स्विद्य हृदयमुद्धरति ११ प्रज्ञातानि चावदानानि १२ तान्येष्वेव शूलेषूपनीक्ष्य तस्मिन्नेवाग्नौ श्रपयन्ति १३ अथैतानि शूलेभ्य उपनीक्ष्य पुनः कुम्भ्यां श्रपयन्ति १४ अथैतान्यभि-घारितान्युद्वास्य प्रतिष्ठितमभिघारयति १५ परिधानप्रभृत्याऽग्निमुखात् कृत्वा दैवतमावाहयति आ त्वा वहन्तु हरयस्सचेतसश्श्वेतैरश्वैस्सहकेतुमद्भिः । वाताजिरैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वोमिति १६ अथ स्नुवेणोपस्तीर्णामभिघारितां वपां जुहोति सहस्राणि सहस्रशः इति पुरोनुवाक्यामनूच्य ईशानं त्वा भुवनानामभिश्रियमिति याज्यया जुहोति १७ अत्रैतान्यवदानानीडासूने प्रच्छौदनं मासं यूषमित्याज्येन समुदायुत्य मेक्षणे-नोपघातं पूर्वार्धे जुहोति भवाय देवाय स्वाहा शर्वाय देवाय स्वाहा ईशानाय देवाय स्वाहा पशुपतये देवाय स्वाहा रुद्राय देवाय स्वाहा उग्राय देवाय स्वाहा मीमाय देवाय स्वाहा महते देवाय स्वाहा इति १८ अथ मध्ये जुहोति--भवस्य देवस्य पत्न्यै स्वाहा शर्वस्य देवस्य पत्न्यै स्वाहा ईशानस्य देवस्य पत्न्यै स्वाहा पशुपतेर्देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहा उग्रस्य देवस्य पत्न्यै स्वाहा महतो देवस्य पत्न्यै स्वाहा इति १९ अथापरार्धे जुहोति भवस्य देवस्य सुताय स्वाहा शर्वस्य देवस्य सुताय स्वाहा ईशानस्य देवस्य सुताय स्वाहा पशुपतेर्देवस्य सुताय स्वाहा रुद्रस्य देवस्य सुताय स्वाहा उग्रस्य देवस्य सुताय स्वाहा मीमस्य देवस्य सुताय स्वाहा महतो देवस्य सुताय स्वाहा इति १९ अथाज्याहुतीरुपजुहोति--नमस्ते रुद्र मन्यवे इत्याऽन्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् २२ अथाग्रेणाग्निमर्कपर्णेषु हुतशेषं निदधाति--यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु इति २३ स्थालीसङ्क्षालनमाज्यशेषमुदकशेषं च पात्र्यां समानीय वेतसशाखयावोक्षन् सर्वतः त्रिः प्रदक्षिणं गाः पर्येति--आ गावो अग्मन्नुत भद्यमक्रन् इत्येतेन सूक्तेन २४ महत्स्वस्त्ययनमित्याचक्षते २५ अथ यदि गां न लभते मेषमजं वाऽऽलभते २६ ईशानाय स्थालीपाकं वा श्रपयन्ति तस्मादेतत्सर्वं करोति यद्गवा कार्यम् २७ शूलगवो व्याख्यातः २८ एवमेवाष्टम्यां प्रदोषे क्रियेतै- तावदेव नाना २९ नात्रोपाकरणं पशोः ३० इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने सप्तमोऽध्यायः अथ द्वितीयप्रश्ने अष्टमोऽध्यायः अथ बलिहरणम् १ सायं प्रातर्यदशनीयस्य क्रियेतौपासवे पचवे वा होमः २ एतावदेव नाना ३ क्षारलवणावरान्नसंसृष्टस्य तु होमं परिचक्षते ४ काममितरेष्वायतनेषु ५ अथ यद्येतदेव स्यादुत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जुहुयात् ६ सर्वेष्वायतनेषु पाणिना परिसमूह्योभयतः परिषेकं निदध्यात् ७ देशाभ्यासे मन्त्राभ्यासः कामं समानस्थानेषु ८ अवग्राहशो हस्तेन होमः--अग्नये स्वाहा सोमाय स्वाहा ध्रुवाय स्वाहा ध्रुवाय भूमाय स्वाहा ध्रुवक्षितये स्वाहा अच्युतक्षितये स्वाहा ईशानाय स्वाहा जयन्ताय स्वाहा धर्मरुचये स्वाहा धन्वन्तरये स्वाहा विद्यायै स्वाहा अम्बिकायै स्वाहा हरये स्वाहा गणेभ्यस्स्वाहा गणपतिभ्यस्स्वाहा परिषद्भ्यस्स्वाहा विश्वेभ्यो देवेभ्यस्स्वाहा साध्येभ्यो देवेभ्यस्स्वाहाः सर्वेभ्यो देवेभ्यस्स्वाहा सर्वाभ्यो देवताभ्यस्स्वाहा भूस्स्वाहा भुवस्स्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा ९ अग्नये स्विष्टकृते स्वाहा इत्युत्तरार्धपूर्वार्धे १० अपरेणाग्निं--धर्माय स्वाहा अधर्माय स्वाहा इति ११ अग्रेणाग्निं--कद्रुवै नाकमात्रे स्वाहा सर्पेभ्यस्स्वाहा इति १२ अब्भ्रिण्यावकाशे--अवलायै देव्यै स्वाहा वास्तुपाल्यै सगणायै स्वाहा इति १३ अब्भ्रिणदेशे--अद्भ्यस्स्वाहा वरुणाय स्वाहा इति १४ स्थाल्या--प्रजापतये स्वाहा परमेष्ठिने स्वाहा इति १५ देवताऽवकाशे--ऋषभाय स्वाहा रुद्राय स्वाहा रुद्राण्यै स्वाहा इति १६ मध्येऽगारस्य--ओषधिवनस्पतिभ्य-स्स्वाहा रक्षोदेवजनेभ्यस्स्वाहा इति १७ उच्छिरसि--कामाय स्वाहा भगाय स्वाहा श्रियै स्वाहा विष्णवे स्वाहा इति १८ स्थूणादेशे गृहाय स्वाहा गृहराजाय स्वाहा इति १९ धनधान्याकाशे धनधन्याभ्यां स्वाहा वैश्रवणाय स्वाहा इति २० गोष्ठे वा पल्वले वा श्रियै स्वाहा पुष्ट्यै स्वाहा इति २१ उलूखलमुसलावकाशे उलूखलमुसलाभ्यां स्वाहा इति २२ दृषदुपलाव-काशे दृषदुपलाभ्यां स्वाहा इति २३ समूहन्यवकाशे समूहन्यै देव्यै स्वाहा इति २४ उत्तरपूर्वदेशेऽगारस्य गृह्याभ्यस्स्वाहा अवसानेभ्यस्स्वाहा अवसा-नपतिभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति २५ द्वारमध्ये अन्तरिक्षाय स्वाहा अवान्तरिक्षाय स्वाहा इति २६ पार्श्वयोः धात्रे स्वाहा विधात्रे स्वाहा इति २७ उपपार्श्वयोः भूत्यै स्वाहा प्रभूत्यै स्वाहा इति २८ संवरणदेशे यदेजति जगति यच्च चेष्टति नाम्नो भागोऽयं नाम्ने स्वाहा इति २९ अथोपनिष्क्रम्य ज्येष्ठावकाशे ज्येष्ठाभ्यां स्वाहा करस्करावकाशे करस्कराभ्यां स्वाहा इति ३० अनसि वा रथे वा श्रियै स्वाहा विष्णवे स्वाहा इति ३१ गोष्ठे रुद्राय स्वाहा पशुभ्यस्स्वाहा पशुपतये स्वाहा इति ३२ वस्तुमध्ये वास्तोष्पतये स्वाहा पृथिव्यै स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यस्स्वाहा अद्भ्यस्स्वाहा ओषधीभ्यस्स्वाहा वनस्पतिभ्यस्स्वाहा चराचरेभ्यस्स्वाहा परिप्लवेभ्यस्स्वाहा सरीसृपेभ्य-स्स्वाहा देशेभ्यस्स्वाहा कालेभ्यस्स्वाहा लोकेभ्यस्स्वाहा देवेभ्यस्स्वाहा ऋषिभ्यस्स्वाहा स्वसुभ्यस्स्वाहा रुद्रेभ्यस्स्वाहा आदित्येभ्यस्स्वाहा इन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा इति ३३ अथ दक्षिणतः प्राचीनावीती पितृभ्यस्स्वधा नमस्स्वाहा पितामहेभ्यस्स्वधा नम-स्स्वाहा प्रपितामहेभ्यस्स्वधा नमस्स्वाहा इति ३४ अथाप उपस्पृश्योत्तरतो यज्ञोपवीती नमो रुद्राय भगवते स्वाहा इति ३५ अथ दिक्षु प्राच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहा प्रतीच्यै दिशे स्वाहा उदीच्यै दिशे स्वाहा ऊर्ध्वायै दिशे स्वाहा अधरायै दिशे स्वाहा इति ३६ अथावान्तरदिक्षु यमाय स्वाहा निरृत्यै स्वाहा रक्षोभ्यस्स्वाहा ईशानाय स्वाहा इति ३७ अथाकाश उत्क्षिपति ये भूताः प्रचरन्ति दिवा वलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा इति दिवा ३७ ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा इति नक्तम् ३९ संक्षालनं प्रागुदीच्यां दिशि निनयति नमो रुद्राय भौमाय स्वाहा इति ४० इति बोधायनीये गृह्यसूत्रे द्वितीयप्रश्ने अष्टमोऽध्यायः अथ द्वितीयप्रश्ने नवमोऽध्यायः अथ वैश्वदेवं हुत्वाऽतिथिमाकाक्षेदागोर्दोहकालम् १ अग्रं वोद्धृत्य दद्यात् २ विज्ञायते यज्ञो वा एष पञ्चमो यदतिथिः ३ जघनेन गार्हपत्ययुपवि-श्यौपासनस्य वा अधीहि भो इति गार्हपत्यमुक्त्वा प्राणायामैस्त्रिरायभ्य सावित्रीं सहस्रकृत्वा आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरम् ४ वेदादयश्छन्दांसि कूश्माण्डानि चाधीयीत अग्निमीळे पुरोहितम् इति ऋग्वेदस्य इषे त्वोर्जे त्वा इति यजुर्वेदस्य अग्न आयाहि वीतये इति सामवेदस्य शं नो देवीरभिष्टये इत्यथर्ववेदस्य अग्निर्मूर्धा भुवः इति छन्दांसि यद्देवा देवहेळनमिति कूश्माण्ड्यः ५ यदधीते स ब्रह्मयज्ञो यज्जुहोति स देवयज्ञो यत्पितृभ्यस्स्वधा करोति स पितृयज्ञो यद्भूतेभ्यो बलिं हरति स भूतयज्ञो यद्ब्राह्मणेभ्योऽन्नं ददाति स मनुष्ययज्ञ इति ६ एते पञ्च महायज्ञाः सततं सुप्रयुक्ता नयन्ति परमां गतिम् ७ एतेभ्यो यस्य पञ्चभ्यो यज्ञ एकोऽपि हीयते मनस्वत्याहुतिस्तत्र प्रायश्चित्तं विधीयते ८ द्व्यहं त्र्यहं वाऽपि प्रमादादकृतेषु तु तिस्रस्तन्तुमतीर्हुत्वा चतस्रो वारुणीर्जपेत् ९ दशाहं द्वादशाहं वा विच्छिन्नेषु तु सर्वशः चतस्रोऽभ्यावर्तिनीर्हुत्वा कार्यस्तान्तुमतश्चरुः १० यस्य स्त्री वाऽनुपेतो वा गृहेष्वेतान् बलीन् हरेत् कूश्माण्ड्यस्तत्र होतव्यो हुत्वा यज्ञसमृद्धये ११ प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते पञ्चानां महतामेषां स यज्ञैस्सह गच्छति १२ प्रवासे कुरुते चैनान्यदन्नमुपपद्यते न चेदुत्पद्यते चान्नमद्भिरेनान् समापयेत् १३ अद्भिरेव व्रतं कुर्याद्यथालाभमनुव्रतम् देवानां देवयज्ञेन द्विजा गच्छन्ति साम्यताम् १४ पितॄणां पितृयज्ञेन भूतयज्ञेन भूतिनः मनोर्मनुष्ययज्ञेन ब्रह्मयज्ञेन ब्रह्मणः १५ एतासां साम्यतां गत्वा देवतानां शतं समाः आनन्दं ब्रह्म गच्छन्ति ध्रुवं शाश्वतमव्ययमिति १६ अथास्मा अतिथिर्भवति गुरोस्समानवृत्तिर्वैखानसो वा गृहस्थो वानप्रस्थः परिव्राजको गतश्रीस्स्नातको राजा वा धर्मयुक्तः १७ तेषामभ्युत्थायासनं पाद्यमर्हणमर्घ्यं वा प्रयुञ्जीत १८ यास्तत्रौषधयस्सन्ति ता देयाः १९ अन्यां वा प्रक्रियां प्रकुर्वीत २० सर्वेभ्योऽभ्यागतेभ्य आ श्वचाण्डालेभ्यस्स्वागतं कार्यम् २१ ओषधिविभागस्तु बिभववता कार्योऽभावे भूमिरुदकं तृणानि कल्याणी वागिति २२ एतानि वै सतोऽगारे न क्षीयन्ते कदाचन इति तानेतान् परं ब्रह्मेत्याचक्षते २३ तेषां ग्रहणे तु द्वादशरात्रमक्षारलवणभोजनमधश्शयनं ब्रह्मचर्यम् । त्रिरात्रोपोषित उत्क्षेपणौ परौ गृह्णीयात् २५ बलिहरणं व्याख्यातम् २६ इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने नवमोऽध्यायः अथ द्वितीयप्रश्ने दशमोऽध्यायः अथ प्रत्यवरोहणम् १ वसन्तादौ मधुश्च माधवश्च इति हुत्वा वासन्तिकैरल-ङ्कारैरलङ्कृत्य वासन्तिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति २ अथ ग्रीष्मादौ शुक्रश्च शुचिश्च इति हुत्वा ग्रैष्मिकैरलङ्कारैरलङ्कृत्य ग्रैष्मिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ३ अथ वर्षादौ नभश्च नभस्यश्च इति हुत्वा वार्षिकैरलङ्कारैरलङ्कृत्य वार्षिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ४ अथ शरदादौ इषश्चोर्जश्च इति हुत्वा शारदिकैरलङ्कारैरलङ्कृत्य शारदिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ५ अथ हेमन्तादौ सहश्च सहस्यश्च इति हुत्वा हैमन्तिकैरलङ्का-रैरलङ्कृत्य हैमन्तिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ६ अथ शिशिरादौ तपश्च तपस्यश्च इति हुत्वा शैशिरिकैरलङ्कारैरलङ्कृत्य शैशि-रिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् प्राश्नाति ७ अथाधिमासे संस-र्पोऽस्यंहस्पत्याय त्वा इति हुत्वा चैत्रिकैरलङ्कारैरलङ्कृत्य चैत्रिकान्यन्नानि ब्राह्मणेभ्यो दत्वाऽन्नशेषान् सगणः प्राश्नाति ८ स एष आघारवान् वा स्यादाग्निहोत्रिको वाऽप्यापूर्विको वा ९ प्रत्यवरोहणं व्याख्यातम् १० इति बोधायनीये गृह्यसूत्रे द्वितीयप्रश्ने दशमोऽध्यायः अथ द्वितीयप्रश्ने एकादशोऽध्यायः अथाष्टकाहोमः १ तैषे मास्यपरपक्षस्याष्टम्यां क्रियेत २ एवं माघ एवं फाल्गुने यदि विहृतः ३ यद्यु वै समस्त उपरिष्टान्माध्याः पौर्णमास्या आरप-क्षस्य सप्तम्याष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव ४ श्वः करिष्यामीति ब्राह्मणान्निमन्त्रयते योनिगोत्रश्रुतवृत्तसम्बन्धानित्येके ५ कामं सम्बन्धानपि श्रुतवृत्तसम्पन्नान् श्रुतवृत्तयोर्हि स्वधा निधीयत इत्युपदिशन्ति ६ तान् श्वोभूते श्मश्रुकर्माभ्यञ्जनस्नानैर्यथोपपादं सम्पूज्य स्वयमाप्लुत्य शुचौ समे देशे देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा बर्हिरादाय गामुपाकरोति--पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टामुपाकरोमि इति तूष्णीमित्येके ७ अथैनामद्भिः प्रोक्षति पितृभ्यस्त्वा पितामहेभ्यस्त्वा प्रपितामहेभ्यस्त्वा जुष्टां प्रोक्षामि इति । तूष्णीमित्येके ८ तामत्रैव प्रतीचीनशिरसीं दक्षिणापदीं संज्ञपन्ति ९ तस्यै संज्ञप्ताया अद्भिरभिषेकम् १० प्राणानाप्याययति तूष्णीम् ११ तूष्णीं वपामुत्खिद्य हृदयमुद्धरति १२ प्रज्ञातानि चावदानानि १३ तान्येतेष्वेवं शूलेषूपनीक्ष्ये तस्मिन्नेवाग्नौ श्रपयन्ति १४ पृथङ्मांसं चौदनं चापूपांश्च श्रपयन्त्यन्यांश्च भक्ष्यविशेषांत्सर्वं सिद्धं समानी-यायुग्मान् ब्राह्मणान् सुप्रक्षाळितपाणिपादानप आचमय्य संदर्भोपकॢप्तेष्वा-सनेषु द्वौ दैवे त्रीन्पित्र्ये एकैकमुभयत्र वा प्राङ्मुखानुपवेशयत्युदङ्मुखान्वा १५ स यदि प्राङ्मुखान् दक्षिणापवर्गः । यद्युदङ्मुखान् प्रागपवर्गः १६ तेषामेवोदकं निनीय सप्रणवेन क्षणं ग्राहयति १७ अष्टकाश्राद्धे क्षणः क्रियतामित्यॐ तथेति प्रतिवचनम् १८ प्राप्नोतु भवान् प्राप्नोतु भवान् इति १९ प्राप्नवानि प्राप्नवानि इतीतरे प्रत्याहुः २० अथैतान् तिलमिश्रा अपः प्रतिग्राहयति अमुष्मै स्वधा नमोऽमुष्मै स्वधा नमः इति २१ त्रिस्तिलोदकमेके समामनन्ति पुरोऽन्नं द्विस्तिलोदकम् दद्यात् भुक्तवत्सु च तृतीयमिति २२ अथैनान् वस्त्र-गन्धपुष्पधूपदीपमाल्यैर्यथोपपादं सम्पूज्य पृच्छति उद्ध्रियतामग्नौ च क्रियतां इतीतरे प्रत्याहुः २३ अपि वा अग्नौ करिष्यामि इति कुरुष्व इतीतरे प्रत्याहुः २४ अथाभ्यनुज्ञातः परिधानप्रभृत्याऽग्निमुखात्कृत्वा शृतायां वपायां पञ्च स्त्रुवाहुतीर्जुहोति याः प्राचीस्सम्भवन्त्याय उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमस्स्वाहा २५ अन्तर्दधे पर्व-तैरन्तर्मह्या पृथिव्या दिवा । दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमस्स्वाहा २६ अन्तर्दध ऋतुभिस्सर्वैरहोरात्रैस्ससन्धिकैः । अर्धमा सैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमस्स्वाहा २७ यन्मे माता प्रलुलोभ चरत्यननुत्रता । तन्मे रेतः पिता वृङ्कां माऽऽभुरन्योऽवपद्यतां स्वधा नमस्स्वाहा २८ यद्वः क्रव्यादङ्गमदहं लोकाननयन् प्रणयन् जातवेदाः । तद्वो अहं पुनरावेशयाम्यरिष्टास्सर्वैरङ्गैस्सम्भवथ पितरस्स्वधा नमस्स्वाहा इति २९ त्रेधा वपां विच्छिद्यौदुम्बर्या दर्व्यां जुहोति सो माय पितृमते शुष्मिणे जुहुमो हविः । वाजन्निदं जुषस्व नः स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा ३० अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे । वैवस्वतेदमद्धि नस्स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा ३१ यदग्ने कव्यवाहन पितॄन्यक्षि ऋता-वृधः । प्र देवेभ्यो वह हव्यं पितृभ्यश्च स्वधा कव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा इति ३२ अथाष्टकाहोमं जुहोति इयमेव सा या प्रथमा व्यौच्छत् इति पञ्चदश । ईयुष्टे ये पूर्वतरामपश्यन् इत्येकाम् । संवत्सरस्य प्रतिमाण-मित्येकां तास्सप्तदश ३३ अथापूपमष्टधा विच्छिद्य त्रीण्यवदानानि वपायाः कल्पेन हुत्वाऽथेतराणि ब्राह्मणेभ्यो दत्वाऽत्रैतान्यवदानानीडासूने प्रति-च्छाद्यौदनं मांसं यूषमित्याज्येन समुदायुत्यौदुम्बर्या दर्व्योपघातं दक्षिणार्धे जुहोति पितृभ्यस्स्वधा नमस्स्वाहा । पितामहेभ्यस्स्वधा नमस्स्वाहा । प्रपितामहेभ्यस्स्वधा नमस्स्वाहा । मातृभ्यस्स्वधा नमस्स्वाहा । पितामहीभ्यस्स्वधा नमस्स्वाहा । प्रपितामहीभ्यस्स्वधा नमस्स्वाहा । मातामहेभ्यस्स्वधा नमस्स्वाहा । मातुः पितामहेभ्यस्स्वधा नमस्स्वाहा । मातुः प्रपितामहेभ्यस्स्वधा नमस्स्वाहा । मातामहीभ्यस्स्वधा नमस्स्वाहा । मातुः पितामहीभ्यस्स्वधा नमस्स्वाहा । मातुः प्रपितामहीभ्यस्स्वधा नमस्स्वाहा । आचार्याय स्वधा नमस्स्वाहा । आचार्यपत्नीभ्यस्स्वधा नमस्स्वाहा । गुरुभ्यस्स्वधा नमस्स्वाहा । गुरुपत्नीभ्यस्स्वधा नमस्स्वाहा । सखिभ्यस्स्वधा नमस्स्वाहा । सखिपत्नीभ्यस्स्वधा नमस्स्वाहा । ज्ञातिभ्यस्स्वधा नमस्स्वाहा । ज्ञातिपत्नीभ्यस्स्वधा नमस्स्वाहा । अमात्येभ्यस्स्वधा नमस्स्वाहा । अमात्यपत्नीभ्यस्स्वधा नमस्स्वाहा । सर्वेभ्यस्स्वधा नमस्स्वाहा । सर्वाभ्यस्स्वधा नमस्स्वाहा इति ३४ अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा इति दक्षिणार्धपूर्वार्धे ३५ मांसोदनं पात्रेषूद्धृत्य विशेषानुपनिक्षिप्य हुतशेषेन संसृज्य दक्षिणाग्रेषु दर्भेषु सादयित्वा दक्षिणाग्नैः दर्भैः प्रतिच्छाद्याभिमृशति पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहो-म्यक्षितमसि मा पितृणां पितामहानां प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिन् लोके इति ३६ अथैतानि ब्राह्मणैभ्य उपनिक्षिप्य ब्राह्मणानामङ्गुष्ठेनानखेनानुदिशति अयुष्मै स्वधा नमोऽमुष्मै स्वधा नमः इति ३७ भुञ्जानान् समीक्षते प्राणे निविष्टोऽमृतं जुहोमि इति पञ्चभिः । ब्राह्मणि म आत्माऽमृतत्वाय इत्यात्मानम् ३८ न चात ऊर्ध्वं निरीक्षते ह्णीका हि पितरः इति विज्ञायते ३९ सर्वै कामैस्तर्पयन् स्वधायुक्तानि ब्रह्माण्यभिश्रावयन् रक्षोघ्नानि च नैरृतानि च ४० तृप्त्यन्ते तृप्ताः स्थेत्युक्त्वा तृप्ताः स्म इति प्रतिवचनम् ४१ तृप्तानप आचमय्याशयेष्वन्नशेषान् सम्प्रकिरति येऽग्निदग्धा जाता जीवा ये ये त्वदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिमिति ४२ अथैनान् संक्षाळनेन विषिञ्चन्नवकीर्य स्वदितमिति वाचयित्वा दक्षिणाभिराराधयति ४३ सुवर्णहिरण्यप्राणिवस्त्रलोहभूमिभाण्डैर्गवाश्वाजाविकहस्तिदासपुरुष-व्रीहियवमाषतिलदण्डोपानच्छत्रकमण्डलुयानासनशयनोपधानैस्सर्वोपकर-णैर्यथोपपादं सम्पूज्याक्षय्यं वाचयित्वोपसङ्गृह्य स्वधां वाचयित्वोत्थाप्य प्र-साद्य संसाद्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्यैतेनैव यथेतमेत्यान्नशेषान्निवेदयते । यथा ब्रूयुस्तथा कुर्यात्तैस्त्वभ्यनुज्ञेयम् ४४ अथाऽभ्यनुज्ञातो दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वन्नशेषैः पिण्डं ददाति पितृभ्यस्स्वधा नमः इति चतुर्विंशतिः ४५ अथैनान् मङ्क्षाळनेन त्रिरपसलैः परिषिञ्चति ऊर्जं वहन्तीरमृतं घृतं मधु पयः कलिलं परिस्नुतं स्वधा स्थ तर्पयत मे पितॄन् तृप्यत तृप्यत तृप्यत इति ४६ जयप्रभृति सिद्धमाधेनुवरप्रदानात् ४७ आचमने चाग्निमुखे चाभि-श्रावणे चोपसङ्ग्रहणे च पश्चाद्धोमेषु च यज्ञोपवीतम् ४८ अथेतरत्र प्राचीना-वीतम् ४९ एवमेव श्वोभूते मांसशेषेणैवमेव श्वोभूते यदि त्र्यहम् ५० अथ यदि गां न लभते मेषमजं वाऽऽलभते ५१ आरण्येन वा मांसेन यथोपपन्नेन ५२ खङ्गमृगमहिषमेषवराहपृषतशशरोहितशार्ङ्गतित्तिरिकपोतकपिञ्जलवा-र्ध्राणसानामक्षय्यं तिलमधुसंसृष्टम् ५३ तथा मत्स्यस्य शतवलैः क्षीरोदनेन वा सूपोदनेन वा ५४ यद्वा भवत्यामैर्वा मूलफलैः प्रदानमात्रम् ५५ हिरण्येन वा प्रदानमात्रम् ५६ अपि वा गोग्रासमाहरेत् ५७ अपि वाऽनूचानेभ्य उद-कुम्भानाहरेत् ५८ अपि वा श्राद्धमन्त्रानधीयीत ५९ अपि वाऽरण्येऽग्निना कक्षमुपोषेदेषामेकाष्टकेति ६० न त्वेवानष्टकस्स्यात् ६१ सिकता श्राद्धे पवित्रं यद्यध्यवसनाय यद्यन्ववकिरणाय ६२ कुशाः कुतपो दूर्वा इति श्राद्धे पवित्रं यद्यासनाय यदि परिस्तरणाय यद्युत्पवनाय ६३ तिलाश्श्राद्धे पवित्रं यदि दानाय यदि भोजनाय यद्यपां संसर्जनाय । खङ्गः श्राद्धे पवित्र यदि मांसं यद्यस्थिमयं पात्रम् ६५ दौहित्रः श्राद्धे पवित्रं यदि भोक्ता यदि परिवेष्टा यद्यभिश्रावयिता ६६ इत्यष्टकाहोमो व्याख्यातः ६७ एवमेव मासिश्राद्धम-परपक्षस्यान्यतमेऽहनि क्रियेत ६८ एतावदेव नाना नात्राष्टकाहोमो भवति ६९ इत्यष्टका व्याख्याता ७० इतीमास्सप्त पाकयज्ञसंस्था व्याख्याताः ७१ इति बोधायनीयगृह्यसूत्रे द्वितीयप्रश्ने एकादशोऽध्यायः अथाष्टकाहोमः । अथ प्रत्यवरोहणम् । अथ वैश्वदेवम् । अथ बलिहरणम् । अथ शूलगवः । वेदमधीत्य स्नास्यन्नित्युक्तम् । अथाहुतो गर्भाष्टमेषु । संवत्सरे चूडाकर्म । षष्ठे मास्यन्नप्राशनम् । चतुर्थे मास्युपनिष्क्रमणम् । अथ प्रहुतः ११ अथ प्रहुतः । चतुर्थे मास्युपनिष्क्रमणम् । षष्टे मास्य-न्नप्राशनम् । संवत्सरे चूडाकर्म । अथाहुतो गर्भाष्टमेषु । वेदमधीत्य स्नास्यन्नित्युक्तम् । अथ शूलगवः । अथ बलिहरणम् । अथ वैश्वदेवम् । अथ प्रत्यवरोहणम् । अथाष्टकाहोमः ११ इति बोधायानीयगृह्यसूत्रे द्वितीयप्रश्नः अथ तृतीयप्रश्ने प्रथमोऽध्यायः हुतानुकृतिरुपाकर्म १ श्रावण्यां पौर्णमास्यां क्रियेतापि वा आषाढ्याम् २ समन्वारब्धेष्वन्तेवासिषु ३ अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात् कृत्वा चतस्रः प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यस्स्वाहा सांहितीभ्यो देवताभ्यस्स्वाहा । वरुणीभ्यो देवताभ्यस्स्वाहा । सर्वाभ्यो देवताभ्य-स्स्वाहा इति ४ अथ काण्डऋषीन् जुहोति प्रनापतये काण्डऋषये स्वाहा । सोमाय काण्डऋषये स्वाहा । अग्नये काण्डऋषये स्वाहा । विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यस्स्वाहा । स्वयम्भुवे काण्डऋषये स्वाहा इति ५ अथ सदसस्पतिं जुहोति सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषं स्वाहा इति ६ अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम् ७ अथ वेदाहुतीजुहोति ऋग्वेदाय स्वाहा । यजुर्वेदाय स्वाहा । सामवेदाय स्वाहा । अथर्ववेदाय स्वाहा । अथर्वाङ्गिरोभ्यस्स्वाहा । इतिहास-पुराणेभ्यस्स्वाहा । सर्पदेवजनेभ्यस्स्वाहा । सर्वभूतेभ्यस्स्वाहा इति ८ त्रीनादितोऽनुवाकानधीयीरन् वा सर्वान् ९ जयप्रभृति सिद्धमाधेनुवरप्रदानात् १० अथ ब्राह्मणान् तर्पयत्यपूपैर्धानाभिस्सक्तुभिरोदनेनेति यद्यु वैतेभ्यो भवति ११ ऋषयश्छन्दांस्याचार्या वेदा यज्ञाश्च प्रीयन्तामिति वाचयित्वा १२ त्र्यहमेकाहं वा नाधीयीरन् १३ मासं प्रदोषे नाधीयीरन् १४ नित्यं चैव भुक्त्वोर्ध्वम् १५ मध्यरात्रात् स्तनिते सप्रदोषमहरनध्यायः अस्तमिते । चोदयाद्विद्युति च स्वप्नान्तम् १६ एवमेव काण्डोपाकरणक्राण्डसमापनाभ्याम् १७ स एकः काण्डऋषिः १८ तस्य चैवैकस्य काण्डस्याद्योऽनुवाकः १९ तस्य चैवैकस्य काण्डस्यैतदहरनध्यायः २० एवं काण्डविसर्गे । एतावदेव नाना नात्रानुवाकः । पौरोडाशिकं याजमानं होतारो हौत्रं पैतृमेध इति सब्राह्मणानि सानुब्राह्मणानि प्राजापत्यानि २१ आध्वर्यवं ग्रहा दाक्षिणानि समिष्टयजूंष्यवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि २२ अग्न्याधेयमग्निहोत्रमग्न्युपस्थानमग्निचयनं सावित्रं नाचिकेतं चातुर्होत्रीयं वैश्वसृजारुणा इति सब्राह्मणानि सानुब्राह्म-णान्याग्नेयानि २३ राजसूयः पशुबन्धः इष्टयो नक्षत्रेष्टयो दिवश्येनयोऽपाघा-स्सात्रायणमुपहोमाः कौकिलीसूक्तान्यौपानुवाक्यं याज्याऽश्वमेधः पुरुषमेध-स्सौत्रामण्यच्छिद्राणि पशुहौत्रमुपनिषद इति सब्राह्मणानि सानुब्राह्मणानि वै-श्वदेवानि २४ स्वायम्भुवं काण्डं काठके पठितो विधिः स्वयम्भूश्चात्र दैवतं सर्वभूतपतिश्शुचिरिति २५ अथ कारीरीव्रतं चतूरात्रमक्षारलवणं भूमौ भुञ्जीत पशुवत् २६ एववेम काराव्रतम् २७ सावित्रीभ्यः प्रभृत्यूर्ध्वमोषध्यनुवा- कानधीयीरन्नात्र भूमौ भुञ्जीत न पशुवदिति २८ इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने प्रथमोऽध्यायः अथ तृतीयप्रश्ने द्वितीयोऽध्यायः आचार्यप्रसूतः कर्माणि करोतीति विज्ञायते १ आचार्यो वै ब्रह्मेति २ काण्डेकाण्डे च व्रतचर्या ३ अथेमानि ब्राह्मणानि सांवत्सरिकैर्व्रतैरध्येयानि भवन्ति होतारश्शुक्रियाण्युपनिषदो गोदानं सम्मितं इति ४ होतृषु प्रधान-कालेष्वथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा यथोपदेशं प्रधानाहु-तीर्जुहोति याज्ञिकीभ्यो देवताभ्यो होतृभ्यस्स्वाहा सांहितीभ्यो देवताभ्यो होतृभ्यस्स्वाहा वारुणीभ्यो देवताभ्यो होतृभ्यस्स्वाहा सर्वाभ्यो देवताभ्यो होतृभ्यस्स्वाहा इति ५ अथ काण्डऋषिं जुहोति प्रजापतये काण्डऋषये स्वाहा इति ६ अथ सदसस्पतिं जुहोति सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषं स्वाहा इति ७ अथ सावित्रीं जुहोति तत्सवि-तुर्वरेण्यमित्येताम् ८ अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ९ अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशास्सप्ररोहाः प्रादेशमात्रा अपरि-शुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति १० याज्ञीकानां वा वृक्षा-णामन्यतमस्य ११ अग्ने व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा वायो व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा आदित्य व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा व्रतानां व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति १२ जयप्रभृति सिद्धमाधेनुवरप्रदानात् १३ संवत्सरमेतद्व्रतं चरेत् संवत्सरं हि व्रतं नातीत्यैतस्मिंस्त्वेवैतत्संवत्सरेऽधीयीत १४ यद्यु वैतस्मिन् संवत्सरे नाधी-यीत यावदध्ययनमेतद्व्रतं चरेत् १५ अथ संवत्सरे पर्यवेतेऽध्यापयते श्रावयते वा १६ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वाऽथाव्रत्य-प्रायश्चित्तं जुहोति यन्मे आत्मनो मिन्दाऽभूत् पुनरग्निश्चक्षुरदात् इति द्वाभ्याम् १७ यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यो होतृभ्यस्स्वाहा इति चतसृभिः १८ अथ काण्डऋषिं जुहोति प्रजापतये काण्डऋषये स्वाहा इति १९ अथ सदसस्पतिं जुहोति सदसस्पतिमिति २० अथ सावित्रीं जुहोति तत्सवितुः इत्येताम् २१ अथ वेदाहुतीर्जुहो ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभून्तेभ्यस्स्वाहा इति २२ अथ पालाशीश्चतस्रस्समिध आर्द्रांस्सपलाशास्सप्ररोहाः प्रदेशमात्रा अपरि-शुष्काग्रा घृतान्वक्ता अभ्याधापयन् वाचयति २३ याज्ञिकानां वा वृक्षाणामन्यतमस्य २४ अग्रे व्रतपते होतारं व्रतमचारिषं तदशकं तन्मेराधि स्वाहा वायो व्रतपतेहोतारं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा आदित्य व्रतपते होतारं व्रतमचरिषं तदशकं तन्मे राधि स्वाहा व्रतानां व्रतपते होतारं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा इति जयप्रभृति सिद्धमा धेनुवरप्रदानात् २६ अथ शुक्रियाणि २७ तेषामुक्ता व्रतचर्या २८ अथोपनिषत्सु २९ अथ देव-यजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकी-भ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा इति चतस्रः ३० अथ काण्डऋषिं जुहोति विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यस्स्वाहा इति ३१ अथ सदसस्पतिं जुहोति सदसस्पतिमिति ३२ अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम् ३३ अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदे-वजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ३४ अथ पालाशीश्चतस्र-स्समिध आर्द्रास्सपलाशास्सप्ररोहाः प्रादेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्या-धापयन् वाचयति ३५ याज्ञिकानां वा वृक्षाणामन्यतमस्य ३६ अग्ने व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा वायो व्रतपत उपनि-षदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा आदित्य व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा व्रतानां व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति ३७ जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३८ संवत्सरमेतद्व्रतं चरेत् संवत्सरं हि व्रतं नातीत्यैत-स्मिंस्त्वेवैतत् संवत्सरेऽधीयीत ३९ यद्यु वैतस्मिन् संवत्सरे नाधीयीत यावद-ध्ययनमेतद्व्रतं चरेत् ४० अथ संवत्सरे पर्यवेतेऽध्यापयते श्रावयते वा ४१ अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वाऽथाव्र-त्यप्रायश्चित्तं जुहोति यन्म आत्मनः पुनरग्निश्चक्षुरदात् इति द्वाभ्याम् ४२ अथ यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा इति चतस्रः ४३ अथ काण्डऋषिं जुहोति विश्वेभ्यो देवेभ्यः काण्डऋषि- भ्यस्स्वाहा इति ४४ अथ सदसस्पतिं जुहोति सदसस्पतिमिति ४५ अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम् ४६ अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्व-भूतेभ्यस्स्वाहा इति ४७ अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशा-स्सप्ररोहाः प्रादेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन् वाचयति ४८ याज्ञिकानां वा वृक्षाणामन्यतमस्य ४९ अग्ने व्रतपत उपनिषदं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा वायो व्रतपत उपनिषदं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा आदित्य व्रतपत उपनिषदं व्रतमाचारिषं तदशकं तन्मे राधि स्वाहा व्रतानां व्रतपत उपनिषदं व्रतमाचारिषं तदशकं तन्मे राधि स्वाहा इति ५० जवप्रभृति सिद्धमा धेनुवरप्रदानात् ५१ षोडशे वर्षे गोदानम् ५२ तस्य चौलवत्तूष्णीं प्रतिपत्तिरवसानं च ५३ एतावदेव नाना ५४ प्रतिपत्तौ सर्वान् केशान् वापयति ५५ गामत्र गुरवे वरं ददाति ५६ अग्निगोदानो वा भवति ५७ तस्य काण्डोपाकरणकाण्डसमापनाभ्यां प्रतिपत्तिरवसानं च ५८ सर्ववेदसम्मितमित्याचक्षते ५९ तस्य द्वादश संवत्सरानेकादश नव सप्त पञ्च त्रीन् संवत्सरान् षण्मासान् चतुरो मासान् द्वौ मासौ मासं वा व्रतं चरेत् ६० तस्योपदेशात् प्रतिपत्तिरवसानं च ६१ तस्य नित्येऽधिब्रह्मचर्यं त्रिषवणम-भिषेक उत्सन्नशय्या आसनं च ६२ यन्मातुर्दुश्चरितं तस्मादेनं त्रायत इत्युप- दिशति मन्त्रब्राह्मणं वेद इत्याचक्षते ६३ इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने द्वितीयोऽध्यायः अथ तृतीयप्रश्ने तृतीयोऽध्यायः अष्टाचत्वारिंशत्सम्मितं सम्मितमित्याचक्षते १ तस्य संक्षेपस्संवत्सरः २ तत्संवत्सरमनुव्याख्यास्यामः ३ स यदि ब्रह्मचारी स्यान्नियममेव प्रतिपद्यते ४ अथ यद्यब्रह्मचारी स्यात् केशश्मश्रुलोमनखानि वापयित्वा तीर्थं गत्वा स्नात्वाऽप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमा-नीभिर्व्याहृतिभिरिति मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन षोडश प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत्प्रयतं वासः परिधायाप आचम्य देवयजनमुदानयति ५ अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वाऽथा-व्रत्यप्रायश्चित्तं जुहोति नाहं करोमि कामः करोति कामः कर्ता कामः कार-यितैतत्ते काम कामाय स्वाहा नाहं करोमि मन्युः करोति मन्युः कर्ता मन्युः कारयितैतत्ते मन्यो मन्यवे स्वाहा इति ६ अथ यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यस्सम्मितीभ्यस्स्वाहा इति चतस्रः ७ अथ काण्डऋषिं जहोति स्वयम्भुवे काण्डऋषये स्वाहा इति ८ अथ सदसस्पतिं जुहोति सदसस्पतिमिति ९ अथ सावित्रीं जुहोति तत्सवितुः इत्येताम् १० अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदे-वजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ११ अथ चतस्र औदुम्ब-रीस्समिधोऽपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन् वाचयति १२ याज्ञिकानां वा वृक्षाणामन्यतमस्य १३ अग्ने व्रतपतेऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा वायो व्रतपतेऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा आदित्य व्रतपतेऽष्टा-चत्वारिंशत् सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा व्रतानां व्रतपतेऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति १४ जयप्रभृति सिद्धमाधेनुवरप्रदानात् १५ एवमेव व्रतान्ते । अधोताभ्युपरिजान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशन् अनग्निपक्व-वृत्तिरच्छायोपयोगो नागारं प्रविशेदन्यत्र गुरुनियोगात् १६ भैक्षं वा तत्कालं भुञ्जीत १७ कामं कन्दमूलफलम् १८ अपराह्णे प्रसिद्धमुपस्पृश्य तदपि नोप-युञ्जीत १९ स्त्रीशूद्रपतितरभसरजस्वलाभिश्च न सम्भाषेत २० कामं मातर-मुगध्यायिनीं भगिनीं च २१ याश्चान्या एवंयुक्ताः स्त्रियोऽशक्ताः पराक्रमे २२ सप्रणवा व्याहृतयः प्राणायामाग्नीन्धनभैक्षाचरणस्थानासनशयनोपस्पर्शन-सुमनसोनिवेदनानि च २३ सर्वास्सम्मितदेवतास्तर्पयति ब्रह्माणं तर्पयामि प्रजापतिं तर्पयामि परमेष्ठिनं तर्पयामि स्थाणुं तर्पयामि शिवं तर्पयामि शर्वं तर्पयामि बहुरूपं तर्पयामि स्कन्दं तर्पयामि इन्द्रं तर्पयामि यमं तर्पयामि ऋषींस्तर्पयामि पितॄंस्तर्पयामि सर्वास्सम्मितदेवतास्तर्पयामि इति प्रसख्याय समाप्नुयात् २४ गुरोस्समानवृत्तिषु गुरुवृत्तिस्स्यात् २५ प्रेबितस्तदेव प्रति-पद्येतान्यत्र पातकात् २६ एवं द्वादश संवत्सरानेकादश नव सप्त पञ्च त्रीन् संवत्सरान् षण्मासान् चतुरो मासान् द्वौ मासौ मासं वा व्रतं चरेत् २७ अपि वा योऽनूचानश्रोत्रियस्स द्वादशरात्रं पराकं वा व्रतं चरेन्न त्वेवासम्मिती स्यात् २८ स एष चरति दशपूर्वान् दशापरानात्मानं चैकविंशतिं पङ्क्तिं च पुनाति २९ यस्मा उपदिशति यस्यामुपविशति यस्मै ददाति यस्माच्च प्रतिगृह्णाति तत्सर्वं पुनाति ३० व्रतसमाप्तौ वेदसमाप्तौ वा गुरुदक्षिणामाहरेद्धार्मिको यथाशक्ति ३१ विषमगते त्वाचार्य उग्रतश्शूद्रतो वाहरेत् ३२ सर्वतो वोग्रतश्शूद्रतोऽप्याचार्यार्थं स्यादाहरणं धार्म्यमित्येके ३३ एतेन धात्र-न्तरशैवबहुरूपपार्षदस्कन्देन्द्राणां व्रतानां समापनं ब्रह्माभ्यसेदृक्साम यजुर्वा छन्दसामनुसवनं लभेत काममिति ह स्माह बोधायनः ३४ इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने तृतीयोऽध्यायः अथ तृतीयप्रश्ने चतुर्थोऽध्यायः अथातोऽवान्तरदीक्षां व्याख्यास्यामः १ उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे केशश्मश्रु वापयित्वा पूर्ववदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशामुपनिष्क्रम्याखलेऽछदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य मदन्तीरधि-श्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्यः आसनानि कल्पयति २ अग्रेणाग्निं प्रवर्ग्याय कल्पयामि । घर्माय कल्पयामि । महावीराय कल्पयामि । संराज्ञे कल्पयामीति ३ दक्षिणेनाग्निं ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीति ४ उत्तरेणाग्निं ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यः कल्पयामि । देवेभ्यो घर्मपेभ्यः कल्पयामीति ५ अथ दक्षिणतः प्राचीनावीती पितृभ्योऽघर्मपेभ्यः कल्पयामि । यमायाङ्गिरस्वते पितृमते कल्पयामीति ६ अथाप उपस्पृश्योत्तरतो यज्ञोपवीती रुद्राय रुद्रहोत्रे कल्पयामीति ७ प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽभ्या-धाय मदन्तीभिः प्रवर्ग्यदेवताभ्यस्तर्पयति ८ अग्रेणाग्निं प्रवर्ग्य तर्पयामि । महावीरं तर्पयामि । संराजं तर्पयामीति ९ दक्षिणेनाग्निं ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामीति १० उत्तरेणाग्निमृषीन् मन्त्रकृतो मन्त्रपतीन् तर्पयामि । देवान् घर्मपांस्तर्पयामीति ११ अथ दक्षिणतः प्राचीनावीती पितॄन् घर्मपात् तर्पयामि । यममङ्गिरस्वन्तं पितृमन्तं तर्पयामीति १२ अथाप उपश्पृश्योत्तरतो यज्ञोपवीती रुद्रं रुद्रहोतारं तर्पयामीति १३ अथाप उपस्पृश्य सर्वाः प्रवर्ग्यदेवतास्तर्पयामीति १४ अथ चतस्र औदुम्बरीस्समिधोऽपरिशुष्काग्रा घृताभ्यक्ता अभ्याधापयन् वाचयति पृथिवी समित् इत्येतैः प्रतिमन्त्रम् १५ अथ देवता उपतिष्ठते अग्ने व्रतपते शुक्रियं व्रतं रिमिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामिति १६ अथैतेषा-मनुवाकानां प्रभृति वाचयति प्रथमोत्तमयोर्वा १७ अथैनं संशास्ति समील्य वाचं यच्छे इति १८ अथास्याहतेन वाससा त्रिः प्रदक्षिणं समुखं शिरो वेष्टयति चितस्स्थ परिचितः । स्वाहा मरुद्भिः परिश्रियस्व इति १९ प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवता-भ्यस्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वाऽथा स्तमित आदित्ये ग्राममायान्ति २० वाग्यतस्तिष्ठेदेतां रात्रिमुपविशेत् संवेशयेद्वा २१ अथ प्रातरुदित आदित्ये ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्याखलेऽछदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रव-र्ग्यदेवताभ्य आसनानि कल्पयित्वा वयस्सुपर्णाः इति वासो विमुच्याथास्य षट्तयमभिनिर्दशयति अग्निमप आदित्यं गां ब्राह्मणं हिरण्यमिति २२ त्री-नादितो दर्शयित्वा यथोपपादमितराणि दर्शयित्वा प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यस्तर्पयि-त्वोत्तमेनानुवाकेन शान्तिं कृत्वाऽथास्य व्रतचर्यामुपदिशेत् २३ न यानमा-रोहेन्न वृक्षमधिरोहेन्न कूपमवरोहेन्न छत्रं धारयीत नोपानहौ धारयीत नासन्द्यां शयीत न स्त्रिया न शूदेण सह सम्भाषेत यदि सम्भाषेत ब्राह्मणेन सह सम्भाषेत न सायं भुञ्जीत यदि सायं भुञ्जीतापज्वलितं भुञ्जीत न स्नायादष्टम्यां पर्वणि चोपवसेत्तदहश्च स्नायाद्वाग्यतस्तिष्ठेदेतां रात्रिमुपविशेत् संवेशयेद्वा २४ अमे-ध्यलोहितशवपात्रदर्शने ज्योतिषां संदर्शनम् २५ अमेध्यं दृष्ट्वा जपति अबद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीः इति २६ अथ यद्येनमभिवर्षति उन्दतीर्बलं धत्तौ जोधत्त बलं धत्त मा मे दीक्षां मा तपी निर्वधिष्ट इत्येव तत्र जपति २७ संवत्सरमेतद्व्रतं चरेत् संवत्सरं हि व्रतं नातीत्यैतस्मिंस्त्वेवैतत् संवत्सरेऽधीयीत २८ यद्यु वैतस्मिन् संवत्सरे नाधी-यीत यावदध्ययनमेतद्व्रतं चरेत्संवत्सरे पर्यवेतेऽध्यापयते श्रावयते वा २९ पूर्वेवदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्याखलेऽछदिर्दर्शे-ऽग्निमुपसमाधाय संपरिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयित्वाऽथाव्रत्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दाऽभूत् पुनरग्निश्चक्षुरदात् इति द्वाभ्याम् ३० प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यः तर्पयित्वा चतस्र औदुम्बरीस्समिधोऽपरिशुष्काग्रा घृताभ्यक्ता अभ्याधापयन् वाचयति द्यौस्समित् इत्येतैः प्रतिमन्त्रम् अथ देवता उपतिष्ठते आदित्य व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि । वायो व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि । अग्ने व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि । व्रतानां व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि इति ३२ प्रदक्षि-णमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधोऽथाभ्याधाय मदन्तीभिः प्रव-र्ग्यदेवताभ्यः तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वाऽथास्याध्यायेऽनध्या-यानुपदिशेत् । नाधीयीतास्तमित आदित्ये नानुदिते नानुविप्रोषिते न पर्यावृत्ते नाभ्रच्छायायां न ग्राम्यस्य पशोरन्ते नारण्यस्य नापामन्ते न हरितयवान् प्रेक्षमाणो न हर्म्याणी न शरीराणि न लोहितमुत्पादितं दृष्ट्वा न मांसमशित्वा न श्राद्धं भुक्त्वा न केशश्मश्रु वापयित्वा न केशान् प्रसार्य न दतो धावते नाङ्क्ते नाभ्यङ्क्ते नार्दो नार्द्रेण वाससा नार्द्रायामिति ३४ अथ स्वाध्यायम-धीयीतापरेणाग्निं दर्भेष्वासीनो दर्भान् धारयमाणः पराचीनं स्वाध्यायमधीयीत पुनरेव शांतिं कृत्वाऽधीयीत ३५ अथ यदि लौकिकमनुव्याहरेद्यत्रक्वचिद्य-द्यशान्तिकृ पश्येत्पुनरेव शांतिं कृत्वाऽधीयीत चोत्तमेन प्रवर्ग्यायोपनिष्क्रम्य नाप्रविश्य काममन्यदधीयीतान्यदधीयीत ३६ इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने चतुर्थोऽध्यायः अथ तृतीयप्रश्ने पञ्चमोऽध्यायः प्रहुतानुकृतिर्वास्तुशमनम् १ स यत्र दशोषित्वा प्रयास्यन् भवति दशभ्यो वोर्ध्वं सदारस्साग्निहोत्रिकस्तद्वास्तोष्पतीयं हुत्वा प्रयातीति २ सर्व एवा हिताग्निरित्येके ३ यायावर इत्येके ४ यच्चागारं कारयित्वा प्रथममध्य-वस्येत्तद्वास्तोष्पतीयेन शमयित्वाऽध्यवस्येत् ५ तदु हैके यजुषा स्थूणा उ-च्छ्रायन्ति यजुषा वंशान् यजुषा छदींषि यजषाब्भ्रिणं यजुषा तल्पदेशं यजुषा वास्तुमध्यं यजषाऽजुषाग्निनिधानम् ६ स यंद्युहैवं कुर्याद्यथा यजुषोच्छ्रियन्ते सदस्यर्क्सामयजूंष्यथर्वणान्याङ्गिरसानि मिथुनीसंभवन्तीति तद्यदध्यवस्ये-द्यथा मिथुनीसम्भवन्तावध्यवस्येत्तादृक्तद्यद्यजुष्कृतं स्यात् ७ आधयो व्याधयो ग्रहा उपसर्गाश्चाहन्युः ८ तस्मात्तूष्णीमगारं कारयित्वा द्वारदेशमलङ्कृत्य वास्तुमध्यं विमायाब्भ्रिणं पूरयित्वा तल्पदेशं कल्पयित्वोत्तरपूर्वदेशेऽगारस्य गृह्याग्निमुपसमाधाय सम्परिस्तीर्याग्निमुखात्कृत्वा पक्वाज्जहोति वास्तोष्पते प्रतिजानीह्यस्मान् इति पुरोनुवाक्यामनूच्य वास्तोष्पते शग्मया संसदा ते इति याज्यया जुहोति ९ अथाज्याहुतीरुपजुहोति १० वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानाम् । द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा स्वाहा ११ गृह्यं भयं यच्चेद्द्विपात्सु यदु चेच्चतुष्पात्सु भयं यदस्ति । अग्निर्यविष्ठ्यः प्रणुदतु तद्भयं शं नः प्रजाभ्यः शमु नः पशुभ्यस्स्वाहा १२ अक्षिस्पन्देऽङ्गचले च यद्भयं यद्वशिते यदु चेद्दुरुक्ते । अग्निर्यविष्ठ्यः प्रणुदतु तद्भयं शं नः प्रजाभ्यः शमु नः पशुभ्यस्स्वाहा १३ दुस्स्वप्ने पापस्वप्ने च यद्भयं स्वप्नाशनं यद-मेध्यदर्शने । अग्निर्यविष्ठ्यः प्रणुदतु तद्भयं शं नः प्रजाभ्यः शमु नः पशुभ्यस्स्वाहा १४ वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व स्वाहा १५ अभीवहा वास्तोष्पते विश्वारूपाण्याविशन् । सखा सुशेव एधि नस्स्वाहा । इति १६ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १७ अथाग्रेणाग्निं दर्भस्तम्बेषु हुतशेषं निदधाति नमो रुद्राय वास्तोष्पये । आयने विद्रावणे । उद्याने यत्परायणे । आवर्तने निवर्तने । यो गोपायति तं हुवे इति १८ स्थालीसंक्षाळनमाज्यशेषमुदकशेषं च पात्र्यां समानीयौदुम्बरशाखया पला-शशाखया शमीशाखया दर्भमुष्टिना वा सर्वतः पर्युक्षन् त्रिः प्रदक्षिणमगारं पर्येति त्वं विप्रः त्वं कविः त्वं विश्वा रूपाणि धारयन् अप जन्यं भयं नुद इति १९ अन्नं संस्कृत्य ब्राह्मणान् संपूज्याशिषो वाचयित्वा शिवं वास्तु शिवं वास्त्विति २० वास्तुशमनं व्याख्यातम् २१ इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने पञ्चमोऽध्यायः अथ तृतीयप्रश्ने षष्ठोऽध्यायः अथ यद्यगारे स्थूणा विरोहेत् कपेतो वाऽगारमध्येऽधिपतेत् वायसो वा गृहं प्रविशेत् गौर्वा गां धयेत् गौरात्मानं प्रति धयेत् अन वान्वा दिवमुल्लिखेत् अनग्नौ वा धूमो जायेत अनग्नौ वा दीप्येत मधु वा जायेत वल्मीकं वोपजायेत निर्यासं वोपजायेत छत्राकं वोपजायेत मण्डूको वाऽब्भ्रिणे वाशयेत् श्वानप्रसूतो वा सर्पो वा गृहपतिं जायां वोपतपद्विन्देतान्येषु । अद्भुतोत्पातेषु १ अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् २ अथाज्याहुतीरुपजुहोति वास्तोष्पते वास्तोष्पते शं नो देवीः इन्द्राग्नी रोचना कया नश्चित्र आ भुवत् को अद्य युङ्क्ते भवतं नस्समनसो इति ३ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ४ अथाप्रेणाग्निं शमीपर्णेषु हुतशेषं निदधाति शं नो देवीरभिष्टये इति ५ स्थालीसंक्षालनमाज्यशेषमुदकशेषं च पात्र्यां समानीय तेषूत्पातेषु निनयेत् प्रोक्षेद्वा तच्छंयोरावृणीमहे इति ६ अन्नं संस्कृत्य ब्राह्माणान् सम्पूज्याशिषो वाचयित्वा शिवं शिवमिति प्रोक्षति ७ अद्भुतो व्याख्यातः ८ इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने षष्ठोऽध्यायः अथ तृतीयप्रश्ने सप्तमोऽध्यायः आहुतानुकृतिरायुष्यचरुः १ संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासिमासि वा कुमारस्य जन्मनक्षत्रे क्रियेत २ अथ देवय-जनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा व्रीही न्निर्वपति अग्नय आयुष्मते वो जुष्टं निर्वपामि इति । तूष्णीं वा ३ धान्यान्निर्वपति प्राणाय वो जुष्टं निर्वपामि इति । तूष्णीं वा ४ तानभ्युक्ष्यावहत्य त्रिःफलीकृत्य त्रिःप्रक्षाळ्य निदधाति ५ तण्डुलान् वा निर्वपति ६ तानभ्युक्ष्य त्रिः प्रक्षाळ्यैव निदधातीति ७ अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं तण्डु-लानावपति ८ अथाज्यं निर्वपत्यथाज्यमधिश्रयत्युभयं पर्यग्नि कृत्वा मेक्षणं स्त्रूवं च संमार्ष्टि ९ अथैतं चरुं श्रपयित्वाऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति । एवमेव सर्वेषां स्थालीपाकानां चरुकल्पः ११ परिधान-प्रभृत्याऽग्निमुखात् कृत्वा पक्वाज्जुहोति आयुष्टे विश्वतो दधत् इति पुरो-ऽनुवाक्यामनूच्य आयुर्दा अग्ने हविषो जुषाणः इति याज्यया जुहोति १२ अथाज्याहुतीरुपजुहोत्यथान्तरेणाग्निं चाज्यस्थालीं च स्थालीपाकं निधाय तत्सहस्रं सम्पाताभिहुतं