अथ श्रीजैमिनिमुनिप्रणीतः सङ्कर्षकाण्डः प्रथमाध्याये प्रथमः पादः अनुयजतीत्यनुवषट्कारश्चोद्यते १ स द्रोणकलशात् इज्येत सर्वार्थत्वात् यथाऽऽज्यार्था ध्रुवायाः २ विभक्तानि हवींषि तथा कर्माणि कर्मसंयोगात्पुन-रिज्या ३ लिङ्गदर्शनाच्च ४ तन्त्रं प्रदानमेकदेवतत्वाद्यथा दर्शपूर्णमासयोः ५ एककालं तु न भवत्येवेदं कालपृथक्त्वात् ६ सवनभेदाच्च ७ अनु-शब्दार्थवत्त्वाच्च ८ आवृत्तिं च दर्शयति ९ एतेन भक्षाश्च व्याख्याताः १० शामित्रं तीर्त्वोत्सृजेदिति कार्ष्णाजिनिः तन्त्रमध्रिगुः पर्यग्निकृतानिति चोद्यते ११ अनन्तरं वा पर्यग्निकरणात् किं प्रत्यक्षां श्रुतिमतिक्रामेद्यथा न प्रयाजा इज्यन्त इति नैकदेशप्रतिषेधः १२ अग्निं चित्वा सौत्रामण्या यजेतेति तत्सं-योगेन चोदनात् १३ चयनाङ्गं वा तत्संयोगेन चोदनात् १४ क्रत्वङ्गं वा चित्वेत्यङ्गे नोपपद्यते यथैता एव निर्वपेदीजान इति १५ सा तदपवर्गे क्रियेत यथा संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपतीति १६ अग्निं चित्वा तिसृधन्व-मयाचितं ब्राह्मणाय दद्यात् इत्येतेन व्याख्यातम् १७ चयनाङ्गं वाऽवि-प्रतिषेधात् अङ्गदक्षिणा च रथन्तरे वरं ददाति इति १८ अर्थवादसामर्थ्याच्च १९ योऽग्निं चिनुयात् तं दक्षिणाभी राधयेदित्येतेन व्याख्यानम् २० क्रत्वङ्गं वा प्रयोगश्रुतिसंयोगात् २१ गुणचोदना वा प्रीत्याचिख्यासा २२ उल्मुकहरणे रक्षोपहननं श्रूयते तत्प्राजापत्येष्वावर्तेत तत्कालपृथक्त्वात् २३ श्रपणार्थं तु हरणं प्रातस्सवने पुनस्साधारणं कर्म कृतम् २४ एतेने वपाया अग्रतःप्रत्याहरणं व्याख्यातं अविप्रतिषिद्धो हि तस्मिन् श्रपणार्थः २५ अभितो वपां जुहोतीति देशवादो यथा अभितो वृक्षं निधेहीति २६ कर्मवादो वा प्रकरणात् २७ लिङ्गदर्शनाच्च २८ अभितः पुरोडाशमाहुती जुहोतीत्येतेन व्याख्यातम् २९ हविष्कृदेहीत्यध्वर्युरुच्यते प्रकरणात् ३० वाग्वा श्रुतिसंयोगात् ३१ पत्नी वा विधानात् ३२ यःकश्चिद्वा निर्वचनात् ३३ एतेषां वा वाक्यसन्निधानात् ३४ सर्वकर्मणां दैवी हविष्कृदेहीति अविशेषेण श्रूयते ३५ अवहननार्थं वा यथा पत्नी तुल्या श्रूयते ३६ अर्थवादमात्रं वा वाचो हविष्कृत्त्वं यथाऽध्निओ!र्बाहुभ्यां निर्वपामीति ३७ मनुष्याः शमितारो वाक्यसन्निधानात् ३८ ऋत्विजो वा शमितारः सन्निधानं नयने श्रूयते शामित्राख्यां लभेरन् यथोद्गातारः ३९ अन्यो वा शमिता सर्वकर्मणामविशेषात् ४० श्रुतिभूतेष्वध्वर्युर्वेदसमाख्यायोगात् ४१ लिङ्गदर्शनाच्च ४२ इति सङ्कर्षकाण्डे प्रथमाध्यायस्य प्रथमः पादः अथ द्वितीयः पादः पत्नीं सन्नह्येति यजमानस्य भार्यायाः पत्नीशब्दसामर्थ्यात् १ मन्त्रवर्णाच्च २ लिङ्गाच्च ३ एवं वा । सर्वासां कर्तृत्वाविशेषात् ४ मन्त्रवर्णाच्च ५ भूयांसि कर्माण्यल्पीयांसो मन्त्राः तानि सर्वाणि मन्त्रवन्ति ते मन्यामहे समशः प्रतिविभज्य पूर्वैः पूर्वाणि कुर्यादुत्तरैरुत्तराण्येवंविषये प्रयुक्तानि यथासमाम्नानं भवन्ति ६ भूयांसो मन्त्राः अल्पीयांसि कर्माणि तत्रैकमन्त्रं कर्माणि कुर्यात् अवशिष्टा विकल्पार्था यथा यूपद्रव्याणि ७ ऐन्द्रं पुरोडाशं पयसा प्रदाने कुर्यात् श्रुतिसंयोगात् ८ न वाऽनाम्नानात् ९ समानतन्त्रो वैमृधः पौर्णमास्या पयसा तुल्यवत् श्रूयते १० इष्ट्वेत्यपवृज्य विधानात् नानातन्त्रं स्यात् ११ दक्षिणाभेदाच्च १२ स नित्यो यथान्यान्यङ्गानि १३ न वा विप्रतिषेधात् १४ यद्येतानालभेतेत्येतेन व्याख्यातम् १५ अग्रशब्दः पौर्णमासीमधिकुरुते तत्र ह्याम्नातः १६ प्रक्रमवादो वा वैमृधस्यानित्यत्वात् यथाग्रे कृत्वा नेदानीं करोतीति १७ न द्वे यजेतेत्यभ्युदितेष्टेः पर्वणश्चानन्तर्यात् १८ द्विरिज्यावादो वा न ह्यन्यत् प्रत्यक्षं वचनं विद्यते १९ यत्पितृभ्यः पूर्वेद्युः करोति पितृभ्य एव तद्यज्ञं निष्क्रीय देवेभ्यः प्रतनुते इति न तन्त्रादौ प्रकॢप्तत्वात् २० उत्तरस्मिन्पर्वणि दृश्यमाने प्रतीयेत सन्निकर्षोऽभिप्रेतः २१ दक्षिणाग्नौ श्रपणं श्रूयते । तस्याहवनीये प्रदानं यथान्यासामाहुतीनां यदाहवनीये जुह्वति इति २२ दक्षिणाग्नेरेकोल्मुकं धूपाय धरतीत्येकेषां तत्र प्रदानमर्थवत् धारणं यथा पशावतिप्रणीतस्य २३ यस्मिन् श्रपयति तस्मिन् जुहोतीति दक्षिणाग्नौ २४ अप्यनाहिताग्निना कार्यं पितरश्चिन्मावेदयन्तीति २५ स लौकिकेऽग्नौ क्रियेत यथान्यानि कर्माणि २६ तत्र गार्हपत्यस्थानीयमागमयेत् यथा होमार्थे २७ न वा पृथगस्य संस्कारनिमित्तत्वात् २८ तत्र गार्हपत्यशब्दो लुप्येत संस्कारसंयोगात् २९ यत्पौर्णमास्यामग्नीषोमीयं तेनामावास्यायां यजेत कृत-लक्षणग्रहणात् ३० अमावास्या विकृता तन्नामधेयं श्रूयते यथा त्रिवृदग्निष्टोमः इति स्तोत्राणां संख्याविकारः ३१ अग्नीषोमीयेण यजेत पौर्णमासीमिति नित्य-कामो यथैन्द्रवायवे ३२ पौर्णमासी वा देवता क्रियते इत्येतेन व्याख्यातम् ३३ इति सङ्कर्षकाण्डे प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः अथ तृतीयः पादः सर्वाधिकारोऽविशेषेण श्रूयते १ दोहयोर्वा देवतासामान्यात् २ सह कुम्भीभिरभिक्रामन्नाहेति स्रुक् प्रत्याम्नायःश्रूयते यथा पलाशस्य मध्यमेन पर्णेन जुहोति इति ३ लिङ्गाच्च ४ कर्तृविवृद्धौ होमे प्रदानं प्रति पात्रविवृद्धिः ५ दोहकाले वा विवृद्धिरर्थपृथक्त्वात् यथा पुरोडाशविवृद्धौ चतुर्मुष्टिता ६ कुम्भीभिरित्युत्पन्नाधिकाराः शेषापनयार्थाः यथा सर्वहुतमेककपालं जुहोति इति ७ दारुपात्राणि कुम्भीभिर्विकल्पेरन्नेकार्थत्वात् ८ प्रवृत्तस्य प्रदानस्य पात्रापनयो यथा पात्नीवतं पर्यग्निकृतमुत्सृजेदिति ९ तत्र शेषाः क्रियेरन् पात्रान्यत्वात् १० नापनीतेषु श्रुतत्वात् तद्व्याख्यातम् ११ एतेनोपस्तरणं व्याख्यातम् १२ सन्ततमुच्येत शब्दसंयोगात् १३ यथाकालं वाऽर्थपृथक्त्वात् १४ द्विरिज्या पौर्णमास्यास्तयोरुभयोरविशेषेणाभ्यासः श्रूयते तेषामेतमर्धमासं प्रसुतस्सान्नाय्यं इति १५ उत्तरस्य वा विशेषश्रुतेः १६ सन्ततं यजेतात्यन्त-संयोगात् १७ सकृद्वा नाभ्यासः श्रूयते १८ तस्य व्रतम् यथा दर्शपूर्णमासयोः गुणविकारो हि १९ अन्तरालभूतं यथा चातुर्मास्येषु २० लिङ्गाच्च २१ आदिविकल्पो गुणविकाराणाम् २२ तन्त्रविकल्पो वा चोदनार्थो याव-ज्जीविकत्वात् २३ यूपविरोहणनैमित्तिकमुत्तरतत्यर्थं विप्रतिषेधात् प्रकृतौ २४ प्रकृतौ कालविप्रतिकर्षात् २५ तमपरमन्ववसाय यजेतेति समीपवादो यथा नदीमन्ववस्यतीति २६ द्रव्योपदेशो वा कर्मार्थत्वात् द्रव्याणाम् २७ लिङ्गाच्च २८ सोमे प्रतिषेधः तस्य द्रव्योपदेशात् २९ सर्वप्रतिषेधो वा विशेषात् ३० द्रव्योपदेशार्था सोमश्रुतिः ३१ साग्निचित्यानां वादः प्रकरणात् ३२ अनग्निचित्यानां वा यथा विध्!