महानारायणोपनिषत् ॐ नमो महते नारायणाय अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान् शुक्रेण ज्योतींषि समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः १ यस्मिन्निदं सं च वि चैति सर्वं यस्मिन्देवा अधि विश्वे निषेदुः तदेव भूतं तदु भव्यमानमिदं तदक्षरे परमे व्योमन् २ येनावृतं खं च दिवं मही च येनादित्यस्तपति तेजसा भ्राजसा च यदन्तः समुद्रे कवयो वदन्ति तदक्षरे परमे प्रजाः ३ यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यचसर्ज भूम्याम् यदोषधीभिः पुरुषान्पशूंश्च विवेश भूतानि चराचराणि ४ अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम् यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ५ तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः ६ तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः तदेव शुक्रममृतं तद्ब्रह्म तदापः स प्रजापतिः ७ सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः ८ अर्धमासा मासा ऋतवः संवत्सरश्च कल्पताम् स आपः प्रदुघे उभे इमे अन्तरिक्षमथो सुवः ९ नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् न तस्येशे कश्चन तस्य नाम महद्यशः १० न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् हृदा मनीषा मनसाभिकॢप्तो य एनं विदुरमृतास्ते भवन्ति ११ अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ १२ इति श्रीमहानारायणोपनिषदि प्रथमः खण्डः १ एष हि देवः प्र दिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः स विजायमानः स जनिष्यमाणः प्रत्यङ्मुखस्तिष्ठति सर्वतोमुखः १ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् सं बाहुभ्यां धमति सं पतत्रैर्द्यावापृथिवी जनयन्देव एकः २ वेनस्तत्पश्यन्विश्वा भुवनानि विद्वान् यत्र विश्वं भवत्येकनीडम् यस्मिन्निदं सं च वि चैकं स ओतः प्रोतश्च विभुः प्रजासु ३ प्र तद्वोचे अमृतं नु विद्वान् गन्धर्वो नाम निहितं गुहासु त्रीणि पदा निहिता गुहासु यस्तद्वेद स पितुः पितासत् ४ स नो बन्धुर्जनिता स विधाता धामानि वेद भुवनानि विश्वा यत्र देवा अमृतत्वमानशानास्तृतीये धामान्यभ्यैरयन्त ५ परि द्यावापृथिवी यन्ति सद्यः परि लोकान्परि दिशः परि सुवः ऋतस्य तन्तुं विततं विवृत्य तदपश्यत्तदभवत्तत्प्रजासु ६ परीत्य लोकान्परीत्य भूतानि परीत्य सर्वाः प्रदिशो दिशश्च प्रजापतिः प्रथमजा ऋतस्यात्मनात्मानमभिसम्बभूव ७ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् सनिं मेधामयासिषम् ८ उद्वीप्यस्व जातवेदोऽपघ्नन्निरृतिं मम पशूंश्च मह्यमावह जीवनं च दिशो दिशः ९ मा नो हिंसीज्जातवेदो गामश्वं पुरुषं जगत् अबिभ्रदग्न आगहि श्रिया मा परिपातय १० इति श्रीमहानारायणोपनिषदि द्वितीयः खण्डः २ तत्पुरुषस्य विद्महे सहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात् १ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् २ तत्पुरुषाय विद्महे नन्दिकेश्वराय धीमहि तन्नो वृषभः प्रचोदयात् ३ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ४ षण्मुखाय विद्महे महासेनाय धीमहि तन्नः षष्ठः प्रचोदयात् ५ पावकाय विद्महे सप्तजिह्वाय धीमहि तन्नो वैश्वानरः प्रचोदयात् ६ वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात् ७ भास्कराय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ८ दिवाकराय विद्महे महाद्युतिकराय धीमहि तन्न आदित्यः प्रचोदयात् ९ आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नो भानुः प्रचोदयात् १० तीक्ष्ण शृंगाय विद्महे वक्रपादाय धीमहि तन्नो वृषभः प्रचोदयात् ११ कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि तन्नो दुर्गा प्रचोदयात् १२ महाशूलिन्यै विद्महे महादुर्गायै धीमहि तन्नो भगवती प्रचोदयात् १३ सुभगायै विद्महे काममालिन्यै धीमहि तन्नो गौरी प्रचोदयात् १४ तत्पुरुषाय विद्महे