करोति १३ यो ब्रह्म ब्रह्मण उज्जभार प्राणेश्वरः कृत्तिवासाः पिनाकी । ईशानो देवस्स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन स्वाहा ४ बिभ्राजमानस्सरिरस्य मध्याद्रोचमानो घर्मरुचिर्य आगात् स मृत्युपाशादपनुद्य घोरादिहायुषेणो घृतमत्तु देवस्स्वाहा १५ ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात्पुरुरूपं जयन्तम् सुवर्णरं भग्नहमर्कमर्चं तमायुषे वर्धयामो घृतेन स्वाहा १६ श्रियं लक्ष्मीमौपलामम्विकां गां षष्ठीं जयामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन स्वाहा १७ दाक्षायण्यस्सर्वयोन्यस्सयोन्यस्सहस्रशो विश्वरूपा विरूपाः ससूनवस्सपतयस्सयूथ्या इहायुषेणो घृतमिदं जुषन्तां स्वाहा १८ दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजां रिरिषो मोतवीरान् स्वाहा १९ एकः पुरस्ताद्य इदं बभूव यतो बभूवुर्भुवनस्य गोपाः । यमप्येति भुवनं साम्पराये स नो हविर्घृतमिहायुर्षेऽत्तु देवस्स्वाहा २० वसून् रुद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वांश्च पितॄंश्च विश्वान् । भृगून् सर्पां-श्चाङ्गिरसोऽथ सर्वान् घृतं हुत्वा स्वायुष्यामहयाम शश्वत्स्वाहा २१ षड्विं-शतिशतकृत्वस्तदाहुतीनां अष्टसहस्रं संपद्यते २२ इतरस्मात्पक्वात्सौविष्टकृतं जुहोति २३ जयप्रभृति सिद्धमाधेनुवरप्रदानात् २४ अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति मा नो महान्तं मा नस्तोके इति द्वाभ्याम् २५ अपरेणाग्निं प्राङ्मुख उपविश्य वाग्यतः स्थालीपाकं सगणः प्राश्नाति । तस्य प्राशनमन्त्रः आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि । सर्व म आयुर्भूयात् । सर्वमायुर्गेषम् इति प्राश्याप आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् २६ कुमाराणां ग्रहगृहीतानां ज्वरगृही-तानां भूतोपसृष्टानां आयुष्येण घृतसूक्तेनाहरहस्स्वस्त्ययनार्थं स्वाध्यायम-धीयीतैतैरेव मन्त्रैराहुतीर्जुहुयादेतैरेव मन्त्रैर्बलीन् हरेदगदो हैव भवति २७ तदेतदृद्धमयनं भूतोपसृष्टानां राष्ट्रभृतः पञ्चचोडास्सर्पाहुतिर्गन्धर्वाहुतिरहरह-स्स्वस्त्ययनार्थं स्वाध्यायमधीयीतैतैरेव मन्त्रैराहुतीर्जुहुयात् एतैरेव मन्तैर्बलीन् हरेदगदो हैव भवति । तदेतदृद्धमयनं हुतप्रहुतानुकृतयोऽन्ये होमाः बलि- हरणानुकृतीन्यभ्यर्चनान्याश्रमानुकृतयस्संश्रया इति २९ इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने सप्तमोऽध्यायः अथ तृतीयप्रश्ने अष्टमोऽध्यायः अथातोऽर्धमासेऽर्धमासेष्टम्यां ब्राह्मणा ब्रह्मचारिणस्त्रियश्चाहरुपवसन्ति १ अथ प्रदोषे रुद्रं विरूपाक्षं सपत्नीकं ससुतं सगणं सपार्षत्कमावाहयामि इत्यावाह्य गन्धपुष्पधूपदीपैरभ्यर्च्य प्रतिपुरुषं पैष्टिकान् दीपानेकातिरिक्तांश्चतस्रोऽष्टौ वा देवस्यायतने प्रतिदिशं प्रद्योतयति उद्दीप्यस्व जातवेदः मा नो हिंसीत् इति द्वाभ्याम् हव्यवाहमभिमातिषाहं स्विष्टमग्ने अभि इति द्वाभ्यां च २ अथोपसमिद्धमग्निं कृत्वा यदशनीयस्य जुहोति इमा रुद्राय स्थिरधन्वने गिरः इति षड्भिरनुच्छन्दसं मा नो महान्तं मा नस्तोके इति द्वाभ्यां वास्तोष्पते वास्तोष्पते इति द्वाभ्यां आर्द्रया रुद्रः हेती रुद्रस्य इति द्वाभ्यां द्वादश संपद्यन्ते द्वादश मासास्संवत्सरः संवत्सर एव प्रतितिष्ठति इति ब्राह्मणम् ३ समिधो वाऽभ्या-दधातीति विज्ञायते वैष्णवा वै वनस्पतयः विष्णोस्सायुज्यं सलोकतामाप्नोति ४ स्तुतिभिस्स्तुन्वन्ति ब्रह्म वै ब्रह्मा व्रह्मणस्सायुज्यं सलोकतामाप्नोति ५ सर्वं पाप्मानं तरति तरति ब्रह्महत्यामपपुनर्मुत्युं जयतीत्याह भगवान् बोधायनः ६ इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने अष्टमोऽध्यायः अथ तृतीयप्रश्ने नवमोऽध्यायः बलिहरणानुकृतिरुत्सर्गः १ तैष्यां पौर्णामस्यां क्रियेतापि वा माघ्याम् २ सहान्तेवासिभिर्ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रापस्सुती-र्थास्सूपावगाहास्स्रवन्त्यस्स्ववकिन्यश्शङ्खिन्यस्तासामन्तं गत्वा स्नात्वाऽप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत्प्रयतं वासः परिधायाप आचम्यापां समीपे स्थण्डिलानि कृत्वा दर्भानन्योन्यस्मै संप्रदाय दर्मैरासनानि कल्पयन्ति ब्रह्मणे कल्पयामि प्रजापतये बृहस्पतये अग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यः संवत्सराय इन्द्राय राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यः रुद्रेभ्यः आदित्येभ्यः विश्भ्यो देवेभ्यः साध्येभ्यो देवेभ्यः मरुद्भ्यः ऋभुभ्यः भृगुभ्यः अथर्वभ्योऽङ्गिरोभ्यः विश्वामित्राय जमदग्नये जामदग्न्याय भरद्वाजाय गौतमाय आत्रेयाय वसिष्ठाय काश्यपाय अरुन्धत्यै कल्पयामीति ३ अथ दक्षिणतः अगस्त्याय कल्पयामीति ४ अथोत्तरतः निवीतिनः कृष्णद्वैपायनाय जातु-कर्ण्याय तरुक्षाय तृणबिन्दवे सोमशुष्मिणे सोमशुष्मायणाय वाजिने वाज-श्रवसे बृहदुक्थाय वर्मिणे वज्रिणे वरूथाय सनत्कुमाराय वामदेवाय वाजि-रत्नाय वीरजिताय हर्यश्वाय उदमेघाय ऋणंजयाय तृणंजयाय कृतंजयाय धनञ्ज-याय सत्यञ्जयाय बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे अश्वज्ञाय पराशराय मृत्यवे कर्त्रे विकर्त्रे सुकर्त्रे त्वष्ट्रे धात्रे विधात्रे सुश्रवसे सुतश्रवसे सत्यश्रवसे सवित्रे सावित्र्यै छन्दोभ्यः ऋग्वेदाय यजुर्वेदाय सामवेदाय अथर्ववेदाय अथर्वाङ्गिरोभ्यः इतिहासपुराणेभ्यः सर्पदेवजनेभ्यः सर्वभूतेभ्यः ५ अथ दक्षिणतः प्राचीनावीतिनो वैशम्पायनाय फलिङ्गवे तित्तिरये उखा-योख्याय आत्रेयाय पदकाराय कौण्डिन्याय वृत्तिकाराय कण्वाय बोधायनाय प्रवचनकारायापस्तम्बाय सूत्रकाराय सत्याषाढाय हिरण्यकेशाय वाजस-नेयाय याज्ञवल्क्याय भरद्वाजायाग्निवेश्यायाचार्येभ्य ऊर्ध्वरेतोभ्यो वान-प्रस्थेभ्यः वंशस्थेभ्यः एकपत्नीभ्यः कल्पयामीति ६ अथ यथास्वयं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च ७ पृथक्पृथगेतैरेव नामधेयैर्गन्धपुष्पधूपदीपैरमुष्मै नमोऽमुष्मै नम इति ८ अन्नेनामुष्मै स्वाहाऽमुष्मै स्वाहेति । फलोदकेनामुं तर्पयाम्यमुं तर्पयामीति ९ त्रीनादितोऽनुवाकानधीयीरन् काण्डादीन् वा सर्वान् १० काण्डात्काण्डात्प्ररोहन्ती या शतेन प्रतनोषि इति द्वाभ्यामुपोदके दूर्वामा-रोपयन्तेऽथाधीप्सन्तेऽन्योन्यममुष्मा अमुष्मा इति ११ अथावगाह्य सम्परिगृह्योर्मिमन्तमुदधिं कृत्वा त्रिरुद्युत्या तमितोराजिं धावन्ति १२ प्रत्येत्य गृहानथ ब्राह्मणान् तर्पयन्त्यपूपैर्धानाभिस्सक्तुभिरोदनेनेति यद्यु वैतेभ्यो भवति १३ त्र्यहमेकाहं वा नाधीयीरन् मासं प्रदोषे नाधीयेरन् नित्यं चैव विद्यु-त्स्तनितवर्षाणामेकस्मिन् द्वयोर्वा काले त्रिषन्निपाते त्र्यहम् १४ यथोपाकृतौ छब्दसामेवमेवमुत्सृष्टौ कल्पानाम् १५ एवमेव पारायणसमाप्तौ काण्डादि- दूर्वारोपणोदधिधावनवर्जम् १६ इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने नवमोऽध्यायः अथ तृतीयप्रश्ने दशमोऽध्यायः वलिहरणानुकृतिरेव सर्पबलिः १ संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा वर्षास्वाश्रेषाषु क्रियेत २ अपां समीपे वल्मीक्राग्रेण वा पचनम् ३ गन्धोदकैर्दूर्वोदकैश्चाभ्युक्ष्य चित्रास्सुम-नसस्सम्प्रकीर्य यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वाऽऽज्येनेक्षुरसेन वा पक्त्वा पायसं घृतपक्वांश्च अपूपानोदनं धानास्सक्तून् करम्भान् लाजानि-त्युपकिरन्ति नमो अस्तु सर्पेभ्यः इति तिसृभिरनुच्छन्दसम् ४ सर्पेभ्य-स्स्वाहाऽऽश्रेषाभ्यस्स्वाहा दन्दशूकेभ्यस्स्वाहा इति त्रयस्स्वाहाकाराः ५ जीर्वरो ग्रहपतिरध्वर्युर्धृताराष्ट्र ऐरावतो ब्रह्मदत्तस्तापसो होता पृथुश्रवा दूरेश्रवा उद्गाता ग्लावश्चाजगश्च प्रस्तोता प्रतिहर्ता शितिपृष्ठो मैत्रावरुणः तक्षको वैशालकिर्ब्राह्मणाच्छंस्युपनीतिस्तार्क्ष्यस्सदस्यश्शिखातिशिखौ नेष्टापोतारौ वारुणो होताऽच्छावाकश्चक्रः पिशङ्ग आग्नीध्रश्चाहिरो महेयस्सुब्रह्मण्योऽर्बुदो ग्रावस्तुत्साण्ड उन्नेता पशगो ध्रुवगोपः कौस्तुको धुरिमेजयश्च जनमेजयश्चे त्येतैरेव नामधेयैः समीची नामासि प्राची दिक् इति षड्भिः पर्या यैः हेतयो नाम स्थ तेषां वः पुरो गृहाः इति षड्भिः इदं सर्पेभ्यो हविरस्तु जुष्टम् इति चोपस्थानम् ६ त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्य आशिषो वाचयित्वा ७ व्याख्यातस्सर्पबलिर्व्याख्यातस्सर्पबलिः ८ इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने दशमोऽध्यायः अथ तृतीयप्रश्ने एकादशोऽध्यायः अथेमे देवते प्रबाधिन्यावुद्वाहिकाले यक्ष्यतम्यौ भवतस्तयोस्तदुपकॢप्तं भवति यत्सर्पबलौ १ अपां समीपे द्वे स्त्रीप्रतिकृतीकृत्य गन्धैर्माल्येन चालङ्कृत्यैव-मेवाभ्यर्चयति २ तयोरर्चनमन्त्रः ते सूनवस्स्वपसम्सुदंससो मही जज्ञुर्मातरा-पूर्वचित्तये । स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ३ ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा । नव्यं नव्यं तन्तुमातन्वते दिवि समुद्रे अन्तः कवयस्सुदीतयः इति ४ अथैते उपसङ्गृह्य पार्श्वे दत्वा प्रवाह्य त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा व्याख्यातो यक्षीबलिः ५ इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने एकादशोऽध्यायः अथ तृतीयप्रश्ने द्वादशोऽध्यायः अष्टकानुकृतिर्मासिकं तत्पुरस्ताद्व्याख्यातम् १ अथाभ्युदयिकेषु प्रदक्षिणमु-पचारो यज्ञोपवीतं प्रागग्रान् दर्भान् युग्मान् ब्राह्मणान् यवैस्तिलार्थः पृषदाज्यं हविः २ सोपयामेन पात्रेण नान्दीमुखाः पितरः प्रीयन्तामित्यपां प्रतिग्रहणं विसर्जनं च ३ नान्दीमुखेभ्यः पितृभ्यस्स्वाहेत्यग्नौ करणमनुदेशनम् ४ आशयेषु परिसमूढेषु प्रागग्रेषु दर्भेषु पृषदाज्येनानुप्रदानं सर्वं द्विर्द्विरिति ५ अथैकोद्दिष्टेषु नाग्नौकरणं नाभिश्रावणं न पूर्वं निमन्त्रणं न दैवं न धूपं न दीपं न स्वधा न नमस्कारो नात्रापूपम् ६ सर्वं सिद्धं समानीयायुग्मान् ब्राह्मणान् सुप्रक्षाळितपाणिपादानप आचमय्य सदर्भोपक्लप्तेष्वासनेषू वेश्य सर्वस्मा-त्सकृत्सकृत् समवदायाभिघार्य दक्षिणतो भस्ममिश्रानङ्गागन्निरूह्य तेषु जुहु-यात् प्रेतायामुष्मै यमाय च स्वाहा इति । तद्धुतमहुतं च भवति ७ अमुष्मै तृप्तिरस्त्वित्यपां प्रतिग्रहणं विसर्जनं च । अमुष्मा उपतिष्ठत्वित्यनुदे-शनमाशयेष्वेव पिण्डदानं तृप्यस्वेति संक्षाळनं तृप्तिरस्त्विति विसर्जनमस्तु तृप्तिरितीतरेषां प्रतिवचनम् ८ प्रेतस्य द्वितीयाप्रभृति ब्राह्मणभोजनैरेकोत्त-रवृद्धिरादशाहात् ९ अत्र नवं विच्छिद्येत १० एकादश्यां श्राद्धं तृतीये पक्षे द्वितीयं सन्ततमेकैकेनैकादश मासान्नयन्ति न द्वादशमासमभ्यारोहन्ति ११ संवत्सरे सपिण्डीकरणं साग्नौकरणं साभिश्रावणं सपूर्वं सदैवं सधूपं सदीपं सस्वधा सनमस्कारं सापूपम् १२ अथाप्युदाहरन्ति एकोद्दिष्टे नवश्राद्धे नाग्नौ करणमिष्यते न चाभिश्रावणं कुर्यान्न च पूर्वं तु कारयेत् १३ प्रणामं च न कुर्वीत स्वधाकारं तथैव च ऊर्ध्वं संवत्सरात्प्रेतः पितृत्वमुपपद्यते १४ इतीन्न्वा इमा अनुकृतयो व्याख्याताः १५ इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने द्वादशोऽध्यायः अथ तृतीयप्रश्ने त्रयोदशोऽध्यायः अथर्तुसंवेशनादि जन्मप्रभृति वा कुमारः क्रियाभिलुप्तस्स्यादुपनयनं चैकं स्यात् तासां पृथक्पृथक्क्रियाणां करणं न चैकहोमे सर्वाणि कर्माण्युपपादयेत् १ यद्येकहोमे सर्वाणि कर्माण्युपपादयेत् प्रधानादौ द्वेद्वे मिन्दाहुती जुहुयात् २ मिन्दाहुती हुत्वा जयानभ्यातानान् ३ रुद्राहुत्यन्ते च विज्ञायते रुद्रो वै क्रूरो देवानां सोऽस्य तुष्टः प्रीतो भवति इति सर्वत्र छेदनभेदनखनननिरसन-पितृराक्षसनैरृतरौद्राभिचरणीयेष्वप उपस्पृशेदिति विज्ञायते आपो वै शान्ता-श्शान्ताभिरेवास्य शुचं शमयति इति ब्राह्मणम् ४ आषोडशात् ब्राह्म-णस्यानात्यय इत्याद्वाविंशात् क्षत्रियस्याचतुर्विंशाद्वैश्यस्यात ऊर्ध्वं पतितसा-वित्रीका भवन्ति ५ नैनानुपनयेयुर्नाध्यापयेयुर्न विवहेयुर्न याजयेयुः ६ तांस्त्रिवृता व्रात्यस्तोमेन याजयित्वा विवाहयेयुः ७ यच्च किञ्चित्सगोत्राणां सर्वेषां च सशान्तिकम् कन्यानां चैव जन्मादिकर्तव्याः कर्ममङ्गलाः ८ क्रियामयं हि ब्राह्मण्यं नाक्रियं ब्रह्मोच्यते नाक्रियं ब्रह्मोच्यत इति इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने त्रयोदशोऽध्यायः अथर्तुसंवेशनादि । अष्टकानुकृतिः । अथेमे देवते । बलिहरणानुकृतिरेव सर्पबलिः । बलिहरणानुकृतिरुत्सर्गः । अथातोऽर्धमासेऽर्धमासे । आहुता-नुकृतिरायुष्यचरुः । अथ यद्यगारे विरोहेत् । प्रहुतानुकृतिर्वास्तुशमनम् । अथातोऽवान्तरदीक्षां व्याख्यास्यामः । अष्टाचत्वारिंशत्सम्मितम् । आचा-र्यप्रसूतः कर्माणि करोति । हुतानुकृतिरुपाकर्म १३ हुतानुकृतिरुपाकर्म । आचार्यप्रसूतः कर्माणि करोति । अष्टाचत्वारिंशत्संमितम् । अथातो-ऽवान्तरदीक्षां व्याख्यास्यामः । प्रहुतानुकृतिर्वास्तुशमनम् । अथ यद्यगारे स्थूणा विरोहेत् । आहुतानुकृतिरायुष्यचरुः । अथातोऽर्धमासेऽर्धमासे । बलिहरणानुकृतिरुत्सर्गः । बलिहरणानुकृतिरेव सर्पबलिः । अथेमे देवते । अष्टकानुकृतिः । अथर्तुसंवेशनादि १३ इति बोधायनगृह्यसूत्रे तृतीयप्रश्नः अथ चतुर्थप्रश्ने प्रथमोऽध्यायः अथातस्सप्तपाकयज्ञानां प्रायश्चित्तानि व्याख्यास्यामः १ तत्रादित एवोपलिप्ते श्वा वेटको वा यदि गच्छेत्कीटो वा पिण्डकारी स्यात् तत्पुनरुपलिप्य प्रोक्षति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नेस्तेजसा प्रोक्षामि इति प्रोक्ष्य स्थण्डिलमुपलिप्य स्थण्डिलमुद्धरेत् २ स्थण्डिलमुद्धृतं गौरश्वो वा यदि विकिरेदन्यद्वा श्वापदमधितिष्ठेत्तस्य पदमभ्युक्ष्य जपति पृथिवि देव-यजन्योषध्यास्ते मूलं मा हिंसिषम् इति ३ अथ कृतान्तेन प्रतिपद्यते ४ अथ यदि प्रणीतापात्रं भिद्येत तदभिमन्त्रयते अभिन्नो घर्मो जीरदानुर्यत आत्तस्तदगन् पुनः इति ५ अथान्यदाहरति घर्मो देवानप्येतु इति पूरयित्वा व्याहृतिभि-रुपतिष्ठते ६ अथ यदि प्रणीताः प्रणीयमानाः प्रणीता वा परासिच्येरंस्ता अभिमन्त्रयते अक्षितोऽस्य क्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिन् लोके इति ७ पूरयित्वोपतिष्ठते भूरायुर्मे धारयत प्राणं मे धारयत प्रजां मे धारयत पशून् मे धारयत मा म आयुः प्राणाः प्रजाः पशवः परासिच्येरन् इति ८ अथ यदि कन्योपसाद्यमाना वोह्यमाना वा पतेत्तामुत्थापयेयुः उदस्थाद्देव्यदितिर्विश्वरू-प्यायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय च इति ९ अथ यदि कन्योपसाद्यमाना वोह्यमाना वा रजस्वला स्यात्तामनुमन्त्रयते पुमांसौ मित्रावरुणौ पुमांसाश्विनावुभौ । पुमानिन्द्रश्च सूर्यश्च पुमांसं वर्धयेताम् इति १० अथ यदि कन्योपसाद्यमाना वोह्यमाना वाऽश्रु कुर्यात्तामनुमन्त्रयते जीवां रुदन्ति विमयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः । वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे इति ११ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने प्रथमोऽध्यायः अथ चतुर्थप्रश्ने द्वितीयोऽध्यायः सर्वत्र दर्वीकूर्चप्रस्तरपरिधिबर्हिःपवित्रेध्मद्रव्यसम्भाराणां चेद्दाहोपघातेषु नाशे विनाशे वाऽन्यं यथालिङ्गं कृत्वा यथालिङ्गमुपसाद्य त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि प्रजापते इत्येताभिस्स्रुवाहुतीर्जुहुयात् १ अथ यदि परिस्तरणदाहे अग्नये क्षामवते स्वाहा इति हुत्वा परिस्तृणाति ३ इन्द्रं वो विश्वतस्परि इन्द्रं नरः इति द्वाभ्यां परिस्तीर्य जुहोति इन्द्राय स्वाहा इति ३ अथ यदि परिधिदाहे अन्यं यथालिङ्गमुपसाद्य जुहोति प्ररित्वाऽग्ने पुरं वयम् इति ४ अथ वस्त्राणां प्रोक्षितानां चेद्दाहोपघाते नाशे विनाशे अन्यत् यथालिङ्गं कृत्वा यथालिङ्गमुपसाद्य जुहोति सोसाय स्वाहा इति ५ अथ सिचा-ऽभिघातस्स्यात्तदभिमन्त्रयते सिगसि नसि वज्रोसि नमस्ते अस्तु मा मा हिंसीः इति दशासूत्रमादाय मुखवातेन प्रध्वंसयेत् ६ अथ यदि गौर्वाऽऽश्वो वा श्वमृगमहिषमेषवराहदंष्ट्रावन्तो वाऽन्यत् श्वापदमपसव्यं गच्छेत्तस्य पदम-भ्युक्ष्य जपति तद्विष्णोः परमं पदम् इति ७ एतेनैव रौद्रमभिव्याहरेद्वा । रौद्र्यावृचौ जुहुयात् जपेद्वा त्वमग्ने रुद्रः आवो राजानम् इति ८ अथ यदि शकुनमभिव्याहरेत्तां वाचमनुमन्त्रयते द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् । उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । नश्शकुने अस्तु प्रति नस्सुमना भव इति ९ अथ यदि सालावृकी वाश्येत तामनुमन्त्रयते दीर्घमुखि दुर्हणु मा स्म दक्षिणतो वदः । यदि दक्षिणतो वदाद्द्विषन्तं मेऽव बाधासै इति १० अथ यद्यर्थी स्यात् परिक्षवे परिकासने चाप उपस्पृश्य जपेत् अनुहवं परिहवं परीवादं परिक्षपं दुस्स्वप्नं दुरुदितं तद्द्विषद्भ्यो दिशाम्यहम् । अनुहूतं परिहूतं शकुने यदशाकुनं मृगस्य सृतमक्ष्णया तद्द्वि-षद्भ्यो दिशाम्यहम् इति ११ अथ नदीनां धन्वनां च व्यतिक्रमे पुरस्तादुपस्थानं जपति या ओषधयो या वनस्पतयो या नद्यो यानि धन्वानि ये वना । ते त्वा वधु प्रजावतीं प्र त्वे मुञ्चन्त्वंहसः इति १२ अथ शकृद्व्यतिक्रमे पुरस्ता-दुपस्थानं जपति नमश्शकृत्सदे रुद्राय नमश्शकृत्सदे । गामर्हसि नमस्ते अस्तु मा मा हिंसीः इति १३ अथ तीर्थस्थाणुचतुष्पथव्यतिक्रमे पुरस्तादुपस्थानं जपति कृतं तीर्थं सुप्रपाणं शुभस्पती । स्थाणुं पथेष्टामप दुर्मतिं हनत् इति १४ अथ चित्रियाणां लक्षणानां व्यतिक्रमे पुरस्तादुपस्थानं जपति ये देवा याश्च देवीर्येषु वृक्षेष्वासते । श्रिया मे श्रियं वृद्धिं वहन्तु मा मा हिंसिषुर्वहन्तु मोह्य मानाम् इति १५ अथ कर्मान्तमेव प्रतिपद्यते १६ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने द्वितीयोऽध्यायः अथ चतुर्थप्रश्ने तृतीयोऽध्यायः सर्वत्र स्वयं प्रज्वलितेऽग्नौ समिधावादधाति उद्दीप्यस्व जातवेदः इति द्वाभ्याम् १ अथ श्मशानादिव्यतिक्रमे तमेवाग्निमुपसमाधाय सम्परिस्तीर्याऽग्निमुखा-त्कृत्वा पक्वाज्जुहोति अग्निर्भूतानामधिपतिस्स माऽवतु स्वाहा इन्द्रो ज्येष्ठाना-मधिपतिस्स माऽवतु स्वाहा इति २ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३ अथैनन्मिथुनमभिमन्त्रयते इदं मिथुनमायुष्मदस्त्विदं मिथुनं प्रजावदस्त्विदं मिथुनं पशुमदस्त्विदं मिथुनं वीर्यवदस्तु इति ४ अथ उदुत्यं जातवेदसम् इति दक्षिणमनड्वाहं युनक्ति । चित्रं देवानामुदगादनीकम् इति सव्यं युक्त्वा प्रयातीति ५ अथ तीर्थव्यतिक्रमे नावा सन्तारः स्यात्तामनुमन्त्रयते अयं नो मह्याः पारमेतं स्वस्ति नेषद्वनस्पतिः । सीरा नस्सुतरा भव दीर्घायुत्वाय वर्चसे इति नावा तरन्तीं वधूं पश्यति ६ कूलमुत्तीर्यं जपति समुद्राय वयुनाय सिन्धूनां पतये नमः इति ७ दुर्गमध्वानं वा प्रपाद्य जातवेदसे इति सहस्रेणा-दित्यमुपतिष्ठते ८ आसन्नभये छल द्यूतव्यहारे राजकुले व्यसने बद्धो वा नि- रन्तरमुपांशु जपेदेतदेव । दुस्स्वप्नेषु शतं जपेदेतदेव ९ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने तृतीयोऽध्यायः अथ चतुर्थप्रश्ने चतुर्थोऽध्यायः अथाभ्याघातस्स्यादग्निश्चोद्वातस्स्यात् सर्वं तत् अपहताः इति प्रोक्ष्य स्थण्डिलमुद्धृत्य तमेवाग्निमुपसमाधाय सम्परिस्तीर्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति ये देवा यज्ञहनो यज्ञमुषः इति तिसृभिरनुच्छन्दसम् १ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् २ अथ यद्यक्षभेदस्स्यात्तमेवाग्नि-मुपसमाधाय सम्परिस्तीर्याऽग्निमुखात्कृत्वा प्रधानाहुतीर्जुहोति इह धृतिस्स्वा-हेह विधृतिस्स्वाहेह रन्तिस्स्वाहेह रमतिस्स्वाहा इति ३ जयप्रभृति सिद्ध-माधेनुवरप्रदानात् ४ अथान्यमक्षमाहरति अक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिन् लोके इति ५ अथैनं रथे योजयति आतिष्ठ वृत्रहन् रथम् इति ६ अथ रथे मिथुनं प्रतिष्ठापयति प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे । प्रत्यश्वेषु प्रति तिष्ठामि गोषु । प्रत्यङ्गेषु प्रति तिष्ठाम्यात्मन् । प्रति प्रजायां प्रति तिष्ठामि भव्ये इति ७ पूर्ववददनड्वाहौ युनक्ति । अथ मिथुनं प्रतिष्ठाप्य प्रयातीति ८ अथ यदि बलवता समरथस्स्यात् पथाद्रथं प्रसर्पयति अनृणा अस्मिन्ननृणाः परस्मिंस्पृतीये लोके अनृणास्स्याम । ये देवयाना उत पितृयाणास्सर्वान् पथो अनृणा आक्षीयेम इति ९ अथ पथमवस्थाय यानाय जपति मिथुनस्य स्वस्त्ययन्यस्यपि पन्थामगस्महि स्वस्ति गामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु इति १० अथ रथमभिप्रेति पथस्पथः परिपतिम् इति ११ अथ विद्युत्स्तनिते संत्रासस्स्यात्तमस्यैन्द्र्यावृचौ जपति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति १२ अथ कर्मान्तमेव प्रतिपद्यते १३ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने चतुर्थोऽध्यायः अथ चतुर्थप्रश्ने पञ्चमोऽध्यायः अथ पाकयज्ञानां प्रायश्चित्तिः १ तद्यथा द्रव्यहविर्मन्त्रकर्मादीनामतिपन्नस्क-न्नभिन्नभग्ननष्टदुष्टविपरीतदग्धाशृत्यनिकृतानामनाम्नातेषु जुहुयात् मनो ज्यो-तिः अयाश्चाग्ने यदस्मिन् कर्मणि स्वस्ति न इन्द्रो वृद्धश्रवाः इति व्याहृतिभिश्च २ व्याहृतीनां प्रयोगे यथाकृतं यथावद्भवतीत्याचार्या ब्रुवते ३ तत्रोदाहरन्ति भूरित्यृचो भुव इति यजूंषि सुवरिति सामानि ४ प्रवृत्ते कर्मणि प्रधानादौ जुहुयादिति बोधायनः ५ प्रधानान्त इति शालिकिः ६ पुरस्तात्स्विष्टकृत इत्यौपमन्यवः ७ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने पञ्चमोऽध्यायः अथ चतुर्थप्रश्ने षष्ठोऽध्यायः अथ गर्भाधान-पुंसवन-सीमन्तोन्नयन-विष्णुबलि-जातकर्म-नामकरणो-उपनिष्क्रमण-अन्नप्राशन-चोळ-उपनयनादि कार्यं न करयेदिति समानं कर्म । तत म आपः यत्पाकत्रा मनस्वती मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति १ कालातिक्रमे प्रधानादौ द्वे द्वे मिन्दाहुती जुहुयादिति २ व्याहृतिर्पूर्वकं चेति सर्वेषां समानमाचार्यां ब्रुवते ३ तत्रोदाहरन्ति पक्वं सौविष्टकृतमाज्यं प्रणीताप्रणयनं ब्राह्मणमिध्माबर्हिरेकमिति विज्ञायत इति हि ब्राह्मणमिति हि ब्राह्मणम् ४ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने षष्ठोऽध्यायः अथ चतुर्थप्रश्ने सप्तमोऽध्यायः अथ विपरीतदर्भास्तरणपवित्रकरणपात्रसादनप्रोक्षणीसंस्कारब्रह्मप्रणीताहवि-र्निर्वापणआज्यसंस्कार स्रुक्सम्मार्जनपरिधिपरिषेचन इध्माभ्याधानविपरीते-षुप्रायश्चित्तं ततं म आपः यत्पाकत्रा मनस्वती मिन्दाहुती महाव्याहृतीः व्याहृ- तयश्च प्रायश्चित्तं जुहुयादिति बोधायनः १ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने सप्तमोऽध्यायः अथ चतुर्थप्रश्ने अष्टमोऽध्यायः अथ प्रायश्चित्तानि व्याख्यास्यामः भग्ननष्टदुष्टविपरीतस्फुटितद्विजश्वबिडाल-काकखरमृगपशुपक्षिसरीसृपाणामन्यत्कीटो वा ऋत्विजोऽग्नीनन्तरा गच्छेत् दुर्गा मनस्वती महाव्याहृतीस्तिस्रस्तन्तुमतीर्जुहुयात् सैव ततः प्रायश्चित्तिः १ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने अष्टमोऽध्यायः अथ चतुर्थप्रश्ने नवमोऽध्यायः अथातस्सप्तपाकयज्ञानां प्रायश्चित्तसमुच्चयं व्याख्यास्यामः १ हुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्तपाकयज्ञानां न प्रयाजा इज्यन्ते नानूयाजाः न सामिधेनीः २ अन्वाहतेषु कर्मस्वग्निमुप-समाधाय सम्परिस्तीर्य यत्र यत्र दर्वीहोमं कुर्यात्तत्रतत्र चरुं समवदाय जुहोति ३ सर्वत्र स्कन्ने भिन्ने छिन्ने क्षामे विपर्यासे उद्दाहे ऊनातिरिक्ते पवित्रनाशे पात्रभेदे द्वे मिन्दाहुती जुहोति ४ मक्षिकैर्मशकैर्वा रोमभिः पिपीलिकैर्वा व्यापद्येत प्रजपतये होमं कुर्यात् ५ व्यापन्नमाज्यमव्यापन्नमन्तर्हितमनाज्ञात-प्रायश्चित्तं यज्ञसमृद्धीर्जुहोति ६ अन्तरागमने प्रायश्चित्तं दशहोतारं चानुख्यां च जुहोति ७ अन्तर्हृते प्रायश्चित्तं चतुर्होतारं चानुख्यां च जुहोति ८ मण्डूकसर्पमूषिकमार्जारान्तरागमने प्रायश्चित्तं पञ्चहोतारं चानुख्यां च जुहोति ९ विकृतरूपे विकृतशब्दे विस्फुटे प्रायश्चित्तं शंयुवाकं चानुख्यां च जुहोति १० अनादिष्टं सर्वप्रायश्चित्तं व्याख्यातं वारुणीमिति निर्दिशेत् ११ संस्का-रान्तेऽग्नावुत्सन्ने तद्भस्मसमारोपणं समिधं वा यदि नोपविन्देद्याज्ञिकं वा प्रायश्चित्तं महाव्याहृतीः प्रणवं मनस्वतीं च जुहोति १२ स्वराक्षरपदवृत्तभ्रेषेषु आभिर्गीर्भिः इति १३ सर्वत्र पाकयज्ञानां सदस्येभ्यो धेनुमृषभमनड्वाहं दद्यात् १४ सदस्यास्सर्वप्रायश्चित्तानि प्रतिनिधींश्च बोधयिष्यन्तीति १५ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने नवमोऽध्यायः अथ चतुर्थप्रश्ने दशमोऽध्यायः अथ यदि होमकालेष्वग्निरुद्वातस्स्यात् सर्वं तत् अपहताः इति प्रोक्ष्य स्थण्डि-लमुद्धृत्याग्निमुपसमाधाय सम्परिस्तीर्य प्रायश्चित्तं जुहोति अयाश्चाग्ने पञ्चहोता ब्राह्मण एकहोता दश मनस्वतीः मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति १ अथ यद्युपनयनाग्निर्विवाहाग्निर्जातकाग्निश्श्मशानाग्निराच-तुर्थादादशाहादासञ्चयनादुद्वातस्स्यात् अपहता असुराः इति प्रोक्ष्य क्षिप्रं भस्म-समारोहणम् । अयं ते योनिरृत्वियः इति समिधि समारोप्य लौकिकमग्नि-माहृत्य समिधमादधाति आजुह्वानः उद्बुध्यस्वाग्ने इति द्वाभ्याम् २ सम्परि-स्तीर्य प्रायश्चित्तं जुहोति अयाश्चाग्ने पञ्चहोता ब्राह्मण एकहोता दश मनस्वती मिन्दाहुती महाव्याहृतीः व्याहृतयश्च प्रायश्चित्तं जुहुयादिति बोधायनः ३ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने दशमोऽध्यायः अथ चतुर्थप्रश्ने एकादशोऽध्यायः अथ गृहमेधिनो ब्रह्मचारिणश्चानुगतेऽग्नो कालातिक्रमे होमयोर्दर्शपूर्णमासयो-श्चाग्रयणेनानिष्ट्वा नवान्नप्राशनाज्यस्कन्नावधूतहीनमन्त्राधिककर्मणश्चाकृतसी-मन्तायां प्रसूतायां भार्यायां स्त्रीषु गोषु यमळजनने रजस्वलाऽभिगमने पति-तसम्भाषणे दिवामैथुने शूद्राऽभिगमने स्वप्नान्ते रेतस्स्कन्दने उदके मूत्र-पुरीषकरणे कुमारस्य जातस्यासंस्कारेऽकृताग्निसंसर्गे देवताविपर्यासे मन्त्र-विपर्यासे कर्मविपर्यासे ब्रह्मचारिणश्च व्रतविपर्यासे मेखलायज्ञोपवीतस्यो-च्छेदने कृष्णाजिनस्याधारणे कमण्डल्वधारणे दण्डभङ्गे सन्ध्यालोपेऽग्निका-र्यलोप उदकुम्भलोपे भिक्षाचरणस्वाध्यायलोपे शुश्रूषालोपे एतैश्चान्यैश्चानाम्ना-तेषु प्रायश्चित्तम् १ अग्निमुपसमाधाय सम्परिस्तीर्य प्रायश्चित्तं जुहोति पाहि नो अग्न एनसे स्वाहा । पाहि नो विश्ववेदसे स्वाहा । यज्ञं पाहि विभावसो स्वाहा । सर्वं पाहि शतक्रतो स्वाहा । पाहि नो अग्न एकया । पाह्युत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते । पाहि चतसृभिर्वसो स्वाहा इति २ पुरस्ताच्चोपरिष्टाच्च सानुक्रमणं यथाऽनुपूर्वकरणमविच्छिन्नं सन्ततं भवतीति ३ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने एकादशोऽध्यायः अथ चतुर्थप्रश्ने द्वादशोऽध्यायः अथ गृहस्थस्य विद्यार्थिनस्त्रियाऽभ्यनुज्ञातस्य ऋतुसंवेशनविच्छेदप्रायश्चित्तं व्याख्यास्यामः १ वसन्तो ग्रीष्मो वर्षाश्शरद्धेमन्तश्शिशिरेणर्तुकालमुक्त्वा ब्राह्मणेभ्यो निवेदयित्वा चीर्णव्रतान्तेनाथ प्रदोषे देवयजनमुदानयति २ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति यस्त्वा हृदा कीरिणा मन्यमानः इति पुरोऽनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेदः इति याज्यया जुहोति ३ अथाज्याहुतीरुपजुहोति मधुश्च स्वाहा । माधवश्च स्वाहा इत्या-ऽन्तादनुवाकस्य ४ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५ अपरेणाग्निं आज्यशेषमुदकशेषं चोभौ जायापती प्राश्नीयाताम् ६ ऋतुसंवेशनवि- च्छेदप्रायश्चित्तं व्याख्यातम् ७ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्ने द्वादशोऽध्यायः अथ गृहस्थस्य । अथ गृहमेधिनः । अथ यदि होमकालेषु । अथातस्स-प्तपाकयज्ञानाम् । अथ प्रायश्चित्तानि । अथ विपरीत । अथ गर्भाधान । अथ पाकयज्ञानाम् । अथाभ्याघातः । सर्वत्र स्वयम् । सर्वत्र दर्वी । अथातस्सप्तपाकयज्ञानाम् १२ अथातस्सप्तपाकयज्ञानाम् । सर्वत्र दर्वी । सर्वत्र स्वयम् । अथाभ्याघातः । अथ पाकयज्ञानाम् । अथ गर्भाधान । अथ विपरीत । अथ प्रायश्चित्तानि । अथातस्सप्तपाकयज्ञानाम् । अथ यदि होमकालेषु । अथ गृहमेधिनः । अथ गृहस्थस्य १२ इति बोधायनीये गृह्यसूत्रे चतुर्थप्रश्नः इति बोधायनीयगृह्यसूत्रं समाप्तम् अथ बोधायनगृह्यसूत्रे परिभाषाप्रारम्भः अथ प्रथमप्रश्नः अथ वै भवति जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः इति १ ब्रह्मचर्य व्याख्यास्यामः २ आ समावर्तनादेवैतद्भवति नाचीर्णव्रतो ब्रह्मचारी भवति इति तदाश्रमो व्याख्यातः ३ अत ऊर्ध्वं ब्रह्मचर्यं येनानृणो भवति ४ स्वदार इत्येकम् ५ मन्त्रवत्प्रयोग इत्येकम् ६ ऋतावित्यपरम् ७ अथाधिब्रह्मचर्यम् विवाहे त्रिरात्रम् ८ ऋतौ त्रिरात्रम् ९ अमावास्यायां पौर्णमास्यां श्राद्धं दत्वा भुक्त्वा चैकरात्रम् १० परस्त्रीषु दिवा च यावज्जीवम् ११ अग्न्याधेये द्वादशरात्रम् १२ आग्रयणेष्टिपशुबन्धानामुपवसथेष्वेकरात्रम् १३ एवमेव सर्वेषु वेदकर्मसु १४ चातुर्मास्येषु संवत्सरम् १५ यथाप्रयोगमन्येषु यज्ञक्रतुष्वन्यत्रर्तौ दीर्घसत्रेषु घर्मव्रतेषु च १६ तदेतद्धर्म्यं पुण्यं पुत्र्यमायुष्यं स्वर्ग्यं यशस्यमानृण्यमिति व्याख्यातं ब्रह्मचर्यम् १७ यज्ञेन देवेभ्यः इति यज्ञं व्याख्यास्यामः १८ एकविंशतिसंस्थो यज्ञ ऋग्यजुस्सामात्मकश्छन्दोभिश्चितो ग्राम्यारण्यपश्वौष-धीभिर्हविष्मान् दक्षिणाभिरायुष्मान् १९ स चतुर्धा ज्ञेय उपास्यश्च स्वाध्यायज्ञो जपयज्ञः कर्मयज्ञो मानसश्चेति २० तेषां परस्पराद्दशगुणोत्तरो वीर्येण २१ ब्रह्मचारिगृहस्थवनस्थयतीनामविशेषेण प्रत्येकशः २२ सर्व एवैते गृहस्थ-स्याप्रतिषिद्धाः क्रियात्मकत्वात् २३ नाक्रियो ब्राह्मणो नासंस्कारो द्विजो नाविद्वान् विप्रो नैतैः हीनश्श्रोत्रियो नाश्रोत्रियस्य यज्ञ इति २४ तस्मादाचारः प्रमाणं संस्था आचारः क्रिया सन्ततिरिति नित्याभावात् २५ तस्माद्यः कश्चन क्रियावान् सतामनुमताचारस्स श्रोत्रिय एव विज्ञेयः १६ अथाप्युदाहरन्ति निषेके गर्भसंस्कारे जातकर्मक्रियासु च विधिवत्संस्कृता मन्त्रैश्चीर्णव्रतसमापनाः श्रोत्रिया इति ते ज्ञेयाश्शाखापाराश्च ये द्विजाः विधिवद्गृह्य ये पाणिमृतौ चीर्णव्रतावुभौ मन्त्रवत्सम्प्रयोगे तौ ब्राह्मण्य गर्भमादधुः इति २७ तस्मादाचारः प्रमाणम् २८ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने प्रथमोऽध्यायः अथ प्रथमप्रश्ने द्वितीयोऽध्यायः अथ वै भवति सर्वेण वै यज्ञेन देवास्सुवर्गं लोकमायन् इति स एष हुतादिरासहस्रसंवत्सरान्तस्सर्वो यज्ञो यो हि यद्वेद स्वाध्यायजपकर्ममानसेषु तेनैवास्य तद्गुणेनेष्टं भवतीति तदेतन्मन्त्रब्राह्मणं व्याख्यातम् १ अथ वै भवति देवा वै पुष्टिं नाविन्दन्तां मिथुनेऽपश्यन् इत्येताद्विज्ञाय दारानाहृत्य सर्वयज्ञ-भाजो भवन्तीति व्याख्यातो यज्ञः २ प्रजया पितृभ्यः इति अथास्य प्रजा भवन्ति यानुत्पादयते यानुपनयते यान् ध्यापयते यान् याजयते इति सर्वाऽस्यैषा प्रजा भवतीति प्रजा व्याख्याता ३ एष वा अनृणो यः पुत्री यज्वा ब्रह्म- चारिवासी इत्याहिताग्निरित्येवैष उक्तो भवति ४ अथाप्युदाहरन्ति पुदिति नरकस्याख्या दुःखं च नरकं विदुः पुदि त्राणात्ततः पुत्त्रमिहेच्छिन्ति परत्र च न मांसपेशलः पुत्त्रो नाविद्वान् नाप्यकर्मकृत् स्वयं न याति यस्स्वर्गं किं पुनः पितरं तरेत् इति ५ विज्ञायते अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्रे पुत्रः पित्रे लोककृज्जातवेदः इति ६ एतस्माद्गार्हपत्य उक्तो भवति गार्हपत्यादाहवनीयस्तस्मादग्न्याधेयेनानृण आहवनीयादिति प्रणीतः तस्मात् पशुबन्धयाज्यनृणश्शालामुखीयादाग्नीध्रीय आग्नीध्रीयादपरे धिष्ण्याः ७ विभूरसि प्रवाहणः इत्येते विहरणोपस्थानीयाः एषाऽस्य दैवी प्रजा भवति इति तस्मात्सोमयाज्यनृणः ८ तस्मात् गृहस्थस्य सर्व एवैते यज्ञास्तस्मा-द्गृहाश्श्रेय इति ९ अथास्य श्रेयोऽवाप्तिरापूर्यमाणपक्ष इति पूर्वपक्ष एवैष उक्तो भवति सोमेनापूर्यमाणेन व्याख्यातः १० अहोरात्राणि वा वृद्धिमन्ति ह्रासवन्ति च भवन्ति । यत्राह्नां वृद्धिर्भवति स एवैष उक्तो भवतीति ११ अथ हैकेषां विज्ञायतेऽह्नः पञ्चसु कालेषु कुर्वीतेत्युदगयन इत्येवेदमुक्तं भवति १२ संवत्सरो वै देवानामहोरात्रं तस्यैतदुदगयनमहः दक्षिणायनं रात्रि-स्तस्याह्नः पञ्चसु कालेषु कुर्वीतेति तस्य प्रातस्सङ्गवौ शिशिरवसन्तौ मध्यंदिनं ग्रीष्मोऽपराह्णसायाह्ने वर्षाशरदौ प्रातस्सङ्गवे सायमिति विवाहं न कुर्वन्ति । काममितराणि १३ अथान्यत्रापि कुर्वन् भवति पुण्ये नक्षत्र इति । देवनक्षत्राणि वा अन्यानि । यमनक्षत्राण्यन्यानि । यानि देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् इत्येवेदमुक्तं भवति १४ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने द्वितीयोऽध्यायः अथ प्रथमप्रश्ने तृतीयोऽध्यायः विष्णुश्च ह वै सोमश्च ब्रह्मवाद्यमवदेतामहं ब्राह्मणानां प्रतिष्ठेति विष्णुरब्रवीदहं प्रतिष्ठेति सोमस्तौ प्रजापतिं प्रश्नमैतां सोऽब्रवीत्प्रजापतिश्छन्दांसि विष्णुम-धिगच्छन्ति नक्षत्राणि सोमं तावुभौ ब्रह्मण्याविति सोऽब्रवीत्पूजितौ पूजयन्तॐ स्तुतौ स्तुन्वन्तौ प्रियौ प्रियन्तौ ब्रह्मण्यौ ब्रह्मवित्तौ वरप्रतिष्ठातारौ भवत इति १ यन्मां ब्राह्मणा वक्ष्यन्ति यज्ञेषु सोऽहमिति विष्णुरब्रवीत्तस्माद्विष्णुर्यज्ञो यज्ञो वै ब्राह्मणानां प्रतिष्ठेति । विज्ञायते च ब्राह्मणा वै छन्दांसि इत्येतस्मात् २ यन्मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु सोऽहमिति सोमोऽब्रवीत्तस्माद्ब्राह्मणानां सोमो राजा तस्माद्विज्ञायते च ब्राह्मणो वा अष्टाविंशो नक्षत्राणां तत्तस्य वचः पुण्यम् इति ३ तावुभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ ४ य एवं विद्वान् ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्ध्या इति ५ युग्ममयुग्ममिति समं विषमं चैतेन देवं पित्र्यं च व्या-ख्यातम् ६ वेदकर्माणि प्रयोक्ष्यन्नादित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधायाप अचम्यैकविंशत्या दर्भपुञ्जीलैरात्मानं पवयित्वा यस्य कुर्वन् भवति तं पवयति पवित्रं वै दर्भाः पवित्रं विष्णुस्स प्रतिष्ठा सोमस्य प्रतिष्ठित्यै इति विज्ञायते ७ एकविंशत्या पवयत्येकविंशो वै यज्ञ एकविंशः पुरुष एकविंश-तिश्छन्दांस्येकविंशतिर्वै देवलोकाः छन्दोभिरेवैनं यज्ञेन यजमानमेकविंशे प्रतिष्ठाप्य पूतं मेध्यं यज्ञियं पवयति । सप्तभिः पवयति सप्त छन्दांसि छन्दोभिरेवैनं पवयति । सप्तभिः पवयति सप्तैवास्यैते पुरुषास्सन्तति-मनुसन्तन्वन्ति त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनान् पवयति । त्रेधा विभक्तैः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति इति ब्राह्मणम् ८ अथाप आचम्य बाह्याभ्यन्तरतः पूतो मेध्यो यज्ञियो भूत्वा वेदकर्माणि प्रयोक्ष्यन् पूर्वेद्युरेव युग्मान् ब्राह्मणान् भोजयेदिति नान्दीमुखा एवैता उक्ता भवन्ति ९ तेषु भुक्तवत्सु स्वधायै स्थाने मधु मनिष्ये मधु जनिष्ये इत्येतद्यजुर्जपित्वा नान्दीमुखाः पितरः प्रीयन्ताम् इत्यपो निनयति स्वधैवैषोक्ता भवति २० नैकाह्ना पित्र्यम् दैवं च कुर्वन्ति यस्यैकाह्ना पित्र्यं दैवं च कुर्वन्ति प्रजा हास्य प्रमायुका भवति तस्मात्पितृभ्यः पूर्वेद्युः क्रियते पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानः प्रतनुते इति ब्राह्मणम् ११ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने तृतीयोऽध्यायः अथ प्रथमप्रश्ने चतुर्थोऽध्यायः अथापरेद्युर्देवानामिति १ अथापरेद्युर्ब्राह्मणानन्नेन परिवेषयेदिति दैवतं भवति २ यद्देवत्यं भवति तस्य पुण्याहं वाचयिष्यन्नाम गृह्णात्यसौ प्रीयतामिति ३ पुण्याहं वाचयिष्यन् ब्राह्मणान् संपूजयति ४ अरिक्तपाणयः प्राङ्मुखा युग्मास्तिष्ठन्ति ५ तेषां दक्षिणत उदङ्मुखोऽपिहितमुदकुम्भं धारयन् वाचयिता तिष्ठति ६ तस्य दक्षिणं बाहुमन्वितरस्तिष्ठति ७ अथैनान् संपूजयति मनस्समाधीयताम् इति ८ समाहितमनसः स्मः इतीतरेषां प्रतिवचनम् ९ मनो वै चन्द्रमा ब्राह्मणा नक्षत्राणि तस्माद्ब्राह्मणेषु मनस्समादधाति १० प्रसीदन्तु भवन्तः इति । प्रसन्नास्स्मः इतीतरेषां प्रतिवचनम् ११ तथैवास्य प्रसन्ना भवन्ति १२ शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । ऋद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु इत्याशिषमेवैतामाशास्ते १३ तथैवेतरेषां प्रतिवचम् १४ ओमिति ब्रह्म । ओमितीदं सर्वम् तस्मादोमिति सन्धाय पुण्याहं भवन्तो ब्रुवन्तु इत्येतेनाहश्च नक्षत्रं च पूते भवतस्ते एवैनं पूते पुनीतः १५ ॐ स्वस्ति भवन्तो ब्रुवन्तु इत्येतेन गोब्राह्मणस्याशीरुक्ता भवति । त एवैनमशिषा समर्धयन्ति १६ ऋद्धिं भवन्तो ब्रुवन्तु इत्येतेन ऋग्यजुस्साम्नामृद्धिरुक्ता । तैरेव ऋद्धिमान् भवति १७ य एवं विद्वान् पुण्याहं वाचयति नास्य कर्मोपहतं भवति १८ यत्कर्म करोत्यपरेणाग्निं प्रदक्षिणमुपचारो यज्ञोपवीती दैवानि कर्माणि क्रियते विपरीतं पित्र्येषु १९ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने चतुर्थोऽध्यायः अथ प्रथमप्रश्ने पञ्चमोऽध्यायः अथ शुचौ समे देशे इति कथं विज्ञायते १ गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्तं भवति तच्छुचिर्भवति २ तस्य मध्यात् उद्धृत्यावोक्ष्या-रत्निमात्रं समचतुरतुरश्रं स्थण्डिलं करोति । तत्रोल्लेखनादि कर्म प्रतिपद्यते ३ दर्भेषु दक्षिणतो ब्राह्मण उपविशति । स यद्युपविशत्यादिशो व्युन्नय-न्नाशास्ते ४ यद्यु वै नोपविशति दर्भेषु दक्षिणतः प्रागग्रं कूर्चं निधाय ॐ भूर्भुवस्सुवरॐ ब्रह्मन् ब्रह्मासि नमस्ते ब्रह्मणे इत्युपतिष्ठते ब्रह्मैवात्रासीनो भवति तस्मै वरं ददाति ब्राह्मणं वा भोजयेदिति ५ एतेन सशिरस्को यज्ञः यो वै यज्ञस्य शिरो वेद शीर्षण्वान् मेध्यो भवति इति ६ उत्तरत उदपात्रं ब्राह्म-णमिध्माबर्हिरिति एतद्वै यज्ञस्य शिरो य एवं वेद शीर्षण्वान् मेध्यो भवति इति ब्राह्मणम् ७ अथ शम्याः परिदधाति शम्या वा परिधयो वा इति विज्ञायते । नापरिधाय जुहुयात् रक्षसामपहत्यै इति ८ सर्वत्र परिसमूहनपर्युक्षणपरि-स्तरणपरिधानोपसमाधानालङ्करणमित्यादरादाचार्याः ९ सर्वत्रालङ्कृत्य ये तत्र ब्राह्मणास्सन्ति ताननुज्ञाप्य कुर्वीत यत्कारी स्यात् समृद्धमेवास्य तत् १० इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने पञ्चमोऽध्यायः अथ प्रथमप्रश्ने षष्ठोऽध्यायः सर्वत्र दर्वीहोमेष्वाघारवत्सु पुरोनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वाय इति ब्राह्मणम् १ यत्रैकाऽऽम्नाता स्यात्तां द्विरभ्यावर्तयेत् २ तत्सवितुर्वरेण्यम् इत्यनुद्रुत्याम्नातायां जुहोति । अथ वा भूर्भुवस्सुवरोम् इत्यनुद्रुत्य तत्सवितु-र्वरेण्यम् इति जुहोति ३ अनाम्नातेषु तदेतत्सर्वप्रायश्चित्तम् ४ विष्णव आहुतीषु नामकरणोपनिष्क्रामणान्नप्राशनोपाकर्मव्रतेषु च पक्वहोमस्स्यान्नापक्वाः पाक-यज्ञास्सर्वत्र पक्वहोमं कुर्यादिति ५ एतेन होमदानप्राशनानि व्याख्यातानि भवन्ति पक्वाज्जुहोति पक्वाद्ददाति पक्वात्प्रश्नातीति पाकयज्ञास्तस्माद्धुत-प्रहुताहुतेषु पक्वः कार्य इति ६ एकविंशतिदारुमिध्मं करोति यज्ञस्य सरू-पत्वाय ७ अभिघारयति तेजसैवैनं समर्धयति इति ब्राह्मणम् ८ अरत्निमात्रीं दर्वीं बाहुमात्रीमित्यपरम् ९ अथ वै भवति निरृतिगृहीता वै दर्वी यद्दर्व्या जुहुयान्निरृत्याऽस्य यज्ञं ग्राहयेत् इति दर्व्याऽन्नस्य जुहोति स्रुवेणाज्यस्य वैकङ्कती स्रुगाकृतिर्भवति इति विज्ञायते १० अथाप्युदाहरन्ति यथा सुभूमिजो वृक्षस्सुमूलस्सुप्रतिष्ठितः बहुशाखस्सुपुष्पश्च फलवानुपयुज्यते ११ देवदानवगन्धर्वैः ऋषिभिः पितृभिस्तथा पक्षिभिः षट्पदैश्चापि मशकैश्च पिपीलिकैः १२ एवं हि पाकयज्ञेषु सर्वमेतत्प्रतिष्ठितम् हुतस्सुभूमिर्विज्ञेया मूलं प्रहुत उच्यते १३ आहुतोत्र प्रतिष्ठानं यज्ञवृक्षो महोच्छ्रयः बह्व्यस्तस्य स्मृताश्शाखास्सुपुष्पास्सुफलोपगाः १४ मन्त्रब्राह्मणतत्त्वज्ञैस्सुदृष्टास्ता उपासकैः एवं हि यज्ञवृक्षस्य योऽभिज्ञः श्रोत्रियस्स्मृतः १५ दारस्याहरणं कुर्यात्कर्मेत्येवं विपश्चितः सुभूमिं च सुमूलं च सुप्रतिष्ठानमेव च १६ वृक्षं पुष्पफलोपेतं बहुशाखं स पश्यति ज्ञानं सुभूमिराचारो मूलं श्रद्धा प्रतिष्ठितिः १७ क्षमाऽहिंसा दमश्शाखाः सत्यं पुष्पफलोपगम् ज्ञानोपभोग्यं बुद्धानां गृहिणां यज्ञपादपम् १८ अकामहतया बुद्ध्या त्यक्ताहङ्कारलोभया निश्चयाध्यवसायाभ्यां चक्षुर्भ्यां स तु पश्यति १९ तस्यैको वज्रसङ्काशः क्रोधः परशुरुच्यते तेनैव माच्छिनन् मोहात् त्याज्यः क्रोधो गृहेष्वतः २० गृहा मूलं हि यज्ञानां गृहा ह्यानृण्यकारणम् गृहाह्याश्रमपूजार्थं स्थित्यर्थं च गृहास्स्मृताः २१ पाकयज्ञा हविर्यज्ञास्सोमयज्ञाश्च ते त्रयः स्थिता मूलेषु वृक्षेषु प्रमादी तेषु सीदति । इति इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने षष्ठोऽध्यायः अथ प्रथमप्रश्ने सप्तमोऽध्यायः अथ विवाहस्यारुन्धत्युपस्थानात्कृत्वा व्रतमुपैति अग्ने व्रतपत उपयमनव्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां वायो व्रतपते आदित्य व्रतपते व्रतानां व्रतपते उपयमनं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् इति १ उभौ जा-यापती व्रतचारिणौ भवतोऽधश्शयाते तयोश्शय्यामन्तरेणौदुम्बरदण्डो गन्धा-नुलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठत्यापक्वहोमान्निशायाम् २ हुते प-क्वहोमे व्रतं विसृज्य दण्डमुत्थापयति ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह त्वया वयमिषमूर्जं वदन्तो रायस्पोषेण समिषा मदेम इति ३ अथैनं वध्वै प्रयच्छति प्रजया त्वा संसृजामि मासरेण सुरामिव इति ४ तं वधूः प्रतिगृह्णाति प्रजावती भूयासम् इति ५ अथैनं वराय प्रयच्छति प्रजया त्वा पशुभिस्संसृजामि मासरेण सुरामिव इति ६ तं वरः प्रतिगृह्णाति प्रजावान् पशुमान् भूयासम् इति ७ अथैनं स्थूणादेशे निधायान्तिकेन प्रतिपद्यते ८ प्रसिद्धमुपसंवेशनम् ९ श्वोभूते दण्डमादाय पुण्याहं वाचयि-त्वाऽप्सु विसर्जयति १० अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुवः इति द्वाभ्याम् ११ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १२ स एष पार्वणो भवति १३ अथास्तमित आदित्येऽन्यो-न्यमलङ्कृत्योपरि शय्यायां शयाते १४ अथ वधूमभिमन्त्रयते सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्वा याथास्तं विपरेतन इति १५ अथैनां सर्वसुरभिगन्धया मालया युनक्ति सं नौ मनस्सं हृदयानि नौ सं नाभिस्सं तनुत्वचः सं त्वा कामस्य योक्त्रेण युज्याम्यविमोचनाय इति १६ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने सप्तमोऽध्यायः अथ प्रथमप्रश्ने अष्टमोऽध्यायः अथ दशमोऽहन्ययुग्मा ब्राह्मणाः श्राविता भवन्ति १ अथ देवयजनो-ल्लेखनप्रभृत्याऽग्निमुखात् कृत्वा पक्वाज्जुहोति विश्वे देवाः विश्वे देवाः इति द्वाभ्याम् २ अथ वैश्वदेवं करोति ३ तूष्णीं सर्वाण्यायतनानि गन्धपुष्पधूपदीपैः प्रत्यलङ्करोति ४ प्रसिद्धं बलिहरणम् ५ वैश्वदेवं कृत्वाऽपरेणाग्निं दर्भेष्वासीनो दर्भान् धारयमाणः प्राङ्मुखस्सावित्रीं सहस्रकृत्य आवर्तयेच्छतकृत्वोऽपरिमि-तकृत्वो वा दशवारं वा ६ वेदादीन् छन्दांसि कूष्माण्ड्यानि चाधीयीत ७ अथ यज्ञसमृद्धीर्जुहोति इष्टेभ्यस्स्वाहा वषडनिष्टेभ्यस्स्वाहा इति ८ अष्टौ स्रवाहुतीर्हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ९ अथापरः आपरि-धानात्कृत्वा विश्वेभ्यो देवेभ्यः ब्राह्मणावुपवेश्य गन्धपुष्पधूपदीपैरभ्यर्च्य वैश्वदेवेन चरुणाऽनुदिश्य विश्वेभ्यो देवेभ्यस्स्वाहा इति १० अथ प्राचीनावीतं कृत्वा सौवर्णं राजतं ताम्रायसकांस्यं मृन्मयं वा पात्रं याचति ११ तद्दक्षिणाग्रेषु दर्भेषु सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानं पात्रं कृत्वा प्रोक्ष्य तस्मिन् तिरः पवित्रमप आनयन्नाह आम आगन्तु पितरो देवयानान् समुद्रान् सलिलान् सवर्णानस्मिन् यज्ञे सर्वकामान् लभन्तेऽक्षीयमाणमुपदुह्यन्तामिमाः पितृभ्यो वो गृह्णामि पितामहेभ्यो वो गृह्णामि प्रपितामहेभ्यो वो गृह्णामि इति १२ अपोद्धुत्य पवित्रं तिलानावपति तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्नस्वधयेहि पितॄनिमान् लोकान् प्रीणयाहि नस्स्वधा नमः इति १३ अथ तिरः पवित्रं मध्वानयति मधु वाता ऋतायते इति तिसृभिरनुच्छन्दसम् १४ अथैनत्सर्वाभिरङ्गुलीभिस्समुदायुत्याभिमृशति सोमस्य त्वित्विषिरसि त-वेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाहि इति १५ तस्मिंश्चित्किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्न्या चोपसङ्गृह्येमां दिशं निरस्यति अवेष्टा दन्दशूका निरस्तं नमुचेश्शिरः इति १६ अथाप उपस्पृश्य पुनरेवाभिमृशति शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः इति १७ अथैनद्गन्धपुष्पधूपदीपैरभ्यर्च्य दक्षिणाम्रेषु दर्मैः प्रतिच्छाद्य भोज-नस्थानेष्वासनेषु च तिलान् सिकताश्च सम्प्रकिरति अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः इति १८ अथैनदद्भिरवोक्षति उदीरतामवर उत्परास उन्मध्यमाः । पितरस्सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु इति १९ अथ पितॄनावाहयति आयात पितरस्सोम्या गम्भीरैः पथिभिः पूर्व्यैः । प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च इति २० अथ ब्राहमणानाहूय सदर्भोपकॢप्तेष्वासनेषूपवेश्य प्रसिद्धमग्नौ कृत्वा श्राद्धं पञ्च स्रुवाहुतीर्जुहोति याः प्राचीस्सं भवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमस्स्वाहा । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमस्स्वाहा । अन्तर्दध ऋतुभिस्सर्वैरहोरात्रैस्ससन्धिकैः । अर्धमासैश्च मासैश्च मासैश्चान्तरन्यं प्रपिता-महाद्दधे स्वधा नमस्स्वाहा । यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्क्तां माऽऽभुरन्योऽवपद्यतां स्वधा नमस्स्वाहा । यद्वः क्रव्यादङ्गम-दहर्लोकाननयन् जातवेदाः । तद्वो अहं पुनरावेशयाम्यरिष्टास्सर्वैरङ्गैस्संभवथ पितरस्स्वधा नमस्स्वाहा इति २१ त्रेधा वपां विभज्यौदुम्बर्या दर्व्या जुहोति सोमाय पितृमते शुष्मिणे जुहुमो हविः । वाजन्निदं जुषस्व नस्स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा । अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे । वैवस्वतेदमद्धि नस्स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा । यदग्ने कव्यवाहन पितॄन्यक्षि ऋतावृधः । प्र देवेभ्यो वह हव्यं पितृभ्यश्च स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा इति २२ अथापूपमष्टधा विभज्य त्रीण्यवदानानि वपायाः कल्पेन हुत्वाऽथेतराणि ब्राह्मणेभ्यो दत्वाऽत्रैतान्य-वदानानीडासूने प्रतिच्छाद्यौदनं मांसं यूषमित्याज्येन समुदायुत्यौदुम्बर्या दर्व्योपघातं दक्षिणार्धे जुहोति पितृभ्यस्स्वधा नमस्स्वाहा इत्यादिः । सर्वाभ्यस्स्वधा नमस्स्वाहा इत्यन्तो मन्त्र ऊह्यः २३ अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा इति २४ परिवेष्य भुक्तवतोऽनुव्रज्य प्रदक्षिणी-कृत्य शेषमनुज्ञाप्यैतेनैव यथेतमेत्यान्नशेषेण तिस्र आहुतीर्जुहोति यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्क्तां माऽऽभुरन्योऽवपद्यतां स्वधा नमस्स्वाहा २५ यन्मे पितामही प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पितामहो वृङ्क्तां माऽऽभुरन्योऽवपद्यतां स्वधा नमस्स्वाहा २७ यन्मे प्रपितामही प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः प्रपितामहो वृङ्क्तां माभुरन्योऽवपद्यतां स्वधा नमस्स्वाहा इति २६ दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वन्नशेषैः त्रीन् पिण्डान् ददाति एतत्ते ततासौ ये ते मातामहा ये त आचार्यां ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्तेवासिनस्तेभ्यश्च पत्न्यस्तेभ्यस्ताभ्यश्च स्वधा नमः इति २८ द्वितीयं ददाति एतत्ते पितामहासौ ये ते मातामहा ये त आचार्या ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्तेवासिनस्तेभ्यश्च पत्न्यस्तेभ्यस्ताभ्यश्च स्वधा नमः इति २९ तृतीयं ददाति एतत्ते प्रपितामहासौ ये ते मातामहा ये त आचार्या ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्तेवासिनस्तेभ्यश्च पत्न्यस्ते- भ्यस्ताभ्यश्च स्वधा नमः इति ३० अत्र भूमौ लेपं निमार्ष्टि ये नः पतिता गर्भा असृग्भाज उपासते तेभ्यस्स्वजा स्वधा नमस्तृष्णुवन्तु मदन्तु च ३१ य आमा ये पक्वा ये च दुष्टाः पतन्ति नः तेभ्यस्स्वजा स्वधा नमस्तृष्णुवन्तु मदन्तु च ३२ ये कुमारा यास्त्रियो येऽविज्ञाताः पतन्ति नः तेभ्यस्स्वजा स्वधा नमस्तृष्णुवन्तु मदन्तु च इति ३३ अथैनान् सङ्क्षाळनेनाभिषिञ्चति ये समानाः ये सजाताः इति द्वाभ्याम् ३४ अथ ये बर्हिषि पिण्डास्तेषां तथैव सङ्क्षाळनेन त्रिरपसलैः परिषिञ्चति ऊर्जं वहन्तीः इति ३५ जयप्रभृति सिद्धमत ऊर्ध्वम् ३६ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने अष्टमोऽध्यायः अथ प्रथमप्रश्ने नवमोऽध्यायः अथ वै भवति किञ्चिद्यज्ञस्य वाऽतिवेलं वा श्रद्धायुक्तस्य तत्त्वविदः १ पात्रमासाद्य नक्षत्रे वा ब्राह्मणानाहूय सदर्भोपक्लुप्तेष्वासनेषूपवेश्यामन्त्रयते भवत्स्वेवाग्नौ करणं पिण्डाश्च इत्येव ब्रूयात् २ तथेत्युक्तस्तेषां सपवित्रेषु पाणिषु तिलोदकं ददाति । तथाऽलङ्कृत्य ददाति । तथैव भुक्तवत्सु च ददाति ३ नोच्छिष्टं परिससूहति ४ अत्र त्रीन् पिण्डान् ददाति ब्राह्मणेभ्यो दक्षिणतः ५ विज्ञायते च ब्राह्मणो वै सर्वा देवताः एष वा अग्निर्वैश्वानरो यद्ब्राह्मणः इति ६ हुतमेवास्य भवति ७ अथ यद्यग्नौ कुर्यादौपासने पचने वाऽन्नस्य तिस्र आहुतीर्जुहोति सोमाय पितृपीताय स्वधा नमस्स्वाहा । यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा इति ८ हुतमेवास्य भवति ९ अपि वा सङ्कल्पेन ब्राह्मणान् भोजयेत् सङ्कल्पसिद्धिरस्तु इति वाचयित्वा १० एवमापत्सु कुर्वीत न च नित्यं तु कारयेत् ये नित्या उपासते श्राद्धानि च हवींषि च ११ गामत्र कुर्यादिति बोधायनः १२ तस्या औपवसथ्यया कल्पो व्याख्यातः १३ आमिक्षया वैतत्क्रियत इति शालीकिः १४ अपूपेनेत्यौपमन्यवः १५ चरुणा वेत्योपमन्यवीपुत्रः १६ पितृणामनृणो भवति इति विज्ञायते १७ अथोप-निष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा प्रतोदमिषुं च ब्राह्मणेभ्यो दत्त्वा प्रदक्षिणीकृत्य गृहानेत्य अध्वर्युं वृणीते कुनखिनमाङ्गिरसमिति १८ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने नवमोऽध्यायः अथ प्रथमप्रश्ने दशमोऽध्यायः विवाहो व्याख्यातः । अत्राग्न्याधेयस्य कालः १ यथाश्रद्धमत ऊर्ध्वं जीवति पितर्यग्नीनादधीतेति बोधायनः २ जीवति मृते वा जायामवाप्य दशमेऽहनीति शालीकिः ३ मा दुर्ब्राह्मणो भवति ४ अथाप्युदाहरन्ति यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः । इति ५ औपासनो वा नित्यो धार्य इति न दुर्ब्राह्मणो भवति ६ औपासनं वा धार-यमाणो ब्रह्मौदनं कृत्वोत्त्सृज्य कर्मणि कर्मण्येवैनं पुनस्संस्कृत्याहरति ७ यद्यु वै नाधास्यमानो भवति नैनमुत्सृजति ८ अथ वै भवति अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्तस्या उच्छेषणमददुस्तत्प्रश्नात् इति ९ यस्य पत्नी गृहे ऋतुमती भवति तस्यैतद्व्रतं यथा विवाहे त्रिरात्रम् १० एतावदेव नाना नात्र पत्नी दण्डेन सह शेते । न स्नाति । चतुर्थ्यां स्नाति । ब्रह्मौदनस्य च प्राश्नाति ११ यः कामयेत देवेभ्य ऋषिभ्यः पितृभ्योऽनृणो भूयासमिति तस्यैतद्व्रतमृतावृतौ भवति १२ पुंसवनं विष्णव आहुतीश्च नित्याः १३ पुंस-वनप्रभृत्याज्याभिघारितं पत्न्यश्नात्या प्रसवात् १४ अष्टममासमुष्णोदकेन स्नात्वा विष्णवे बलिमुपहृत्य व्रतयति १५ अथ पुत्रप्रसूर्भवतीति विज्ञायते १६ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने दशमोऽध्यायः अथ प्रथमप्रश्ने एकादशोऽध्यायः स यदि पुत्रप्रसूर्भवति प्रसिद्धमौपासने जातकर्म कृत्वाऽन्यत्र फलीकरणहोमं जुहोति स सूतकाग्निर्भवति १ तं दशाहं धारयति २ अथ नवम्यां व्युष्टायां सूतकाग्नावाज्यं विलाप्योत्पूय युगमुत्थापयति ब्रह्मजज्ञानम् इति ३ अथो-दकुम्भमुत्थापयति भूर्भुवस्सुवरोम् इति ४ अथैनमप्सु विसर्जयति समुद्रं वः प्रहिणोम्यक्षितास्स्वां योनिमपि गच्छत । अच्छिद्रः प्रजथा भूयासं मा परासेचि मत्पयः इति ५ अथैतेनैव यथेतमेत्य सूतकाग्निमुपतिष्ठते बोधा नो अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधा वः । पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तनुवं वन्दे अग्ने इति ६ अथ पुत्रप्रसूमुपतिष्ठते सबोधि सूरिर्मघवा वसुदा वा वसुपतिः । युयोध्यस्मद्द्वेषांसि इति ७ अथ कुमारमुत्थापयति उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतस्सुदानवः । इन्द्र प्राशूर्भवा सचा इति ८ अथैनमादायोपनिष्क्रम्य आदित्यमुदीक्षयति उद्वयं तमसस्परि उदुत्यं चित्रं तद्विष्णोः परमं पदम् इति चतसृभिः ९ अथ तेनैव यथेतमेत्य कुमारं मातृहस्ते दत्वा सूतकाग्ना वाज्यस्य जुहोति हिरण्यगर्भस्स-मवर्तताग्रे इत्यान्तादनुवाक्यस्य प्रत्यृचम् १० उत्सृजसि सूतकाग्निम् २२ आयुर्दा अग्ने हविषो जुषाणः इत्यरण्योर्वा समारोपयते १२ तमुपनयने मन्थति १३ अथौपासनमुपतिष्ठते अग्न आयूंषि पवसे अग्ने पवस्व स्वपाः इति द्वाभ्याम् १४ ज्योतिष्मत्या पुत्रस्य नाम गृह्णाति अन्नादमेवैनं करोति इति ब्राह्मणम् १५ अथैनं मूÞर्यवघ्रायाभिमन्त्रयते अग्निरायुष्मान् इति पञ्चभिः पर्या यैः १६ प्रवासादेत्यागतं वा पुत्रमेतैरेवाभिमन्त्रयते १७ प्रसिद्धं दशम्यामुत्थानम् १८ दशम्यां द्वादश्यां वा नामकरणम् १९ नामकरणोपनिष्क्रामणान्नप्राशनानि ब्राह्मणभोजनादेवैकेषाम् २० पुण्याहवाचनादेवैकेषाम् २१ प्रसिद्धे चौळोप नयने २२ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने एकादशोऽध्यायः अथ प्रथमप्रश्ने द्वादशोऽध्यायः अथोपनीतस्याव्रत्यानि भवन्ति १ नान्यस्योच्छिष्टं भुञ्जीतान्यत्र पितृज्येष्ठाभ्याम् २ न स्त्रिया सह भुञ्जीत ३ मधुमांसश्राद्धसूतकान्नमनिर्दशाहं सन्धिनीक्षीरं छत्राकनिर्यासौ विलयनं गणान्नं गणिकान्नमित्येतेषु पुनस्संस्कारः ४ प्रतिषिद्धदेशगमनमित्येकेषाम् ५ अथाप्युदाहरन्ति सौराष्ट्रं सिन्धुसौवीरम-वन्तीं दक्षिणापथम् । एतानि ब्राह्मणो गत्वा पुनस्संस्कारमर्हति । इति ६ अथ पुनस्संस्कारान् व्याख्यास्यामः ७ अथ देवयजनोल्लेखनप्रभृत्याऽग्नि-मुखात् कृत्वा पालाशीं समिधमाज्येनाक्त्वाऽभ्याधापयन् वाचय्ति पुन-स्त्वाऽऽदित्या रुद्रा वसवस्समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तनुवो वर्धयस्व सत्यास्सन्तु यजमानस्य कामास्स्वाहा इति ८ अथाव्र-त्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दाऽभूत् पुनरग्निश्चक्षुरदात् इति द्वाभ्याम् ९ अथ पक्वाज्जुहोति सप्त ते अग्ने समिधस्सप्त जिह्वाः इति १० अथा-ज्याहुतीरुपजुहोति येन देवाः पवित्रेण इति तिसृभिरनुच्छन्दसम् ११ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १२ अथापरः आपरिधानात्कृत्वा पालाशीं समिधमाधायाव्रत्यप्रायश्चित्ते जुहोति १३ अथ व्याह्यतिभिर्जुहोति १४ अथापरः ब्राह्मणवचनादेव सावित्र्या शतकृत्वो घृतमभिमन्त्र्य प्राश्य कृतप्रायश्चित्तो भवति १५ गुरोर्वोच्छिष्टं भुञ्जीत १६ अथाप्युदाहरन्ति वपनं दक्षिणादानं मेखलादण्डमजिनं भैक्षाचर्या व्रतानि चैतानि निवर्तन्ते पुनस्संस्कारकर्मणीति १७ एते पुनस्संस्कारा व्याख्याताः १८ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने द्वादशोऽध्यायः अथ प्रथमप्रश्ने त्रयोदशोऽध्यायः वेदमधीत्य स्नात्यन्नुपकल्पयते एरकां चोपबर्हणं च नापितं क्षुरं च दारूणि चोपस्तरणं च वृकलांश्च दन्तधावनमुष्णाश्चापश्शीताश्च सर्वसुरभिपिष्टं चाञ्जनं च स्रजं चादर्शं चाहतं च वासः प्रावारं च वसनान्तरं बादरमणिं सुवर्णोपधानं सूधं च प्रवर्तौ च दण्डं चोपानहौ च छत्रमानडुहं चर्म सर्वलोहितमित्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति १ अथ स्नानस्य मीमांसा २ रोहिण्यां स्नाया-दित्येकम् प्राजापत्यं वा एतन्नक्षत्रं तदस्य प्राजापत्य एव नक्षत्रे स्नातं भवत्यथो सर्वान् रोहान् रोहति इति ३ तिष्ये स्नायादित्येकम् बार्हस्पत्यं वा एतन्नक्षत्रं तदस्य बार्हस्पत्य एव नक्षत्रे स्नातं भवत्यथो बृहस्पतिप्रसूतोऽसानि इति ४ उत्तरयोः फल्गुन्योस्स्नायादित्येकम् भग्यं वा एतन्नक्षत्रं तदस्य भग्य एव नक्षत्रे स्नातं भवत्यथो भग्योऽसानि इति ५ हस्ते स्नायादित्येकम् सावित्रं वा एतन्नक्षत्रं तदस्य सावित्र एव नक्षत्रे स्नातं भवत्यथो सवितृप्रसूतोऽसानि इति ६ चित्रायां स्नायादित्येकम् ऐन्द्रं वा एतन्नक्षत्रं तदयैन्द्र एव नक्षत्रे स्नातं भवत्यथो चित्रोऽसानि इति ७ विशाखयोस्स्नायादित्येकम् ऐन्द्राग्नं वा एतन्नक्षत्रं तदस्यैन्द्राग्न एव नक्षत्रे स्नातं भवत्यथो विशाखोऽसानि प्रजया पशुभिः इति ८ एतेषामेकस्मिन्नापूर्यमाणपक्षे पुरादित्यस्योदयाद्व्रजमभिप्रपद्यते नैनमेत-दहरादित्योभितपेत्तदहस्स्नातानां मुखं वा एष एतत्तेजसा यशसा तपति ९ अन्तर्लोम्ना चर्मणा व्रजमभिनिध्नन्ति १० पूर्वार्धमध्ये व्रजस्याग्निमुपसमाधाय सम्परिस्तीर्य आहरन्त्येतान् सम्भारान् सकृदेव सर्वान् यत्सह सर्वाणि मानुषाणि इत्येतस्मात् ब्राह्मणात् ११ दक्षिणतो ब्राह्मण उपविशति १२ उत्तरत उदपात्रं पालाशीं च समिधं निदधाति १३ अपरेणाग्निमुदीचीन-प्रतिषेवणामेरकां साधिवासामास्तीर्य तस्यां प्राङ्मुख उपविशति १४ उत्तरतो नापितः १५ उत्तरत उपबर्हणम् १६ आमध्यन्दिनं भिक्षां दद्यात् १७ अपीह गां पचेद्वशा चेत्स्यादत्रैताम् १८ पालाशीं समिधमाज्येनाक्त्वा मध्यन्दि-नेऽभ्यादधाति इमं स्तोममर्हते जातवेदसे रथमिव संमहे मा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्रे सख्ये मा रिषामा वयं तव स्वाहा इति १९ अथैरकायामुदीचीनशिरा निपद्यते त्र्यायुषं जमदग्ने कश्यपस्य त्र्यायुषं अगस्त्यस्य त्र्यायुषमृषीणां त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् इति २० क्लिद्यमानमनुमन्त्रयते शिवा मे भवथ संस्पर्शाः इति २१ क्षुरमभिमन्त्रयते क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिंसीः इति २२ उप्यमानमनुमन्त्रयते यत्क्षुरेण वर्चयसि वप्ता वपसि केशश्मश्रु वर्चया मे मुखं मा म आयुः प्रमोषीः इति २३ श्मश्रूण्येवाग्रे वपतेऽथोपपक्षावथ वेशान् यथोपपादभितराण्यङ्गानि २४ एतस्माद्ध्येषा जरसा पूर्व आयुषि प्रयान्ति पर्व आयुष्यन्नादा भवन्ति य एवं विद्वासो लोमानि वापयन्ते स यदि लोमानि वापयिष्यमाणस्स्यात् केशश्मश्रु वापयित्वा लोमानि संहृत्य नखानि निकृन्त-यीत २५ अथैनानि समुच्चित्य ब्रह्मचारिणे प्रयच्छन्नाह इमानि हृत्वा दर्भस्तम्बे वोदुम्बरमूले वा निधत्तात् इति । तानि स तत्र निदधाति २६ अपरेणाग्निं प्राङ्मुख उपविश्य मेखलां विस्रंसयति इमं विष्यामि वरुणस्य पाशम् इति २७ योऽस्य तत्र रातेः पुत्रो वान्तेवासी भवति तस्मै प्रयच्छन्नाह इमा हृत्वा न्यग्रोधे वोदुम्बरमूले वा निधत्तात् इति २८ तामु स तत्र निदधाति इदमहममुष्यायणस्य शुचा पाप्मानमपगूहाम्युत्तरस्य द्विषद्भ्यः इति २९ वृकलैः प्रधाव्य दान्तान्वि-धावते अन्नाद्याय व्यपोहध्वं भगो सजा यमागतम् । स मे मुखं प्रसर्पतु वर्चसे च भगाय च इति ३० उभयीरपस्संनिषिञ्चति उष्णासु शीता आनयति देवमा-नुषस्य व्यावृत्त्यै इति ३१ तासामञ्जलीनोपहत्याभिषिञ्चति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति तिसृभिः षोढा विहितो वै पुरुषः इत्येतस्मात् ब्राह्मणात् ३२ अथैतस्य सर्वसुरभिपिष्टं समुदायुत्य त्रिः प्रसिञ्चति नमश्शाकजञ्जभाभ्यां तमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः इति ३३ अनुलिम्पेत् अप्सरासु यो गन्धो गन्धर्वेषु च यद्यशः । दिव्यो यो मानुषो गन्धस्स मामाविशात्विह इति ३४ अहतं वासः परिधत्ते स्वा मा तनूराविश शिवो मा तनूराविश इत्येवमेव सायमेवमेवात ऊर्ध्वम् ३५ अथैतं बादरमणिं स्वर्णोपधानं सूत्रे प्रोत्य दर्व्यामाधाय दर्वीदण्डे सूत्रेण पर्यस्य जुहोति इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा करोतु सोमवर्चसं सूर्यवर्चसं ब्रह्मवर्चसं ब्रह्मवर्चसिनं मान्नादं करोतु स्वाहा इति ३६ अथैनमुदपात्रेण परिप्लावयति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमही द्विषः इति ३७ अपाशोसि इत्युक्त्वाऽक्ष्णया परिहरति । वध्यं हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै इत्येतस्माद्ब्राह्मणात् ३८ अथैतौ प्रवर्तौ सूत्रे प्रोत्य दर्व्यामाधाय दर्वीदण्डे सूत्रेण पर्यस्य जुहोति आयुष्यं वर्चस्यं रायस्पोषमौद्भिद्यम् । इदं हिरण्यं वर्चसे जैत्र्यायाविशतादिमं रयिं स्वाहा इति ३९ द्वितीयां जुहोति शुनीमिवाहं हिरण्यस्य पितुरिव नामग्राहम् । तं मा करोतु सोमवर्चसं सूर्यवर्चसं ब्रह्मवर्चसिनं माऽन्नादं करोतु स्वाहा इति ४० तृतीयां जुहोति उच्चैर्वाजि पृतनासाहं सभासाहं धनञ्जयम् । सर्वास्स-मृद्धीरृद्धयो हिरण्ये यास्समाहितास्स्वाहा इति ४१ चतुर्थीं जुहोति विराजं च स्वराजं चाभिष्टीर्या च नोगृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा सं सृजामसि स्वाहा इति ४२ पञ्चमीं जुहोति यशो मा कुरु ब्राह्मणेषु यशो राजसु मा कुरु । यशो विश्येषु शूद्रेष्वहमस्मै यशस्तव स्वाहा इति ४३ अथैतावुदपात्रेऽनुप्लावयति विश्वा उत त्वया वयम् इत्येतया ४४ तयोरन्तर-मादाय दक्षिणे कर्ण आबध्नाति आयुष्यं वर्चस्यम् इत्येताभिः पञ्चभिः ४५ अथैनमनुपरिवर्तते ऋतुभिस्त्वातवैस्संवत्सरस्य धायसा तैस्त्वा सहानुकरोमि इति ४६ एवमेवोत्तरे कर्णे प्रवर्तमाबध्नीत ४७ अत स्रजं प्रतिमुञ्चति शुभिके शिर आरोह शोभयन्ती मुखं मम । मुखं हि मम शोभय भूयांसं च भगं कुरु । यां त्वा जहार जमदग्निश्श्रद्धायै कामायान्यै । तां त्वेमां प्रतिमुञ्चामि वर्चसे च भगाय च इति ४८ त्रैककुदेनाञ्जनेनाङ्क्ते यदाञ्जनं त्रैककुदं जातं हिमवत उपरि । तेन वामाञ्जे मयि पर्वतवर्चसमस्तु इति ४९ आदर्शे परिपश्यते यन्मे मनः परागतमादर्शे परिपश्यतः । इदं तं मयि पश्याम्यायुष्यं वर्चस्यं मे अस्तु इति ५० अथोपानहावुपमुञ्चते द्यौरसि इति दक्षिणे पादे । पृथिव्यसि इत्युत्तरे ५१ अथ दण्डमादत्ते सखा मा गोपाय इति ५२ छत्रमादत्ते दिव्योऽसि सुपर्णोऽन्तरिक्षान्मा पाहि इति ५३ अथोपनिष्क्रम्य दिशमुपतिष्ठते देवीष्षडुर्वीरुरुणः कृणोत विश्वेदेवास इव वीरयध्वम् । मा हास्महे प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् इति ५४ चन्द्रमसं सूपस्थाः इति ५५ यत्र यत्र कामयते तदेतीत्येतत्समावर्तनम् ५६ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने त्रयोदशोऽध्यायः अथ प्रथमप्रश्ने चतुर्दशोऽध्यायः अथ व्रतस्नातकस्य वेदमनधीयानस्य तूष्णीं समावर्तनम् १ तीर्थे स्नात्वाऽग्निमुपसमाधाय सम्परिस्तीर्य मध्याह्ने पालाशीं समिधमाज्येनाक्त्वा-ऽभ्यादधाति इमं स्तोमम् इत्येतया २ तूष्णीं वपनं तूष्णीं सम्भारग्रहणं च कृत्वा रथस्य दक्षिणं चक्रमभिमृशति रथन्तरमसि इति । सव्यं बृहदसि इति ३ रथस्य मध्यममभिमृशति वामदेव्यमसि इति ४ रथं प्रवर्तमानमभिमन्त्रयते रथं वामश्विना रथो मा दुःखे मा सुखे रिषत् इति ५ रथाभावेऽप उपस्पृश्य भूमिमभिमृशति इह धृतिरिह विधृतिरिह रन्तिरिह रमतिः इति ६ अथाप उपस्पृश्य हृदयमभिमृशति मयीन्द्रियं वीर्यम् इति ७ अपो व्रीहिभिर्यवैर्वा समुदायुत्य शिष्याय प्रयच्छति ८ तत्प्रतिगृह्णाति आ म आगाद्वर्चसा यशसा इति ९ ब्राह्मणः आ म आगाद्वर्चसा यशसा संसृज प्रियः पशूनामधिपतिः प्रजानाम् इति तदुपस्पृश्य वदेत् १० प्राक्सिक्तं तज्जलं पुरस्तात्सिञ्चति ११ अथ दधिमध्वाज्योदकमिश्रं वा दधिमध्वाज्योदकक्षीरमिश्रं वाऽर्घ्यमिति निवेदयेत् १२ शिष्योऽर्घ्यमभिमन्त्रयते स माऽवतु समाऽवन्तु स माजुषताम् इति १३ अथ द्वाभ्यां हस्ताभ्यां प्रतिगृह्णाति आ म आगाद्वर्चसा इति १४ तस्मिंश्चित् किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्न्या च सङ्गृह्येमां दिशं निरस्यति नेष्टा विद्धिम् इति १५ अथाप उपस्पृश्य सर्वाभिरङ्गुलीभि-स्समुदायुत्य प्राश्नाति इदं ते बलं हरामि इति प्रथमम् । श्रेष्ठं माऽधिपतिं कुरु इति द्वितीयम् । सोमोऽसि सोमपं मा कुरु इति तृतीयम् अन्नमस्यन्नं मा कुरु इति चतुर्थम् १६ एवं चतुष्कृत्वः प्राश्य त्रिरनुपिबेन्न सर्वं न तृप्तिं गच्छेत् १७ यमात्मनश्श्रेयां समिच्छेत्तस्मै शेषं दद्यादिति १८ अथ कर्णे दाम्ना बद्धां गामनुमन्त्रयते जहि मे पाप्पानमुपवेत्तुः इति १९ अथ गामुत्सृजेत् गौर्धेनुभव्या इति २० अथादैनमाहृतं प्राश्नाति ब्रह्मन् त्वाश्नामि इति २१ अथोदकमिश्रं सक्तुमाहृतमश्नाति ब्रह्मन् त्वाऽश्नामि इति २२ एवमेव जडबधिरमूका- न्धकुब्जादीनामशक्तस्तूष्णीं समिधमाधाय शेषं तूष्णीमाचरेत् २३ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने चतुर्दशोऽध्यायः अथ प्रथमप्रश्ने पञ्चदशोऽध्यायः त्रयः स्नातका भवन्ति वेदस्नातको व्रतस्नातको वेदव्रतस्नातकश्चेति १ अथै-तेषामत ऊर्ध्वं नित्यानि भवन्ति औपासनो दण्डः कमण्डलुरुपानहौ छत्रं द्वे वाससी द्वे यज्ञोपवीते उष्णीषमजिनमन्तर्वासः इति २ पूर्वेण ग्रामान्निष्क्रम-णप्रवेशनानि च वाग्यत उत्तरेण वा ३ बहिर्वाचं विसृजेत् ४ प्रश्नमनुवाकं वाऽधीयीत ५ ब्रह्मपरो ब्रह्मनित्यो देवेभ्य ऋषिभ्यः पितृभ्यस्तर्पणानि कृत्वाऽ श्नीयात् ६ दिवा नोष्णीषी नक्तमुष्णीषी मूत्रपुरीषोत्सर्गेषु च निवीती नित्य-यज्ञोपवीती ७ तिष्ठन्नाचामेत् प्रह्वो वा ८ सन्ध्ययोश्च बहिर्ग्रामादासनं वाग्यतश्च ९ आ जायासङ्गमात् स्नातका भवन्त्यत ऊर्ध्वं गृहस्थाः १० अवि- च्छेदाय वेदव्रतैर्व्यवहरेत् कौमारेण माहेश्वरेण धान्वन्तरेणेति ११ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने पञ्चदशोऽध्यायः अथ प्रथमप्रश्ने षोडशोऽध्यायः स यद्यौणमनं न धारयत्या दशाहादेवैनमाज्येन व्याहृतीभिर्हुत्वाऽग्नीना-धास्यमानो ब्रह्मौदनं कृत्वोत्सृजति १ कर्मणिकर्मण्येवैनं पुनस्संस्कृत्याहरति २ यद्यु वै नाधास्यमानो भवति नैनमुत्सृजति ३ यस्मिन्नग्नावुपनयति तस्मिन् व्रतचर्यं तस्मिन् समावर्तनं तस्मिन् पाणिग्रहणं तस्मिन् गृह्याणि कर्माणि क्रियन्ते । तस्मिन् प्रजासस्कारा इत्येके ४ स एष उपनयनप्रभृति व्याहृति-भिस्समिद्भिर्हूयत आ समावर्तनात् ५ समावर्तनप्रभृति आज्येन व्याहृतिभिरेव हूयत आ पाणिग्रहणात् ६ पाणिग्रहणप्रभृति व्रीहिभिर्यवैर्वा ७ हस्तेनैते आहुती जुहोति अग्नये स्वाहा प्रजापतये स्वाहा इति सायम् ८ सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातरपि ९ अग्निहोत्रहविषामन्यतमेन हूयते १० अथास्य पार्वणः प्रसिद्ध आग्नेयस्थालीपाकः तस्यायुधानि भवन्त्युलूखलमुसले कृ-ष्णाजिनं शूर्पं स्फ्यः चरुस्थाल्याज्यस्थाली स्रुक्स्रुवं दर्वी मेक्षणम् इति ११ अथामावास्यायां प्रसिद्धः पिण्डपितृयज्ञः १२ नात्र गार्हपत्यशब्दो विद्यते १३ एतेनास्य दर्शपूर्णमासयाजित्वम् १४ उपनयनादिरग्निस्तमौपासन इत्याचक्षते १५ पाणिग्रहणादिरित्येके १६ नियो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः १७ उपवासश्चानुगतेऽन्यतरस्य भार्यायाः पत्युर्वा १८ अपि वैकां जुहुयात् अयाश्चाग्ने इति १९ अथास्याहुतप्रायश्चित्तं मनो ज्योतिर्जुषाताम् इति २० अथास्यातिपन्न प्रायश्चित्तम् अग्ने नया देवानाम् इति २१ अथास्या-व्रत्यप्रायश्चित्तं त्वमग्ने व्रतपा असि यद्वो वयम् इति २२ अथास्या-नाज्ञातप्रायश्चित्तम् अनाज्ञातं पुरुषसम्मितः इति २३ अथ यद्युखा भिद्येत तामभिमन्त्रयते अभिन्नो घर्मो जीरदानुर्यत आत्तस्तदगन् पुनः इति २४ अथाज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा सन्तनीं जुहोति इध्मो वेदिः परिधयश्च सर्वे यज्ञस्यायुरनुसञ्चरन्ति । त्रयस्त्रिंशत्तन्तवो ये वितत्रिरे य इमं यज्ञं स्वधया मदन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा इति २५ अथान्यामाहरति घर्मो देवानाप्येतु इति २६ एकाहं मनस्वतीं द्व्यहं वारुणीं त्र्यहं तन्तुमतीं चतस्रो-ऽभ्यावर्तिनीराद्वादशाहात् २७ द्वादशाहं विच्छिन्नः पुनराधेयः २८ अथ यदि द्वादशाहं विच्छिन्नः पुनराधेयस्स्याद्या प्रकृतिस्तत आहरणं प्रणवेनाहाति ब्रह्मा प्रणवेन प्रसौति २९ व्याहृतिभिस्पिकतोपोप्ते यथोपपादमग्न्याधेयिकान् सम्भारानाहृत्य व्याहृतिभिर्नियुप्योपसमाधायोपतिष्ठते जुष्टोदमूनाः इति ३० अथैनं प्रदक्षिणमग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य संसृज्य स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्यग्नौ परिशृते पूर्णाहुतिं जुहोत्यपरिशृते वा सप्त ते अग्ने इति ३१ पूर्णाहुतौ वरं ददाति धेनुमृषभमनड्वाहं कंसं हिरण्यं वासो वा इति ३२ अपरं चतुर्गृहीतं गृहीत्वा तिस्रस्त-न्तुमतीर्विग्राहं जुहोति तन्तुं तन्वन् उद्बुध्यस्वाग्ने त्रयस्त्रिंशत्तन्तवः इति ३३ अपरं चतुर्गृहीतं गृहीत्वा चतस्रोऽभ्यावर्तिनीर्विग्राहं जुहोति अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः पुनरूर्जा सहरय्या इति ३४ अपरं चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति मनो ज्योतिः इति ३५ अपरं चतुर्गृहीतं गृहीत्वा प्राजापत्यां जुहोति प्रजापते न त्वदेतान्यन्यः इति ३६ अपरं चतुर्गृहीतं गृहीत्वाऽनुख्यां जुहोति अन्वग्निरुषसामग्रमख्यत् इति ३७ अपरं चतुर्गृहीतं गृहीत्वा प्रायश्चित्तं जुहोति अयाश्चाग्ने इति ३८ अपरं चतुर्गृहीतं गृहीत्वा ज्योतिष्मतीं जुहोति उद्वयं तमसस्परि इति ३९ अपरं चतुर्गृहीतं गृहीत्वाऽऽयुर्दां जुहोति आयुर्दां अग्ने इति ४० अपरं चतुर्गृहीतं गृहित्वा द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दा-ऽभूत् पुनरग्निश्चक्षुरदात् इति ४१ अपरं चतुर्गृहीतं गृहीत्वा व्याहृती-र्व्यस्तास्समस्ताश्च जुहोति ४२ एकाहुत्या वा प्रतिसन्धानं पुनस्त्वादित्या रुद्रा वसवः इति ४३ अथास्याध्वनि समारोपणम् अयं ते योनिरृत्वियः इति ४४ अरण्योर्वा समारोप्य मथित्वा जुहुयात् ४५ अपि वात्मानि समारोपणं भवति या ते अग्ने यज्ञिया तनूः इत्यात्मनि समारोप्य उपावरोह जातवेदः इति लौकिकेऽग्नावुपावरोह्य जुहुयात् ४६ अपि वा अयं ते योनिरृत्वियः इति समिधि समारोप्य आजुह्वानः उद्बुध्यस्वाग्ने इति द्वाभ्यां लौकिकेऽग्नौ समिधम-भ्याधाय जुहुयात् ४७ आत्मानि समारूदेष्वग्निषु न खादेन्न पिबेन्नोप-रिशय्यायां शयीत नाप्सु निमज्यान्न मैथुनं व्रजेत् ४८ कामं खादेत्कामं पिबेत्कामं त्वेवोपरि शय्यायां शयीत पालाशीमाश्वत्थीं खादिरीमौदुम्बरीं वा ४९ तेषामेतेन प्रसिद्धं समारोपणम् ५० इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने षोडशोऽध्यायः स यद्यौपासनं धारयति । त्रयः स्नातका भवन्ति । अथ व्रतस्नातकस्य । वेदमधीत्य स्नास्यन् । अथोपनीतस्य । सा यदि पुत्रप्रसूः । अत्राग्न्याधेयस्य कालः । अथ वै भवति किञ्चित् । अथ दशमेऽहनि । अथ विवाहस्य । सर्वत्र दर्वीहोमेषु । अथ शुचौ समे देशे । अथापरेद्युर्देवानाम् । विष्णुश्च ह वै । अथ वै भवति सर्वेण वै । अथ वै भवति जायमानः १६ अथ वै भवति जायमानः । अथ वै भवति सर्वेण वै । विष्णुश्च ह वै । अथापरेद्युर्देवानाम् । अथ शुचौ समे देशे । सर्वत्र दर्वीहोमेषु । अथ विवाहस्य । अथ दशमेऽहनि । अथ वै भवति किंचित् । अत्राग्न्याधेयस्य कालः । सा यदि पुत्रप्रसूः । अथोपनीतस्य । वेदमधीत्य स्नास्यन् । अथ व्रतस्नातकस्य । त्रयस्स्नातका भवन्ति । स यद्यौपासनं न धारयति १६ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमः प्रश्नः समाप्तः अथ द्वितीयप्रश्ने प्रथमोऽध्यायः अथ व्रीहिभ्यो यवेभ्यश्च नवानामनिरुप्तं स्थालीपाकं श्रपयित्वाऽग्निमुपस-माधाय संपरिस्तीर्याघारावाघार्याज्यभागाविष्ट्वाग्रयणदेवताभ्य इन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां सोमाय स्विष्टकृच्चतुर्थीभ्यो जुहुयात् १ कामं पुरस्तात्स्विष्टकृतोऽज्यानीरुपजुहोति २ प्रसिद्धौ प्राशनमन्त्रौ ३ वैश्वदेवं कृत्वा ब्राह्मणेभ्यो दत्वा प्राशनम् ४ एतेन सर्वासामोषधीनामाग्रयणं व्याख्यातमन्यत्र श्यामाकवेणुयवेभ्यश्च ५ सौम्यश्श्यामाकश्चरुरग्नीन्द्रो वेणुयवानां वैश्वदेवो वा ६ समानौ प्राशनमन्त्रौ ७ अथ फलानां मूलानां भक्षणानां ब्राह्मणेभ्यो दत्वा प्राशनमेव ८ पुष्पाणामन्येषां च नवानां ब्राह्मणेभ्यो दत्वोपयोगः ९ अथ षट्सु षट्सु मासेष्वयनप्रतिपत्तौ वाऽथ देवयजनो-ल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा स्रुक्स्रवं निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा सग्राहं षड्ढोतारं हुत्वामिक्षां श्रपयित्वा पक्वमोदनं पायसं वा याचति १० तमभ्युक्ष्याग्नावधिश्रयति ११ आज्यं निर्वपति १२ अथाज्यमधिश्रयति १३ उभयं पर्यग्नि कृत्वा मेक्षणं स्रुवं च संमार्ष्टि १४ अथैतं चरुं श्रपयित्वाभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति १५ परिधानप्रभृत्याग्नि-मुखात् कृत्वा पुरस्तात्स्वाहाकृतिं स्रुवाहुतिं जुहोति स्वाहा देवेभ्यः इति १६ अथ स्रुचि चतुर्गृहीतं गृहीत्वा वपां जुहोति जातवेदो वपया गच्छ देवान् त्वं हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतं हविरदन्तु देवाः स्वाहा इति १७ अथोपरिष्टात्स्वाहाकृतिं स्रुवाहुतिं जुहोति देवेभ्य-स्स्वाहा इति १८ अथ पक्वाज्जुहोति इन्द्राग्निभ्यां स्वाहा अग्नये स्वाहा इति १९ अथ वाजिनस्य जुहोति घृतं घृतपावानः पिबत वसां वसापावानः पिब-तान्तरिक्षस्य हविरसि स्वाहा त्वान्तरिक्षाय स्वाहा इति २० अथामिक्षायै जुहोति इन्द्राग्नी रोचना दिवः श्नथद्वृत्रम् इति २१ अथ वाजिनस्यैव दिशो जुहोति दिशः प्रदिश आदिशो विदिश उद्विशस्स्वाहा दिग्भ्यो नमो दिग्भ्य-स्स्वाहा इति २२ अथ पृषदाज्यात् स्रुवाहुतिं जुहोति वनस्पतये स्वाहा इति २३ अथामिक्षाया एव स्विष्टवतीभ्यां सौविष्टकृतं जुहोति २४ अथ स्रुचि चतुर्गृहीतं गृहीत्वा समुद्रं गच्छ स्वाहा इत्येकादश विग्राहं जुहोति २५ जयप्रभृति सिद्धमाधेनुवरप्रदानात् २६ एतेनास्य पशुबन्धयाजित्वं भवति २७ पार्वणेनतोऽन्यानि कर्माणि व्याख्यातान्येकदेवत्यान्याग्रयणेन बहुदेवत्यान्या-मिक्षया पशुबन्ध आचाराद्यानि गृह्यन्ते २८ यथोपदेशं देवताः २९ अग्निं स्विष्टकृतं चान्तरेणोपहोमाः ३० वैश्वदेवे विश्वेदेवाः पौर्णमास्यां पौर्णमासी यस्यां क्रियेत ३१ उपाकरणे समापने च ऋषिर्यः प्रज्ञायते ३२ सदसस्प-तिर्द्वितीयः ३३ स्त्रियानुपतेन क्षारलवणावरान्नससृष्टस्य तु होमं परिचक्षते ३४ यथोपदेशं काम्यानि बलयश्च ३५ अथापि काम्यानि भवन्ति अथ वै भवति प्रजापतीः प्रजा असृजत तास्सृष्टा इन्द्राग्नी अपागूहताम् इत्येतस्माद्ब्रा-ह्मणात् ३६ येऽमुत्र पुरोडाशास्त इह चरवो यथादेवतं याज्यापुरोनुवाक्याः योऽमुत्र वषट्कारस्स इह स्वाहाकार इति ३७ अग्न्याधेयमग्निहोत्रं दर्शपूर्ण-मासावाग्रयणं चातुर्मास्यानि पशुबन्धस्सोम इत्येष आघारवान् दर्वीहोमः ३८ अथात आग्निहोत्रिकं व्याख्यास्यामः ३९ सर्वमेवैतत् स्वाहाकारप्रदानं कुर्या-दिति सिद्धम् ४० आ परिधानात्कृत्वा अमुष्मै स्वाहा इति दैवतं जुहोति ४१ अग्निस्स्विष्टकृद्द्वितीयः ४२ द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचा-मति निर्लेढि इति ४३ एष आग्निहोत्रिकः ४४ अथातोऽपूर्वं व्याख्यास्यामः ४५ सायंप्रातर्दशहोतारं जुहुयात्पर्वसु चतुर्होतारमाग्रयणेष्वज्यानीः चातुर्मा-स्येषु पञ्चहोतारं पशुबन्धं षड्ढोतारमृतुमुख ऋतुमुखीय सोमे सप्तहोतारम् इति पयसा दशहोतारं जुहुयादन्नेन चतुर्होतारं पायसेनाज्यानीः पृषदाज्येन पञ्चहो-तारमामिक्षया षड्ढोतारमाज्येन ऋतुमुखीयं सोमेन सप्तहोतारम् इति ४६ स एष औपासननिष्ठानां याथातथ्यदर्शितां निरीप्सितानां श्रद्दधानानामपूर्वो होमः प्रजासंस्कारार्थो वा किञ्चिज्ज्ञानानां प्राकृतेन हविषां यत्कामयते तज्जुहोति हुतमेवास्य तद्भवति ४७ इत्यपूर्वो व्याख्यातः ४८ इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने प्रथमोऽध्यायः अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः अथ वै भवति निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानाम् इति १ कथमु खल्वेतानि विजानीयादिति २ उपरिष्टादंसाभ्यां ग्रीवां हृदयं च सपरिगृह्य हृदयस्याधस्तादूर्ध्वं नाभेरङ्गुष्ठाभ्यां परिगृह्णाति तन्निवीतं मनुष्या-णामिति ऋषीणामित्येवेदमुक्तं भवति ३ एतेन कृष्णद्वैपायनादयो व्याख्याताः ४ तेषां सप्त ऋषयो राजानो भवन्ति येह सन्ततिस्ते मनुष्या इति ५ अथ निवीतकार्याणि ऋषीणां तर्पणं व्यवायः प्रजासंस्कारोऽन्यत्रहोमान्मूत्रपुरी-षोत्सर्गः प्रेतोद्वहनं यानि चान्यानि मनुष्यकार्याणि कण्ठेऽवसक्तं निवीतमिति ६ दक्षिणस्यां सस्योपरिष्टाद्ग्रीवां हृदयं पृष्ठं च परिगृह्य सव्यस्य हस्त-स्याधस्तात् प्राचीनावीतं पितृणामिति मृतानामित्येवेदमुक्तं भवति ७ एतेन वैशम्पायनादयो व्याख्याताः ८ तेषां सोमः पितृमान् यमोऽङ्गिरस्वान् अग्नि-कव्यवाहन इति राजानो भवन्ति या प्रेत्य सन्ततिस्ते पितर इति ९ सव्यस्यांसस्योपरिष्टाद्ग्रीवां हृदयं पृष्ठं च संपरिगृह्य दक्षिणस्य हस्तस्या-धस्तादुपवीतं देवानामित्यमृतानामेवेदमुक्तं भवति १० एतेन ब्रह्म दयो व्याख्याताः ११ तेषामिन्द्रस्सोमो यमो वरुणः कुबेर इति राजानो भवन्ति याऽमुत्र सन्ततिस्ते देवा इति १२ कथमु खलु यज्ञोपवीतमिति विजानीयात् १३ तदेतद्दक्षिणस्य हस्तस्याधस्ताद्भवति योऽयं दक्षिणो हस्तस्य यज्ञ इति यज इत्ययं शब्दो देवपूजासङ्गतिकरणदानेषु यस्मादेतानि कुर्वते तस्माद्यज्ञः १४ वाग्यज्ञस्तस्याग्निरधिदैवतं स चात्र यतस्तस्माद्यज्ञोपवीतम् १५ यश्चाय-मङ्गुष्ठस्स विस्णुस्स यज्ञस्याधिदैवतं तस्माच्च भवतीति तीर्थत्वाच्च १६ वागेव यज्ञो यद्वाचा वदति तदनेन निर्वर्तयतीति १७ यज्ञोपवीतं व्याख्यातम् १८ इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने द्वितीयोऽध्यायः अथ द्वितीयप्रश्ने तृतीयोऽध्यायः अथ वै भवति ब्राह्मण एकहोता । स यज्ञः इति स एष कुसिन्धोऽधिकृतस्तस्य दशहोता निदानं तस्य यश्च कश्चन भवति सोऽन्तरात्मा कुसिन्ध आत्मा यज्ञः परमात्मा स पुरुषः पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यं यद्भविष्यदिति तदग्निहोत्रं तदेव तत् कुसिन्धोऽधिकृतस्तदस्य दशहोता निदानं स यज्ञस्स आत्मनि वर्तते तस्योपवीतं यज्ञोपवीतमिति १ अथ वै भवति यज्ञवित्सर्वविद्भवति यज्ञस्सर्वम् इति श्रुतिः तस्माद्याज्ञीषु चिन्तासु रमन्ते तत्त्वदर्शिनः इत्यग्निहोत्रं कुसिन्धमेकहोतृत्वं स्थूरिः केवलमित्येकार्थवाचकाश्शब्दाः श्रद्धालक्षाणा भवन्ति अप्सु प्रतिष्ठिताः श्रद्धा वा आपः इति विज्ञायते । ताश्च यज्ञ आप्यमग्निहोत्रमाप्यं कुसिन्धमेवहोतृत्वं स्थौर्यं कैवल्यं तद्ब्रह्मैकाक्षरं परं ब्रह्मेत्योमिति ब्रह्मेति २ अथ वै भवति अक्ति ब्रह्म प्रणक्त्यापः पापं नुदति कर्मणा । नोदनाच्चैव सङ्गानां ब्राह्मणस्तुतिरुच्यते । इति ब्राह्मणत्वमेकहोतृत्वं च । जिह्वाया आप्यत्वादध्यात्मभावेन रसवाचकस्थानत्वादधिभूतभावेन बुद्धिकर्मणोरेकत्वादधिदैवतभावेनाग्नीषोमयोरेकत्वादधिदैवतभावेन एष सो-मो वै चन्द्रमाः इति मानसत्वाद्यज्ञत्वात् प्राजापत्यो यज्ञो यज्ञो मनः इति यज्ञोपवीत्यप आचामेदिति नित्यमित्याचार्यास्सम्प्रतिपन्नाः कथमेतदुच्यत इति ४ इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने तृतीयोऽध्यायः अथ द्वितीयप्रश्ने चतुर्थोऽध्यायः अजिनं वासस्सूत्रं वा द्वितीयम् यस्य यद्भवति तेन स उपव्ययते देवलक्ष्ममेव तत्कुरुते इति ब्राह्मणम् १ अथाप आचम्येति तदपि द्वितीयमब्लिङ्गाभिस्त्रिः पिबेद्व्याहृतिभिस्त्रिः परिमृजेदपि वा व्याहृतिभिस्त्रिः पिबेदब्लिङ्गाभिः त्रिः परिमृजेद्यज्ञस्य देवा देवानां यज्ञ इति यज्ञस्य देवानां च संयोगं करोति २ अथ दर्शपूर्णमासयोश्चत्वार ऋत्विज आदित्योऽध्वर्युश्चन्द्रमा ब्रह्माग्निर्होता वायुराग्नीध्रश्चातुर्मास्यप्रभृत्यश्विनावध्वर्यू पर्जन्य उद्गातापो होत्रका रश्मयश्च-मसाध्वर्यव इति यज्ञस्य देवानां च संयोगं करोति ३ अथ गृहस्थस्य वैश्वदेवं कृत्वाग्रं दत्वा कालयोर्भोजन मानुषम् ४ मासिमास्यपरपक्षे मासिकं पितृ-णामिति ५ उभौ कालावग्निपरिचर्या च होमाश्चार्धमासेऽर्धमासे पार्वणो वि-धिर्देवानामिति ६ त्रयाणां त्रयो नियमाष्षट् सम्पद्यन्ते षोढाविहितो वै पुरुषः इति तस्मादात्मनिष्क्रयणम् ७ पञ्च महायज्ञाः देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति ८ देवयज्ञस्स्वाहाकारः आ काष्ठात् ९ पितृयज्ञ-स्स्वधाकार औदनपात्रात् १० भूतयज्ञो नमस्कार आपुष्पेभ्यः ११ मनुष्ययज्ञो दानमामूलफलशाकेभ्यः १२ ब्रह्मयज्ञ ॐकार आव्याहृतिभ्यः १३ अथा-स्यातिथयोऽभ्यागता वर्णाश्रमा आनुशंसा अभ्युत्थेया अर्घ्या अर्चनीया आभ्यन्तरा रहस्या विश्वास्याश्च भवन्ति १४ श्रान्तोऽदृष्टपूर्वोऽश्रुतः केवल-मन्नार्थी नान्यत्प्रयोजनो य एति सोऽतिथिर्भवति १५ अपि वा सर्ववर्णाना-मन्यतमः काले यथोपपन्नस्सर्वेषामतिथीनां श्रेष्ठतमोऽतिथिर्भवति १६ श्वश्रूश्व-शुरयोनिसम्बन्धाः स्नेहवन्धमाभिभाषमाणा भूयोभूयोऽभ्यागच्छेरन् तथा प्रेषणिकाश्चाभ्यागता भवन्ति १७ सखा सहाधीतिस्सहाध्वनीनः ब्राह्मणक्षत्रि-यवैश्यरथकाराः सगृहास्साग्निहोत्रिका अनस्विनो रथिनश्चातिथयो भवन्ति १८ तेषामन्तराळे विपङ्क्तीः कृत्वा सर्वान् कामानुपहरेत् सानड्वाहपशूनाम् १९ विज्ञायते च तस्मादनस्वी च रथी चातिथीनामपचिततमावपचिततमो भवति य एवं वेद इति ब्राह्मणम् २० इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने चतुर्थोऽध्यायः अथ द्वितीयप्रश्ने पञ्चमोऽध्यायः अथ यदि ब्राह्मणः क्षत्रियश्च समेत्यायातां ब्राह्मणोऽतिथिः क्षत्रिये सान्त्वम् १ अथ यदि क्षत्रियो वैश्यश्च समेत्यायातां क्षत्रियोऽतिथिर्वैश्ये सान्त्वम् २ अथ यदि वैश्यश्शूद्रश्च समेत्यायातां वैश्योऽतिथिश्शूद्रे सान्त्वम् ३ अथ यदि शूद्रमभ्यागतं कर्मणि नियुञ्ज्यात् ४ अथ यदि ब्रह्मचारी मातापित्रोराचार्यार्थं वाऽध्वनि वर्तमानो गृहमागच्छेन्नैनं प्रत्युत्तिष्ठेत् स्वागतमित्युक्त्वासनं पाद-शौचं च दत्वा कुशलमभिभाष्योपासीत ५ कापालमस्मै दद्यात् नियम-मेवोपतिष्ठस्व इति ६ उपावृत्ताय भैक्षमिति ब्रुवते गृहादेवान्नं भैक्षमित्युपहरेत्स तस्योपचारः ७ अथ यदि वानप्रस्थमभ्यागतं स्वागतमित्युक्त्वाभ्युत्थायासनं पादशौचं च दत्वा कुशलमभिभाष्योपासीत ८ विदित्वा चरणं कन्दमूल-फलशाकान्यारण्याश्चौषधय इत्युपहरेत्स तस्योपचारः ९ अथ यदि यतिमागतं स्वागतमित्युक्त्वाभ्युत्थायासनं पादशौचं च दत्वा कुशलमभिभाष्योपासीत १० नैनं पूर्वमुपामन्त्रयेन्न चास्मै प्रक्रियां प्रकुर्वीत ११ काले त्वन्नं भैक्षमि-त्युपहरेत्स तस्योपचारः १२ अथ यद्यर्थी वसत्या शय्यादेशमुपकल्प्य काले ज्योतिष्करणं नोपस्तरणमेके ब्रुवते दद्याद्वा १३ बालानां वृद्धानां स्त्रीणां तु विभ्रष्टानां गूढचरितविकृतवेषाणामपि वा श्वचण्डालादीनामानृशंस्यवत् संविभागो विहितः १४ मूढो मत्त उन्मत्त आर्तो भीतो राजा चोरश्चेति स-म्भ्रमेणाभ्युस्थेयाः १५ आचार्य ऋत्विक्पिता मातुलः श्वशुरो वेदविद्ब्राह्मणः क्षत्रियोऽभिषिक्तस्सहस्रप्रदो वैश्यो राजपुरोहितश्चेत्यर्घ्यार्हा भवन्ति १६ पितृ-ज्येष्ठकनीयसामुपाध्यायपुत्रस्त्रिमधुस्त्रिणाचिकेतस्त्रिसुपर्णः पञ्चाग्निष्षडङ्गवित् शीर्षको ज्येष्ठसामिकोऽथर्वाङ्गिरसोऽध्येतारस्स्नातका इत्येते संवाहनस्नापन-शय्यालङ्कारविभूषणाच्छादनैरर्चनीया भवन्ति १७ अथ यदि बहवोऽतिथयो-ऽभ्यागच्छेरन् तत्रापि विद्वद्वृद्धकृशबालाश्चार्चनीया भवन्ति १८ अथ यद्य-तिथिरार्तो व्याधितो वा यद्ब्रूयादिदं मे क्रियतामित्यविद्यमानोऽन्यां प्रक्रियां प्रकुर्वीत १९ अथ यद्याग्रयणेष्टिपशुचातुर्मास्याध्वराणामुद्यतां दक्षिणां नोत्सृ-जेत्तां तस्मै दद्यात् अतिथिस्सर्वयज्ञक्रतुसम्मितः इति विज्ञायते २० अथ यद्यतिथिरभ्यागतो वा यस्य गृहे नाश्नीयात् तस्य सर्वा देवता अवरुद्धा भवन्ति तस्मात्सदारस्सापत्योऽभ्युत्थायासनं पाद्यमर्हणमर्घ्यं वा प्रयच्छेत यास्तत्रौषधयस्ता उपहरेत् २१ य एतेन विधिनाऽतिथीन्नियच्छति यश्चेतेन विधिनाऽतिथीन् पूजयति नैनं मृत्युरभिभवति नार्तिर्नावृत्तिर्न जरा न शोको यश्चैवं वेद यश्चैवं वेद २२ इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने पञ्चमोऽध्यायः अथ द्वितीयप्रश्ने षष्ठोऽध्यायः यथो एतद्यत्किञ्चिदन्यत्र विहाराद्धूयते सर्वास्ताः पाकयज्ञसंस्था इति १ या एवैता अभिचाराय पावनाय शान्तये समृद्धये स्वस्तये वा हूयन्ते ता एवैता उक्ता भवन्ति २ ताश्चेद्राजन्यो वैश्यश्च ब्राह्मणं पुरोदधीत ३ तदभिगम्याभिबाद्य ब्रूयात् आकूत्यै त्वा कामाय त्वा समृधे त्वा पुरोदधे अमृतत्वाय जीवसे इति ४ पुरोहितो जपति आकूतिमस्यावसे काममस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः इति ५ स्वयं जपति आकूतिं देवीं मनसः पुरोदधे । यज्ञस्य माता सुहवा मे अस्तु । यदिच्छामि मनसा स कामो विदेयमेनद्धृदये निविष्टम् इति ६ सर्वत्र दैवेषु पुरस्तादुदग्वोपक्रमोऽपवर्गः प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रैर्दर्भैरग्नीनां परिस्तरण प्रागुदगग्रैर्वा पवित्राभ्यामुत्पवनम् ७ एवमेव विपरीतोपक्रमोपवर्गः पित्र्येषु दक्षिणाग्रैर्दर्भैरग्नीनां सम्परिस्तरणं दक्षिणाप्रती-च्यग्रैर्वा पवित्रेणोत्पवनम् ८ तेषामियमेव प्रतिपत्तिर्व्याहृतिपर्यन्तो होमः ९ अतोऽन्ये कर्मव्यञ्जका उपहोमाः पृथग्विनिविष्टा अन्योन्यमुपजीवन्तः १० तदानींतनेष्वाचार्या ऊहसन्नमनैश्च मन्त्रैर्यज्ञं प्रतिसन्दधुरविच्छेदाय ११ य एवं विद्वान् यज्ञं यजेत यश्चैवं विद्वान् यज्ञेन यजते सर्वेण वै यज्ञेन यजते सर्वं चैव यज्ञं यजति १२ तदेषाऽभिवदति आ देवानामपि पन्थामगन्म यच्छक्रवाम तदनु प्रवोढुम् । अग्निर्विद्वान् स यजात्सेदु होता सो अध्वरांत्स ऋतून् कल्पयाति इति १३ इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने षष्ठोऽध्यायः अथ द्वितीयप्रश्ने सप्तमोऽध्यायः षष्ठोऽहनि शुची स्नातौ शुक्लवस्त्रौ स्वलङ्कृतौ हविष्यमन्नमादाय ब्राह्मणान् सुसमाहितान् १ भोजयित्वोपसङ्गृह्य सुसंतृप्तेषु तेष्वथ पुण्याहं वाचयित्वा तानभिवाद्य प्रणम्य च २ श्वेतायाश्श्वेतवत्सायास्स्थालीपाकं तु पाचयेत् गायत्र्याऽष्टसहस्रं तु सम्पाताभिहुतो भवेत् ३ उभौ तु तद्धुतं प्राश्य कुर्वीत प्रतिमन्त्रणम् जघन्ये रात्रिपर्याये सर्वत्रोपगमस्स्मृतः ४ प्रागग्रेषु तु दर्भेषु प्राक्शिरां तु निपातयेत् चतुर्होतारं मनसाऽनुद्रुत्य प्रणवेनाहुतिर्भवेत् ५ एवमुत्पादिताः पुत्रा न लुप्यन्ते कदाचन न लुप्यन्ते कदाचनेति ६ इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयप्रश्ने सप्तमोऽध्यायः षष्ठेऽहनि शुची स्नातौ । यथो एतद्यत्किञ्चित् । अथ यदि ब्राह्मणः क्षत्रियश्च समेत्यायाताम् । अजिनं वासस्सूत्रं वा द्वितीयम् । अथ वै भवति ब्राह्मण एकहोता । अथ वै भवति निवीतं मनुष्याणाम् । अथ व्रीहिभ्यो यवेभ्यश्च ७ अथ व्रीहिभ्यो यवेभ्यश्च । अथ वै भवति निवीतं मनुष्याणाम् । अथ वै भवति ब्राह्मण एकहोता । अजिनं वासस्सूत्रं वा द्वितीयम् । अथ यदि ब्राह्मणः क्षत्रियश्च समेत्यायाताम् । यथो एतद्यत्किञ्चित् । षष्ठोऽहनि शुची स्नातौ ७ इति बोधायनीये गृह्यपरिभाषासूत्रे द्वितीयः प्रश्नः समाप्तः इति बोधायनीयगृह्यपरिभाषा समाप्ता अथ बोधायनगृह्यशेषसूत्रप्रारम्भः अथातस्सप्तपाकयज्ञानामुक्तं तच्छैषं व्याख्यास्यामः १ पवित्रकरणं प्रोक्षणी-संस्कारं प्रणीताप्रणयनं स्रुक्स्रुवसंमार्जनमिति