जिति ३३ लिङ्गाच्च ३४ सोमे दर्शपूर्णमासप्रकृतीनां बर्हिर्न विद्यते सौमिकं स्तीर्णं भवति प्रसङ्गस्तद्व्या-ख्यातम् ३५ उक्तं तु स्तीर्णस्योपरि तद्वचनात् ३६ प्लाक्षं सवनीयानां यथा शेषे यथा चतुरवत्ते ३७ अवदानस्तरणार्थं श्रूयते ३८ पशुपुरोडाशार्थमा-नन्तर्यात् ३९ पुरोडाशार्थं वा यथोत्तरयोरेकशब्देन विधीयते ४० अनुपृष्ठ्यं बर्हिस्तृणीहि इति सन्ततस्य वादो न ह्यन्यत्प्रत्यक्षं विद्यते ४१ यथाभागं व्यावर्तेथाम् इति देवतावादः तयोर्भागौ भवतः ४२ पिण्डवादो वा कर्मा-र्थत्वान्मन्त्राणाम् ४३ एतेन विभागलिङ्गा व्याख्याताः ४४ विभक्तयोर्वा देवतोपदेशः तल्लिङ्गत्वाच्छब्दस्य ४५ अग्नये त्वाग्नीषोमाभ्यामित्येतेन व्या-ख्यातम् ४६ पुरोडाशगणे व्यावर्तेथामित्येकैकं पिण्डमपच्छिन्द्यात् ४७ व्यावर्तध्वमिति वाऽर्थपृथक्त्वात् तदूहेन व्याख्यातम् ४८ उत्तमयोः यथा-समाम्नानं अविप्रतिषेधात् ४९ सर्वत्र देवतागमः ५० उत्तमयोर्वा सन्देहात् व्यवच्छेदेनेतरे विज्ञायन्ते ५१ चरुपुरोडाशीयाः प्रागधिवापनात् विभज्येरन् तत्र विभागमन्त्रो निवर्तते अन्यकालत्वात् ५२ विद्यते वा हविर्विभागार्थः तानि विभज्यन्ते यथान्यकालाः । प्रयाजाः ५३ एकान्ते चरवस्तथा पुरो-डाशास्तद्धर्माविप्रतिषेधात् ५४ व्यतिषक्तेषु पूर्ववदवच्छेदः क्रमसंयोगात् ५५ युगपद्वाऽविप्रतिषेधात् ५६ इदममुष्य चामुष्य च देहीत्येकैकमुपलक्षयेत् साधारणत्वात् द्रव्यस्य यथेदममुष्मै चामुष्मै च देहीति ५७ एतेन व्यतिषक्तेषु देवतोपलक्षणं व्याख्यातम् ५८ सर्वपृष्ठायां नाना हवींषि प्रदाने विभज्यन्ते तत्र विभागमन्त्रः क्रियते यथा चरुपुरोडाशेषु ५९ न हविर्विभागार्थः प्रदानं पुनरेतत्क्रियते ६० इति संकर्षकाण्डे प्रथमस्याध्यायस्य तृतीयः पादः अथ चतुर्थः पादः कर्मचोदना वाजिनस्य यथाऽऽमिक्षायागः १ अप्रयोजकं वाजिनम् यथा फलीकरणहोमः २ वाजिनेनावसिध्ते! इत्यन्यदागमयेद्वाजिभ्यः तदनुपदिष्टम् ३ उत्पन्नाधिकारो वा वाजिनस्य प्रकृतं प्रविभज्यते यथा ध्रौवम् ४ आमिक्षायां स्विष्टकृन्न विद्यते वाजिनस्याम्नानात् प्रत्यामनेत् यथा त्र्यङ्गाणीति ५ नानाकर्मणी भवतस्तद्व्याख्यातम् ६ तस्य वाजिनं निरवदानं यथान्येषाम् हविषाम् ७ अनुवषट्करोति इति अनुविप्रकर्षे नोपपद्यते ८ लिङ्गाच्च ९ विशाखत्वं धर्ममात्रं यथा श्लक्ष्णाग्रता १० नियोजनं वार्थवत्त्वाद्यथा वरुणप्रघासेषु ११ लिङ्गाच्च १२ एतेन यूपकर्म व्याख्यातं तत्संयोगाद्धर्माणाम् १३ ऊर्ध्वं नाभिदघ्नाद्विशाखं यथा तन्त्रं रशना १४ अधस्ताद्वा प्रकृत्युपबन्धात् १५ अग्रमध्यशब्दौ सन्नम्येताम् अग्रमध्यपृथक्त्वात् १६ सहोपरं प्रमाणम् १७ यजमानसंमितौदुम्बरीं भवतीत्येतेन व्याख्यातम् १८ ऊर्ध्वं वा निखातादर्थे श्रूयते यथा पौरुषः प्राकार इति १९ नाभिदघ्ने परिव्ययति इत्येतेन व्याख्यातम् २० यजमानेन यूपःसंमित इति विधानात् परिमाणानां यजमानेन सम्मानम् २१ अध्वर्योः प्रमाणं प्रकरणात् यथा शूर्पेण जुहोति इति २२ यथाकामी वा प्रयुक्तं शूर्पम् २३ चतुरो मुष्टीन्निर्वपतीत्येतेन व्याख्यातम् २४ अध्वर्योर्वा कर्मलक्षणत्वान्मुष्टेः यथा मुष्टिमादत्स्वेति २५ परिवीय वासयतीति वासमात्रं शब्दसंयोगात् २६ अर्थकर्म वा कर्मशब्देन विधीयते यथा परिधौ पशुं नि-युञ्जीत इति २७ तासामेकां नाभिदघ्ने परिवीय यथावकाशमितरो वि-प्रतिषेधात् २८ युगपद्वा विप्रतिषेधात् २९ एतेन ऐकादशिन्यां द्वैरशन्यं व्याख्यातम् ३० विशेषेण वाग्निष्ठस्य रशने तयोरुपादानार्थो न विद्यते प्रमोक्षः पुनः युगपद्भावे स्यात् ३१ तन्त्रं यूपमन्त्रः यूपाभिधानमभिप्रेतम् ३२ वासमात्रं चैतत्स्याद्वासयत्यग्निष्ठे इत्यर्थकर्मणि अनर्थकं स्यात् तासां पुनरादेयत्वात् ३३ लिङ्गाच्च ३४ ऐकादशिनान् प्रतिषिध्य विधीयते ३५ तेषां वैकसङ्ख्या-ऽप्रतिषेधः श्रूयते यथैकां सामिधेनीमन्वाहेति ३६ लिङ्गाच्च ३७ तेषां पूर्वेद्युः सम्मानं यथा प्रकृतौ ३८ सद्यो वा प्रकृतावर्थलक्षणत्वाद्यथाऽऽज्यस्य पशौ विभागः ३९ तेषां पूर्वेद्युः सम्मानमेके अधीयते तदहर्गणे तन्त्रं स्यात् ४० सद्यःसम्मानमभ्यावर्तेतार्थलक्षणत्वाद्यथाहवनीयसम्मार्जनम् ४१ एतेन सव-नीयरशना व्याख्याताः ४२ तन्त्रं वा साधारणत्वाच्छेदनस्य यथा प्रकृतौ तस्य कालोत्कर्षः ४३ अग्रेणाहवनीयं प्राधः! सम्मीयेरन् दिक्संयोगात् ४४ उदधे वा अर्धमन्तर्वेद्यर्धं बहिर्वेदीति विज्ञायते ४५ लिङ्गाच्च ४६ तेषामन्तराले यथाकामी न नियमः श्रूयते ४७ इष्टं वचनमेतेषाम् ४८ तथा वेदिसंमितां मिनोतीति ४९ न विकल्पोऽविप्रतिषेधात् ५० यथापूर्वमग्निष्ठदेशमीप्सेयुः मुख्यसाधर्म्यात् ५१ लिङ्गाच्च ५२ उदगपवर्गा यूपा भवन्ति दक्षिणापर्गाः पशवः इत्येतेषां पौर्वापर्यविधिः । तेन मन्यामहे द्वावुत्तमौ दक्षिणोत्तरार्धौ मिनुयात् एवं भूयिष्ठा यथासमाम्नानं भवन्ति ५३ उपरसम्मितां मिनुयात् पितृलोककामस्य मध्येन सम्मितां रशनसम्मितां च मनुष्यलोककामस्य चषालसम्मितामिन्द्रियकामस्येत्यायामतः उपराणि सामान्यानि स्युः तिर्यक्तो मध्यानि रशनाश्च प्रथिम्नश्चषालान्येवमर्थोक्तानि भवन्ति ५४ तामेतामति-रात्रचरम आलभेतेति व्यत्यस्तपशोर्वादः सन्निधानात् ५५ येयमितरा तामिमां प्रजा आपद्य चरन्तीति प्रसृतपशोर्वादो व्यपदेशात् ५६ इति संकर्षकाण्डे प्रथमाध्यायस्य चतुर्थः पादः समाप्तश्चायं यूपपादः मीमांसाक्रमेण चतुर्दशाध्यायस्य द्वितीयाध्यायस्य प्रथमः पादः इष्टकाभिरग्निं चितुत इति मृन्मय्यः