सुपर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् १५ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् १६ नृसिंहाय विद्महे वज्रनखाय धीमहि तन्नः सिंहः प्रचोदयात् १७ चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि तन्नो ब्रह्मा प्रचोदयात् १८ इति श्रीमहानारायणोपनिषदि तृतीयः खण्डः ३ सहस्रपरमा देवी शतमूला शताङ्कुरा सर्वं हरतु मे पापं दुर्वा दुःस्वप्ननाशिनी १ दूर्वा अमृतसम्भूताः शतमूलाः शताङ्कुराः शतं मे घ्नन्ति पापानि शतमायुर्विवर्धति २ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषः परि एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ३ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे शिरसा धारिता देवि रक्षस्व मां पदे पदे ४ उद्धृतासि वराहेण कृष्णेन शतबाहुना भूमिर्धेनुर्धरित्री च धरणी लोकधारिणी तेन या ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ५ मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् त्वया हतेन पापेन जीवामि शरदः शतम् ६ वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् त्वया हतेन पापेन गच्छामि परमां गतिम् मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ७ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ८ ॐ भूर्लक्ष्मीर्भुवर्लक्ष्मीः सुवः कालकर्णी तन्नो महालक्ष्मीः प्रचोदयात् ९ पद्मप्रभे पद्मसुन्दरि धर्मरतये स्वाहा १० हिरण्यशृंगं वरुणं प्रपद्ये तीर्थं मे देहि याचितः यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ११ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् तन्मे इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः १२ सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः १३ इति श्रीमहानारायणोपनिषदि चतुर्थः खण्डः ४ नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः । यद- पां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात् १ अत्याशनादतीपानाद्यच्च उग्रात्प्रतिग्रहात् तन्मे वरुणो राजा पाणिना ह्यवमर्शतु २ सोऽहमपापो विरजो निर्मुक्तो मुक्तिकिल्बिषः नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्मसलोकताम् ३ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ४ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ततो रात्र्यजायत ततः समुद्रो अर्णवः ५ समुद्रादर्णवादधि संवत्सरो अजायत अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ६ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवं च पृथिवीं चान्तरिक्षमथो स्वः ७ यत्पृथिव्या रजः स्वमान्तरिक्षे विरोदसी इमांस्तदापो वरुणः पुनात्वघमर्षणः ८ एष सर्वस्य भूतस्य भव्ये भुवनस्य गोप्ता एष पुण्यकृतां लोकानेष मृत्यो हिरण्मयः द्यावापृथिव्योर्हिरण्मयं संशृतं सुवः स नः सुवः संशिशाधि ९ आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा १० अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा गुरुतल्पगः वरुणोऽपामघमर्षणस्तस्मात्पापात्प्रमुच्यते ११ रजो भूमिस्त्वमाँरोदयस्व प्रवदन्ति धीराः पुनन्तु ऋषयः पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षणः १२ इति श्रीमहानारायणोपनिषदि पञ्चमः खण्डः ५ आक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः १ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः २ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ३ अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ४ विश्वानि नो दुर्गहा जातवेदः सिन्धुर्न नावा दुरितातिपर्षि अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ५ पृतनाजितं सहमानमग्निमुग्रं हुवेम परमात्सधस्थात् स नः पर्षदतिदुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः ६ प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सोभगमायजस्व ७ परस्ताद्यशो गुहासु मम सुपर्णपक्षाय धीमहि शतबाहुना पुनरजायत सुवो राजा सधस्था त्रीणि च ८ इति