दर्शपूर्णमासवत्तूष्णीम् २ अथाग्निं परिस्तीर्य दक्षिणेनाग्निं ब्रह्मायतने दर्भान् संस्तीर्योत्तरेणाग्निं प्रागग्रान् दर्भान् संस्तीर्य तेषु पात्राणि सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिस्सर्वाभिः प्रोक्ष्य दर्भेसु दक्षिणतो ब्राह्मणमुपवेशयति दर्शपूर्णमासवत्तूष्णीम् ३ अरत्निमात्राः परिधयः आर्द्रा वा सत्वक्काः ४ प्रादेशमात्राण्येकविंशतिरिध्मदारूणि भवन्ति इति ब्राह्मणेन व्याख्यातम् ५ अथ यदि शम्याः परिदधाति शमीमय्यश्शम्याकृतयो वाऽरत्निमात्राः ६ अथेध्ममभ्यज्य परिसमिधं शिनष्टि ७ स्वाहाकारेणाभ्याधायाघारावाघा-र्याज्यभागौ प्रतिमुखं प्रबाहुग्जुहोति ८ प्रसिद्धमाग्निमुखात्कृत्वा स्रुवेण दर्व्यामुपस्तीर्य पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति ९ यदि पञ्चावत्ती स्याद्दर्व्यामुपस्तीर्य मध्यात्पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति १० स्रुवं निमृज्य यथादेवतं पुरोनुवाक्यामनूच्य याज्यया जुहोति ११ अथोपस्तीर्य सकृदुत्तरार्धात् स्विष्टकृतमवद्यति द्विरभिघारयति न प्रत्यनक्ति १२ तमन्तःपरिधि सादयित्वा यथाम्नातमाज्याहुतीर्जुहोति १३ व्याहृति-भिरनाम्नातेषु १४ अथ स्विष्टकृतमादायोत्तरार्धपूर्वार्धे जुहोति पूर्वेण वात्रैतं मेक्षणमनुप्रहरति १५ अथैनत् संस्रावेणाभिजुहोति १६ दर्व्यामप आनीय संक्षाळनमन्तः परिधि निनयति १७ निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वा बहिः परिधि निनयति १८ अथ समिधमाधाय जयान् जुहोति चित्तं च स्वाहा इति १९ त्रयोदश स्रुवाहुतीर्हुत्वाऽभ्यातानान् जुहोति अग्निर्भूतानामधिपतिस्स मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रे स्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्यां स्वाहा इति २० सप्तदश स्रुवाहुतीर्हुत्वा वाचयति पितरः पितामहाः परेऽवरे ततास्ततामहा इह माऽवत इति २१ अथ राष्ट्रभृतो जुहोति ऋताषा-डृतधामाऽग्निर्गन्धर्वस्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्यौषधयोऽप्सरस ऊर्जो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यस्स्वाहा इति २२ एवमेवान्ताद-नुवाकस्यान्यत्र भुवनस्य पते स नो भुवनस्य पते इति २३ अथामात्यहोमान् जुहोति यद्देवा देवहेडनम् इत्यन्तादनुवाकस्य प्रत्यृचम् २४ अथ प्राजापत्यां जुहोति प्रजापते न त्वदेतान्यन्यः इति २५ अथ सौविष्टकृतं जुहोति यदस्य कर्मणः इति २६ स्रुवेण परिधीननक्ति २७ अथ परिस्तरात्समुल्लि-प्याज्यस्थाल्यां प्रस्तरवद्बर्हिरक्त्वा तृणं प्रच्छिद्याग्नावनुप्रहृत्य तूष्णीं तृणं चाथ शम्या अपोह्य परिवीननुप्रहरति २८ मध्यमं परिधिमनुप्रहृत्याथेतरा-वुपसमस्यति २९ अथैनान् संस्रावेणाभिजुहोति ३० अथाग्रेणाग्निं यथाम्नातं हुतशेषं दत्वा शेषं कुर्यादन्यत्र विवाहशेषात् ३१ तथैव परिषिञ्चति अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान् सन्नमयति ३२ अथ प्रणीताभ्यो दिशो व्युन्नयति दर्शपूर्णमासवत्तूष्णीम् ३३ ब्राह्मणं विसृज्य शेषं प्राश्नाति आयुरसि विश्वा-युरसि इति ३४ प्राश्याप आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् ३५ शेषमभिघारितं ब्राह्मणाय दद्यात् ३६ न पत्न्या हविषां भक्षणमन्यत्रोच्छिष्टमभिसम्पाताभिहुतानां पिण्डदानस्य शेषं च नैव देवताहुतशेषमन्यत्र ब्रह्मौदनात् ३७ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने प्रथमोऽध्यायः अथ प्रथमप्रश्ने द्वितीयोऽध्यायः उपनयनादिरग्निस्तमौपासन इत्याचक्षते १ दारकाले दायाद्यकाले वा नित्यो धार्यः २ अनुगते प्रायश्चित्तं प्रसिद्धम् ३ तस्मिन् पाकयज्ञसंस्थानि दैवानि कर्माणि क्रियन्ते ४ उपस्थानादि समानमन्यत्र प्रजासंस्कारात् ५ प्रजा-संस्कारार्थमन्यत्र शुचौ देशे स्थण्डिलं कृत्वोल्लिखेन्मध्ये प्राचीनमेवं दक्षिणत एवमुत्तरतो मध्यादुदीचीनमेवं पश्चादेवं पुरस्तात् ६ औपासनादेकदेशं प्रणवेनाहृत्य व्याहृतिभिर्नियुप्यापि वा श्रोत्रियागारात् ७ एवमौपासन-मुपसमाधाय मयि गृह्याम्यग्रे अग्निं यो नो अग्निः पितरः इति द्वाभ्यामात्मन्यग्निं गृहीत्वोपस्थानादि समानमापात्रसादनात् ८ कथमु खलु पात्रसादनाना-मानुपूर्व्यं भवति आज्यस्थालीं स्रुवं च जुहूं च दर्वीं च प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं मेक्षणं चेध्माबर्हिरिध्मप्रव्रश्चनान्येवमेवान्यानि द्वन्द्वं न्यञ्चि न हीने नातिरिक्ते सादयति ९ समानं कर्म स्रुक्संमार्जनात् १० स्रुक्स्रुवं संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा पूर्णाहुतिं जुहोति सप्त ते अग्ने समिधस्सप्त जिह्वाः इति ११ औपासनादग्निप्रणयनं विद्यते १२ अथ परिधानप्रभृति समानम् १३ अथाप्युदाहरन्ति असंस्कृताभिरद्भिः प्रोक्षणीभिरप्रोक्षितपात्रैर्होमश्चासं-मार्जनैः स्रुक्स्रुवैर्नाधिश्रितपक्वैराज्येन न प्रचरितव्यं यदि प्रचरेद्यातुधाना असु- रा रक्षांसि पिशाचा यज्ञं ग्राहयेयुः इति १४ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने द्वितीयोऽध्यायः अथ प्रथमप्रश्ने तृतीयोऽध्यायः अथातोऽपूर्वं व्याख्यास्यामः १ परिसमूह्य पर्युक्ष्य परिस्तीर्य परिषिच्योप-समाधायालङ्कृत्य यावदाम्नातमाहुतीर्जुहोत्याद्यन्तयोर्व्याहृतिभिराज्याहुतिः प-रिधानं प्रणीताप्रणयनं ब्रह्मोपवेशनं च न विद्यते विद्यते वा पूर्वैर्मन्त्रैरुपांशूक्त्वा उत्सृजत इत्युच्चैरेवमेवोपकल्पयतीति विज्ञायते २ पाकयज्ञसंस्थानां न तिष्ठद्धोमो विद्यते विज्ञायते च अन्यत्र विहाराद्भूयते सर्वास्ताः पाकयज्ञसंस्थाः इति ३ अथ संस्थायामाद्यन्तयोः परिषेचनं यथा पुरस्तात् ४ विज्ञायते नासमित्के जुहुयाद्यदसमित्के जुहुयाद्यथाजिह्वेऽन्नं दद्यात्तदृक्तस्मात्समि-द्वत्येव होतव्यम् इति ५ अनादिष्ट उपसमाधाय होतव्यमनादिष्ट उपहत्यैव होतव्यमिति ६ मेक्षणेन अमुष्मै स्वाहा अमुष्मै स्वाहा इति दैवतं जुहोति ७ अथाप्युदाहरन्ति ओषध्यस्सक्तवः पुष्पं काष्ठं मूलं फलं तृणम् । एतद्धस्तेन होतव्यं नान्यत्किञ्चिदचोदनात् इति ८ ओषध्यादिवद्बलिहरणं प्राक्परिषे-चनाद्धुतशेषप्रदानं प्राशनं चैवमेव मूर्ध्नि संस्रावहोमः प्रदक्षिणं चान्यत्रोप-नयनात् ९ सावित्रीमर्थायार्थायाग्निं प्रणयति ११ अपवृत्ते कर्मणि लौकिक-स्सम्पद्यते १२ अथ यद्युत्करेऽग्न्युपस्थानादि समानं निवर्तते पूर्णाहुति- स्समानमत ऊर्ध्वम् १३ इति बोधायनीये गृह्यशेषसूत्रे प्रथमप्रश्ने तृतीयोऽध्यायः अथ प्रथमप्रश्ने चतुर्थोऽध्यायः अथातस्स्थिण्डलविधिं व्याख्यास्यामः १ सिकताश्चतुरङ्गुलं प्राचीनमुद्धृत्य पञ्चाङ्गुलिप्रमाणं पश्चिमत ऊर्ध्वमङ्गुलिविशेषं दक्षिणत ऊर्ध्वमङ्गुलिवि-हीनमुत्तरतः पञ्चप्रस्थं सिकताश्शुचयश्शुक्ला अनार्द्रा अरत्निमात्रं समचतुरश्रं प्राक्प्रवणं स्थण्डिलं करोति २ न लोष्ठेन न काष्ठेन न शर्करैर्न नखैः । काष्ठेन व्याधितस्स्याल्लोष्ठेन कुलनाशनम् । शर्करैः पुत्रनाशस्स्यान्नखैर्बन्धुविना-शनम् ३ तस्मात्सुवर्णरजतताम्रशकलेन व्रीहिभिर्यवैर्वा दर्भैस्तदङ्गुष्ठेन च महानाम्न्या चोपसङ्गृह्य तस्य मध्यतः प्राचीनं सन्ततमृजुमुल्लिखेत् । किंदेवत्यं किंमन्त्रमिति । ब्रह्मदेवत्यं ब्रह्म जज्ञानम् इति ४ तस्य दक्षिणतः प्राचीनं सन्ततमृजुमुल्लिखेन् । किंदेवत्यं किंमन्त्रमिति यमदेवत्यं नाके सुप-र्णम् इति ५ तस्योत्तरतः प्राचीनं सन्ततमृजुमुल्लिखेत् । किंदेवत्यं किंम-न्त्रमिति । सोमदेवत्यं आप्यायस्व समेतु ते इति ६ तस्य मध्यत उदीचीनं सन्ततमृजुमुल्लिखेत् । किंदेवत्यं किंमन्त्रमिति रुद्रदेवत्यं यो रुद्रो अग्नौ इति ७ तस्यः पश्चादुदीचीनं सन्ततमृजुमुल्लिखेत् । किंदेवत्यं किंमन्त्रमिति । विष्णुदेवत्यम् इदं विष्णुर्विवक्रमे इति ८ तस्य पुरस्तादुदीचीनं सन्ततमृ-जुमुल्लिखेत् । किंदेवत्यं किंमन्त्रमिति । इन्द्रदेवत्यम् इन्द्रं विश्वा अवीवृधन् इत्येतस्मात् स्थण्डिलविधिर्भवति ९ न कपालो न धूमो न ज्वालो न विस्फुटो न नम्रमुखो द्रप्सं पतितं मुखज्वलितं च वर्जयित्वा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां भूर्भुवस्सुवरोम् इत्याह भवगवान् बोधायनः १० इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने चतुर्थोऽध्यायः अथ प्रथमप्रश्ने पञ्चमोऽध्यायः अथातस्सिकतादोषं व्याख्यास्यामः १ भस्मकेशतुषकपालशर्करतृणास्थि-पिपीलिकैरार्द्रसिकतानि वर्जयेत् २ भस्मना यजमानक्षयः केशेन स्त्रीमरणं तुषेण पुत्रघ्नं कपालैरर्थनाशनं शर्करैर्बन्धुवियोगः तृणेन कर्मक्षयः अस्थिना ग्रामविनाशः पिपीलिकैः राष्ट्रविनाशः आर्द्रसिकतैर्व्याधिभयं भवतीत्याह भगवान् बोधायनः ३ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने पञ्चमोऽध्यायः अथ प्रथमप्रश्ने षष्ठोऽध्यायः अथातः परिस्तरणविधिं व्याख्यास्यामः १ दर्भैरविच्छिन्नाग्रैरनखच्छिन्नैरवि-वर्णकैरव्याधिकरदग्धमूलैश्चतुरङ्गुळाधिकैर्मूलं छिन्द्याद्धस्तसममाज्येनाभ्यज्य वा स्पृष्ट्वाज्येन वा स्पृष्टैरद्भिरनुमृज्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां परिस्तृणामि इति पुरस्तात्परिस्तीर्य दक्षिणेन व्याहृतिभिः पश्चिमेन उद्वयं तमसस्परि इति उत्तरेण अग्न आयाहि वीतये इति दक्षिणेनाग्निं ब्रह्मायतन उपवेश्य ॐ भूर्भुवस्सुवरॐ ब्रह्मन् । ब्रह्मासि नमस्ते ब्रह्मन् । ब्रह्मणे इत्यासनं कल्पयित्वोत्तरेणाग्निं प्रणीताभ्यः कल्पयित्वा वरुणोऽसि धृतव्रतो वारुणमसि इति २ एतस्मात्परिस्तरणविधिर्व्याख्यातः ३ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने षष्ठोऽध्यायः अथ प्रथमप्रश्ने सप्तमोऽध्यायः सर्वत्र दर्वीहोमानामष्टोत्तरशतं दर्भाः द्वे हस्तपवित्रे द्वे आसने प्रागुदीचीना-ग्रैष्षोडाश परिस्तरणं दक्षिणतः प्रागग्रैस्सप्तदश पश्चादुदीचीनाग्रैरष्टादशोत्तरतः प्रागग्रैस्सप्तदश पात्राणा पञ्च सप्तदश ब्रह्मासनं प्रणीतासने द्वे द्वे आज्यपवित्रे द्वे अभिद्योतने द्वे दर्भाग्रे द्वे पर्यग्निकरणे स्रक्सम्मार्जनं चतुर्भ्य इति १ अरत्निमात्रं षडङ्गुलं तिस्रश्शम्याः परिधीन् कृत्वा मध्यमाङ्गुलिरनामिका कनिष्ठिकेति स्थविष्ठो मध्यमोऽणीयान् द्राघीयान् दक्षिणतोऽणिष्ठो ह्रसिष्ठ उत्तरतो-ऽङ्गुष्ठपर्वमात्रमष्टादश याज्ञिकाः काष्ठाः प्रादेशमात्रं पवित्रं दर्भेतरुणकाभ्या-मङ्गुष्ठपर्वमात्रं प्रोक्षणीमाज्यस्थालीं प्रस्थचतुर्भागं पूर्ण प्रस्थद्विभागं प्रणीता-प्रणयनं चरुस्थालीं प्रस्थमाहुतिप्रमाणं चतुरङ्गुलमवदानप्रमाणमङ्गुष्ठपर्वमात्रं दर्वीप्रमाणमेकविंशत्यङ्गुष्ठं तस्या द्व्यङ्गुष्ठमुन्नतं पञ्चाङ्गुष्ठं बिलमेवमेव स्रुक्प्रा-देशमात्रमुच्छ्रितं चतुरङ्गुलं वा किञ्चिद्दक्षिणत उन्नतो भवति मेक्षणमिति होमदर्वीप्रमाणमिति ह स्माह बोधायनः २ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने सप्तमोऽध्यायः अथ प्रथमप्रश्ने अष्टमोऽध्यायः अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा प्रादेश-मात्रमुच्छ्रितं चतुरङ्गुलं वा किञ्चिद्दक्षिणत उन्नतो भवति १ प्राचीनप्रवणं किं-कामस्य उदीचीनप्रवणं किंकामस्य । प्राचीनप्रवणं ब्रह्मवर्चसकामस्यो-दीचीनप्रवणमन्नाद्यक मस्य प्रागुदक्प्रवणं प्रजाकामस्य समं प्रतिष्ठाकामस्य २ उपलिप्तं वैश्वदेवत्यमुद्धत्यं नाकदेवत्यमवोक्षणं पितृदेवत्यं सैकतं सिन्धु देवत्यमुल्लेखनं यमदेवत्यं निरसनं रुद्रदेवत्य स्पर्शनं वरुणदेवत्यमग्निविधानं विष्णुदेवत्यं विहरणं वामदेवत्यं कर्म गायत्र्याः परिस्तरणदर्भाज्यस्थाली-स्रुवजुहूनां पृथिवीदेवत्यं स्रुक्सोमदेवत्यमाज्यं वसुदेवत्यं पवित्रं विष्णुदेवत्यं चरुः प्रजापतिदेवत्यं मेक्षणं अग्निदेवत्यं सम्मार्जनं रुद्रदेवत्यं कूर्चं प्रजापति-देवत्यमुदकुम्भं अब्देवत्यं प्रणीता वरुणदेवत्यमश्म महेन्द्रदेवत्यं वासः सोमदेवत्यं कर्ता बृहस्पतिदेवत्यं धूमं अतिथिदेवत्यमिध्मं अग्निदेवत्यं मध्य-मपरिधिः यजमानदेवत्यं दक्षिणपरिधिः इन्द्रदेवत्यमुत्तरपरिधिः वरुणदेव-त्यमूर्ध्वसमिधौ सूर्यदेवत्यमिन्द्राग्नियमनिरृतिवरुणवायुसोमेशाना अष्ट दि-ग्देवत्यं व्यजनं वायुदेवत्यं गन्धं अश्विनिदेवत्यं पुष्पं गान्धर्वदेवत्यं धूपं इन्द्रदेवत्यं दीपं भानुदेवत्यं प्रयाजानूयाजं ऋतुदेवत्यं पक्वं प्रधानदेव-त्यमुपहोमाः यथालिङ्गदेवत्यं यत्र यत्र होमे मन्त्रविधानं तत्र तत्र तल्लिङ्गदेवत्यं परिषत् ब्रह्मदेवत्यं सदस्याः सर्वदेवत्यमन्येषामनुक्ताना प्रजापतिदेवत्यं योऽस्य दैवतं मन्त्रतः कर्मतो वाभिज्ञाय जुहोति सोऽश्नुते श्रियमायुष्यमारोग्यं स्वर्ग्यं च भवति ३ अग्निहीनमनावृष्टिः मन्त्रहीनं तु ऋत्विजः आज्यहीनं कुलं हन्ति स्वरहीनं तु पत्नयः ४ यजमानं दक्षिणाहीनमन्नहीनं तु राष्ट्रकम् सर्वहीनं सदस्यानि नास्ति यज्ञसमो रिपुः ५ तस्मात्सर्वप्रयत्नेन किञ्चिद्द्रव्यस्समाचरेत् श्रियःकामश्चरेत्सर्वं समृद्धं सहदक्षिणम् ६ एवं ऋषिविधानोक्तं मुनीनां तत्त्ववेदिनाम् सर्ववेदाह्निकं होमं सर्वलोकेषु पूजितम् ७ सर्वलोकेषु पूजितमितीत्याह भगवान् बोधायनः ८ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने अष्टमोऽध्यायः अथ प्रथमप्रश्ने नवमोऽध्यायः अथातः पुण्याहदेवता व्याख्यास्यामः विवाहस्याग्निः प्रीयतां औपासनस्या-ग्निसूर्यप्रजापतयः प्रीयन्तां पञ्चमेऽहन्युदुम्बरो दशमेऽहन्यन्ते चित्र्याणि स्थाली-पाकस्याग्निः गर्भाधानस्य ब्रह्मा पुंसवनस्य प्रजापतिः सीमन्तस्य धाता वि-ष्णुबलेस्सविता जातकर्मणो मृत्युः नामकरणस्य सविता तस्यान्ते प्रजापतिः उपनिष्क्रामणस्य सविता तस्यान्ते चित्र्याणि अन्नप्राशनस्य सविता चौळस्य केशिनः तस्यान्ते प्रजापतिः उपनयनस्येन्द्रश्श्रद्धामेधे इत्यन्ते विसर्गे सुश्रवाः पुनरुपनयनस्याग्निः अथ यदि ब्रह्मचार्यव्रत्यमिव चरेत्तस्मिन्नध्यायहोमे सविता समावर्तनस्य श्रीरिन्द्रो वा शूलगवस्येशानः प्रत्यवरोहणस्य सविता उपाकर्मव्रतेषु च सविता वास्तुहोमस्य वास्तोष्पतिः अन्ते प्रजापतिः अद्भुत-होमस्येन्द्रेः अन्ते प्रजापतिः आयुष्यहोमस्याग्निरायुष्मान् नक्षत्रहोमस्य नक्षत्रे-ष्टिषूक्तमष्टमी प्रदोषस्येशानः आग्रयणहोमस्याग्रयणदेवताः सर्पबलेस्सर्पाः आदित्यपुरोगा ग्रहाः प्रीयन्ताम् अथैकोद्दिष्टस्यान्ते प्रजापतिस्तटाकादीनां वरुणो देवता यक्षिबलेर्यक्षी गृहशान्तिहोमस्यादित्यादिनवग्रहाः गर्भाधाना-दितन्त्रहोमस्य ब्रह्मादयः प्रीयन्तामित्येवमन्येषां होमानां याज्यापुरोनुवा-क्ययोर्देवता तस्यासौ प्रीयतामिति । सूतकान्ते प्रेतकान्ते प्रथमोदक्यान्ते च प्रजापतिः कूश्माण्डहोमस्याग्न्यादयः चान्द्रायणहोमस्याग्न्यादयः अग्न्याधे- येऽग्नीषोमेन्द्राः एवमनादिष्टकर्मसु प्रजापतिः १ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने नवमोऽध्यायः अथ प्रथमप्रश्ने दशमोऽध्यायः अथातः पुण्याहं व्याख्यास्यामः १ शुचौ समे देशे दर्भान्दूर्वां धारयमाणाः चत्वारो ब्राह्मणा अरिक्तहस्ताः प्राङ्मुखा युग्मास्तिष्ठन्ति २ तेषां दक्षिणत उदङ्मुखो वापिहितमुदकुम्भं धारयन्वाचयिता तस्य दक्षिणं बाहुमाश्रित्य पत्न्यस्तिष्ठन्ति ३ पूर्णकुम्भमभ्यर्च्य दर्भेष्वासीनो दर्भान्धारयमाणोऽनुज्ञां कुर्यात् भवद्भिरनुज्ञातः पुण्याहं वाचयिष्ये इति । ते प्रणवपूर्वं वाच्यताम् इति प्रतिब्रूयुः ४ ॐ स्थित्वा तेषां सपवित्रेषु पाणिषु जलं ददाति ओमापः इति । शिवा आपस्तन्तु इति प्रत्यूचुः ५ ततः गन्धाः इति गन्धं ददाति । सुगन्धाः पान्तु इति प्रतिगृह्णन्ति ६ तेभ्यः सुमनसः इति पुष्पं ददाति । ते सौमनस्यमस्तु इति प्रतिगृह्णन्ति ७ तेषां पाणिषु अक्षतम् इति अक्षतान्ददाति । अक्षतशब्देन व्रीहिमिश्रास्तण्डुला उच्यन्ते । अक्षतं चारिष्टं चास्तु इति प्रतिगृह्णन्ति ८ ब्राह्मणा अभुक्ताश्चेत् ओमन्वाहार्यः इत्योदनं ददाति । ते स्वन्वाहार्योऽस्तु इति प्रतिगृह्णन्ति ९ तेभ्यो दक्षिणाः इति दक्षिणां ददाति । स्वस्ति दक्षिणाः पान्तु बहुदेयं चास्तु इति प्रत्यूचुः १० ततो वाचयिता दक्षिणं जानुं भूमौ निधाय सव्यमुत्थाप्योदुङ्मुखः इडा देवहूः इति जपति । उदकुम्भमादायोपतिष्ठ इति प्रत्यूचुः ११ ततो वाचयिता मनस्समाधीयताम् इति समाहितमनसस्स्मः इतीतरे प्रत्याहुः १२ कर्ता प्रसीदन्तु भवन्तः इति प्रसन्नास्स्मः इति वाचयित्वा यद्वा सर्वैर्मन्त्रैरनवानं वदेत् १३ शान्तिरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्तु अविघ्नमस्तु आरोग्यमस्तु शिवं कर्मास्तु इति । एवमेवेतरे प्रत्याहुः १४ यद्देवत्यं भवति तस्य नाम गृह्णाति असौ प्रीयताम् इति । एवमेवेतरे १५ वाचयिता पुण्याहं भवन्तो ब्रवन्तु ॐ पुण्याहम् इती-तरे प्रत्याहुः । एवमेव त्रिः १६ ततः स्वस्ति भवन्तो ब्रुवन्तु इति । ॐ स्वस्ति इतीतरे प्रत्यूचुः १८ ततो वाचयिता ॐ ऋद्धिं भवन्तो ब्रवन्तु इति । ॐ ऋध्यताम् इतीतरे प्रत्याहुः १८ एवमेव त्रिर्वाचयित्वा ॐ पुण्याह-समृद्धिरस्तु अस्तु इति ॐ शिवं कर्मास्तु अस्तु इतीतरे प्रत्याहुः १९ यद्देवत्यं भवति तस्य नाम गृह्णाति असौ प्रीयताम् इति २० प्रीयतामसौ इति प्रतिब्रूयुः २१ अथ व्याहृतिभिर्भूमौ जलं विसृज्योपविश्य सुरभिमत्याऽब्लिङ्गाभि-र्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिरिति मार्जयित्वा पत्नीं च प्रोक्षतीत्याह भगवान्बोधायनः २२ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने दशमोऽध्यायः अथ प्रथमप्रश्ने एकादशोऽध्यायः अथ प्रहुते प्रसिद्धं जातकर्म कृत्वा दशम्यां द्वादश्यां वा मातापितरौ स्नात्वा शुच्यगारं कृत्वा पुत्रस्य नामधेयस्य निदधीयातामिति १ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा देवयजनोल्लेखन-प्रभृत्याग्निमुखात्कृत्वा प्राजापत्येन सूक्तेन जुहोति प्रजापते न त्वदेतान्यन्यः इति षड्भिरनुच्छन्दसम् २ जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयन्नामास्मै दधाति नक्षत्रनामधेयेन ४ द्वितीयमस्य नामधेयं गुह्यमस्यान्यदभिवादनीयमोपनयनकालान्मातापितरौ संविदितौ भवतः ५ विज्ञायते च तस्मात् द्विनामा ब्राह्मणोऽर्धुकः इति ६ सोमयाजी तृतीयं नामधेयं कुर्वीत इति विज्ञायते ७ अयुगक्षरं कुमार्यै स्वस्ति श्रीसोम्येति दीर्घवर्णान्तम् ८ अथाप्युदाहरन्ति शर्मान्तं ब्राह्मणस्य बर्मान्तं क्षत्रियस्य गुप्तान्तं वैश्यस्य भृत्यदासान्तं शूद्रस्य दासान्तमेव वा ९ अथ यदि ब्राह्मणं न विन्देतौपासने ज्योतिष्मत्या पुत्रस्य नाम गृह्णात्युपतिष्ठते वा १० अथ नक्षत्राणि रोहिणीमृगशीर्षमखाचित्राज्येष्ठाश्रवणशतभिषक् रेवत्या- श्वयुक्षु प्रथमाक्षरवृद्धिस्स्याद्रोहिण्यां रौहिणायेति । तथेतराणि ११ तिष्य आश्लेषा हस्त विशाखा अनूराधा आषाढा श्रविष्ठासु प्रकृतिवत्तिष्यायेति । तथेराणि १२ फल्गुन्यां फाल्गुनायेति १३ स्वातीपुनर्वस्वोः स्वातये पुनर्वसव इति १४ मूलार्द्रयोः मूलकायार्द्रकायेति १५ प्रोष्ठपदासु प्रोष्ठपदाय प्रौष्ठपदायेति वा १६ अपभरण्यामपभरणायापभरणायेति वा १७ अग्नये कृत्तिकाय कार्तिकायेति वा व्याख्यातान्यग्नेहोतुः १८ स्त्रीविषये कुमार्यै रोहिण्यै सुश्रियै गौर्यै स्वस्तीति १९ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने एकादशोऽध्यायः अथ प्रथमप्रश्ने द्वादशोऽध्यायः सप्तमेऽष्टमे वा मासि कर्णवेधः १ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वा-ज्जुहोति श्रोत्रेण भद्रम् इति पुरोनुवाक्यामनूच्य येन प्राच्यै इति याज्यया जुहोति २ अथाज्याहुतीरुपजुहोति प्राणो रक्षति विश्वमेजत् इत्येतेनानुवाकेन प्रत्यृचम् ३ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ४ अथाग्रेणाग्निं वेणुपर्णेषु हुतशेषं निदधाति समुद्राय वायुनाय सिन्धूनां पतये नमः इति ५ अथाशिषो वाचयित्वा लोहितसूच्या वा कण्ठकेन वा दक्षिणं कर्णमातृणत्ति गा त्री त्रिष्टुप् इति । द्विपदा इत्युत्तरम् । ६ अथ लोहितसूत्रेण वा वेणुसूत्रेण वा कर्णौ बध्नाति वरुणस्य स्कम्भनमसि इति ७ श्वोभूते विस्रंसयति वरुणस्य स्कम्भसर्जनमसि इति ८ सूत्रेण वा वेणुकाण्डेन वा वर्धयति ९ अथाप्यु- दाहरन्ति पुत्राय च दुहित्रे च समानि ब्राह्मणक्रिया मन्त्रवद्गर्भ आजन्म जन्माद्य आवृतं स्त्रियै १० सर्वेषु व्याहृतीर्विद्यादनाम्नातेषु कर्मसु होतव्या ब्रह्मभूताय नाक्रियो ब्राह्मणो भवेत् ११ अनग्निरक्रियश्शूद्रः तस्माज्जातोऽग्निना द्विजः नामधेयादि कर्तव्यमाकार्यादरणीकृतम् १२ मथित्वा वाऽथ शकलान् समिद्धे मन्त्रवत्तथा उपनयनादिवाजस्रं स्वयं चारणिमग्निना १३ सायंप्रातर्विधानेन समिद्भिस्तत्र हूयते गुरुशुश्रूषणपरस्समारोप्यात्मनि स्वयम् १४ या ते अग्नेतिमन्त्रेणोपावरोहेति लौकिके हुत्वा व्रतानुचरितं समावृत्ते गुरोर्मतात् १५ विवाहं विधिवत्कृत्वा गृहस्थाश्रममाविशेत् वैवाहिको विधिः स्त्रीणामौपनायनिकस्स्मृतः १६ तावुभौ चारिणौ तस्मादौपासनमिति श्रुतिः इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने द्वादशोऽध्यायः अथ प्रथमप्रश्ने त्रयोदशोऽध्यायः अथ नक्षत्रहोमं व्याख्यास्यामः संवत्सरे संवत्सरे षट्सु षट्सु मासेषुचतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा कुमारस्य जन्मनक्षत्रे क्रियेत १ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखन-प्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुवः इति द्वाभ्याम् २ अथ नक्षत्रदेवताभ्यो जुहोति यथानक्षत्रम् ३ अनु नोऽद्यानुमतिरन्विदनुमते इति तृतीयम् ४ अथाज्याहुतीरुपजुहोति नक्षत्रदेवताभ्यो यथानक्षत्रम् ५ चन्द्रमसे स्वाहा । प्रतीदृश्यायै स्वाहा । अहोरात्रेभ्यस्स्वाहा अर्धमासेभ्यस्स्वाहा । मासेभ्यस्स्वाहा इति मासि मासि ६ ऋतुभ्यस्स्वाहा इत्यृतावृतौ ७ संवत्सराय स्वाहा इति संवत्सरे ८ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ९ अन्नशेषं सगणः प्राश्नाति १० अथ संवत्सरे पर्यवेते प्रसिद्धमाग्निमुखा-त्कृत्वा पक्वाज्जुहोत्याग्नेयं प्रधानदेवत्यम् ११ यथानक्षत्रं द्वितीयम् १२ अनु नोऽद्यानुमतिरन्विदनुमतेत्वम् इति तृतीयम् १३ नवो नवो भवति जायमानः यमादित्या अंशुमाप्याययन्ति इत्यान्तादनुवाकस्य १४ अथ पूर्ववदाज्या-हुतीरुपजुहोति नक्षत्रदेवताभ्यो यथानक्षत्रम् १५ चन्द्रमसे स्वाहा । प्रतीदृ-श्यायै स्वाहा इत्येतैः स्वाहाकारैरान्तादनुवाकस्य १६ स्विष्टकृत्प्रभृति सिद्ध- माधेनुवरप्रदानात् १७ नक्षत्रहोमो व्याख्यातः १८ इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने त्रयोदशोऽध्यायः अथ प्रथमप्रश्ने चतुर्दशोऽध्यायः अथ वै भवति श्रद्धा वा आपश्श्रद्धामेवारभ्येति । यज्ञो वा आपो यज्ञमेवारभ्येति । वज्रो वा आपो वज्रमेव भ्रातृव्येभ्यः प्रहृत्य इति । आपो वै रक्षोघ्नी रक्ष सामपहत्यै इति । आपो वै देवान प्रियं धाम इति । अमृतं वा अपास्तस्मादद्भिरवतांतमभिषिञ्चन्ति इति । आपो वै सर्वा देवता देवता एवारभ्य इति आपो वै शान्ताश्शान्ताभिरेवास्यशुचं शमयति इति ब्राह्मणम् १ तस्मात्पवित्रेण शान्युदकं करोति जन्मनक्षत्रे पुण्ये नक्षत्रे विवाहचौळोपनयनसमावर्तनसीमन्ताग्न्याधेयान्यन्यानि मङ्गलकार्याणि ग्रहोपरागे ग्रहोत्पाते वा द्विपात्सु चतुष्पात्सु भयं विन्देताथ शान्तिमारभेत २ युग्मान् ब्राह्मणान् सुप्रक्षाळितपाणिपादानप आचमय्य प्रतिदिशमासनेषूपवेश्य गोमयेन गोचर्म-मात्रं चतुरश्रं स्थण्डिलमुपलिप्य दर्भेषु प्राङ्मुख उपविश्य दर्भान् दूर्वाश्च धारयमाणः पवित्रपाणिस्स्थण्डिलं कृत्वा प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य दूर्वाभिर्दर्भैरवकीर्य गन्धोदकेनाभ्युक्ष्य पुष्पैरवकीर्य ब्रह्मपात्रं सूत्रेण परिवेष्ट्य तेषु ब्रह्मपात्रं निदधाति ब्रह्म जज्ञानम् इति ३ अथ तिरः पवित्रमप आनयन् जपति तत्सवितुर्वरेण्यम् इति ४ यवाक्षततण्डुलानावपति भूर्भुवस्सुवरोम् इति ५ अथ पुष्पैर्दूर्वाभिः फलैरवकीर्य दूर्वाभिः दर्भैः प्रतिच्छाद्याभिमृशति शं नो देवीरभिष्टये इति ६ अन्वारब्धेषु जपति तत्सवितुर्वरेण्यम् इत्येतां पच्छोऽर्धर्चशोऽनवानमुक्त्वा वेदादीन् जपति ७ राक्षोघ्नं कृणुष्व पाजः प्रसितिम् इत्येवमनुवाकं मदे चिदस्य इत्यर्धर्चमवोद्धृत्य इन्दुं वो विश्वतस्परि हवामहे जनेभ्यः इत्येतमनुवाकं यत इन्द्रभयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां महां इन्द्रः सजोषा इन्द्र इति द्वाभ्यां ये देवा पुरस्पदः इति पञ्चभिः पर्यायैः अग्नये रक्षोघ्ने इति पञ्च अङ्गिरायुष्मान् इति पञ्च या वामिन्द्रावरुणौ इति चतस्रः यो वामिन्द्रावरुणौ इत्यष्टौ अग्ने यशस्विन् इति चतस्रः राष्ट्र भृतं ऋताषा-डृतघामा इत्येतमनुवाकं नमो अस्तु सर्पेभ्यः इति तिसृभिरनुचच्छन्दसं पञ्च चोडा अयं पुरो हरिकेशः इति पञ्चभिः पर्यायैरप्रतिरथं अशुशिशशानः इत्येतमनुवाकं शं च मे मयश्च मे इत्येतमनुवाकं विहव्यं ममाग्ने वर्चो विहवेष्वस्तु इत्येतमनुवाकं सृगारं अग्नेर्मन्वे इत्येतमनुवाकं सर्पाहुतीः समीची नामासि प्राची दिक् षड्भिः पर्यायैः गन्धर्वाहुतीः हेतयो नाम स्थ तेषां वः पुरोगृहाः इति षड्भिः अज्यानीः शतायुधाय इति पञ्च भूतं भव्यं भविष्यत् इत्येतमनुवाकं अथर्वशिरसं इन्द्रो दधीचो अस्थभिः इत्येतमनुवाकं प्रत्याङ्गिरसं चक्षुषो हैते मनसो हैते इति प्रतिपद्य भ्रातृव्य पादयामसि इत्यन्तं प्राणो रक्षति विश्वमेजत् इत्येतमनुवाकं सिंहे व्वाघ्र उत या पृदाकौ इत्येतमनुवाकं अहमस्मि इत्येतमनुवाकं ता सूर्याचन्द्रमसा इत्येतमनुवाकं अग्निर्नः पातु ऋध्या स्म नवोनवः इत्येतैस्त्रिभिरनुवाकैरुत्तमैरुपहोमैश्च सुरभिमत्याऽब्लिङ्गाभि-र्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिः तश्छंयोरावृणीमहे इत्येत-मनुवाकं नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह इति ब्राह्मणम् ८ प्रणवे-नोस्थाप्य व्याहृतीभिः प्रोक्षति ९ अथ दक्षिणां ददाति पुरस्तादुपविष्टाय हिरण्यं ददाति दक्षिणतो रजतं पश्चात्कांस्यमुत्तरतो वासो ददाति १० अथ ग्रहगृहीतानां ज्वरगृहीतानां भूतोपसृष्टानां मित्र बन्धुसुहृज्ज्ञातिसखिस-म्बन्धिबान्धवानां राज्ञां च राजपुरोहितानां च बालवृद्धान्तर्वात्निपापरोगिदीर्घ रोगिकृशातुरान् प्रोक्षति ११ हस्त्यश्वोष्ट्रगोमहिष्यजाविकभृत्यांश्च धनधान्यानि च प्रोक्षति १२ एवमेकरात्रं त्रिरात्रं पञ्चरात्रं सप्तरात्रं नवरात्रमित्यपपुनर्मृत्युं जयतीत्याह भगवान् बोधायनः १३ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने चतुर्दशोऽध्यायः अथ प्रथमप्रश्ने पञ्चदशोऽध्यायः अथातः प्रतिसरबन्धं व्याख्यास्यामः १ यस्मिन् दिने नान्दीमुखं कुर्यात्तस्यां रात्र्यां प्रदोषान्ते प्रतिसरमारभेत २ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य युग्मान् ब्राह्मणान् सुप्रक्षाळितपाणिपादानप आचमय्य प्रतिदिशमासनेषूपवेश्य पश्चात्प्राङ्मुख आचार्य उपविशति ३ तस्य दक्षिणं बाहुमन्वितरः ४ अथ हस्तमात्रं सैकतं स्थण्डिलं कृत्वोल्लिख्याद्भिरभ्युक्ष्य स्थण्डिलस्य मध्ये प्रागग्रान् दर्भान् संस्तीर्य तेषूपरि कुम्भं निधाय व्याहृतीभिश्शुद्धोदकैः पूरयित्वा दूर्वाक्षतफलैरवकीर्य गन्धपुष्पधूपदीपैरुद-कुम्भमभ्यर्च्य दूर्वाभिर्दर्भैः प्रतिच्छाद्योत्तरतः शालितण्डुलस्योपरि प्रतिसरसूत्रं गन्धानुलिप्तं निधाय आचार्यमुखांस्त्रीन् प्राणायामान् धारयित्वा उदकुम्भम-न्वारभ्य सावित्रीं जपति तत्सवितुर्वरेण्यम् इत्येतां पच्छोऽर्धर्चशोऽनवा-नमुक्त्वा वेदादीन् जपति ५ राक्षोघ्नं कृणुष्व पाजः इत्येतमनुवाकं अग्ने यशस्विन् इति चतस्र आप्यं हिरण्यवर्णाश्शुचयः पावकाः इत्येतमनुवाकं पवमानस्सुवर्जनः इत्येतमनुवाकं वरुणसूक्तम् उदुत्तमं वरुण पाशम् इति षडृचं रुद्रसूक्तं परि णो रुद्रस्य हेतिः इति षडृचं ब्रह्मसूक्तं ब्रह्म जज्ञानम् इति षडृचं विष्णुसूक्तं विष्णोर्नुकम् इति षडृचं पञ्च दुर्गाः जातवेदसे इति श्रीसूक्तं हिरण्यवणां हरिणीम् इति पञ्चदशर्चं नमो ब्रह्मण इति परिधानीयां त्रिरन्वाह इति ब्राह्मणम् ६ प्रणवेनोत्थाप्य व्याहृतीभिस्सुरभिमत्याऽब्लिङ्गाभिः प्रोक्ष्य प्रतिसरसूत्रमादाय वासुकिं ध्यात्वा अङ्गुष्ठेनोपकनिष्ठिकाभ्यां त्र्यम्बकेन त्रिरूर्ध्वं भस्मना सम्मृज्य अग्निरायुष्मान् इति पञ्चभिः तस्य दक्षिणहस्तं गृहीत्वा बृहत्साम इति बध्वा स्त्रीणां वामहस्तं भस्मना घृतसूक्तेन यो ब्रह्म ब्रह्मणः इत्यष्टर्चेन रक्षां कुर्यादित्याह भगवान् बोधायनः ७ इति बोधायनीये गृह्यशेषसूत्रे प्रथमप्रश्ने पञ्चदशोऽध्यायः अथ प्रथमप्रश्ने षोडशोऽध्यायः अथातो ग्रहातिथ्यवलिकर्मोपहारान् व्याख्यास्यामः अश्रद्दधानमशुचिमजपं त्यक्तमङ्गळम् ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम् १ ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणाम् उपचारान् प्रवक्ष्यामि शान्त्यर्थं तु यथाविधि २ मासिमास्यृतावृतावयने चन्द्रग्रहे सूर्यग्रहे विषुवे शुभाशुभे जन्मनक्षत्रे वा तद्ग्रहाणामातिथ्यं संवत्सरादपि प्रयुञ्जानस्सर्वान् कामानवाप्नोतीति ३ उक्त-मेकाग्निविधानम् ४ एको वा विषमस्थस्स्यात्सर्व एवार्चनीया भवन्ति ५ भास्कराङ्गारकौ रक्तौ श्वेतौ शुक्रनिशाकरौ सोमपुत्रो गुरुश्चैव तावुभौ पीतकौ स्मृतौ ६ कृष्णं शनैश्चरं विद्याद्राहुं केतुं तथैव च ग्रहवर्णानि पुष्पाणि प्राज्ञस्तत्रोपकल्पयेत् ७ बलींश्चैवोपहारांश्च गन्धमाल्यं तथैव च यथाक्रमेणोपहरेत्सर्वेषामानुपूर्वशः इति ८ अर्कसमिधमादित्याय खादिरमङ्गारकायौदुम्बरं शुक्राय पालाशं सोमा- यापामार्गं बुधायाश्वत्थं बृहस्पतये शमीमयं शनैश्चराय राहवे दूर्वाः केतवे कुशा इति ९ सर्वेषामलाभे पालाशीर्वा । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा ह-वींषि निर्वपति १० अथोपोत्थायाग्रेणाग्निं तण्डुलैः स्थण्डिलं कृत्वा ग्रहदेवता आवाहयति ११ मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु पूर्वे तु भार्गवं विद्यात्पूर्वदक्षिणतश्शशी १२ पूर्वोत्तरे बुधं विद्यादुत्तरे तु गुरुं तथा पश्चिमे तु शनिं विद्याद्राहुं दक्षिणपश्चिमे १३ पश्चिमोत्तरतः केतुः ग्रहस्थानं विधीयते दक्षिणोत्तरभागे तु साधिप्रत्यधिदेवताः १४ वृत्तमादित्याय त्रिकोणमङ्गारकाय पञ्चकोणं शुक्राय चतुरश्रं सोमाय बाणं बुधाय दीर्घचतुरश्रं बृहस्पतये धनुश्शनैश्चराय राहवे शूर्पं केतवे ध्वजमिति १५ अर्कश्शुक्रो बुधः पूर्वो गुरुरुत्तरतोमुखः पश्चिमे तु शनिश्चन्द्रः शेषा दक्षिणतोमुखाः १६ यवा आढक्यस्तण्डुलाश्श्यामाका मुद्गमेव च चणकास्तिलमाषाश्च कुळुत्थाश्च क्रमात् क्षिपेत् १७ अग्नीश्वरौ भास्करस्य भूक्षेत्रेशौ कुजस्य हि इन्द्राणीन्द्रौ सितस्याथ ह्यापो गौरी निशापतेः १८ विष्णुर्विष्णुर्बुधस्येन्द्रमरुत्वान् ब्रह्म वै गुरोः शनेः प्रजापतियमौ राहोस्सर्पस्तु निरृतिः १९ केतोः ब्रह्मा च चित्रश्च स्वस्वमन्त्रैस्स्वनामभिः लोकपालान् दुर्गविघ्नक्षेत्रवास्तुत्रियम्बकान् २० अभयंकरमृत्यू च ह्यग्निं वैश्वानरं क्रमात् आवाहयेद्भ्य हृतिभिर्यजेद्व्यष्टोपचारकैः २१ परिधानप्रभृत्याऽग्निमुखात्कृत्वा आ सत्येन इत्यादित्याय अग्निर्मूर्धा इत्यङ्गारकाय प्रवश्शुक्राय इति शुक्राय आप्यायस्व इति सोमाय उद्बुध्यस्व इति बुधाय बृहस्पते अति यदर्यो अर्हात् इति बृहस्पतये शं नो देवीरभिष्टये इति शनैश्चराय कया नश्चित्र आ भुवत् इति राहवे केतुं कृण्वन् इति केतवे २२ पुरोनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वाय इति ब्राह्मणम् २३ यत्रैकाऽम्नाता स्यात्तां द्विरभ्यवर्तयेत् तत्सवितुर्वरेण्यम् इत्यनुद्रुत्याम्नातया जुहोति वा २४ नवानां ग्रहाणां पक्वं हृत्वा घृतान्वक्तानां समिधामष्ट-सहस्रमष्टशतमष्टाविंशतिं वा जुहुयात्प्रत्यृचं हविषो जुहुयात् प्रत्यृचमाज्यस्य जुहुयात्प्रत्यृचम् २५ गुळोदनमादित्यायि हविष्यमन्नमङ्गारकाय घृतोदनं शु-क्राय घृतपायसं सोमाय क्षीरोदनं बुधाय दध्योदनं बृहस्पतये तिलपि-ष्टमिश्रमाषोदनं शनैश्चराय राहोः मांसोदनं केतोः चित्रोदनमिति २६ सर्वेषामलाभे हविष्यं वा २७ यदाऽष्टासहस्रं तदाऽधिप्रत्यधिदेवतानाम-ष्टाविंशतिं यदाऽष्टशतं तदाऽष्टावष्टौ यदा विंशतिं तदा तिस्रस्तिस्र आहुती-र्जुहुयादेवमेव लोकपालादीनाम् १८ अग्निं दूतं येषामीशे इत्यादित्याय । स्योना पृथिवि क्षेत्रस्य पते इत्यङ्गारकाय । इन्द्राणीं इन्द्रं वो विश्वतः इति शुक्राय । अप्सु मे सोमो अब्रवीत् गौरी मिमाय इति सोमाय । विष्णोर्नुकं विष्णो रगटम् इति बुधाय । इन्द्र मरुत्वः ब्रह्म जज्ञानम् इति बृहस्पतये । प्रजापते इमं यम प्रस्तरम् इति शनैश्चराय । आयङ्गौः यत्ते देवी इति राहवे । ब्रह्मा देवानां सवित्र चित्रम् इति केतवे २९ त्रतारमिन्द्रम् अग्निर्दां द्रविणम् यमो दाधर पृथिवीम् असुन्वन्तम् सधमादो द्युम्निनीः आनो नियुद्भिः सोमो धेनुम् सहस्राणि सहस्रधा इति लोकपालानाम् ३० जातवेदसे गणानां त्वा क्षेत्रस्य पतिना वयम् वास्तोष्पते त्र्यम्बकं यजामहे यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः ये ते सहस्रमयुते पाशाः मूर्धानं दिवो अरतिं पृथिव्याः इति दुर्गादीनाम् ३१ एवमेव हुत्वाज्यमिश्रतिलव्रीहिभिर्व्याहृतिभिर्हुत्वा सर्वस्मा-त्सकृत्सकृदवदाय द्विरभिघार्य स्विष्टकृतं अर्यमणम् इति पुरोनुवाक्यामनूच्य सोमं राजानम् इति याज्यया जुहोति ३२ मेक्षणमभ्याधाय जयप्रभृति सिद्धम् ३३ मूर्धानं दिवो अरतिम् इति पूर्णां हुत्वाऽग्रेणाग्निं ग्रहानभ्यर्चयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमान-स्सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा स्वस्वनामभिस्तर्पयित्वा स्वेन स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य वलिमुपहृत्य लाजापूपपृथुकाद्यपहारांश्च दत्त्वा समस्कृत्य प्रवाह्य जघनेनाग्निमुपविश्याद्भिर्मार्जयति आपो हिष्ठा मयोभवः इति तिसृभिः देवस्य त्वा इति तिसृभिः शंयुवाकेन च ३४ अथ दक्षिणां ददाति कपिलां धेनुमादित्याय रक्तमनड्वाहमङ्गारकाय रजतं शुक्राय शङ्खं सोमाय काञ्चनं बुधाय वासो बृहस्पतये कृष्णां गां शनैश्चराय राहवे छागं केतवे कुञ्जामिति ३५ सर्वेषमलाभे हिरण्यं वा ३६ येन वा तुष्येदाचार्यः ३७ अथाप्युदाहरन्ति यथा समुत्थितं घोरं यन्त्रेण प्रतिहन्यते एवं समुत्थितं घोरं शीघ्रं शान्तिं नयेत्सदा ३८ यथा शस्त्रप्रहरणात् कवचं भवति निवारणम् एवं दैवोपघातानां शान्तिर्भवति वारणम् ३९ अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः ४० ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः ४१ ईश्वरं भास्करं विद्यात् स्कन्धमङ्गारकं तथा शुक्रं शचीपतिं विद्यादुमां चैव निशाकरम् ४२ बुधं नारायणं विद्याद्ब्रह्माणं च बृहस्पतिम् यमं शनैश्वरं विद्याद्राहुं कालं तथैव च ४३ केतुमग्निमयं विद्याद्देव देवा यथा ग्रहाः देवता ग्रहरूपेण दर्शयन्ति शुभाशुभम् दर्शयन्ति शुभाशुभमित्याह भगवान् बोधायनः ४४ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने षोडशोऽध्यायः अथ प्रथमप्रश्ने सप्तदशोऽध्यायः अथ नवग्रहपूजाविधिः त्रैलोक्यदीपकं देवं गुणरूपं त्रयीमयम् स्थापयामि महाभक्त्या भास्करं ग्रहनायकम् १ मध्ये वर्तुलाकारमण्डले प्रत्यङ्मुखं कलिङ्गदेशजं काश्यपगोत्रजं विश्वामित्रार्षं विशाखानक्षत्रजं त्रिष्टुप्छन्दसं कपिलाग्निकं पद्मासनं पद्मवर्णं द्विभुजं रक्तवस्त्रं पृक्तगन्धं माणिक्यरत्नाभरणभूषितं किरीटिनं रक्तच्छत्रध्वजपताकिनं छन्दोमय-हरितसप्ताश्वं सप्तरज्जुकमेकचक्रं रक्तं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताऽग्निं प्रत्यधिदेवतारुद्रम् २ वन्दे रविं द्युमणिमम्बुरुहे निषण्णं दोर्भ्यां दधानमरुणाम्बुरुहे ग्रहेन्द्रम् माणिक्यभूषमरुणांशुकगन्धमाल्यैः भ्राजन्तमर्कममितद्युतिमब्जमित्रम् ३ कपिले सर्वदेवानां पूजनीया सुरोहिणी सर्वदेवमयी यस्मादतश्शान्तिं प्रयच्छ मे ४ जपाकुसुमसंकाशं कायपेयं महाद्युतिम् तमोहरं कल्मषघ्न भास्करं प्रणमाम्यहम् ५ दीवाकरं दीप्तसहस्ररश्मिं तेजोमयं जगतः कर्मसाक्षिम् मित्रं भानुं सूर्यमादिं ग्रहाणां रविं सदा शरणमहं प्रपद्ये ६ रक्तस्रगम्बरालेपं गदाशक्त्यसिशूलिनम् चतुर्भुजं मेषगमं भारद्वाजं धरासुतम् ७ रक्तकाञ्चनसङ्काशं रक्तकिञ्जल्कसन्निभम् स्थापयामि महारौद्रं रुद्रमूर्तिं महाबलम् ८ सूर्यस्य दक्षिणादिग्भागे त्रिकोणाकारमण्डले दक्षिणाभिमुखमवन्तीदेशजं भारद्वाजगोत्रजं जामदग्न्यार्षं गायत्रीछन्दसं धूमकेत्वग्निकं खङ्गशक्तिशूल-गदाधरं चतुर्भुजं रक्ताम्बरधरं रक्तविद्रुमरत्नाभरणभूषितं किरीटिनं रक्तच्छत्रध्व-जपताकिन रक्तमेषवाहनमग्निजरक्ताष्टाश्वं काञ्चनं रथमारुह्य दिव्यं मेरुं प्रदक्षि- णीकुर्वाणं ग्रहमण्डले प्रविष्टमधिदेवताभूमिं प्रत्यधिदेवताक्षेत्रपालम् ९ रक्तस्रग्गन्धवासा करविधृतगदाशक्तिखड्गत्रिशूलः भारद्वाजस्त्रिणेत्रो वसुमतितनयो लोहिताङ्श्शुभाङ्गः मेषव्याघ्रध्वजोऽर्कद्युतिसदृशमहाकुण्डलाश्लिष्टकर्णः पायाद्भास्वत्किरीटाङ्गृदवलयलसद्विद्रुमालङ्कतो नः १० धर्मस्त्वं वृषरूपेण जगदानन्दकारक अष्टमूर्तेरधिष्ठान अतश्शान्तिं प्रयच्छ मे ११ धारणीगर्भसम्भूतं विद्युत्काञ्चनसन्निभम् कुमारं शक्तिहस्तं च लोहिताङ्गं नमाम्यहम् १२ महेश्वरस्याननस्वेदबिन्दोर्भूमौ जातं रक्तमाल्याम्बराढ्यम् सुदीधितिं लोहिताङ्गं कुमारमङ्गारकं सदा शरणमहं प्रपद्ये १३ शुक्रं शुक्लतनुं श्वेतवस्त्राढ्यं दैत्यमन्त्रिणम् भार्गवं दण्डवरदकमण्डल्वक्षसूत्रिणम् १४ कुन्दपुष्पसमानाभं मुक्ताफलसमप्रभम् स्थापयामि महाशान्तं भृगुं दैत्यगुरुं प्रभुम् १५ सूर्यस्य पूर्वदिग्भागे पञ्चकोणाकारमण्डले प्राङ्मुखं भोजकटकदेशजं भार्गव- गोत्रजं शौनकार्षं तिष्यनक्षत्रजं त्रिष्टुप्छन्दसं हाटकाग्निकं श्वेतमक्षसूत्रदण्ड-कमण्डलुवरदचतुर्भुजं श्वेताम्बरगन्धमाल्यवज्ररत्नाभरणभूषितं किरीटिनं श्वेत-च्छत्रध्वजपताकिनं श्वेताश्ववाहनं भूसम्भवश्वेतदशाश्वं श्वेतं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवतेन्द्राणी प्रत्यधि देवतेन्द्रम् १६ वन्दे विराजितसितांशुकगन्धमाल्यं अच्छाश्वगं तनुविराजितवज्ररत्नम् दोर्भिस्सदण्डवरकुण्डिकमक्षसूत्रं बिभ्राणमासुरगुरुं भृगुपुत्रमीड्यम् १७ विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः विष्णोरर्कस्य वाहः स्यादतश्शान्तिं प्रयच्छ वे १८ हिमकुन्दतुषाराभं दैत्यानां परमं गुरुम् सर्वशस्त्रप्रदातारं भार्गवं प्रणमाम्यहम् १९ वर्षप्लवं चिन्तितार्थानुकूलं नयप्रधानं विनयोपपन्नम् तं भार्गवं योगविशुद्धसत्त्वं शुक्रं सदा शरणमहं प्रपद्ये २० श्वेतवस्त्रधरं श्वेतदशाश्वरथवाहनम् द्विभुजं साभयगदमात्रेयं सामृतं विधुम् २१ शान्तं नक्षत्रनाथं च रोहिणीवल्लभं प्रभुम् कुन्दपुष्पोज्ज्वलाकारं स्थापयामि निशाकरम् २२ सूर्यस्याग्नेयदिग्भागे चतुरस्राकारमण्डले प्रस्यङ्मुख यमुनादेशजमात्रेयगोत्र- जमात्रेयार्षं कृत्तिकानक्षत्रजं गायत्रीछन्दसं पिङ्गलाग्निकं अभयगदाधरं द्विभुजं श्वेताम्बरगन्धमाल्यमुक्ताभरणभूषितं किरीटिनं श्वेतच्छत्रध्वजपताविनं वारि-संभूतदशाश्वं त्रिचक्रं श्वेतरथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रह मण्डले प्रविष्टमधिदेवतापं प्रत्यधिदेवतागौरीम् २३ श्वेताम्बरस्रगनुलेपनमत्रिनेत्र- जातं दशाश्वरथवाहनमोषधीशम् दोर्भ्यां धृताभयगदं भपतिं सुधांशुं श्रीमत्सुमौक्तिकधरं प्रणमाभि चन्द्रम् २४ पुण्यस्त्वं शङ्ख पुण्यानां मङ्गळानां च मङ्गळम् विष्णुना विधृतो नित्यमतश्शान्तिं प्रयच्छ मे २५ दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् नमामि शशिनं भक्त्या शम्भोर्मकुटभूषणम् २६ यः कालहेतोः क्षयवृद्धिमेति यं देवताः पितरो वा पिबन्ति तं वै वरेण्यं ब्रह्मेन्द्रवन्द्यं सोमं सदा शरणमहं प्रपद्ये २७ पीतस्रग्गन्धवस्त्राढ्यं स्वर्णाभं च चतुर्भुजम् शक्तिचर्मासिगदिनमात्रेयं सिंहगं बुधम् २८ चाम्पेयपुष्पसङ्काशं विशुद्धकनकप्रभम् स्थापयामि महासौम्यं बुधं सोमात्मजं प्रभुम् २९ सूर्यस्येशानदिग्भागे बाणाकारमण्डले प्राङ्मुखं मगधदेशजमात्रेयगोत्रजं भार- द्वाजार्षां श्रविष्ठानक्षत्रजं त्रिष्टुप्छन्दसं जाठराग्निकं शक्तिखङ्गचर्मगदाधरं चतुर्भुजं पीताम्बरगन्धमाल्यमरकतरत्नाभरणभूषितं किरीटिनं पीतच्छत्रध्व-जपताकिनं पीतसिंहवाहनं वाय्वग्निजपीताष्टादवं पीतं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवताविष्णु प्रत्यधिदेवताविष्णुम् ३० वन्दे बुधं मरकतोज्ज्वलदेहकान्तिं पीताम्बरस्रगनुलेपनभूषिताङ्गम् शक्तिं च दोर्भिरसिचर्मगदा दधानं सिंहध्वजं शशिसुतं बुधमत्रिवंशम् ३१ हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः अनन्तपुण्यफलदमतश्शान्तिं प्रयच्छ मे ३२ प्रियङ्गुगुलिकाभासं रूपेणाप्रतिभं बुधम् सौम्यं सौम्यगुणोपेतं नमासि शशिनस्सुतम् ३३ विशुद्धबुद्धिं श्रुतिकालबोधं सद्व्याहरं सोमवंशप्रदीपम् सुदीधितिं छान्दसं विश्वरूपं बुधं सदा शरणमहं प्रपद्ये ३४ आङ्गीरसं देवगुरुं पीतस्रग्गन्धवाससम् दण्डिनं वरदं पीतं साक्षसूत्रकमण्डलुम् ३५ कुन्दपुष्पसमानाभं तप्तकाञ्चनसन्निभम् स्थापयामि महाभक्त्या प्रसन्नवदनं गुरुम् ३६ सूर्यस्योत्तरदिग्भागे दीर्घचतुरश्रमण्डले उदङ्मुखं सिन्धुदेशजमाङ्गिरसगोत्रजं वसिष्ठार्षमुत्तराफल्गुनीनक्षत्रजं त्रिष्टुप्छन्दसं शिख्यग्निकं पीतमक्षसूत्रदण्ड-कमण्डलुवरदचतुर्भुजं पीताम्बरगन्धमाल्यपुष्यरागरत्नाभरणभूषितं किरीटिनं पीतच्छत्रध्वजपताकिनं विश्वरूपाख्यपाण्डुराष्टाश्वं कांचनं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवतेन्द्रं प्रत्यधिदेवता ब्रह्माणम् ३७ पीताम्बरं तनुलसद्धृतपुष्यरागं केयूरहारमणिकुण्डलमण्डिताङ्गं दण्डं वराक्षगुणकुण्डियुतं दधानं आङ्गीरसं सुरगुरुं हयगं नमामि ३८ पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् प्रदानादस्य मे विष्णुः प्रीतो भवतु सर्वदा ३९ देवतानामृषीणां च गुरुं काञ्चनसन्निभम् सुवन्द्यं त्रिषु लोकेषु प्रणमामि बृहस्पतिम् ४० बुद्ध्या समो यस्य न कश्चिदन्यो मतिं देवा उपजीवन्ति यस्य प्रजापतेरात्मजं धर्मनित्यं बृहस्पतिं सदा शरणमहं प्रपद्ये ४१ इन्द्रनीलनिभं मन्दं काश्यपिं चित्रभूषणम् चापबाणधरं चर्मशूलिनं गृध्रवाहनम् ४२ इन्द्रनीलसमानाभं नीलोत्पलसमप्रभम् स्थापयामि महारौद्रं सूर्यपुत्रं शनैश्चरम् ४३ सूर्यस्य पश्चिमदिग्भागे धनुराकारमण्डले उदङ्मुखं काश्यपगोत्रजं भृग्वार्षेयं रेवतीनक्षत्रजं सौराष्ट्रदेशजं गायत्रीछन्दसं महातेजोग्निकं नीलं चर्मबाणधनु-श्शूलचतुर्भुजं नीलाम्बरगन्धमाल्यनीलरत्नाभरणभूषितं किरीटिनं नीलच्छत्र-ध्वजपताकिनं नीलगृध्रवाहनमाकाशजजम्बालाष्टाश्वं नीलं रथमारुह्य दिव्यं मेरुं प्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवताप्रजापतिं प्रत्यधिदेव- तायमम् ४४ दोर्भिर्धनुर्विशिखचर्मधरं त्रिशूलं भास्वत्किरीटमकुटोज्जवलितेन्द्रनीलम् नीलातपत्रकुसुमांशुकगन्धभूषं गृध्रस्थितं रविसुतं प्रणतोऽस्मि मन्दम् ४५ गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश यस्मात्तस्माच्छिवं मे स्यादतश्शान्तिं प्रयच्छ मे ४६ नीलाञ्जनचयाकारं रविसूनु नपुंसकम् छायागर्भसमुद्भूतं वन्दे भक्त्या शनैश्चरम् ४७ शनैश्चरः प्रजापतिं योऽधि यस्य शनैर्भोगो गमनं चेष्टितं च सूर्यान्भजं क्रोधनसुप्रसन्नं शनैश्चरं सदा शरणमहं प्रपद्ये ४८ सैहिकेयं करालास्यं कौण्डिनेयं तमोमयम् खड्गचर्मधरं भीमं नीलसिंहासने स्थितम् ४९ नीलाञ्जनसमानाभं नीलमेघसमद्युतिम् स्थापयामि महावक्त्रं राहुं चन्द्रार्कवैरिणम् ५० सूर्यस्य नैरृत्यदिग्भागे शूर्पाकारमण्डले दक्षिणाभिमुखं बर्बरदेशजं पैठीन- सिगोत्रजमङ्गिरसाषमश्विनीनक्षत्रजं गायत्रीछन्दसं हुताशनाग्निकं कृष्णं ख-ड्गचर्मधरं द्विभुजं कृष्णाम्बरगन्धमाल्यगोमेदरत्नाभरणभूषितं किरीटिनं कृष्ण-च्छत्रध्वजपताकिनं कराळवदनमुरगालङ्कारं कृष्णसिंहासने स्थितमष्टाश्वं र-थमारुह्य दिव्यं मेरुमप्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेवतासर्पं प्र- त्यादिदेवतानिरृतिम् ५१ राहुं कराग्रपरिमण्डितचर्मखड्गं भीमं तमोमयतनुं तममिन्द्विनारिम् कौण्डिन्यसूनुमसितांशुकगन्धभूषं