स्थण्डिलकर्मणि श्रूयन्ते यथा लोके १ वाक्यशेषाच्च २ अश्रिमत्यः शब्दसंयोगात् ३ समचतुरश्राः शब्दैकसम-धिगम्यत्वात् ४ अमृन्मयीनामिष्टकाकर्मार्थसंयोगात् ५ आकृतिनियमाद्वा-ऽन्तरालानि ६ वर्णपृथक्त्वं शब्दसंयोगात् ७ रेखाधिकारो वा प्रकरणात् ८ तासां पाके यथाकामी यथा लोके ९ पक्वा वा तद्विशेषविधानात् १० वचनपक्षे वाऽप्रतिषेधः ११ अग्निनेष्टकाः पचतीत्येकेषां वाऽऽहत्यविधिः १२ स वैहारिकः प्रकरणात् १३ लौकिकेन वाऽनिर्देशात् १४ मृन्मयीना-मिष्टकाशब्दः तासामेतन्नामधेयं यथा लोके १५ सर्वेषां वा सर्वगामित्वात् १६ लिङ्गाच्च १७ सिकतासु तयादेवतं सङ्ख्या चाद्रियेत १८ सिकतासु न सङ्ख्यादि कर्तव्यं विप्रतिषेधात् १८-२ चित्यसंयोगाच्च १९ चरुसर्वौषध-मनिष्टकम् २० नैरृतेष्टके इष्टकाशब्दविधानात्तयादेवतं स्यात् २१ न वा स्यान्निधानस्याविवक्षितत्वात् २२ साहस्रं चिन्वीत प्रथमं चिन्वान इति क्रत्वधिकारोऽग्निसंयोगात् यथा सहस्रेणेजान इति २३ अग्न्यधिकारो वा चयनसंयोगात् यथा जानुदघ्नं चिन्वीत प्रथमं चिन्वान इति २४ दक्षिणाभिः साहस्रः यथा क्रतवः २५ इष्टकाभिर्वा द्रव्यसन्निधानात् यथा साहस्रः प्रासाद इति २६ साहस्रे शब्दसंयोगात् २७ सर्वेषु वा समरिहाणात् श्रूयते यथा शतार्धः पुरुष इति २८ सहस्रेष्टकमग्निं चिन्वीतेति लोकंपृणा मन्त्रपरि-माणान्नाना मन्त्राः उभयस्य साहस्राः तदेतस्मात् विप्रतिषिद्धम् २९ सर्वेषां वाऽग्निद्रव्याणां परिमाणाविशेषात् तत्र वचनाच्छेषो यथा चतुर्दशभिर्वपतीति ३० इष्टकाविवृद्धौ तद्व्याख्यातम् ३१ समशः प्रतिविभज्य पूर्वैः पूर्वाणि कुर्यात् उत्तरैरुत्तराणीति लोकं पृणाया अयातयामश्रुतेः ३२ चितिशब्दः प्रस्तारे यथा लोके ३३ लिङ्गाच्च ३४ पुरीषव्यवायाद्वा चितिपृथक्त्वं कर्मणि विभागात् ३५ गणेषु रीतिवादो यथा लोके प्राच ओदनान्निधेहीति ३६ लिङ्गाच्च ३७ पश्चात्प्राचीमुत्तमामुपदधाति इति त्वेकत्वान्मुखवादः ३८ वाक्यशेषाच्च ३९ प्राध्!मिति कर्तुर्मुखवादःशेषत्वात् ४० पुरस्तादन्याः प्रती-चीरुपदधाति पश्चादन्याः प्राचीरित्यपवर्गवादो व्यपदेशात् ४१ चित्यां चित्यां ऋषभमुपदधातीति पशुशब्दः श्रूयते ४२ इष्टका वा मन्त्रवर्णेन द्रव्यसन्निधानात् यथा सृष्टीरुपदधातीति ४३ एतेन मन्त्रलिङ्गा व्याख्यातव्याः ४४ तद्द्रव्याणि गुणसंयोगाद्यथा पुष्करपर्णमुपदधातीति ४५ विकर्णीं पध्चोडां मण्डले-ष्टकामित्याकृतिनियमः शब्दसंयोगात् ४६ न वा चयनार्थत्वात् ४७ मध्य-मायामुपसद्यग्निश्चीयेत प्रकृत्युपसंबन्धात् प्राकृते यथा समाम्नानं तत्प्रा-कृतवैकृतैर्व्याख्यातम् ४८ अनुपसदमग्निश्चीयत इति एकेषामाहत्यविधिः ४९ इष्टकाकर्मणि यथाकाम्यं प्रतीयेत ५० नवा दीक्षितस्योख्यभस्मसंसर्गात् ५१ तन्मासप्रभृतिदीक्षाकल्पेष्विति बादरायणो । मन्यते स्म ५२ प्रतिषेधाच्च ५३ त्रिःपरार्ध्योऽग्नेराहारः ५४ यथाकामी वाऽन्येषां कर्मणाम् ५५ लिङ्गाच्च ५६ तस्यैतान्येवोर्ध्वप्रमाणान्यनाम्नानात् ५७ तस्येष्टका मन्त्रपरिमाणास्त-द्व्याख्यातम् ५८ यदृषीणामाग्नेयमिति याज्ञसेनीः प्रत्युपबन्धात् ५९ वाक्य-शेषाच्च ६० दाशतयीभ्यो वा ऋषिसंयोगात् ६१ याज्ञसेनीः स्वस्थानाः प्रवर्धेरन् यथोपसदः ६२ कृत्स्नस्य वा विकारोऽग्निसंयोगात् ६३ दाशतयीभ्यो यावदर्थमागमयेत् यथा गायत्रीषु स्तुवत इति ६४ सर्वेषां तद्व्याख्यातम् ६५ यथाद्रव्यसन्निधि मन्त्रसंयोगात् यथा सामिधेनीविवृद्धौ काष्ठानि ६६ प्रतिसूक्तं वचनात् ६७ यदृषीणामाग्नेयं तेन संवत्सरमग्निं चिन्वीतेति चयनसंयोगात् ६८ गायत्रचितं चिन्वीतेत्येवमादयः कर्मसंयोगास्तद्व्याख्यातम् ६९ शीर्ष-वानग्निर्वयसां प्रतिमाश्रुतेः ७० मन्त्रवर्णाच्च ७१ लिङ्गाच्च ७२ धर्मिणांते तु समर्हणा यथा प्रतिरूप्यम् ७३ त्रिवृता शिरसि स्तुवत इत्येतेन व्याख्यातम् ७४ सुपर्णो नित्यो मन्त्रवर्णात् ७५ साधारणलिङ्गो वाऽविशेषात् ७६ प्रशंसा मन्त्रवर्णः यथा हिरण्यपक्षश्शकुनो भुरण्युः इति ७७ श्येन-चितिर्नित्यकाम्यो यथैन्द्रवायवे ७८ विशेषो वा अमुं पुरुषं लिखेति ७९ लोकं पृणासूददोहाभ्यां प्रतिमन्त्रमुपधानं तद्व्याख्यातम् ८० विनियोगे नानार्थत्वात् समुच्चयः सन्निपातित्वात् ८१ लिङ्गाच्च ८२ इति सङ्कर्षकाण्डे द्वितीयाध्यायस्य प्रथमः पादः अथ द्वितीयः पादः हृदयशूलं तस्य वहति तन्नाग्नीषोमीये करोति न सवनीये अनूबन्ध्यायां करोति सोन्ववेत्यविधिः १ सर्वेषां वा श्रपणादुद्वासनाधिकारप्रतिषेधः २ मन्त्रवर्णाच्च ३ स यूपो मन्त्रवर्णात् ४ लिङ्गाच्च ५ बर्हिः समिध इति इध्माग्निः पौर्णमासीति च एतेन व्याख्यातानि प्रकरणात् ६ शब्दसामान्यं वा प्रकरणे कर्माणि तत्प्रकरणे शेषाश्चोद्यन्ते ७ पार्वणेन कालोऽभीज्येत शब्दसंयोगात् ९ कर्मा-भिज्या वा तुल्यशब्दानां प्रकरणविशेषात् उत्तरस्यां ततौ कर्मप्रयोगो न विद्यते विप्रतिषेधात् १० सोमे दर्शपूर्णमासप्रभृतीनां याजमानं न विद्यते यज्ञो बभूवे-त्यर्धोक्ते श्रूयते सा परिसङ्ख्या । यथा आज्यभागौ यजति इति गृहमेधीये ११ स्तुतशस्त्रयोस्त्वनुमन्त्रणार्थमामनन्ति तत्संयोगपृथक्त्वं यथा पधवत्ते १२ चतुरवत्तं जुहोतीति सर्वेज्यानामविशेषात् १३ अदर्विहोमानां वा लिङ्गात् १४ पधवत्तं जमदग्नीनामिति सर्वेषामविशेषात् १५ स्याच्चतुरवत्ते तस्यैव लिङ्ग-दर्शनात् १६ पध्मावत्तमाज्यात् संख्यासंयोगात् १७ औषधाद्वा तत्संप्रदा-नेनाभिप्रेतम् १८ लिङ्गाच्च १९ अन्ततः क्रमसंयोगात् पध्मशब्दश्चाविप्र-तिषिद्धः २० पुरस्ताद्वाऽभिघारणात् संस्कारार्थमभिघारणम् संख्यार्थः पध्म-शब्दः २१ पश्चार्धात् तृतीयं पधवत्तिनः क्रमसंयोगात् २२ आवापस्विष्टकृतो द्वितीयं पधवत्तिनः २३ सकृदुपहतेन वनस्पतिं यजतीति संस्कारप्रतिषेधः शब्दसंयोगात् २४ कर्म वा संसर्गार्थनिवृत्तत्वात् २५ यदपरमवदानं तत्पूर्वमिति देशतः कालतो वोभयस्य भागित्वात् २६ कर्मतो वा कर्म-लक्षणत्वादवदानस्य २७ पूर्वपूर्वाण्यवद्येज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गत-श्रीः स्यात् यो वा पुरोधाकामः स्यात् अपरपूर्वाण्यवद्येत् कनिष्ठस्य कानिष्ठिनेयस्य इत्येनेन व्याख्यातम् २८ षोडशान्याज्यानि भवन्तीत्येकेषां स विकल्पो विप्रतिषेधात् २९ समस्यवादौ वा यथा चतुर्दश पौर्णमास्या-माहुतयो हूयन्ते त्रयोदशामावास्यायामिति ३० सप्तदशानि पशुकामस्य गृह्णीयादित्येतेन व्याख्यातम् ३१ दर्शपूर्णमासयोर्व्यपदेशात् तद्विधानात् ३२ तेषां पृथक्कृतानां निरवदानं यथाऽन्येषां हविः पृथक्त्वात् ३३ वचनात् सर्वेषां सहावदीयेत नहि वचनं किध्द्बिउ!