श्रीमहानारायणोपनिषदि षष्ठः खण्डः ६ भूरग्नये पृथिव्यै स्वाहा । भुवो वायवेऽन्तरिक्षाय स्वाहा । सुवरादित्याय दिवे स्वाहा । भूर्भुवःसुवश्चन्द्रमसे दिग्भ्यः स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवरग्निरोम् १ भूरन्नमग्नये पृथिव्यै स्वाहा । भुवोऽन्नं वायवेऽन्तरिक्षाय स्वाहा । सुवर- न्नमादित्याय दिवे स्वाहा । भूर्भुवःसुवरन्नं चन्द्रमसे दिग्भ्यः स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूभुवःसुवरन्नमोम् २ भूरग्नये च पृथिव्यै च महते च स्वाहा । भुवो वायवे चान्तरिक्षाय च म- हते च स्वाहा । सुवरादित्याय च दिवे च महते च स्वाहा । भूर्भुवः सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवःसुवर्महरोम् ३ पाहि नो अग्न एनसे स्वाहा । पाहि नो विश्ववेदसे स्वाहा । यज्ञं पाहि विभावसो स्वाहा । सर्वं पाहि शतक्रतो स्वाहा ४ यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्यश्छन्दांस्याविवेश । सतां शक्यः प्रो- वाचोपनिषदिन्द्रो ज्येष्ठ इन्द्राय ऋषिभ्यो नमो देवेभ्यः स्वधा पितृभ्यो भू- र्भुवःसुवश्छन्द ॐ ५ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं मा च्योढ्वं ममामुष्य ॐ ६ इति श्रीमहानारायणोपनिषदि सप्तमः खण्डः ७ ऋतं तपः सत्यं तपः श्रुतं तपः शान्तं तपो दानं तपो यज्ञस्तपो भूर्भुवः सु- वर्ब्रह्मैतदुपास्यैतत्तपः १ यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति । यथासिधारां कर्तेऽवहितामवक्रामेद्यद्यु वेह वेहवा विह्वलिष्यामि कर्तं प- तिष्यामीत्येवमनृतादात्मानं जुगुप्सेत् २ अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ३ सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त जिह्वाः सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ४ अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः अतश्च विश्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ५ इति श्रीमहानारायणोपनिषद्यष्टमः खण्डः ८ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् १ अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः २ हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ३ यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते स षोडशी ४ विधर्तारं हवामहे वसोः कुविद्वनाति नः सवितारं नृचक्षसम् ५ अद्या नो देव सवितः प्रजावत्सावीः सौभगम् परा दुःष्वप्नियं सुव ६ विश्वानि देव सवितर्दुरितानि परासुव यद्भद्रं तन्न आसुव ७ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः ८ मधुनक्तमुतोषसो मधुमत्पार्थिवं रजः मधु द्यौरस्तु नः पिता ९ मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः माध्वीर्गावो भवन्तु नः १० घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ११ समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः १२ वयं नाम प्रब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् १३ इति श्रीमहानारायणोपनिषदि नवमः खण्डः ९ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश १ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः २ यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्ति ३ यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ४ न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ५ वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ६ दह्रं विपाप्मं वरं वेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् तन्नापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् ७ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ८ अजोऽन्यः सुविभा नाभिः सर्वमस्यैव ९ इति श्रीमहानारायणोपनिषदि दशमः खण्डः १० सहस्रशीर्षं देवं विश्वाख्यं विश्वशम्भुवम् विश्वं नारायणं देवमक्षरं परमं प्रभुम् १ विश्वतः परमं नित्यं विश्वं नारायणं हरिम् विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति २ पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् नारायणं महाज्ञेयं विश्वात्मानं परायणम् ३ नारायणः परं ब्रह्मतत्त्वं नारायणः परः नारायणः परो ज्योतिरात्मा नारायणः परः ४ नारायणः परो ध्याता ध्यानं नारायणः परः परादपि परश्चासु तस्माद्यस्तु परात्परः ५ यच्च किञ्चिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ६ अनन्तमव्ययं कविं समुद्रेऽन्तं विश्वशम्भुवम् पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् ७ अधोनिष्ट्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ८ सततं तु शिराभिस्तु लम्बत्याकोशसन्निभम् तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्त्सर्वं प्रतिष्ठितम् ९ तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः सोऽग्रभुग्विभजंस्तिष्ठन्नाहारमक्षयः कविः १० सन्तापयति स्वं देहमापादतलमस्तकम् तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ११ नीलतोयदमध्यस्था विद्युल्लेखेव भासुरा नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा १२ तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् १३ अथातो योग जिह्वा मे मधुवादिनी अहमेव कालो नाहं कालस्य १४ नारायणः स्थितो व्यवस्थितश्चत्वारि च १५ इति श्रीमहानारायणोपनिषदि एकादशः खण्डः ११ ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णर्पिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः १ आदित्यो वा एष एतन्मण्डलं तपति । तत्र ता ऋचस्तदृचां मण्डलं स ऋचां लोकोऽथ य एष एतस्मिन्मण्डले ऽर्चिषि पुरुषस्तानि यजूंषि स यजुषां मण्डलं स यजुषां लोकोऽथ य एष एतस्मिन्मण्डले अर्चिर्दीप्यते तानि सा-मानि स साम्नां मण्डलं स साम्नां लोकः सैषा त्रय्येव विद्या तपति य एषो- ऽन्तरादित्ये हिरण्मयः पुरुषः २ आदित्यो वै तेज ओजो बलं यशश्चक्षुःश्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाशः । प्राणो लोकपालकः । किं तत्सत्यमन्नमायुरमृतो जीवो विश्वः । कतमः स्वयम्भूः प्रजापतिः संवत्सर इति । संवत्सरोऽसावादित्यो य एष पुरुष एष भूतानामधिपतिः । ब्रह्मणः सायुज्यं सलोकतामाप्नोत्येता-सामेव देवतानां सायुज्यं सार्ष्टितां समानलोकतामाप्नोति य एवं वेदेत्युपनिषत् ३ इति श्रीमहानारायणोपनिषदि द्वादशः खण्डः १२ घृणिः सूर्य आदित्य ओम् । अर्चयन्ति तपः सत्यं मधु क्षरन्ति तद्ब्रह्म त- दाप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् १ सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रस्तन्महो नमो नमः । विश्वं भूतं भव्यं भुवनं चित्रं बहुधा जातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु २ कद्रुद्राय प्रचेतसे मीह्ळुष्टमाय तव्यसे । वोचेम शन्तमं हृदे । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ६ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये । अम्बिका- पतय उमापतये नमो नमः ४ यस्य वैकंकत्यग्निहोत्रहवणी भवति प्रतिष्ठिताः प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रतिष्ठित्यै ५ कृणुष्व पाज इति पञ्च ६ अदितिर्देवा गन्धर्वा मनुष्याः पितरोऽसुरास्तेषां सर्वभूतानां माता मेदिनी पृ- थिवी महती मही सावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वा भूता । कतमा का या सा सत्येत्यमृतेति वसिष्ठः ७ इति श्रीमहानारायणोपनिषदि त्रयोदशः खण्डः १३ आपो वा इदं सर्वं विश्वा भूतान्यापः प्राणो वा आपः पशव आपोऽन्न- मापोऽमृतमापः सम्राडापो विराडापः स्वराडापश्छन्दांस्यापो ज्योतींष्यापो यजूंष्यापः सत्यमापः सर्वा देवता आपो भूर्भुवः सुवराप ओम् १ आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा २ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना अहस्तदवलुम्पतु यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ३ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् । याया पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा ४ अहर्नो अत्यपीपरद्रात्रिर्नो अतिपारयद्रात्रिर्नो अत्यपीपरदहर्नो अतिपारयत् ५ इति श्रीमहानारायणोपनिषदि चतुर्दशः खण्डः १४ आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् गायत्री छन्दसां माता इदं ब्रह्म जुषस्व नः ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरोम् । गायत्रीमावाहयामि सावित्रीमावा- हयामि सरस्वतीमावाहयामि १ ॐ भूः । ॐ भुवः । ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यं । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् २ ॐ भूर्भुवः सुवर्महर्जनस्तपः सत्यं मधु क्षरन्ति । तद्ब्रह्म । तदाप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ३ ॐ तद्ब्रह्म । ॐ तद्वायुः । ॐतदात्मा । ॐ तत्सर्वम् । ॐ तत्पुरो- र्नमः ४ उत्तमे शिखरे देवी भूम्यां पर्वतमूर्धनि ब्राह्मणेभ्यो ह्यनुज्ञाता गच्छ देवि यथासुखम् ५ ॐ अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु त्वं यज्ञस्त्वं विष्णुस्त्वं वषट्कारस्त्वं रुद्रस्त्वं ब्रह्मा त्वं प्रजापतिः ६ अमृतोपस्तरणमसि ७ प्राणे निविष्टोऽमृतं गुहोमि प्राणाय स्वाहा । अपाने निविष्टोऽमृतं जुहोमि अपानाय स्वाहा । व्याने निविष्टोऽमृतं जुहोमि व्यानाय स्वाहा । उदाने निविष्टोऽमृतं जुहोमि उदानाय स्वाहा । समाने निविष्टोऽमृतं जुहोमि समानाय स्वाहा ८ प्राणे निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा अपाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । अपानाय स्वाहा । व्याने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । व्यानाय स्वाहा । उदाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । उदानाय स्वाहा । समाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । समानाय स्वाहा ९ अमृतापिधानमसि । ब्रह्मणि स आत्मामृतत्वाय १० इति श्रीमहानारायणोपनिषदि पंचदशः खण्डः १५ श्रद्धायां प्राणे निविश्यामृतं हुतम् । प्राणमन्नेनाप्यायस्व । अपाने निविश्यामृतं हुतम् । अपानमन्नेनाप्यायस्व व्याने निविश्यामृतं हुतम् । व्यानमन्नेनाप्यायस्व उदाने निविश्यामृतं हुतम् । उदानमन्नेनाप्यायस्व समाने निविश्यामृतं हुतम् । समानमन्नेनाप्यायस्व । ब्रह्मणि स आत्मा- मृतत्वाय १ प्राणानां ग्रन्थिरसि रुद्रोमाविशान्तकस्तेनान्नेनाप्यायस्व २ अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ३ मेधा देवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना त्वया जुष्टा जुषमाणा दुरुक्तान् बृहद्वदेम विदथे सुवीराः त्वया जुष्ट ऋषिर्भवतु देवी त्वया ब्रह्मा गतश्रीरुत त्वया त्वया जुष्टश्चित्रं विन्दते वसु सा नो जुषस्व द्रविणेन मेधे ४ मेधां म इन्द्रो ददातु मेधां देवी सरस्वती मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ ५ अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषताम् ६ आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषताम् ७ इति श्रीमहानारायणोपनिषदि षोडशः खण्डः १६ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः भवे भवे नातिभवे भजस्व मां भवोद्भवाय नमः १ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः क- लविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः २ अघोरेभ्योऽथ घोरेभ्यो घोरै घोरतरेभ्यः सर्वतः सर्व सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ३ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ४ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ५ ब्रह्म मेतु माम् । मधु मेतु माम् । ब्रह्म मेऽव मधु मेतु माम् । यस्ते सोम प्रजावत्सोऽभि सो अहम् । दुःस्वप्नहन्दुरुष्वहा । यांस्ते सोम प्राणांस्ता-ञ्जुहोमि त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । ब्रह्महत्यां वा एते घ्नन्ति ये ब्राह्मणास्त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्त्यासहस्रात्पंक्तिं पुनन्ति ॐ ६ ब्रह्ममेधया