गोमेदभूषिततनुं हरिगं नमामि ५२ यस्मात्त्वं छाग यज्ञानामङ्गत्वेन व्यवस्थितः यानं विभावसोनित्यमतश्शान्तिं प्रयच्छ मे ५३ अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् सिंहकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ५४ यो विष्णुनैवामृतं पीयमानं छित्वा शिरो ग्रहभावे नियुक्तः योऽभ्यर्कचन्द्रौ ग्रसति पर्वकाले राहुं सदा शरणमहं प्रपद्ये ५५ धूम्रान् द्विबाहुगदिनो विकृतास्यान् शतात्मकान् गृध्रासनगतान् केतून् वरदान् ब्रह्मणस्सुतान् ५६ नीलमेघसमानाभं चित्रवर्णं महाबलम् स्थापयामि महारौद्रं केतुं सर्वफलप्रदम् ५७ सूर्यस्य वायव्यदिग्भागे ध्वजाकारमण्डले दक्षिणाभिमुखमन्तर्वेदिदेशजं जै- मिनीसूत्रजं रौद्राग्निकं धूम्रं वरदगदाधरं द्विभुजं चित्राम्बरगन्धमाल्यवैडूर्य-रत्नाभरणभूषितं किरीटिनं धूम्रच्छत्रध्वजपताकिनं चित्रगृध्रवाहनं धूमारुणाष्टाश्वं धूम्रं रथमारुह्य दिव्यं मेरुमप्रदक्षिणीकुर्वाणं ग्रहमण्डले प्रविष्टं अधिदेव- ताब्रह्माणं प्रत्यधिदेवताचित्रगुप्तम् ५८ गृध्रस्थितान् जलजयोनिसमानवक्त्रान् धूम्रान् वराभयकरान् सुभुजान् कुमारान् वैदूयभूषिततनून् वरजैमिनीयान् केतून् भयानकमुखान् द्विभुजान्नमामि ५९ महासत्त्व महाकाय क्षीरोदार्णवसम्भव सर्वसङ्ग्रामविजय जयं गज कुरुष्व मे ६० करालधूम्रसङ्काशान् तारकाग्रहमस्तकान् रुद्रान् रौद्रात्मकान् घोरान् तान् केतून् प्रणमाम्यहम् ६१ ये ब्रह्मपुत्रा ब्रह्मसमानवक्त्राः ब्रह्मोद्भवाः ब्रह्मसमाः कुमाराः ब्रह्मोत्तमा वरदा जैमिनीय्याः केतून् सदा शरणमहं प्रपद्ये ६२ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने सप्तदशोऽध्यायः अथ प्रथमप्रश्ने अष्टादशोऽध्यायः अथातो गृहकर्मणां गृहवृद्धिमिच्छन् मासि मासि ऋतावृतौ संवत्सरे संवत्सरे वापूर्यमाणपक्षे पुण्ये नक्षत्रे गृहशान्तिमारभेत १ अपामार्गपलाशसर्षपोदुम्बर- सदाभद्रामृततृणमिन्द्रवल्ल्या बध्वा गृहं संमार्ष्टि मा नो महान्तं मा नस्तोके इति द्वाभ्याम् २ पञ्चगव्यैर्दर्भमुष्टिना च संप्रोक्षति यत इन्द्र भयामहे स्वस्तिदा इति द्वाभ्याम् ३ कृणुष्व पाजः इत्येतेनानुवाकेन सिद्धार्थान् सम्प्रकीर्य वास्तु-मध्येऽथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति वास्तोष्पते वास्तोष्पते इति द्वाभ्याम् ४ अथाज्याहुतीरुपजुहोति वास्तोष्पते ध्रुवा स्थूणां इति षड्भिरनुच्छन्दसम् ५ सावित्र्या सहस्रं जुहुयात् ६ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ७ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वैवं प्रयुञ्जानो महान्तं पोषं पुष्यति वहवः पुत्रा भवन्ति न च बालाः प्रमीयन्ते न प्रहव्याधयो गृह्णन्ति न दंष्ट्रिणो धातयेयुर्न तस्करसर्पराक्षसपिशाचा बाधन्ते ८ यदि गावः प्रतप्येरन् गवां मध्ये आहुतिसहस्रं जुहुयात् गवां शान्तिरित्याचक्षते ९ द्विपदां चतुष्पदां चैतदेव व्याख्यातं वासो दक्षिणे ति ह स्माह भगवान् बोधायनः १० इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने अष्टादशोऽध्यायः अथ प्रथमप्रश्ने एकोनविंशोऽध्यायः अथातोऽश्वशान्तिं व्याख्यास्यामः अथ देवयजनोल्लेखनप्रभृत्याग्निमुखा-त्कृत्वा पक्वाज्जुहोति तदश्विनावश्वयुजोपयाताम् इति पुरोनुवाक्यामनूच्य यौ देवानां भिषजौ इति याज्यया जुहोति १ अथाज्याहुतीरुपजुहोति अश्विभ्यां स्वाहाऽश्वयुग्भ्यां स्वाहा श्रोत्राय स्वाहा श्रुत्यै स्वाहा इति २ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३ अथाग्रेणाग्निं अश्वत्थपर्णेषु हुतशेष निदधाति यो अश्वत्थश्शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मगा यज्ञियैः केतुभिस्सह इति ४ स्थालीसङ्क्षालनमाज्यशेषमुदकशेषं च पात्र्यां समानीयाश्वत्थशाखया प्रोक्षन् त्रिः प्रदक्षिणमश्वान् पर्येते यो वा अश्वस्य मेध्यस्य लोमनी वेद इत्येतेनानुवाकेने ते ह स्माह भगवान् बोधायनः ५ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने एकोनविंशोऽध्यायः अथ प्रथमप्रश्ने विंशोऽध्यायः अथातो गजशान्तिं व्याख्यास्यामः शुक्लपक्षेऽष्टम्यामेकादश्यां चतुर्दश्यां श्रोणायां वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वा पुरस्तात्तिलतण्डुलान्निरुप्य सावित्र्या अप अनीय सावित्र्या पूर्णकुम्भौ नवेन वाससा वेष्टयित्वा फलेनापि धाय पश्चादुक्तं चरुं निधाय पञ्चदूर्वास्तम्बे प्रतिष्ठापयति १ अथ दर्भमालाभिर्गजशालामलङ्कृत्य हस्ती हुतस्य गन्धमा-जिघ्रति २ आश्वत्थं मेक्षणमिध्माबर्हिः करोति ३ अथ देवयजनोल्लेखन-प्रभृत्याग्निमुखात्कृत्वा घृतेनाथ पक्वं गजसूक्तेन जुहुयात् आ तू न इन्द्र क्षुमन्तम् इति ४ अथाज्याहुतीरुपजुहोति नमस्ते रुद्र मन्यवे इत्येतैः पञ्चभिरष्टसहस्रं जुहुयात् ५ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ६ अग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति भूतेभ्यस्स्वाहा इति ७ अथ स्थालीपाकशेषं पञ्चदूर्वास्तम्बं चायुष्यसूक्तेन प्राशयित्वा प्रणीताजलेन प्रोक्षति आषो हिष्ठा इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवा-केन मार्जयित्वा स्वस्थानं नागजातिं नयति हस्ती दीर्घायुर्भवतीत्याह भगवान् बोधायनः ८ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने विंशोऽध्यायः अथ प्रथमप्रश्ने एकविंशोऽध्यायः यमयज्ञः स्वयं प्रोक्तः प्रवक्ष्ये विधिमुत्तमम् मासि मासि तु कर्तव्यो ह्यन्तकाय बलिस्तथा १ मेधाकामोऽर्थकामो वा पुत्रकामस्तु वै द्विजः याम्योऽहनि सनक्षत्रे सर्वान् कामात् समश्नुते २ संवत्सरस्य कार्तिक्यां बलिं कुर्वीत यत्नतः अकुर्वन्नह्नि कार्तिक्यां नरके तु निमज्जति ३ तस्मात्कुर्वीत कार्तिक्यां सर्वकामस्तु वै द्विजः तिलप्रस्थस्य कर्तव्यं गुडमिश्रं तथा हविः एकेन न तु कर्तव्यः कर्तव्यो बहुभिस्सह ४ हविरुद्वास्याभिमृश्य हविरादाय ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्या- निर्णवदेशे नदीतीरे समे वान्यस्मिन् शुचौ देशे दिक्षु सृक्तिं वेदिं करोति मृण्मयीं सिकताभिर्वा ५ तिस्र उत्तरवेद्या दिशासृक्तयो भवन्ति ६ दक्षिणेन करकूपं खात्वोत्तरेणाग्निं प्रतिष्ठाप्य दर्भैरुत्तरवेदिं च प्रच्छादयति । प्रागगै-स्तथैव विष्टरं निधाय प्रस्तरं निधाय प्रस्तरे च आयातु देवस्सुमना-भिरूतिभिर्यमो ह वेह प्रयताभिरक्ता । आसीदतां सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्यै इति यममावाह्य यमे इव यतमाने यदैतं प्रवा भरन् इति च इमं यम प्रस्तरमा हि सीद इति तिसृभिः प्रस्तरमभिमन्त्र्य पवित्रपा-णिरर्घ्यपाद्याचमनीयस्नानीयं च प्रदाय वारुणीभिर्हिरण्यवर्णाभिः पावमानी-भिरिति मार्जयित्वा सर्वसुरभिगन्धमाल्यं च प्रदाय यथोपलब्धं ददाति ७ कृष्णाः प्रतिसराः कृष्णसूत्रं वा ८ मध्यमेन पलाशपर्णेनाज्येनाग्निमन्वारब्धे जुहुयात् यमाय स्वाहा । अन्तकाय स्वाहा । धर्माय स्वाहा । अनन्ताय स्वाहा । वैवस्तताय स्वाहा । मृत्यवे स्वाहा । विष्णवे स्वाहा इति ९ व्याहृतीभिर्हुत्वा प्रागग्राण्यर्कपर्णान्यौदुम्बरपर्णानि वा निधाय तेषु मध्यम-स्यामुत्तरवेद्यां हविर्निवेदयते यमाय सोमं सुनुत इति तिसृभिः १० दक्षिणस्यामुत्तरवेद्यां श्वभ्यां हविर्निवेदयते यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा । ताभ्यामेनं परिदेहि राजन् स्वस्ति चास्मा अनमीवं च धेह्योम् इति ११ उत्तरस्यामुत्तरवेद्यां यमदूताभ्यां हविर्निवेदयते उरुणसाव-सुतृपा बुलुम्बलौ यमस्य दूतौ चरतो जनां अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दत्तामसुमद्येह भद्रमोम् इति १२ योऽस्य कौष्ठ्य इति तिसृभिर्यमगाधाभिः प्रदक्षिणं परीगायते १३ दक्षिणेन करकूपं गत्वा प्राचीनावीतं कृत्वा सव्य जान्वाच्य इषमिषं स्वधा पितृभ्यः इति त्रीनुदकाञ्जलीन् निनयति १४ आयम्य प्राणान् सप्तभिर्व्याहृतीभिस्सप्त पदानि प्राञ्चो गच्छन्ति त्रयोऽभि स्वर्गं लोकाः इति सप्त लोकाः अवरूढा भवन्तीति विज्ञायते १५ दधिक्राव्ण्णो अकारिषम् इति पुनः प्राणानाप्याय्याथैनं प्रत्येत्य नमोनमस्करकूपेभ्यो नमोनमस्कर-कूपेभ्यः इति करकूपमुपस्थाय यस्मै कामाय यमभिवादयन्ते यमो दाधार इति तिसृतिः सर्वा ता यम आहिता इति नाके सुपर्णम् इति प्रवाहयन्ते १६ हविरुत्तरतः पञ्चभिर्व्याहृतिभिस्स्वयमवभृथं गच्छति उरुं हि राजा इत्येतेना-नुवाकेन १७ प्रवक्ताऽवभृथे कलेकलुषमुक्ता अरोगशरीरा भवन्ति इति वि-ज्ञायते १८ यमेन दत्तं त्रित एनम् इति चतसृभिरादित्यमुपतिष्ठते १९ उद्वयं तमसस्परि इति प्रतिसरमाबध्नन्ति २० सर्वसुरभिगन्धमाल्यं च गृहीत्वा हविषा सर्वप्रायश्चित्तं च हुत्वाऽप्सु निमज्जन्तस्तत्र हविश्शेषान् भक्षयन्ते भक्षो-ऽस्यमृतभक्षः । तस्य ते मृत्युपीतस्य मृतवतः स्वगाकृतस्य मधुमत उपहू-तस्योपहूतो भक्षयामि इति २१ शेषं निनयति पुत्राय प्रियाय प्रियवादिने पुत्रभार्यायै पुत्रस्य भवति २२ यमो यष्टारमितः प्रयातमङ्के समाधाय पितेव पुत्रम् । सुहृच्च गच्छेत न चास्य भिन्नं पन्थानमस्यैव सहैव गच्छेत् २३ इति ह स्माह बोधायनः २४ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने एकविंशोऽध्यायः अथ प्रथमप्रश्ने द्वाविंशोऽध्यायः सर्वपापहरं चैव सर्वव्याधिविनाशनम् तृणगर्भं प्रवक्ष्यामि विद्धि धर्म्यं सनातनम् १ सङ्क्रमेषु च सर्वेषु ग्रहणे चन्द्रसूर्ययोः पर्वणोरुभयोश्चैव जन्मनि श्रवणे तथा २ सरोगाभिभवे चैव व्यतीपाते तथैव च गोमयेनोपलिप्ते तु शुचौ देशे समारभेत् ३ चतुर्णामपि वर्णानां संस्कारश्च तथा भवेत् गृहीत्वा ब्राह्मणान् शुद्धान् चतुरो वेदपारगान् ४ आचार्यं च द्विजश्रेष्ठं सर्वशास्त्रविशारदम् प्रागादिषु प्रतिष्ठाप्य तान् विप्रान् दिक्षु मध्यतः ५ व्रीहिभिस्स्थण्डिले शुद्धैश्चतुरश्रं तु कान्येत् तन्मध्ये लेखयेत्पद्मं स्वर्णपद्मं ततः क्षिपेत् ६ तस्योपरि समासीनं वस्त्रे वस्त्रेण संवृतम् आशिषो वाचयित्वा तु गुरुविप्रैस्समन्वितः ७ प्रच्छाद्य तु तृणैश्शुर्द्धैदूर्वाभिश्च विशेषतः विष्णोर्नामसहस्रं वा शैवं वापि तथा जपेत् ८ गायत्रीमथ वा शैवं वैष्णवं मा जपेद्गुरुः जपेयुः परितो विप्रास्तथा मन्त्रांश्च वैष्णवान् ९ ततस्तृणं समुत्थाप्य मधुपर्कं क्रमेण तु प्रोक्षयेत्पावमानीभिर्घृतपात्रं निरीक्षयेत् १० गुरोश्च दक्षिणां दद्यात् ब्राह्मणेभ्यश्च शक्तितः वस्त्रे च गुरवे दद्याद्धिरण्यं च विशेषतः ११ घृतपात्रं च तस्यैव नमस्कुर्याच्च तं गुरुम् दत्वैव विधिना तेभ्यो दक्षिणां च विशेषतः १२ विष्णुलोकमवाप्नोति शिवलोकमथापि वा सर्वरोगविनिर्मुक्तः सर्वान् कामानवाप्नुयात् १३ गोसूक्तेन तृणं दद्यात् गवामेव विशेषतः यश्शृणोति पठेद्वापि स याति परमां गतिम् १४ यो देवस्य प्रियो विद्वान् देवस्य पदमाप्नुयात् देवस्य पदमाप्नुयादित्याह भगवान्बोधायनः १५ इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने द्वाविंशोऽध्यायः अथ प्रथमप्रश्ने त्रयोविंशोऽध्यायः अथातो राजाभिषेकं व्याख्यास्यामः १ पूर्वपक्षस्व पञ्चम्यां त्रयोदश्यां तिष्ये श्रोणायां वा यानि चान्यानि शुभानि नक्षत्राणि तेषु पूर्वेद्युरेव युग्मान् ब्राह्मणान् भोजयेत् २ आशिषो वाचयित्वा योनिगोत्रश्रुतवृत्तसम्पन्नं ब्राह्मणं पुरोहितं वृणीत आकूत्यै त्वा कामाय त्वा इति ३ पुरोहितो जपति आकूतिमस्यावसे । काममस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः इति ४ स्वयं जपति आकूतिं देवीं मनसः पुरोदधे यज्ञस्य मातां सुहवा मे अस्तु । यदिच्छामि मनसा सकामो विदेयमेनद्धृदये निविष्टम् इति ५ अथास्तमित आदित्ये पद्माकृतिं मण्डल कृत्वोपकल्पयते व्रीहिभिर्यवैस्तिलमाषैः पञ्चगव्यैस्सामुद्राश्चापो नद्याश्चौदुम्बरं भद्रासनं व्याघ्रचर्म हेमकलशैर्गोशृङ्गैश्च सम्भृत्य सह सादयति यत्सह सर्वाणि मानुषाणि इत्येतस्मात् ब्राह्मणात् ६ उत्तरपूर्वे देशेऽगारस्य पाकयज्ञविधानेन व्रीहिभिर्यवैस्तिलमाषैर्व्यांहृतिभिर्महाव्याहृतिभिस्सावि-त्र्या च त्रियम्बकेनाष्टसहस्रं जुहोति ७ अथ दक्षिणार्धे श्रीसुक्तविधानेन श्री-देवीमाराध्य मकुटं प्रक्षाळयति ८ गायत्र्या गृह्य गोसूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । शुक्रमसीत्याज्यं देवस्य त्वेति कुशोदकम् । इति ९ मकुटं प्रक्षाळ्य प्रतिसरं बध्नाति प्रतत्ते अद्य शिपिविष्ट इति १० राजानं राजवाहनं चाग्रेऽभिषिञ्चेत् ११ अथैतां रात्रि-मुपविशेत् संविशेद्वा १२ अथोदित आदित्ये भद्रासनं निधाय तत्मिन् व्याघ्रचर्मास्तीर्यं तस्मिन् प्राङ्मुख उपविश्य हेमकलशानादाय आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिर्गृह्णाति १३ अव ते हेडः उदुत्तमम् इति द्वाभ्याम् आपो भद्राः आदित्पश्यामि इति चाभिषिच्य अब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरन्यैश्च पवित्र-मन्त्रैरथ शृङ्गोदकैश्चाभिषिञ्चति १४ अपां यो द्रवणे रसस्तमहमस्मा आमुष्याय-णाय तेजसे श्रियै यशसे ब्रह्मवर्चसायान्नाद्यायाभिषिञ्चामि इति सम्मृष्टे समुत्क्रोशन्तीति समानमामुखस्य विमार्जनात् १५ एतस्मिन् काले राजवाहनं चाभिषिञ्चेत् १६ स्नापयित्वा ब्राह्मणेभ्यो निष्कसहस्रं दासीशतं ददाति १७ स्वस्त्ययनं वाचयित्या मकुटं वा पट्टं वा करोति अग्ने यशस्विन् यशसेममर्पय इति १८ अथ दुन्दुभिशब्दं करोति दुन्दुभीन् समाघ्नन्ति इति ब्राह्मणम् १९ प्रदक्षिणीकृत्य स्वराष्ट्रमनुपालयतीत्याह भगवान् बोधायनः २० इति बोधायनगृह्यशेषे प्रथमप्रश्ने त्रयोविंशोऽध्यायः प्रथमप्रश्ने चतुर्विंशोऽध्यायः अथातश्शताभिषेकं व्याख्यास्यामः १ शतसंवत्सरं जीवतस्सहस्र-चन्द्रदर्शिनो वोदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽथ देवयजनोल्लेखन-प्रभृत्याप्रणीताभ्यः कृत्वाऽग्रेणाग्निं व्रीहिभिर्यवैर्वा मिश्रितं सुवर्णं संव्रतानुगुणं चतुरश्रं स्थण्डिलं करोति २ तत्र सुवर्णरजतताम्रमृण्मयैर्वा कलशैस्तन्तुना परिवृतैः प्रक्षाळ्य मध्ये प्रधानकलशं निधाय गन्धपुष्पधूपदीपैः फलै रत्नैरव-कीर्यैन्द्रादिक्रमेण दक्षिणापरोत्तरान् कलशान् स्थापयित्वा तिरः पवित्रं निधाय शुद्धोदकेन पूरयित्वा मध्ये प्रधानकलशे नवरत्नैरवकीर्याहतेन वाससा प्रति-च्छाद्य गन्धपुष्पधूपदीपैरलङ्कृत्य मध्ये प्रधानकलशे ब्रह्माणमावाहयत्यै-न्द्रादिक्रमेण प्रजापतिं परमेष्ठिनं चतुर्मुखं हिरण्यगर्भमावाहयामि इत्यावाह्य परिधानप्रभृत्याग्निमुखात्कृत्वा दैवतमर्चयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽथैनान् गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नमः इति । अन्नेन अमुष्मै स्वाहाऽमुष्मै स्वाहा इति ३ अथ पक्वाज्जुहोति आयुष्टे विश्वतो दधत् इति पुरोनुवाक्यामनूच्य आयुर्दा अग्ने इति याज्यया जुहोति ४ अथाज्याहुतीरुपजुहोति ब्रह्मसूक्तेन ब्रह्म जज्ञानम् इति षड्भिः अग्निरायुष्मान् इति पञ्चभिः पर्यायैस्स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५ अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति आयुष्टे आयुर्दां अग्ने इति द्वाभ्याम् ६ अथैनमद्भिरभिषेकं करोति यासु गन्धा रसा वर्णाः इति चतसृभिः प्रत्यृचं प्रधानकलशेनाभिषिञ्चति ऐन्द्रादिक्रमेण याः प्राचीः इति चतसृभिरनुच्छन्द-समभिषेकं करोति । या ऊर्ध्वाः इति प्रधानकलशशेषेणाभिषिञ्चति ७ अहतानि वासांसि परिधायाप आचम्यालङ्कृत्य तत आदित्यमुदीक्षयति उद्वयं तमसस्परि उदु त्य चित्रं तच्चक्षुर्देवहितम् य उदगात् इति ८ अथैतेनैव यथेतमेत्यैरकां साधिवासामास्तीर्य तस्यां प्राङ्मुख उपविश्य सुवर्णरजतता-म्रकांस्ये वा पात्रे हविराज्यं हिरण्यं निधाय निमील्योन्मील्यावेक्ष्य ब्राह्मणाय प्रयच्छति ९ अथ रथमारुह्य ग्रामं प्रदक्षिणीकृत्य दुन्दुभिशब्देन स्वस्तिसूक्तेन गृहं प्रविश्य गुरवे वरं दत्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा दश पूर्वान् दशापरानात्मानं च एकविंशतिं पङ्क्तिं च पुनाति पुत्रपौत्रैश्च षष्टिर्वर्षसहस्राणि स्वर्गलोकमतीय ब्रह्मणस्सायुज्यं सलोकतामाप्नोतीत्याह भगवान् बोधायनः १० इति बोधायनीये गृह्यशेषे प्रथमप्रश्ने चतुर्विंशोऽध्यायः अथातश्शताभिषेकम् । अथातो राजाभिषेकम् । सर्वपापहरं चैव । यमयज्ञस्स्वयं प्रोक्तः । अथातो गजशान्तिम् । अथातोऽश्वशान्तिम् । अथातो गृहकर्मणाम् । अथ नवग्रहपूजाविधिः । अथातो ग्रहातिथ्यबलिः । अथातः प्रतिसरबन्धम् । अथ वै भवति । अथ संवत्सरेसंवत्सरे । सप्तमेऽष्टमे वा मासि । अथ प्रहुते प्रसिद्धम् । अथातः पुण्याहम् । अथातः पुण्याहदेवताः । अथ शुचौ समे देशे । सर्वत्र दर्वीहोमानाम् । अथातः परिस्तरणविधिम् । अथातस्सिकतादोषम् । अथातस्स्थण्डिलविधिम् । अथातोऽपूर्वम् । उपनयनादिरग्निः । अथातस्सप्तपाकयज्ञानाम् २४ अथातस्सप्तपाकयज्ञानाम् । उपनयनादिरग्निः । अथातोऽपूर्वम् । अथात-स्स्थण्डिलविधिम् । अथातस्सिकतादोषम् । अथातः परिस्तरणविधिम् । सर्वत्र दर्वीहोमानाम् । अथ शुचौ समे देशे । अथातः पुण्याहदेवताः । अथातः पुण्याहम् । अथ प्रहुते प्रसिद्धम् । सप्तमेऽष्टमे वा मासि । अथ संवत्सरेसंवत्सरे । अथ वै भवति । अथातः प्रतिसरबन्धम् । अथातो ग्रहातिथ्यबलिः । अथ नवग्रहपूजाविधिः । अथातो गृहकर्मणाम् । अथातोऽश्वशान्तिम् । अथातो गजशान्तिम् । यमयज्ञस्स्वयं प्रोक्तः । सर्वपापहरं चैव । अथातो राजाभिषेकम् । अथातश्शताभिषेकम् २४ इति बोधायनगृह्यशेषे प्रथमः प्रश्नः समाप्तः अथ द्वितीयप्रश्नप्रारम्भः अथातः पञ्चमीश्राद्धं व्याख्यास्यामः शैशिरे मास्यारभ्य शुक्लपक्षस्य पञ्चम्यां कृष्णपक्षस्य सप्तम्यां च पुत्रकामी संवत्सरं दीक्षां कृत्वा तस्मात्पूर्वेद्युस्सा-यमौपासनहोमे हुते प्राचीनावीती सङ्कल्पयेत् प्रथमसंवत्सरं कर्ताऽस्मि इति १ मनसा सङ्कल्पे कृते सायमनशनः त्र्यवरान् ब्राह्मणान् निमन्त्रयते २ पाद-प्रक्षाळनं कृत्वा गन्धादिभिरलङ्कृत्य पुत्रानिच्छे वः पञ्चमं श्राद्धं भविता तत्र भवद्भिः प्रसादः करणीयः इति ३ अपरेद्युरामन्त्र्य पादप्रक्षाळनं कृत्वा अद्य श्राद्धं भवति इति ४ मध्याह्ने तृतीयमामन्त्रणम् ५ अवटखननादि मासि-श्राद्धवत् ६ पितॄणां श्राद्धं मातामहानां च श्राद्धं कुर्यादिति ७ अथाऽग्निमुखा-त्कृत्वा मासिश्राद्धवद्धोमं कृत्वा पृथक्पृथग्घोमं च कुर्यात् ८ वस्त्राभरणकुण्डलाद्यैरलङ्कृत्य रिद्धं भवतु इति वाचयित्वा तान् भोजयेत् ९ भोजनवेळायां दिवाकीर्त्यपठनं पुण्यकथनं स्मृतिपठनं च १० खाचान्तान् प्रणम्य भुक्तदक्षिणां यथाशक्ति दत्वा पुनस्सिद्धं वाचयित्वा तान् विसृज्य द्वारान्तमनुव्रज्य पिण्डदानानि मासिश्राद्धवत्कृत्वा ततश्शेषं दम्पती अश्नी-याताम् ११ मध्यमपिण्डां पत्नीं प्राशयति १२ षूर्वेद्यू रात्रावपरेद्यू रात्रौ च भोजनं मैथुनादि न कुर्याद्ये श्राद्धभोजिनश्च १३ एवं कुर्वन् पुत्रस्सगणोपेतो भवति पुत्रो न शीर्यते तस्मात्पञ्चमीश्राद्धं कुर्यात् १४ पुत्त्र इति निर्वचनम् पुदिति नरकस्तस्मात्त्रायते इति पुत्त्रोऽपुत्त्रस्य गतिर्नास्सीत्याह भगवान् बोधायनः १५ इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने प्रथमोऽध्यायः अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः अथ गर्भाधानं व्याख्यास्यामः पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वाथ देवयजनोल्लेखनप्रभृत्याग्निमुखा-त्कृत्वा पक्वाज्जुहोति प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतोऽभयमभयं तन्नो अस्त्वव देवान् यजे हेड्यान् स्वाहा इति १ स्वि-ष्टकृतमवदाय तमन्तःपरिधि सादयित्वाथाज्याहुतीरुपजुहोति ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहा कनिष्ठाय स्वाहा कनिष्ठित्यै स्वाहा प्रतिष्ठाय स्वाहा प्रतिष्ठित्यै स्वाहा दम्पत्यै स्वाहा अयने स्वाहा अयनपतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा इति २ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३ हविष्यम-न्नमभिमन्त्रयते तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि इति ४ अपरेणाग्निमुभौ जायापती प्राश्नीयाताम् तस्सवि-तुर्वरेण्यम् इति ५ प्राश्याथ आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् ६ यं कामं कामयते तं मनसा ध्याये- दिति गर्भाधानं व्याख्यातम् ७ इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने द्वितीयोऽध्यायः अथ द्वितीयप्रश्ने तृतीयोऽध्यायः अथ मङ्गलानि आवृतः स्त्रीभ्यः प्रतीयेरन्निन्वकाभिः प्रसृता वरैः प्रतिनन्दिता यां कामयेत दुहितरं प्रिया स्यादिति । तां निष्ट्यायां दद्यात् । प्रियैव भवति । नेव तु पुनरागच्छति इति ब्राह्मणावेक्षो विधिः १ इन्वकाशब्दो मृगशीर्षे निष्ट्याशब्दः स्वाताविति २ सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् ३ दत्तां गुप्तां द्योतामृषभां विनतां शरभां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत् ४ नक्षत्रनामाः नदीनामाः वृक्षनामाः पर्वतनामाः प्रेष्यनामाः पक्षिनामाः पिशाचनामाश्च गर्हिताः सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत् ५ शक्तिविषये द्रव्याणि प्रतिच्छन्ना-न्युपनिधाय ब्रूयुरुपस्पृशेति नानाबीजानि संसृष्टानि वेद्याः पांसून् क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति पूर्वेषामुपस्वर्शने यथालिङ्गमृद्धिरुत्तमं परिचक्षते ६ बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ७ बन्धुशीललक्षणसम्पन्नः श्चुत-वानरोग इति वरसम्पत् ८ यस्यां मनश्चक्षुषोः निबन्धस्तस्यामृद्धिर्नेतरदा-द्रियेतेत्येके ९ अथ यद्यससम्भवेप्सु स्यात्तां परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वा सुप्तायां सम्बाध उपवपेत् अवज्यामिव धन्वनो हृदो मन्युं तनोमि ते । इन्द्रापास्य पलिगमन्येभ्यः पुरुषेभ्योऽन्यत्र मत् इति १० सिद्ध्यर्थे बभ्रु-मूत्रेण प्रक्षाळयति ११ अथ विजननकाले क्षिप्रंसुवनं शिरस्त उदकुम्भं निधाय षत्तस्तूर्यन्तीमथास्या उदरमभिमृशति यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणाऽपसर्पतु इति १२ अथ यदि जरायुर्न पते-द्दर्भैरेव जठरं संमाष्टि तिल देऽवपद्यस्व न मांसमसि नो दलम् । स्थवित्र्यवपद्यस्य स्वप्स्ये इति १३ प्रसिद्धं जातकर्म १४ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने तृतीयोऽध्यायः अथ द्वितीयप्रश्ने चतुर्थोऽध्यायः अथ प्रजार्थिहोमः १ पूर्वपक्षे पुण्ये नक्षत्रेऽमावास्यायां विषुवेऽयने वा नदी-तीरेऽश्वत्थच्छायायां वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा ब्राह्मणा-नन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वा प्राच्यां दिशि ब्रह्माणं प्रतिष्ठाप्य पार्श्वयोर्धातारं विधातारं दक्षिणतो धातारमुत्तरतो विधातारम् २ ततस्तानर्चयेत्पूर्वं ब्रह्माण प्रजापतिं परमेष्ठिनं हिरण्यगर्भमावाहयामि इत्यावा-ह्य सावित्र्या पाद्यं ददाति सावित्र्या निवेदयेदतैरेव नामधेयैश्शुक्लान्नं ब्रह्मणे मुद्गान्नं धातुः पीतान्न विधातुः ३ ततस्सावित्र्या अप आचम्य प्रणवेनाष्टशतं हुत्वा ब्रह्माणमुपतिष्ठते नमो वाचे नमो वाचस्पतये नमो ब्रह्मणे बृहते करोमि इत्येवं नमो धात्रै नमो विधात्रे इति ४ अग्निमुपतिष्टेत नमोऽग्नये सप्तार्चिः सप्त जिह्वाः सप्तधाऽग्निः प्रतिष्ठितः । सप्तैव विश्वा भूतानि को ह्यग्निः प्रतितिष्ठति । तत्त्वमसि विश्वमसि योनिरसि इति ५ अथ स्त्रियमाहूय सावित्र्या पलाश-पर्णैरष्टोत्तरसहस्रैः स्नापयित्वा पुरुषसूक्तेन जुहुयात्तत्सम्पातेन मूर्ध्नि जुहुयात् प्रणवेन नमस्कुर्यात् ६ अध्वर्युं वस्त्रकुण्डलाभ्यामलङ्करोति ७ ततस्सा गर्भिणी भवतीत्याह भगवान् बोधायनः ८ इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने चतुर्थोऽध्यायः अथ द्वितीयप्रश्ने पञ्चमोऽध्यायः अथ माघमासे शुक्लपक्षस्य सप्तम्यां ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वाऽग्रे-णाग्निमादित्यमालिख्य संपरिस्तीर्य षोडशभिरर्कपर्णैरभ्यन्तराग्रैः प्रदक्षिणं मण्डलमास्तीर्य गन्धोदकेनाभ्युक्ष्य पुष्पैरवकीर्य धूपेनाधिवास्य तस्मिन् प्रणीतामद्भिः पूर्णां कृत्वोत्पूयादित्यमावाहयेत् १ आदित्यं नावमरोक्ष्ये पूर्णामुपरिवासिनीम् । अच्छिद्रां पारयिष्णुं शतारित्रां स्वस्तय ॐ नम आदित्याय इति २ परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति आयातु देवस्सवितोपयातु हिरण्ययेन सुवृता रथेन । वहन् हंस्त सुभगं विद्मनापसं प्रयच्छन्तं पपुरिं पुण्यमच्छ इत्येकामाहुतिं हुत्वोत्तरार्धात् स्विष्टकृतमवदा-यान्तःपरिधि सादायित्वा बहुप्रकाररैरन्नैरादित्यं तर्पयति ॐ नमो भगवत आदित्याय नमः । क्लं नदीवृत्तिस्तटीरुवो नावमर्णालिसुरिणोरोरुमिविरि-किताकुनानारुसन्ध्यतुमे मन्त्रवदानि स्वाहा इति ३ अथाज्याहुतीरुपजुहोति स्थविरे स्वाहा तेजसे स्वाहा यमिन्द्रमाहुके स्वाहा इद्वयम् उदुत्यं चित्रं तच्चक्षुः य उदगात् हमश्शुचिषत् वयस्सुमर्णाः अविश्वदेवं सूर्यो देवीम् इति चत्वरि सूक्तानि । द्वादश संपद्यन्ते द्वादश मासास्संवत्सरस्संवत्सरेण सर्वान् कामा-नवाप्नेति ४ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५ तर्पयित्वा मनसा तान् ध्यात्वा प्रवाहयति उदस्तांप्सीत्सविता मित्रो अर्यमा सर्वानमित्रानवधी-द्युगेन । बृहन्तं मामकग्द्वीरवन्तं रथन्तरे श्रयस्व स्वाहा पृथिव्यां वामदेव्ये श्रयस्व स्वाहाऽन्तरिक्षे बृहति श्रयस्व स्वाहा दिवि बृहता त्वोपस्तभ्नोमि इति ६ अथैना आदाय साहर्कपर्णैरुत्तिष्ठति उदायुषा इति ७ यत्रापस्तद्गत्वाऽपो निनयति समुद्रं वः प्रहिणोमि स्वा योनिमपि यच्छत । अच्छिद्रः प्रजाया भूयासं मा परासेचिमत्पयः इति ८ सपवित्रेण पाणिनाऽद्भिर्मार्जयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा याः सुगन्धा रसा वर्णाः इत्येताभिरिति ९ एत द्वन्यं पुण्यं पुत्र्यं पौत्र्यमायुष्यं स्वर्ग्यं सूर्याचन्द्रम- सोस्सायुज्यं सलोकतामाप्नोतीति दीपयेदमुनेति १० इति बोधायनीयगृह्यशेषसूत्रे द्वितीयप्रश्ने पञ्चमोऽध्यायः द्वितीयप्रश्ने षष्ठोऽध्यायः अथातः पुत्रप्रतिग्रहकल्पं व्याख्यास्यामः १ शोणितशुक्लसम्भवो मातृपितृ-निमित्तकस्तस्य प्रदानपरित्यागविक्रयेषु मातापितरौ कर्तारौ भवतो न त्वेकं पुत्रं दद्यात् प्रति गृह्णीयाद्वा स हि सन्तानाय षूर्वेषाम् २ न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः ३ पुत्रं प्रतिग्रहीष्यन्नुपकल्पयते द्वे वाससी द्वे कुण्डले अङ्गुलीयकं चाचार्यं च वेदपारगं कुशमयं बर्हिः पर्णमयमिध्ममिति ४ अथ बन्धूनां मध्ये राजनि चावेद्य दरिषदि वाऽगारमध्ये ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिम् इति वाचयित्वाऽथ देवयजनोल्लोखनप्रभृ-त्याप्रणीताभ्यः कृत्वा दातुस्समीपं गत्वा पुत्रं मे देहि इति मिक्षेत ददामि इतीतर आह ५ तं पुत्रं प्रतिगृह्णाति धर्माय त्वा गृह्णामि सन्तत्यै त्वा गृह्णामि इति ६ अथैनं वस्त्रकुण्डलाभ्यामङ्गुलीयकेन चालङ्कृत्य परिधानप्रभृत्याऽग्निमुखा-त्कृत्वा पक्वाज्जुहोति यस्त्वा हृदा कीरिणा मन्यमानः इति पुरोनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेदः इति याज्यया जुहोति ७ अथ आज्याहुतीरुपजुहोति व्याहृतीभिर्हुत्वा स्विष्टकृन्प्रभृति सिद्धमाधेनुवरप्रदानात् ८ अथ दक्षिणां ददात्येते एव वाससी एते एव कुण्डले एतच्चाङ्गुलीयकम् ९ यद्येवं कृते औरसः पुत्र उत्पद्यते तुरीयभागेष भवतीति ह स्माह भगवान् बोधायनः १० इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने षष्ठोऽध्यायः द्वितीयप्रश्ने सप्तमोऽध्यायः अथातो यज्ञोपवीतविधिं व्याख्यास्यामः १ जीर्णे छेदे विनाशे वा हस्तपादान् प्रक्षाळयाप आचम्य ब्राह्मणकन्यकया वा ब्राह्मणविधवया वा शुचिस्नातया कृताचमनीयया निर्मितं सूत्रं गृहीत्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुप-निष्क्रम्य चतुरङ्गुलमात्र षण्णवतिसूत्रं परिमण्डलं वा द्वितीयमेवं तृतीयमद्भिः प्रक्षाळय आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा देवागारे गवां गोष्ठे नदीतीरे शुचौ देशे वा यत्र यत्र शुचिर्देशस्स्यात् बिल्वखादिर-पलाशोदुम्बराश्वत्थवेण्वादियाज्ञिकवृक्षशाखायामवलम्ब्य सजीवं बध्नाति पितृभ्यो नमः इति प्रथममपसव्यम् २ सम्पन्ने हस्ते गृहीत्वा प्रतिष्ठापयति ॐ भूः प्रतिष्ठापयामि ॐ भुवः प्रतिष्ठापयामि ॐ सुवः प्रतिष्ठापयामि ॐ भूर्भुवस्सुवः प्रतिष्ठापयामि इति प्रतिष्ठाप्यापसव्यकृतं जपति भूर्भुवस्सुवः । ओजो बलम् इत्येतमनुवाकम् ३ अथ सावित्र्या त्रिगुणीकृत्य भूरग्निं च इति दक्षिणावृत्तिमभिमन्त्रयेत् भुवो वायुं च इति मध्यमावृत्तिं सुवरादित्यं च इत्युत्तरां भूर्भुवस्सुवश्चन्द्रमसं इति त्रिधावृत्तिं च ४ अथ सूत्रान्तेन बध्नाति यथा नश्श्रेयसः करत् इति चतुर्भिर्मध्ये द्विगुणं भवति ५ तां भूः प्रतिष्ठापयामि इति पुनः प्रतिष्ठाप्य उशन्तस्त्वा हवामहे इत्यृचं जपित्वा प्रदक्षिणतो दृढं करोति ६ त्रयाणां ब्रह्मेश्वरविष्णूनां प्रमाणं कृत्वा ७ तन्तुद्विगुणितं सूत्रं विष्णुना त्रिगुणीकृतम् चतुर्वेदस्य चत्वारि त्रिवेदस्य त्रिकं भवेत् द्वे स्यातां वै द्विवेदस्य एकमेवैकवेदिनः ८ इति यज्ञोपवीतविधिर्व्याख्यातः ९ इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने सप्तमोऽध्यायः अथ द्वितीयप्रश्ने अष्टमोऽध्यायः अथ राजन्यवैश्ययोरुपनयनं प्रसिद्धम् १ एतावदेव नाना २ आचार्य एव पक्वाज्जुहोति ३ ब्रह्मसूत्रमवोद्धृत्य त्रिष्टुग्भी राजन्यस्य जिघर्म्यग्निम् आ त्वा जिघर्मिं आयुर्दा अग्ने हविषो जुषाणः इति । जगतीभिर्वैश्यस्य जनस्य गोपा अजनिष्ट जागृविः त्वामग्ने मानुषीरीडते विशः सप्त ते अग्ने समिधस्सप्तजिह्वाः इति ४ वैश्यस्य रथकारस्यैतावदेव नानाचार्य एव पक्वाज्जुहोति तत्सवि-तुर्वरेण्यम् इति ५ अथाज्याहुतीरुपजुहोति क्षेत्रियै त्वा निरृत्यै त्वा इति षड्भिरनुच्छन्दसम् । नात्र जगतीभिर्वैश्यस्य जुहोति ६ अथाग्रेणाग्निं हुतशेषं दत्वा विरमेत् ७ ब्राह्मणेन क्षत्रियायामुत्पन्नो ब्राह्मणवदेवैतावदेव नाना तस्य क्षेत्रियै त्वा इति व्याहृतीभिश्चेत्युपहोमः ८ क्षत्रियवदम्बष्ठस्य क्षेत्रियै त्वा इत्येवोपहोमः ९ क्षत्रियाद्वैश्यायामुत्पन्नः क्षत्रियवदेव क्षेत्रियै त्वा सावित्र्या चोपहोमः १० वैश्याच्छूद्रायामुत्पन्नस्तूष्णीं वैश्यवत् ११ गायत्रीत्रिष्टुब्जगत्यः तत्सवितुर्वरेण्यम् आसत्येन युञ्जते मनः इति सावित्र्यो यथाक्रमं ब्राह्मण-क्षत्रियवैश्यानाम् १२ उक्तं समावर्तनम् । समावर्तनप्रभृति स्नातकः पूर्वेण ग्रामान्निष्क्रमणप्रवेशनान्युत्तरेण वा वहिर्वाचं विसृजेदन्यत्र हस्तं दत्वां प्रसिद्धं स्नात्वा देवर्षिपितृंस्तर्पयित्वा दर्भेषु प्राङ्मुख उपविश्य दर्भान् दूर्वाश्च धारयमा-णस्त्रीन् प्राणायामान् धारयित्वा सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽप-रिमितकृत्वो वा दशावरं वेदानधीत्य प्रश्नमनुवाकं वाऽधीयीत यावत्तरसम् इति विज्ञायते ततो गृहानेति यत्किञ्चिद्ददाति सा दक्षिणा इति ब्राह्मणम् १३ अथ दैवतान्यर्चयति वैश्वदेवं करोति प्रसिद्धं बलिहरणम् १४ अथ वै भवति पञ्च वा एते महायज्ञास्सतति प्रतायन्ते सतति संतिष्ठन्ते देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः इत्येतदानुपूर्व्यं भवति १५ अथ देवयज्ञः देवेभ्यस्स्वाहा व्याहृतीभिश्च इति । अपि समिधं तद्देवयज्ञस्संतिष्ठते १६ अथ पितृयज्ञः ब्राह्मणान् भोजयेत् पित्र्यानपि वा दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य गन्धपुष्पधूपदीपैरभ्यर्च्यालङ्कृत्य तेषु पिण्डं ददाति पितृभ्य-स्स्वधा नमः इति अप्यपस्तत्पितृयज्ञस्संतिष्ठते १७ अथ भूतयज्ञः उत्तरेणाग्निं प्रागग्रान् दर्भान् संस्तीर्य गन्धपुष्पधूपदीपैरलङ्कृत्य तेषु बलिमुपहरति भूतेभ्यो नमः इत्यापुष्पेभ्यस्तद्भूतयज्ञस्संतिष्ठते १८ अथ मनुष्ययज्ञः ब्राह्मणेभ्योऽन्नं दद्यादौदनपात्रात् तन्मनुष्ययज्ञस्संतिष्ठते १९ अथ ब्रह्मयज्ञः उक्तः २० कथमु खलु नित्यानामनुक्रम इति सन्ध्योपासनमग्न्युपस्थानं नित्यस्वाध्यायगृहक-र्मस्नानादित्योपस्थानतर्पणजपयज्ञगृहदेवतार्चनवैष्वदेवपञ्चमहायज्ञात्मयज्ञ-सन्ध्योपासनाग्रिहोत्रात्मयज्ञसवेशनानीत्येतान्युदितहोमिनोऽजस्राग्निहोत्रिणो-ऽनुदितहोमिनोऽग्निहोत्रं सन्ध्योपासनमिति क्रमः २१ एतानि नित्यान्युप-व्युषमारभ्यासवेशनात् प्रसिद्धम् २२ साय प्रातस्सपत्नीकः प्रीतिं वर्धयेत् २३ तस्याः पत्न्याः पूर्वरात्रावुपसंवेशनमार्धरात्रादधश्शयनमा ब्राह्ममुहूर्तादथो- पोत्थाय नित्यान्यारभते २४ इति व्याख्यातमुपनयनम् २५ इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने अष्टमोऽध्यायः अथ द्वितीयप्रश्ने नवमोऽध्यायः अथ जडबधिरमूकानां संस्कारं व्याख्यास्यामः १ ऋतुर्यथाकामी स्यात् २ पुण्ये नक्षत्रे ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा केशानोप्य स्नातं शुचि-वाससं बद्धशिखं यज्ञोपवीतिनमप आचमय्य देवयजनमुदानयति ३ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा याज्ञिकीं समिधमाज्येनाक्त्वा तूष्णी-मभ्याधापयति । तूष्णीमश्मानं स्थापयति । यथालाभं तूष्णीं वासः परि-धापयति । तूष्णीं मेखलां परिव्ययति । मन्त्रवद्ग्रन्थिं करोति । तूष्णीमजिनं प्रतिमुञ्चति । तूष्णीं दण्डं प्रयच्छति । याज्ञिकस्य वृक्षस्य नाम प्रयच्छति ४ अथैनं दक्षिणे हस्ते गृह्णाति यस्मिन् भूतं च भव्यं च इति ५ अथैनं देवताभ्यः परिददाति देवेभ्यस्त्वा इति ६ अथैनमुपनयति देवस्य त्वा इति सर्वं नाम-ग्रहणवर्जम् ७ आचार्य एव पक्वाज्जुहोति तत्सवितुर्वरेण्यम् इति ८ अथा-ज्याहुतीरुपजुहोति क्षेत्रियै त्वा इति षड्भिर्व्याहृतिभिश्च ९ अथ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १० अथाग्रेणाग्निं याज्ञिकवृक्षस्य पर्णेषु हुतशेषं निद-धाति तत्पुरस्ताद्व्याख्यातम् ११ अथ पक्वादुपादाय प्राश्नाति १२ तूष्णीं सर्वान् मन्त्रानाचार्य एव जपेदित्येके १३ षण्डजडक्लीबान्धव्यसनिव्या-धितोन्मत्तहीनाङ्गबधिराधिकाङ्गामयाव्यपस्मारिश्वित्रिकुष्ठीदीर्घरोगिणश्चैतेन व्याख्याता इत्येके १४ सद्यो मधुपर्कं ददाति १५ तिसृषु व्युष्टासु मधुपर्कवदा व्रतातूष्णीम् १६ अथाग्निमुत्सृजति आयुर्दा अग्ने हविषो जुषाणः इति १७ पिता वा भ्राता वात्मनि समारोपयेदित्येके १८ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने नवमोऽध्यायः अथ द्वितीयप्रश्ने दशमोऽध्यायः अथातोऽश्वत्थसंस्कारं व्याख्यास्यामः १ ऋतुर्यथाकामी स्यात् २ पुण्ये नक्षत्र ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा प्रदक्षिणमश्वत्थं परिसमूहति अश्वत्थे वो निषदनम् इति ३ तमभ्यर्च्य यज्ञोपवीतं प्रतिमुञ्चति ४ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा याज्ञिकीं समिधमाज्येनाक्त्वा तूष्णी-माधापयति । यथालाभं तूष्णीं वासः परिधापयति । तूष्णीं मेखलां परि-व्ययति । मन्त्रवद्ग्रन्थिं करोति । तूष्णीमजिनं प्रतिमुञ्चति । तूष्णीं दण्डं प्रयच्छति । याज्ञिकस्य वृक्षस्य नाम प्रयच्छति ५ अथाश्वत्थमुपनयेत् देवस्य त्वा इति नामग्रहणवर्जम् ६ आचार्य एव पक्वाज्जुहोति तत्सवि-तुर्वरेण्यम् इति ७ अथाज्याहुतीरुपजूहोति क्षेत्रियै त्वा इति षड्भिर्व्याहृतिभिश्च ८ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ९ अथाग्रेणाग्निं पलाशपर्णेषु हुत-शेषं निदधाति । तत्पुरस्ताद्व्याख्यातम् १० अथ पक्वादुपादायाथैनं निवेद- यति ११ तूष्णीं सर्वान् मन्त्रानाचार्य एव जपेदित्याह भगवान् बोधायनः १२ इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने दशमोऽध्यायः अथ द्वितीयप्रश्ने एकादशोऽध्यायः अथाहुते प्रसिद्धमुपनयनम् १ एतावदेव नाना २ कुमारं भोजयित्वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य मङ्गलानि संस्तीर्य तेषु प्राङ्मुख आचार्य उपवेश्य तस्याग्रेण कुमारो दर्भेषु प्रत्यङ्मुख उपविश्योभयीरपस्सन्निषिञ्च-त्युष्णासु शीता आनयति तस्य चौलवत्तूष्णीं केशानोप्य स्नाप्याच्छाद्या-लङ्कृत्यादित्याभिमुखस्तिष्ठन् अजिनं वासो वा दक्षिणत उपवीय दक्षिणं बाहु-मुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम् इति ब्राह्मणम् ३ यज्ञोपवीतिनमप आचमय्य देवयजनमुदानयति ४ कृष्णाजिनं ब्राह्मणस्येत्यादि । चतुरङ्गुलं ब्राह्मणस्य त्र्यङ्गुलं राजन्यस्य द्व्यङ्गुलं वैश्यस्योपवीतवत् बध्नाति ५ अथ सावित्रीं भो अनुब्रूहि इत्युक्त्वा कुमारस्य दक्षिणे कर्णे उपदिशेदित्येके । कर्णाभ्यां भूरि विश्रुतम् इत्युक्त्वोन्मुखावलोकनं कृत्वा वाचयति सावित्रीम् ६ अथ सायंप्रातस्सन्ध्यां गृहस्थवत्समापयति ७ अथैनमग्निमुपसमाधाय प्रोक्षणीन्संस्कृत्य परिसमूह्य परिषिच्य व्याहृतीभिस्समिध आधापयतिषो-ढाविहितेनोपस्थापयति ८ तदाग्नेयं भस्म सङ्गृह्य वामपाणितके निक्षिप्य मा नस्तोके इत्यद्भिः शं नो देवीरभिष्टये इति संसृज्य संमेळय तिर्यक्त्रिपु-ण्ड्रमेकपुण्ड्रं वा ब्राह्मणस्य वर्तुळाकारं राजन्यस्यार्धचन्द्राकृतिं वैश्यस्य ९ अङ्गानि सन्धापयति सरस्वती इति शिरसि मेधावी इति ललाटे तेजस्वी इति वक्षसि वर्चस्वी इति दक्षिणेंऽसे ब्रह्मवर्चसी इत्युत्तरेंऽसे आयुष्मान् इति ग्रीवायां भूयासम् इति पिठरे स्वस्ति इति शिरस्यन्येषां स्त्रीणां वोर्ध्वपुण्डम् १० प्रोक्षणीषु करं प्रक्षाळ्य नमस्कृत्य प्रोक्षणीशेषं गेहस्योपरिष्टान्निनयेदित्याह भगवान् बोधायनः ११ इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने एकादशोऽध्यायः अथ द्वितीयप्रश्ने द्वादशोऽध्यायः यथो एतद्ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणामेवं विवाहं कुर्वन्त्यपरपक्षेऽशुभे दिने वाऽशुचिना वा विवाहं कुर्वन्ति विवाहेन नर्ध्नोतीति मन्येत वावसथात् पुनर्विवाहं कुर्वीत १ अथ चेदौपासनारम्भात् प्राक् ज्वलनस्य नाशः पुन-र्विवाहं कुर्वीत २ अथ पुनर्विवाहं व्याख्यास्यामः ३ उदगयन आपूर्य-माणपक्षे पुण्ये नक्षत्रे पूर्वेद्युर्नान्दीमुखं कृत्वोपवसति ४ अथ श्वोभूते ब्राह्मणा-नन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वोभौ शुची स्नातौ शुक्लवाससावलङ्कारेणालङ्कृत्य जायां समीक्षते अभ्रातृघ्नीम् इति प्रतिपद्य सप्तपदान्तं कृत्वाऽथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वाथास्या उपोत्था-य हृदयदेशमभिमृशतीति सिद्धमाधेनुवरप्रदानादत ऊर्ध्वं नाद्रियेत ५ अथ पुनर्विवाहेष्वेतानुत्सीदन्ति प्रतिसरं स्नानं वासः प्रतोदमिषुं च पूर्वं भोजनमर्ध्यं व्रतं त्रिरात्रमित्यादिविवाहशेषान् वर्जयेदित्याह भगवान् बोधायनः ६ इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने द्वादशोऽध्यायः अथ द्वितीयप्रश्ने त्रयोदशोऽध्यायः अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यास्यामः द्वादश्यामेकादश्यां श्रोणाया वा यानि चान्यानि शुभनक्षत्राणि तेषु पूर्वेद्युरेव युग्मान् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा समागतायां निशायां कपिला-पञ्चगव्येन सहिरण्ययवदूर्वाङ्कुराश्वत्थपलाशपर्णेन सुवर्णोपधानं प्रतिकृतिं कृत्वाऽभिषिञ्चति आपो हि ष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन व्याहृतीभिश्च १ पुष्पफलाक्षतमिश्रेर्यवदूर्वाङ्कुरं पादपीठे निक्षिपति इदं विष्णुर्विचक्रमे इति २ प्रतिसरमाबध्नाति रक्षोहणं वाजिनमाजिघर्मि इति ३ अथैनं नदीतटा-कह्रदनिर्झरसरस्तीर्थानामन्यतमेष्वहतेन वाससा कुशबन्धमाल्यमाच्छाद्या-धिश्रयति अव ते हेडः उदुत्तमम् इति ४ अथ श्वोभूते स्नात्वाहतवाससश्चत्वारो ब्राह्मणाः प्रतिमामुत्थापयेयुः उत्तिष्ठ ब्रह्मणस्पते इति ५ अथ शुचौ देशे समवस्थाप्य गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति श क्षीरं दधिक्राव्णेति वै दधि । शुक्रमसि ज्योतिरसीत्याज्यं देवस्य त्वा कुशो-दकम् । इत्येतत्पञ्चगव्यं नाम ६ अत्राह कपिलाया वरं क्षीरं श्वेतायाश्च वरं दधि । रक्तायास्तु घृतं श्रेष्ठं शेषौ शबलकृष्णयोः । इति ७ एतेन आ वो राजानम् इति स्नापयति ८ शमीपलाशखादिरबिल्वाश्वत्थविकङ्कतन्यग्रो-धपनसाम्रशिरीषोदुम्बराणां सर्वयाज्ञिकवृक्षाणां चर्मकषायकलशेनाभिषिञ्चति अश्वत्थे वो निषदनम् इत्येतेनानुवाकेन ९ मणिमुक्ताप्रवाळरजतताम्राणामप्सु निमग्नानां पूर्णकलशेनाभिषिञ्चति हिरण्यवर्णाम् इति नवर्चेन १० हिरण्येन तेजसा चक्षुर्विमोचयेत् तेजोसि इति ११ अथ देवयजनोल्लेखन-प्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति विष्णोर्नुकम् इति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति १२ अथ पुरुषसूक्तेनाज्यहुतीरुपजुहोति इदं विष्णुर्विचक्रमे इति पादयोस्स्पृशेत् १३ पुनस्तेनैवाज्याहुतीर्जुहुयात् विष्णो-र्नुकम् इति नाभिदेशेस्पृशेत् १४ पुनस्तेनैवाज्याहुतीर्जुहुयात् अतो देवा अवन्तु नः इति मूर्ध्नि स्पृशेत् १५ पुनस्तेनैवाज्याहुतीर्जुहुयादथ सर्वाङ्गं स्पृशेत्पौरुषेण सूक्तेन १६ होमान्ते उदु त्यं जातवेदसम् इत्युत्थाप्य शाकुनेन सूक्तेन देवालयं प्रवेश्य मणिमुक्ताप्रवाळसुवर्णरजतानि पादपीठे निधाय अतो देवा अवन्तु नः इति विष्णुं स्थापयेत् १७ अथ गन्धपुष्पधूपदीपान्याकाशोन्मुखानि कृत्वोपो-त्थाय आवाहनं करीति प्रणवयुक्तव्याहृतिभिर्व्यस्तैस्समस्तैश्च ॐ भूः पुरुष-मावाहयाम्यॐ भुवः पुरुषमावाहयाम्यॐ सुवः पुरुषमावाहयाम्यॐ भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य रत्नाम्बुकलशेनाभिषिञ्चति प्रणवेन धारयेत् ब्रह्म इति विज्ञायते १८ प्रणवेन कूर्चं ददाति १९ दूर्वाविष्णुक्रान्तश्यामाकपद्म-पत्रकलशेन पाद्यं ददाति २० एलालवङ्गतक्वोलकर्पूरमिश्रकलशेनाचमनीयं ददाति २१ आपःक्षीरकुशाग्रैश्चाक्षतैर्यवतण्डुलैस्तिलैस्सिद्धार्थकैश्चार्ध्यं ददा-ति २२ इमा आपश्शान्ताश्शिवाश्शिवतमाः पूताः पूततमा मेध्यामेध्यतमा अमृतां अमृतरसाः पाद्या आचमनीया अर्ध्यास्ता जुषन्तां प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति पाद्यमाचमनीयमर्ध्यं ददाति २३ इदं विष्णुर्विचक्रमे इति प्रतिसरं वित्रंसयति २४ देवतां नमस्कृत्वाथ गन्धं ददाति इमे गन्धाश्शुभा दिव्यास्सर्वगन्धैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः २५ प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति २६ माल्यं ददाति इमे माल्याश्शुभा दिव्यास्सर्वमाल्यैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः २७ प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति २८ पुष्पं ददाति इमे पुष्पाश्शुभा दिव्यास्सर्वपुष्पैरलङ्कृताः । पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः २९ प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति ३० धूपं ददाति वनस्पतिरसो धूपो धूपेभ्यो धूप उत्तमः आघ्रेयस्सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ३१ प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महाविष्णुर्विष्णवे नमः इति ३२ अथ दीपं ददाति ज्योतिश्शुक्रश्च तेजश्च देवानां सततं प्रियः भास्वरस्सर्वभूतानां दीपोऽयं प्रतिगृह्यताम् ३३ प्रतिगृह्ययां प्रतिगृह्णातु भगवान् महविष्णुर्विष्णवे नमः इति ३४ अथ द्वादशनामभिः पुष्पाणि दद्यात्तैरेव तर्पणानि कृत्वा कृसरपायसगुळोदनं हरिद्रोदनमिति हवींषि । पवित्रं ते विततम् इति पायसं निवेदयेत् । घृताप्लुतं पूर्णशरावं गुळोदनं निवेदयेत् । कृसरं तिलमिश्रमाज्यं जुहुयात् वासुदेवाय स्वाहा । सङ्कर्षणाय स्वाहा । प्रद्युम्नाय स्वाहा । अनिरुद्धाय स्वाहा । ईशान्यै स्वाहा । श्रियै स्वाहा । सरस्वत्यै स्वाहा । पुष्ट्यै स्वाहा । विष्णवे स्वाहा । पुरुषसूक्तेन विष्णोर्नुकं तदस्य प्रियं प्रतद्विष्णुः परोमात्रया विचक्रमे त्रिर्देवः इति द्वादशनामभिः अमुष्मै स्वाहामुष्मै स्वाहा इति स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३५ अथ सर्वहविषां बलिमुपहरति त्वामेकमाद्यं पुरुषं पुरातनं नागयणं विश्वसृजं यजामहे । त्वमेव यज्ञो वि-हितो