भूषति ३४ तेषां सहप्रदानमवदानैकत्वात् ३५ नाना वा देवतापृथक्त्वात् ३६ अन्यार्थदर्शनाच्च ३७ एककपाले वैध-नर्यां वपायां वा अवदानसंपत्क्रियेत प्रकृत्युपबन्धात् ३८ प्रतिषेधान्निवर्तते ३९ त्र्यङ्गाणामर्धस्य पृषदाज्यस्य च प्रत्यभिघारणं न विद्यते शेषकार्यतयाऽर्थे श्रूयते ४० विद्यते हविस्संस्कारत्वाद्धेतुमात्रमितरत् यथा दीक्षामोचनं नक्तं संस्थापनस्य ४१ पशोः प्रदानं यथा प्रकृतौ ४२ एककालानि वा लिङ्गदर्शनात् ४३ इति सङ्कर्षकाण्डे द्वितीयाध्यायस्य द्वितीयः पादः अथ तृतीयः पादः यजेतीज्यासम्प्रैषः शब्दसंयोगाद्यथा पचेतिवचनानि येयजामह इति प्रतिश्रवणे यथा अहं तु पक्ष्यामि इति १ लिङ्गाच्च २ प्रजापतिर्यज्ञमन्वेतीत्यत्र देवताना-मादेशो न विद्यते अनाम्नानात् ३ विद्यते वाऽन्यार्थदर्शनेभ्यः आश्राव्याह देवान् यजेति अथ इन्दायानुब्रूहि इन्द्रं यजेति ४ आम्नातः प्रयाजेषु देवतादेशः तस्य प्रतिषेधो वचनम् ५ वचनानीतराणि स्युः अर्थवत्त्वात् इतरथा वादमात्रं अनर्थकं स्यात् इति ६ आम्नातो वैकेषां तद्दर्शयति अमुष्मा अनुब्रूह्यमुं यजेति ७ देवान्यजेत्यनूयाजेषु साधारणो बहुशब्दः श्रूयते ८ प्रथमस्य वा स्थानात् ९ उत्तमयोश्च प्रैषाम्नानात् १० शब्दविप्रतिषेधान्नेति चेत् पाशवत्स्यात् ११ प्रथमे विप्रतिषेधाद्वा साधारणः १२ क्रमात् पृथक् स्वलिङ्गात् सर्वेषां क्रमाच्च लिङ्गं बलवत्तरम् १३ असन्निपातित्वात् उपरवे सन्निपातित्वम् १४ संस्कार-त्वात् द्विर्वचनेऽप्रतिषेधः १५ लिङ्गाच्च १६ एकादश प्रयाजान् यजति एका-दशानूयाजान् यजतीति समशः स्वस्थाना विवर्धेरन् क्रमानुग्रहात् यथोपसदः १७ दशमं बर्हिरनूयाजेषु तदुत्तमस्य स्थानात् १८ प्रथमस्य वा देवता-सामान्यात् तदकर्मलिङ्गमितरत् १९ चतुर्थोत्तमयोर्वा स्थानात् २० एककर्मणा सामिधेनीसंयोगं बादरायणः तत्र विशेषो नोपलभ्यते तदुक्तं सामिधेन्य इति २१ पध्नूयाजेषु मैत्रावरुणः प्रेष्यति स वैशेषिकस्य स्थानात् २२ प्रथमस्य वा शब्दसामान्यादुभयत्र देवताशब्दः श्रूयते २३ उपप्रेष्य होतर्हव्या देवेभ्य इति प्रैषस्य प्रैषो यावदाम्नातं शब्दपूर्वत्वात् २४ अध्रिगुप्रैषो वा तेनापदिश्येत यथा अमृतमसि प्राणायत्वेति हिरण्यमभिव्यनिति इति २५ प्रैषो वा व्यपदेशात् २६ होतारं ब्रूयाच्छब्दसामर्थ्यात् २७ मैत्रावरुणं वा व्यपदेशात् २८ लिङ्गाच्च २८ उक्थशा यज सोमस्येत्यन्येषां स्तुतशस्त्रवतां सोमानामाह अनुब्रूहि प्रेष्येति होतारमाहेत्युभयलिङ्गानां शब्दसंयोगात् २९ शस्त्रवतां च नानार्थानां समासवचनम् यथा उक्थौयाकरणानानयेति शब्दः स्तुवतां आञ्जस्यात् ३० बहुशब्दो गणेषु शब्दसंयोगात् शेषमितरे चतुरवत्तम् ३१ तां पुरोऽध्वर्युर्विभजति मैत्रावरुणः पश्चादिति देशतः कालतो वा उभयस्य भागित्वात् ३२ देशतो वैष वादः स्यात् वषट्कारेणाहवनीयं गच्छतीति गमनसंबन्धात् ३३ ऋतुग्रहणेषु अध्वर्युः समाख्यानात् ३४ ऋतुग्रहे मैत्रा-वरुणो विभजते ३५ पुनरभ्युन्नीतेषु मैत्रावरुण उच्येत प्रकरणात् तस्माद्धोतृ-शब्दो यथा यदप्रतिरथं द्वितीयो होतान्वाहेति ३६ होता वाऽग्निष्टोमचमसेषु शब्दसंयोगात् शेषोऽनारभ्यवादः तद्व्याख्यातम् ३७ आश्रुतप्रत्याश्रुते सं-प्रैषश्चानुवषट्कारे न विद्यते अनुवषट्करोतीति तु विप्रकर्षे नोपपद्यते ३८ विप्रतिषिद्धास्त्वेकेषां नाश्रावयतीति ३९ न नित्यानुवादो वा न्यायसन्निधानात् ४० इति सङ्कर्षकाण्डे द्वितीयाध्यायस्य तृतीयः पादः चतुर्थः पादः देवतायोगेन प्रदानात्मके चोद्यमाने आहुतिर्यथा लोके १ लिङ्गाच्च २ अदेवतासंयोगेन चौद्यमानेऽर्थगृहीता देवता तत्संयोगे जुहोतिशब्दो यथा भोजनशब्दो मनुष्यसंयोगे ३ सूक्तवाक एव याज्या प्रस्तरप्रहरणमाहुतिरिध्मः प्रथममाहुतीनां हूयत इत्येतेन व्याख्यातम् ४ प्रशंसा वा संस्कारः प्रस्तरस्य सन्निधानात् ७ अज्यानीरेता उपदधातीत्याग्रयणं निरुप्यैता आहुतीरिति तत्संयोगपृथक्त्वम् ८ चित्रया यजेत पशुकाम इत्युक्त्वा अथैता आहुती-र्जुहोत्येते वै देवता पुष्टिपतयः तयैवास्मिन् पुष्टिं दधाति अग्ने गोभिर्न आगहि इन्दो पुष्ट्या जुषस्व नः इन्द्रो धर्ता गृहेषु नः इत्येतैर्मन्त्रैर्जुहुयात् आनन्तर्यात् पुष्टिशब्दश्चोभयत्र श्रूयते ९ दर्विहोमे सकृद्गृहीतमर्थापत्तेः १० लिङ्गाच्च ११ गणेषु चतुर्गृहीतं समवायाद्यथा ध्रुवायाः १२ प्रत्याहुति वा प्रदानसंयोगात् १३ तत्र समासे वचनं क्रियेत कर्मविभागात् १४ समिदाधानं न विद्यते-ऽनाम्नानात् १५ समिधं प्रत्याहुति दर्शयति १६ पाकयज्ञशब्दस्सर्वयज्ञानाम-विशेषात् यथाऽऽहुतिशब्दः १७ केषांचिद्व्यपदेशात् १८ सर्वदर्विहोमानां स्याल्लिङ्गसंयोगात् १९ सर्वेषामविशेषात् २० लौकिकानां वा तेषां एत-न्नामधेयम् २१ लिङ्गाच्च २२ धर्मोपदेशो विप्रतिषेधात् यथावदेतत् २३ प्राचीनप्रवणे यजेतेत्यधिकरणनिर्देशः स्यात् २४ लिङ्गाच्च २५ पदे जुहोति वर्त्मनि जुहोति वल्मीकवपायां जुहोतीत्येतेन व्याख्यातम् २६ अग्निविकारा वा जुहोतिसंयोगेन चोद्यमाने अर्धशब्देन विधीयन्ते यथा उत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमायेति देशशब्देन विधीयन्ते २७ चतुष्पथे जुहोतीत्यनेन व्याख्यातम् २८ प्रशंसा वा अग्निवत्येव जुहोतीति यथा ब्राह्मणवान् ग्राम इति ३० प्रत्यधेऽवभृथेन चरन्तीति प्राङ्मुखाः कर्माणि कुर्युः तद्व्याख्यातम् ३१ तद्व्याख्यातम् ३२ पृथिव्यै स्वाहान्तरिक्षाय स्वाहा इति मन्त्रान्ताम्नातः स्वाहाकारः प्रदानार्थत्वात् तौ ह्यर्थौ श्रुत्या संयुज्येते ३३ पुरस्तादपि मन्त्राः श्रूयमाणाः तदर्थाः प्रदानसंयोगात् यथा देहि ब्राह्मणाय ब्राह्मणाय