मधुमेधया ब्रह्म मेऽव मधुमेधया । अद्या नो देव सवितः प्र- जावत्सावीः सौभगम् । परा दुःष्वप्नियं सुव विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं तन्न आसुव मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । भ्रूणहत्यां वा एते घ्नन्ति ये ब्राह्मणा- स्त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्त्यासहस्रात्पंक्तिं पुनन्ति ॐ ७ ॐ ब्रह्ममेधवा मधुमेधवा ब्रह्म मेऽव मधुमेधवा बह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् वीरहत्यां वा एते घ्नन्ति ये ब्राह्मणास्त्रिसुपर्णं पठन्ति ते सोमं प्राप्नुवन्त्यासह- स्रात्पंक्तिं पुनन्ति ॐ ८ इति श्रीमहानारायणोपनिषदि सप्तदशः खण्डः १७ देवकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वा- हा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । अन्यकृतस्यैनसोऽवयजनमसि स्वाहा । यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसि स्वाहा । यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनमसि स्वाहा । यच्चाहमेनो विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनमसि स्वाहा । यत्स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि स्वाहा । यत्सुषुप्तश्च जाग्र-तश्चैनश्चकृम तस्यावयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा १ कामोऽकार्षीन्नाहं करोमि कामः करोति कामः कर्ता कामः कारयिता एतत्ते काम कामाय स्वाहा २ मन्युरकार्षीन्नाहं करोमि मन्युः करोति मन्युः कर्ता मन्युः कारयिता एतत्ते मन्यो मन्यवे स्वाहा ३ इति श्रीमहानारायणोपनिषद्यष्टादशः खण्डः १८ तिलाः कृष्णास्तिलाः श्वेतास्तिलाः सौम्या वशानुगाः । तिलाः पुनन्तु मे पापं यत्किञ्चिद्दुरितं मयि स्वाहा । यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । दुःस्वप्नं दुर्जनस्पर्शं तिलाः शान्तिं कुर्वन्तु स्वाहा । चौरस्यान्नं नवश्राद्धं ब्रह्महा गुरुतल्पगः । गोस्तेयं सुरापानं भ्रूणहत्यां तिलाः शमयन्तु स्वाहा ।गणान्नं गणिकान्नं कुष्टान्नं पतितान्नं भुक्त्वा वृषलीभोजनम् । श्रद्धा प्रजा च मेधा च तिलाः शान्तिं कुर्वन्तु स्वाहा । श्रीश्च पुष्टिश्चानृण्यं ब्रह्मण्यं बहुपुत्रिणम् । श्रद्धा प्रजा च मेधा च तिलाः शान्तिं कुर्वन्तु स्वाहा १ अग्नये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । ध्रुवाय भूमाय स्वाहा । ध्रुवक्षितये स्वाहा । धूमाय स्वाहा । अच्युतक्षितये स्वाहा । अग्नये स्विष्टकृते स्वाहा । धर्माय स्वाहा । अधर्माय स्वाहा । अद्भ्यः स्वाहा । ओषधिवनस्पतिभ्यः स्वाहा । रक्षोदेवजनेभ्यः स्वाहा । गृह्याभ्यः स्वाहा । अवसानेभ्यः स्वाहा । अवसानपतिभ्यः स्वाहा । सर्वभूतेभ्यः स्वाहा । कामाय स्वाहा । अन्तरिक्षाय स्वाहा । यदेजति जगति यच्च चेष्टति नान्यो भागो यत्नान्मे स्वाहा । पृथिव्यै स्वाहा । अन्तरिक्षाय स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । नक्षत्रेभ्यः स्वाहा । इन्द्राय स्वाहा । बृहस्पतये स्वाहा । प्रजापतये स्वाहा । ब्रह्मणे स्वाहा । स्वधा पितृभ्यः स्वाहा । नमो रुद्राय पशुपतये स्वाहा । देवेभ्यः स्वाहा । पितृभ्यः स्वधास्तु । भूतेभ्यो नमः । मनुष्येभ्यो हन्ता । परमेष्ठिने स्वाहा २ इति श्रीमहानारायणोपनिषद्येकोनविंशः खण्डः १९ ये भूताः प्रचरन्ति दिवानक्तं बलिमिच्छन्तो वितुदस्य प्रेष्ठाः तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहा १ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहञ्छूर विद्वान् जहि शत्रूंरपमृधो नुदस्वाथाभयं कृणुहि विश्वतो नः २ त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं शूरमिन्द्रम् ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ३ यत इन्द्र भयामहे ततो नो अभयं कृधि मघवञ्छग्धि तव तन्न ऊतिभिर्विद्विषो विमृधो जहि ४ स्वस्तिदा विशाम्पतिर्वृत्रहा विमृधो वशी वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ५ ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सनिता ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वागद्भिर्विह्वयामहे ६ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य विश्वमाभासि रोचनम् ७ उपयाम गृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्रा- जस्वते ८ विष्णुमुखा वै देवाश्छन्दोभिरिमाँल्लोकाननपजय्यमभ्यजयन् ९ श्री मे भजत । अलक्ष्मी मे नश्यत १० महाँ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु स्वस्ति नो मघवा करोतु हन्तु पाप्मानं योऽस्मान्द्वेष्टि ११ शरीरं यज्ञः शमलं कुसीदं तस्मिन्त्सीदतु योऽस्मान्द्वेष्टि १२ वरुणस्य स्कम्भनमसि वरुणस्य स्कम्भसर्जनमसि उन्मुक्तो वरुणस्य पाशः १३ त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः इतो धर्माणि धारयन् १४ प्राणापानव्यानोदानसमाना मे शुध्यन्ताम् ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा १५ वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिसंकल्पा मे शुध्यन्ताम् ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा १६ शिरःपाणिपादपार्श्वपृष्ठोदरजंघाशिश्नोपस्थपायवो मे शुध्यन्ताम् ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा १७ त्वक्चर्ममांसरुधिरस्नायुमेदोस्थिमज्जा मे शुध्यन्ताम् ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा १८ शब्दस्पर्शरसरूपगन्धा मे शुध्यन्ताम् ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा १९ पृथिव्यप्तेजोवाय्वाकाशा मे शुध्यन्ताम् ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा २० अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम् ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा २१ विचिटि स्वाहा २२ खखोल्काय स्वाहा २३ उत्तिष्ठ पुरुषाहरितपिंगल लोहिताक्ष देहि देहि ददापयिता मे शुध्यन्ताम् ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा २४ शुक्रशोणितओजांसि मे शुध्यन्ताम् ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा २५ इति श्रीमहानारायणोपनिषदि विंशः खण्डः २० ॐ स्वाहा १ सत्यं परं परं सत्यं सत्येन न सुवर्गाल्लोकाच्चयवन्ते कदाचन सतां हि सत्यं तस्मात्सत्ये रमन्ते । तप इति तपो नानशनात्परं यद्धि परं तपस्तद्दुर्धर्षं तद्दुराधर्षं तस्मात्तपसि रमन्ते । दम इति नियतं ब्रह्मचारिणस्तस्माद्दमे रमन्ते । शम इत्यरण्ये मुनयस्तस्माच्छमे रमन्ते । दानमिति सर्वाणि भूतानि प्रशंसन्ति दानान्नातिदुष्करं तस्माद्दाने रमन्ते । धर्म इति धर्मेण सर्वमिदं परिगृहीतं धर्मान्नातिदुश्चरं तस्माद्धर्मे रमन्ते प्रजननमिति भूयांसस्तस्माद्भूयिष्ठाः प्रजायन्ते तस्माद्भूयिष्ठाः । प्रजनने रमन्ते । अग्नेय इत्याहुस्तस्मादग्नय आधातव्याः । अग्निहोत्रमित्याहुस्तस्मादग्निहोत्रे रमन्ते । यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गतास्तस्माद्यज्ञे रमन्ते । मानसमिति विद्वांसस्तस्माद्विद्वांस एव मानसे रमन्ते । न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत् । य एवं वेदेत्युपनिषत् २ इति श्रीमहानारायणोपनिषदि एकविंशः खण्डः २१ प्राजापत्यो हारुणिः सौपर्णेयः प्रजापतिं पितरमुपससार किं भगवन्तः परमं वदन्तीति । तस्मै प्रोवाच सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितं तस्मात्सत्यं परमं वदन्ति । तपसा देवा देवतामग्र आयंस्तपसार्षयः सुवरन्वविन्दंस्तपसा सपत्नान्प्रणुदामारा-तीस्तपसि सर्वं प्रतिष्ठितं तस्मात्तपः परमं वदन्ति । दमेन दान्ताः किल्बि-षमवधून्वन्ति दमेन ब्रह्मचारिणः सुवरगच्छन्दमो भूतानां दुराधर्षं दमे सर्वं प्रतिष्ठितं तस्माद्दमः परमं वदन्ति । शमेन शान्ताः शिवमाचरन्ति शमेन नाकं मुनयोऽन्वविन्दन् । शमो भूतानां दुराधर्षं शमे सर्वं प्रतिष्ठितं तस्माच्छमः परमं वदन्ति । दानं यज्ञानां वरूथं दक्षिणा लोके दातारं सर्वभूतान्युपजीवन्ति दानेनारातीरपानुदन्त दानेन द्विषन्तो