विधेयस्त्वमात्मनात्मन् प्रतिगृह्णीष्व हव्यम् इति ३६ अथाग्रेणाग्नि-मश्वत्थपर्णेषु हुतशेषं निदधाति भूर्भुवस्सुवरोम् इति ३७ द्विश्चतुर्वा प्रदक्षिणं साग्निं परिक्रामति विश्वभुजे नमः । सर्वभुजे नमः । आत्मने नमः । परमा-त्मने नमः । सर्वात्मने नमः इति ३८ ब्रह्मचारी गृहस्थो वा द्वादश ब्राह्म- णान् संयतान् हरिद्रोदनं भोजयेत् । सन्तिष्ठते विष्णुप्रतिष्ठाविधिः ३९ इति बोधायनीयगृह्यशेषे द्वितीयप्रश्ने त्रयोदशोऽध्यायः द्वितीयप्रश्ने चतुर्दशोऽध्यायः अथातो महापुरुषस्याहरहः परिचर्याविधिं व्याख्यास्यामः १ स्नातश्शुचि-श्शुचौ समे देशे गोमयेनोपलिप्य देवस्य प्रतिकृतिं कृत्वाक्षतपुष्पैर्यथा-लाभमर्चयित्वा सह पुष्पोदकेन महापुरुषमावाहयेत् ॐ भूः पुरुषमावाहयाम्यॐ भुवः पुरुषमावाहयाम्यॐ सुवः पुरुषमावाहयाम्यॐ भूर्भुवस्सुवः पुरुषमावाह-यामि इत्यावाह्य आयातु भगवान् महापुरुषः इति कुशैरासनं दद्यात् भगवतोऽयं कूर्चो दर्भमयस्त्रिवृद्धरितस्सुवर्णस्तं जुषस्व इति २ अथ सावित्र्या पात्रमद्भिः प्रक्षाळ्य तिरःपवित्रमप आनीय पुनस्तेनैवापोऽभिमन्त्र्य सपवित्रेणादित्यं दर्श-येत् ओम् इत्यातमितोः ३ तासां त्रीणि पदा विचक्रमे इति पाद्यं ददाति ४ अथ व्याहृतिभिर्निर्वाल्यं व्योह्य इदं विष्णुविचक्रमे इत्यर्ध्यं दद्यात् ५ दिवो वा विष्णो इत्याचमनीयम् ६ अथैनं स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानम् वामदेव्यर्चा यजुः पवित्रेण इति ७ अथा-द्भिस्तर्पयति केशवं तर्पयामि इति द्वादशनामधेयैर्व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य प्रणवेन वासो ददाति सावित्र्या यज्ञोपवीतं इदं विष्णुर्विचक्रमे इत्याचमनीयं गन्धद्वाराम् इति गन्धं इरावती इत्यक्षतं तद्विष्णोः इति पुष्पं सावित्र्या धूपं उद्दीप्यस्व इति दीपं देवस्य त्वा इति हविर्निवेदनम् ८ अथास्मै द्वादशनामभिः पुष्पाणि दद्यात् । त्रीणि पदा विचक्रमे इति प्रतिपदं दद्यात् सुमृडीका भवन्तु नः इत्यन्तेन ९ अथैन वैष्णवीभि ऋग्यजुस्सामाथर्वभिः स्तुतिभिस्तुन्वन्ति १० व्याहृतीभिः पुरुषमुद्वासयेत् ॐ भूः पुरुषमुद्वासयामि इत्यादिभिः प्रयातु भगवान् महापुरुषः क्षेमाय विजयाय पुनस्संदर्शनाय च इति ११ प्रतिमास्थानेष्वावाहनोद्वासनवर्जमहरहस्त्वाचक्षत इत्याह भगवान् बोधायनः १२ इति बोधायनीये गृह्यशेषे द्वितीयप्रश्ने चतुर्दशोऽध्यायः अथ द्वितीयप्रश्ने पञ्चदशोऽध्यायः अथातस्संप्रवक्ष्यामि विष्णोस्स्नपनमुत्तमम् प्रासादस्याग्रतो विद्वान् कुर्यात्स्वपनमण्डपम् १ मण्डपस्य च मध्ये तु वेदिकां सम्प्रकल्पयेत् अचलप्रतिष्ठितो यत्र देवस्तत्र न वेदिका २ तस्यास्समीपे तत्स्थाने कलशस्थानमुत्तमम् सङ्ख्या च नव तेषां तु स्थापनं प्रणवेन तु ३ यत्किञ्चित्क्रियते चात्र प्रणवेनैव कथ्यते स्थापनं कलशानां तु प्रागादीशानमन्ततः ४ एतेनैव क्रमेणात्र सर्वं कर्म विधीयते नवमं कलशं मध्ये स्थापयेदन्ततो बुधः ५ कूर्चेषु स्थापयेत्सर्वान् व्रीहिप्रस्थस्थितेषु च व्रीहयश्शालयः प्रोक्ताः कलशस्थापने बुधैः ६ तेषामभावे यत्किञ्चिद्ग्राम्यं धान्यमिहेष्यते पूरयेत्कलशान् सर्वान् शुद्धस्फटिकसन्निभैः ७ जलैस्तु मध्यमं तत्र पञ्चगव्येन पूरयेत् कूर्चान्निधाय सर्वेषु शरावैरपिधाय च ८ अरिक्तैरेव कर्तव्यः शरावैर्नवभिस्सदा अपिधानक्रिया तेषां शालिजैरेव तण्डुलैः ९ अर्चयेत्कलशान् सर्वान् गन्धपुष्पादिभिः क्रमात् प्राप्ते मुहूर्त आवाह्य परमात्मानमात्मवान् १० पूर्वोक्तविधिनावाह्य देवमानीय वेदिकाम् अर्चयित्वा ततो विष्णुमर्चितैरेव सर्वशः ११ आनीतं वेदिकायां तु गोमयेनापरेण तु उपलिप्तेऽक्षतैः कीर्णे शालिभिर्व्रीहिभिश्च तत् १२ प्राङ्मुखं देवमासीनं सन्निदध्यात्ततः क्षणात् तत्रैव त्वचलस्थाने न चावाहनमिष्यते १३ तत्रैव नित्यसान्निध्याद्देवस्य परमात्मनः आसनादिक्रमाद्दद्यात्सूक्तं पौरुषमाश्रितः १४ ततः कलशमादाय कुर्यात्स्नपनमादितः मन्त्रा एते तु मन्तव्या स्नापने परमात्मनः १५ वैष्णवं सूक्तमापो हि हिरण्येति च सप्तकम् पवमानानुवाकं च सर्वे साधारणास्स्मृताः १६ अनुक्तमन्त्रं यत्किञ्चिन्न गृह्णीयात्ततो बुधः अनेन विधिवत्कृत्वा स्नापनं पुरुषस्य तु १७ दत्वा पायसमन्नं तु शेषं परिसमापयेत् नित्यदेवार्चने यत्स्यात् कलशस्नापनं तु वै १८ स्नापनस्य त्रयश्चोक्ताः ब्रह्मजज्ञानमन्त्रतः वामदेव्यं ततः कुर्यात्पवित्रं यजुषश्च यत् १९ पवमानानुवाकं च सर्वे साधारणास्स्मृताः विषुवायनसङ्क्रान्तौ चन्द्रसूर्यग्रहे तथा २० अर्चनायाश्च विच्छेदे कदाचित्कालभेदतः उपघातेऽपि वान्यस्मिन् दुस्स्वप्ने तु भयंकरे २१ आद्यं तु स्नापनं कुर्यात्सर्वशान्तिर्भविष्यति अथ देवोत्सवं कुर्यान्मुच्यते सर्वपातकैः २२ इह लोके परत्रापि सुखमेवास्य वर्धते पश्चाद्विष्णोश्च सायुज्यमेतीत्यत्र न संशयः २३ जगद्धिताय कृष्णाय स्नापनं कृतवान् हि यः इत्याह भगवान् बोधायनः २४ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने पञ्चदशोऽध्यायः अथ द्वितीयप्रश्ने षोडशोऽध्यायः अथातो रुद्रप्रतिष्ठाकल्पं व्याख्यास्यामः १ चतुर्थ्यामष्टम्यामार्द्रायामपभरण्यां वा चतुर्दश्यां वा यानि चान्यानि शुभनक्षत्राणि तेषु पूर्वेद्युरेव युग्मान् ब्राह्मणा-नन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिं इति वाचयित्वा समागतायां निशायां कपिलापञ्चगव्येन सहिरण्ययवदूर्वाङ्कुराश्वत्थपलाशपर्णेन सुवर्णोपधानं प्रति-कृतिं कृत्वाभिषिञ्चति आपो हिष्ठा मयुभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन व्याहृतिभिश्च २ पुष्पफलाक्षतमिश्रयवदूर्वाङ्कुरं पादपीठे निक्षिपति नमस्ते रुद्र मन्यवे इति ३ प्रतिसरं बध्नाति रक्षोहणं वाजिनम् इति ४ अथ नदीतटाकह्रदनिर्झर-सरस्तीर्थानामन्यतमेष्वहतेन वाससा कुशबन्धां मालामाच्छाद्याधिवासयति अवते हेडः उदुत्तमम् इति ५ अथ श्वोभूते स्नात्वाहतवाससश्चत्वारो ब्राह्मणाः प्रतिमामुत्थापयेयुः उत्तिष्ठ ब्रह्मणस्पते इति ६ अथ शुचौ देशे समवस्थाप्य गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि शुक्रमसि ज्योतिरसीत्याज्यं देवस्य त्वा कुशादिकम् ७ इत्येतत्पञ्चगव्यं नाम ८ अत्राह कपिलाया वरं क्षीरं श्वेतायास्तु वरं दधि रक्ताया वरमाज्यं च शेषौ शबळकृष्णयोः इति ९ एतेन नमस्ते अस्तु धन्वने इत्यष्टाभिः स्नापयति १० अथ शमापलाश- खादिरबिल्वाश्वत्थविकङ्कतन्यग्रोधपनसाम्रशिरीषोदुम्बरसर्वयाज्ञिकवृक्षाणां चर्मकषायकलशेनाभिषिञ्चति अश्वत्थे वो निषदनम् इत्येतेन ११ मणिमुक्ता-प्रवाळानामप्सु निमग्नानां पूर्णकलशेनाभिषिञ्चति हिरण्यवर्णाः इति पूर्वोक्तेन १२ हिरण्येन तेजसा चक्षुर्विमोचयेत् तेजोऽसि इति १३ लिङ्गे चेन्निवर्तते चक्षुषोरभावात् १४ अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वा पक्वाज्जु-होति या त इषुश्शिवतमा इत्यान्तादनुवाकस्य १६ अथाज्याहुतीरुपजुहोति द्रापे सहस्राणि इत्येताभ्यामनुवाकाभ्यां प्रत्यृचं सर्वो वै रुद्रः इति पादपीठे स्पृशेत् १७ पुनस्ताभिरेवाज्याहुतीर्जुहुयात् कद्रुद्राय इति नाभिदेशे स्पृशेत् १८ पुनस्ताभिरेवाज्याहुतीर्जुहुयात् नमो हिरण्यबाहवे इति मूर्ध्नि स्पृशेत् १९ पुनस्ताभिरेवाज्याहुतीर्जुहुयात् सर्वाङ्गमुपस्पृशेत् रुद्रेण समस्तेन २० ततः उदु त्यं जातवेदसम् इत्युत्थाप्य पञ्चब्रह्मसंज्ञकेन पञ्चानुवाकेन देवालयं प्रवेश्य मणिमुक्ताप्रवाळसुवर्णरजतानि पादपीठे निधाय नमस्ते रुद्र मन्यवे इति रुद्रं स्थापयेत् २१ अथ गन्धपुष्पधूपदीपान्याकाशोन्मुखानि कृत्वा उपोत्थाया-वाहनं करोति प्रणवयुक्तव्याहृतीभिर्व्यस्ताभिस्समस्ताभिश्च ॐ भूः पुरुषमावा-हयाम्यॐ भुवः पुरुषमावाहयाम्यॐ सुवः पुरुषमावाहयाम्यॐ भूर्भुवस्सुवः पुरुष-मावाहयामि इति आयातु भगवान् महादेवः इत्यावाह्य रत्नाम्बुकलशेना-भिषिञ्चति प्रणवेन धारयेत् ब्रह्म इति विज्ञायते २२ प्रणवेन कूर्चं ददाति २३ विष्णुपदाश्यामाकपद्मपत्रकलशेन पाद्यं ददाति २४ एलालवङ्गतककोल-कर्पूरमिश्रकलशेनाचमनीयं ददाति २५ आपःक्षीरकुशाग्रैश्चाक्षतैर्यवतण्डुलैः । यवैस्सिद्धार्थकैश्चार्ध्यं ददाति इमा आपश्शिवाश्शिवतमाः पूततमा मेध्या मेध्यतमा अमृता अमृतरसाः पाद्या आचमनीया अर्ध्यास्ता जुषतां प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति पाद्यमाचमनीयमर्ध्यं ददाति २६ नमस्ते रुद्र मन्यवे इति प्रतिसरं विस्रंसयति २७ देवतां नमस्कृत्याथ गन्धं ददाति इमे गन्धाश्शुभा दिव्यास्सर्वगन्धैरलङ्कृताः । पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः । प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति २८ अथ माल्यं ददाति इमे माल्याश्शुभा दिव्यास्सर्वमाल्यैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति २९ अथ पुष्पं ददाति इमे पुष्पश्शुभा दिव्यास्सर्वपुष्पैरलङ्कृताः पूता ब्रह्मपवित्रेण पूतास्सूर्यस्य रश्मिभिः प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति ३० अथ धूपं ददाति वनस्पतिरसो धूपो धूपाढ्यो धूप उत्तमः आघ्रेयस्सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति ३१ अथ दीपं ददाति ज्योतिश्शुक्रश्च तेजश्च देवानां सततं प्रियः भास्वरस्सर्वभूतानां दीपोऽयं प्रतिगृह्यताम् प्रतिगृह्यतां प्रतिगृह्णातु भगवान् महादेवो रुद्राय नमः इति ३२ अथ भवाय इत्यष्टाभिः पुष्पाणि दद्यात्तैरेव तर्पणानि कृत्वा कृसरं पायसं गुळोदनं हरि-द्रोदनमिति हवींषि पवित्रं ते विततम् इति पायसं निवेदयेत् ३३ घृताप्लुतं पूर्णशरावं गुळोदनं निवेदयेत् ३४ कृसरमाज्यमिश्रं जुहुयात् भवाय देवाय स्वाहा इत्यष्टाभिः भवस्य देवस्य पत्न्यै स्वाहा इत्यादिभिः ३५ अथ हरिद्रोदनं जुहुयात् भवस्य देवस्य सुताय स्वाहा इत्यष्टाभिः ३६ अथ त्र्यम्बकं यजामहे मा नो महान्तं मा नस्तोके आर्द्रया रुद्रः हेती रुद्रस्य आरात्ते अग्निः विकिरिद विलोहित सहस्राणि सहस्रधा सहस्राणि सहस्रशः इति । द्वादशनामभिः शिवाय शङ्कराय सहमानाय शितिकण्ठाय कपर्दिने ताम्राय अरुणाय अपगुर-माणाय हिरण्यबाहवे सस्थिञ्जराय बभ्लुशाय हिरण्याय स्वाहा इति ३७ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३८ हविषां बलिमुपहरति त्वामेक-माद्यं पुरुषं पुरातनं रुद्रं शिवं विश्वसृजं यजामहे । त्वमेव यज्ञो विहितो विधेयस्त्वमात्मनात्मन् प्रतिगृह्णीष्व हव्यम् इति ३९ अथाग्रेणाग्निम-श्वत्थपर्णेषु हुतशेषं निदधाति भूर्भुवस्सुवरोम् इति ४० द्विः चतुर्वा सहाग्निं प्रदक्षिणं परिक्रामति विश्वभुजे नमः । सर्वभुजे नमः । आत्मने नमः । परमात्मने नमः इति ४१ ब्रह्मचारी गृहस्थो वा द्वादश ब्राह्मणान् संयतान् हरिद्रोदनेन भोजयेत् ४२ संतिष्ठते प्रतिष्ठाविधिः ४३ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने षोडशोऽध्यायः अथ द्वितीयप्रश्ने सप्तदशोऽध्यायः अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः स्नातश्शुचिस्समे शुचौ देशे गोमयेनोपलिप्य देवस्य प्रतिकृतिं कृत्वाऽक्षतपुष्पैर्यथाला-भमर्चयित्वा सह पुष्पोदकेन महादेवमावाहयेत् ॐ भूः पुरुषमावाहयामि इत्यादि आयातु भगवान् महादेवः इति १ यो रुद्रो अग्नौ इति यजुषा पात्रमभिमन्त्र्य प्रक्षाळ्य तिरःपवित्रमप आनीय पुनस्तेनैवाभिमन्त्र्य सह पवित्रेणादित्यं दर्शयेत् ओम् इत्यातमितोः २ तासां पाद्यम् इति पाद्यं ददाति ३ अथ व्याहृतीभिर्निर्माल्यं व्यपोह्यार्घ्यमाचमनीयं दत्वाऽभिषिञ्चति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानम् कद्रुदाय त्वरितरुद्रं वाम-देव्यं आपो वा इदम् इति च ४ अथ व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य पवित्रं पादमूले निधायाद्भिस्तर्पयति भवं देवं तर्पयामि इत्यष्टाभिः ५ ॐ नमो भगवते रुद्राय त्र्यम्बकाय इति वस्त्रयज्ञोपवीते दद्यात् ६ भवाय देवाय नमः इत्यष्टाभिः पुष्पाणि दद्यात् ७ त्वरितरुद्रेण गन्धपुष्पधूपदीपं ददाति ८ देवस्य त्वा इति हविषो निवेदयेत् ९ त्र्यम्बकम् इति परिषेकं दद्यात् १० अमृतोपस्तरणमसि इति प्रतिपदं कृत्वा हविरविरुद्धं सर्वं स्वादु वस्तु कन्दमूलफलानि दद्यात् ११ मुहूर्तमनवेक्षमाण आसीनो हविरुद्वासयामि इति निवेद्यमुद्वास्य अमृतापिधानमसि इति प्रतिपदं कृत्वा त्र्यम्बकम् इत्याचमनीयं दद्यात् १२ सर्वोपकरणैरर्चयित्वा भवाय देवाय नमः इत्यादिभिः अमुष्मै नमोऽमुष्मै नमः इति गन्धादीन् ददाति १३ रौद्रीभिः ऋग्यजुस्सामाथर्व-भिस्स्तुतिभिस्स्तुन्वन्त्यार्षैस्स्तोत्रैश्च नमस्कृत्य प्रयातु भगवान् महादेवः इति विसर्जयति १४ लिङ्गस्थानेष्वावाहनोद्वासनवर्जमहरहः स्वस्त्ययनमित्या- चक्षत इत्याह भगवान् बोधायनः १५ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने सप्तदशोऽध्यायः अथ द्वितीयप्रश्ने अष्टादशोऽध्यायः अथातो रुद्रस्नानार्चनविधिं व्याख्यास्यामः आदित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधाय शुचिः प्रयतो ब्रह्मचारी शुक्लवासाः ईशानस्य प्रतिकृतिं कृत्वा तस्य दक्षिणाप्रत्यग्देशे तन्मुखः स्थित्वा आत्मनि देवताः स्थापयेत् प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु । हस्तयोर्हरस्तिष्ठतु । बाह्वो रुद्रस्तिष्ठतु । जठरेऽग्निस्तिष्ठतु । उदरे पृथिवी तिष्ठतु । हृदये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु । नयनयोश्चन्द्रादित्यौ तिष्ठेताम् । कणयोरश्विनौ तिष्ठेताम् । ललाटे रुद्रास्ति-ष्ठन्तु । मूÞर्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायां वासुदे-वस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतश्शूली तिष्ठतु । पार्श्वयोश्शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । सर्वतोऽग्निज्वाला मालापरिवृतास्तिष्ठन्तु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । मां रक्षन्तु इति । अग्निर्मे वाचि श्रितः इति यथालिङ्गमङ्गानि संमृज्याथैनं गन्धाक्षतपत्रपुष्पधूपदीपैरा- राधयेत् १ अथैनं प्रसादयति आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः आराधयामि शक्त्या त्वानुगृहाण महेश्वर २ त्र्यम्बकं यजामहे इति च ३ अथैनमावाहयति आ त्वा वहन्तु हरयस्सचेतसश्श्वेतैरश्वैस्सह केतुमद्भिः । वाताजितैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वोम् इति ४ स्थापिते नावाहनम् ५ अथास्मा आसनं ददाति सद्योजातम् इति भवे भवे इति पाद्यं भवोद्भवाय नमः इत्यर्घ्यं रुद्राय नमः इत्याचमनीयं व्याहृतीभिर्नि-र्माल्यं व्यपोह्याथैनं स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यव-र्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानं कद्रुद्राय सर्वो वै कया नश्चित्र आभुवत् आपो वा इदं सर्वम् इति च ६ व्याहृतीभिः प्रदक्षिणमुदकं परिषिच्य पवित्र पादमूले निधायाद्भिस्तर्पयति भवं देवं तर्पयामि इत्यष्टाभिः वामदेवाय नमः इति वस्त्रं ज्येष्ठाय नमः इति यज्ञोपवीतं रुद्राय नमः इत्याचमनीयं कालाय नमः इति गन्धं कलविकरणाय नमः इत्यक्षतं बलविकरणाय नमः इति पुष्पं बलप्रमथनाय नमः इति धूपं सर्वभूतदमनाय नमः इति दीपं मनोन्मनाय नमः इति काले नैवेद्यं रुद्राय नमः इत्याचमनीयं ददाति ७ अथास्याघोरतनूरुपतिष्ठते अघोरेभ्योऽथ घोरेभ्यः इति ८ अथ रुद्रगायत्रीं जपेत् तत्पुरुषाय विद्महे इत्येतां रौद्रीं सहस्रकृत्व आव-र्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरम् ९ अथैनमाशिषमाशास्ते ईशान-स्सर्वविद्यानाम् इति १० अथास्य मूर्ध्नि कलशधारया सन्ततमभिषिञ्चति नमस्ते रुद्र मन्यवे इत्येकादशानुवाकान् जपेत् । सर्वो वै रुद्रः इति त्रीननुवाकान् सद्यो जातम् इति पञ्चानुवाकान् इमा रुद्राय इति द्वादशर्चानन्यांश्च रौद्रम-न्त्रान्यथाशक्ति जपेत् ११ एवमेकादशकृत्वोऽभिषिञ्चति १२ जपान्ते जपान्ते अग्नाविष्णू सजोषसा इत्येकादशानुवाकानामेकमेकमनुवाकं जपेत् १३ सर्वेषामन्ते पुनराराधयेत् सद्यो जातम् इत्यासनादि दीपान्तं पूर्वोक्तं सर्वं कृत्वा मनोन्मनाय नमः इति पायसादि महाहविर्निवेदयेद्रौद्रीभिस्स्तुतिभिस्स्तुन्वन्ति १४ तदेतद्रुद्रस्नानार्चनं पापक्षयार्थी व्याधिमोचनार्थी श्रीकामश्शान्तिकामः पुष्टिकामस्तुष्टिकाम आयुष्काम आरोग्यकामो मोक्षकामश्च कुर्यात् १५ अथ यथाशक्ति दक्षिणां ददाति दशगावस्सुवर्णभूषिता ऋषभैकादशास्तदभाव एकां गां दद्यादित्याह भगवान् बोधायनः १६ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने अष्टादशोऽध्यायः अथ द्वितीयप्रश्ने एकोनविंशोऽध्यायः अथातः पुनःप्रतिष्ठाकल्पं व्याख्यास्यामः पूर्वोक्तेषु नक्षत्रेषु यानि चान्यानि शुभनक्षत्राणि शुक्लपक्ष उदगयने वसन्तादिकाले पूर्वं प्रतिष्ठितस्यापि बुद्धि-पूर्वकमेकरात्रं द्विरात्रमेकमासं द्विमासं वाऽर्चनाविच्छेदे शूद्ररजस्वलापतिता-द्युपप्लवे वा पूर्वेद्युरेव युग्मान् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा समागतायां निशायां जलाधिवास कृत्वा श्वोभूत उत्थाय द्वौ कलशौ स्थापयेदेकं पञ्चगव्येन पूरयित्वाऽपरं शुद्धोदकेन सह रत्नेन स्नापयेत् १ अष्टसहस्रमष्टशतमष्टाविंशतिं वा मूलमन्त्रेण रुद्रगायत्र्या स्नापयित्वा पुष्पाणि दद्याद्यथालाभमर्चयित्वा गुडोदनं निवेदयेत् २ एवंकृतेऽस्य शान्ति-र्भवति ३ बुद्धिपूर्वेणार्चनाविच्छेदे स्नापनं कर्तव्यम् ४ एवं कुर्वाणः स्वस्ति ऋद्धिमाप्नोतीत्याचक्षते ५ एवं पुनः प्रतिष्ठामन्त्रेण प्रतिष्ठापयेदित्याह भगवान् बोधायनः ६ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने एकोनविंशोऽध्यायः अथ द्वितीयप्रश्ने विंशोऽध्यायः अतः परं प्रवक्ष्यामि पञ्चगव्यविधिं क्रमात् उत्तमं द्रोणमेकं तु मध्यमं तु तदर्धकम् १ तदर्धमधमं ज्ञेयं त्रिविधं परिकीर्तितम् प्रथपादं घृतं प्रोक्तं गोमूत्र द्विगुणं भवेत् २ गोमयं कुडुपं प्रोक्तं दधि प्रस्थसमन्वितम् क्षीरं प्रस्थद्वयं प्रोक्तं --३ स्नापनं पञ्चगव्येन भुक्तिमुक्तिप्रदं नृणाम् कपिलाया वरं क्षीरं श्वेतायास्तु वरं दधि रक्ताया वरमाज्यं वै शेषौ शवलकृष्णयोः ४ --- प्रयतो देवस्य गृहं गत्वा पुरतो मण्डपे समे देशे गोमयेनोपलिप्य व्रीहिभिर्यवैर्वा खारिमात्रं तदर्धं वा संगृह्य सौवर्णं राजतं कांस्यं मृण्मयं वा नव कलशान् याचति ५ तन्तुना परिवेष्ट्य शुचौ देशे निधाय स्थण्डिलस्य दक्षिणता उदङ्ङासीनो --- दशनामभिर्ब्राह्मणानामन्त्र्य पुण्याहं वाचयित्वा प्रोक्ष्य व्रीहिभिस्स्थण्डिलं कृत्वा तस्य मध्यतः प्रादेशाद्दक्षिणवामपार्श्वे सुवर्ण-शकलेन ऋजुमुल्लिखेत् ब्रह्म जज्ञानम् इति दक्षिणतः । पिता विराजाम् इत्युत्तरतः । तयोर्दक्षिणतो नाके सुपर्णम् इति तयोरुत्तरतः आप्यायस्व इति । सन्ततमृजुमुल्लिखेत् यो रुद्रो अग्नौ इति पश्चात् । सर्वो वै रुद्रः इति पुरस्तात् । तयोः पश्चात् इदं विष्णुर्विचक्रमे इति । तयोः पुरस्तात् इन्द्रं विश्वा अवीवृधन् इति ६ अथाभ्युक्ष्य शकलं निरस्याप उपस्पृश्य भूर्भुवस्सुवरॐ ब्रह्मणे नमः इति मध्यमपदेऽभ्यर्च्य ईशानाय नमः इतीशपदे तत्पुरुषाय नमः इति पूर्वे अघोराय नमः इति दक्षिणे वामदेवाय नमः इत्युत्तरे सद्योजाताय नमः इति पश्चिमे हृदयाय नमः इति दक्षिणपूर्वे शिरसे नमः इत्युत्तरपूर्वे शिखायै नमः इति दक्षिणपश्चिमे कवचाय नमः इति पश्चिमोत्तरे अस्त्राय नमः इति दिग्विदिक्ष्वभ्यर्च्य ब्रह्मणे नमः इति मध्ये प्रधानकलशं स्थाप्य ईशादिपदेषु तत्तन्मन्त्रेण कलशान् संस्थाप्य प्रोक्षणीस्संस्कृत्य पात्राणि प्रोक्ष्य गव्यानि च प्रोक्षणीपात्रपरिमाणं कुशोदकं देवस्य त्वा इति ब्रह्मकुम्भे आनयति । आपो वा इदं सर्वम् इत्यभिमन्त्र्य कूर्चं निधायेशपात्रे सपवित्रेण क्षीरम् । पुरुषे दधि । अघोरे घृतम् । सौम्ये गोमयम् । वारुणे गोमूत्रम् । हृदये पिष्टं कदळ्यादीनि च । नाळिकेरं शिरसि । आमलकं शिखायाम् । कवचे हारिद्रम् । तत्तन्मन्त्रेणावाहनाद्याचमनान्तं कृत्वा संपरिस्तीर्याथैनं स्नापयति आपो हिष्ठा मयो भुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन ब्रह्म जज्ञानं कद्रुद्राय सर्वो वै कया नश्चित्रः आपो वा इदम् इति प्रदक्षिणमुदकं व्याहृतीभिः परिषि-च्याथाद्भिस्तर्पयति । स्वेन मन्त्रेण गन्धपुष्पधूपदीपैरभ्यर्च्य बलिमुपहृत्य तत्सवितुर्वरेण्यम् इति सद्यःपात्रमादाय ब्रह्मपात्रेण योजयेत् सद्योजातम् इत्य-नुवाकेन । गन्धद्वाराम् इति वामदेवमादाय वामदेवानुवाकेन ब्रह्मपात्रेण योजयेत् । आप्यायस्व इति क्षीरकुम्भमादायेशानानुवाकेन योजयेत् । दधिक्राव्ण्णः इति दध्यादाय पुरुषानुवाकेन योजयेत् । शुक्रमसि इत्यनुद्रुत्य घृतमादायाघोरानुवाकेन योजयेत् । सोहमिति --- फलैरवकीर्य गन्धा-दिभिरभ्यर्च्य व्योमव्यापिना संपूज्य पञ्चगव्यं भवतीति ७ अथ देवस्य समीपं गत्त्वा निर्माल्यं व्यपोह्य प्रणवेन --- देवस्य त्वा सवितुः प्रसवेऽश्विनो-र्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बादुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि इति त्रिभिः । अथ पिष्टामलकहरिद्रादिभिः स्नापयति । सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिः हिरण्यवर्णाभिः पावमानीभिः व्याहृतीभिरन्यैश्च पवित्रसमूहैश्चमकनमकादि-भिरभिषेकं कुर्यात् ८ पुनरेव यथाशक्ति दक्षिणां दद्यादाचार्याय वस्त्रकुण्ड-लाभरणाङ्गुलीयधेनुभूम्यादीनि दद्यात् ९ सर्वं पाप्मानं तरति तरति ब्रह्महत्यां ब्रह्मणस्सायुज्यं सलोकतामाप्नोति १० नाळिकेराम्रपनसकदळीनां फलत्रयम् शर्करामधुसंयुक्तं पञ्चामृतमिति स्मृतम् ११ ब्रह्मपात्रस्थितं तोयं चतुःप्रस्थं प्रचक्षते --- कपित्थफलमात्रकम् १२ यावत्सम्पादितं भक्त्या तावत्सम्पादयेद्बुधः इत्याह भगवान् बोधायनः १३ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने विंशोऽध्यायः अथ द्वितीयप्रश्ने एकविंशोऽध्यायः अथातस्संप्रवक्ष्यामि देवस्य स्नपने विधिम् महतो लिङ्गदेशे वा कारयेद्वेदिकां बुधः १ मण्डलं च पुराणोक्तं कृत्वा स्नपनमारभेत् अचलप्रतिष्ठितो यत्र देवस्तत्र न वेदिका २ तस्यास्समीपे तत्स्थाने कलशस्थानमुत्तमम् संख्या च नव तेषां तु स्थापनं प्रणवेन तु ३ यत्किंचित्क्रियते तत्र प्रणवेनैव कथ्यते स्थापनं कलशानां तु प्रागादीशानमन्ततः ४ एतैरेव क्रमैरत्र सर्वं कर्म विधीयते नवमं कलशं मध्ये स्थापयेदन्ततो बुधः ५ कूर्चेषु स्थापयेत्सर्वं व्रीहिभिस्तण्डुलेषु च व्रीहयश्शालयः प्रोक्ताः कलशांस्थापयेद्बुधः ६ तेषामभावे यत्किंचिद्ग्राम्यं धान्यमिहेष्यते पूरयेत्कलशांत्सर्वान् शुद्धस्फटिकसन्निभैः ७ जलैस्तु मध्यमं तत्र पञ्चगव्येन पूरयेत् कूर्चान्निधाय सर्वेषु शरावैरपिधाय च ८ अरिक्तैरेव कर्तव्यश्शरावैर्नवभिस्सदा अपिधानक्रिया तेषां शालिजैरेव तण्डुलैः ९ अर्चयेत्कलशांत्सर्वान् गन्धपुष्पादिभिः क्रमात् प्राप्ते मुहूर्त आवाह्य परमात्मानमात्मवान् १० रुद्रदेवं शिवं साक्षाद्यच्च सर्वस्य दैवतम् तस्मादावाहयेत्प्राज्ञः सर्वत्रावाहने विधिः ११ एष औत्सर्गिकः प्रोक्तो देवतानां च तर्पणे नारायणादि विष्णोस्स्याद्रुद्रस्य तु शिवादिकम् १२ जपध्यानादि सर्वं स्यात् विकल्पं मनसि श्रयेत् रौद्रं च सूक्तमापो हि हिरण्येति च सप्तकम् १३ वैकल्पिकैरेव कुर्यान्मध्येति तु न विद्यते अथ हैके वदन्त्येवं स्नापने तु महाप्रभोः १४ सद्योजातादिपञ्चैव सर्वो वै रुद्र इत्यपि एतैरन्यैश्च कुर्याद्वै स्नापनं सार्वकालिकम् १५ एवं च कुर्यात्स्नाने तु स्नापनेऽर्चा तथा भवेत् इत्याह भगवान् बोधायनः १६ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने एकाविंशोऽध्यायः अथ द्वितीयप्रश्ने द्वाविंशोऽध्यायः अथ देवयोः पूजाकरणे सर्वत्र त्रीणि पदा विचक्रमे त्र्यम्बकं यजामहे इत्येता-भ्यां यथालिङ्गमासनं पाद्यमाचमनीयं च १ एतयोस्त्रैवर्णिकधर्मत्वात् सर्वत्र वचनाल्लोकप्रसिद्धप्राप्तप्रतिषेधाभावात् क्रियत इति ह स्माह बोधायनः २ एवं प्रतिष्ठाप्य वा कुर्यात्तयोरेव सायुज्यं सलोकतामाप्नोति ३ यदि त्रिंशत्संव-त्सरादूर्ध्वं क्रियेत ततो देवयोः परमं पदं ब्रह्मसंज्ञितं तदेव सगण आप्नोति ४ यदि तत्प्रवणः स्याद्य उ चैनदेवं विदुर्यस्मै प्रब्रूते यस्मै वा करोति तस्मै शतं दद्यान्माषाणां ब्राह्मणो राजन्यस्सहस्रं दद्याद्वैश्यो यथाश्रद्धं दद्यात् ५ न स्त्रीशूद्रौ कुर्यातां यदि कुर्यातां स्वतन्त्रोपदेशे आचार्य आश्रय इति ६ स्वतन्त्रयोस्तयोश्चेद्वृत्तिक्षीणोऽपि ब्राह्मणः पतत्येवेति शालिकिः ७ अथ देवयोर्यथाकामी स्याद्यस्यांकस्यांचिदवस्थायां जले वा स्थण्डिले वा प्रतिमासु वा सर्वं कृत्वाऽभ्यर्चयेन्न तु प्रमाद्येत् ८ देशाभावे द्रव्याभावे साधारणे कुर्यान्मनसा वाऽर्चयेदिति । तदाह भगवान् पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः । इति ९ भक्तिनम्रः एतान्मन्त्रानधीयीत न त्वेवानर्चकः स्यादन्यतरस्योभयोर्वा ततस्त- योरेव सायुज्यं सलोकतामाप्नोति १० य एतयोरर्चनां कुरुतेऽन्यत्र पुत्रशिष्येभ्यः स्त्रियाश्च तस्मै सौवर्णं शङ्खं सुवर्णोपधानं वा दद्यादृषभं रुद्रस्य दक्षिणेत्याह भगवान् बोधायनः ११ प्रतिष्ठाकरणे स्नापनकरणे वाचार्याय तदुपकरणं सर्वं दत्वा ऋषभैकादश गा दद्यादित्याह भगवान्बोधायनः १२ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्ने द्वाविंशोऽध्यायः अथ देवयोः पूजाकरणे । अथातस्संप्रवक्ष्यामि । अतः परं प्रवक्ष्यामि । अथातः पुनःप्रतिष्ठाकल्पम् । अथातो रुद्रस्नानार्चनविधिम् । अथातो महादेवस्याहरहः । अथातो रुद्रप्रतिष्ठाकल्पम् । अथातस्संप्रवक्ष्यामि विष्णोः । अथातो महापुरुषस्याहरहः । अथातो विष्णुप्रतिष्ठकल्पम् । यथो एतद्ग्रहाणाम् । अथाहुते प्रसिद्धमुपनयनम् । अथातोऽश्वत्थसंस्कारम् । अथ जडबधिरमूकानां संस्कारम् । अथ राजन्यवैश्ययोः । अथातो यज्ञोपवीतविधिम् । अथातः पुत्रप्रतिग्रहकल्पम् । अथ माघमासे । अथ प्रजार्थिहोमः । अथ मङ्गलानि । अथ गर्भाधानम् । अथातः पञ्चमीश्राद्धम् २२ अथातः पञ्चमीश्राद्धम् । अथ गर्भाधानम् । अथ मङ्गलानि । अथ प्रजार्थिहोमः । अथ माघमासे । अथातः पुत्रप्रतिग्रहकल्पम् । अथातो यज्ञोपवीतविधिम् । अथ राजन्यवैश्ययोः । अथ जडबधिरमूकानां संस्कारम् । अथातोश्वत्थसंस्कारम् । अथाहुते प्रसिद्धमुपनयनम् । यथो एतद्ग्रहाणाम् । अथातो विष्णुप्रतिष्ठाकल्पम् । अथातो महापुरुषस्याहरहः । अथातस्संप्रवक्ष्यामि विष्णोः । अथातो रुद्रप्रतिष्ठाकल्पम् । अथातो महादेवस्याहरहः । अथातो रुद्रस्नानार्चनविधिम् । अथातः पुनः प्रतिष्ठाकल्पम् । अतः परं प्रवक्ष्यामि । अथातस्संप्रवक्ष्यामि देवस्य । अथ देवयोः पूजाकरणे २३ इति बोधायनीये गृह्यशेषसूत्रे द्वितीयप्रश्नः समाप्तः अथ तृतीयप्रश्ने प्रथमोऽध्यायः अथातः पवित्राणां पवित्रायातिपवित्रायापराजिताय गुह्याय ब्रह्महृदयाय ॐकारकल्पं व्याख्यास्यामः १ यत्र ग्राम्याणां पशूनां शब्दं नोपशृणुयादपां समीपे ब्रह्मवृक्षेणैकस्थूणां कुटीं प्राङ्मुखां कारयेत् २ कुशध्वजी कुशवेष्टी कुशचीरवासाः कुशोपवीतः कुशोपविष्टः कुशहस्तः कुशमेखलां धारयमाणः त्रिषवणस्नायी कुशशायी शाकयावकयोर्भैक्षाहार आदित्याभिमुखस्तिष्ठ-न्नोङ्कारं पञ्चसहस्रं जपेत्ततोऽस्य मन्त्रास्सर्वे सिध्यन्ति सर्वे वेदा अधीता भवन्ति सर्वेषु वेदेषु चीर्णव्रतो भवति सर्वेषु तीर्थेषु स्नातो भवति सर्ववेदो ज्ञातो भवति सर्वैर्देवैर्ज्ञातो भवति सर्वयज्ञक्रतुभिरिष्टवान् भवत्याचक्षुषः पङ्क्तिं पुनाति मातापितृदोषैः पुरुषदोषैश्च निर्दोषः पूतो भवति चण्डालश्वपाकानां पुनाति ३ श्वेतायास्सरूपवत्सायाः पयसि स्थालीपाकं श्रपयित्वाऽऽदित्याभिमुख ओङ्कारसहस्रेणाभिमन्त्रितं कृत्वा स्वयं प्राश्नीयात् सप्तानां पुरुषाणामलक्ष्मीं नुदति जातिस्मरत्वं लभते श्रियं देवीं भजते ब्रह्मचर्यमस्याविच्छिन्नं सन्ततं भवति ४ प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः वाङ्मयं प्रणवं सर्वं तस्मात्प्रणवमभ्यसेत् ५ प्रणवेन विहीनं यत्तन्मन्त्रं प्राणहीनकम् सर्वमन्त्रेषु मन्त्राणां प्राणः प्रणव उच्यते ६ इत्याह भगवान् बोधायनः ७ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने प्रथमोऽध्यायः अथ तृतीयप्रश्ने द्वितीयोऽध्यायः अथातो व्याहृतिकल्पं व्याख्यास्यामः त्रिषवणं स्नायादवश्शय्यासनस्त्रि-रात्रमहोरात्रं वोपोष्य द्वादशसहस्रं व्याहृतीर्जपेत् १ कृतपुरश्चरणोऽथ कर्मा-ण्यारभते २ दधिमधुघृताक्तानां पलाशसमिधामाहुतिसहस्रं जुहुयाद्ब्रह्म-वर्चसकाम आज्येन तेजस्कामः पयसा पशुकामो दध्नेऽन्द्रियकाम ओदनेनान्ना-द्यकामो व्रीहिभिर्यवैर्धान्यकामः कन्याकामो लाजैस्तिलै राक्षोघ्नं पापनाशनं च सद्य एव विनश्यति ज्वरो वानस्पत्यानां न्यग्रोधैः पुत्रकामः प्लक्षैर्गृहका-मोऽश्वत्थैः पुष्टिकामश्शमीमयैश्शान्तिकामोऽपामार्गैर्वश्यकामः खादिरैराधि-पत्यकामोऽर्कसमिद्भिरर्थकामः पलाशसमिद्भिस्सर्वकामः ३ यावज्जुहोति तावदाप्नोतीति ह स्माह भगवान् बोधायनः ४ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने द्वितीयोऽध्यायः अथ तृतीयप्रश्ने तृतीयोऽध्यायः अथातो दुर्गाकल्पं व्याख्यास्यामः यज्ञोपवीतं रक्तपद्मपुष्पं सम्भारानुपकल्प्य मासिमासि कृत्तिकापूर्वाह्णे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा प्रोक्ष्य शौचेन सुव्रतस्तिष्ठन् भगवतीमावाहयेत् जातवेदसे इति ओमार्यां रौद्रीमा-वाहयामि इत्यावाह्य तामग्निवर्णां इति कूर्चं दत्वा अग्ने त्वं पारय इति यज्ञोपवीतं दत्वाऽथैनां स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानः इत्येतेनानुवाकेन मार्जयित्वा आर्यायै रौद्र्यै महाकाळ्यै महायोगिन्यै सुवर्णपुष्प्यै देवसङ्कीर्त्यै महायज्ञ्यै महावैष्णव्यै महापृथिव्यै मनोगम्यै शङ्खधारिण्यै नमः इत्येकादशनामधेयैर्गन्धपुष्पधूपदीपैः अमुष्यै नमोऽमुष्यै नमः इत्येतैरेवार्चयित्वा सावित्र्या भगवत्यै दुर्गादेव्यै हविर्निवेदयामि इति हविर्निवेद्य शेषमेकादशनामधेयैर्हुत्वा पञ्चदुर्गा जपेद्दश स्वस्ति जपेत् जातो यदग्ने वषट् ते विष्णो वास्तोष्पते एवावन्दस्व आ नो नियुद्भिः हिरण्यवर्णाः अभयं कृणोतु अश्वावतीः त्वं वरुणः बृहस्पते युवमिन्द्रश्च स्वस्ति न इन्द्रो वृद्धश्रवाः इति जपित्वा शं च मे मयश्च मे इत्येतैरेका-दशभिरनुवाकैश्च जपेत् सावित्र्या भगवत्यै दुर्गादेव्यै हविरुद्वासयामि इत्युद्वा-स्य शेषं ब्राह्मणेभ्यो दत्वा संवत्सरमुपासीत १ सर्वकामास्सिध्यन्तीत्याह भगवान् बोधायनः २ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने तृतीयोऽध्यायः अथ तृतीयप्रश्ने चतुर्थोऽध्यायः अथात उपश्रुतिकल्पं व्याख्यास्यामः आदित्यवारेऽङ्गारकवारे वा चतुर्थ्या-मष्टम्यां चतुर्दश्यां भरण्यां कृत्तिकायां वा क्रियेत १ पूर्वेद्युरकृतभुक्ति-श्शुचिर्ब्रह्मचारी भूत्वाऽथ प्रदोषेऽग्निमुपसमाधाय सम्परिस्तीर्य तस्य दक्षिणत उपश्रुतिमावाहयेत् ॐ भूः रात्रीं देवीमावाहयाम्यॐ भुवरुपश्रुतिं देवीमावाह-याम्यॐ सुवर्महारात्रीं देवीमावाहयाम्यॐ भूर्भुवस्सुवः महाकाळरात्रीं देवीमा-वाहयामि इत्यावाह्याथैनां स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानः इत्येतेनानुवाकेन मार्जयित्वा गन्धैः कृष्णपुष्पैर्धूपैर्दीपैरलंकृत्याज्यं संस्कृत्य जुहोति रात्र्यै देव्यै स्वाहोपश्रुत्यै देव्यै स्वाहा महारात्र्यै देव्यै स्वाहा महाकाळरात्र्यै देव्यै स्वाहा निशायै स्वाहा क्षपायै स्वाहा कृष्णायै स्वाहाऽन्धकारिण्यै स्वाहा यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां च जुहोति २ अथ समन्तं परिषेकं कृत्वा रात्रिसूक्तेनो-पतिष्ठते ३ व्याहृतीभिः रात्रीं देवीमुद्वासयामि इत्युद्वास्याथ व्रजेत् श्मशानदेशे देवागारे श्रोत्रियागारे कुलालकारुदेशे वा गच्छेत् ४ नवधनुर्मात्रात् कर्णौ बध्नाति ५ स्वस्ति न इन्द्रो वृद्धश्रवाः इत्येतामृचं जपित्वा विमुञ्चेद्व्यक्तं तत्प्र-तिगृह्यतामनुरूपं युज्यतां सर्वकर्मणां चारम्भ इत्याह भगवान् बोधायनः ६ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने चतुर्थोऽध्यायः अथ तृतीयप्रश्ने पञ्चमोऽध्यायः अथातश्श्रीकल्पं व्याख्यास्यामः शुक्लपक्षस्य पञ्चम्यां पौर्णमास्यामपि वा श्रियं कदम्बमयीं बिल्वसारमयीं स्थण्डिले वा विधायाहोरात्रोपोषितश्शुचिः कृतशौचस्समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य गन्धमुमनसस्सम्प्रकीर्य हिरण्मयेन पात्रेणोदकं पूरयित्वा गन्धान् सुमनसः तस्मिन् हिरण्यवर्णां हरिणीम् इति द्वाभ्यां ॐ भूः श्रियमावाहयामि ॐ भुवः श्रियमावाहयामि ॐ सुवः श्रियमावाहयामि ॐ भूर्भुवस्सुवः श्रियमा-वाहयामि इत्यावाह्य कर्दमेन इति द्वाभ्यां प्रसिद्धं प्रोक्ष्य अश्वपूर्वां इति स्नापयित्वा गन्धद्वाराम् इति गन्धं ददाति कां सोऽस्मि ताम् इति पुष्पं ददाति उपैतु माम् इति धूपं ददाति चन्द्रां हिरण्मयीम् इति दीपं ददाति चन्द्रां प्रभासाम् इति नैवेद्यं ददाति १ अथ देव्या दक्षिणतोऽग्निमुपसमाधाय सम्परिस्तीर्य महाव्रीहिभिस्तण्डुलैः पायसं चरुं श्रपयित्वा हविर्द्विधा कृत्वा मनसः कामम् इत्यभिप्रेत्य काममन्नं वाऽऽज्यमिश्रं श्रीसूक्तेन पञ्चदशर्चेन हविर्जुहोति २ तेन सूक्तेन श्रियै नमः पुष्ट्यै नमो धात्र्यै नमस्सरस्वत्यै नमः इति बलिमुपहरति ३ पद्मपुष्पाणि यथालाभं गृहीत्वा प्रत्यङ्गं निमार्ष्टि क्षुत्पिपासाम् इत्यलक्ष्मीं निर्णुदति ४ एवमेवाहरहर्मासिमासि वा महान्तं पोषं पुष्यति धन्यं यश-स्यमारोग्यमायुष्यं पुत्र्यं पशव्यं तस्य महत्स्वस्त्ययनमित्याह भगवान् बोधायनः ५ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने पञ्चमोऽध्यायः अथ तृतीयप्रश्ने षष्ठोऽध्यायः अथातस्सरस्वतीकल्पं व्याख्यास्यामः शुक्लपक्षे त्रयोदश्यां वोत्तरयोः फल्गुन्योर्वा पुण्ये नक्षत्रेऽथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वाऽग्रे-णाग्निं सरस्वतीमावाहयति आयातु वरदा देव्यक्षरं ब्रह्मसम्मितम् । गायत्रीं छन्दसां मातेदं ब्रह्म जषस्व नः १ सरस्वतीमावाहयामि इत्यावाह्यात्र स्थानानि कल्पयति वाग्देव्यै कल्पयामि गीर्देव्यै कल्पयामि सरस्वत्यै कल्पयामि ब्राह्म्यै कल्पयामि इति २ अथैनाः स्नापयति आपो हिष्ठा मयो भुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽद्भिस्तर्पयित्वै-तैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्यै नमोऽमुष्यै नमः इति परिधानप्रभृत्या-ग्निमुखात्कृत्वा पक्वाज्जुहोति पायसं वा चोदयित्री सूनृतानां पावीरवी कन्या इति द्वाभ्याम् ३ अथाज्याहुतीरुपजुहोति प्रणो देवी आ नो दिवः ये ते सरस्व ऊर्मयः उत नः प्रिया प्रियासु इमा जुह्वाना यस्ते स्तनश्शशयः देवीं वाच-मजनयन्त यद्वाग्वदन्ती इत्येतेन सूक्तेन ४ स्विष्टकृत्प्रभृति सिद्धमाधेनुवर-प्रदानात् ५ आथाग्रेणाग्निं पलाशपर्णेषु हुतशेषं निवेदयित्वा बाह्यबलिं दत्वोदेत्यापरेणाग्निं प्राङ्मुखं कुमारमुपवेश्य विद्यारम्भं कुरुते ६ अनन्तरं देवीमुद्वासयेत् उत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छ देवि यथासुखम् ७ इति पुनरागमनाय पुनर्दानाय ८ एवमेव मासि मासि विद्याकांक्षी सरस्वतीमाराधयेदित्याह भगवान् बोधायनः ९ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने षष्ठोऽध्यायः अथ तृतीयप्रश्ने सप्तमोऽध्यायः अथातो विष्णुकल्पं व्याख्यास्यामः आषाढकार्तिकफाल्गुनशुक्लपक्षेषु द्वा-दश्यां यदा श्रद्धा भवत्यहोरात्रमुपोषितश्श्वोभूते प्राग्वोदग्वाऽरण्ये शुचिर्गृहे वा यत्र रोचते मनस्तत्र स्थण्डिलेऽग्निमुपसमाधाय संपरिस्तीर्याप्रणीताभ्यः कृत्वा सिद्धे पायसे यत्ते पवित्रं पवित्रं ते विततम् इत्युदाहृत्य ओम् इति वि-द्युद्गन्धोशीरमयं भगवन्तं श्वेतपीतरक्तप्रतिसरेणावेष्ठ्य स्थापयित्वावाहयेत् ॐ भूः पुरुषमावाहयाम्यॐ भुवः पुरुषमावाहयाम्यॐ सुवः पुरुषमावाहयाम्यॐ भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य प्रसिद्धमासनस्नानपाह्याचमनीयानि दद्यात् सर्वसुरभिगन्धपुष्पधूपदीपमाल्यैरभ्यर्च्य यथोपपन्नं बर्हिष्यश्वत्थपर्णे प्रस्तरे गोभिर्जुष्टम् इति धूपभाजने न्यस्यति १ ततष्षोडशाज्याहुतीर्जुहोति पुरुषसुक्तेन परो मात्रया इति तिसृभिः । पवमानमुपनिनीय चरोराज्यमिश्रं चतस्रः आहुतीर्जुहोति वासुदेवाय स्वाहा बलदेवाय स्वाहा विष्णवे स्वाहा श्रियै स्वाहा इति २ स्विष्टकृतमवदायान्तः परिधि सादयित्वा दैवतम-र्चयत्येतैरेव नामधेयैः अमुष्मै नमोऽमुष्मै नमः इति गन्धपुष्पधूपदीपैरन्नेन अमुष्मै स्वाहाऽमुष्मै स्वाहा इति फलोदकेन अमुं तर्पयाम्यमु तर्पयामि इति स्वि-ष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३ आभिर्विश्वा अभियुजः इति जानुं निपात्य चतुःप्रदक्षिणं परिक्रामेत् विश्वभुजे नमः । सर्वभुजे नमः । आत्मने नमः । परमात्मने नमः इति । ध्रूवसूक्तं जपित्वा पुरुषमुद्वासयेत् ॐ भूः पुरुषमुद्वासयाम्यॐ भुवः पुरुषमुद्वासयाम्यॐ सुवः पुरुषमुद्वासयाम्यॐ भूर्भुवस्सुवः पुरुषमुद्वासयामि इत्युद्वास्य यत्रापस्तद्गत्वोत्सृजेदवभृथम् ४ प्रतत्ते अद्य किमित्ते विष्णो परिचक्ष्यं भूत् इति द्वाभ्यां प्रतिसरं विस्रंसयति ५ इदं विष्णुर्विचक्रमे इत्येतया चरुं प्राश्नाति ६ एवं घोषयेत् यो वैष्णव इत्याह वैष्णवोऽस्मि इति यः प्रतिब्रूयात्तस्मै शेषं दद्यादेतैरेव मन्त्रैः प्राश्नाति ७ प्राश्याप आचम्य ॐ नमो भगवते वासुदेवाय इति द्वादशाक्षरं जपित्वा- ऽश्वमेधफलमाप्नोति सकृदिष्ट्वा सनातनमिति ८ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने सप्तमोऽध्यायः अथ तृतीयप्रश्ने अष्टमोऽध्यायः अथातो रविकल्पं व्याख्यास्यामः मण्डलं चतुरश्रं वा गोमयेन गोचर्ममात्रं स्थण्डिलं कृत्वाऽष्टाचत्वारिंशत्कृत्वो रविवारे ताम्रपात्रे रक्तगन्धं रक्तपुष्पं वा घृणिम्सूर्य आदित्यः इत्यावाह्य आसत्येन इत्यर्घ्यं दद्यात् हंसश्शुचिषत् इति पाद्यं अग्निर्मूर्धा इत्याचमनीयम् । आपो हिष्ठा मयोभुवः हिरण्यवर्णाः पवमा-नस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽद्भिस्तर्पयति धातारं तर्पयामि विधातारं तर्पयामि अर्यमणं तर्पयामि मित्रं तर्पयामि वरुणं तर्पयामि भगवन्तं तर्पयामि हसं तर्पयामि पूषाणं तर्पयामि पर्जन्यं तर्पयामि विवस्वन्त तर्पयामि इन्द्रं तर्पयामि रविं तर्पयामि इत्येतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नमः इति । व्याहृतीभिः पुरुषमुद्वासयामि इत्युद्वास्याथापूपं दद्यादष्टाचत्वारिंशत् १ एकवारमर्चयित्वा कुष्ठरोगी क्षयरोगी २ वन्धा- द्विमुच्यते बद्धो रोगी रोगाद्विमुच्यते ३ इत्याह भगवान् बोधायनः ४ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने अष्टमोऽध्यायः अथ तृतीयप्रश्ने नवमोऽध्यायः अथातो ज्येष्ठाकल्पं व्याख्यास्यामः तिलतैलमाज्यं पयोदधिसक्तून् लाजान् करम्भान् कृष्णानि वासांसीति सम्भारानुपकल्पयते १ प्रोष्ठपदायामनूराधायां वाऽहविष्यं भुञ्जीत २ अथ श्वोभूते ज्येष्ठामनुस्मरन्नुत्थाय देवागारे रहस्यप्रदेशे वा यत्र रोचते मनस्तत्र स्थण्डिलं कृत्वाऽथ देवयजनोल्लेखनप्रभृत्या-प्रणीताभ्यः कृत्वाऽग्रेणाग्निं ज्येष्ठादेवीमावाहयति यस्यास्सिंहा रथे युक्ता व्या-घ्राश्चाप्यनुगामिनः । तामिमां पुण्डरीकाक्षीं ज्येष्ठामावाहयाम्यहम् ३ इत्या-वाह्य इह लोकाकीर्तये नमः । परलोकाकीर्तये नमः । श्रियै नमः । ज्येष्ठायै नमः । सत्यायै नमः । कपिलपत्न्यै नमः । कपिलहृदयायै नमः । कुम्भ्यै नमः । कुम्भिन्यै नमः । प्रकुम्भ्यै नमः । ज्यायायै नमः । वरदायै नमः । हस्तिमुखायै नमः । विघ्नपार्षदायै नमः । विघ्नपार्षद्यै नमः इति तर्पयति ४ आपो हिष्ठा मयोभुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्ये-तेनानुवाकेन मार्जयित्वा तैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्यै नमोऽमुष्यै नमः इति परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति इन्द्रो ज्येष्ठामनु नक्षत्र-मेति इति पुरोनुवाक्यामनूच्य पुरन्दराय वृषभाय धृष्णवे इति याज्यया जुहोति ५ अथाज्याहुतीरुपजुहोति इन्द्राय स्वाहा । ज्येष्ठाय स्वाहा । श्रेष्ठाय स्वाहा । प्रजापतये स्वाहा इति । नमस्सुते निरृते इति षड्भिरनुच्छन्दसम् ६ अथ कुत्सैर्जुहोति ७ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां भूर्भुवस्सुवरॐ ज्येष्ठायै हविर्निवेदयामि इति निवेदयति ८ अथ दिशां बलिं हृत्वा गन्धमाल्ये द्वे वाससी निवेद्यं दत्वाऽन्नं च ब्राह्मणेभ्यो दत्वा नमस्सुते निरृते इति षड्भिरुपस्थाय स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ९ यस्यास्सिंहा रथे युक्ता व्याघ्राश्चाप्यनुयायिनः । तामिमां पुण्डरीकाक्षीं ज्येष्ठामुद्भासयाम्यहम् १० इत्युद्वास्य ज्येष्ठामन्त्रं सहस्रकृत्वः आवर्तयेच्छ-तकृत्वोऽपरिमितकृत्वो वा दशावरम् ११ शाकयावकभैक्षमूलफलाशी अध-श्शायी श्वोभूते तथैवाभ्यर्च्य षण्मासादूर्ध्वं समाचरन् नित्यानामाशास्यान् सर्वान् कामानवाप्नोतीति ह स्माह भगवान् बोधायनः १२ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने नवमोऽध्यायः अथ तृतीयप्रश्ने दशमोऽध्यायः अथातो विनायककल्पं व्याख्यास्यामः मासिमासि चतुर्थ्यां शुक्लपक्षस्य पञ्चम्यां वाऽभ्युदयादौ सिद्धिकामः ऋद्धिकामः पशुकामो वा भगवतो विना-यकस्य बलिं हरेत् १ पूर्वेद्युः कृतैकभुक्तः शुचिरप आचम्याथ देवयज-नोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा दक्षिणामुखं हस्तिमुखं दक्षिणतो ब्राह्मणमु- पवेश्योपोत्थाय दैवतमावाहयति विघ्न विघ्नेश्वरागच्छ विघ्नेत्येव नमस्कृत अविघ्नाय भवान् सम्यक्सदाऽस्माकं भव प्रभो इति २ अथ दूर्वाक्षतसुमनोमिश्रमर्घ्यं ददाति इमा आपश्शिवाश्शिवतमाश्शान्ता-श्शान्ततमाः पूताः पूततमाः पुण्याः पुण्यतमाः मेध्या मेध्यतमा जुष्टा जुष्टतमा अमृता अमृतरसाः पाद्या अर्घ्या अर्हणीया अभिषेचनीया आचमनीया मार्जनी-याश्च प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान् विनायको विनायकाय नमः इति ३ अथ तूष्णीं वा गन्धपुष्पधूपदीपैरभ्यर्च्योपतिष्ठते भूपतये नमो भुवनपतये नमो भूतानां पतये नमः इति ४ उपस्थाय तिस्रो विनायकाहुतीर्जुहोति विनायकाय भूपतये नमो विनायकाय स्वाहा । विनायकाय भुवनपतये नमो विनायकाय स्वाहा । विनायकाय भूतानां पतये नमो विनायकाय स्वाहा इति । जयप्रभृति सिद्धमाधेनुवरप्रदानात् ५ अपूपं करभ्भमोदकम् सक्तून् पायसमित्यथास्मा उपहरति विघ्नाय स्वाहा । विनायकाय स्वाहा । वीराय स्वाहा । शूराय स्वाहा । उग्राय स्वाहा । भीमाय स्वाहा । हस्तिमुखाय स्वाहा । वर-दाय स्वाहा । विघ्नपार्षदेभ्यस्स्वाहा । विघ्नपार्षदीभ्यस्स्वाहा इति ६ अथ भूतेभ्यो बलिमुपहरेत् ये भूताः प्रचरन्ति इति ७ अथ पञ्चसूत्रं कङ्कणं हस्ते व्याहृतिभिः बध्नाति विनायक महाबाहो विघ्नेश भवदाज्ञया । कामा मे साधितास्सर्वे इदं बध्नामि कङ्कणम् इति ८ अथ साग्निकं विनायकं प्रदक्षिणं कृत्वा प्रणम्याभिवाद्य विनायकं विसर्जयति कृतं यदि मया प्राप्तं श्रद्धया वा गणेश्वर । उत्तिष्ठ सगणस्साधो याहि भद्रं प्रसीदतोम् इति ९ तस्मिन्याते द्वादशेध्मसमिद्धेनोपरि मध्यमं चैव दक्षिणोर्ध्वं समिधं तथा दधिमधुपयआज्यं स्नमिश्र्य परिषेचनं विसर्जनं कल्पयति १० इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने दशमोऽध्यायः अथ तृतीयप्रश्ने एकादशोऽध्यायः अथातो मृत्युंजयकल्पं व्याख्यास्यामः जन्मनक्षत्रे पुण्ये नक्षत्रे त्रिजन्मनि वा ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देव-यजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा सावित्र्या पक्वं हुत्वा प्रादेशमात्रा-स्तिस्रस्तिस्रो दूर्वा एकां समिधमाहृत्य अष्टसहस्रमष्टशतमष्टाविंशतिर्वा दधिमधुघृतपयांसि समुदायुत्याभ्यज्यादधाति अपैतु मृत्युः परं मृत्यो मा नो महन्तं मा नस्तोके त्रियम्बकं ये ते सहस्रम् इत्यष्टषष्टिशतकृत्व आवर्तयेत्तदानीं अष्टसहस्रं संपद्यते १ अथाज्याहुतीरुपजुहोति मृत्युर्नश्यत्वायुर्वर्धतां भूस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां भुवस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां सुवस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवस्सुवस्स्वाहा इति २ जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३ अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति तच्छं योरावृणीमहे इति ४ अथ दक्षिणां ददाति धेनुमृषभमनड्वाहं कंसं हिरण्यं वासो वेत्य- पपुनर्मृत्युं जयतीति ह स्माह भगवान् बोधायनः ५ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने एकादशोऽध्यायः अथ तृतीयप्रश्ने द्वादशोऽध्यायः अथातोऽभिवृद्धिकल्पं व्याख्यास्यामः ग्रामस्य देवतायतनस्य गृहस्य वा सारतमक्षेत्रेषु वा भूतिमिच्छन् पूर्वपक्षे स्थिरराशौ स्थिरमुहूर्ते ब्रह्मस्थाने इन्द्रस्येशानस्य वा दिशि जानुदघ्नमवटं खात्वा गोमयेन गोचर्ममात्र चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य सैकतेनावकीर्य मध्ये पद्मपत्र लिखित्वा कुशाग्रेण पञ्चगव्येन आपो हिष्ठा मयोभुवः हिरण्यवर्णाः पवमानस्सुवर्जनः इत्येतेना-नुवाकेन व्याहृतीभिः प्रोक्ष्य सुमनसोऽवकीर्याशिषो वाचयित्वा पद्ममध्ये सैकतेन स्थण्डिलं कृत्वाऽग्निमुपसमाधाय संपरिस्तीर्य परिधानप्रभृत्याऽग्नि-मुखात्कृत्वा मध्येऽग्नौ मनसा पद्मासनं ध्यात्वा श्रियमावाहयति गन्धद्वाराम् इत्येतयर्चा गन्धादिभिरन्वाराध्य बिल्वसमिद्भिः श्रीसूक्तेन हुत्वा पक्वाज्जुहोति वास्तोष्पते वास्तोष्पते इति द्वाभ्याम् १ अथाज्याहुतीरुपजुहोति ब्रह्म जज्ञानम् इति षड्भिरनुच्छन्दसम् २ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३ अथा-ग्रेणाग्निं पुष्करपर्णेषु हुतशेषं निदधाति यत्पर्यपश्यत् इति ४ पुष्करपर्णं प्रक्षाळ्य पञ्चगव्येन मथितेन पूरयित्वा गन्धादिभिस्संपूज्य श्रीसूक्तेन स्वक्षेत्राणि प्रोक्ष- तीत्याह भगवान् बोधायनः ५ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने द्वादशोऽध्यायः अथ तृतीयप्रश्ने त्रयोदशोऽध्यायः अथातश्शिथिलीकल्पं व्याख्यास्यामः गृहसीमान्तचतुरश्रदिग्विधानेनान्त-श्चोत्तरविधिः १ गृहमध्ये शिथिली जायते सप्ताहात् शुभकरं भवस्यत ऊर्ध्वं प्रजानां व्याधिपीडनं करोति यत इन्द्र भयामहे इति पलाशसमिद्भिरष्टोत्तरशतं जुहुयात् हविष्यमाज्यं च दोषमपहरति २ इन्द्रदिग्भागे शिथिली जायते सकुटुम्बस्य महद्भयं भवति सदसस्पतिम् इति मन्त्रेन खादिरसमिद्भिर्जुहुयात् ३ अग्निदिग्भागे शिथिली जायते सप्ताहात्सुहृदागमनं भवत्यत ऊर्ध्वं राजक्षोभं करोति अयमु ते समुतसि कपोत इव गर्भधिम् । वचस्तच्छिन्न ओजसे स्वाहा इत्यौदुम्बरसमिद्भिर्जुहुयात् ४ यमदिग्भागे शिथिली जायतेऽष्टाहादर्थला-भमाप्नोति तत ऊर्ध्वं भार्यामरणं करोति प्लक्षसमिद्भिस्त्रियम्बकेन जुहोति ५ निरृतिदिग्भागे शिथिली जायते त्र्यहाद्वृष्टिं करोति तत ऊर्ध्वं भार्यानाशं करोत्यपामार्गसमिद्भिः प्रजापते न त्वत् इति मन्त्रेण जुहोति ५ वरुणदिग्भागे शिथिली जायते गर्भलाभं करोत्यत ऊर्ध्वं चोरभयं कुर्याद्दूर्वासमिद्भिः गणानां त्वा इति जुहोति ७ वायुदिग्भागे शिथिली जायते कन्यादोषमुपजायते दूर्वासमिद्भिः सप्त ते अग्ने इति जुहोति ८ सोमदिग्भागे शिथिली जायते शत्रुखादनं करोत्यत ऊर्ध्वं धान्यनाशं करोति वटसमिद्भिरघोरमन्त्रेण जुहोति ९ ईशानदिग्भागे शिथिली जायते गृहपतेर्व्याधिपीडनं करोति येषामीशे इति शमीसमिद्भिर्जुहोति १० द्वारप्रदेशे शिथिली जायते गृहिणीनाशं करोति बिल्वसमिद्भिस्त्रियम्बकेन जुहोति ११ शयनप्रदेशे शिथिली जायते गृहपते-र्मरणं करोति व्याहृतीभिर्यवैर्जुहोति १२ गोमहिषस्थाने शिथिली जायते प्रजानां चक्षुर्नाशं करोति व्याहृतीभिर्यवैर्जुहोति १३ जलभाण्डस्थाने शिथिली जायते दासवर्गनाशं करोति सप्तव्याहृतीभिर्यवैर्जुहोति १४ देवालये शिथिली जायते ग्रामेऽग्निभयं करोति बिल्वसमिद्भिस्त्रियम्बकमन्त्रेण जुहोति १५ सभास्थाने शिथिली जायते ग्रामस्य सकुटुम्बस्याध्रुवं कुर्यादात्वाहा- र्षसूक्तेन दूर्वाभिर्जुहोति १६ देवालये सभास्थाने तटाके गृह एव वा उत्पन्ने रक्तवल्मीके कुर्यात्तस्य प्रतिक्रियाम् १७ समिद्भिस्सर्पिषा चैव हविषा तिलसर्षपैः कुर्याद्व्याहृतिमन्त्रेण होममष्टशतं पृथक् १८ धर्मास्थाने तु बल्मीके जाते मरणमादिशेत् इन्द्रस्थाने श्रियं ब्रूयादाग्नेये च तथाऽश्रियम् १९ याम्ये बन्धुविनाशस्स्याद्राक्षसे गृहिणीं हरेत् वारुणे बन्धुलाभस्स्याद्वायव्ये दूर आगतिः २० सौम्यै सुखं तथा रौद्रे दुर्वाक्यं मरणं भवेत् इत्याह भगवान् बोधायनः २१ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने त्रयोदशोऽध्यायः अथ तृतीयप्रश्ने चतुर्दशोऽध्यायः अथातो यमळकल्पं व्याख्यास्यामः पत्नी गावो वा यमळौ विजायेरन् तस्य संस्कारः प्राङ्नामकरणात् कार्यः १ ब्राह्मणाननुजाप्य चतुर्णां क्षीरवृक्षाणां कषायानाहरेयुः प्लक्षन्यग्रोधाश्वत्थोदुम्बराणां चतुर उदकुम्भान् पूरयित्वा चत-स्रो विधवा ब्रह्मचारिणो वा हिरण्यमन्तर्धाय स्नापयेयुश्शतधारेण वा कृत्वा-ऽभिषिञ्चन्ति २ अथ भूतबलिं करोति । आचार्यमलङ्कृत्य गोमिथुनं दद्यात् ३ पुंसो यवमयं गोमूत्रं स्त्रियो हिरण्यगर्भस्समवर्तताग्रे इत्यष्टभिर्हुत्वा कार्यो मारुतश्चरुर्न तस्य भयं विद्यत इति प्रसिद्धं नामकरणम् ४ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने चतुर्दशोऽध्यायः अथ तृतीयप्रश्ने पञ्चदशोऽध्यायः अथातोऽर्धमासेऽर्धमासेऽष्टम्यां ब्राह्मणाः ब्रह्मचारिणः स्त्रियश्च पुत्रकामा आयु-ष्कामा आरोग्यकामा ब्रह्मवर्चसकामास्सौभाग्यकामाश्चोपवसन्ति १ अथ प्रदोषे रुद्रं विरूपाक्षं सपत्नीकं ससुत सगणं सपारिषत्कमावाहयामि इत्यावाह्य स्वागतेनाभिनन्दयति स्वागतं पुनरागतम् २ भगवते महादेवाय विरूपाक्षाय सपत्नीकाय ससुताय सगणाय सपारिषत्कायेत्येतदासनं कॢप्तमत्रास्तां भगवान् महादेवो विरूपाक्षस्सपत्नीकस्ससुतस्सगणस्सपार्षत्कः इति ३ अथ कूर्चं ददाति भगवतोऽयं कूर्चः दर्भमयस्त्रिवृद्धरितस्सुवर्णमयस्तं जुषस्व इति प्रति-गृह्णातु भगवान् महादेवो विरूपाक्षाय सपत्नीकाय ससुताय सगणाय सपार्ष-त्कायेति ४ अथात्र स्थानानि कल्पयति महाकालाय नमः शङ्कराय नमो बभ्रुकर्णाय नमो नन्दिकेश्वराय नमो दण्डिमुण्डाय नमः चण्डिकेश्वराय नमः इति ५ अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति आर्द्रया रुद्रः हेती रुद्रस्य इति द्वाभ्याम् ६ अथाज्याहुतीरुपजुहोति भवाय देवाय स्वाहा इत्यादिभिश्चतुर्विंशतिभिः हुत्वा हव्यवाहं स्विष्टम् इति स्विष्टकृतं हुत्वाऽथाग्रेणाग्निमर्कपर्णेषु हुतशेषं निदधाति यो रुद्रो अग्नौ इति ७ शिष्टैर्गन्धमाल्यैरभ्यर्च्य रौद्रीभिः ऋग्यजुस्सामाथर्वभिस्स्तुतिभिः स्तुन्वन्त्या- र्षैस्स्तोत्रैः ८ देवतां प्रवाहयति प्रयातु भगवान् ईशानस्सर्वलोकानां सर्वलोकनमस्कृतः अनेन हविषा तृप्तः पुनरागमनं प्रति इति प्रत्यभिमृशतेऽयनाय चेति ९ य एवं विद्वानावरति पुत्रवान् पशुमान् भवति सर्वं पाप्मानं तरति तरति ब्रह्महत्यां अपपुनर्मृत्युं जयतीति ह स्माह भगवान् बोधायनः १० इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने पञ्चदशोऽध्यायः अथ तृतीयप्रश्ने षोडशोऽध्यायः अथ वृषोत्सर्गः कार्तिक्यां पौर्णमास्यां क्रियेतापि वा आश्वयुज्यां वैशाख्यां वा गोष्ठे गवां मध्ये १ अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वा-ज्जुहोति पूषा गा अन्वेतु नः इति पुरोनुवाक्यामनूच्य शुक्रं ते अन्यत् इति याज्यया जुहोति २ अथाज्याहुतीरुपजुहोति इह धृतिस्स्वाहा । इह विधृतिस्स्वाहा । इह रन्तिस्स्वाहा । इह रमतिस्स्वाहा इति उपसृजन्मात्रे वत्सं धारयन् धरुणो धयत्रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा इति । आ गावो अग्मन्नुत भद्रमक्रन् इत्येतेन सूक्तेन नमस्ते रुद्र मन्यवे इत्याऽन्तादनुवाकस्य ३ स्विष्टकृ-त्प्रभृति सिद्धमाधेनुवरप्रदानात् ४ अथ रुद्रं जपित्वा गोमिथुनमध्वर्यवे ददाति ५ लाजमन्त्रेण त्रिः प्रदक्षिणं परिक्रमयेदेकवर्णो द्विवर्णो वा यूधं छादयति । यूधस्य मुख्याश्चतस्रो वत्सतर्यः स्नाप्याच्छाद्य तिलोदकं गृह्णाति ऋचां प्राची इति ६ अवधूनुयुर्जलबिन्दून् पीत्वा तृप्ता यान्तु पितरः इति ७ अथैनं मध्ये गोष्वपि सृजति एतं युवानं परि वो ददामि इति ८ अपियन्तमनुमन्त्रयते त्वां गावः इति ९ मध्यस्थमनुमन्त्रयते मयोभूर्वातो अमिवातूस्नाः इति १० सर्वासां पयसि पायसं श्रपयित्वा ब्राह्मणान् संपूज्याशिषो वाचयित्वा यथाशक्ति दक्षिणां ददाति ११ तिर्यग्योनिगतान् ज्ञातीन् जात्यन्तरे वर्तमानाम् दुष्कुलै-रपरुद्धान् दशपूर्वान् दशापरानात्मानं चैकविंशतिं पङ्क्ति च पुनाति न च पुनरा- वर्तते न च पुनरावर्तते इति १२ अथाप्युदाहरन्ति एष्टव्वा बवहः पुत्रा यद्येकोपि गयां व्रजेत् गौरीं वा वरयेत्कन्यां नीलं वा वृषत्मुसृजेत् १३ लोहितो यस्तु वर्णेन श्वेतलागूललक्षणः खुरे ककुदि च श्वेतस्स वै नीलवृषस्स्मृतः १४ इत्याह भगवान् बोधायनः १५ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने षोडशोऽध्यायः अथ तृतीयप्रश्ने सप्तदशोऽध्यायः अथातस्सहस्रभोजनविधिं व्याख्यास्यामः उदगयने पूर्वपक्षे पुण्ये नक्षत्रे त्रिजन्मनि दक्षिणायने वा क्रियेत १ स्वगृहे देवगृहे वा यत्र शुचिर्देशः स्यात्तत्र शुचिर्भूत्वा युग्मान् ब्राह्मणान् सुप्रक्षाळितपाणिपादानप आचमय्य आसनं कल्पयित्वा गन्धपुष्पधूपदीपैरभ्यर्च्य सङ्कल्पसिद्धिरस्तु इति वाचयित्वा त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा प्रदक्षिणनमस्कारं विदधीत २ सहस्रात्मानमीश्वरं सहस्रभोजनेन सम्पूज्य एकस्मै स्वाहा द्वाभ्यां स्वाहा इति दशानुवाकान् भोजनान्ते द्वादश ब्राह्मणाः श्राविताः भवन्ति षड्वा ३ ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वाऽथ देवयज-नोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति विष्णोर्नुकम् इति पुरोनुवा-क्यामनूच्य विष्णो रराटमसि इति याज्यया जुहोति ४ अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इत्यादि द्वादशनामधेयैस्स्विष्टकृत्प्रभृति सिद्धमाधेनुवर-प्रदानात् ५ अथ विप्रान् भोजयित्वा गुळपायसं घृतमिश्रमित्यन्नस्य बलि-मुपहरति अमुष्मै स्वाहाऽमुष्मै स्वाहा इति द्वादशनामधेयैः ६ अथ ब्राह्मणेभ्यो निवेदयित्वा वस्त्रयुगानि कुण्डलयुगान्यङ्गुलीयकमुपानहौ छत्रं कमण्डलु-मिति च दद्यात् ७ अन्नशेषमाज्यशेषं पक्वशेषं चोभौ जायापती प्राश्नीयातां सर्वान् कामानवाप्नोति सर्वकल्मषैः महापातकैः प्रमुच्यते षष्टिर्वर्षसहस्राणि ब्रह्मलोकमतीत्य विष्णुलोके महीयत इत्याह भगवान् बोधायनः ८ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने सप्तदशोऽध्यायः अथ तृतीयप्रश्ने अष्टादशोऽध्यायः अथातस्सहस्रभोजनसुत्यां व्याख्यास्यामः विषुवेऽयने जन्मनक्षत्रे चन्द्रसूर्य-ग्रहणे ग्रहगृहीते व्याधिग्रस्ते प्रजाकामोऽयकामो वा ब्राह्मणाननुज्ञाप्य अभी-ष्टमाहुर्वरणं कृत्वा सहस्रब्राह्मणान् वेदपारगान् भोजयित्वा सहस्रसङ्ख्या-परिपूर्णे पुण्ये नक्षत्रे ब्राह्मणान् द्वादश षड्वा निमन्त्रयित्वा स्नानासनादिगन्ध-पुष्पधूपदीपैरभ्यर्च्याथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वोपोत्थाया-ग्रेणाग्निं व्याहृतीभिर्विष्णुमावाह्य परिधानप्रभृत्याऽग्निमुखात्कृत्वा दैवतमर्च-यति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पव-मानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा गन्धपुष्पधूपदीपैरभ्यर्च्याथ प-क्वाज्जुहोति विष्णोर्नुकम् इति पुरोनुवाक्यामनूच्य विष्णो रराटमसि इति या-ज्यया जुहोति १ अथाज्याहुतीरुपजुहोति केशवाय स्वाहा इति द्वादशना-मधेयैः स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् २ अथ विप्रान् भोजयित्वा गुळपायसं घृतमिश्रमित्यन्नस्य बलिमुपहरति अमुष्मै स्वाहा इति द्वादशना-मधेयैः ३ अथ ब्राह्मणेभ्यो वस्त्रयुगानि कुण्डलयुगान्यङ्गुलीयकमुपानहौ छत्रं कमण्डलुमिति च दद्यात् ४ अन्नशेषमाज्यशेषं पक्वशेषं चोभौ जायापती प्राश्नीयातां सर्वान् कामानाप्नोति महापातकैः प्रसुच्यते षष्टिर्वर्षसहस्राणि ब्रह्मलोकमतीत्य विष्णुलोके महीयते इत्याह भगवान् बोधायनः ५ इति बोधायनीये गृह्यशेषसुत्रे तृतीयप्रश्ने अष्टादशोऽध्यायः अथ तृतीयप्रश्ने एकोनविंशोऽध्यायः अथातो जीवश्राद्धं व्याख्यास्यामः यस्त्वात्मनश्श्रेय इच्छत्यपरपक्षे त्रयोदशी-रुपोष्य तस्मिन्नेवाहनि सम्भारानुपकल्पयते यान्यौर्ध्वदैहिकानि मृतानां वस्त्र-षट्कं सौवर्णीं सूचीमङ्कुशं तान्तवं पाशं कन्थां पलाशवृन्तमौदुम्बरीमासन्दीं कलशानीत्यन्यान्यपि च १ श्वोभूते स्नात्वा मध्याह्ने जले स्थित्वोपोत्थाय पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा वस्त्राङ्गुलीयकं दक्षिणां दद्यात् सघृतपायसं दक्षिणामुखोऽश्नीयात् २ अथ श्राद्धविधिनाऽग्निमुपसमाधाय सम्परिस्तीर्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति चत्वारि शृङ्गा इति पुरोनुवा-क्यामनूच्य त्रिधा हितम् इति याज्यया जुहोति तत्सवितुर्वरेण्यम् इति पुरोनुवा-क्यामनूच्य योजयित्री सूनृतानाम् इति याज्यया जुहोति ये चत्वारः इति पुरोनुवाक्यामनूच्य द्वे स्रुती इति याज्यया जुहोति अग्ने नय इति पुरोनुवा-क्यामनूच्य या तिरश्ची इति याज्यया जुहोति ३ अथाज्याहुतीरुपजुहोति पुरुष-सूक्तेनाष्टादशर्चेन हुत्वा गायत्र्याऽष्टसहस्रमष्टशतमष्टाविंशतिं वा जुहुया-त्स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ४ धार्य एवाग्निरासमाप्तेः ५ चतुष्पथं गत्वा सूचीमङ्कुशं कन्थां रज्जुमिति कृष्णतनवे ह्रस्वाय ब्राह्मणाय दत्वा प्रीयन्तां यमकिङ्कराः इति वाचयित्वा व्रीहिषु कलशान् सादयेत् ६ तन्तुना परिवेष्ट्य जलपूर्णान् पुरुषाकृतिं कृत्वा त्रीणि शीर्ष्णि मुखे त्रीणि ग्रीवायामेकविंशतिं शरीरे चतुष्टयं बाह्वोर्द्वे द्वे लिङ्गस्यैकं पादयोः पञ्च पञ्चेति प्रीतोऽस्तु भगवान् यमः इति ७ तत आसन्दीं कृत्वा पञ्चगव्येन प्रक्षाळ्य पलाशवृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा कलशपुरुषे प्राणानभिनिवेश्य वृन्तशरीरे देहमभिनिवेश्य स्वपेत् ८ उदिते सूर्ये कलशैर्देहं स्वयमेवाभिषेचयेत्पौरुषेण सूक्तेन पञ्चगव्येन शुद्धोदकेन सायाह्ने सतिलमन्नं सर्पिषाऽश्नीयात् ९ ब्राह्मणानपि यमकिङ्कर-तृप्तये भोजयेत् १० चतुर्थ्यां यन्त्रदाहः ११ उदकं पिण्डं च अमुकगोत्राय मह्यं पिण्डमामुत्रिकं स्वधा इति नमस्कारान्तं कृत्वा समापयेत् १२ तत्राशौचं दशाहं स्यात्स्वस्य । ज्ञातेर्न विद्यते १३ एकादश्यामेकोद्दिष्टमिति प्रतिपद्यते १४ अथाप्युदाहरन्ति आपन्नस्त्री च शूद्रश्च यन्त्रैर्दग्ध्वा स्वकां तनुम् तदह्नैव क्रियास्सर्वाः कुर्यादिति हि वै श्रुतिः १५ स्त्रीणां तूष्णीं समन्त्रकं वा १६ मासिमास्येवं संवत्सरात्संवत्सरादूर्ध्वमा- द्वादशाब्दात्ततो निवृत्तिः १७ यदा स्वयं न शक्नुयात्तदा पुत्रादयः कुर्युः १८ अथाप्युदाहरन्ति जीवन्नेवात्मनश्श्राद्धं कुर्यादन्येषु सत्स्वपि यथाविधि प्रवर्त्यांशु सपिण्डीकरणादृते इति १९ तस्योक्तं कालं न विळम्बयेद्यतोऽनित्यं जीवितमिति ह स्माह भगवान् बोधायनः २० इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने एकोनविंशोऽध्यायः अथ तृतीयप्रश्ने विंशोऽध्यायः अथातो नारायणबलिं व्याख्यास्यामः दक्षिणोत्तरायणयोरपरपक्षस्य द्वादश्यां क्रियेत १ पूर्वेद्युर्द्वादश षड्वा ब्राह्मणान्निमन्त्रयते योनिगोत्रश्रुतवृत्तसम्पन्नान् २ अथापरेद्युर्देवगृहे नदीतीरे वाऽग्निमुपसमाधाय सम्परिस्तीर्य आप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं दैवतमावाहयति पुरुषसूक्ते द्वे ऋचौ जपित्वा व्या-हृतिभिः पुरुषमावाहयति ३ अथैनं स्नापयति पुरुषसूक्तेन ४ अथैनं गन्ध-पुष्पधूपदीपैरष्टाक्षरेणार्चयित्वाऽद्भिस्तर्पयति केशवं तर्पयामि इति द्वादशना-मभिः ५ परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति विष्णोर्नुकम् इति पुरोनुवाक्यामनूच्य परो मात्रया इति याज्यया जुहोति ६ अथाज्या-हुतीरुपजुहोति केशवाय स्वाहा इत्येतैरेव नामधेयैः ७ अथ गुळपाय-सघृतमिश्रमन्नं निवेदयति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां विष्णवे महापुरुषाय हविर्निवेदयामि इति । सप्तव्याहृतिभि-स्स्वाहाकारेण जपति । व्याहृतिभिराचमनीयम् ८ अथ ब्राह्मणानाहूय सद-र्भोपकॢप्तेष्वासनेषूपवेश्याथैनान् वस्त्रगन्धपुष्पधूपदीपैर्माल्यैरभ्यर्च्याथाभ्य-नुज्ञातस्तिलघृतमिश्रं हविस्समुदायुत्य हस्ते जुहोति पितृभ्यस्स्वधा नमो नारा-यणाय स्वाहा इत्यादिचतुर्विंशतिः मन्त्रा ऊह्याः ९ अथ अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमो नारायणाय स्वाहा इति १० अथ ब्राह्मणानन्नेन परितोष्याचम्य तेषां यथाशक्ति दक्षिणां ददाति ११ प्रदक्षिणीकृत्य शेषमनुज्ञाप्य दक्षिणेनाग्निं प्रागग्रान् दर्भान् संस्तीर्य तेषु बलिं ददाति विश्वेभ्यो देवेभ्यो नमस्साध्येभ्यो देवेभ्यो नमस्सर्वेभ्यो देवेभ्यो नमस्सर्वाभ्यो देवताभ्यो नमो विष्णवे नमो नारायणाय नमस्सहस्रशीर्षाय नमो यज्ञात्मने नमो यज्ञपुरुषाय नमो विश्वात्मने नमस्सर्वात्मने नमस्सर्वेश्वराय नमः इति १२ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १३ सर्वान् पितॄन् समधिगच्छति ब्रह्मलोके महीयत इत्याह भगवान् बोधायनः १४ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने विंशोऽध्यायः अथ तृतीयप्रश्ने एकविंशोऽध्यायः अथातो नारायणबलिसंस्कारविधिं व्याख्यास्यामः चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् विषस्त्रिरज्जुपाषाणदेशान्तरमृतेऽपि वा अभिशस्तसुरापात्मत्यागिनां द्विजहतानामन्येषां च द्वादश वर्षाणि त्रीण्येकं वा यत्र मरणं यस्य तत्रतत्र कुर्वीत १ असांहितानां पालाशाग्रमाहूयपर्णत्सरूणां कृष्णाजिने पुरुषाकृतिं कृत्वा होतृकल्पेन वा पितृमेधेन वा संस्कुर्यात् २ अथ प्रयोगमन्त्रानपोद्धृत्य पुरुषसूक्तस्य प्रत्यृचं तत्तन्मन्त्राणां स्थाने पृथक्पृथक्प्रयोगो भवति ३ अपि वा तूष्णीं सर्वं क्रियेत ४ याम्यसूक्तेनोपोषणम् ५ पौरुषेणो-पस्थानम् ६ समानमत ऊर्ध्वम् ७ तीर्थे स्नात्वा प्रेतायोदकक्रियां कृत्वा नामगोत्रे मनसा ब्रूते नारायणैतत्त उदकम् इति वाचाऽभिव्याहरेत् ८ स एतमेव सायंप्रातर्दशरात्रं करोति ९ त्रिरात्रेण वा १० पिण्डदाने असावेतत्ते पिण्डम् इति विशेषः ११ एकादश्यामेकोद्दिष्टम् १२ एवं प्रेतायामुष्मै यमाय च स्वाहा इत्यग्रौ करणे वा १३ प्रतिग्रहणे प्रदाने विसर्जने च नारायणाय इत्यनेन मन्त्रेण करोति १४ सर्वं मनसा सङ्कल्पयेद्वाचाऽभिव्याहरेत् १५ पर्वत्रये च षाण्मासिके च समानम् १६ संवत्सरे सपिण्डीकरणम् सपिण्डीकरणस्थाने नारायणवलिक्रिया १७ सायं प्रातर्न विद्यते सोयं बोधायनमतो यथा १८ द्वयोरयनसङ्क्रान्त्योः पुण्येषु दिवसेषु वा १९ अथ वाऽपरपक्षस्य क्रिया भवेत् २० सपिण्डीकरणमेतेषामन्येषां च समानम् २१ प्रेतपात्रं पितृपात्रे निनयेत् । त्रिषु वासिञ्चेत् । प्रेतपिण्डं पितृपिण्डेषु निदध्यात् असौ पितृभिः पितामहैः प्रपितामहैस्संगच्छध्वं भूर्भुवस्सुवरोम् इत्याह भगवान् बोधायनः २२ इति बोधायनीये गृह्यशेससूत्रे तृतीयप्रश्ने एकविंशोऽध्यायः अथ तृतीयप्रश्ने द्वाविंशोऽध्यायः यस्त्वात्मनश्श्रेयांसमिच्छत्यौर्ध्वदैहिकं स्वस्य यदि भवति तदा दहनप्रभृति सपिण्डीकरणान्तं जीवन्नेवाधस्तथोक्तं सकलं कुर्यात् १ तथाह कण्वः जीवन्नेव च यः कुर्वन्नात्मनश्श्राद्धमिच्छति यन्त्रेण कृत्वा संस्कारमुदकं बलिमेव च २ कृत्वाऽथ षोडशश्राद्धं दद्याद्यद्यत्प्रियं भवेत् आत्मनस्तत्स्वयं दत्वा ततश्श्राद्धं समापयेत् ३ तत्राशौचं दशाहं स्यात् स्वस्य ज्ञातेर्न विद्यते इति ५ अत्रैव विष्णुः आत्मार्थं पारलौक्यं यत्तत्सर्वं लमवाप्नुयात् न हि कर्म कदाचित्तु क्षयमेति कृतं नरैः इति ५ तस्माद्यस्य न सन्ति कर्तारो ज्ञातयः पुत्रोऽन्तेवासिनो वा स जीवन्नेव आमुष्मिकं सर्वमविकृतं कुर्वन् नामोच्चारणे तद्गोत्राय तच्छर्मणे करिष्यते ६ अथ वा प्रविदानकल्पेन वा दद्यादितीदमप्येकम् ७ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने द्वाविंशोऽध्यायः अथ तृतीयप्रश्ने त्रयोविंशोऽध्यायः अथातश्शुभाशुभनिमित्तानां वायसानां बलिं व्याख्यास्यामः शुक्लपक्षे त्रयोदश्यामष्टम्यां नवम्यां वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य देवस्य गृहे गोष्ठे नदीतीरे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्य प्रदक्षिणं दर्भैरासनानि कल्पयति अङ्कतेभ्यः कल्पयामि । कङ्कतेभ्यः कल्पयामि । कद्रुपुत्रेभ्यः कल्पयामि । वायसेभ्यः कल्पयामि । ब्रह्मपुत्रेभ्यः कल्पयामि इति तन्मध्ये १ अथैनानावाहयति न कपिलान्न लोहितान्नारिष्टान् न महारिष्टान् वायसमात्रकान् २ आयान्तु शकुनाश्शीघ्रा वायसा बलिभोजनाः ३ अङ्कतानावाहयामि । कङ्कतानावा-हयामि । कद्रुपुत्रानावाहयामि । वायसानावाहयामि । ब्रह्मपुत्रानावाहया-मि इति मध्ये ४ अथैनान् स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽथाद्भिस्तर्पयति अङ्कतेभ्यस्तर्पयामि । कङ्कतेभ्यस्तर्पयामि । कद्रुपुत्रेभ्यस्तर्पयामि । वाससेभ्यस्तर्पयामि । ब्रह्मपुत्रेभ्यास्तर्पयामि इति मध्ये ५ अथैनान् गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नमः इति पायसं द योदनं वा हविर्निवेदयति अङ्कतेभ्यस्स्वाहा । कङ्कतेभ्यस्स्वाहा । कद्रुपुत्रे-भ्यस्स्वाहा । वायसेभ्यस्स्वाहा । ब्रह्मम्पुत्रेभ्यस्स्वाहा इति मध्ये ६ अथैनान् ज्ञापयति सत्याः स्थ सत्यं वदत सत्ये रमत वायसाः यत्सत्यमिह तद्ब्रूयाद्यो मिथ्याबलिमश्नियात् ७ अथैते मातृघातेन पितृघातेन वा पुनः तद्दुष्कृतं प्रतिगृह्णीयाद्यो मिथ्याबलिमश्नीयात् ८ कपिलानां शतं हत्वा ब्राह्मणानां विशेषतः तद्दुष्कृतं प्रतिगृह्णीयाद्यो मिथ्याबलिमश्नियात् ९ भावाय पूर्वं गृह्णीयादभावायानु दक्षिणम् नास्तीत्यपरं गृह्णीयाद्भविष्यत्यपि चोत्तरम् १० मध्ये सर्वार्थलाभाय शाकुनेष्विदमुत्तमम् इत्येवं ज्ञात्वा सर्वकर्माण्यारभत इत्याह भगवान् बोधायनः ११ इति बोधायनीये गृह्यशेषसूत्रे तृतीयप्रश्ने त्रयोविंशोऽध्यायः अथातश्शुभाशुभनिमित्तानाम् । यस्त्वात्मनश्श्रेयांसमिच्छति । अथातो नारायणबलिसंस्कारविधिम् । अथातो नारायणबलिम् । अथातो जीव-श्राद्धम् । अथातस्सहस्रभोजनसुत्याम् । अथातस्सहस्रभोजनविधिम् । अथ वृषोत्सर्गम् । अथातोऽर्धमासेऽर्धमासे । अथातो यमळकल्पम् । अथातश्शिथिलीकल्पम् । अथातोऽभिवृद्धिकल्पम् । अथातो मृत्युंजय-कल्पम् । अथातो विनायककल्पम् । अथातो ज्येष्ठाकल्पम् । अथातो रविकल्पम् । अथातो विष्णुकल्पम् । अथातस्सरस्वतीकल्पम् । अथात-श्श्रीकल्पम् । अथात उपश्रुतिकल्पम् । अथातो दुर्गाकल्पम् । अथातो व्याहृतिकल्पम् । अथातः पवित्राणाम् २३ अथातः पवित्राणाम् । अथातो व्याहृतिकल्पम् । अथातो दुर्गाकल्पम् । अथात उपश्रुतिकल्पम् । अथातश्श्रीकल्पम् । अथातस्सरस्वतीकल्पम् । अथातो विष्णुकल्पम् । अथातो रविकल्पम् । अथातो ज्येष्ठाकल्पम् । अथातो विनायककल्पम् । अथातो मृत्युंजयकल्पम् । अथातोऽभिवृद्धिकल्पम् । अथातश्शि-थिलीकल्पम् । अथातो यमळकल्पम् । अथातोऽर्धमासेऽर्धमासे । अथ वृषोत्सर्गम् । अथातस्सहस्रभोजनविधिम् । अथातस्सहस्रभोजनसुत्याम् । अथातो जावश्राद्धम् । अथातो नारायणबलिम् । अथातो नारायण-बलिसंस्कारम् । यस्त्वात्मनश्श्रेयांसमिच्छति । अथातश्शुभाशुभ- निमित्तानाम् २३ इति बोधायनीये गृह्य शेषे तृतीयप्रश्नस्समाप्तः अथ चतुर्थप्रश्नप्रारम्भः अथातो मिथ्यासत्यबलिं व्याख्यास्यामः ब्राह्मणक्षत्रियवैश्यशूद्राः पञ्चगव्येन स्नात्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य देवगृहे नदीतीरे वाऽथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति यत इन्द्रभयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् १ अथाज्याहुतीरुपजुहोति अपैतु मृत्युः परं मृत्यो मा नो महान्तं मा नस्तोके त्र्यम्बकं ये ते सहस्रम् इति विष्णोर्नुकं जातवेदसे अग्ने त्वं पारय इति व्याहृतिभिः मृत्युर्नश्यत्वायुर्वर्धतां भूस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां भुवस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां सुवस्स्वाहा । मृत्युर्नश्यत्वायुर्वर्धतां भूर्भुवस्सुवस्स्वाहा इति । स्विष्टकृत्प्रभृति सिद्धमा-धेनुवरप्रदानात् २ अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति यो रुद्रो अग्नौ इति भस्मसमुल्लेखनम् ३ आचार्येभ्यो गोवत्सं दद्यात् ४ अन्नं संस्कृत्य ब्राह्मणान् संपूज्याशिषो वाचयित्वा ऋषभैकादश दक्षिणां दद्यादित्याह भगवान् बोधायनः ५ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने प्रथमोऽध्यायः अथ चतुर्थप्रश्ने द्वितीयोऽध्यायः आहुतानुकृतिबलिहरणानुकृतिर्धूर्तबलिः चतुर्षु चतुर्षु मासेषु फाल्गुने मासि शुक्लपक्षस्य सप्तम्यां क्रियेत । अपि वा त्रयोदश्यामेवमाषाढ एवं कार्तिके १ साधनानि पुरस्तादेवोपकल्पयते बर्हिर्बैल्वानि चैव पञ्चदशेध्मदारूणि बैल्वं मेक्षणं परिधींश्च श्वेतरक्तं गन्धमाल्यं श्वेतरक्तांश्च प्रतिसरान् धूपं श्रपय-त्यन्नानि विविधांश्च भक्ष्यान् स्थालीपाकं च श्रपयति २ अथैनानादाय सहा-न्तेवासिभिर्ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रापस्तद्गत्वा स्नात्वाऽप आचम्य सुरभिमत्याऽब्लिङ्गवारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्ज-यित्वाऽन्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत्प्रयतं वासः परिधायाप आचम्य देवयजनमुदानयति ३ अथ शुचौ समे देशे वेदिं कुर्वन्ति पुरुषमात्रमपरिमितं वा ४ तस्याः पूर्वार्धे स्थण्डिलं कल्पयित्वोदुम्बरशाखां बहुपर्णां बहुशाखामप्रतिशुष्काग्रां नियत्य दर्भैर्भगवते धूर्ताय प्रतिकृतिं कृत्वाऽपरेणोदुम्बरशाखां प्रतिसरेण सह शाखया परिव्ययन्ते ५ ज्ञोपवीतमुपव्ययन्ते यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः इति ६ तेन त्वामहं प्रतिगृह्णाम्यायुषा ब्रह्मणा ब्रह्मवर्चणाय इति ७ अपरार्धे वेद्यास्स्थण्डिलं कृत्वोल्लेखनप्रभृत्या पर्युक्षणात्कृत्वा वेदिं स्तृणात्यनति-दृश्नम् ८ उत्तरेणाग्निं प्रागग्रान् दर्भान् संस्तीर्य तेषु द्वन्द्वं न्यञ्चि पात्राणि सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिस्सर्वाभिः प्रोक्ष्य दर्भेषु दक्षिणतो ब्राह्मणमुपवेश्योत्तरत उदपात्रं निधाय पक्वमोदनं पायसं वायाचितमद्भिरभ्युक्ष्याग्न वधिश्रियाज्यं निरूप्याधि-श्रित्योभयं पर्यग्नि कृत्वापरिधानात्कृत्वा समन्वारब्धेष्वन्तेवासिषु प्रदक्षिण-मग्निं परिषिच्याथेध्ममभ्यज्यादधाति इमं स्तोममर्हते जातवेदसे रथमिव संमहेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव स्वाहा इति ९ एवमेवाभ्यज्य द्वितीयामभ्यादधाति यन्मै त्वमायजसे संसाधय त्यनर्वां क्षेति दधते सुवीर्यम् । स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषाभा वयं तव स्वाहा इति १० एवमेवाभ्यज्य तृतीयामभ्यादधाति श-केम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतन् । त्वमादित्या आवह तान् ह्युश्मस्याग्ने सख्ये मा रिषामा वयं तव स्वाहा इति ११ एवमेवा-भ्यज्य चतुर्भीमभ्यादधाति तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृडयत्तमः । दधासि रत्नं द्रविणं च दाशुषे अग्ने सख्ये मा रिषामा वयं तव स्वाहा इति १२ एवमेवाभ्यज्य पञ्चमीमभ्यादधाति तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ट्य स्वाहा इति १३ एवमेवाभ्यज्य एकापचयेन भवे नमस्स्वाहा इति षडक्षरेण परिशिष्टाः १४ आघारप्रभृत्या- ऽग्निमुखात्कृत्वा दैवतमावाहयन्तो नृत्यन्तः त्रिः प्रदक्षिणं परियन्ति १५ यस्य सिंहा रथे यक्ता व्याघ्राश्चाप्यनुगामिनः तमिमं पुत्रिकापुत्रं स्कन्दमावाहयाम्यहम् १६ आयातु देवोत्तमः कर्तिकेयो ब्रह्मण्यपुत्रस्सह मातृभिश्च धात्र्या विशाखेन च विश्वरूपो जुष्टं बलिं सानुचरो जुषस्व १७ सप्ताहं जातयश्शक्तिस्सप्तपर्वमरिन्दमम् व्याघ्रावृतं महाधूर्तं प्रपद्ये सशितव्रतम् १८ परं देवं वरदं प्रपद्ये धूर्तं सेनामुग्रसेनामपर्णासुतं कृत्तिकानां षडास्यम् । अग्नेः पुत्रम् शमयैर्यथोक्तैश्चातुर्मास्यैस्सप्तमीं त्वामरण्ये । गन्धैश्च भक्त्या च यजाम शक्ते वित्तं वित्ता यशसश्च राजन् । कामांश्च धूर्तः प्रयच्छतु नमश्शङ्कराय नमश्च स्थाम्ने नमो नीलग्रीवाय नमः कृत्तिकापुत्राय । प्रीयतां विनियोगः प्रीयतां विशाखः प्रीयतां कृत्तिकापुत्रः प्रीयतां नमः प्रीयतां नमोनमः इति १९ तमायान्तमनुमन्त्रयते स्वागतं पुनरागतं भगवते धूर्तायैतदासनं कॢप्तमत्रास्तां भगवान् महाधूर्तः इति २० अत्र कूर्चमर्हणं च ददाति भगवतोऽयं कूर्चः दर्भमयः त्रिवृद्धरितस्सुवर्णमयस्तं जुषस्व इति २१ अथास्मै कंसे वा चमसे वा पुष्पफलाक्षतमिश्रैर्वर्षीयसा तेजोमयेनापिधायार्हणीया आपो निवेदयन्ते इमा आपंश्शिवाश्शिवतमाः पूताः पूततमा मेध्य मेध्यतमा अमृता अमृतरसाः पाद्या अर्घ्या अभिषेचनीया मार्जनीयाश्च ता जुषन्तां प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान् महाधूर्तः इति । आपो हिष्ठा मयुभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः एवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा प्रदक्षिण-मावृत्य प्रत्यङ्ङावृत्य जघनेनाग्निमुपविश्यान्वारब्धेष्वाज्याहुतीर्जुहोति स्क-न्दाय स्वाहा । कुमाराय स्वाहा । बालाय स्वाहा । हिरण्यचूडाय स्वाहा । अङ्गिरसे स्वाहा । गुहाय स्वाहा । भद्रासनाय स्वाहा । नीलग्रीवाय स्वाहा । भवपुत्राय स्वाहा । धूर्ताय स्वाहा । पशुभुवे स्वाहा । षष्ठ्यै स्वाहा । विशाखाय स्वाहा । सनत्कुमाराय स्वाहा । स्कन्दपार्षदे-भ्यस्स्वाहा । षष्ठीपार्षदेभ्यस्स्वाहा इत्येतैरेव नामधेयैः मेक्षणेनोपघातं पूर्वार्धे जुहोति २२ उत्तरार्धात् स्विष्टकृतमवदायान्तःपरिधि सादयित्वोपोत्थाय दैवतमर्चयत्येतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्मै नमोऽमुष्मै नमः इति । अन्नेन अमुष्मै स्वाहाऽमुष्मै स्वाहा इति । फलोदकेन अमु तर्पयाम्यमुं तर्पयामि इति २३ अत्र नमस्यति यं कामं कामयते तन्मे कामस्समृध्यतां तस्मिन् कामे समृद्धे द्रोणमुपहरिष्यामि कामं वर्धयतु इति । कामे समृद्धे द्रोणान्नमुपह-रिष्यति २४ अथैनमुपतिष्ठते नमो भवोद्भव इति गुहो गुह्यपतिर्भवः २५ वसुर्वसुपतिः नमो धूर्तस्वामी प्रसीदतु २६ महायशा महातेजा महासेनो महारूपः २७ महातपा मे भक्तस्य प्रतिगृह्णात्विमं बलिम् इति २८ अथो-पविश्य स्विष्टकृतं हुत्वोपोत्थाय दैवतं प्रवाहयन्तो नृत्यन्तस्त्रिरपसलैः परियन्ति सिंहव्याघ्रसमायुक्तस्स रथो रथिनां वरः प्रयातु भगवान् धूर्तः प्रियवाणिः प्रियंकरः ॐनम इति अथोपविश्य जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३० अथैनां प्रतिकृतिमादाय शिरसि निधायावभृथमन्त्रेणाप्सु प्रप्लाव्यातिशिष्टैर्गन्धमाल्यैरात्मानमलङ्कृत्य प्रतिसरं बध्नाति ३१ अदित्या सुकृतं सूत्रमिन्द्रेण त्रिवृतं कृतम् अश्विभ्यां ग्रथितो ग्रन्थिर्ब्रह्मणा प्रतिसरं कृतम् अभिचारं च सर्वं च यच्च मे दुष्कृतं कृतम् सर्वतो मे भय नास्ति यावत्सूत्रं धरिष्यति इति ३२ अथान्योन्यमपः प्रतिग्राहयन्ते प्रीयतां भगवान् महाधूर्तः इति ३३ अथ पक्वादुपादाय प्राश्नाति ३४ न स्त्रीकुमारौ प्राश्नीयाताम् ३५ तत्प्राशनमन्त्रः आयुरसि इति ३६ प्राश्याप आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् ३७ पुनःपुनरवोक्ष्यान्त आयुष्यं वर्चस्यं राक्षोघ्नं स्वस्त्ययनमृद्धमिति ३८ आहुतानुकृतिर्व्याख्यातो बलिहरणानुकृतिः ३९ दैवतमावाह्य गन्धपुष्पधूपदीपान्नफलोदकैरभ्यर्च्य नमस्कृत्य प्रवाहयन्ते ४० धूर्तबलिं चतुर्षु चतुर्षु मासेष्वेवं यजमानः चातुर्मास्यानां फलमवाप्नोतीति ह स्माह भगवान् बोधायनः ४१ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने द्वितीयोऽध्यायः अथ चतुर्थप्रश्ने तृतीयोऽध्यायः अथातो मृतबलिं व्याख्यास्यामः प्राग्दक्षिणायतनं चतुरश्रं गोमयेनोपलिप्य प्राचीनावीती दक्षिणामुखस्सव्यं जानुं निपात्य सकृदुल्लिख्याद्भिरभ्युक्ष्य दक्षिणाग्रान् दर्भान् संस्तीर्याद्भिर्माजयित्वोपस्तीर्णाभिघारितं सकृत्तिलमिश्रं चरुमवद्यति मुष्टिप्रमाणं कुक्वटाण्डप्रमाणं वा हस्तेन अमुकगोत्रायैतत्ते ओदनस्स्वधा नमः इति १ अथाङ्गुष्ठेनाभिमृश्याथाञ्जनाभ्यञ्जने मधु वासो दशोर्णा वा गन्धपुष्पधूपदीपैर्हस्ताद्विपरीतात्सायं प्रातर्दशरात्रं कृत्वा स्वस्ति-ग्रामं भोजयित्वा दशम्यां विकृताहारं सायं बलिं दत्वाऽथैकादश्यामेकोद्दिष्टं कुर्वन्ति २ न जातु श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् तद्रूपास्तस्य पितर- स्समायान्तीति वैदिकाः इति विज्ञायते ३ इति बोधायनीयं गृह्यशेषसूत्रे चतुर्थप्रश्ने तृतीयोऽध्यायः अथ चतुर्थप्रश्ने चतुर्थोऽध्यायः अथ प्रहुतानुकृतिः धर्मोपभोगविधिं व्याख्यास्यामः सेतुबन्धनदीखाततटाक-पुष्करिणीवापीकूपदेवगृहप्रासादवसतीनामोषधिवनस्पतीनां च पूर्तं भवति भूतिकामो निशि जुहोति १ उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे यज्ञद्रव्या-ण्यध्वर्युरुपकल्पयते खादिरं पालाशं वा त्र्यरत्निमात्रं यूपं कृत्वा सौवर्णसर्प-शिंशुमारकूर्ममकरकर्कटकमलकुवलयकुमुतोत्पलकह्लारांश्च राजतान् हंसम-त्स्यमण्डूकांश्च देवगृहप्रासादवसतीनां तदाकृतिवदोषधिवनस्पतीनां तत्फ-लाकृतिवत् सुवर्णरत्नेषु सर्पिश्चरुतिलचूर्णपयोऽपूपधानान् सक्तून् गन्धपुष्पधूप-दीपवासांसीध्माबर्हिषी च २ सप्रदोषे द्विजातीनां होमः ३ शूद्राणां नमस्का-रैरावृतैर्वा ४ तटाकतीरे मध्यपूर्वे स्थण्डिलमुपलिप्य यूपावटं खात्वाऽध्वर्युश्च यूपं प्रतिष्ठापयति आब्रह्मन् ब्राह्मणः इति ब्राह्मणस्य अस्मिन् राष्ट्रे इति राजन्यस्य दोग्ध्री धेनुः इति वैश्यस्य ५ मणिमुक्ताप्रवाळसुवर्णगजताक्षतैरवकीर्य जघनेन यूपं स्थण्डिलं कृत्वाऽथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वोपोत्थाया-ग्रेणाग्निं देवानावाहयति ब्रह्मणे विष्णवे श्रियै सूर्याय चन्द्रायाग्नये यमाय निरृत्यै वरुणाय वायवे सोमायेशानाय इत्यावाह्य सुवर्णरजताक्षतैरवकीर्य यूपदेवतां गन्धपुष्पधूपदीपैरभ्यर्च्य यूपमुपतिष्ठते तद्विष्णोः परमं पदम् इति ६ तं वासोभिर्वेष्टयित्वा तस्मिन् रूपाणि बध्वा परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति अवते हेडः उदुत्तमम् इति द्वाभ्याम् ७ अथाज्याहुतीरुपजुहोति कूप्याभ्यस्स्वाहा अद्भ्यस्स्वाहा इत्येताभ्यामनुवाकाभ्याम् इमं मे वरुण तत्त्वा-यामि यच्चिद्धि यत्किं चेदं कितवासो हिरण्यवर्णाश्शुचयः पावकाः त्वं नो अग्ने स त्वं नो अग्ने इति ८ स्विष्टकृतोऽथ यूपाहुतीर्जुहोति ब्रह्मणे स्वाहा । विष्णवे स्वाहा । श्रियै स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । इन्द्राय स्वाहा । अग्नये स्वाहा । यमाय स्वाहा । निरृत्यै स्वाहा । वरुणाय स्वाहा । वायवे स्वाहा । सोमाय स्वाहा । ईशानाय स्वाहा इति ९ अथौषधिवनस्पतीनां पक्वाज्जुहोति या जाताः शतं वो अम्ब धामानि इति द्वाभ्याम् १० अथाज्याहुतीरुपजुहोति पुष्पावतीः प्रसूवतीः ओषधीभ्य-स्स्वाहा वनस्पतिभ्यस्स्वाहा इति त्रिभिरनुवाकैः प्रत्यृचम् ११ स्विष्टकृतोऽथ देवगृहेभ्यः पक्वाज्जुहोति वास्तोष्पते वास्तोष्पते इति द्वाभ्याम् १२ अथाज्या-हुतीरुपजुहोति वास्तोष्पते ध्रुवास्थूणा इति षड्भिः १३ स्विष्टकृतोऽथ नमस्ते रुद्र मन्यवे इत्यान्तादनुवाकस्य प्रत्यृचम् १४ अथ कूश्माण्डानि हुत्वा पुरस्ता-त्स्विष्टाकृतो वैश्वानराय प्रतिवेदयामः इति १५ अथ चरतिलचूर्णपयस्स-र्पिर्मिश्रैरपूपैर्धानाभिस्सक्तून् करम्भान् दर्भेषु बलिमुपहरति ब्रह्मणे नमः इति पूर्वोक्तद्वादशनामभिः १६ त्रिः प्रदक्षिणं यजमानो बलीन् सम्पकीर्यं यमसूक्तं वाचयित्वा पुरुषसूक्तं चोर्मिमन्तमुदधिं कृत्वा स्नात्वाऽप आचम्य ब्राह्मणेभ्यो वासांसि दद्यादाचार्याय गोमिथुनं दद्यादृषभैकादश गा दद्यादाशिषो वाचयि-त्वा रूपाणि विसर्जयेत् १७ एवं प्रयुञ्जानो दशपूर्वान् दशापरानात्मानं चैक-विंशतिं पंक्तिं च पुनाति १८ अथाप्युदाहरन्ति नृत्तगीतवाद्यघोषैः प्रत्यूषे बोधयन्ति । एतेषां नष्टानां पुनः करणमधिकं फलमिति षष्टिर्वर्षसहस्राणि ब्रह्मलोके महीयत इत्याह भगवान् बोधायनः १९ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने चतुर्थोऽध्यायः अथ चतुर्थप्रश्ने पञ्चमोऽध्यायः अथातः काम्यविधिं व्याख्यास्यामः अन्नकामस्य जुहोति अन्नपतेऽन्नस्य नो धेहि जातो यदग्ने वषट्ते वास्तोष्पते एवावन्दस्व आनो नियुद्भिः हिरण्यवर्णाः अश्वावतीः त्वं वरुण बृहस्पते युवमिन्द्रश्च स्वस्ति न इन्द्रः इत्येता अन्नहोमा बलयश्च १ अथ समिद्धोमो यदग्ने यानि कानि इति २ औदुम्बरीं शमीमयीं वा शान्तिकामः शन्नो देवीरभिष्टये इति ३ दूर्वामायुष्कामः आयुष्टे आयुर्दां अग्ने अपैतु परं वातं प्राणं अमुत्र भूयात् हरि हरन्तं मानो महान्तं मानस्तोके वास्तोष्पते जातवेदसे तत्सवितुर्वरेण्यं ऋतेन यमादित्याः प्रजापते इति ४ यदपामार्गहोमो भवति रक्षसामपहत्यै इति ब्राह्मणम् । सर्वस्य भेषजो-ऽपामार्गहोमः यदपामार्गस्सपत्नहासहस्राणां पुष्ठिवर्धनाय । यन्मे शिरसि पापं केशेषु निहितं ललाटे पृष्ठे जठरे च यद्विश्वं सर्वस्य भेषजोऽपामार्गोऽवलुम्पतु स्वाहा इति ५ व्याहृतीभिस्तिलहोमो रक्षोघ्नाः पापनाशनश्च ६ अथाप्यु- दाहरन्ति ओषध्यस्सक्तवः पुष्पं काष्ठं मूलं फलं तृणम् एतद्धस्तेन होतव्यं नान्यत्किञ्चिदचोदनात् इति ७ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने पञ्चमोऽध्यायः अथ चतुर्थप्रश्ने षष्टोऽध्यायः अथातश्शौचविधिं व्याख्यास्यामः ग्रामाद्दूरतो गत्वा यज्ञोपवीतं शिरसि दक्षिणे कर्णे वा कृत्वा मृत्तिकां गृह्णाति १ काष्ठमन्तर्धाय मध्य उपविशेत् २ अहन्युत्तरत उपेयान्निशायां दक्षिणत उभयोस्सन्ध्ययोरुदङ्मुखः ३ नाग्निं नापो न नग्नो वृक्षमूले पर्वतमूले चतुष्पथेऽग्न्यगारे गवां मध्ये गोष्ठे दहनपुळिनवर्जमन्तर्जले देवगृहे वल्मीके मूषिकस्थले प्रत्यग्निं प्रतिसूर्यं प्रत्यगारं प्रति गां प्रतिब्राह्मणं च ४ एकां लिङ्गे मृदं दद्यात्सव्ये पाणौ मृदस्त्रयः उभयोर्द्विर्मृदं दद्यान्मूत्रवच्छौचमिष्यते ५ पञ्चापाने दशैकस्मिन्नुभयोत्सप्त मृत्तिकाः एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ६ त्रिगुणं तु वनस्थस्य यतीनां तु चतुर्गुणम् आचार्यगुरुदाराभिगमने नाभिभाषते ७ संस्थिते न म्रियते योनिसंस्कारादिति बोधायनः ८ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने षष्टोऽध्यायः अथ चतुर्थप्रश्ने सप्तमोऽध्यायः अथात आचमनविधिं व्याख्यास्यामः प्राङ्मुख उदङ्मुखो वा बद्धशिखो यज्ञोपवीती नोष्णाभिर्न क्षाराभिर्न विवर्णाभिर्न दुर्गन्धरसाभिः न सफेनाभिर्न चैकहस्ताभिर्न दूषिताभिर्न बहिर्जानुभिर्न विरळङ्गुळीभिर्न बुद्बुदाभिर्न तिष्ठन्न हसन् न जल्पन् न विलोकयन्न प्रह्वो न प्रणतो न रोचयन् १ ब्राह्मणस्य दक्षिणे हस्ते पञ्च तीर्थानि भवन्ति अङ्गुलीमध्ये देवतीर्थमङ्गुल्यग्र आर्षं तीर्थं मध्ये-ऽग्नितीर्थमङ्गुष्ठतर्जन्योर्मध्ये पैतृकतीर्थमङ्गुष्ठतलेऽतिहृत्य पश्चाल्लेखं तद्ब्रह्म-तीर्थम् २ माषमग्नं तु तन्मात्रं प्रतिगृह्य त्रिः पिबेदपो गोकर्णवद्धस्तेन त्रिरा-चामेत् ३ प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणाति यद्द्वितीयं तेन यजुर्वेदं प्रीणाति यत्तृतीयं तेन सामवेदं प्रीणाति प्रथमं यत्परिमृजति तेनाथर्ववेदं प्रीणाति यद्द्वितीयं तेनेतिहासपुराणानि यन्मुखं तेनाग्निं यत्सव्यं पाणिमभ्युक्षति तेन नक्षत्राणि यत्पादमभ्युक्षति तेन विष्णुं यच्चक्षुषी तेन चन्द्रादित्यौ यन्नासिके तेन प्राणापानौ यच्छ्रोत्रं तेन दिशो यद्बाहू तेनेन्द्रं यद्धृदयं तेन रुद्रं यन्नाभिं तेन पृथिवीं यदङ्गुष्ठयोः स्रवन्त्यापः कुबेरादयः सर्वा देवताः प्रीणन्त्यग्निर्वायुः प्रजापति-रर्कचन्द्रौ मघवानिति वैदिकाः ४ अनामिकाङ्गुष्ठाभ्यां चक्षुषी समुपस्पृशेत् । प्रादेशिन्यङ्गुष्ठाभ्यां तु नासिके अङ्गुष्ठकनिष्ठकाभ्यां तु श्रोत्रे अङ्गुष्ठमध्य-माभ्यां तु बाहू चतुरङ्गुलीभिर्हृदयमङ्गुष्ठेन नाभिं सर्वैर्मूर्धानं समुपस्पृशेदेतेन विधिना युक्ता न लिप्यन्ते कदाचनेति ५ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने सप्तमोऽध्यायः अथ चतुर्थप्रश्ने अष्टमोऽध्यायः अथ वै भवति आपो वा इदमग्रे सलिलमासीत्तस्मिन् प्रजापतिर्वायुर्भूत्वाऽचर-त्स इमामपश्यत्तां वराहो भूत्वाऽहरत्तां विश्वकर्मा भूत्वा व्यमार्ट् साऽप्रथत सा पृथिव्यभवत् तत्पृथिव्यै पृथिवित्वं तस्यामश्राम्यत् इति तदु हैक औपासनमे-वोपासते स्त्रिया एव संस्कारार्थमौपासनो नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाऽऽहार्यो द्वादशाहं विच्छिन्नः पुनराधेयोऽथ यदि द्वादशाहं विच्छिन्नः पुनराधेयस्स्याद्या प्रकृतिस्तत आहरणमित्युक्तमेतत्सन्तिष्ठते १ अथ गृहस्थस्यौपासनम् षण्मासान्नाजुहवुर्यथोपपादमाहृत्याग्निं प्रतिष्ठाप्य परिस्तीर्य द्वादशाहप्रायश्चित्तं हुत्वा तदानीमेव सम्परिस्तीर्याऽप्रणीताभ्याः कृत्वा चतु-श्शरावमोदनं श्रपयित्वाऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघार्य परिधानप्र-भृत्याग्निमुखात्कृत्वा मेक्षणेनोपघातं पक्वाज्जुहोति अग्नये स्वाहा सोमाय स्वाहा अग्नयेऽन्नवते स्वाहा अग्नयेऽन्नादाय स्वाहा अग्नयेऽन्नपतये स्वाहा अग्नये पवमानाय स्वाहा अग्नये पावकाय स्वाहा अग्नये शुचये स्वाहा अग्नये ज्योतिष्मते स्वाहा अग्नये व्रतपयते स्वाहा अग्नये पथिकृते स्वाहा अग्नये तन्तुमते स्वाहा अग्नये वैश्वानराय स्वाहा सूर्याय स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा भूस्स्वाहा भुवस्स्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा । अग्नये स्विष्टकृते स्वाहा इत्युत्तरार्धपूर्वार्धे २ तूष्णीं मेक्षणमभ्याधाय जयप्रभृति सिद्धमाधेनुवरप्रदानात् ३ अथास्तमित आदित्ये व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोति अग्नये स्वाहा प्रजापतये स्वाहा इति सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति प्रातरप्यग्निहोत्रहविषामन्यतमेन जुहुयात् ४ पर्वणि पर्वणि चाग्नेयस्था-लीपाकेन यजेत ५ उपवास एव कालान्तरे भोजनमतृप्तिश्चान्नस्य च ६ एवमेव सायंहोमेन प्रतिपद्यते सन्तिष्ठत औपासनतन्त्रम् ७ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने अष्टमोऽध्यायः अथ चतुर्थप्रश्ने नवमोऽध्यायः कथमु खल्वनाहिताग्नेर्दर्शपूर्णमासौ भवत इति १ पौर्णमास्याममावास्याया-मिध्माबर्हिस्सन्नह्योपवसथस्य रूपं कृत्वोपवसति २ अथ श्वोभूतेऽग्निमुप-समाधाय सम्परिस्तीर्य दक्षिणतो ब्राह्मणमुपवेशयति ३ उत्तरत उदपात्रमिति निधाय जघनेनाग्निं कृष्णाजिने व्रीहीन्निर्वपति ४ अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिशृत्य पर्यग्नि कृत्वा स्रुक्स्रुवं मेक्षणमिति सम्मृज्याथैतं चरुं श्रपयित्वाऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति ५ परिधानप्रभृत्याग्नि-मुखात्कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुवः इति द्वाभ्याम् ६ चतुरवत्तं पुरस्तादुपस्तरणं पूर्वार्धादपरार्धादवदानमभिघारणं मध्यात्पूर्वार्धादपरार्धाद-वदानं पञ्चावत्तिनामभिघारणं प्रत्यञ्जनम् ७ अथ पुरस्तात्स्विष्टकृतः ८ पौर्णमास्यां ऋषभं वाजिनं वयम् इति । अमावास्यायां अमावास्या सुभगा इत्याज्याहुती हव्यवाहं स्विष्टम् इति स्विष्टकृतं हुत्वा मेक्षणमभ्याधाय संस्रावेणाभिहुत्वा स्रुचाऽद्भिरन्तःपरिधि निनयति वैश्वानरे हविरिदं जुहोमि इति ९ स्रुचं प्रक्षाळ्य निष्टप्याद्भिः पूरयित्वा बहिःपरिधि निनयति इमं समुद्रं शतधारम् इति । जयप्रभृति सिद्धमाधेनुवरप्रदानात् १० अथ पक्वादुपादाय प्राश्नाति आयुरसि इति ११ प्राश्याप आचम्य जठरमभिमृशति यत इन्द्रभ-यामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम् १२ प्रथमे स्थालीपाक आज्यं संस्कृत्य कूश्माण्डैर्जुहुयात् कर्मादिवेतैर्जुहुयात् पूतो देवलोकान् समश्नुते इति ब्राह्मणम् १३ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने नवमोऽध्यायः अथ तृतीयप्रश्ने अष्टादशोऽध्यायः अथ गृहस्थस्तु द्वे भार्ये विन्देत कथं तत्र कुर्यादिति १ यस्मिन् काले विन्देतोभावाग्नी परिचरेत् २ अपराग्निमुपसमाधाय सम्परिस्तीर्याज्यं विला-प्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वाऽन्वारब्धायां यजमानो जुहोति नमस्त ऋषे गद । अव्यथायै त्वा स्वधायै त्वा । मा न इन्द्राभितस्त्वदृष्वारिष्टासः । एवाब्रह्मन् तवेदस्तु स्वाहा इति ३ अथ समा-रोपयति अयं ते योनिरृत्वियः इति ४ अथ पूर्वाग्निमुपसमाधाय आजुह्वानः उद्बुध्यस्वाग्रे इति समिधमाधाय सम्परिस्तीर्य आज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्वारब्धयोर्यजमानो जुहोति यो ब्रह्मा ब्रह्मणः इत्यान्तेन सूक्तेनैकैकं चतुर्गृहीतं गृहीत्वा जुहोति ५ प्रसिद्धम-ग्निमुखात्कृत्वा पक्वाज्जुहोति समितं संकल्पेथाम् इति पुरोनुवाक्यामनूच्य अग्ने पुरीष्य इति याज्यया जुहोति ६ अथाज्याहुतीरुपजुहोति पुरीष्यस्त्वमग्ने इत्या-न्तादनुवाकस्य । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ७ अथाग्रेणाग्निं दर्भस्तम्बेषु हुतशेषं निदधाति ब्रह्मजज्ञानं पिता विराजां इति द्वाभ्याम् ८ प्रसिद्धमौपासने पार्वणानि कुर्यात्सन्तिष्ठत औपासनतन्त्रः ९ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने दशमोऽध्यायः अथ चतुर्थप्रश्ने एकादशोऽध्यायः अथ वै भवति जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः इति प्रजातन्तु मा व्यवच्छेत्सीः इत्येतस्माद्ब्रा-ह्मणादाहिताग्नेर्दशवर्षाणामूर्ध्वं यदि प्रजा नोत्पद्येत कथं तत्र कुर्यादिति १ पुनरेव कुमारीं संस्कृत्य दशमेऽहन्येकादशाहे द्वादशाहे वाऽरण्योरग्नीन् समारोप्योदवसाय मथित्वाऽग्नीत् विहृत्योद्वासन्येष्येद्वा २ तदानीमेवा-रण्योरग्नीन् समारोप्यौपासने ब्रह्मौदनं श्रपयित्वोपवसथहविःप्रभृति सिद्धम-प्न्याधेयं कुर्वन्ति ३ तस्मिन् संस्थिते पवित्रेष्ट्या यजेत ४ तस्यां संस्थितायां तन्तुमतीं निर्वपेत् ५ तस्यां संस्थितायां त्रैधातवीयां निर्वपेत् ६ अपि वैन्द्राग्नेन पशुना यजेत । पुनराधेयं वा कुर्यात् ७ अथ यद्येको बह्वीर्जायाः प्रयुञ्जान एवमेवैतत्कुर्यात् तस्मादेको बह्वीर्जाया विन्दते इति ब्राह्मणन् ८ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने एकादशोऽध्यायः अथ चतुर्थप्रश्ने द्वादशोऽध्यायः अथ यद्यग्निविमोकमीक्षेताग्निमुपसमाधाय संपरिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्वारब्ध योर्यजमानो जुहोति इमं स्तनमूर्जस्वन्तं धयापां प्रप्यातमग्ने सरिरस्य मध्ये । उत्संजुषस्व मधुमन्तमूर्व संमुद्रियं सदनमाविशस्व स्वाहा इत्यग्निविमोकं हुत्वा तमनलं विभजेत् १ पुनस्संयोगो न भवति विभक्तं न हि संसृजेत् इति स्मरणात् २ पूर्वस्मिन्नग्नौ यदि विवहेत् स हि साधारणो भवति न तत्र विभाग एकत्वादग्नेरित्याह भगवान् बोधायनः ३ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने द्वादशोऽध्यायः अथ चतुर्थप्रश्ने त्रयोदशोऽध्यायः अथ लौकिकोपासनग्रहणधारणोपावरोहणविधिं व्याख्यास्यामः त्रिविधं समारोपणमात्मन्यरण्योस्समिधीति १ समिधि समारोपयति पालाशीमाश्वत्थीं खादिरीमौदुम्बरीं शमीमयीं वा समिधमादाय समारोपयति अयं ते योनि-रृत्वियः इति २ अरण्योर्वा समारोप्य मथित्वा जुहुयात् ३ अपि वात्मनि समारोपणं भवति या ते अग्ने यज्ञिया तनूः इति ४ अथैनमुपावरोहयति उपावरोह जातवेदः इति ५ यत्र गच्छेत्तत्र नो हरेत्तत्र प्राप्य लौकिकमग्निमाहृत्य न्युप्योपसमाधाय तां समिधमादधाति यस्यात्मनि समारूढो भवति आजुह्वानः उद्बुध्यस्वाग्ने इति द्वाभ्याम् ६ अथाग्निं परिचरति व्रीहिभिर्यवैर्वा ७ यवैर्ग्राम-कामस्य तण्डुलैरोजस्कामस्य पयसा पशुकामस्य दध्नेन्द्रियकामस्याज्येन तेजस्कामस्य ८ अथातिपन्नाः प्रतिजुहोति ९ प्रसिद्धमग्निपरिचरणम् १० प्रसिद्धं दर्शपूर्णमासाभ्यां यजनम् ११ प्रसिद्धः पञ्चानां महायज्ञानामनुप्रयोगः १२ एतदेव विधानमहरहरध्वनि वर्तते १३ लौकिको व्याख्यातः १४ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने त्रयोदशोऽध्यायः अथ चतुर्थप्रश्ने चतुर्दशोऽध्यायः अथ गृहस्थस्यौपासनं विच्छिद्येत प्राणेषूत्क्रान्तेषूभयोः श्रोत्रिययोर्वचनादुद्धरेत् । श्रोत्रियागाराद्वाहृत्य व्याहृतीभिर्नियुप्योपसमाधाय पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य संमृत्य स्रुचि चतुर्गृहीतं गृहीत्वाऽन्वारब्धो यजमानो जुहोति सप्त ते अग्ने सप्तव्याहृतिभिश्च पूर्वं देवा अपरेण प्राणापानौ इति द्वाभ्यां मा त्वा वृक्षौ सम्बाधिष्टाम् मा त्वा वृक्षौ सम्बाधेथाम् इति द्वाभ्याम् अग्नेऽभ्यावर्तिन् अग्ने अङ्गिरः इति द्वाभ्यामेकैकं प्रति चतुर्गृहीतं गृहीत्वा जुहो-ति १ न च ब्रह्मा न च प्रणीता न चरुर्न च स्विष्टकृतम् २ अत ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्यते ३ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने चतुर्दशोऽध्यायः अथ चतुर्थप्रश्ने पञ्चदशोऽध्यायः अथ यद्याहिताग्निर्द्वे भार्ये विन्देत प्राक्संयोगान्म्रियेत कथं तर्हि कुर्यादिति १ औपासनं संपरिस्तीर्याज्यं बिलाप्योत्पूय स्रुक्स्रुवं निष्टप्य संमृज्य स्रुचि चतुर्गृहीतं गृहीत्वा समिद्वत्यग्नौ परिश्रिते पूर्णाहुतिं जुहोति समितं सङ्कल्पेथाम् इति मिन्दाहुती व्याहृतीभिश्च हुत्वा तमग्निं अयं ते योनिः इति समिधि समारोप्य गार्हपत्ये समिधमादधाति भवतं नस्समनसौ इति । गार्हपत्य आज्यं विला-प्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वा गार्हपत्ये जुहोति अग्नावग्निश्चरति प्रविष्टः इति २ अपरं चतुर्गृहीतं गृहीत्वा गार्हपत्य एव जुहोति चित्तिस्स्रुक् इति ३ अथ गार्हपत्ये स्रुवाहुतीर्जुहोति ब्राह्मण एकहोता इति दशभिः ४ अथ प्राचीनावीतं कृत्वाऽन्वाहार्यपचने जुहोति ये समानाः ये सजाताः इति द्वाभ्याम् ५ अथान्वाहार्यपचन एव स्रुवाहुतीर्जुहोति अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा इति ६ अथ यज्ञोपवीतं कृत्वा द्वादशगृहीतेन स्रुचं पूरयित्वा पुरुषसूक्तेन मनसाऽनुद्रत्याहवनीये जुहोति ७ अथ स्रुवाहुतीर्जुहोति अग्नये विविचये स्वाहा अग्नये व्रतपतये स्वाहा अग्नये पवमानाय स्वाहा अग्नये पावकाय स्वाहा अग्नये शुचये स्वाहा अग्नये पथिकृते स्वाहा अग्नये तन्तुमते स्वाहा अग्नये वैश्वानराय स्वाहा इति ८ अथ स्रुचि चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो निम्रचश्च तास्संदधामि हविषा घृतेन स्वाहा इति ९ अत ऊर्ध्वं पैतृमेधिकं कर्म प्रतिपद्यते १० इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने पञ्चदशोऽध्यायः अथ चतुर्थप्रश्ने षोडशोऽध्यायः अथातः कपिलसंन्यासविधिं व्याख्यास्यामः अनग्निकस्तु मुण्डी शिखी वाऽहोरात्रोपोषितः स्नात्वाऽप आचम्याप एव पाणिनाऽप्स्वाहुती जुहोति आपो वै सर्वा देवतास्स्वाहा इति १ पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च सर्वभूतेभ्यश्च व्युत्थितोऽहं स्वाहा इति २ संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया इति त्रिरुपांशूक्त्वा त्रिरुच्चैः त्रिषत्या हि देवाः इति विज्ञायते ३ अभयं सर्वभूतेभ्यो मत्तस्स्वाहा इति दण्डात् गृहीत्वा जलपवित्रं पवित्रम् इति समादाय पुत्रमित्रसुहृद्बन्धुज्ञातिसन्निधौ त्यक्त्वाऽथ ग्रामादाहृत्यैकपात्रमुदके-नाप्लाव्य सकृदल्पेन भुञ्जीत ४ न केन चित्सह सम्भाषेत ५ न किञ्चन याचेत ६ पर्वतगुहानदीपुळिनशून्यागारे देवतायतने बिलदर्योर्निवसेत् ७ स्वयं पतितं प्रक्षाळ्य जीवितमुक्तम् ८ जीर्णमानीयाहतानि दृढान्यजिनानि यदर्थं बिभृयात् ९ सूर्योदयहीनयाचितेन कार्यं कुर्वीत १० व्रतं स्नानसमर्थो न लभेत् ११ अथ प्रक्षाळ्य जलार्द्रेण कर्पटेन सशि स्कजलाकर्षणं कृत्वाऽन्तर्वासाः परितस्सन्ध्यामुपासीत १२ नित्यं मध्याह्ने प्रातस्स्नायीतेत्याह भगवान् बोधायनः १३ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने षोडशोऽध्यायः अथ चतुर्थप्रश्ने सप्तदशोऽध्यायः अथातस्संप्रवक्ष्यामि संस्कारविधिमुत्तमन् समाहितानां युक्तानां यतीनां च महात्मनाम् १ शुचौ देशे तु सावित्र्या देह प्रक्षाळ्य यत्नतः अलङ्कृत्य च गायत्र्या गन्धैर्माल्यैः पृथक्पृथक् २ वहन्ति ब्राह्मणा ये वै शुचयस्सर्व एव ते तेषां तु वहतां सम्यक्सद्यश्शौचं विधीयते ३ प्रक्षाळनादि तत्कर्म ये कुर्वन्ति महीयसाम् तेषामपि तथा सद्यश्शौचमेव विधीयते ४ पुत्रो वा सन्निकृष्टो वा शुचौ देशे निधाय तम् उपावरोहमन्त्रेण तस्याग्नीनवरोप्य तु ५ तूष्णीं संमार्जनं कृत्वा व्याहृतीभिश्च सप्तभिः प्रोक्ष्य काष्ठं च तद्देहं निधाय तु समन्त्रकम् ६ विष्णो हव्यं रक्षस्वेति मुखे जलपवित्रकम् पवित्रं तेति मन्त्रेण निदधाति तथा पुनः ७ त्रिदण्डं दक्षिणे हस्ते वैष्णव्यर्चा निधाय च उदरे च तथा पात्रं सावित्र्या निदधाति वै ८ यदस्य पारे रजसस्सव्ये शिक्यं निधाय च गुह्ये कमण्डलुं चैव भूमिर्भूमिमगादिति ९ पितृमेधप्रयोगेण दहेदग्निभिरेव हि संस्कर्तुश्च तथा तस्य नाशौचं नोदकक्रिया १० एकोद्दिष्टं न कुर्वीत संन्यस्तानां कदाचन अहन्येकादशे प्राप्ते पार्वणं तु विधियते ११ द्वादश्यामह्नि वा पुण्ये नारायणबलिर्भवेत् सर्वं नारायणोद्देशमेकोद्दिष्टवदाचरेत् १२ अनाहिताग्निनां चैव संन्यस्तानां महात्मनाम् अपि होतृविधानेन गायत्र्या प्रणवेन वा १३ अप्राकृतानां महतां ब्रह्मनिष्ठमनस्विनाम् तेषां तु स्वननं कार्यमिति प्राहुर्मनीषिणः १४ तिसृभिर्व्याहृतीभिस्तु खात्वा दण्डप्रमाणतः त्रिदण्डादीन् यथास्थानममन्त्रैस्स्थापयेद्बुधः १५ प्रच्छादयेदसंस्पृष्टं सृगालश्वापदादिभिः श्वादयो यदि खादन्ति महान् दोषो भविष्यति १६ तस्माद्भूमिं भृशं खात्वा सम्यक्प्रच्छादयेद्यतीन् सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च १७ न तस्य दहनं कुर्यान्नाशौचं नोदकक्रिया निषेकाद्याश्श्मशानान्तास्सत्क्रिया ब्राह्मणाश्रिताः १८ तस्माद्यत्नेन संस्कारः कर्तव्यो गृहमेधिभिः ये वहन्ति महात्मानं स्पृष्ट्वा दृष्ट्वा द्विजातयः १९ हयमेधफलं तेषामस्तीत्येवं विदर्बुधाः २० इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने सप्तदशोऽध्यायः अथ चतुर्थप्रश्ने अष्टादशोऽध्यायः अथातोऽङ्कुरार्पणविधिं व्याख्यास्यामः ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्तण्डि-लमुपलिप्याक्षतान् सम्प्रकीर्याद्भिरभ्युक्ष्य पञ्च पालिकास्सौवर्णा राजतास्ताम्रा मृण्मयीर्वा यथासम्भवं गृह्णाति १ मध्ये चतुर्मुखं विन्द्यात् पूर्वे वज्रिणमेव च दक्षिणे तु यम विन्द्यात् पश्चिमे वरुणं तथा उत्तरे शशिनं विन्द्यात्पालिकास्थापनं क्रमात् २ वल्मीकमृत्तिकां हृत्वा गोमयं च तथैव च एतानि प्रक्षिपेत्तासु पालिकासु यथाक्रमम् ३ दूर्वामश्वत्थपत्रं च शिरीषं बिल्वपत्रकम् तासां मूलेषु बध्नीयाच्छ्वेतसूत्रेण वेष्टयेत् ४ मध्यमायां व्याहृतीभिर्ब्रह्माणमावाहयति ॐ भूः ब्रह्माणमावाहयाम्यॐ भुवः प्रजापतिमावाहयाम्यॐ सुवः चतुर्मुखमावाहयाम्यॐ भूर्भुवस्सुवः हिरण्यगर्भ-मावाहयामि इति । एताभिरेव प्राच्याम् इन्द्रं वज्रिणं शचीपतिं शतक्रतुम् इति । एताभिरेव दक्षिणस्याम् यमं वैवस्वतं पितृपतिं धर्मराजम् इति । एताभिरेव प्रतीच्याम् प्रचेतसं सुरूपिणमपांपतिम् इति । एताभिरेवोदीच्याम् शशिनं निशाकरं चन्द्रं सोमम् इति ५ अथैतान् स्नापयति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमान-स्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वाऽथैनान् गन्धपुष्पधूपदीपैरभ्यर्चयति अमुष्मै नमोऽमुष्मै नमः इति ६ अथैनानुपतिष्ठते दिशां पतीन् नमस्यामि सर्वकामफलप्रदान् कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम् इति ७ व्रीहियवमाषतिलमुद्गसर्षपान् मिश्रीकृत्य क्षीरेण प्रक्षाल्यौषधिसूक्तेन या जाताः इत्यनुवाकेनाभिमन्त्र्य यथाक्रमं निवपति ब्रह्म जज्ञानं पिता विराजाम् इति द्वाभ्यां मध्यमायां यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां प्राच्यां योऽस्य कौष्ठ्य यमं गाय इति द्वाभ्यां दक्षिणस्यां इमं मे वरुण तत्त्वा यामि इति द्वाभ्यां प्रतीच्यां सोमो धेनुम् आप्यायस्व इति द्वाभ्यामुत्तरस्याम् ८ यथाक्रमं शुद्धाभिस्सिकताभिः प्रच्छादयेत् ९ पञ्चगव्येन यथाक्रमं सेचयेत् १० प्रणवेनैव सापिधानं कृत्वा यावत्कर्म तावत् सुरक्षितं गोपायेत् १२ समाप्ते कर्मणि ब्राह्मणान् पञ्च भोजयेत् १२ व्याहृतीभिः देवता यथाक्रममुद्वासयेत् १३ आसप्तमात्प्रजाकाम आषष्ठात्पुत्रनाशनम् पञ्चमे भक्तिकामानां विष्णोस्सर्वात्मनस्तथा १४ चतुर्थे चाङ्कुरं विद्यात्पापीयान् जायते तु सः त्रियहे सर्वकामानां सद्यो वाऽप्यङ्कुरार्पणम् १५ इत्याह भगवान् बोधायनः १६ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने अष्टादशोऽध्यायः अथ चतुर्थप्रश्ने एकोनविंशोऽध्यायः अथातो नान्दीमुखं व्याख्यास्यामः आदित एव द्वौ विप्रौ निमन्त्र्य चतुरवरांश्च पित्रर्थानथ श्मस्रुकर्माभ्यञ्जनस्नानैर्यथोपपादं संपूज्याग्निमुपसमाधाय संपरि-स्तीर्याज्यं विलाप्योत्पूय दध्ना घृतेन संयुत्य स्रुवं संमृज्य देवार्थौ विप्रावुपवे-श्यालङ्कृत्यानुदेश्य द्विःपवित्र एव यवोदकं निधाय पुष्पफलाक्षतमिश्रं भोजनस्थानेष्वासनेषु यवान् सिकताश्च सम्प्रकीर्य पित्रर्थानुपवेश्य तेषां स-पवित्रेषु पाणिषु नान्दीमुखाः पितरः प्रीयन्ताम् इत्यनेन मन्त्रेण पात्रान्तरेणोपहत्य यवोदकं दत्वा द्विरथालङ्कृत्यैवमेव दत्वाऽग्नौकरणमनुज्ञाप्यालङ्कृत्य पृषदा-ज्यात् स्रुवेणोपहत्य नान्दीमुखेभ्यः पितृभ्यस्स्वाहा इत्येतावदग्नौ कृत्वाऽन्न-मुपस्तीर्णाभिघारितं पात्रेषूद्धृत्य पृषदाज्येन संसृज्य दर्भेषु सादयित्वा दर्भैः प्रतिच्छाद्य नान्दीमुखार्थानां पितॄणां क्षेष्ठा अमुत्रामुष्मिन् लोके इति मन्त्र-मूह्याभिमृश्य विप्रेभ्यो द्विरुपस्तीर्याभिमृष्टस्यान्नस्य द्विरवदाय द्विरभिघार्य यथावद्भोजयेत् १ पितृसामान्यवाचिस्वधायुक्तानि ब्रह्माण्यभिश्राव्य भुक्तव-त्स्वाचान्तेषूपलिप्याशयेषु दध्योदनं संप्रकीर्य संक्षाळनेन प्रदक्षिणं द्विःपरि-षिच्य पूर्ववद्यबोदकं दत्वा दक्षिणां प्रदाय नान्दीमुखाः पितरः प्रीयन्ताम् इति वाचयित्वाऽभिवाद्य स्वधायै स्थाने सर्वैस्समानं दक्षिणं जानुं निपात्य सव्यमुद्धृत्य जपति इडा देवहूः इत्यान्तादनुवाकस्य जपित्वा नान्दीमुखाः पितरः प्रीयन्ताम् इत्यपो निनीय ब्राह्मणानुत्थाप्य प्रसाद्य संसाद्य प्रदक्षि-णीकृत्य शेषमनुज्ञाप्य देवतां च विसृज्य दक्षिणेनाग्निं प्रागग्रेषु दर्भेषु नान्दी-मुखेभ्यः पितृभ्यो दद्यात् नान्दीमुखेभ्यः पितृभ्यस्स्वाहा इति संक्षाळनेन प्र-दक्षिणं परिषिच्य ऊर्जं वहन्तीः इति भाविजयाद्यर्थेन कालहोमान् पृषदाज्येन पूर्ववद्धोमं केचिदिच्छन्तीत्युक्तमेतन्नान्दीमुखम् २ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने एकोनविंशोऽध्यायः अथ चतुर्थप्रश्ने विंशोऽध्यायः अथातो ग्रामस्योत्पातशान्तिं व्याख्यास्यामः अग्निदाहे व्याघ्रादिभिरभिभूते सृगालपीडने ग्रामादन्तश्चण्डालाध्यवसिते ग्रामस्य स्थूणावरोहणे मधुन उप-वेशने वल्मीकपुष्करोत्पन्ने देवगात्रस्वेदकम्पने ज्वराभिभूते बहुब्राह्मणमरणे ग्राममध्ये श्मशाने वा दस्युभिश्चापि पीडिते रात्रौ तटाकसेतुभङ्गे जले विवर्णे वा स्वन्तस्थेऽशनिपाते चिरकालशून्यग्रामप्रवेशे तेष्वन्येषु चोत्पातेषु शान्तिं कुर्यात् १ शुभवारे शुभनक्षत्रे शुभलग्ने विष्णोस्स्नापनार्थं महादेवाभिषेकार्थं द्वौ द्वौ ब्राह्मणौ कल्पयित्वा नवग्रहशान्त्यर्थं चतुरो ब्राह्मणांस्तयैव सङ्ख्यया ग्रामशान्तिहोमार्थं कल्पयित्वाऽथ ग्रामशान्तिहोमे ग्रामस्योत्तरपूर्वदेशे देवा-गारे चतुष्पथे वा शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डि-लमुपलिप्य तिलसर्षपलाजैर्गन्धपुष्पाक्षतैरवकीर्य स्थण्डिलं कल्पयित्वा कुम्भस्थापनं कृत्वाऽग्निमुपसमाधाय संपरिस्तीर्याप्रणीताभ्यः कृत्वोपोत्था-याग्रेणाग्निं देवताश्चाबाहयति व्याहृतीभिः यज्ञपुरुषमावाहयामि देवस्य दक्षि-णतो ब्रह्मणमावाहयामि उत्तरतः त्रियम्बकमावाहयामि देवस्याग्ने वास्तुपुरुष-मावाहयामि इन्द्रादिदेवताश्चावाहयामि इत्यावाह्य पुरुषसूक्तेन विष्णुमभ्यर्च्य ब्रह्मसूक्तेन चतुर्मुखं रुद्रसूक्तेन त्रियम्बकं चाभ्यर्च्यान्येषां देवानमावाह-नादिक्रमेण स्वैस्स्वैर्नामभिरभ्यर्च्यापरेणाग्निं प्राङ्मुख उपविश्याग्निमुखात्कृत्वा पक्वाज्जुहोति वास्तोष्पते प्रति जानीह्यस्मान् इति पुरोनुवाक्यामनूच्य वास्तोष्पते शग्मया संसदा ते इति याज्यया जुहोति २ तेनैव मन्त्रेन शमीमयीं समिधमष्टोत्तरसहस्रं जुहुयात् । वास्तोष्पते प्रतरणो न एधि इत्यष्टोत्तरसहस्र-मन्नाहुतीर्जुहुयात् ३ अमविहा वास्तोष्पते इत्यष्टोत्तरसहस्रमाज्याहुतीर्जुहुयात् ४ मृगारेष्टिवत् अंहोमुचे इत्यभिज्ञैः प्रत्यृचमाज्याहुतीर्हुत्वा या वामिन्द्रावरुणा इति द्वादशाहुतीर्हुत्वा पवमानस्सुवर्जनः इत्येतेनानुवाकेन प्रत्यृचमाज्या-हुतीर्हुत्वा पुरुषसूक्तेन ब्रह्मसूक्तेन रुद्रसूक्तेन च प्रत्यृचमाज्याहुतीर्हुत्वा यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्यां अग्निरायुष्मान् इति पञ्चभिः अग्ने नय सुपथा इति षड्भिः योऽस्य कौष्ठ्य इति एष ते निरृते भागः इति इमं मे वरुण तत्त्वा यामि इति द्वाभ्यां समुद्राय त्वा वाताय स्वाहा इति त्रयोदशाहुतीः आप्यायस्व सं ते पयांसि इति द्वाभ्यां ईशानस्सर्वविद्यानाम् इति त्रियम्बकं यजामहे इति प्रत्येकमाज्याहुतीर्हुत्वा आसत्येन इत्यादि केतुं कृण्वन्नकेतवे इत्यन्तं नवग्रहमन्त्रेणाज्याहुतीर्हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ५ अथाग्रेणाग्निं शमीपत्रेषु हुतशेषं निदधाति यो रुद्रो अग्नौ इति ६ अथ देवताभ्यो हविर्निवेदयेत् ७ अथोपतिष्ठते हेतयो नाम स्थ इति ८ यथाक्रमं दिश उपस्थाय पुण्याहं वाचयित्वा उदकुम्भं चान्वारभ्य पञ्चशान्तिं च जपित्वा हुतशेषमाज्यशेषं च पूर्णकुम्भे निक्षिप्य उदुम्बरशाखया शमीशाखया दर्भ-मुष्टिना वा शिवं शिवं शं नो देवीरभिष्टये इति च शाकुनेन सूक्तेन ग्रामं त्रिः प्रदक्षिणं परिषिच्य ब्राह्मणेभ्यो भूरिदक्षिणां दत्वैवं सप्ताहं द्वादशाहं वा कुर्या- त्समस्तोत्पातशान्तिरित्याह भगवान् बोधायनः ९ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने विंशोऽध्यायः अथ चतुर्थप्रश्ने एकविंशोऽध्यायः अथाशनिपाते भूमिं जानुदघ्नमुद्धृत्य अद्भिः प्रोक्ष्य--पत्रावकां च संस्थाप्य ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिम् इति वाचयित्वा खननात्पश्चात् स्थण्डिलं कृत्वा परिधानप्रभृत्यग्निमुखपर्यन्तं कृत्वा शं न इन्द्राग्नी इति त्रिभि-र्मन्त्रैराज्याहुतीर्हुत्वा स प्रत्नथा सहसा जायमानः इति सूक्तेन चरुणा जुहोति १ स्वस्ति नो मिमीताम् इति प्रतिपद्य स्वस्ति नो बृहस्पतिर्दधातु इति स्वस्त्यात्रेयं जपित्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वाचार्याय दक्षिणां ददाति २ चरुं विद्यावन्तं ब्राह्मणं भोजयेत् ३ दग्धभूमिसमं ब्राह्मणाय दद्यात् जीवनागन्धमियदिति स्वर्णं ददातीत्याह भगवान् बोधायनः ४ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्ने एकविंशोऽध्यायः अथाशनिपाते । अथातो ग्रामस्योत्पातशान्तिम् । अथातो नान्दीमुखम् । अथातोऽङ्कुरार्पणविधिम् । अथातस्संप्रवक्ष्यामि । अथातः कपिलसंन्या-सविधिम् । अथ यद्याहिताग्निः । अथ गृहस्थस्यौपासनम् । अथ लौकि-कौपासनग्रहणधारणोपावरोहणविधिम् । अथ यद्यग्निविमोकम् । अथ वै भवति जायमानः । अथ गृहस्थस्तु । कथमु खल्वनाहिताग्नेः । अथ वै भवत्यापः । अथात आचमनविधिम् । अथातश्शौचविधिम् । अथातः काम्यविधिम् । अथ प्रहुतानुकृतिर्धर्मोपभोगविधिम् । अथातो मृतबलिम् । आहुतानुकृतिर्बलिहरणानुकृतिर्धूर्तबलिः । अथातो मिथ्यासत्यबलिम् २१ अथातो मिथ्यासत्यबलिम् । आहुतानुकृतिर्बलिहरणानुकृतिर्धूर्तबलिः । अथातो मृतबलिम् । अथ प्रहुतानुकृतिर्धर्मोपभोगविधिम् । अथातः काम्यविधिम् । अथातश्शौचविधिम् । अथात आचमनविधिम् । अथ वै भवत्यापः । कथमु खल्वनाहिताग्नेः । अथ गृहस्थस्तु । अथ वै भवति जायमानः । अथ यद्यग्निविमोकम् । अथ लौकिकौपासनग्रहणधारणोपा-वरोहणविधिम् । अथ गृहस्थस्यौपासनम् । अथ यद्याहिताग्निः । अथातः कपिलसंन्यासविधिम् । अथातस्संप्रवक्ष्यामि । अथातोऽङ्कुरार्पणविधिम् । अथातो नान्दीमुखम् । अथातो ग्रामस्योत्पातशान्तिम् । अथाशनिपाते २२ इति बोधायनीये गृह्यशेषसूत्रे चतुर्थप्रश्नः समाप्तः अथ पञ्चमप्रश्ने प्रथमोऽध्यायः अथाग्निमुखप्रयोगः १ शुचौ समे देशे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य तत्र प्राङ्मुखस्स्नानादिपञ्चकं कृत्वोपविश्य स्फ्येनोद्धत्यावोक्ष्य पञ्चप्रस्थ-सिकताभिस्स्थण्डिलकरणं व्याहृतीभिर्नियुप्यारत्निमात्रं समचतुरश्रं कृत्वा तस्मिन् प्रादेशमात्रं चतुरश्रं दर्भैः त्रिःप्राचीनमुल्लिखेदङ्गुष्ठानामिकाभ्यां कनि-ष्ठिकया वा ब्रह्म जज्ञानम् इति मध्ये । दक्षिणे नाके सुपर्णम् उत्तरे आप्यायस्व इति त्रिरुदीचीनम् । मध्ये यो रुद्रः इत्यप उपस्पृश्य पश्चिमे इदं विष्णुः प्राच्यां इन्द्रं विश्वा अवीवृधन् इति दर्भं निरस्याप उपस्पृश्याग्नेरासनं कल्पयित्वा यथोक्तमग्निं पत्न्याहृतमङ्गाररूपं व्याहृतीभिर्नियुप्य तत्पात्रेऽक्षतजलं निनयेत् २ अथ प्रोक्षितस्थूलकाष्ठत्रयेण तूष्णीमन्वाधायोपतिष्ठतेऽग्निम् जुष्टो दमूनाः इति ३ अथासनं कल्पयित्वा तृणं निरस्याप उपस्पृश्यात्र वा पूर्वे दक्षिणतः पश्चादुत्तरतोऽथैनं प्रदक्षिणमग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्य दक्षिणानुत्तरा-नुत्तरानधरान् ४ पात्रोत्तरासनं ब्रह्मदक्षिणासनं प्रणीतोत्तरासनं पश्चादात्मासन सर्वं कल्पयित्वा पात्राणि सादयेदाज्यस्थालीं स्रुवं च जुहूं प्रणीतां च चरुस्थालीं प्रोक्षणीं चेध्माबर्हिश्चेध्मप्रव्रश्चनानि मेक्षणं च सादयित्वा दर्भैः प्रतिच्छाद्य शूर्पं कृष्णाजिनं चेत्यत्र दर्वीहोमो विकल्पे ५ अथ बर्हिषः पवित्रे कुरुते प्रादेशमात्रे समे अप्रतिच्छिन्नाग्रे अनखच्छिन्ने तरुणे तूष्णीमद्भिरनुमृज्य कृत्वा प्रोक्षण्यां निधायाप आनीय त्रिरुत्पूयाद्भिः प्रोक्ष्योत्तानानि पात्राणि कृत्वा विस्रस्येध्मं त्रिः प्रोक्ष्य ब्राह्मणमिष्टिवद्दक्षिणत उपवेश्य ॐ भूर्भुवस्सुवर्ब्रह्मन् ब्रह्मासि नमस्ते ब्रह्मन् ब्रह्मणे इति ब्राह्मणमुपतिष्ठत आदिशो व्युन्नयनादास्ते ६ यद्वा कूर्चमुपवेश्याभ्यर्च्य प्रणीतायां सपवित्रायां वरुणं पूजयित्वा सह पवित्रेण नासिकासममुत्थाप्योत्तरतस्सादयन्ति भूर्भुवस्सुवरॐ वरुणोसि घृतव्रतो वारु-णमसि इति तमभ्यर्च्य दर्भैः प्रतिच्छाद्याथ व्रीहीन्निर्वपति अमुष्मै वो जुष्टं निर्वपामि इति वा तूष्णीं वा । एवं त्रिस्सकृत्तूष्णीम् ७ तथा तान-भ्युक्ष्यावहत्य त्रिष्फलीकृत्य त्रिःप्रक्षाळ्य निदधाति । तण्डुलान्वा निर्वपति । तानभ्युक्ष्य त्रिः प्रक्षाळयैवं निदधाति । स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं तण्डुलानावपति ८ अथ पक्वमोदनं पायसं वा याचति ९ तमभ्युक्ष्य स्रुवेण प्रणीताजलं निनयति १० अग्नावधिश्रित्याथाज्यस्थाल्या-माज्यं निरूप्योदीचोऽङ्गारान्निरूह्य व्यन्तान् कृत्वा तेष्वधिश्रित्याभिद्योतने-नाभिद्योत्य द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाळ्य प्रत्यस्य पुनरभिद्योत्योभयं त्रिः पर्यग्नि कृत्वा वर्त्म कुर्वन्नुदगुद्वास्य प्रत्यूह्याङ्गारानथैनदुदीचीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय विस्रस्य पवित्र अद्भिस्संस्पृश्याग्नावनुप्रहरति ११ अथ स्रुवं जुहूं मेक्षणं च संमृज्य त्रिरन्तरतस्त्रिर्बाह्यतस्तथा मूलैर्मूलं संमृज्याद्भिस्सं-स्पृश्य पुनर्निष्टप्य निदधाति क्रमेण १२ अथ दर्भानद्भिस्संस्पृश्याग्नावनुप्रहरति १३ पश्चादग्नेर्बर्हिस्तीर्त्वा तत्राज्यं निदधाति चरुमभिचार्योदञ्चमुद्वास्य बर्हि-ष्यासाद्य प्रतिष्ठितमभिघारयति १४ स्थविष्टो मध्यमो द्राघीयान् दक्षिण-तोऽणिष्ठो ह्रसिष्ठ उत्तरत ऊर्ध्वे समिधावादधाति १५ अथाग्निं परिषिञ्चति अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्व इत्युत्तरतः प्राचीनं देव सवितः प्रसुव इति समन्तं प्रदक्षिणम् । समन्तमेव वा तूष्णीं परिषिञ्चति १६ अथाग्निमैन्द्रादिक्रमेणाभ्यर्च्य परिसमिधं शिनष्टि । ब्राह्मणेनानुज्ञातस्स्वाहाकारेणाभ्याधायानूयाजसमिध-मिध्मसंनहनं प्रणीतापात्र निधायाघारावाघारयति प्रजापतये स्वाहा इति मन-सोत्तरे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम् । इन्द्राय स्वाहा इत्युपांशु दक्षिणे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम् १७ अथाज्यभागौ जुहोति अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे १८ प्रतिमुखं प्रबाहुग्जुहोति सोमाय स्वाहा इति दक्षिणा-र्धपूर्वार्धेऽथाग्निमुखं जुहोति युक्तः चतस्रः आरभ्य व्याहृत्यन्तं हुत्वाऽथ चरु-प्रायश्चित्तं हुत्वा चरुमभिघार्याथाव्रत्यप्रायश्चित्तं कृत्वा स्रुवेण जुह्वामुपस्तीर्य मेक्षणेन चरुमालोड्य पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति पुरस्तात् स्रुवाहुतिं हुत्वा यथोक्तं पक्वाज्जुहोत्युपरिष्टात् स्रुवाहुतिं च १९ अथोपस्तीर्योत्तरार्धात् स्विष्टकृत्सकृदवद्यति द्विरभिघारयति न इत्यनक्त्य-न्तःपरिधि सह मेक्षणेन सादयित्वा यथोक्तमाज्याहुतीर्जुहोति २० अथ पुरस्तात्स्रुवाहुतिं स्विष्टकृतमुपरिष्टात् स्रुवाहुतिं च हुत्वाऽप उपस्पृश्य मेक्षणमग्नौ प्रहृत्याथैनत्संस्रावेणाभिजुहोति स्रुक्स्रुवाभ्याम् २१ जुहूसङ्क्षाळ-नमन्तःपरिधि निनयति २२ निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वा बहिःपरिधि निनयति २३ स्थालीपाकेऽन्तःपरिधि वहिःपरिधि समन्त्रकम् २४ अथानूया-जसभिधमाधायेध्मसंहनमद्भिस्संस्पृश्याग्नावनुप्रहरति २५ अथ जयानभ्या-तानान् राष्ट्रभृतोऽमात्यहोमांश्च हुत्वाऽथ चतुर्गृहीतेन स्त्रुवेण वा प्राजापत्यं हुत्वा इध्मप्रव्रश्चनान्यभ्याधाय प्रायश्चित्तानि सौविष्टकृतं च हुत्वा स्त्रुवेण परिधी-ननक्ति २६ अथ परिस्तरांत्समुल्लिप्याज्यस्थाल्यां प्रस्तरवद्बर्हिरक्त्वा तृणं प्रच्छाद्याग्नावनुप्रहरति २७ अप उपस्पृश्य तृणं च मध्यमं परिधिमनुप्रहरति २८ अथेतरावुपसमस्यत्यूर्ध्वसमिधौ च २९ अथैनान् संस्रावेणाभिजुहोति वसुभ्यः इति ३० अत्र बलिं प्राशनं चान्यत्रोपनयनादन्यानि तत्तदुक्तकर्माणि ३१ अथाग्निं परिषिञ्चति अन्वमँस्थाः प्रासावीः इति ३२ वरुणमुद्वास्य बर्हिषि दिशो व्युन्नीय प्राच्याम् इत्यादिना स्वयं च प्रोक्ष्य ब्रह्मणे वरं दत्वा चरुशेषं सघृतं वा ब्रह्माणं विसृजति ३३ स्थालीपाकनक्षत्रहोमायुष्यहोमादिषु प्राशनमुक्तम् ३४ पञ्चावत्तिनां पञ्चावदानं मध्यात् पूर्वार्धादपरार्धादवद्यति ३५ स्विष्टकृत उत्तरार्धात् द्विरवद्यति ३६ शेषं पूर्ववत् ३७ अथ बहुदेवत्ये द्वितीयमवदानमपरार्धादवदाय पूर्वार्धादवद्यति । सर्वमेवमाऽन्तात् ३८ अथ स्विष्टकृत उपस्तीर्य यावती देवतासङ्ख्या तावदवदानं सकृत्सकृत् । शेषं समानम् ३९ तथा मध्यादपरार्धात्पूर्वार्धादवद्यति ४० स्विष्टकृतो द्विर्द्विर- वद्यति । शेषं समानं भवति ४१ सर्वन्यायं ज्ञात्वाचार्यमुखेन कुर्यात् ४२ इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने प्रथमोऽध्यायः अथ पञ्चमप्रश्ने द्वितीयोऽध्यायः अथ विवाह्यकन्यारजस्वलाप्रायश्चित्तादिविधिं व्याख्यास्यामः विवाहे वितते यज्ञे होमकाल उपस्थिते कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः १ यजः पवित्रैस्सावित्र्या प्रोक्षयेत्पूतवारिभिः अनेन चानुवाकेन पवमानस्सुवादिना २ स्रापयित्वाऽथ विद्वद्भिरन्यवस्त्रादलङ्कृताम् पूर्णाहुत्यथ मिन्दाभ्यां महाव्याहृतिभिस्सह ३ हुत्वा तन्तुमतीं चैव व्याहृतीभिस्तथैव च अनाज्ञातं च विद्वद्भिश्शेषं कार्यं समाचरेत् ४ प्रधानहोमे निर्वृत्ते मलवद्वाससी भवेत् त्रियहे पर्यवेतेऽथ शेषकार्यं समाचरेत् ५ लाजमाज्यं स्रुवं चैव प्रणीताश्मानमेव च सर्वमभ्यन्तरं कृत्वा ब्रह्मैवैको बहिर्भवेत् ६ दक्षिणां दिशमाश्रित्य यमो मृत्युश्च तिष्ठति दम्पत्यो रक्षणार्थाय ब्रह्मैवैको बहिर्भवेत् ७ अङ्गुळ्यग्रैर्न होतव्यं न कृत्वाऽञ्जलिभेदनम् दञ्जलेर्वामभागेन लाजहोम इति स्मृतः ८ आद्यं प्रदक्षिणं कुर्याद्ब्रह्मणा सह मानवः प्रदक्षिणत्रयं पश्चाद्विना तमिति केचन ९ नामादिनान्दीकरणमाशिषं द्विजभोजनम् रक्षाबन्धनमन्नादि चौळाद्यङ्कुरमेव च १० गर्भवर्जोत्सवात्पूर्वमयुगेऽह्न्यङ्कुरार्पणम् प्रदोषे वाऽथ सायाह्ने गुणाधिक्यऽह्नि वेष्यते ११ आधानगर्भसंस्कारजातकर्माणि नाम च हित्वाऽन्यत्र विधातव्यं मङ्गळाङ्कुरवापनम् १२ पुंसि नामान्नचौळोपस्नानपाणिग्रहेषु च अग्न्याधाने च सोमे च दशस्वभ्युदयं स्मृतम् १३ आधाने सोमयागे च दम्पत्योरुभयोरपि सीमन्ते पुंसवे गर्भे स्त्रिया एव तु कौतुकम् १४ इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने द्वितीयोऽध्यायः अथ पञ्चमप्रश्ने तृतीयोऽध्यायः अथ ऋतुशान्तिं व्याख्यास्यामः तिथिवारनक्षत्रयोगकरणलग्नदोषशान्त्यर्थं चतुर्थे वा पञ्चमेऽह्नि वा शान्तिस्नानं प्रकुर्वीत १ देवालये गृहे वा प्रस्था-ष्टभिर्धान्यैस्तदर्धं तण्डुलैस्तदर्धं तिलैश्चोपर्युपरि चतुरश्रमरत्निमात्रं चतुरश्रं स्थण्डिलं कृत्वा तन्मध्ये नळिनमुल्लिख्य तस्मिन् तन्तुवेष्टितं कुम्भं निधाय तूष्णीं संस्कृताभिरद्भिः प्रोक्ष्य ब्रह्म जज्ञानम् इति कुम्भं निधाय सपवित्रेण आपो वा इदं सर्वम् इत्येतेनानुवाकेन अब्लिङ्गाभिश्च कुम्भमुदकैः पूरयित्वा गन्धादिभिरलङ्कृत्य कूर्चमन्तर्धाय गजाश्वरथवल्मीकमृदमाहृत्य गोकुलात् चतुष्पथाद्राजगृहात्तुलसीबिल्वमूलयोः २ देवालयात्पर्वताद्वा गृह्णीयात्पञ्च मृत्तिकाः पालाशोदुम्बराश्वत्थवटप्लक्षकयाज्ञिषु ३ जम्बूबिल्वकपित्थाम्रशिरीषेषु च पल्लवान् तेषां त्वचश्च पञ्चैव गृह्णीयात्संभवेषु वै ४ इत्युक्तरीत्या पञ्च मृत्तिकाः पञ्च पल्लवान् पञ्च त्वचश्च निक्षिप्य नवरत्नमीष- त्काञ्चनं नववस्त्रेणाच्छाद्य चूतपल्लवैर्बिल्वपल्लवैर्वाऽवकीर्य नाळिकेरफ-लेनापिधाय दर्भैर्दूर्वादिना प्रतिच्छाद्यालङ्कृत्य संपरिस्तीर्य पुरुषं पुण्डरीकाक्षं ध्यात्वा कुम्भं संपूज्य श्रोत्रियान् विप्रान् षडष्टौ वा वरणपूर्वकमभ्यर्च्याचार्यं चाभ्यर्चयेत् ५ त ऋत्विजः कुम्भमन्वारभ्य वैष्णवीं गायत्रीमष्टसहस्रमष्टशतं वा वदन्तो वेदादीन् आपो हिष्ठा मयोभुवः इति तिस्रः हिरण्यवर्णाः पवमानः इत्यनुवाकौ वरुणसूक्तं श्रीसूक्तं पुरुषसूक्तं पञ्चशान्तिम् ऋचां प्राची इत्येतम-नुवाकं च जपेयुः । नमो ब्रह्मण इति परिधानायां त्रिरन्वाह इति ब्राह्मणम् ६ प्रणवेनोत्थाप्य आभिर्गीर्भिः इति जपेयुः ७ अथालङ्कृतामङ्कण उरुविष्टर आसीनां देवस्य त्वा इति त्रिभिः प्रोक्ष्य ऋतं च सत्यं च इति त्रिभिर्मन्त्रैः ऋत्विजः स्नापयेयुः ८ ततो नारीं पञ्चगव्यं प्राशयेत् ९ गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि तथा शुक्रमसीत्याज्यं देवस्य त्वा कुशोदकम् इति पञ्चगव्यम् १० अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रमुपलिप्य लौकिकमग्निं श्रोत्रियागारादाहृत्य स्वगृह्योक्तविधानेनाऽग्निमुखात् कृत्वा पालाशसमिद्भि-रष्टोत्तरशतं विष्णुसूक्तेन जुहुयात् ११ तथा ब्रह्मसूक्तेनान्नं रुद्रसूक्तेनाज्यम् १२ एतानि सूक्तान्यष्टादशकृत्वः प्रत्येकमावर्तयेत्तदानीं अष्टोत्तरशतं संपद्यते १३ अथर्तुनक्षत्रस्य समिदन्नाज्याहुतीः प्रत्येकमष्टाविंशतिकृत्वः तन्मन्त्रेण जुहुयात् १४ मन्त्रौ चतुर्दशकृत्व आवर्तयेत् १५ अथ त्रियम्बकेन तिलहोममष्टोत्तरशतं जुहुयात् १६ अथाज्याहुतीर्घृतसूक्तेनाष्टौ जुहुयात् १७ स्विष्टकृत्प्रभृति सिद्ध-माधेनुवरप्रदानात् १८ अथ ऋत्विग्भ्यो दक्षिणां ददात्याचार्याय विशेषतः १९ एवं यदि शान्तिं कुर्यात्ततो नारी दोषान्मुच्यते सर्वारिष्टशान्तिरस्त्वित्याह भगवान् बोधायनः २० इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने तृतीयोऽध्यायः अथ पञ्चमप्रश्ने चतुर्थोऽध्यायः अथातो मृत्तिकास्नानविधिं व्याख्यास्यामः ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजको वा अश्वक्रान्ते सहस्रपरमा देवी इति भूमिं दूर्वाभिरभिमन्त्र्य उद्धृताऽसि इति नदीतटे लोष्टमादाय काण्डात्काण्डात्प्ररोहन्ती इति द्वाभ्यां दूर्वामादाय मृत्तिके हन मे पापम् इति दूर्वा लोष्टे प्रतिष्ठाप्य यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः स्वस्ति न इन्द्रो वृद्धश्रवाः त्रातारमिन्द्रम् आपान्तमन्युः परं मृत्यो अनु परेहि इति षड्भिः प्रतिमन्त्रं प्रदक्षिणं प्रतिदिशं लोष्टमुत्सृज्य गन्धद्वाराम् इति लोष्टमादाय उदुत्यं जातवेदसम् इति लोष्टमादित्यं दर्शयित्वा श्रीर्मे भजत्वलक्ष्मीर्मे नश्यतु इति शिरः प्रदक्षिणीकृत्य सहस्रशीर्षा इति शिर आलिप्य विष्णुमुखाः इति मुखम् ओजो ग्रीवाभिः इति ग्रीवां महाँ इन्द्रो वज्रबाहुः इति बाहू सोमानँ स्वरणम् इति कक्षः शरीरं यज्ञशमलम् इति शरीरं नाभिर्मे चित्तम् इति नामिं आपान्तमन्युः इति कटिम् विष्णो रराटमासि इति पृष्ठम् वरुणस्य स्कम्भनमसि इति मेढ्रम् आनन्दनन्दौ इत्यण्डौ उरुवोरोजः इत्यूरू ऊरू अरत्नी इति जानुनी जङ्घाभ्याम् इति जङ्घयोः चरणं पवित्रम् इति चरणौ इदं विष्णुः त्रीणि पदा इति द्वाभ्यां पादौ सजोषा इन्द्र इति शेषं दूर्वासहितं लोष्टं शिरसि निधाय हिरण्यशृङ्गम् इति तीर्थं गत्वा सुमित्रा न आप ओषधयस्सन्तु इत्यात्मानमभिषिञ्चेत् । उदकाञ्जलिमादाय लोष्टदेशे निनीय दुर्मित्रास्तस्मै भूयासुः इति प्रथमं योऽस्मान् द्वेष्टि इति द्वितीयं यं च वयं द्विष्मः इति तृतीयम् । हिरण्यशृङ्गम् इति चतुर्थं आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाः इति चतसृभिः पवमानस्सुवर्जनः इत्यनुवाकेन च मार्जयित्वा नमोऽग्नयेऽप्सुमते इति नमस्कृत्य यदपां क्रूरम् इत्यद्भिः त्रिरावृत्य इमं मे गङ्गे इत्यभिमन्त्र्य ऋतं च सत्यं च इत्यघमर्षणसूक्तेनापोऽवगाह्य एष भूतस्य इति मार्जयित्वा आर्द्रं ज्वलति इति पीत्वा अकार्यकारी इति पुनरवगाह्य देवानृषीन् पितॄन् तर्पयित्वा येकेचास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः । ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । इति वस्त्रं निष्पीड्य शुची वो हव्या इति वस्त्रं प्रोक्ष्य देवस्य त्वा इति वस्त्रमादाय अवधूतम् इत्यवधूय उदुत्यं चित्रम् इति वस्त्रमादित्यं दर्शयित्वा आवहन्ती वितन्वाना इति वासः परिधाय द्विराचम्योत्क्रामन्तु भूतप्रेतपिशाचाद्यास्सर्वे ते भूमिभारकाः । सर्वेषामवि-रोधेन ब्रह्मकर्म समारभे । इति दर्भासनं प्रतिष्ठाप्योप्य त्रिः प्राणानायम्या-ष्टोत्तरशतं गायत्रीं जपेत् २ ब्राह्मणः पूतो भवति ३ ब्रह्महत्यागोवधगुरु-तल्पसुगपानसुवर्णस्तेयादिसर्वपापप्रणाशनमिति विज्ञायते ४ हित्वा तद्देहं जनार्दनं प्रपद्यत इत्याह भगवान् बोधायनः ५ इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने चतुर्थोऽध्यायः अथ पञ्चमप्रश्ने पञ्चमोऽध्यायः अथातोऽर्कोद्वाहं व्याख्यास्यामः मूकान्धबधिरादीनां जडानां च तृतीयवि-वाहिनां च १ पूर्वपक्षे पुण्ये नक्षत्रे पूर्वाह्ने ब्रह्मसमूहे ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रैको बालोऽर्को भवति तस्योत्तरत उपलिप्य स्वयं स्नात्वाऽर्कं च स्नापयित्वा पादौ प्रक्षाळ्याचम्यालङ्कृत्य तन्त्रेण नान्दीमुखं कृत्वा स्वस्तिसूक्तं वाचयित्वा यत्किंचिद्धिरण्यं गृहीत्वा आसत्येन इति जपित्वा ब्राह्मणेभ्यो दत्वाऽलङ्कृत्यार्कं स्पृष्ट्वाऽऽदित्यमुपतिष्ठते सूर्यो देवीम् इति पञ्चभिः २ अथ वस्त्रं माङ्गल्यसूत्रं चार्के बध्वा पुण्याहं स्वस्ति ऋद्धिम् इति वाचयेदादित्योत्र देवता ३ पूर्वोक्तविधिनाऽग्निमुखमुपसमाधाय संपरि-स्तीर्याज्यं संस्कृत्य स्रुक्स्रुवं संमृज्यादित्यं ध्यायन्नर्कं गृह्णाति हस्तः प्रय-च्छत्वमृतम् इति ४ अथाग्निं प्रदक्षिणं करोति परि त्वाऽग्ने पुरं वयम् इति ५ अथार्कमूलं स्पृष्ट्वाऽऽदित्यभीक्षते अभीवृतं शकुनैर्विश्वरूपम् इति ६ अथ व्याहृतीर्हुत्वा स्रुचि चतुर्गृहीतं गृहीत्वा जुहोति उद्वयं तमसस्परि उदुत्यं चित्रम् इति ७ अपरं चतुर्गृहीतं गृहीत्वा मनस्वतीं जुहोति मनो ज्योतिः इति ८ अपरं चतुर्गृहीतं गृहीत्वा लाजमन्त्रेण द्विरावर्त्य जुहोति ९ अथ स्रुवेण व्याहृतीर्हुत्वा समाप्यादित्यं व्रतऋग्भ्यामुपतिष्ठते अदाभ्यो भुवनानि प्रचा-कशत् त्रिरन्तरिक्षं सविता महित्वना इति द्वाभ्याम् १० अथ गोक्षीरमर्कं स्पृष्टा आयुष्यसूक्तमुक्त्वा प्राश्याचम्य पुनरादित्यमुपतिष्ठते अचित्ती यच्चकृम इति ११ अथार्काधिदैवतमुद्वास्यार्कमुत्पाट्य व्याहृतीभिरग्नौ दग्ध्वा स्नात्वा यत्किञ्चिद्दत्वा शुद्धो भवति १२ सद्य एवं कदळीविवाहं कुर्यात् १३ कदळीं छित्वा त्रिरात्रमशुचिर्भवति १४ अथाप्युदाहरन्ति अर्कोद्वाहो जडादीनामुच्यते तु यवीयसः विवाहार्थं मुनिश्रेष्ठैः तमुत्पाट्य दहेत्तदा व्याहृतीभिस्तदा दत्वा यथाशक्ति हिरण्यकम् स्नात्वा सद्यश्शुचिर्भूयादुद्वाहे च तृतीयके तृतीया स्त्री म्रियेच्छीघ्रं तस्मादेवं चरेद्बुधः रम्भोद्वाहं तथा कुर्याच्छित्वा तत्रैव मानवः त्रिरात्रं सूतकं भूयादिति बोधायनोऽब्रवीत् १५ इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने पञ्चमोऽध्यायः अथ पञ्चमप्रश्ने षष्ठोऽध्यायः अथातः पञ्चमीश्राद्धं व्याख्यास्यामः मार्गशीर्ष्यां माध्यां प्रोष्ठपद्यां वोपरि-ष्टात्पञ्चम्यामारभ्य संवत्सरं वा कुर्यात् १ पूर्वदिने व्रती भूयात् इदं करिष्याम्येवं करिष्यामि इति २ ब्राह्मणान्निमन्त्रयते योनिगोत्रश्रुतवृत्तसम्पन्नान् ३ असब-न्धानपि श्रुतवृत्तसम्पन्नान्निमन्त्रयते ४ तस्य मासि श्राद्ध उक्त एतावदेव नाना ५ पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोति आयुष्टे आयुर्दा अग्ने जातो यदग्ने अन्नपतेऽन्नस्य नो देहि इति चतस्रः ६ विष्णुसूक्तेन चान्नस्य जुहोति ७ अथ लाजैर्जुहोति पुरुषसूक्तेन प्रत्यृचम् ८ अथ तिलैर्जुहोति शं नो देवीः प्रजापते इमं यम प्रस्तरम् व्याहृतीभिश्च ९ अथाज्यस्य जुहोति अग्न आयूंषि पवसे अग्ने पवस्व यस्त्वा हृदा कीरिणा इति चतस्रः धाता ददातु नो रयिमीशानः इत्या-न्तादनुवाकस्य प्रत्यृचम् अव ते हेडः उदुत्तमम् इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि उद्वयं तमसस्परि उदुत्यं चित्रं वैश्वानरो न ऊत्या पृष्टो दिवि सोमो धेनुम् इति दशहोत्राद्यैष्षड्भिः ब्राह्मण एकहोता इति दशभिः । स्विष्टकृत्प्रभृति सिद्धमापिण्डदानात् १० दक्षिणेनाग्निं दक्षि-णाग्रान् दर्भान् संस्तीर्य तेष्वन्नशेषैस्त्रीन् पिण्डान् ददाति ११ दशमेऽहनि वैवाहिकश्राद्धवत् भूमौ लेपमन्त्रत्रयान्तं कृत्वाऽथैनान् संक्षाळनेन त्रिरपसलैः परिषिञ्चति ऊर्जं वहन्तीः इति १२ अथ मध्यमपिण्डं पत्न्यै प्रयच्छति वीरं मे दत्त पितरः इति १३ तं पत्नी प्राश्नाति आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषो हसत् इति पुमांस एव मे पुत्रा जायेरम् इति ब्राह्मणम् १४ जयप्रभृति सिद्धमाधेनुवरप्रदानात् १५ यदि जीवपिता पिण्डं न दद्यात् पितृभ्यस्स्वधा इति मन्त्रान् सन्नमय्य प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य चतुष्पथे दर्भस्तम्बेषु बलिमुपहरति १६ नमस्त्रियै नमः पुंसे नमस्सवयसे नमः शुक्लाय कृष्णदन्ताय पापिनां पतये नमः १७ ये मे प्रजामुपलोपयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमो अस्तु बलिमेतेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे दध इति १८ सह देवमनुष्या अस्मिन् लोके पुरा बभूवुरथ देवाः कर्मभिर्दिवं जग्मुरहीय- न्त मनुष्यास्तेषां ये तथा कर्माण्यारभन्ते सह देवैर्ब्रह्मणा चामुष्मिन् लोके भवन्त्यथैतन्मनुश्श्राद्धशब्दं कर्म प्रोवाच प्रजानिश्श्रेयसाय इति पञ्चम्यां श्राद्धेन बह्वयत्यो भवति । न चानपत्यः प्रमीयते । श्राद्धेन वार्षयो दिवमागच्छन् इति १९ विज्ञायते च प्रजामनुप्रजायसे । तदु ते मर्त्यामृतम् इति २० तस्मिन्प्रजापतौ यत्नः कार्यः । अत्रोदाहरन्ति २१ परानपहरेद्यस्तु बालवृक्षान् छिनत्ति यः भक्षयन्दण्डिशिशुकान्गुरून्वा सर्वदा द्विषन् २२ परपुत्रांश्च यो द्वेष्टि क्रीडन् बद्धमृगादिभिः निर्दयस्सर्वभूतेषु पितृपूजां विलोपयन् २३ स वध्यो मृतपुत्रो वा भवेत्तेषां तु निष्कृतिः मौनी व्रती हविष्याशी हूयते नियतेन्द्रियः २४ जुह्वा घृतेन कूश्माण्डैर्गणानष्टौ घृतोदनैः जपन् वा पौरुषं सूक्तं हेमगोभूतिलान् ददत् २५ कृच्छ्रातिकृच्छ्रैः जपकृन्मुच्यते सोऽहसः क्षणात् इत्याह भगवान् बोधायनः २६ इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने षष्ठोऽध्यायः अथ पञ्चमप्रश्ने सप्तमोऽध्यायः अथातो वनस्पतिहोमं व्याख्यास्यामः क्रमुकपनसनाळिकेरकदळीष्वन्यस्मिन् पक्वे ब्राह्मणैर्बन्धुभिस्सहागत्य यजमानः क्रमुकादिवृक्षमध्ये अथ देवयजनो-ल्लेखनप्रभृत्याऽग्निमुखात्कृत्वाऽग्नेर्दक्षिणतो व्रीहीनवकीर्य मेधां म इन्द्रः इति श्रीदेवीं सरस्वतीमावाह्य प्रागाद्यष्टदिक्पालानावाह्य चतुरः प्रतिदिशं क्रमुका-दिवृक्षानर्चयित्वा चतस्र ओषधीस्तेषां पार्श्वे निधाय उच्छ्रयस्व वनस्पते इति गोमयं क्रमुकमूले निधाय लाजैः पुष्पैरक्षतैस्संप्रकीर्य पूर्णपात्रं निधाय क्षेत्रस्य पते इति क्षेत्रमभ्यर्च्य या जाता ओषधयः या ते धामानि या ओषधयस्सोमराज्ञीः शतं वो अम्ब अश्रवं हि भूरिदावत्तरावाम् इति वनस्पतिभ्यस्स्वाहा इत्ये-तेनानुवाकेन हविराज्यचरून् हुत्वा जयादि प्रतिपद्यते । परिषेचनान्तं कृत्वा ब्राह्मणान् भोजयित्वा दक्षिणाभिस्संपूज्य स्वस्तिसूक्तेनाध्वर्युराशिषो वाच- यित्वाऽऽचार्याय दक्षिणां ददातीत्याह भगवान् बोधायनः १ इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने सप्तमोऽध्यायः अथ पञ्चमप्रश्ने अष्टमोऽध्यायः अथात उग्ररथशान्तिविधिं व्याख्यास्यामः ब्राह्मणराजन्यवैश्यानां जन्मदि-नादारभ्य षष्टितमसंवत्सरे जन्ममासे जन्मनक्षत्रे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा तस्याग्नेयदिग्भागे निष्कद्वयेन मृत्युप्रतिमां कृत्वा धान्याना-मुपरि यथाविधि कलशस्थापनं कृत्वा कलशस्योपरि प्रतिमां पूजयेत् अपैतु मृत्युः परं मृत्यो मा नस्तोके त्रियम्बकम् इत्यष्टोत्तरशतवारं जपित्वाऽथ देव-यजनोल्लेखनप्रभृत्याग्निमुखान्तं कृत्वा पक्वाज्जुहोति द्विरवदानम् मा नो महान्तम् इति पुरोनुवाक्यामनूच्य मा नस्तोके इति याज्यया जुहोति १ अथाज्याहुतीरुपजुहोति घृतसूक्तेन प्रत्यृचम् २ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ३ अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति ४ अपरेणाग्निं प्राङ्मुख उपविश्य मृत्युसुक्तपुराणयन्त्रैः कलशोदकेनात्मानमभिषिच्याचार्यं सं-पूज्य ऋत्विग्भ्यो यथाशक्ति दक्षिणां दत्वा ब्राह्मणान् भोजयेदित्याह भगवान् बोधायनः ५ इति बोधायनीये गृह्यशेषसूत्रे पञ्चमप्रश्ने अष्टमोऽध्यायः अथात उग्ररथशान्तिविधिम् । अथातो वनस्पतिहोमम् । अथातः पञ्चमी-श्राद्धम् । अथातोऽर्कोद्वाहम् । अथातो मृत्तिकास्नानविधिम् । अथर्तुशान्तिम् । अथ विवाह्यकन्या । अथाग्निमुखप्रयोगः ८ अथाग्निमुखप्रयोगः । अथ विवाह्यकन्या । अथर्तुशान्तिम् । अथातो मृत्तिकास्नानम् । अथा-तोऽर्कोद्वाहम् । अथातः पञ्चमीश्राधम् । अथातो वनस्पतिहोमम् । अथात उग्ररथशान्तिविधिम् ९ इति बोधायनीयगृह्यशेषसूत्रे पञ्चमप्रश्नः इति बोधायनीयगृह्यशेषसूत्रं समाप्तम्