देहीति ३४ आम्नायाच्च ३५ स्वाहाकृत्य ब्रह्मणा ते जुहोमि स्वाहाकृतमिति प्रयतं जुहोमि स्वाहाकृतमिन्द्राय ते जुहोमि स्वाहाकृतः पुनरप्येति देवान् इत्येतेन व्याख्यातम् ३६ अप्रदानार्था वा स्तुत्यर्थः श्रूयते ३७ वषट्ते विष्णवास आकृणोमीत्येतेन व्याख्यातम् ३८ स्विष्टकृद्विकारे याज्यायां देवतानिगमाः स्युः प्रकृत्युपबन्धात् ३९ उपलक्षणप्रधानास्तूपलक्षिताः पुनः प्रैषे ४० स्वा-हेत्यालेखनः प्रदानकर्मा चतुर्थीविभक्तेः ४१ यथासमाम्नानमित्याश्मरथ्यः प्रवचनलक्षणत्वान्मन्त्राणाम् ४२ चित्ताय स्वाहा चित्त्यै स्वाहेत्येकेषां वि-कल्पो विप्रतिषेधात् ४३ भूतानामवेष्टिभिरिष्टका उपदध्यात् अर्थवाद-सामान्यात् ४४ अग्नौ वा येऽब्राह्मणा मन्त्रास्तद्व्याख्यातम् ४५ नानार्थयो-रर्थवादसामान्यं यथा क्रतुषु पृथक्त्वम् ४६ एतेन तुल्यशब्दत्वं व्याख्यातम् ४७ मन्त्रागमे सस्वाहाकारः प्रतीयेत वाक्यसंयोगात् ४८ अस्वाहाकारा वा प्रदानार्थस्वाहाकारेभ्यः ४९ स्थितं तावदपर्यवसितम् । प्रप्रैषेण यजतीत्येतेन व्याख्यातम् ५० स्थितादुत्तरम् । स्याद्वा इष्टकासु स्वाहाकारो यथा मुष्टि-करणे ५१ ऋताषाडृतधामेति यथार्थविनिष्कर्षोऽर्थपृथक्त्वात् यथा सूक्त-वाकानाम् ५२ यथासमाम्नानं वा व्याख्यातम् ५३ षड्जुहोतीति पर्यायवादो यथा सावित्राणि जुहोतीति ५४ भुवनस्य पत इति सप्तमीमाहुतिं जुहोतीति ५५ भुवनस्य पत इति रथमुखे पधहुतीर्जुहोतीति दशेत्येकेषां दर्शनात् पध्स्ववयुत्यवादो यथा षड्भिरुपतिष्ठते इति ५६ स्वाहाकारवषट्कार-नमस्काराः प्रदानार्था यथान्यत्र ५७ अप्रदानार्था वाक्यसंयोगात् यथा मुष्टि-करणे स्वाहाकारः स्वाहाकारः ५८ इति सङ्कर्षकाण्डे चतुर्थः पादः अध्यायश्च परिसमाप्तः अथ तृतीयाध्यायस्य प्रथमः पादः विक्रमसन्निपातौ दर्शपूर्णमासयोः इज्याकालस्तत्संयोगात् १ द्वाविज्याकालौ वचनात् २ रात्रौ यज्ञे शब्दसंयोगात् ३ अहनि वा तद्व्याख्यातम् ४ प्रक्रमाभिधानाद्रात्रिशब्दो यथाऽन्यत्राहोरात्रसम्मितः पधहेनागतः इति ५ लिङ्गाच्च । उदिते सूर्ये तन्त्रप्रक्रमः प्रधानसंयोगात् ६ यजनीये वा तद्व्या-ख्यातम् ७ एतेन सोमकालो व्याख्यातः ८ विक्रमसन्निपातयोर्वा स्यात् तत्संयोगात् न ह्यन्यत् प्रत्यक्षं विद्यते ९ यदि मन्येत त्वपूर्णामिति नान्यद्धवि-रन्तरं निर्वपेत् पौर्णमासीमेव यजेत धेभूत इति सर्वेष्टीनामविशेषात् १० दोषसंयुक्तानां वा कल्पत्वात् ११ न यवानां आग्रयणं विद्यत इत्यौडुलोमिः तासामितरेणेत्येकवच्छ्रूयते १२ उभाभ्यामाग्रयणेनेति प्रत्यक्षश्रुतेः १३ सर्वेषां प्राशन्यो यथा भक्षाणामविशेषात् १४ मन्त्रवतां वा १५ अनिष्टा-ग्रयनस्य नवाशनप्रतिषेधः आरण्यफालकृष्टानां वाक्यसंबन्धात् ग्राम्याणां न स्यात् १६ वाक्यसंयोगाच्च १७ ग्राम्यारण्यव्यपदेशो वा फालकृष्टाभिराख्यातं लभेदन्यथा सर्वग्राम्याणां पृथग्व्यपदेशः स्यात् प्रत्यक्षत्वादारण्याभिधानस्य १८ शाकपक्वौषधीनां प्राशने यथाकामी स्यात् १९ लिङ्गाच्च २० तेन शमीधान्यं व्याख्यातम् २१ प्राशितेऽग्नीनादधानो न कृतप्रसवत्वात् २२ अविद्यमानोऽभोक्ष्यमाणश्चाधिकृतौ सस्यसंयोगात् २३ अत्राग्रयणाभ्यासः प्रकरणात् २४ दर्शपूर्णमासयोरन्तरालसंयोगान्न ह्यन्यदन्य क्रमं विद्यते २५ स विकल्पः स्यात् व्रीहियवयोर्यथाग्निहोत्रे २६ स षण्मासादध्यधिभवेत् २७ लिङ्गदर्शनाच्च २८ सस्यपक्तेर्वाऽविप्रतिषेधात् २९ पार्वणमासानि विज्ञायन्ते ३० त्रिंशद्वै सावनस्य विप्रतिषेधात् पार्वणस्य यथा यद्येतान्नालभेत इति ३१ मासो वा ३२ द्वौ पराविष्ट्वा तृतीयमुत्सृजेदिति अनन्तरं यथा पुरस्तात् ३३ आदेर्वा कर्मणोऽपवर्गात् ३४ विज्ञयते च स त्रिषु त्रिषु संवत्सरेषु मास-मुत्सृजेदिति । तेन मन्यामहे एतद्वचनमभ्यासो विप्रतिषेधात् यथा दाक्षायण-यज्ञे ३५ पध्सु चातुर्मास्येषु वैधनरपार्जन्ये पध्होता च नापद्यन्ते एकोपक्रम-त्वात् यथा आरम्भणीया ३६ यदि वसन्ता यजेत द्विरुपस्तृणीयात् द्विरभि-घारयेत् ओषधयो वै शब्द ओषधीष्वेव पशून् प्रतिष्ठापयति यदि प्रावृषि यजेत सकृदुपस्तृणीयात् द्विरभिघारयेत् द्विष्या पशून् अभिजिघन्तीति वैध्देवस्य प्रकरणात् ३७ वरुणप्रघासानां लिङ्गसंयोगात् यथा विप्रतिपन्नेषु ३८ वैध्देवेन पशुकामो यजेत यस्मिन् ऋतौ प्रभूतं गोषु पयः स्यादिति सर्वमविशेषात् ३९ वसन्तानां वा तस्य कालत्वाद्वैध्देवस्य यथा यस्मिन् ऋतौ बहुव्रीहिः स्यात् तस्मिन् यष्टव्यमिति वसन्त एव यजेत ४० वैध्देवस्य कालाभ्यासः प्रतिषेधे न विधीयते ४१ वैध्देवस्याभ्यासः विहितस्य स्थाने कालोत्कर्षः ४२ मासमग्निहोत्रं जुह्वति मासं दर्शपूर्णमासाभ्यामिति स्वकालः स्यात् प्रकृत्युपबन्धात् ४३ अहरहर्वा चोदितत्वात् यथा त्रिवृता मासं ततः अहरहः सकृदग्निहोत्रं हूयेत ४४ इति सङ्कर्षकाण्डे तृतीयस्य अध्यायस्य प्रथमः पादः कालपादः समाप्तः द्वितीयः पादः तत्सर्वार्थमविशेषात् १ गार्हपत्यार्थं ब्राह्मौदनिकं स्यात् गार्हपत्येन संवत्सर-मासीतेति तत्संयोगात् २ लोकत इतरे यथान्यानि द्रव्याणि ३ गार्हपत्याद्वा आहवनीयो लिङ्गात् ४ आहवनीयात् सभ्यावसथ्यौ ५ पृथक्प्रकल्प्येतां वा शब्दपृथक्त्वात् यथा ऋत्विजः ६ आम्नातं दक्षिणाग्नेः ७ निर्मन्थ्यात् दक्षिणाग्निमादधीत इत्येकेषां दर्शनम् ८ व्याख्यातं धारणम् ९ अनुगच्छे-द्वाऽऽहवनीयो लिङ्गात् १० प्रत्यर्थमाधानमिति ११ तुल्यश्रुतित्वाद्वा इतरैरा-हितस्य धारणयोगात् वचनाद्यथा समारोप्य १२ दक्षिणाग्नेरेतेन व्याख्यातम् १३ पूर्वं गार्हपत्यादाहवनीये उद्धृते पुनरनुगते तत वोद्धियेत तद्गतत्वात् १४ लिङ्गाच्च १५ अहोमार्थेष्वाहवनीयः श्रूयमाणोऽनवेतः शब्दनित्यत्वात् १६ अपवृत्ते कर्मणि धार्यमाणो लौकिकोऽर्थसंयोगात् यथा समारूढे १७ लिङ्गदर्शनाच्च १८ एतेन सोमो व्याख्यातः १९ दीक्षणीयाग्निर्धार्येत संस्कार-योगात् देवतापरिग्रहणं श्रूयते २० लिङ्गदर्शनाच्च २१ तदुत्तरवेद्यां कृत्स्नं प्रणयेद्धोमसंयोगात् स आहवनीयः २२ शेषं वा कुर्याल्लिङ्गात् २३ आहव-नीयविभागस्स पुरस्तादुद्ध्रियते २४ गार्हपत्यो वा शेषो लिङ्गात् २५ आहवनीयविभागः स पुरस्तादुद्ध्रियते । गार्हपत्य एव तच्छ्रूयते । सर्वेषां गार्हपत्यानामविशेषात् २७ श्रुतिभूतानां दार्शिकप्रकृतेश्चाधिकारात् २८ लिङ्गदर्शनाच्च २९ आहवनीयात् विहरेद्धोमसंयोगात् ३० शालामुखीयाद्वा देशसंयोगात् ३१ आहवनीयात् धिष्णियान् विहरेद्धोमसंयोगात् ३२ आग्नी-ध्रीयाद्वा आम्नायतः ३३ अनुसवनं सवनसंयोगात् ३४ चतुर्थं वा अग्नि-ष्टोमसामलिङ्गात् ३५ अनुसवनं व्याघारणमविशेषात् प्रत्यङ्ङासीनो धिष्णियान् व्याघारयतीति ३६ तृतीयसवने चाविशेषलिङ्गात् ३७ विप्रति-षिद्धो वा एकवाक्ययोगात् कालहविषोरिति बादरायणः ३८ तस्मात्तेषु जुह्वतीत्यर्थः ३९ तेषां वायव्यं पात्रं चमसो वा प्रकरणात् यथा शूर्पेण जुहोतीति ४० सोमे होमेष्वाज्यं हविश्चोदनापृथक्त्वात् ४१ लिङ्गाच्च ४२ स वैव स्यादित्याहवनीयस्यायं वादः ४३ प्राजहितस्य वाऽपदेशात् अर्थवाद-प्रतिषेधाच्च ४४ पशौ शालामुखीयः स तदर्थः प्रकृतौ न सोमे गार्हपत्यकर्म विद्यते ४५ पध्ष्ट्यिआ!माहवनीयो धार्येत संस्कारसंयोगात् स दीक्षणीयया व्याख्यातः ४६ पूर्वेद्युः काले पशावुत्तरवेदिकेऽग्निहोत्रं जुहुयादाहवनीयत्वात् ४७ अग्निहोत्रस्य शालामुखीये श्रपणं प्रसङ्गात् ४८ प्राजहिते विद्यमानत्वात् ४९ शामित्रे पशुपुरोडाशस्य श्रपणं प्रसङ्गात् ५० शालामुखीये प्रयुक्तत्वा-द्द्रव्यस्य प्रयुक्ते प्रसङ्गात् ५१ द्व्यहे त्र्यहे उत्तरवेदिः क्रियेत प्रकृत्युपबन्धात् ५२ स्वकालत्वात् सद्यस्काल एव पशुः वरुणप्रघासश्चोत्तरवेद्यामग्निहोत्रं सध्ष्टे ५३ पशुवरुणप्रघासेषु दर्शपूर्णमासविकारत्वाच्छालामुखीयो न स्यात् ५४ विद्यते तद्व्याख्यातम् ५५ संस्थिते सोमे शालामुखीयाग्नीध्रीयोत्तरवेदिकाः समारोप्य नित्यं धार्यन्ते ५६ अनुगतेषु प्रायश्चित्तमाम्नातम् ५७ प्राजहितं वा सर्वार्थत्वात् आधानस्य सोमलक्षणं इतरेषां तत्सोमापवर्गेऽपवृज्येरन् यथा-ऽग्निहोत्रादुद्धरणम् ५८ गतश्रियश्शालामुखीयं नित्यत्वात् ५९ दीक्षिताग्नेः समारोपणं न विद्यते अग्निहोत्रानन्तर्यात् तत्पुनः प्रतिषिद्धं तस्य ६० विद्यते चाप्रयाणसंयोगात् ६१ प्रत्यग्न्यरणि भेदो द्रव्यपृथक्त्वात् ६२ लिङ्गाच्च ६३ अरणिभ्यामित्येकेषां स विकल्पो विप्रतिषेधात् ६४ इतरस्य वा धर्मविधित्सा यथा रथाङ्गेन तरन्तीति ६५ उख्याग्नेर्न समारोपणं पात्रसंयोगात् ६६ अपर-योस्तु विद्यते विप्रतिषेधात् ६७ आत्मसमारोपणे अरण्योश्च विकल्पो वि-प्रतिषेधात् ६८ एकार्थत्वात् समुच्चयः विप्रतिषेधाद्विकल्प इति ६९ आत्म-समारूढे विप्रतिषेधात् ७० एकार्थत्वाद्वा नियम्येत श्रुतेरविशिष्टत्वात् ७१ इति सङ्कर्षकाण्डे तृतीयाध्यायस्य द्वितीयः पादः अग्निपादस्समाप्तः अथ तृतीयाध्यायस्य तृतीयः पादः अतिग्राह्यास्समानविधानास्तद्व्याख्यातम् १ विध्!जिति सर्वपृष्ठे ग्रहीतव्या अप्यग्निष्टोमे इत्यपि विध्!जितो वादेन विध्!जित्त्वेन व्यपदिश्यते २ स प्रकृतिगःप्रकरणात् संबन्धेऽनारभ्यविधिः ३ विकल्पो वा पृष्ठ्यशब्देन विधीयते ४ द्व्याश्रयविकल्पः स्यात् ५ समाने वा कालेऽविच्या-वनशब्दोऽविप्रतिषिद्धः ६ वैराजस्य स्तोत्रायाग्नेयो गृह्यत इति देवता-विकारश्चतुर्थीसंयोगात् ७ अङ्गविधिर्वा यथा क्वास्य रथस्य पुरुष इति ८ कालवादो यथा प्रातस्सवनेऽतिग्राह्या गृह्यन्त इति ९ प्रातस्सवने गृह्यन्त इति कालवादान्तरं ग्रहणोक्ता गृह्यन्त इत्येकेषाम् १० देवतानानात्वात् न ह्यन्यदेवत्यानां याज्यानां देवतापृथक्त्वात् ११ समानयाज्या वाऽनुहूयन्त इत्यर्थसमवायेनोपपद्यते १२ दधिग्रहो नित्यस्तद्व्याख्यातम् १३ आदितो गृह्येत क्रमसंयोगात् १४ ज्येष्ठशब्दाच्च १५ न वा मन्त्रक्रमबलीयस्त्वात् ज्येष्ठशब्दो यथा ज्येष्ठमेव गच्छतीति १६ लिङ्गाच्च १७ उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीति ग्रहणे लिङ्गत्वं मन्त्रे ग्रहणलिङ्गात् १८ अपेन्द्रद्विषतो मनोपजिज्यासतो जहि इत्ययमपि तत् १९ प्राणाय त्वाऽपानाय त्वा व्यानाय त्वेति होमलिङ्गात् २० कामसंयोग-स्तद्व्याख्यातम् २१ नित्ये कामो यथा ऐन्द्रवायवे २२ सोमग्रहो दधि-कृतस्सोमधर्मैर्नैमित्तिकत्वात् २३ दधिग्रहविकारत्वाच्च २४ तत्रार्थग्रहणो-ऽभिषवः पात्रसंयोगात् २५ तिस्रो बह्वस्य समिध इत्येतया सोमं करोतीति प्रत्यक्षस्य सतः सोमस्य क्रिया नोपपद्यते २६ कर्मसंयागाद्वा करणीयं यथा हिरण्यकारः २७ अंध्दाभ्यवाक्यं चोर्ध्वमवृभृथात् विद्यते क्रियेत चोर्ध्व-मवभृथात् अथवौपानुवाक्ये तस्येतरश्शेषोऽखिलविधानात् पशुशिरसां त्रिंश-द्वाक्ये तद्व्याख्यातम् २८ लिङ्गाच्च २९ भ्रातृव्यवताऽदाभ्यो ग्राह्यो बुभूष-तांऽशुरिति कामसंयोगस्तद्व्याख्यातम् ३० नानार्थानां समासवचनं यथा स्तुतशस्त्रवतां सोमानामाहेति ३१ अपदेशो वा ग्रहाणामाम्नातत्वात् ३२ अपदेशो वा तुल्यत्वाच्चमसस्यापवादः ३३ न गुणत्वात् ३४ आम्नायते खलु सर्वत्राविशेषात् ३५ विकल्पो वा व्यपदेशात् स्तोत्रमुपाकुर्यादिति ३६ नाना-र्थानां समासवचनं यथा स्तुतशस्त्रवतां सोमानाहेति ३७ पृश्निग्रहाः प्राण-ग्रहास्तद्व्याख्यातम् ३८ प्राणभृद्भिर्गृह्येरन् लिङ्गसंयोगात् ३९ सङ्ख्यायोगाच्च दश गृह्यन्त इति ४० पृश्निप्राणग्रहान्व्यतिषजति इति ग्रहेषु नोपपद्यते ४१ ग्रहा एते मानस्थाने वा ग्रहव्यतिषङ्गात् ४२ व्यपदेशात् ४३ ग्रहशब्दाच्च ४४ स्थानान्मानकाले वचनात् ४५ प्रायणीये चोदयनीये च गृह्यन्त इति तदहीनेन व्याख्यातम् ४६ इति सङ्कर्षकाण्डे तृतीयाध्यायस्य तृतीयः पादः अयं ग्रहपाद इत्युच्यते तृतीयाध्यायस्य चतुर्थः पादः आर्षेयं वृणीते इत्यृत्विजामभिजनाचिख्यासा यथा भार्गवो होतेति १ यजमानस्य वा बन्ध्वनुकीर्तनं वाक्यशेषात् २ भृगुर्वसिष्ठेति ब्रूयादेवं सो-ऽनुकीर्तितो भवति ३ भार्गववासिष्ठेति वा अस्य हि तेन लिलक्षयिषैषाम् ४ त्रीन्वृणीते मन्त्रकृतो वृणीते इति मन्त्रकृतां परिमाणाचिख्यासा यथा भार्गवांस्त्रीनानयेति ५ यथर्षि वरणं सन्तानानुकीर्तनमिति समधिगतम् ६ मनुवदित्येव ब्रूयादिति वैश्यराजन्यानां यथा शेषे चतुरवत्तम् ७ आर्षेयं प्रतिषिध्य विधीयते तस्मात्तेन