भित्रा भवन्ति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्ति । धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्टं प्रजा उपसर्पन्ति धर्मेण पापमपनुदन्ति धर्मे सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति । प्रजननं वै प्रतिष्ठा लोके साधु प्रजायांस्तन्तुं तन्वानः पितॄणामनृणो भवति तदेव तस्यानृणं तस्मात्प्रजननं परमं वदन्ति । अग्नयो वै त्रयी विद्या देवयानः पन्था गार्हपत्यमृक् पृथिवी रथन्तरमन्वाहार्यपचनो यजुरन्तरिक्षं वामदेव्यमा-हवनीयः साम सुवर्गो लोको बृहत्तस्मादग्नीन् परमं वदन्ति । अग्निहोत्रं सायम्प्रातर्गृहाणां निष्कृतिः स्विष्टं सुहुतं यज्ञक्रतूनां प्रायणं सुवर्गस्य लोकस्य ज्योतिस्तस्मादग्निहोत्रं परमं वदन्ति १ इति श्रीमहानारायणोपनिषदि द्वाविंशः खण्डः २२ यज्ञ इति यज्ञो हि देवानां यज्ञेन हि देवा दिवं गता यज्ञेनासुरानपानुदन्त यज्ञेन हि द्विषन्तो मित्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितं तस्माद्यज्ञं परमं वदन्ति । मानसं वै प्राजापत्यं पवित्रं मानसेन मनसा साधु पश्यति मानसा ऋषयः प्रजा असृजन्त मानसे सर्वं प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति । न्यास इत्याहुर्मनीषिणो ब्रह्माणम् । ब्रह्मा विश्वः कतमः । स्वयम्भूः प्रजापतिः संवत्सर इति । संवत्सरोऽसावादित्यो य एष आदित्ये पुरुषः स एव परमेष्ठी ब्रह्मात्मा । याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति पर्जन्येनौष-धिवनस्पतयः प्रजायन्त ओषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणाः प्राणैर्बलं बलेन तपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्तिः शान्त्या चित्तं चित्तेन स्मृतिः स्मृत्या स्मारं स्मारेण विज्ञानं विज्ञा-नेनात्मानं वेदयति । तस्मादन्नं ददन्त्सर्वाण्येतानि ददात्यन्नात्प्राणा भवन्ति भूतानां प्राणैर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मयोनिः । स वा एष पुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्चा- वान्तरदिशाश्च सर्वैः सर्वमिदं जगत् १ इति श्रीमहानारायणोपनिषदि त्रयोविंशः खण्डः २३ स भूतं स च भव्यं जिज्ञासासक्तिपूरितं जारयिष्ठाः । श्रद्धासत्यो महस्वांस्तप-सोपरिष्टाज्ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान् । तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः १ वसुरण्यो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि विश्वसृक् तेजो- दास्त्वमस्यग्नेर्वर्चोदास्त्वमसि सूर्यस्य द्युम्नोदास्त्वमसि चन्द्रमसः । उपयाम गृहीतोऽसि । ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत । एतद्वै महोपनिषदं देवानां गुह्यम् । य एवं वेद ब्रह्मणो महिमानमाप्नोति तस्माद्ब्रह्मणो महिमान- मित्युपनिषत् २ इति श्रीमहानारायणोपनिषदि चतुर्विंशः खण्डः २४ तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमा- नि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निर्दमः शम- यिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमग्नीत् । यावद्ध्रियते सा दीक्षा यदश्नाति तद्धविर्यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो यत्सञ्चरत्युपविशत्युत्तिष्ठते च स प्रवर्ग्यो यन्मुखं तदाहवनीयो याद्याहुतीराहुती यदस्य विज्ञानं तज्जुहोति यत्सायम्प्रातरत्ति तत्समिधो य-त्सायम्प्रातर्मध्यन्दिनं च तानि सवनानि । ये अहोरात्रे ते दर्शपूर्णमासौ ये-ऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणाः सर्ववेदसं वा एतत्सत्रं यन्मरणं तदवभृथः । एतद्वै जरामर्यमग्निहोत्रं सत्रं य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छति । एतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्ब्राह्मणो महिमानमाप्नोति तस्माद्ब्राह्मणो महिमानमाप्नोतीत्युपनिषत् १ इति श्रीमहानारायणोपनिषदि पञ्चविंशः खण्डः २५ इत्याथर्वणीया महानारायणोपनिषत्समाप्ता