अथ श्री गायत्री अष्टकम् उषः कालगम्यामुदात्तस्वरूपां अकारप्रविष्टामुदाराङ्गभूषाम् अजेशादिवंद्यामजार्चाङ्गभाजां अनौपम्यरूपां भजाम्यादिसंध्याम् १ सदाहंसयानां स्फुरद्रत्नवस्त्रां वराभीति हस्तां खगाम्नायरूपाम् स्फुरत्साधिकामक्षमालां च कुंभं दधानामहं भावये पूर्वसंध्याम् २ स्फुरच्चन्द्रकान्तां शरच्चन्द्रवक्त्रां महाचन्द्रकान्ताद्रिपीनस्तनाढ्याम् त्रिशूलाक्षहस्तां त्रिनेत्रस्य पत्नीं वृषारूढपादां भजे मध्यसंध्याम् ३ सदासामगानप्रियां श्यामलाङ्गीं अकारान्तरस्थां करोल्लासिचक्राम् गणापद्महस्तां स्वनत्पाञ्चजन्यां खगेशोपविष्टां भजेमास्तसंध्याम् ४ प्रगल्भस्वरूपां स्फुरत्कंकणाढ्यां सदालम्बमानस्तनप्रान्तहाराम् महानीलरत्नप्रभाकुण्डलाढ्यां स्फुरत्स्मेरवक्त्रां भजे तुर्यसंध्याम् ५ हृदं भोजमध्ये पराम्नाय नीडे सुखासीनसद्राजहंसां मनोज्ञाम् सदा हेमभासां त्रयीविद्यमध्यां भजामस्तु वामो वदाम स्मरामः ६ सदा तत्पदैस्तूयमानां सवित्रीं वरेण्यां महाभर्गरूपां त्रिनेत्राम् सदा देवदेवादिदेवस्य पत्नीं महन्धीमहीत्यादिपादैकजुष्टाम् ७ अनाथं दरिद्रं दुराचारयुक्तं शतं स्थूलबुद्धिं परं धर्महीनं त्रिसंध्यां जपध्यानहीनं महेशि प्रसन्नं च मां पालयत्वं कृपार्हम् ८ इतीदं भुजङ्गं पठेद्यस्तु भक्त्या समादाय चित्ते सदा तां पराञ्चाम् त्रिसंध्यस्वरूपां त्रिलोकैकवन्द्यां समुक्तो भवेत्सर्वपापैरजस्रम् ९