विकल्पार्थः ८ पुरोहितस्य प्रवरेण वृणीते पुरोहितस्यार्षेयेण वेदयेदिति विज्ञायते ९ निषादरथकाराश्च यमृषिमनुब्रुवते तेन तेषां वृणीत १० तथा ब्राह्मणानां राजोपेतानां राज्ञां च ब्राह्मणोपेतानाम् ११ द्विगोत्रस्य त्रींस्त्रीनेकैकस्माद्गोत्रादुपलक्षयेत् सन्तत्याचिख्यासा १२ वषट्कर्तॄणां वा ज्ञायते १३ होतृमैत्रावरुणौ दार्शपूर्णमासिक्या दर्शपूर्णमास-प्रकृतीनां कृते न सोमस्य धर्मः पशूनामस्ति तृतीयसवने कृष्णविषाणया कण्डूयनेन व्याख्यातम् १४ लौकिक्या चैकवाक्यत्वाद्यथेतरेषाम् १५ प्रैषेण यजन्त्यनुप्रैषादिभिः प्रथत इत्येकेषां सोऽन्ववेत्य विधिः १६ सप्त वृणीत इति वरणानां सङ्ख्यायोगात् १७ पुरुषवादः स्यात्तेषामपि प्रकृतत्वात् १८ निरूढपशुबन्धार्थं तदहीनेन व्याख्यातम् १९ धेभूते व्रियेरन् तदर्थत्वात् यथान्यानि यज्ञाङ्गानि २० यथा समाम्नानाद्व्याख्यातम् २१ विप्रतिषेधो यज्ञाङ्गेष्वविप्रतिषिद्धं वरणम् २२ इति सङ्कर्षकाण्डे तृतीयाध्यायस्य चतुर्थः पादः आर्षेयपादः अथ षोडशाध्याये चतुर्थाध्याये प्रथमः पादः हिंकृत्य सामिधेनीरन्वाह सामिधेनीरनुवक्ष्यन्नेता व्याहृतीः पुरस्तात् १ तारमन्द्रौ अपोद्य मध्यमस्वरो विधीयते २ अन्तर्वेद्येकः पादो भवति बहिर्वेद्यन्य इति संस्थानविशेषो वाक्यैकवाक्यत्वात् ३ पध्दश सामिधेनीरन्वाहेति चतस्र आगमयेत् एकादश प्रकरणे श्रूयन्ते ४ लिङ्गदर्शनाच्च ५ अभ्यासेन सङ्ख्या पूर्येत प्रकरणात् यथाऽऽज्येषु सङ्ख्यापूरणम् आम्नानात् ६ सन्तत-मुत्तरमर्धर्चमालमेतेत्युत्तमेनानुवचनेन आनन्तर्यात् सन्तानम् ७ सर्वैर्वा-ऽविशेषात् ८ यं कामयेत सर्वमायुरियादिति आजुहोत दुवस्यतेति त्रिनवान-मनूच्य सहोपक्रमेत् इत्येतेन व्याख्यातम् ९ सन्ततमन्वाहेति सामिधेनी-नामविशेषात् १० वाक्याद्वा प्रथमोत्तमयोरेवायं धर्मो भवेत् ११ अवाच्य-त्वान्नेति चेत्स्यात् संयोगपृथक्त्वात् १२ पूर्वेण कृतत्वाद्वा सर्वासाम् १३ सामिधेनीसन्तानस्तल्लक्षणत्वात् १४ अन्तेऽपीति चेत्स्याद्वचनात् १५ प्रकरणात्समिधेनीनां प्रथमोत्तमयोर्वादो विज्ञायते १६ सामतो वा एष तृचस्य प्रथमोत्तमयोर्वादो विज्ञायते १७ त्रिर्विगृह्णातीति सामिधेनीनामविशेषात् १८ सामन्वतो वास्य मध्यमायाः वादो भवेत् तस्याः स्थाने स्थापयतीति १९ समिद्वती घृतवती चानूच्येते इत्यृचावागमयेत् । तल्लिङ्गत्वाच्छब्दस्य २० पदवादो वा प्रकरणात् २२ ऋचि प्रणवं दधातीत्यधिकःस्याद्यथा विप्रतिषेधात् २२ लिङ्गाच्च २३ सामिधेन्यक्षरं वा विकुर्यादेतत्तस्यां निहितो भवति २४ पर्यायं वा यथा द्वे वस्त्रयुगे धारयतीति २५ अन्ते वा स्यादाम्नातायां हि श्रूयते २६ लिङ्गाच्च २७ ओङ्कारः प्रणवः स्यात् २८ इति सङ्कर्षकाण्डे चतुर्थाध्यायस्य प्रथमः पादः हौत्रकाध्याये सामिधेनीपादः अथ चतुर्थाध्याये द्वितीयः पादः त्रींस्तृचाननुब्रूयाद्राजन्यस्येति स्वच्छन्दो वर्जयित्वा वर्णच्छन्दांस्यनुब्रूया-दित्यालेखनः वर्णानामवरुध्य उच्यते छन्दोनुवचनात् १ प्रकृतित इत्या-श्मरथ्यः नादेये प्रकृतितः प्रतीयते २ सर्वाणि च्छन्दांस्यनुब्रूयाद्बहुयाजिनः इत्यविशेषवादः शब्दसंयोगात् ३ अपि वा गायत्री त्रिष्टुप् जगती च प्रकरणात् ४ अभीक्ष्णयाजी स्यात् तेन हि स्विष्टं भवति बहुशो यो यागमनुतिष्ठत इति ५ बहुदक्षिणो वा तेनाख्यां लभेत यथा सहस्रयाजी पुरुष इति ६ सोमयाजी वा लिङ्गात् ७ सोमयाजीत्येकेषां सोऽन्ववेत्य विधिः ८ निविदां सन्ततवचनं यथा सामिधेनीनाम् ९ अनाम्नानाद्वा नोपपद्यते प्रत्यक्षाम्नानात्सामिधेनीनाम् १० आसीनमूर्ध्वज्ञुं होतारं वृणीत इति विज्ञायते ११ वरणार्थं वाऽऽसनं तत्संयोगात् १२ अध्वर्युप्रवरमेके समामनन्ति १३ अध्वर्युंप्रवरः पूर्वः स्यात् ब्रह्मण्वदाचवक्षत् इति आवाहनं देवतासु नोपपद्यते १४ यथासमाम्नानं वा तद्व्याख्यातम् १५ आवह देवान् यजमानायेति सर्वदेवतानामविशेषात् १६ प्रयाजानामेव स्थानानि १७ प्रत्यक्षेण श्रावयति अग्निमग्न आवह सोम-मावहेति तद्यथा ब्राह्मणानुक्त्वा मुध्! मुधे!ति १८ आहवनीय आवोढा सामि-धेनीभिरिष्ट्वा निविद्भिरुपस्तुत्य अग्निमग्न आवहेति श्रावयति तस्मादा-हवनीयस्यानन्तर्यात् १९ अग्निं होत्रायावहेति तस्मिन्नेवैतदाहुतयो हूयन्ते तदा-वाहयति तदग्निं स्विष्टकृतमित्याहवनीयः स्यादाहुतिसंयोगात् २० अन्यो वा व्यपदेशात् २१ स गार्हपत्यः तस्मिन्नप्याहुतयो हूयन्ते २२ लिङ्गाच्च २३ स होमायोह्येताहुतिसंयोगात् २४ होतृकर्मणे वा तल्लिङ्गत्वाच्छब्दस्य २५ होतारो यष्टारो जातवेदाश्च होतृयष्टृजातवेदशब्द उभयस्याभिधाता यष्टुरग्नेः स्वरूपस्य स्वस्य च महिम्नः २६ अतूर्तो होता आचाग्ने देवान् वह सुयजा च यज जातवेद इति आहवनीयस्य वाक्यसंयोगात् २७ स्वाहाग्निं होत्राज्जुषाण इत्युत्तमप्रयाजे तं गार्हपत्यस्य स्थानादिज्यासंयोगाच्च २८ अग्निं होत्रेणेदं हविरजुषतेति सूक्तवाके तदेतेन व्याख्यातम् २९ अयाडग्निरग्नेः प्रियाधा-मानीत्याहवनीयस्य यक्षदग्नेर्होतुः प्रिया धामानीत्येतेन व्यपदिश्यते ३० सुयजा यज इति कृणोतु सो अध्वरा जातवेदाः जुषतां हविः इति गार्हपत्यस्य हविस्संयोगात् ३१ अग्निर्देवो दैव्यो होता देवान् यक्षत् इत्याहवनीयस्य लिङ्गात् ३२ अग्निर्होता वेत्त्वग्निः होत्रं वेत्तु प्रावित्रं इति स्रुगादापने ३३ इति सङ्कर्षणकाण्डे चतुर्थाध्यायस्य द्वितीयः पादः हौत्राध्याये निगदपादः अथ चतुर्थाध्यायस्य तृतीयः पादः इमे वयं स्मो वयमित्येके समामनन्ति १ वषडित्येके वौषडित्येके वाक्षा-डित्येके वौक्षाडित्येके वषडिति ब्राह्मणस्य वषट्कुर्यात् वौषडिति राजन्यस्य वौक्षाडिति वैश्यस्य षडिति शूद्रस्य विज्ञायते २ सन्ततमृचा वषट्करोतीति विज्ञायते ३ समानवदृचा वषट्करोतीति विज्ञायते ४ याज्याया अधि वषट्करोति इति विज्ञायते ५ अवगूर्य वषट्करोतीत्युच्चैर्वादः शब्दसंयोगात् ६ यं कामयेत प्रमायुकः स्यादिति नीचैस्तरां तस्य याज्यया वषट्कुर्यात् उच्चैः क्रौध्!मिव वषट्कुर्यात् स्वर्गकामस्येति वषट्कारो विज्ञायते ७ यं कामयेत पशुमान् स्यात् इति बहुपर्णां तस्मै शालां कुर्यात् इति क्रौध्!मिवेत्युच्चतरं स्वर्गकामस्य इति च अङ्गकामस्तद्व्याख्यातम् ८ यस्यै देवतायै वषट्कुर्यात् तां ध्यायेदिति पुरा वषट्कारादिति विज्ञायते ९ वषट्कृत्यापान्यान्निमिषे-दपानेनैव प्राणं दधाति निमेषेण चक्षुरिति विज्ञायते १० न व्यपवदेद्याज्यां चानूवाक्यां चान्तरा यद्व्यपवदेत् यज्ञं विच्छिन्द्यात् पुरोनूच्यं यज्ञस्य सन्तत्या इति विज्ञायते ११ स्वाहा देवा आज्यया जुषाणा इति तत् प्रयाजानूयाजानां यथा आवाहने देवानाज्यपानिति १२ अनूयाजानां विज्ञायते १३ सहोत्तमेन प्रयाजेन सोप्यनिष्टो भवति तस्मिन्नितरासां संस्थावदिति १४ जुषाण-याज्यावेके समामनन्ति ऋग्याज्यावेके सहविषावेके अहविषावेके हवि-ष्मत्युत्तरमाहेति १५ गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग्याज्या त्रिपदा पुरो-ऽनुवाक्या भवति चतुष्पदा याज्या पुरस्ताल्लक्ष्मा पुरोनुवाक्या भवति उपरिष्टाल्लक्ष्मा याज्या मूर्धन्वती पुरोनुवाक्या भवति नियुत्वती याज्या अनुवती पुरोनुवाक्या भवति याज्या साहत्वै पुरोनुवाक्या समृद्धा याज्या अभीष्टाहरद्देवता वेत्यग्रे व्याहरति सा ह वै समृद्धा यस्यै देवतायै अधि वषट्करोति आहोस्वित्सुरभिमतीसंयोगात् याज्यानूवाक्या दर्शितेति विदितं अनुवादास्तद्व्याख्यातम् १६ गायत्र्यौ संयाज्ये ब्रह्मवर्चसकामस्य त्रिष्टुभौ वीर्यकामस्य जगत्यः पशुकामस्य अनुष्टुभौ प्रतिष्ठाकामस्य पङ्क्त्यो यज्ञकामस्य विराजावन्नकामस्य १७ अयाड्देवानामाज्ययानां प्रिया धामानीति तत्प्रया-जान्याजानां यथा पुरस्तात् १८ अनवानं यजतीत्युत्तमानुयाजे विज्ञायते तद्वदेव सकृदेवावान्यात् एवमप्यनवानं इति विज्ञायते १९ उपांशु यजती-त्यन्यत्राश्रुतप्रत्याश्रुतेभ्यः तच्च व्याख्यातम् २० उपांशु पत्नीः संयाजयतीत्यनेन व्याख्यातम् २१ आज्येडा सर्वेज्यानामङ्गमविशेषात् २२ पत्नीसंयाजाङ्गं हविस्संयोगात् २३ पराचीं प्रतीचीमिति कर्तुर्मुखवादः तल्लिङ्गत्वाच्छब्दस्य २४ लिङ्गाच्च २५ आम्नातो वाऽत्र पदाभ्यासः तस्य प्रतिषेधोऽयं पराची-स्सामिधेनीरन्वाहेति २६ चतुरुपह्वयत इति निगदोऽभ्यावर्तेत तल्लिङ्गत्वा-च्छब्दस्य २७ पदं वा प्रकरणाद्यथा चैते समिद्वती घृतवती चानूच्येते २८ यद्ब्रूयादेतदु द्यावापृथिवी भद्रमभूदित्येतदुवेवासुरं यज्ञस्याशिषं गमयेत् इदं द्यावापृथिवी भद्रमभूदित्येव ब्रूयात् एतदेवैकेषाम् विपरीतम् । यद्ब्रूयात् सूयावसाना च स्वध्यवसाना चेति प्रमायुको यजमानः स्यात् यदा हि प्रमीयते अथेमामुपावत्स्यति सूपचरणा च स्वधिचरणाचेत्येव ब्रूयात् यजमानमेव यज्ञस्याशिषं गमयति इत्येतदेवैकेषां विपरीतं यद्ब्रूयाद्विधेरिति यज्ञ-स्थाणुमृच्छेत् वृधात्वित्याह यज्ञस्थाणुमेव परिवृणक्ति इत्येतदेव विपरी-तमेकेषाम् । यद्ब्रूयाद्योऽग्निं होतारमवृथा इति अग्निनोभयतो यजमानं परिगृह्णीयात् एतदेवैकेषां विपरीतं यद्द्वे इव ब्रूयात् भ्रातृव्यमस्मै जनयेत् घृतवतीमध्वर्यो स्रुचमास्यस्वेत्याह यजमानमेवैतेन वर्धयति इत्येतदेवैकेषां विपरीतम् त एवमुभये प्रशस्ताश्चापोदिताश्च २९ यन्न निर्दिशेत् प्रतिवेशं यज्ञस्याशीर्गच्छेत् आशास्तेयं यजमानोसावित्याह निर्दिश्यैवैनं स्वर्गं लोकं गमयतीति विज्ञायते ३० नाम गृह्णातीति विज्ञायते नामानि गृह्णातीति विज्ञायते ३१ द्वयोर्बहूनां च नाम्नां विधानात् नाम गृह्णातीत्यवयुत्यवादः स्तावकत्वात् ३२ इति सङ्कर्षकाण्डे चतुर्थाध्यायस्य तृतीयः पादः हौत्रकाध्याये वषट्कारपादः अथ चतुर्थाध्यायस्य चतुर्थः पादः एते वै प्रजापतेः कामदुहः षट्सूनाः पृथुपाजवत्यौ धाय्येऽनुपदावाज्यभागौ आनुष्टुभौ संयाज्ये इति १ कामेष्टिस्तत्रानुपदौ स्यातां तदर्थत्वात् २ वाम-देव्यस्य पध्दशर्चः सामिधेन्यः स्युः याज्यानूवाक्याश्चेति सर्वास्सामिधेन्यः स्युः तदर्थत्वात् ३ यथार्थमितरत्र विरोधात् ४ अगस्त्यस्य कयाशुभीय-सामिधेन्यो याज्यानूवाक्याश्चेत्यनेन व्याख्यातम् ५ य इन्द्रियकामो वीर्यकामः स्यात् तमेतया सर्वपृष्ठया याजयेदित्येवमुक्त्वा व्यत्यासमन्वाह इन्द्राय राथन्तरायानुब्रूहीति रथन्थरस्य ऋचमनूच्य बृहत ऋचा यजेत् इन्द्राय बार्हतायानुब्रूहीति बृहत ऋचमनूच्य रथन्तरस्य ऋचा यजेत् इन्द्राय वैराजयानुब्रूहीति वैराजस्यर्चमनूच्य वैरूपस्यर्चा यजेत् इन्द्राय शाक्वरा-यानुब्रूहीति शक्वरीमनूच्य रैवत्या यजेत् इन्द्राय रैवतायानुब्रूहीति रैवतमनूच्य शक्वर्या यजेत् देवताभिर्व्यतिषजति व्यत्यासमन्वाहेति । सामान्येन वि-हिते पुरोडाशे इन्द्राय राथन्तरायानुब्रूहीति रथन्तरस्य ऋचमनूच्य बृहत ऋच यजेदित्युक्तम् । न बृहत्या वषट्कुर्यात् यदनुबृहत्या वषट्कुर्यात् छन्दांसि --- गमयेत् अनूवाक्ययोश्चत्वार्यक्षराणि याज्यामनूच्य यजति आनुष्टुभं च हवा एतत्संपादयति ६ अभि त्वाशूर नोनुमोऽदुग्धा इव धेनवः ईशानमस्य जगतः स्वर्दृशं ईशानमोमित्यनूच्य इन्द्र तस्थुपस्त्वामिद्धि हवामहे इति यजेत् । त्वमिद्धि हवामहे सातावाजस्य कारवः त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठामित्यनूच्य स्वर्वतोऽभित्वा शूर नोनुमोमिति यजेत् । एवमेतद्यथा-समाम्नातस्याक्षरक्रमाद्यविरोधेनाक्षरक्रमाणामध्यूहनम् ७ द्वे याज्ये स्यातां तदर्थत्वात् ८ लिङ्गाच्च ९ उभे सप्रणवे स्यातां प्रकृत्युपबन्धात् १० गृहमेधीये देवतावाहनं न विद्यते सामिधेन्यानन्तर्यात् तत्पुनः प्रतिषिध्यते ११ विद्यते वाऽनन्तर्यात् अकारमानन्तर्यं यथा वास्तोष्पतीये १२ वाजिनामावाहनं विद्यते यथान्यासां देवतानाम् १३ हविरनियतत्वाद्वा न विद्यते यथा विष्णोरुरुक्रमस्य १४ एतादृगिति मन्यामहे पुरःप्रवृद्धानां परतन्त्रव्यपेतानां प्रतिषेधः तल्लिङ्ग-त्वाच्छब्दस्य १५ एकदेवतानां नानादेवतव्यपेतातां तन्त्रमावाहनं विभवात् १६ कालपृथक्त्वादभ्यावर्तेत १७ पशावुत्तमे प्रयाजे स्रुगादापनो न विद्यते संप्रेषितत्वात् १८ विद्यते वाऽन्यकालत्वाद्यथा याज्यासम्प्रैषो यथा याज्यासम्प्रैषः १९ इति सङ्कर्षकाण्डे चतुर्थस्याध्यायस्य चतुर्थः पादः समाप्तं चेदं सङ्कर्षकाण्डम् इति कर्ममीमांसादर्शनम्